वाचस्पत्यम्
काय
links:
Menu अ–ह
Prev कामि–काम्ल
Next कायच–कारी
काय
UpasanaYoga
.org

काय = त्रि० कः प्रजापतिः, कं सुखं वा ततः देवताद्यर्थे तस्येदं वा अण् “कस्येत्” पा० इदन्तादेशे वृद्धिः। प्रजापतिदेवताके हविरादौ “अथ काय एककपालः पुरो डाशोभवति कं वै प्रजापतिः प्रजाभ्यः कायेनैकादशकपाले न पुरोडाशेन कुरुते तस्मात्काय एककपालः पुरोडाशोभवति” शत० ब्रा० २, ५, २, १३! स्त्रियां ङीप् कायी वशा। “कायं कनिष्ठिकामूले तीर्थमुक्तं करस्य तु” शङ्खोक्ते २ कनिष्ठाङ्गुलिमूलस्थानरूपे प्रजापतितीर्थे न०। “ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत्। कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन। अङ्गुष्ठ मूलस्य तले ब्राह्मं तीर्थं प्रचक्षते। कायमङ्गुलिमूलेऽग्रे दैवं पित्र्यं तयोरधः” मनुना पवित्रतासाधनतया तत्तत्स्थानस्य तीर्थत्वमुक्तम्। याज्ञ० कनिष्ठदेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च। प्रजापतिपितृब्रह्मदेवतीथान्यनुक्रमात्”। तेन कनिष्ठाङ्गुलिमूलस्य प्रजा- पतितीर्थत्वात् कायत्वं सुव्यक्तमुक्तम्। एतेन शब्दकल्पद्रुमे मेदिनिस्थकदैवतशब्दस्य ब्राह्मतीर्थपरताव्याख्यानं निर्मूल ब्राह्मप्राजाप्रत्यतीर्थयो उक्तस्मृतिषु भेदेन निर्देशात्। कायसम्बन्धिकार्य्योपयोगित्वात् ३ मनुष्यतीर्थे न० मेदि०। ४ प्रजापतिदेवताके विवाहभेदे पु०। “इत्युक्त्वाऽऽचरतां धर्म्ममिति वाचानुभाष्य च। कन्याप्रदानमभ्यर्च्य प्राजापत्योविधिः स्मृतः” इति प्राजाप्रत्यं परिभाष्य प्राजापत्यकाययोः पर्य्यायत्वाशयेन मनुना तारयन्तीत्यनुवृत्तौ “आर्षोढाजः सुतस्त्रीं स्त्रीन् षट् षट् कायोढजः सुतः” इत्युक्तम्। “कायोढज इत्यत्र वह भावे क्त ऊढं विवाहः कायादूढात् विवाहाज्जायते इत्यर्थः। चीयतेऽदः चि–कर्म्मणि घञ् चेः कत्वम्। ५ मूलधने पु०। मूलधनस्य वृद्ध्या उपचीयमानत्वात् तथात्वम् “कायाविरोधिनी शश्वत् पणवृद्ध्या तु कायिका” नारदस्मृतिः। करणे घञ्। स्वभावे ६ वस्तुस्वभावेन प्रदार्थानां चीयमानत्वात् तथात्वम्। चिधातोर्निश्चयपरत्वे कर्म्मणि घञ्। ७ लक्ष्येमेदि० लक्षणेन लक्ष्यस्य निश्चीयमानत्वात्तथात्वम्। भावे घञ्। ८ संघे पु० मेदि० चीयते भक्षितान्नादिरसैः कर्म्मणि, चीयतेऽस्थ्यादिकमत्र आधारे वा घञ्। ९ देहे तस्य विशेषस्वरूपं याज्ञ० मिताक्षरयोर्दर्शितं यथा “कायस्वरूपं विवृण्वन्नाह “तस्य षोढा शरीराणि षट् त्वचो धारयन्ति च। षडङ्गानि तथास्थ्नाञ्च सह षष्ट्या शतत्रयम्” याज्ञ०। तस्यात्मनोयानि जरायुजाण्डजशरीराणि तानि प्रत्येकं षट्प्रकाराणि रक्तादिषड्धातुपरिपाकहेतुभूतषडग्निस्थानयोगित्वेन। तथाह्यन्नरसो जाठराग्निना पच्यमानो रक्तताम्प्रतिपद्यते रक्तञ्च स्वकोशस्थाग्निना पच्यमानं मांसत्वम्, मांसञ्च स्वकोशानलपरिपक्वं मेदस्त्वम्, मेदोऽपि स्वकोशवह्निना पक्वमस्थिताम्, अस्थ्यपि स्वकोशशिस्विपरिपक्वं मज्जात्वम्, मज्जापि स्वकीशपावकपरिपच्यमानश्चरमधातुतया परिणमते। चरमधातीस्तु परिणतिर्नास्तीति सएवात्मनः प्रथमः कोश इत्येवं षट्कोशाग्नियोगित्वात्षट्प्रकारत्वं शरीराणाम्। अन्नरसरूपस्य तु प्रथमधातोरनियतत्वान्न तेन प्रकारान्तरत्वम्। तानि च शरीराणि षट् त्वचोधारयन्ति रक्तमांसमेदोस्थिमज्जाशुक्राख्याः षट्धातव एव रम्भास्तम्भत्वगिव बाह्याभ्यन्तररूपेण स्थिताः। त्वगिवाच्छादकत्वाच्च षट् त्वचोधारयन्ति। तदिदमायुर्वेदे प्रसिद्धम्। तथाङ्गानि च षडेव। करयुग्मं चरण- युगलमुत्तमाङ्गङ्गात्रमिति। अस्थ्नान्तु षष्टिसहितं शतत्रयमुपरितनषट्श्लोक्या वक्ष्यमाणमवगम्यम्। किञ्च “स्थालैः सह चतुष्रष्टिर्दन्ता वै विंशतिर्नखाः। पाणिपादशलाकाश्च तासां स्थानचतुष्टयम्” या०। स्थालानि दन्तमूलप्रदेशस्थान्यस्थीनि द्वात्रिंशत् तैः सह द्वात्रिंशद्दन्ताश्चतुःषष्टिर्भवन्ति। नखाः कररुहा विंशतिर्हस्त पादस्थानि शलाकाकाराण्यस्थ्नीनि मणिबन्धस्योपरिवर्त्तीन्यङ्गुलिमूलस्थानि विंशतिरेव। तेषां नखानां शलाकास्थ्नाञ्च स्थानचतुष्टयं, द्वौ चरणौ द्वौ करौ चेत्येवमस्थ्नाञ्चतुरुत्तरं शतम्। किञ्च। “षष्ट्यङ्गलीनां द्वे पार्ष्ण्योर्गुल्फेषु च चतुष्टयम्। चत्वार्य्यरत्निकास्थीनि जङ्घयोस्तावदेव तु” या०। विंशतिरङ्गुलयस्तासामेकैकस्य त्रीणि त्रीणीत्येव मङ्गुलिसम्बद्धान्यस्थीनि षष्टिर्भवन्ति। पादयोः पश्चिमौ भागौ पार्ष्णी तयोरस्थिनी द्वे एकैकस्मिन् पादे गुल्फौ द्वावित्येवञ्चतुर्षु गुल्फेषु चत्वार्य्यस्थोनि। बाह्वोररत्निप्रमाणानि चत्वार्य्यस्थीनि। जङ्घयोश्च तावदेव चत्वार्य्ये वेत्येबञ्चतुः सप्ततिः। किञ्च “द्वेद्वे जानुकपोलोरुफलकांससमुद्भवे। अक्षतालूषके श्रोणिफलके च विनिर्दिशेत्” या०। जङ्घोससन्धिर्जानुः। कपोलोगल्लः। ऊरुः सक्थि तत्फलकम्। अंसोभुजशिरः। अक्षः कर्णनेत्रयोर्मध्ये शङ्खादधोभागः। तालूषकङ्काकुदम्। श्रोणी ककुद्मती तत्फलकम्। तेषामेकैकत्रास्थिनी द्वे द्वे विनिर्दिशेदित्येवं चतुर्दशास्थीनि भवन्ति। किञ्च “भगास्थ्येकन्तथा पृष्ठे चत्वारिंशच्च पञ्च च। ग्रीवा पञ्चदशास्थिः स्याज्जत्त्व्रकैकन्तथा हनुः” या०। गुह्यास्थ्येकं, पृष्ठे पश्चिमभागे पञ्चचत्वारिंशदस्थीनि भवन्ति। ग्रीवा कन्धरा सा पञ्चदशास्थिःस्यात् भवेत्। वक्षोऽसयोः सन्धिर्जत्रु प्रतिजत्त्वेकैकम्। हनुश्चिवुकम्। तत्राप्येकमस्थि इत्येवञ्चतुःषष्टिः। किञ्च “तन्मूले द्वे ललाटाक्षिगण्डे नासाघनास्थिका। पार्श्वकाः स्थालकैः सार्द्धमर्बुदैश्च द्विसप्ततिः” या०। तस्य हनोर्मूलेऽस्थिनी द्वे। ललाटम्भालम्। अक्षि चक्षुः। गण्डः कपोलाक्षयोर्म्मध्यप्रदेशः तेषां समाहरोललाटाक्षिगण्डम्। तत्र प्रत्येकमस्थियुगलम्। नासाघनसंज्ञकाऽस्थिमती। पार्श्वकाः कक्षाधःप्रदेशसंबद्धान्यस्थीनि। तदाधारभूतानि स्थालकानि तैः स्थालकैः अर्बुदैश्चास्थिविशेषैः सह पार्श्वका द्विसप्ततिः। पूर्ब्बोक्तैश्च नवभिः सार्द्धमेकाशीतिर्भवन्ति। किञ्च “द्वौ” शङ्खकौ कपालानि चत्वारि शिरसस्तथा। उरःसप्तदशा- स्थि स्यात् पुरुषस्यास्थिसंग्रहः” या०। भ्रूकर्णयोर्मध्यप्रदेशावस्थिविशेषौ शङ्खकौ। शिरसः सम्बन्धीनि चत्वारि कपालानि। उरोवक्षः तत्सप्तदशास्थिकं इत्येवं त्रयोविंशतिः। पूर्वोक्तैश्च सह षष्ट्यधिकं शतत्रयमित्येवं पुरुषस्यास्थिसंग्रहः कथितः। सविषयाणि ज्ञानेन्द्रियाण्याह। “गन्धरूपरसस्पर्शशब्दाश्च विषयाः स्मृताः। नासिकालोचने जिह्वात्वक्श्रोत्रञ्चेन्द्रियाणि च” या०। एते गन्धादयो विषयाः पुरुषस्य बन्धनहेतवः विषयशब्दस्य षिञ् बन्धन इत्यस्य धातोर्व्युत्पन्नत्वात्। एतैश्च गन्धादिभिर्बोध्यत्वेन व्यवस्थितैः। स्वस्वगोचरसंवित्साधनतयाऽनुमेयानि घ्राणादीनि पञ्चेन्द्रियाणि भवन्ति। कर्मेन्द्रियाणि दर्शयितुमाह। “हस्तौ पायुरुपस्थञ्च जिह्वा पादौ च पञ्च वै। कर्मेन्द्रियाणि जानीयान्मनश्चैवोभयात्मकम्” या०। हस्तौ प्रसिद्धौ। पायुर्गुदम्। उपस्थं रतिसम्पाद्यसुखसाधनम्। जिह्वा प्रसिद्धा, पादौ च एतानि हस्तादीनि पञ्चकर्मेन्द्रियाणि। आदाननिर्हारानन्दाहारविहारादिकर्मसाधनानि जानीयात्। मनोऽन्तःकरणं युगपज्ज्ञानानुत्पपत्तिगम्यं तच्च बुद्धिकर्मेन्द्रियसहकारितयोभयात्मकम्। प्राणायतनानि दर्शयितुमाह “नाभिरोजो गुद शुक्रं शोणितं शङ्खकौ तथा। मूर्द्धांसकण्ठहृदयं प्राणस्यायतनानि तु” या०। नाभिप्रभृतीनि दश प्राणस्य स्थानानि। समाननाम्नः पबनस्य सकलाङ्गचारित्वेऽपि नाभ्यादिस्थानविशेषवाचीयुक्तिप्राचुर्य्याभिप्रायेण। प्राणायतनानि प्रपञ्चयितुमाह। “वपावसावहननं नाभिः क्लोम यकृत् प्लिहा। क्षुद्रान्त्रं बुक्वकौ वस्तिः पुरीषाधानमेव च। आमाशयोऽथ हृदयं स्थूलान्त्रं गुदएव च। उदरञ्च गुदौ कोष्ट्यौ विस्तारोऽयमुदाहृतः” या०। वपा प्रसिद्धा। वसा मांसस्नेहः। नाभिः प्रसिद्धा। अवहननं पुप्पुसः। प्लीहा आयुर्वेदप्रसिद्धः। तौ च मांसपिण्डाकारौ सव्यकुक्षिगतौ। यकृत्कालिका। क्लोम मांसपिण्डस्तौ च दक्षिणकुक्षिगतौ। क्षद्रान्त्रं हृत्स्थान्त्रम्। बुक्वकौ हृदयसमीपस्थौ मांस पिण्डौ। वस्तिर्मूत्राशयः। पुरीषाधानं पुरीषाशयः। आमाशयोऽपक्वान्नस्थानम्। हृदयं हृत्पुण्डरीकस्। स्थूलान्त्रगुदोदराणि प्रसिद्धानि। बाह्यात् गुदवलयदिन्तर्गुदवलये द्वे। तौ च गुदौ कोष्ठ्यौ कोष्ठे नाभेरधःप्रदेशेभवौ। अयञ्च प्राणायतनस्य विस्तार उक्तः पूर्वश्लोके तु संक्षेपः। अतएव पूर्वश्लोकोक्तानां केषाञ्चिदिह पाठः। पुनः प्राणायतनप्रपञ्चार्थमाह। कनीनिके चाक्षिकूटे शष्कुली कर्णपत्रकौ। कर्णौ शङ्खौ भ्रुवौ दन्तवेष्टावोष्ठौ ककुन्दरे। वङ्क्षणौ वृषणौ बुक्वौ श्लेष्मसङ्घातजौ स्तनौ। उपजिह्वस्फिजौ बाहू जङ्घोरुषु च पिण्डिका। तालूदरस्वस्तिशीर्षं चिवुके गलशुण्डिके। अवटश्चैवमेतानि स्थानान्यत्र शरीरके। अक्षिकर्णचतुष्कञ्च यद्धस्तहृदयानि च। नवच्छिद्राणि तान्येव प्राणस्यायतनानि तु” या०। कनीनिके अक्षितारके। अक्षिकूटे अक्षिनासयोःसन्धी, शष्कुली कर्ण्णशष्कुली। कर्णपत्रकौ कर्णपाल्यौ। कर्णौ प्रसिद्धौ। दन्तवेष्टौ दन्तपाल्यौ। ओष्ठौ प्रसिद्धौ। ककुन्दरे जघनकूपकौ। वङ्क्षणौ जघनोरुसन्धी। बुक्कौ पूर्वोक्तौ। स्तनौ च श्लेष्मसंघातजौ। उपजिह्वा घण्टिका। स्फिचौ कटिप्रोथौ। बाहूप्रसिद्धौ। जङ्घोरुषु च तथा पिण्डिका। जङ्घयोरूर्वोश्च पिण्डिका मांसलप्रदेशः। गलशुण्डिके हनुमूलगलयोः सन्धी। शीर्षं शिरः। अवटः शरीरे यः कश्चिन्निम्नोदेशः कण्ठमूलकक्षादिः। अवटुरिति पाठे कृकाटिका। तथाक्ष्णोः कनीनिकयोः प्रत्येकं श्वेतपार्श्वद्वयमिति वर्णचतुष्टयम्। यद्वाक्षिपुटचतुष्टयम्। शेषं प्रसिद्धम्। एवमेतानि कुत्सिते शरीरे स्थानानि। तथाक्षियुगलं कर्णयुग्मं नासाविवरद्वयमास्यं पायुरुपस्थमित्येतानि पूर्वोक्तानि नव छिद्राणि च प्राणस्यायतनान्येव। किञ्च “सिराशतानि सप्तैव नव स्नायु शतानि च” या०। सिरा नाभिसम्बद्धाः चत्वारिंशत्सं ख्याः वातपित्तश्लेष्मवाहिन्यः सकलकलेवरव्यापिन्यो नानाशाखाः सत्यः सप्तशतसंख्या भवन्ति। तथाङ्गप्रत्यङ्गसन्धिबन्धनाःस्नायवो नव शतानि। धमन्यो नाम नाभेरुद्भूताश्चतुर्व्वि शतिसंख्याः प्राणादिवायुवाहिन्यः शाखाभेदेन द्विशतं भवन्ति। पेश्यः पुनर्मांसलाकारा ऊरुपिण्डकाद्यङ्गप्रत्यङ्गसम्बन्धिन्यः पञ्च शतानि भवन्ति। पुनश्चासामेव शिरादीनां शाखाप्राचुर्य्येण संख्यान्तरमाह। “एकोनत्रिंशल्लक्षाणि तथा नव शतानि च। षट्पञ्चाशच्च जानीत शिराधमनि संज्ञिताः” या०। शिराधमन्यो र्मिलिताः शाखोप शाखाभेदेन एकोनत्रिंशल्लक्षाणि नव शतानि षट्पञ्चाशच्च भवन्तीत्येवं हे सोमश्रवःप्रभृतयो मुनयः! जानीत। किञ्च “त्रयोलक्षास्तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम्। सप्तोत्तरं मर्मशतं द्वे च सन्धिशते तथा” या०। शरीरिणां श्मश्रूणि केशाश्च मिलिताः सन्तस्त्रयो लक्षाविज्ञेयाः। मर्माणि मरणकराणि क्लेशकराणि च स्थानानि तेषां सप्तोत्तरं शतं विज्ञेयम्। अस्थ्नान्तु द्वे सन्धिशते स्नायु- शिरादिसन्धयः पुनरनन्ताः। सकलशरीरमुषिरादिसंख्या माह। “रीम्णां कीष्ट्यस्तु षञ्चाशच्चत्स्रः कीष्ट्यएव च। सप्तषष्टिस्तथा लक्षाः सार्द्धाः स्वेदायनैः सह। वायवीयैर्विगण्यन्ते विभक्ताः परमाणवः। यद्यप्येकोऽनुवेदैषां भावानाञ्चैव संस्थितिम्” या०। पूर्वोदितशिराकेशादिसहितानां रोग्णां परमाणवः सूक्ष्मसूक्ष्मतररूपाभागाः स्वेदस्रवणसुषिरैः सह चतुःपञ्चाशत्कोट्यः तथा सप्तोत्तरषष्टिलक्षाः सार्द्धाः पञ्चाशत्सहस्रसहिताः वायवीयैर्विभक्ताः पवनपरमाणुभिः पृथक् कृताविगण्यन्ते। एतच्च शास्त्रदृष्ट्या अभिहितम् चक्षुरादिकरणपथगोचरत्वाभावादस्यार्थस्य। इममतिगहनमर्थं शिरादिभावसंस्थानरूपं हे मुनयः! भवतां मध्ये यदि कश्चिदनुवेद वेत्ति सोऽपि एकोमहान् अग्र्यो बुद्धिमताम्। अतो यत्नतो बुद्धिमता बोद्धव्या भावसंस्थितिः। शारीररसादिपरिमाणमाह “रसस्य नव विज्ञेया जलस्याञ्जलयो दश। सप्तैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्त्तिताः। षट्श्लेष्मा पञ्च पित्तन्तु चत्वारो मूत्रमेव च। वसात्रयी द्वौ तु मेदो मज्जैकोऽर्द्धऽन्तु मस्तके। श्लेष्मौजसस्तावदेव रेतसस्तावदेव तु। इत्येतदस्थिरं वर्ष्म यस्य मोक्षायकृत्यसौ” याज्ञ० सम्यक्परिणताहारस्य सारोरसस्तस्य परिमाणं नवाञ्जलयः। पार्थिवपरमाणुसंश्लेषनिमित्तस्य जलस्याञ्जलयो दश विज्ञेयाः। पुरीषस्य वर्चस्कस्य सप्तैव। रक्तस्य जाठरानलपरिपाकापादितलौहित्यस्यान्नरसस्याष्टावञ्जलयः प्रकीर्त्तिताः। श्लेष्मणः कफस्य षडञ्जलयः। पित्तस्य तेजसः पञ्च। मूत्रस्योच्चारस्य चत्वारः। वसायामांसस्नेहस्य त्रयः। मेदसो मांसरसस्य द्वावञ्जली। मज्जा त्वस्थिगतसुषिरगतस्तस्यैकोऽञ्जलिः। मस्तके पुनरर्द्धाञ्जलिः। श्लेष्मौजसः श्लेष्मसारस्य। तथा रेतसश्चरमधातोस्तावदेवार्द्धाञ्जलिरेव। एतच्च समधातुपुरुषाभिप्रायेणोक्तम्। विषमधातोस्तु न नियमः। “वैलक्षण्याच्छरीराणामस्थायित्वात् तथैव च। दोषधातुमलानां च परिमाणं न विद्यते” इत्यायुर्वेदस्मरणात्। इतीदृशमस्थिस्नाय्वाद्यारब्धमेतदशुचि निधानं वर्ष्मास्थिरमिति यस्य बुद्धिरसौ कृतो पण्डितोमोक्षाय समर्थो भवति वैराग्यनित्यानित्यविवेकयोर्मोक्षोपायत्वात्” मिता०। सुश्रुते कायोत्पत्तिकारणोक्तिपूर्ब्बकं तत्स्वरूपविभागादिकं दर्शितं यथा। “अग्नि सोमो वायुः सत्वं रजस्तमः पञ्चेन्द्रियाणि भूतात्मेति प्राणाः तस्य खल्वेवम्प्रवृत्तम्य शुक्रशोणितस्याभिपर्च्यमानस्य क्षेरस्येव सान्तानिकाः सप्त त्वचो भवन्ति। तासां प्रथमाऽव भासिनी नाम्, या सर्व्ववर्णानवभासयति पञ्चविधाञ्च छायां प्रकाशयति सा व्रीहेरष्टादशभागप्रमाणा सिध्मपद्मकण्टकाधिष्ठाना, द्वितीया लोहिता नाम षोडशभागप्रमाणा तिलकालकन्यच्छव्यङ्गाधिष्ठामा, तृतीया श्वेता नामद्वादशभागप्रमाणा चर्मदलाजगल्लीमशकाधिष्ठाना, चतुर्थीताम्रा नामाऽष्टभागप्रमाणा विविधकिलासकुष्ठाधिष्ठाना, पञ्चभी वेदिनी नाम व्रीहिपञ्चभागप्रमाणा, कुष्ठविसर्पाधिष्ठाना, षष्ठी रोहिणी नाम व्रीहिप्रमाणा ग्रन्थ्यपच्यर्बुदश्लीपदगलगण्डाधिष्ठाना, सप्तमी मांसधरा नाम व्रीहिद्वयप्रमाणा भगन्दरविद्रध्यर्शीऽधिष्ठाना, यदेतत्प्रमाणम् निर्दिष्टं तन्मांलेष्ववकाशेषु न ललाटे सूक्ष्माङ्गुल्यादिष। यतो वक्ष्यत्युदरेषु व्रीहिमुखेनाङ्गुष्ठोदरप्रमाणमवगाढम् विध्येदिति।

कलाःखल्वपि सप्त सम्भवन्ति धात्वाशयान्तरमर्य्यादाः। भवतश्चात्र। यथाहि सारः काष्ठेषु छिद्यमानेषु दृश्यते। तथा धातुर्हि मांसेषु छिद्यमानेषु दृश्यते। स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा। श्लेष्मणा वेष्टितांश्चापि कलाभागांस्तु तान् विदुः। तासां प्रथमा मांसधरा नामयस्यां मांसे शिरास्नायुधमनीस्रोतसां प्रताना भवन्ति भवति चात्र। यथा विसमृणालानि विवर्द्धन्ते समन्ततः। भूमौ पङ्कोदकस्थानि तथा मांसे शिरादयः। द्वितीया रक्तधरा नाम मांसस्याभ्यन्तरतस्तस्यां शोणितं विशेषतश्च शिरासु यकृत्प्लीह्नोश्च भवति। भवति चात्र वृक्षाद्यथाभिप्रहतात् क्षीरिणः क्षीरमावहेत्। मांसादेवं क्षतात् क्षिप्रं शोणितं सम्प्रसिच्यते। तृतीया मेदोधरा नाम, मेदोहि सर्व्वभूतानामुदरस्थमण्वस्थिषु च महत्सुच मज्जा भवति। भवति चात्र। स्थूलास्थिषु विशेषेण मज्जा त्वभ्यन्तराश्रितः। अथेतरेषु सर्व्वेषु सरक्तं मेदौच्यते। शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्त्तिता। चतुर्थी श्लोष्मधरा नाम सर्व्वसन्धिषु प्राणभृतां भवति। भवति चात्र। स्नेहाभ्यक्ते यथा त्वक्षे चक्रं साधु प्रवर्त्तते। सन्धयः साधु वर्त्तन्ते संश्लिष्टाः श्लेष्मणा तथा। पञ्चमी पुरीषधरा नाम, याऽन्तःकोष्ठे मलमभिविभजते पक्वाशयस्था। भवति चात्र। यकृत्समन्तात् कोष्ठञ्च तथान्त्राणि समाश्रिता। उण्डुकस्थं विभजते मलं मलधरा कला। षष्ठी पित्तधरा नाम या चतुर्व्विधमन्नपानमुपयुक्तमामाशयात् प्रच्युतं पक्वाशयोपरिस्थितं धारयति। भवति चात्र। अशितं खादितं पीतं लीढंकोष्ठगतं नृणाम्। तज्जीर्य्यति यथाकालं शोषितं पित्ततेजसा। सप्तमी शुक्रधरा नाम, या सर्व्वप्राणिनां सर्व्वशरीरव्यापिनी। भवन्ति चात्र यथा पयसि सर्पिस्तु गूडश्चेक्षौ रसो यथा। शरीरेषु तथा शुक्रं नॄणां विद्याद् भिषग्वरः। द्य्वङ्गुले दक्षिणे पार्श्वे वस्तिद्वारस्य चाप्यधः। मूत्रस्रोतःपथाच्छ्रुक्रं पुरुषस्य प्रवर्त्तते। कृत्स्नदेहाश्रितं शुक्रं प्रसन्नमनसस्तथा। स्त्रीषु व्यायच्छतश्चापि हर्षात्तत् सम्प्रवर्त्तते। गृहीतगर्भाणामार्त्तववहानां स्रोतसां वर्त्मान्यवरुध्यन्ते गर्भेण, तस्माद्गृहीतगर्भाणामार्त्तवं न दृश्यते। ततस्तदधः प्रतिहतः मूर्द्धमागतमपरञ्चोपचीयमानमपरेत्यभिधीयते। शेषञ्चोर्द्धतरमागतं पयोधरावभिप्रतिपद्यते तस्माद्गर्भिण्यः पीनोन्नतपयोधरा भवन्ति। गर्भस्य यकृत्प्लीहानौ शोणितजौ, शोणितफेनप्रभवः षुप्पुसः शोणितकिट्टप्रभवौण्डुकः। असृजः श्लेष्मणश्चापि यः प्रसादः परोमतः। तं पच्यमानं पित्तेन वायुश्चाप्यनुधावति। ततोऽस्यान्त्राणि जायन्ते गुदं वस्तिश्च देहिनः। उदरे पच्यमानानामाध्मानाद्रुक्मसारवत्। कफशोणितमांसानां सारो जिह्वा प्रजायते। यथार्थमूष्मणा युक्तो वायुः स्रोतांसि दारयेत्। अनुप्रविश्य पिशितं पेशीर्विभजते तथा। मेदसः स्नेहमादाय शिरा स्नायुत्वमाप्नुयात्। शिराणां च मृदुः पाकः स्नायूनाञ्च ततः स्वरः। आशय्याऽभ्यासयोगेन करोत्याशयसम्भवम्। रक्तमेदःप्रसादाद्बुक्कौ मांसासृककफमेदःप्रसादाद्वृषणौ, शोणितकफप्रसादजं हृदयं यदाश्रया हि धमन्यः प्राणवहाः। तस्याधोवामतः प्लीहा फुप्पुसश्च दक्षिणतो यकृत् क्लोम च। तद्धृदयं विशेषेण चेतनास्थानमतस्तस्मिंस्तमसाऽऽवृते सर्व्वप्राणिनः स्वपन्ति। भवति चात्र। पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम्। जाग्रतस्तद्विकसति स्वपतश्च निमीलति। निद्रान्तु वैष्णवी” पाप्मानमुपदिशन्ति सा स्वभावत एव सर्वप्राणिनोऽभिस्पृशति”। इतः परं निद्राविशेषकारणादिकमुक्तं तच्च निद्राशब्दे वक्ष्यते। “शुक्रशोणितं गर्भाशयस्थमात्मप्रकृतिविकारसंमूर्च्छितं गर्भं इत्युच्यते। तञ्च चेतनावस्थितं वायुर्व्विभजते तेज एन पचति, आपः क्लेदयन्ति, पृथिवी संहन्ति, आकाशं विवर्द्धयति। एवंविवर्द्धितः स यदा हस्तपादजिह्वाघ्राणकर्ण्णनितम्बादिभिरङ्गरुपेतस्तदा शरीरमिति संज्ञां लभते तच्च षडङ्गं शाखाश्चतस्रो मध्यं पञ्चमं षष्ठं शिर इति।” ततः प्रत्यङ्गविभाग उक्तः तच्च अङ्गशब्दे ७२ पृ० दर्शितम्। एवं समासत उक्त्वा विस्तारत उक्तं यथा “विस्तारोऽत ऊर्द्धम्। त्वचोऽभिहिताः कला धातवो मला दोषा यकृत्प्लीहानौ पुष्पुस उण्डुको हृदयं बुक्कौ च। आशयास्तु वाताशयः पित्ताशयः श्लेष्माशयो रक्ताशय आमाशयः पक्वाशयो मूत्राशयः स्त्रीणां गर्भाशयोऽष्टम इति। सार्द्धत्रिव्यामान्यन्त्राणि पुंसां, स्त्रीणा मर्द्धव्यामहीनानि। श्रवणनयनवदनघ्राणगुदमेढ्राणि नव स्रोतांसि नराणां बहिर्मुखान्येतान्येव, स्त्रीणामपराणि च त्रीणि द्वेस्तनयोरधस्ताद्रक्तवहञ्च।

षोडश कण्डराः। तासाञ्चतस्रः पादयोस्तावत्यो हस्तग्रीवापृष्ठेषु। तत्र हस्तपादगतानां कण्डराणां नखाः प्ररोहाः। ग्रीवाहृदयनिबन्धिनीनामधोभागगतानां मेढ्रश्रोणिपृष्ठनिबन्धिनीनामधोभागगतानां विम्बः मूर्द्धोरुवक्षोऽक्षपिण्डादीनाञ्च।

मांसशिरास्नाय्वस्थिजालानि पत्येकं चत्वारि चत्वारि। तानि मणिबन्धगुल्फसंश्रितानि परस्परनिबद्धानि परस्वरसंश्लिष्टानि परस्परगवाक्षितानि चेति यैर्गवाक्षितमिदं शरीरम्।

षट् कूर्च्चास्ते हस्तपादग्रीवामेढ्रेषु। हस्तयोर्द्वौ पादयोर्द्वौ ग्रीवामेट्रयोरेकैकः।

महत्यो मांसरज्जवश्चतस्रः पृष्ठवंशमुभयतः पेशीनिबन्धनार्थं द्वे बाह्मे आभ्यन्तरे च द्वे।

सप्त सेवन्यः। शिरसि विभक्ताः पञ्च, जिह्वाशेफसोरेकैका। ताः परिहर्त्तव्याः शस्त्रेण चतुर्दशास्थ्रां संघाताः। तेषां त्रयोगुल्फजानुवङ्क्षणेषु एतेनेतरसक्थि ३ बाहू च ६ व्याख्यातौ त्रिकशिरसोरेकैकः २।

चतुर्द्दशैव सीमन्ताः। तेचास्थिसंघातवद्गणनीया यतस्तैर्युक्ता अस्थिसङ्घाताः। ये ह्युक्ताः। सङ्घातास्तु खल्वष्टादशैकेषाम्। त्रीणि सषष्टीन्यस्थिशतानि वे दवादिनो भाषन्ते। शल्यतन्त्रेतु त्रीण्येव शतानि। तेषां सविंशमस्थिशतं शाखासु। सप्तदशोत्तरं शतं श्रोणिपार्श्वपृष्ठोदरोरस्सु। ग्रीवां प्रत्युर्द्ध्वं त्रिषष्टिः। एवमस्थ्रां त्रीणि शतानि पूर्य्यन्ते” अस्थिशब्दे ५६८ पृ० विवृतिः। “एकैकस्यान्तु पादाङ्गुल्यां त्रीणि त्रीणि तानि पञ्चदश। तलकूर्च्चगुल्फसंश्रितानि दश। पार्ष्ण्यामेकम्। जङ्घायां द्वे। जानुन्येकम्। एकमूराविति। त्रिंशदेवमेकस्मिन् सक्थ्नि भवन्ति। एतेनेतरसक्थि ३० बाहू ६० च व्याख्यातौ। श्रोण्यां पञ्च तेषां गुदभगनितम्बेषु चत्वारि। त्रिकसंश्रितमेकम्। पार्श्वे षट्त्रिं शदेवमेकस्मिन्, द्वितीयेऽप्येवम् ३६। पृष्ठे त्रिंशत्। अष्टावुरसि। द्वे अक्षकसंज्ञे। ग्रीकाथां नवकम्। कण्ठनाड्यां चत्वारि। द्वे हन्वोः। दन्ता द्वात्रिंशत्। नासायां त्रीणि। एकं तालुनि। गण्डकर्ण्णशङ्खेष्वेकैकम्। षट् शिरसि।

एतानि पञ्चविधानि भवन्ति। तद्यथा कपालरुचकतरुण वलयनलकसंज्ञानि। तेषां जानुनितम्बांसगण्डतालुशङ्खशिरस्सु कपालानि। दशनास्तु रुचकानि। घ्राणकर्ण्णग्रीवाक्षिकोशेषु तरुणानि। पाणिपादपार्श्वपृष्ठोदरोरस्सुवलयानि, शेषाणि नलकसंज्ञानि। भवन्ति चात्र। अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः। अस्थिसारैस्तथा देहा ध्रियन्ते देहिनां ध्रुवम्। तस्माच्चिरविनष्टेषु त्वङ्मांसेषु शरीरिणाम्। अस्थीनि न विनश्यन्ति साराण्येतानि देहिनाम्। मांसान्यत्र निबद्धानि शिराभिः स्नायुभिस्तथा। अस्थीन्यालम्बनं कृत्वा न शीर्य्यन्ते पतन्ति वा।

सन्धयस्तु द्विविधाश्चेष्टावन्तः स्थिराश्च। शाखासु हन्वोः कढ्याञ्च चेष्टावन्तस्तु सन्धयः। शेषास्तु सन्धयः सर्वे विज्ञेया हि स्थिरा बुधैः। सङ्ख्यातस्तु दशोत्तरे द्वे शते तेषां शाखास्वष्टषष्टिरेकोनषष्टिः कोष्ठे ग्रीवां प्रत्यूर्द्ध्वं त्र्यशीतिः। एकैकस्यां पादाङ्गुल्यां त्रयस्त्रयो द्वावङ्गुष्ठे ते चतुर्दश। जानुगुल्फवङ्क्षणेष्वेकैकः ३। एवं सप्तदशैकस्मिन् सक्थ्नि भवन्ति। एतेनेतरसक्थि १७ बाहू ३४ च व्याख्यातौ। त्रयः कटीकपालेषु। चतुर्विंशतिः पृष्ठेवंशे तावन्त एव पार्श्वयोः। उरस्यष्टौ तावन्त एव ग्रीवायाम्। त्रयः कण्ठे। नाडीषु हृदयक्लोमनिबद्धास्वष्टादश। दन्तपरिमाणा ३२ दन्तमूलेषु। एकः काकलके नासायाञ्च। द्वौ वर्त्ममण्डलजौ नेत्राश्रयौ। गण्डकर्णशङ्खेष्वेकैकः। द्वौ हनुमन्धी। द्वावुपरिष्टाद्भ्रुवोः शङ्खयोश्च। पञ्च शिरःकपालेषु। एको मूर्द्ध्नि। त एते सन्धयोऽष्टविधाः। कोरोदूखलसामुद्गप्रतरतुन्नसेवनीवायसतुण्डमण्डलशङ्खावर्त्ताः। तेषामङ्गुलिमणिबन्धगुल्फजानुकूर्परेषु कोराः सन्धयः। कक्षावङ्क्षणदशनेषूदूखलाः। अंसपीठगुदभगनितम्बेषु सामुद्गाः। ग्रीवां पृष्ठवशंयोः प्रतराः। शिरःकटीकपालेषु तुन्नसेवनी। हन्वौ रुभयतस्तु वायसतुण्डाः। कण्ठहृद्यनेत्रक्लोमनाडीषु मण्डलाः। श्रोत्रशृङ्गाटकेषु शङ्खावर्त्ताः। तेषां नाम- भिरेवाकृतयः प्रायेण व्याख्याताः। अस्थ्रान्तु सन्धयो ह्येते केवलाः परिकीर्त्तिताः। प्रेशीस्नायुशिराणान्तु सन्धिसङ्ख्या न विद्यते।

नव स्नायुशतानि तासां शाखासु षट् शतानि। द्वे शते त्रिंशच्च कोष्ठे। ग्रीवां प्रत्यूर्द्ध्वं सप्ततिः। एकैकस्यान्तु पादाङ्गुल्यां षट् निचितास्तास्त्रिंशत्। तावत्य ३० एव तलकूर्च्चगुल्फेषु। तावत्य ३० एव जङ्घायाम्। दश जानुनि। चत्वारिंशदूरौ। दश वङ्क्षणे। शतमध्यर्द्धमेवमेकस्मिन् १५० सक्थ्नि भवन्ति। एतेनेतरसक्थि १५० बाहू च ३०० व्याख्यातौ। षष्टिः कठ्याम्। अशीतिः पृष्ठे। पार्श्वयोः षष्टिः। उरसि त्रिंशत्। षट्त्रिंशद्ग्रीवायाम्। मूर्द्ध्निचतुस्त्रिंशत्। एवं नव स्नायुशतानि व्याख्यातानि। भवन्ति चात्र। स्नायुश्चतुर्विधा विद्यात्तास्तु सर्व्वा निबोध मे। प्रतानवत्यो वृत्ताश्च पृथ्व्यश्च शुषिरास्तथा। प्रतानबत्थः शाखासु सर्व्वसन्धिषु चाप्यथ। वृत्तास्तु कण्डराः सर्व्वा विज्ञेयाः कुशलैरिह। आमपक्वाशयान्तेषु वस्तौ च शुषिराः खलु। पार्श्वोरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ। नौर्यथा फलकास्तीर्ण्णा बन्धनैर्ब्बहुभिर्युता। भारक्षमा भवेदप्सु नृयुक्ता सुसमाहिता। एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः। स्नायुभिर्बहुभिर्बडास्तेन भारसहा नराः। नह्यस्थीनि न वा पेश्यो न शिरा नच सन्धयः। व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणम्। यः स्नायुः प्रविजानाति बाह्याश्चाभ्यन्तरास्तथा। स गूढं शल्यमाहर्त्तुं देहाच्छकोति देहिनाम्।

पञ्च पेशीशतानि भवन्ति। तासां चत्वारि शतानि शाखासु। कोष्ठे षट्षष्टिः। ग्रीवां प्रत्यूर्द्धञ्चतुस्त्रिंशत्। एकैकस्यान्तु पादाङ्गुल्यां तिस्रस्तिस्रस्ताः पञ्चदश। दश प्रपदे। पादोपरिकूर्च्चसन्निविष्टास्तावत्य एव। दश गुल्फतलयोः। गुल्फजान्वन्तरेविशंतिः। पञ्च जानुनि। विंशतिरूरौ। दश वङ्क्षणे। शतमेवमेकस्मिन् सक्थ्नि भवन्ति। एतेनेरसक्थ १०० वाहू च २०० व्याख्यातौ। तिस्रः पायौ। एकामेढ्रे। सेवन्यां चापरा। द्वे वृषणयोः। सिफचोः पञ्च पञ्च। द्वे वस्तिशिरसि। पञ्चोदरे। नाभ्यामेका। पृष्ठोर्द्धसं निविष्टाः पञ्च पञ्च दीर्घाः। षट् पार्श्वयोः। दश वक्षसि। अक्षकांसौ प्रति समन्तात् सप्त। द्वे हृदयामाशययोः। षट् यकृत्प्लीहोण्डुकेषु। ग्रोवायाञ्चतस्रः। अष्टौ हन्वोः। एकैका काकलकगलयोः। द्वे तालुनि। एका जिह्वायाम्। ओष्ठयोर्द्वे। घोणायां द्वे। द्वे नेत्रयोः। गण्डयोश्चतस्रः कर्णयोर्द्वे। चतस्रो ललाटे। एका शिरसीत्येवमेतानि पञ्च पेशीशतानि। शिरास्नाय्वस्थिपर्व्वाणि सन्धयश्च शरीरिणाम्। पेशीभिः संवृतान्यत्र बलवन्ति भवन्त्यतः। स्त्रीणान्तु विंशतिरधिका। दश तासां स्तनयोरेकैकस्मिन् पञ्च पञ्च यौवने तासां परिघृद्धिः। अपत्यपथे चतस्रस्तासां प्रसृते अभ्यन्तरतो द्वे मुखाश्रिते बाह्ये च प्रवृत्ते द्वे। गर्भच्छिद्रसंश्रितास्तिस्रः। शुक्रार्त्तवप्रवेशिन्यस्तिस्र एव। पित्तपक्वाशयमध्ये गर्भाशयो यत्र गर्भस्तिष्ठति। तासां बहलपेलवस्थूलाणुपृथुवृत्तह्रस्वदीर्घस्थिरमृदुश्लक्ष्णकर्कशभावाः सन्ध्यस्थिशिरास्नायुप्रच्छादका यथादेशं स्वभावत एव भवन्ति। भवन्ति चात्र। पुंसां पेश्यः पुरस्ताद् याः प्रोक्ता लक्षणमुष्कजाः। स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः। मर्म्मशिराधमनीस्रोतसामन्यत्र प्रविभागः। शङ्खनाभ्याकृतिर्य्योनिस्त्र्यावर्त्ता सा प्रकीर्त्तिता। तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता। यथा रोहितमत्स्यस्य मुखं भवति रूपतः। तत्संस्थानां तथारूपां गर्भशय्यां विदुर्बुधाः। आभुग्नोऽभिमुखः शेते गर्भो गर्भाशये स्त्रियाः। स योनिं शिरसा याति स्वभावात् प्रसवं प्रति। त्वकूपर्य्यन्तस्य देहस्य योऽयमङ्गविनिश्चयः। शल्यज्ञानादृते नैष र्वर्ण्यतेऽङ्गेषु केषुचित्। तस्मान्निःसंशयं ज्ञानं हर्त्रा शल्यस्य वाञ्छता। शोधयित्वा मृतं सम्यग्द्रष्टव्योऽङ्गविनिश्चयः। प्रत्यक्षतो हि यद्दृष्टं शास्त्रदृष्टञ्च यद्भवेत्। समासतस्तदुभयं भूयो ज्ञानविवर्द्धनम्। तस्मात्समस्तगात्रमविषोपहतमदीर्घव्याधिपीडितमवर्षशतिक निःसृष्टान्त्रपुरीषं पुरुषमपवहन्त्यामापगायां निबद्धं पञ्जरस्थं मुञ्जवल्कलकुशशणादीनामन्यतमेनावेष्टिताङ्गसप्रकाशे देशे कोथयेत् सम्यक्प्रकुथितञ्चोद्धृत्य ततो देहं सप्तरात्रादुशीरबालवेणुवल्कलकूचीनामन्यतमेन शनैः शैनरवघर्षयंस्त्वगादीन् सर्व्वानेव बाह्याम्यन्तराङ्गप्रत्यङ्गविशेषान् यथोक्तान् लक्षयेच्चक्षुषा। श्लोकौ चात्र भवतः। न शक्यश्चक्षुषा दूष्टं देहे सूक्ष्मतमो विभुः। दृश्यते ज्ञानचक्षुभिर्स्तपश्चक्षुर्भिरेव च। शरीरे चैव शास्त्रे च दृष्टार्थः स्याद्विशारदः। दृष्टश्रुनाभ्यां सन्देहमथापोह्याचरेत् क्रियाः”। “अथातः प्रत्येकमर्मनिर्देशं शारीरं व्याख्यास्यामः। सप्तोत्तरं मर्मशतम्। तानि मर्म्माणि पञ्चात्मकानि। तद्यथा मांसमर्म्माणि, शिरामर्म्माणि, स्नायुमर्म्माणि, अस्थिमर्म्माणि सन्धिमर्म्माणि चेति। न खलु मांसशिरा- स्नाय्वास्थिसन्धिव्यतिरेकेणान्यानि मर्म्माणि भवन्ति यस्मान्नोपलभ्यन्ते। तत्रैकादश मांसमर्म्माणि। एकचत्वारिंशत् शिरामर्म्माणि। सप्तविंशंतिः स्नायुमर्माणि। अष्टावस्थिमर्माणि। विशंतिः सन्धिमर्माणि। तदेतत् सप्तोत्तरं मर्मशतम्। तेषामेकादशैकस्मिन् सक्थ्नि भवन्ति। एतेनेतरसक्थि ११ बाहू २२ च व्याख्यातौ। उदरोरसोर्द्वादश चतुर्द्दश वा पृष्ठे। ग्रीवां प्रत्यूर्द्धं सप्तत्रिंशत्। तत्र सक्थिमर्म्माणि क्षिप्रतलहृदयकूर्च्चकूर्च्चशिरोगुल्फेन्द्रवस्तिजान्वाण्युर्व्वीलोहिताक्षाणि विटपञ्चेति। एतेनेतरं सक्थि व्याख्यातम्। उदरोरसोस्तु गुदवस्तिनाभिहृदयस्तनमूलस्तनरोहितापलापान्यपस्तम्भौ चेति। पृष्ठमर्म्माणि तु कटीकतरुणकुकुन्दरनितम्बपार्श्वसन्धिवृहत्यंसफलकान्यंसौ चेति। बाहुमर्माणि तु क्षिप्रतलहृदयकूर्च्चकूर्च्चशिरोमणिबन्धेन्द्रवस्तिकूर्पराण्यूर्व्वीलोहिताक्षाणिं कक्षधरञ्चेति। एतेनेतरो बाहुर्व्याख्यातः। जत्रूर्द्धमर्म्माणि, चतस्रो धमन्यो,ऽष्टौ मातृका, द्वेकृकाटिके, द्वे विधुरे, द्वौ फणौ, द्वावपाङ्गौ द्वावावर्त्तौ द्वावुत्क्षेपौ द्वौ शङ्खावेका स्थपनो पञ्च मीमन्ताश्चत्वारि शृङ्गाटकान्येकोऽ धिपतिरिति। तत्र तलहृदयेन्द्रवस्तिगुदस्तनरोहितानि मांसमर्म्माणि। नीलधमनीमातृकाशृङ्गाटकापाङ्गस्थपनीफणस्तनमूलापलापा पस्तम्भहृदयनाभिपार्श्व सन्धिवृहतीलोहिताक्षोर्व्यः शिरामर्माणि। आणिविटपकक्षधरकूर्च्चकूर्च्चशिरोवस्तिक्षिप्रांसविधुरोत्क्षेपाः स्नायुमर्माणि। कटीकतरुणनितम्बांसफलकशङ्खास्त्वस्थिमर्म्माणि। जानुकूर्परसीमन्ताधिपतिगुलफमणिबन्धकुकुन्दरावर्त्तकृकाटिकाश्चेति सन्धिमर्म्माणि। तान्येतानि पञ्चविकल्पानि मर्म्माणि भवन्ति तद्यथा, सद्यःप्राणहराणि, कालान्यरप्राणहराणि, विशल्यघ्नानि, वैकल्यकराणि, रुजाकराणीत्मि। तत्र सद्यः प्राणहराण्येकोनविशंतिः। कालान्तरप्राणहराणि त्रयस्त्रिंशत्। त्रीणि विशल्यघ्नानि। चतुश्चत्वारिंशद्वैकल्यकराणि। अष्टौ रुजाकराणीति। भवन्ति चात्र। शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठ शिरागुदम्। हृदयं वस्तिनाभी च घ्नन्ति सद्यो हतानि तु। वक्षोमर्म्माणि सीमन्ततलक्षिप्रेन्द्रवस्तयः। कटीकतरुणे सन्धी पार्श्वजौ वृहती च या। नितम्बावितिचैतानि कालान्तर हराणि तु। उत्क्षेपौ स्थपनी चैव विशल्यघ्नानि निर्दि- शेत्। लोहिताक्षाणि जानूर्व्वीकूर्च्चाविटपकूप्र्पराः। कुकुन्दरे कक्षधरे विधुरे सकृकाटिके। अंसांसफलकापाङ्गनीले मन्ये फणौ तथा। वैकल्यकरणान्याहुरावर्त्तौ द्वौ तथैव च। गुल्फौ द्वौ मणिबन्धौ द्वौ द्वे द्वे कूर्चशिरांसि च। रुजाकराणि जानीयादष्टावेतानि बुद्धिमान्। क्षिप्राणि विद्धमात्राणि घ्नन्ति कालान्तरेण च।

मर्म्माणि नाम सांसशिरास्नाय्वस्थिसन्धिसन्निपातस्तेषु स्वभावत एव विशेषेण प्राणास्तिष्ठन्ति तस्मान्मर्म्मस्वभिहतास्तांस्तान् भावानापद्यन्ते।

तत्र सद्यःप्राणहराण्याग्नेयान्यग्निगुणेष्वाशुक्षीणेषु क्षपयन्ति। कालान्तरप्राणहराणि सौम्याग्नेयान्यग्निगुणेष्वाशु क्षीणेषु क्रमेण च सोमगुणेषु कालान्तरेण क्षपयन्ति। विशल्यप्राणहराणि वायव्यानि शल्पमुखनिरुद्धौ यावदन्तर्वायुस्तिष्ठति तावज्जीवत्युद्धृतमात्रे तु शल्ये मर्म्मस्थानाश्रितो वायुर्निष्क्रामति तस्मात्सशल्यो जीवत्युद्धृतशल्यो म्रियते। वैकल्यकराणि सौम्यानि सोमोहि स्थिरत्वाच्छैत्याच्च प्राणावलम्बनं करोति। रुजाकराण्यग्निवायुगुणभूयिष्ठानि विशेषतश्च तौ रुजाकरौ। पाञ्चभौतिकीञ्च रुजामाहुरेके। केचिदाहुर्मांसादोनां पञ्चानामपि समस्तानां विवृद्धानाञ्च समवायात्सद्यःप्राणहराणि। एकहीनानामल्पानां वा कालान्तरप्राणहराणि। द्विहीनानां विशल्यप्राणहराणि। त्रिहीनानां वैकल्यकराणि। एकस्मिन्नेव रुजाकराणीति। यतश्चैवमतोऽस्थिमर्म्मस्वप्यभिहतेषु शोणितागमनं भवति।

चतुर्व्विधा यास्तु शिराः शरीरे प्रायेण ता मर्म्म सु सन्निविष्टाः। स्नाय्वस्थिमांसानि तथैव सन्धीन् सन्तर्प्य देहं प्रतिपालयन्ति। ततः क्षते मर्मणि ताः प्रवृद्धः समन्ततो वायुरभिस्तृणोति। विवर्द्धमानस्तु स मातरिश्वा रुजः सुतीव्राः प्रतनोति काये। रुजाभिभूतन्तु पुनः शरीरं प्रलीयते नश्यति चास्य संज्ञा! अतोहि शल्यं विनिहर्त्तुमिच्छन्मर्म्माणि यत्नेन परीक्ष्य कर्षेत्। एतेन शेषं व्याख्यातम्। तत्र सद्यः प्राणहरमन्तेविद्धं कालान्तरेण मारयति। कालान्तरप्राणहरमन्तेविद्धं वैकल्यमापादयति। विशल्यप्राणहरमन्तेविद्धं कालान्तरेण क्लेशयति रुजाञ्च करोति। रुजाकरमतीव्रवेदनं भवति। कालान्तरप्राणहराणि पक्षान्मासाद्वा। तेष्वपितु क्षिप्राणि कदाचिदाशु मारयन्ति। विशल्यप्राणहराणि वैकल्यकराणि च कदाचिदत्यभिहतानि मारयन्ति। अतऊर्द्धं प्रत्येकशो भर्म्मस्थानान्यनुव्याख्यास्यामः। तत्र पादाङ्गुष्ठाङ्गुल्योर्मध्ये क्षिप्रं नाम मर्म्म तत्र विद्धस्याक्षेपकेण मरणम्। मध्यमामाङ्गुलीसनुपूर्व्वेण मध्ये पादतलस्य तलहृदयं नाम, तत्रापि रुजाभिर्भरणं। क्षिप्रस्योपरिष्टादुभयतः कूर्च्चोनाम, तत्र पादस्य भ्रमणवेपने भवतः। गुल्फसन्धरधौभयतः कूर्च्चशिरो नाम, तत्र रुजाशोफौ। पदजङ्घयोः सन्धाने गुल्फो नाम, तत्र रुजः स्तब्धपादता खञ्जता वा। पार्ष्णिं प्रति जङ्घामध्ये इन्द्रवस्तिर्नाम, तत्र शीणितक्षये मरणम्। जङ्घोर्व्वोः सन्धाने जानु नाम, तत्र खञ्जता। जानुन ऊर्द्धमुभयतस्त्र्यङ्गुलमाणिर्नाम, तत्र शोफाभिवृद्धिः स्तब्ध सक्थिता च। ऊरुमध्ये ऊर्व्वी नाम, तत्र शोणितक्षयात् सक्थिशोषः। ऊर्व्या ऊर्द्ध्वमधोवङ्क्षणसन्धेरूरुमूले लोहिताक्षं नाम, तत्र लोहितक्षयेण पक्षाघातः। वङ्क्षणवृषणयोरन्तरे विटपं नाम, तत्र षाण्ड्यमल्पशुक्रता वा भवति। एवमेतान्येकादश सक्थिमर्माणि व्याख्यातानि। एतेनेतरसक्थि ११ बाहू २२ च व्याख्यातौ। विशेषतस्तु यानि सक्थि गुल्फजानुविटपानि तानि बाहौ मणिबन्धकूप्र्परकक्षधराणि यथा षङ्क्षणवृषणयोरन्तरे विटपमेव, वक्षःकक्षयोर्मध्ये कक्षधरं, तस्मिन्विद्धे तएवोपद्रवाः। विशेषतस्तु मणिबन्धे कुण्ठता। कूप्र्पराख्ये कुणिः। कक्षाधरे पक्षाघातः। एवमेतानि चतुश्चत्वारिंशच्छाखासु मर्माणि व्याख्यातानि।

अत ऊर्द्धमुदरोरसोर्मर्मस्थानान्यनुव्याख्यास्यामः। तत्र वातवर्चोनिरसनं स्थूलान्त्रप्रतिबद्धं गुदं नाम मर्म, तत्र सद्योमरणम्। अल्पमांसशोणितोऽभ्यन्तरतः कट्यां मूत्राशयो वस्तिर्नाम, तत्रापि सद्योमरणमश्मरीव्रणादृते तत्राप्युभयतो भिन्ने न जीवत्ये कतोभिन्ने मुत्रस्रावी व्रणी भवति स तु यत्नेनोपक्रान्तो रोहति। पक्वामाशययोर्भध्ये सिराप्रभवा नाभिर्नाम, तत्रापि सद्य एव मरणम्। स्तनयोर्मध्यमधिष्ठायोरस्यामाशयद्वारं सत्वरजस्तमसामधिष्ठानं हृदयं नाम, तत्र सद्यएव मरणम् स्तनयोरधस्तात् ह्यङ्गुलमुमयतः स्तनमूले नाम मर्मणी, तत्र कफपूर्णकोष्ठतया कासश्वासाभ्यां म्रियते। स्तनचूचुकयो रूर्द्धं द्व्यङ्गुलमुभयतः स्तनरोहितौ नाम, तत्र लोहितपूणकोष्ठतया कासश्वासाभ्यां य म्रियते। अंसकूटयो रधस्तात् पार्श्वोपरिभागयोरपलापौ नाम, तत्र रक्तेन पूयभावं गतेन मरणम्। उभयत्रोरसोनाड्यौ वातवहे अपस्तम्भौ नाम, तत्र वातपूणकोष्ठतया कासश्वासाभ्यां च मरणम्। एवमेतान्युदरोरसोर्द्वादश मर्माणि व्याख्यातानि।

अत ऊर्द्ध्वं पृष्ठमर्माण्यनुव्याख्यास्यामः। तत्र पृष्ठवंशमुभयतः प्रतिश्रोणीकाण्डमस्थिनी कोटीकतरुणे नाम मर्मणी, तत्र शोणितक्षयात् पाण्डुर्व्विवर्णो हीनरूपश्च म्रियते। पार्श्वजघनबहिर्भागे पृष्ठर्वशमुभयतो नातिनिम्ते कुकुन्दरे नाम मर्मणो, तत्र स्पर्शाज्ञानमधः काये चेष्टोपघातश्च। श्रोणीकाण्डयोरुपर्य्याशयाच्छादनौ पार्श्वान्तरप्रतिबद्धौ नितम्बौ नाम, तत्राधःकायशोषो दौर्ब्बल्याच्च मरणम्। अधःपार्श्वान्तरप्रतिबद्धौ जघनपार्श्वमध्ययोसिर्य्यगूर्द्धं च जघनात् पार्श्वसन्धी नाम, तत्र लोहितपूर्णकोष्ठतया म्रियते। स्तनमूलादुभयत पृष्ठवं शस्य वृहती नाम, तत्र शोणितातिप्रवृत्तिनिमित्तैरुपद्रवैर्म्रियते। पृष्ठेपरिपृष्ठवंशमुभयतस्त्रिकसम्बद्धे अंसफलके नाम, तत्र षाह्वोः स्वापः शोषोवा। बाहुभूर्द्धग्रीवामध्येऽसंपीठस्कन्धनिबन्धनावंसौ नाम, तत्र स्वब्धबाहुता। एवमेतानि चतुर्द्दश पृष्ठमर्माणि व्याख्यातानि।

अत ऊर्द्ध्वं जत्रुगतानि व्याख्यास्यामः। तत्र कण्ठनाडीमुभ्यत्श्चतस्रो धमन्यो द्वे नीले, द्वे च मन्ये, व्यत्यासेन तत्र मूकता स्वरवैकृतभरसग्राहिता च। ग्रीवायामुभयतश्चतस्रः सिरामातृकाः तत्र सद्योमरणम्। शिरोग्रोवयोः सन्धाने कृकाटिके नाम, तत्र चलमूर्द्धता। कर्ण्णपृष्ठतोऽधः संश्रिते विधुरे नाम, तत्र बाधिर्य्यम्। घ्राणमार्गमुभयतः स्रोतोमार्गं प्रतिबद्धे अभ्यन्तरतः फणे नाम, तत्र गन्धाज्ञानम्। भ्रूपुच्छान्तयोरधोऽक्ष्णीर्बाह्यतोऽपाङ्गौ नाम, तत्रान्ध्यं दृष्ठ्युपघातो वा। भ्रुवोरुपरि निम्न योरावर्त्तौ नाम, तत्रान्ध्यं दृष्ट्युपधातश्च। भ्रुवोः पुच्छान्तयोरुपरि कर्णललाटयोर्मध्ये शङ्घौ नाम, तत्र सद्यो मरणम्। शङ्खयोरुपरि केशान्त उत्क्षेपौ नाम, तत्र सशल्यो जीवति पाकात् पतितशल्यो वा नोद्धृतशल्यः। भ्रुबोर्मध्ये स्थपनी नाम, तत्रोत्क्षेववत्। पञ्च सन्धयः शिरसि विभक्ताः सीमन्ता नाम, तत्रोन्मादभयचित्तनाशैर्मरणम्। घ्राणश्रोत्राक्षिजिह्वासन्तर्पणीनां सिराणां मध्ये सिरासन्निपातः शृङ्गाटकानि, तानि चत्वारि मर्माणि तत्रापि सद्योमरणम्। मस्तकाभ्यन्तरोपरिष्टात् सिरासन्धिसन्निपातो रोमावर्त्तोऽधिपतिः, तत्रापि सद्योमरणम्। एवमेतानि सप्तत्रिंशदूर्द्धजत्रु गतानि मर्माणि व्याख्यातानि। भवन्ति चात्र। ऊर्व्यः शिरांसि विटपे च सकक्षपार्श्वे एकैकमङ्गुलमिताः स्तनपूर्ब्बमूलम्। विद्ध्यङ्गुलद्वयमितं मणिवन्धगुल्फं त्रीण्येव जानु सपरं सह कूर्पराभ्याम्। हृद्वस्तिकूर्च्चगुदनाभि वदन्ति मूर्द्ध्नि चत्वारि पञ्च च गले दश यानि च द्वे। तानि स्वपाणितलकुञ्चितसंमितानि शेषाण्यवेहि परिविस्तरतोऽङ्गुलार्द्धम्। एतत्प्रमाणमभिवोक्ष्य वदन्ति तज्ज्ञाः शस्त्रेण कर्म करणं परिहृत्य मर्म। पार्श्वाभिघातितमपीह निहन्ति मर्म तस्माद्धि मर्मसदनं परिवर्जनीयम्। छिन्नेषु पाणिचरणेषु सिरा नराणां सङ्कोचमीयुरसृगल्पमतो निरेति। प्राप्यामितव्यसनमुग्रमतो मनुष्याः संछिन्नशाखतरुवन्निधनं न यान्ति। क्षिप्रेषु तत्र सतलेषु हतेषुरक्तं गच्छत्यतीव पवनश्च रुजं करोति। एवं विनाशमुपयान्ति हि तत्र विद्धा वृक्षा इवायुधविघातनिकृत्तमूलाः। तस्मात्तयोरमिहतस्य तु पाणिपादं छेत्तव्यमाशु मणिबन्धनगुलफदेशे। मर्माणि शल्यविषयार्द्धमुदाहरन्ति यस्माच्च मर्मसु हता न भवन्ति सद्यः। जीवन्ति तत्र यदि वैद्यगुणेन केचित्ते प्राप्नुवन्ति विकलत्वमसंशयं हि। सम्भिन्नजर्ज्जरितकोष्ठशिरःकपाला जीवन्ति शस्त्रविहतैश्च शरीरदेशैः। छिन्नैश्च सक्थिभुजपादकरैरशेषैर्येषां न मर्म्मपतिता विविधाः प्रहाराः। सोममारुततेजांसि रजःसत्वतमांसि च मर्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते। मर्मस्वभिहतास्तस्मान्न जीवन्ति शरीरिणः। इन्द्रियार्थेष्वसम्प्राप्तिर्मनोबुद्धिविपर्य्ययः। रुजश्च विविधास्तीव्रा भवन्त्याशुहरे हते। हते कालान्तरघ्ने तु ध्रुवो धातुक्षयो नृणाम्। ततो धातु क्षयाज्जन्तुर्व्वेदनाभिश्च नश्यति। हते वैकल्य जनने केवलं वैद्यनैपुणात्। शरीरं क्रियया युक्तं विकलत्वमवाप्नुयात्। विशल्यघ्नेषु विज्ञेयं पूर्व्वोक्तं यच्च कारणम्। रुजाकराणि मर्माणि क्षतानि विविधा रुजः। कुर्वन्त्यन्ते च कैकल्यं कुवैद्यवशगो यदि। छेदभेदाभिघातेभ्यो दहनाद्दारणादपि। उपघातं विजानीयान्मर्मणान्तुल्यलक्षणम्। मर्माभिघातश्च न कश्चिदस्ति योऽल्पयो वापि निरत्ययो पा। प्रायेण मर्मस्वभिताडितास्तु वैफल्यमृच्छन्त्यथ वा म्रियन्ते। मर्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम। प्रायेण ते कृच्छ्रतमा भवन्ति नरस्य यत्नैरपि साध्यमानाः”। अथातः सिरावर्णनविभक्ति नाम शारीरं व्याख्यास्यामः। सप्त सिराशतानि भवन्ति। याभिरिदं शरीरमाराम दूष जलप्रचारिणीभिः केदार इव च कुल्याभि- रुपस्निह्यतेऽनुगृह्यते चाकुञ्चनप्रसारणादिभिर्विशैषैः। द्रुमपत्रसेवनीनामिव च तासां प्रतानास्तासां नाभिमूलं ततश्च प्रसरन्त्यूर्द्ध्वमधस्तिर्य्यक् च। भवतश्चात्र यावत्यस्तु सिराः काये सम्भवन्ति शरीरिणाम्। नाभ्यां सर्व्वा निबद्धास्ताः प्रतन्वन्ति समन्ततः। नाभिस्थाः प्राणिनां प्राणाः प्राणान्नाभिर्व्युपाश्रिता। सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः। तासां मूलसिराश्चत्वारिं शत्तासां वातवाहिन्यो दश, पित्तवाहिन्यो दश, कफवाहिन्यो दश, दश रक्तवाहिन्यः। तासान्तु वातवा हिनीनां वातस्थानगतानां पञ्चसप्ततिशवं भवति तावत्य १७५ एव पित्तवाहिन्यः पित्तस्थाने। कफवाहिन्यश्च १७५ कफस्थाने रक्तवाहिन्यश्च १७५ यकृत्प्लोह्नोः, एवमेतानि सप्त सिराशतानि। तत्र वातवाहिन्थः सिरा एकस्मिन् सक्थ्नि पञ्चविंशतिः। एतेनेतरसक्थि २५ बाहू ५० च व्याख्यातौ। विशेषतस्तु कोष्ठे चतुस्त्रिंशत्तासां गुदमेढ्राश्रिताः श्रोण्यामष्टौ द्वे द्वे पार्श्वयोः, षट् पृष्ठे, तावत्य ६ एव चोदरे, दशवक्षसि एकचत्वारिशंज्जत्रुण ऊर्द्ध्वं, तासां चर्तुदश ग्रीवायाम्। कर्णयोश्चतस्रः। तव जिह्वायाम्। षड् नासिकायाम्। अष्टौ तेत्रयोः। एवमेतत् पञ्चसप्तत्यधिकशतं वातवहानां सिराणां व्याख्यातम्! एष एव विभागः शेषाणामपि। विशेषतस्तु पित्तवाहिन्यो नेत्रयोर्दश, कर्णयोर्द्वे, एवं रक्तवहाः कफवहाश्च। एवमेतानि सप्त शिराशतानि सविभागानि व्याख्यातानि”।

“अथातो धमनीव्याकरणं शरीरं व्याख्यास्यामः। चतुर्व्विंशतिर्धमन्यो नाभिप्रभवा अभिहिताः। तत्र केचिदाहुः सिराधमनीस्रोतसामविभागः सिराविकारा एव धमन्यः स्रोतांसि चेति। तत्तु न सम्यक्। अन्या एव हि धमन्यः स्रोतांसि च सिराभ्यः, कस्मात्? व्यञ्जनान्यत्वान्मूलसन्नियमात् कर्मवैशेष्यादागमाच्च केवलन्तु परस्परसन्निकर्षात् सदृशागमकर्मत्वात् सौक्ष्म्याच्च विभक्तकर्मणामप्यविभाग इव कर्मसु भवति।

तासान्तु नाभिप्रभवाणां धमनीनामूर्द्धगा दश, दश चाधोगामिन्यः, चतस्रस्तिर्य्यग्गाः। ऊर्द्धगाः शब्दस्पर्शरूपरसगन्धप्रश्वासोच्छ्वासजृम्भितक्षुद्धसितकथितरुदितादीन् विशेषानभिवहन्त्यः शरीरं धारयन्ति। तास्तु हृदयमभिप्रपन्नास्त्रिधा जायन्ते तास्त्रिशत्। तासान्तु वातपित्तकफशोणितरसान् द्वे द्वे वहतस्ता दश, शब्दरूपरसगन्धानष्टाभिर्गृह्णीते। द्वाभ्यां भाषते च, द्वाभ्यां घोषं कूरोति, हाभ्यां स्वपिति, द्वाभ्यां प्रतिबुध्यते। द्वे चाश्रुवाहिन्यौ। द्वे स्तन्यं स्त्रिया वहतः स्तनसंश्रिते। ते एव शुक्रं नरस्य स्तनाभ्यामभिवहतः। तास्त्वेतास्त्रिंशत्सविभागा व्याख्याता एताभिरूर्द्ध्वं नाभेरुदरपार्श्वपृष्ठोरःस्कन्धग्रीवाबाहवो धार्यन्ते याप्यन्ते च।

भवति चात्र। ऊर्द्ध्वं गतास्तु कुर्व्वन्ति कर्माण्येतानि सर्व्वशः। अधोगमास्तु वक्ष्यामि कर्म तासां यथायथम्।

अधोगमास्तु वातमूत्रपुरीषशुक्रार्त्तवादीन्यधो वहन्ति। तास्तु पित्ताशयमभिप्रपन्नास्तत्रस्थमेवान्नपानरसं विपक्वमौष्ण्याद्विवेचयन्त्योऽभिवहन्त्यः शरीरं तर्पयन्त्यर्पयन्ति चोर्द्धवगतानां तिर्य्यग्गतानां रसस्थानञ्चाभिपूरयन्ति मूत्रपुरीषस्वेदांश्च विवेचयन्त्यामपक्वाशयान्तरे च त्रिधा जायन्ते तास्त्रिंशत्। तासान्तु वातपित्तकफशोणितरसान् द्वे द्वे वहतस्ता दश, द्वे अन्नवाहिन्यावन्त्राश्रिते, तोयवहे द्वे, द्वे मूत्रवस्तिमभिप्रपन्ने मूत्रवहे, द्वे शुक्रवहे, द्वे शुक्रप्रादुर्भावाय, द्वे विसगाय, ते एव रक्तमभिवहतो नारीणामार्त्तवसंज्ञम्। द्वे वर्चोनिरसन्यौ स्थूलान्त्रप्रतिबद्धे। अष्टावन्या स्तिर्यग्गानां धमनीनां स्वेदमर्पयन्ति। तास्त्वेतास्त्रिशत् सविभागा व्याख्याताः एताभिरधोनाभेः पक्वाशयकटीमूत्रपुरीषगुदवस्तिमेढ्रसक्थोनि धार्यन्ते याप्यन्ते च।

भवति चात्र। अधोगमास्तु कुर्व्वन्ति कर्माण्येतानि सर्वशः। तिर्य्यग्गाः संप्रवक्ष्यामि कर्म तासां यथायथम्।

तिर्य्यग्गानान्तु चतसृणां धमनीनामैकैका शतधा सहस्रधा चोत्तरोत्तरं विभज्यन्ते तास्त्वसंख्येयास्ताभिरिदं शरीरं गवाक्षितं विबद्धमाततञ्च। तासां मुखानि रोमकूपप्रतिबद्धानि यैः स्वेदमभिवहन्ति रसञ्चापि सन्तर्पयन्त्यन्तर्बहिश्च, तैरेव चाभ्यङ्गपरिषेकावगाहालेपनवीर्य्याण्यन्तःशरोरमभिप्रतिपद्यन्ते त्वचि विपक्वानि, तैरेव स्पर्शसुखमसुखं वा गृह्णाति। तास्त्वेताश्चतस्रो धमन्यः सर्वाङ्गगताः सविभाग व्याख्याताः।

भवतश्चात्र। यथा स्वभावतः खरनि मृणालेषु विसेषु च। धसनीनां तथा खानि रसो यैरुपचीयते। पञ्चाभिभूतास्त्वथ पञ्चकृत्वः पञ्चेन्द्रियं पञ्चसु भावयन्ति। पञ्चेन्द्रियं पञ्चसु भावयित्वा पञ्चत्वमायान्ति विनाशकाले।

अत ऊर्द्ध्वं स्रोतसां मूलविद्धलक्षणमुपदेक्ष्यामः। तानि तु प्राणान्नोदकरसरक्तमां समेदोमूत्रपुरोषशुक्रार्त्तववहानि, येष्वधिकार एकेषां बहूनि। एतेषां विशेषा बहवः। तत्र घाणवहे द्वे, तयोर्मूलं हृदयं रसवाहिन्यश्च धमन्यः। तत्र विद्धस्य क्रोशनविनमनमोहनभ्रमणवेपनानि मरणं वा भवति। अन्नवहे द्वे, तयोर्मूलमामाशयः अन्नवाहिन्यश्च धमन्यस्तत्र विद्धस्याध्मानं शूलान्नद्वेषौ छर्दिः पिपासान्ध्यं मरणं वा। उदकवहे द्वे, तयोर्मूलं तालु क्लोम च। तत्र विद्धस्य पिपासा सद्योमरणं च। रसवहे द्वे, तयोर्मूलं हृदयं, रसबाहिन्यश्च धमन्यस्तत्र विद्धस्य शोषः प्राणवहविद्धवच्च मरणं तल्लिङ्गानि च। रक्तवहेद्वे, तयोर्मूलं यकृत्प्लीहानौ रक्तवाहिन्यश्च धमन्यस्तत्र विद्धस्य श्यावाङ्गता ज्वरो दाहः पाण्डुता शोणितातिगर्भमरक्तनेत्रता चेति। मांसवहे द्वे, तयोर्मूलं स्नायुत्वचं, रक्तवहाश्च धमन्यस्तत्र विद्धस्य श्वयथुर्मांसशोषः सिराग्रन्थयो मरणम्। मेदोवहे द्वे तयोर्मूलं कटीबुक्कौ च तत्र विद्धस्य स्वेदागमनं स्निग्धाङ्गता तालुशोषः स्थूलशोफता पिपासा च। मूत्रवहे द्वे, तयीर्मूलं वस्तिमेढ्रञ्च तत्र विद्धस्याऽऽनद्धवस्तिता मूत्रनिरोधः स्तब्धमेढ्रता च। पुरीषवहे द्वे, तयोर्मूलं पक्वाशयो गुदञ्च तत्र विद्धस्याऽऽनाहो दुर्गन्धता ग्रथितान्त्रता च। शुक्रवहे द्वे, तयोर्मूलं स्तनौ वृषणौ च तत्र विद्धस्य क्लीवता चिरात् प्रसेको रक्तशुक्रता च। आर्त्तववहे द्वे, तयोर्सूलं गर्भाशयः आर्त्तववाहिन्यश्च धमन्यस्तत्र विद्धायां बन्ध्यात्वं मैथुनासहिष्णुत्वमार्त्तवनाशश्च। सेवनीच्छेदाद्रुजाप्रादुर्भावः। वस्तिगुदविद्धलक्षणं प्रागुक्तमिति। स्रोतोविद्धन्तु प्रत्याख्यायोपचरेदुद्धृतशल्यन्तु क्षतविधानेनोपचरेत्। मूलात् स्यादन्तरं देहे प्रसृतन्त्वभिवाहि यत्। स्रोतस्तदिति विज्ञेयं सिराधमनिवर्ज्जितम्।” शारीकस्थाने

एतच्च मनुष्यकायविषयं तुल्यप्रकरणे शा० ति० “पञ्चभूतात्मकं सर्व्वं चराचरमिदं जगत्। अचरा बहुधा भिन्ना गिरिवृक्षादिभेदतः। चरास्तु त्रिविधाः प्रोक्ता स्वेदाण्डजजरायुजाः। स्वेदजाः कृमिकीटाद्याः अण्डजाः पन्नगादयः। जरायुजा मनुष्याद्यास्तेषु नॄणां निगद्यते। उद्भवः पुंस्त्रियोयोर्गे शुक्राच्छोणितसंयुतात्। विन्दुरेको विशेद्गर्भमुभयात्मा क्रमादसौ। रजोधिको भवेन्नारी भवेद्रेतोऽधिकः पुमान्। पूर्ब्बकर्मानुरूपेण मोहपाशेन यन्त्रितः। कश्चिदात्मा तदा तस्मिन् जीवभावं प्रपद्यते। अथ मात्राहृतैरन्नपानाद्यैःपोषितः क्रमात्। दिनात् पक्षात् ततो मासाद्वर्द्धते तत्त्वदेहवान्। दोषदूष्यैः सुखं प्राप्तोव्यक्तिं याति निजेन्द्रियैः। वातपित्तकफाः दोषाः दूष्याः म्युः सप्त धातवः। त्वगसृङ्मांसमेदोऽस्थिमज्जशुक्राणि तान् विदुः” इत्यन्तेन मनुष्याणामेव विशेष्योक्तेः। एतद्या० पदा० “द्वाविंशती रजोभागाः शुक्रमात्राश्चतुर्द्दश। गर्भसंजनने काले पुंस्त्रियोः सम्भवन्ति हि। नारी ग्जोऽधिकांशे स्यान्नरः शुक्राधिकेऽशके। उभयोस्तुल्यसंख्वायां स्यान्न पुंसकसम्भवः” इति। किन्तु पशुपक्ष्यादीनामपि यथा सम्भवमस्थ्यादिसञ्चयोज्ञेयः। षट्त्वग्धारित्वन्तु अण्ड जादीनामप्यस्ति “तस्य षोढा शरीराणि षट् त्वचोधारयन्ति च” या० व्या० “तस्यात्मनोयानि जरायुजाण्डजशरीराणि तानि प्रत्येकं षट्प्रकाराणि रक्तादिषड्घातुपरिपाकहेतुभूतषडग्निस्थानयोगित्वेनेति” मिता० उक्तेः। चीयते कर्मभिः कर्मणि घञ्। १० स्वस्वादृष्टसञ्चितभोगायतनमात्रे च। वक्ष्यमाणचतुर्विधकायानां कर्मजत्वेन तथात्वम्।

ततश्च कायोद्विविधः चरोऽचरश्च। तत्र चरास्त्रिविधाः स्वेदजाण्डजजरायुजभेदात् अचरा गिरिवृक्षभेदात् नानाविधाः प्रागुक्त शा० ति० वाक्यात्। एषाञ्चोत्पत्तिभेदात् चतुर्विधत्वम् यथोक्तं पदार्थादर्शे “देहश्चतुर्विधोज्ञेयो जन्तोरुत्पत्तिभेदतः। उद्भिज्जः स्वेदजोऽण्डोत्यश्चतुर्थस्तु जरायुजः” इति। उद्भिज्जशब्दे ११८० पृ० उद्भिज्जोत्पत्तिप्रकारो दर्शितः। चरेषु स्वेदजाः “कृमिकीटपतङ्गाद्याः स्वेदजा नाम देहिनः” पदादर्शोक्ता बोध्याः। तदुत्पत्तिप्रकारस्तत्रेवोक्तो यथा “स्वेदजं स्विद्यमानेभ्यो भूभागेभ्यः प्रजायते” इति। एषां स्थिराणां चायोनित्वं प्रयोगसारे उक्तं यथा “किन्त्वत्र स्वेदजा ये तु ज्ञेयास्ते चाप्ययोनिजाः। स्थिरा इव बायुभिन्नाश्चत्वारिंशत्सहस्रधा”। अण्डजास्तु “अण्डजाः पक्षिणः सर्पा नक्रमत्स्याश्च कच्छपा, इति तत्रोक्ताः बोध्याः। तेषादुत्पत्तिप्रकारो यथा। “अण्डजा वर्त्तुलीभूतात् शुक्रशोणितसंयुतात्। कालेन भिन्नात् पूर्ण्णात्मा निगर्च्छन् प्रक्रमिष्यति”। जरायुजास्तु मनुष्याद्याः गर्भाशयरूपचर्म्मवेष्टनजातत्वात् तेषां तथात्वम्। ते च योनिजाः “योनिजाः प्राणिनोभिन्नाश्चतुःषष्टिसहस्रधा” इति तत्रोक्तेः। तथाऽन्येऽपि अयोनिजाः देहाः सन्ति ते च अयोनिजशब्दे ३४७ पृ० उक्ताः। तत्र मनुष्याणां कायस्य पाञ्चभौतिकत्वं तदुत्पत्तिप्रकारश्चयाज्ञ० मिता० दर्शितोयथा “सर्गादौ स यथाऽऽकाशं वायुं ज्योतिर्जलम्महीम। सृजत्येकोत्तरगुणांस्तथाऽऽदत्ते भवन्नपि” या०। सृष्टिसमये स परमात्मा यथाऽऽकाशादीन्, शब्दैकगुणं गगनम्, शब्द- स्पर्शगुणं पवनम्, शब्दस्पर्शरूपगुणन्तेजः शब्दस्पर्शरूपरसगुणवदुदकम्, शब्दस्पर्शरूपरसगन्धगुणां, जगतीमित्येवमेकोत्तरगुणान् सृजति। तथात्मा जीवभावमापन्नो भवन्नुत्पद्यमानोऽपि स्वशरीरस्यारम्भकत्वेनापि तानुपादत्ते गृह्णाति। कथं शरीरारम्भकत्वं पृथिव्यादोनाम्? इत्यत आह। “आहुत्याऽऽप्यायते सूर्य्यः सूर्य्याद्वृष्टिरथौषधिः। तदन्नं रसरूपेण शुक्रत्वमधिगच्छति” या०। यजमानैः प्रक्षिप्रयाऽऽहुत्या पुरोडाशादिरसेनाप्ययते सूर्य्यः सूर्य्याच्च कालवशेन परिपकाज्यादिहवीरसाद्वृष्टिर्भवति। ततो व्रीह्याद्योषधिरूपमन्नम्। तच्चान्नं सेवितं सत् रसरुधिरादिक्रमेण शुक्रशोणितभावभापद्यते। ततः किम्? इत्याह “स्त्रीपुंसयोश्च संयोगे विशुद्धे शुक्रशोणिते। पञ्च धातून् स्वयं षष्ठआदत्ते युगपत्प्रभुः” या०। ऋतुवेलायां स्त्रीपुंसयोः संयोगे शुक्रञ्च शोणितञ्च शुक्रशोणितम् तस्मिन् परस्परसंयुक्ते विशुद्धे “वातपित्तश्लेष्मदुष्टग्रन्थि पूयक्षीणमूत्रपुरोषगन्धिरेतांस्य वीजानीति” स्मृत्यन्तरोक्त दाषरहिते स्थित्वा पञ्च धातून् पृथिव्यादिपञ्चभूतानि शरीरारम्भकतया स्वयं षष्ठश्चिद्धातुरात्मा प्रभुः शरीरारम्भकारणादृष्टकर्म्मयोगितया समर्थो युगपदादत्ते भीगायतनत्वेन स्वीकरोति। तथा च शारीरके “स्त्रोपुंसयोः संयोगे योनौ रजसाभिसंसृष्टं शुक्रन्तत्क्षणमेव सह भूतात्मना गुणैश्च सत्वरजस्तमोभिः सह वायुना प्रेर्य्यमाणं गर्भाशये तिष्ठतीति”। किञ्च “इन्द्रियाणि मनप्राणोज्ञानमायुः सुखन्धृतिः। धारणा प्रेरणं दुःखमिच्छाहङ्कार एव च। प्रयत्न आकृतिर्वर्ण्णः स्वरद्वेषौ भवाभवौ। तस्यैतदात्मजं सर्वमनादेरादिमिच्छतः” या०। इन्द्रि याणि ज्ञानकर्म्मोन्द्रयाणि वक्ष्यमाणानि। भनश्चोभयसाधारणम्। प्राणोऽपानोव्यान उदानः समान इत्येव म्पञ्चवृत्तिभेदभिन्नः शारीरोवायुः प्राणः, ज्ञानमवगमः, आयुः कालविशषावच्छिन्नञ्जीवनम्, सुखं निर्वृतिः, धृतिश्चित्तस्य स्थैर्य्यम्, धारणा प्रज्ञा मेधा च, प्रेरणं ज्ञानकर्म्मोन्द्रियाणामधिष्ठातृत्वम्, दुःखमुद्वेगः, इच्छास्पुहा अहङ्कारोऽहङ्कृतिः प्रयत्नः कृतिः आकृतिराकारः, क्षर्णोगौरिमादिः, स्वरः षड्जगान्धारादिः, द्वेषोवैरम्, भवः पुत्रपश्वादिविभवः, अभवस्तद्विपर्ययः, तस्यानादेरात्मनोनित्यस्यादिमिच्छतः शरीरञ्जिघृक्षमाणस्व सर्वमेतदिन्द्रियादिकमात्मजनितं प्राग्भवीयकर्मवीजजन्यमित्यर्थः। संयुक्तशुक्रशोणितस्य कायरूपपरिणतौ क्रम- माह “प्रथमे मासि सक्लेदभूतो धातुविमूर्च्छितः। मास्यर्बुदं द्वितीये च तृतायेऽङ्गेन्द्रियैर्युतः। असौ च चेतनः षष्ठो धातुर्धातुविमूर्च्छितः” या०। धातुषु पृथिव्यादिषु मूर्च्छितो लोलीभूतः क्षीरनीरवदेकीभूतैति यावत्। प्रथमे गर्भमासे संक्लदभूतो द्रवरूपतां प्राप्तएवावतिष्ठते न कठिनतया परिणमते। द्वितीये तु मास्यर्बुदमीषत्कठिनं मांसपिण्डरूपम्भवति। अयमभिप्रायः–कोष्ठप्रवनजठरदहनाभ्यां प्रतिदिनमीषदीषच्छोष्यमाणं शुक्रसम्पर्कसम्पादितद्रवीभावं भूतजातं त्रिंशद्भिर्दिनैः काठिन्यमापद्यत इति। तथाच शुश्रुते–“द्वितीये मासि शीतोष्णानिलैरभिपच्यमानो भूतसंघातो घनोजायत” इति। तृतीये तु मास्यङ्गैरिन्द्रियैश्च संयुक्तो भवति। किञ्च “आकाशाल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रं बलादिकम्। वायोश्च स्पर्शनं चेष्टां व्यूहनं रौक्ष्यमेव च। पित्तात्तु दर्शनम्पक्तिमौष्ण्यं रूपं प्रकाशिताम्। रसात्तु रसन शैत्यं स्नेहं क्लदं समार्दवम्। भूमेगन्धं तथा घ्राणं गौरवं मूर्त्तिमेव च। आत्मा गृह्लात्यजः सर्वं तृतीये स्पन्दते ततः” या०। आत्मा गृह्णातीति सर्वत्र सम्बध्यते। गगनाल्लघिमानं लङ्घनक्रियोपयोगिताम्, सौक्ष्म्यं सूक्ष्मोक्षित्वम्, शब्दं विषयम्, श्रोत्रं श्रवणेन्द्रियम्, बलं दार्ढ्यम्, आदिग्रहणात् शुषिरत्वं विविक्ततां च। “आकाशाच्छब्दं श्रोत्रं विविक्ततां सर्वच्छिद्रसमूहांश्चेति” गर्भांपनिषद्दर्शनात्। पवनात् स्पर्शनेन्द्रियम्, चेष्टाङ्ग्यनागमनादिकाम्, व्यूहनम् अङ्गानां विविधं प्रसारणम्, रौक्ष्यं कर्कशत्वम्, चशब्दात् स्पर्शं च। पित्तात्तेजसो दर्शनं चक्षुरिन्द्रियम्, पक्तिं भुक्तस्यान्नस्य पचनम्, औष्ण्यम् उष्णस्पर्शत्वम्, अङ्गानां रूपं श्यामिकादि प्रकाशितां भ्राजिष्णुताम्। तथा सन्तापामर्षादि च, “शौर्यामर्षतैक्ष्ण्यं पक्त्यौष्ण्यं भ्राजिष्णुतां सन्तापवर्णप्रकर्षरूपेन्द्रियाणि तैजसानीति” गर्भोपनिषद्दर्शनात। एवं रसादुदकाद्रसनेन्द्रियम् शैत्यमङ्गानां, स्नेहं स्निग्धताम्, मृदुत्वसहितं क्लेदमार्दताम्, तया भूमेर्गन्धं घ्राणेन्द्रियं गरिमाणंमूर्त्तिं च। सर्वमेतत् परमार्थतो जन्ममरणरहितोऽप्यात्मा तृतीये मासि गृह्णाति ततश्चतुर्ये मासि स्पन्दते चलति। तथाच शारीरके “तस्माच्चतुथ मासि चलनादावभिप्रायङ्करोतोति”। किं च “दोहदस्याप्रदानेन मर्भोदोषमवाप्नुयात्। वैरूप्यं मरणं वापि तस्मात्कार्यं प्रियं स्त्रियाः”। गर्भस्यैकं हृदयं गर्भिण्याश्चापरमित्येवं द्विहृदयायाः स्त्रिया यदभिलषितन्तद्दो- हदम्। तस्याप्रदानेन गर्भोविरूपतां मरणरूपं वा दोष प्राप्नोति तस्मात् तद्दोषपरिहारार्थं गर्भपुष्ट्यर्थं च गर्भिण्याः स्त्रिया यत्प्रियमभिलषितं तत्सम्पादनीयम्”। किं च “स्थैर्यं चतुर्थे त्वङ्गानाम्पञ्चमे शोणितोद्भवः। षष्ठे बलस्य वर्णस्य नखरोमणां च सम्भवः” या०। तृतीये मासि प्रादुर्भूतस्याङ्गसंघस्य चतुर्थे मासि स्थर्यं स्थेमा भवति। पञ्चमे लोहितस्योद्भव उत्पत्तिः। तथा षष्ठे बलवर्णकररुहरोम्णां सम्भवः। किं च “मनश्चेतन्ययुक्तोऽसौ नाडीस्नायुसिरायुतः। सप्तमे चाष्टमे चैव त्वग्मांमस्सृतिमानपि” या०। असौ पूर्वोक्तो गर्भः सप्तमे मासि मनसा चेतनया च युक्तो नाडीमिर्वायुवाहिनीभिः, स्नायुभिरस्थिबन्धनैः सिराभिर्वातपित्तश्लेष्मवाहिनोभिश्च संयुतः। तथाऽष्टमे मासि त्वचा मांसेन स्मृत्या च युक्तो भवति। किं च “पुनर्द्धात्रीं पुनर्गर्भमोजस्तस्य प्रधावति। अष्टमे मास्यतोगर्भोजातः प्राणैर्वियुज्यते” या० तथाष्टममासिकस्य गर्भस्यौजः कश्चन गुणविशेषोधात्रीं गर्भं चप्रति पुनः पुनरतितरां चञ्चलतया शीघ्रं गच्छति। अतोऽष्टमे मासि जातो गर्भः प्राणैर्विबुज्यते। अनेनौजःस्थितिरेव जीवनहेतुरिति दर्शयति। ओजःस्वरूपं च स्मृत्यन्तरे दर्शितम् “हृदि तिष्ठति यत् शुद्धमीषदुष्णं सपोतकम्। ओजः शरीरे संख्यातन्तन्नाशान्नाशमृच्छतीति”। किं च “नवमे दशमे वापि प्रबलैः सूतिमारुतैः। निःसार्यते वाणैव यन्त्रच्छिद्रेण सज्वरः” या० एवं प्रकारेण चतुरादिपरिपूर्णाङ्गेन्द्रियो नवमे दशमे वापि मासेऽपिशब्दात् प्रागपि सप्तसे वाष्टमे वा अत्यायासादिदोषवशात्, प्रबलसूतिहेतुप्रभञ्जनप्रेरितः स्नाय्वस्थिचर्मादिनिर्मितवपुर्यन्त्रस्य छिद्रेण सूक्ष्मशुषिरेण सज्वरो दुःसहदुःखेरभिभूयमानोनिःसार्यते धनुर्यन्त्रेण सुधन्वप्रेरितवाणूइवातिवेगेन। निगमसमनन्तरञ्च बाह्यपवनस्पृष्टो नष्टप्राचीनस्मृतिर्भवति “जातःस वायुना स्पृष्टो न स्मरतिवपूर्व जन्ममरणं कर्म च शुभाशुभमिति” निरुक्तस्याष्टादशेऽभिधानात्”।

पदार्थादर्शे योगार्ण्णवे त्वत्र विशेषौक्तो यथा “कललं चैकरात्रेण पञ्चरात्रेण बद्बुदस। शोणितं दशरात्रेण मांसपेशी चतुर्द्दशे। घनमांसं च विंशाहे पिण्डीभावोपलक्षितम्। पञ्चविंशतिपूर्ण्णाहे कललमङ्कुरायते। एकमासे तु सम्पूर्ण्णे पञ्च भूतानि धारयेत्। मासद्वये तु संप्ताप्ते शिरा मेदश्च जायते। मज्जास्थि च त्रिभिर्मासैः केशाङ्गुल्यश्चतुर्यके। कर्ण्णाक्षिनासिकानां च रन्ध्रं मासे तु पञ्चमे। आस्य- रन्ध्रोदरं षष्ठे वायुरन्ध्नं तु मप्तमे सर्व्वाङ्गं सन्धिसम्पूर्ण्णं मासैरष्टभिरिष्यते”।

तत्रैव अध्यात्मविवेके विशेषः। “द्रवत्वात् प्रथमे मासेकललाख्यं प्रजायते। द्वितीये तु धनः पिण्डः पेश्या त्मा घनमर्वुदम्। पुंस्त्रीनपुंसकानान्तु प्रागवस्थाः क्रमादिमाः। घृतीये त्वङ्कुराः पञ्च कराङ्घ्रिशिरसां मताः। अङ्गप्रत्यङ्गभागाश्च सूक्ष्माः स्युर्युगपत्तदा। विहाय श्मश्रुदन्तादीन् जन्मानन्तरसम्भ्रवान्। एषा प्रकृतिरन्या तु विकृतिः सम्मता सताम्। चतुर्थे व्यक्तता तेषां भावानामपि जायते”।

सुश्रुते तु कायोत्पत्तिप्रकारश्चेत्थमुक्तं यथा “आयुर्वेदशास्त्रेष्वसर्व्वगताः क्षत्रेज्ञा नित्याश्च तिर्यग्योनिमानुषदेवेषु सञ्चरन्ति धर्म्माधर्म्मनिमित्तं, तएतेऽनुमानग्राह्याः परमसूक्ष्माश्चेतनावन्तः शाश्वता लोहितरेतसोः सन्नि पातेष्वऽभिव्यज्यन्ते यतोऽभिहितं पञ्चमहाभूतशरीरसमवायः पुरुष इति। सं एव कर्म्मपुरुषश्चिकित्साधिकृतः”। इत्युपक्रम्य सात्विकराजसतामसगुणान् कर्म्मपुरुषस्योक्त्वा पञ्चभूतकार्य्याणि शरोरे दर्शितानि यथा “आन्तरीक्षास्तु शब्दः शब्देन्द्रियं सर्व्वच्छिद्रसमूहो विविक्तता च। वायव्यास्तु स्पर्शः स्पर्शेन्द्रियं सर्वचेष्टासमूहः सर्वशरीरस्पन्दनं लघुता च। तैजसास्तु रूपं रूपेन्द्रियं वर्ण्णः प्नन्तापो भ्राजिष्णुता पक्तिरमर्षस्तैक्ष्ण्यं शौर्यञ्च। आप्यास्तु रसो रसनेन्द्रियं सर्वद्रवसमूहो गुरुता शैत्यं स्नेहो रेतश्च। पार्थिवास्तु गन्धो गन्धेन्द्रियं सर्वमूर्त्तिसमूहो गुरुता चेति। तत्र सत्वतमोबहुला आपः। तमोबहुला पृथिवीति। श्लोकौ चात्र भवतः। अन्योन्यानुप्रविष्टानि सर्व्वाण्येतानि निर्दिशेत्। स्वे स्वे द्रव्ये तु सर्वेषां व्यक्तं लक्षणमिष्यते”

ततः शुक्रशोणितयोर्दोषगुणप्रदर्शनेन शुद्धयोस्तयोर्गर्भहेतुत्वमुकं यथा“अथातः शुक्रशोणितशुद्धिनाम शारीरं व्याख्यास्यामः। वातपित्तश्लेष्मकुणपगन्धिग्रन्थिभूतपूतिपूयक्षीणमूत्रपुरीषगन्धिरेतसः प्रजोत्पादने न समर्थाभवन्ति। तेषु वातवर्णवेदनं वातेन। पित्तवर्ण्णवेदनं पित्तेन। श्लेष्मवर्णवेदनं श्लेष्मणा। शोणितवर्प्पवेदनं कुणपगन्ध्यनल्पं रक्तेन। ग्रन्थिभूतं श्लेष्मवाताभ्याम्। पूतिपूयनिभं पित्तश्लेष्मभ्याम्। क्षीणं प्रागुक्त पित्तमारुताभ्याम्। मूत्रपुरीषगन्धि सन्निपातेनेति। तेषु कुणपगन्धि–ग्रन्थिभूत–पूतिपूय–क्षीण रेतसः कृच्छ्र- साध्याः। मूत्रपुरीषगन्धिरेतसस्स्वसाध्याः साध्यमन्यच्चेति”

तत आर्त्तवदोषगुणादिकमुक्तं तच्च आर्त्तवशब्दे पृ० ८०८ दर्शितम्। “लब्धगर्भायाश्चैतेष्वहःसु लक्षणावटशुङ्गासहदेवाविश्वानामन्यतमं क्षीरेणाभिषुत्य त्रींश्चतुरो वा विन्दून्दद्याद्दक्षिणे नासापुटे पुत्रकामायै न च तान्निष्ठीवेत्”। “ध्रुवञ्चतुर्ण्णां सान्निध्याद्गर्भः स्याद्विधिपूर्व्वकः। ऋतुक्षेत्राम्बुवीजानां सामग्र्यादङ्कुरो यथा। एवं जातरूपवन्तो महासत्वाश्चिरायुषः। भवन्त्यृणस्य मोक्तारः सुपुत्राः पुत्रिणे हिताः। तत्र तेजोधातुः सर्ववर्ण्णानां प्रभवः स यदा गर्भोत्पत्तावब्धातुप्रायो भवति तदा गर्भं गौरं करोति, पृथिवीधातुप्रायः कृष्णं, पृथिव्याकाशधातुप्रायः कृष्णश्यामं, तोयाकाशधातुप्रायो गौरश्यामम्। यादृग्वर्णमाहारमुपसेवते गर्भिणी, तादृग्वर्णप्रसवा भवतीत्येके भाषन्ते। तत्र दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति। तदेव रक्तानुगतं रक्ताक्षं, पित्तानुगतं शुक्लाक्षं, वातानुगतं विकृताक्षमिति। भवन्ति चात्र। घृतपिण्डो यथैवाग्निमाश्रितः प्रविलीयते। विसर्पत्यार्त्तवं नार्य्यास्तथा पुंसां समागमे। वीजेऽन्तर्व्वायुना भिन्ने द्वौ जीवौ कुक्षिमागतौ। यमावित्यभिधीयेते धर्म्मेतरपुरःसरौ। पित्रोरत्यल्पवीजत्वादासेक्यः पुरुषो भवेत्। सशुक्रं प्राश्य लभते ध्वजोच्छ्रायमसंशयम्। यः पूतियोनौ जायेत स सौगन्धिकसंज्ञितः। स योनिशेफसोर्गन्धमाघ्राय लभते बलम्। स्वे गुदेऽब्रह्मचर्य्याद्यः स्त्रीषु पुंवत् प्रवर्त्तते। कुम्भीकः स च विज्ञेयईर्ष्यकं शृणु चापरम्। दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्त्तते। ईर्ष्यकः स च विज्ञेयः षण्डकं शृणु पञ्चमम्। यो भार्य्यायामृतौ मोहादङ्गनेव प्रवर्त्तते। ततः स्त्रीचेष्टिताकारो जायते षण्डसंज्ञितः। ऋतौ पुरुषवद्वापि प्रवर्त्तेताङ्गना यदि। तत्र कन्या यदि भवेत् सा भवेन्नरचेष्टिता। आसेक्यश्च सुगन्धी च कुम्भोकश्चेर्ष्यकस्तथा। सरेतसस्त्वमी ज्ञेया अशुक्रः षण्डसज्ञितः।

अनया विप्रकृत्या तु तेषां शुक्रवहाः सिराः। हर्षात् स्फुटत्वमायान्ति ध्वजोच्छ्रायस्ततो भवेत्। आहाराचारचेष्टाभिर्य्यादृशीभिः समन्वितौ। स्त्रीपुंसौ समुपेयाता तयोः पुत्रोऽपि तादृशः। यदा नार्य्यावुपेयातां वृषस्यन्त्यौ कथञ्चन। मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थिस्तत्र जायते। ऋतुस्नाता तु या नारी स्वप्ने मैथुनमावहेत्। आर्त्तवं वायुरादाय कुक्षौ गर्भं करोति हि। मासि मासि विवर्द्धेत गर्भिण्या गर्भलक्षणम्। कललं जायते तस्या बर्द्धितं पैतृकैर्गुणैः। सर्पवृश्चिककुष्माण्डधिकृताकृतयश्व ये। गर्भास्त्वेते स्त्रियाश्चैव ज्ञेयाः पापकृता भृशम्। गर्भो वातप्रकोपेण दोहदे चावमानिते। भवेत् कुब्जः कुणिःपङ्गुर्मूको मिन्मिण एव च। मातापित्रोस्तु नास्तिक्यादशुभैश्च पुराकृतैः। वातादीनाञ्च कोपेन गर्भो विकृतिमाप्नुयात्। मलाल्पत्वादयोगाच्च वायोः पक्वाशयस्य च। वातभूत्रपूरीषाणि न गर्भस्थः करोति हि। जरायुणा मुखे च्छन्ने कण्ठे च कफवेष्टिते। वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति। निश्वासोच्छ्वाससङ्क्षोभस्वप्नान् गर्भोऽधिगच्छति। मातुर्निश्वसितोच्छ्वाससङ्क्षोभस्वप्नसम्भवान्। सन्निवेशः शरीराणां दन्तानां पतनोद्भवौ। तलेष्वसम्भवो यश्च रोम्णामेतत् स्वभावतः। भाविताः पूर्ब्बदेहेषु सततं शास्त्रबुद्धयः। भवन्ति सत्वभूयिष्ठाः पूर्व्वजातिस्मरा नराः। कर्म्मणा नोदितो येन तदाप्नोति पुनर्भवे। अभ्यस्ताः पूर्व्वदेहे ये तानेव भजते गुणान्”।

अथातो गर्भावक्रान्तिशारीरं व्याख्यास्यामः। मौम्यं शुक्रमार्त्तबमाग्नेयमितरेषामप्यत्र भूतानां सान्निध्यमस्त्यणुना विशेषेण परस्परोपकारात्परस्परानुग्रहात्परस्परानुप्रवेशाच्च। तत्र स्त्रीपुंसयोः संयोगे तेजः शरीराद्वायुरुदीरयति। ततस्तेजोऽनिलसन्निपाताच्छुक्रं च्युनं योनिमभिप्रतिपद्यते संसृज्यते चार्त्तवेन। ततोऽग्निसोमसंयोगात् संसृज्यमानो गर्भो गर्भाशयमनुप्रतिपद्यते। क्षेत्रज्ञो वेदयिता स्प्रष्टा घ्राता द्रष्टा श्रोता रसयिता पुरुषः स्रष्टा गन्ता साक्षी धाता वक्ता योऽसावित्येवमादिभिः पर्य्यायवाचकै र्नामभिरभिधीयते दैवसंयोगादक्षयोऽव्ययोऽचिन्त्यो भूतात्मना सहान्वक्षं सत्वरजस्तमोभिर्देवासुरैरपरैश्च भावैर्वायुनाभिप्रेर्य्यमाणो गर्भाशयमनुप्रविश्याबतिष्ठते तत्र शुक्रवाहुल्यात पुमान्, आर्त्तवबाहुल्यात् स्त्री, साम्यादुमयोर्न पुंसकमिति। ऋतुस्तु द्वादशरात्रं भवति दृष्टार्त्तवः। अदृष्टार्त्तवाप्यस्तीत्येके भाषन्ते। भवन्ति चात्र। पीनप्रसन्नवदनां प्रस्विन्नात्ममुखद्विजाम्। नरकामां प्रियकथां स्रस्तकुक्ष्यक्षिमूर्द्धजाम्। स्फुरद्भुजकुचश्रोणिनाभ्यूरुजघनस्फिचम्। हर्षौत्सुक्यपराञ्चापि विद्यादृतुमतीमिति। नियतं दिवसेऽतीते सङ्कुचत्यम्बुजं यथा। ऋतौ व्यतीते नार्य्यास्तु योनिः संव्रियते तथा। मासेनोपचितं काले धमनीभ्यान्तदार्त्तवम्। ईषत् कृष्णं विगन्धञ्च वायुर्योनिसुखं नयेत्। तद्वर्षाद्द्वादशात्काले वर्त्तमान- मसृक् पुनः। जरापक्वशरीराणां याति पञ्चाशतः क्षयम्। युग्मेषु तु पुमान् प्रोक्तो दिवसेष्वऽन्यथाऽबला। पुष्प काले शुचिस्तस्मादपत्यार्थी स्त्रियं व्रजेत्। तत्र सद्योगृहीतगभोया लिङ्गानि श्रमो ग्लानिः पिपासा सक्थिसदनं शुक्रशोणितयोरनुबन्धः स्फुरणञ्च योनेः। स्तनयोःकृष्णमुखता रोमराज्युद्गमस्तथा। अक्षिपक्ष्माणि चाप्यस्याः संमोल्यन्ते विशेषतः। अकामतश्छर्दयति गन्धादुद्विजते शुभात्। प्रसेकः सदनञ्चापि गर्भिण्या लिङ्गमुच्यते। तदा प्रभृत्येव व्यायामं व्यवायमपतर्पणमतिकर्षणम् दिवास्वप्नं रात्रिजागरणम् शोकंयानारोहणं भयमुत्कुटासनं चैकान्ततः स्नेहादिक्रियां शोणितमोक्षणं चाकाले वेगविधारणं च न सेवेत। दोषाभिघातैर्गर्भिण्या यो यो भागः प्रपीड्यते। स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते। तत्र प्रथमे मासि कललं जायते। द्वितीये शीतोष्मानिलैरभिप्रपच्यमानानां महाभूतानां सङ्घातो घनः सञ्जायते यदि पिण्डः पुमान्,स्त्री चेत्पेशी, नपुंसकं चेदर्बुदमिति। तृतीये हस्तपादशिरसां पञ्च पिण्डका निर्वर्त्तन्तेऽङ्गप्रत्यङ्गविभागाश्च सूक्ष्मा भवन्ति। चतुर्थे सर्व्वाङ्गप्रत्थङ्गविभागः प्रव्यक्ततरो भवति गर्भहृदयप्रव्यक्तभावाच्चेतनाघातुरभिव्यक्तो भवति, कस्मात्? तत्स्थानत्वात्तस्माद्गर्भश्चतुर्थे मास्यभिप्रायमिन्द्रयार्थेषु करोति द्विहृदयां च नारीं दौहदिनीमाचक्षते। दौहदविमाननात् कुब्जं कुणिं खञ्ज जडं यामनं विकृताक्षमनक्षं वा नारी सुतं जनयति। तस्मात् सा यद्यदिच्छेत्तत्तस्यै दापयेत्। लब्धदोहदा हि वीर्य्यवन्तम् चिरायुषं च पुत्रं जनयति। भवन्ति चात्र। इन्द्रियार्थांस्तु यान् यान् सा भोक्तुमिच्छति गर्भिणी। गर्भाबाधभयात्तांस्तान भिषगाहृत्य दापयेत्। सा प्राप्तदौहदा पुत्रं जनयेच्च गुणान्वितम्। अलब्धदौहदा गर्भे लभेतात्मनि वा भयम्। येषु येष्विन्द्रियार्थेषु दौहदे वै विमानना। प्रजायेत सुतस्यार्त्तिस्तस्मिस्तस्मि स्तथेन्द्रिये। राजसन्दर्शने यस्या दौहदं जायत स्त्रियाः। अर्थवन्तं महभिगं कुमारं सा प्रसूयते। दुकूलपट्टकौशेयभूषणादिषु दौहदात्। अलङ्कारैषिणं पुत्रं ललितं वा प्रसूयते। आश्रेमे, संयतात्मानं धर्म्मशीलं प्रसूयते। देवताप्रतिमायान्तु, प्रसूते पार्षदोपमम्। दर्शने व्यालजातीनां हिंसाशीलं प्रसूयते। गोधामांसाऽशने पुत्र सुषुप्सुं धारणात्मकम्। गवां मांसे च बलिनं सर्व्वक्लेशसहन्तथा। माहिषेदौहदाच्छूरं रक्ताक्षं लोम- संयुतम्। वराहमांसात् स्वप्नालुं शूरं सञ्जनयेत्सुतम्। मार्भादुविक्रान्तजङ्घालंसदा वनचरं सुतम्। सृमराद्विग्नमनसं नित्यभीतं च तैत्तिरात्। अतोऽनुक्तेषु या नारी समाध्यायति दौहदम्। शरीराचारशीलैः सा समानं जनयिष्यति। कर्म्मणा नोदितं जन्तोर्भवितव्यं पुनर्भवेत्। यथा तथा दैवयोगाद्दौहदं जनयेद्धृदि।

पञ्चमे मनः प्रतिबुद्धतरं भवति। षष्ठे बुद्धिः। सप्तमे सर्वाङ्गप्रत्यङ्गविभागः प्रव्यक्ततरः। अष्टमेऽस्थिरीभवत्योजस्तत्र जातश्चेन्न जीवेन्नैरृतभागत्वाच्च ततो बलिं मांसौदनमस्मै दापयेत्। नवमदशमैकादशानामन्यतमे जायते अतो,ऽन्यथा विकारी भवति। मातुस्तु खलु रसवहायां नाड्यां गर्भनाभिनाडी प्रतिबद्धा सास्य मातुराहाररसवीर्य्यमभिवहति। तेनोपस्नेहेनास्याभिवृद्धिर्भवति। असञ्जाताङ्गप्रत्यङ्गप्रविभागमानिषेकात्प्रभृति सर्व्वशरीरावयवानुसारिणीनां रसवहानां तिर्य्यग्गतानां धमनीनामुपस्नेहो जीवयति। गर्भस्य हि सम्भवतः पूर्व्वं शिरः सम्भवतीत्याह शौनकः शिरोमूलत्वाद्देहेन्द्रियाणाम्। हृदयमिति, कृतवीर्य्यो बुद्धेर्मनसश्च स्थान त्वात्। नाभिरिति पाराशर्य्यस्ततो हि वर्द्धते देहो देहिनः। पाणिपादमिति मार्कण्डेयस्तन्मूलत्वाच्चेष्टाया गर्भस्य। मध्यशरीरमिति सुभूतिर्गौतमस्तन्निबद्धत्वात् सर्व्वगात्रसम्भवस्य। तत्तु न सम्यक् सर्व्वाङ्गप्रत्यङ्गानि युगपत् सम्भवन्तीत्याह धन्वन्तरिर्गर्भस्य सूक्ष्मत्वान्नोपलभ्यन्ते वंशाङ्कुरवच्चूतफलवच्च। तद्यथा चूतफले परिपक्वे केशरभांसास्थिमज्जानः पृथग्दृश्यन्ते कालप्रकर्षात्, तान्येव तरुणे नोपलन्यन्ते सूक्ष्मत्वात्तेषां सूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति। एतेनैव वंशाङ्कुरोऽपि व्याख्यातः। एबं गर्भस्य तारुण्ये सर्वेष्वङ्गप्रत्यङ्गेपु सत्स्त्रपि सौक्ष्म्यादनुपलब्धिः। तान्येव कालप्रर्कषात् प्रव्यक्तानि भवन्ति। तत्र गर्भस्यपितृजमातृजरसजात्मजसत्वजसात्म्यजानि शरीरलक्षणानि व्याख्यास्यामः। गर्भस्य केशश्मश्रुलोमास्थिनखदन्तशिरास्नायुधमनीरेतःप्रभृतीनि स्थिराणि पितृजानि। मांसशोणितमेदोमज्जहृनाभियकृत्प्लोहान्त्रगुदप्रभृतीनि मृ दूनि मातृजानि। शरीरोपचयो बलं वर्णः स्थितिर्हानिश्च रसजानि। इन्द्रियाणि ज्ञानं विज्ञानमायुः सुखदुःखादिकान्यात्मजानि। सत्वजान्युत्तरं वक्ष्यामः। वीर्य्यमारोग्य बलवर्णौ मेधा च सात्म्र्यजानि। तत्र यस्या दक्षिणे स्तने प्राक् पयोदर्शनं भवति दक्षिणाक्षिम हत्त्वं च पूर्वं च दक्षिणं सक्थ्युत्कर्षति बाहुल्याच्चपुन्नामधेयेषु द्रव्येषु दौहदमभिध्यायति स्वप्नेषु चोपलभते पद्मोत्प लकुमुदाम्रातकादीनि पुन्नामान्येव, प्रसन्नमुखवर्णा च मवति तां ब्रूयात् पुत्रमियं जनयिष्यतीति। तदुविपर्य्यये कन्याम्। यस्याः पार्श्वद्वयमुन्नतम्पुरस्तान्निर्गतमुदरं प्रागभिहितलक्षणं च तस्या नपुंसकमिटि विद्यात्। यस्य मध्ये निम्नं द्रोणीप्रभूतमुदरं सा युग्मं प्रसूते इति। भवन्ति चात्रदेवताब्राह्मणपराः शौचाचारहिते रताः। महागुणान् प्रसूयन्ते विपरीतास्तु निर्गुणान्। अङ्गप्रत्यङ्गनिर्वृत्तिः स्वभावादेव जायते। अङ्गप्रत्यङ्गनिर्वृत्तौ ये भबन्ति गुणागुणाः। ते ते गर्भस्य विज्ञेयाधर्माधर्मनिमित्तजाः”।

एवं याज्ञवल्क्यसुश्रुतादिवाक्यैः कायस्य पाञ्चभौतिकत्वे स्थितेऽन्येऽपि भूतविशेषगुणादिभेदाः पदार्थादर्शे उक्ता यथा। “अस्थि मांसं त्वचा स्नायूरोम चैव तु पञ्चमम्। एते पञ्चविधा प्रोक्ता पृथिवी कठिनात्मिका। लाला मूत्रं तथा शुक्रं शोणितं मज्जपञ्चमम्। अपां पञ्च गुणा एते द्रवरूपाः प्रकीर्त्तिताः। क्षुधातृष्णाऽऽमयं निद्रा आलस्यं क्षान्तिरेव च। उष्णात्मका गुणाएते तेजसः परिकीर्त्तिताः। धावनं गमनं भुक्तिराकुञ्चनप्रसारणे। एते पञ्चगुणावायोः क्रियारूपा व्यवस्थिताः। रागद्वेषौ तथा लज्जा भयं मोहस्तथै च। व्योम्नः पञ्च गुणा एते शून्याख्ये शुषिरात्मनि”। तत्रायं विशेषः मनुष्यकायस्य पार्थिवत्वं, चन्द्रालोकस्थकायस्याप्यत्वं सूर्य्यादिलोकस्थकायस्य तैजसत्वं वायुलोककायस्य वायव्यत्वम् बाहुल्येन तत्तत्कायेष पृथिव्यादिगुणाधिक्यो पलब्धेः। इतरभूतानान्तु उपष्टम्भकतामात्रं तदेतत् गौत० सू० भाष्ययोर्निर्ण्णीतं यथा। “पार्थिवं गुणान्तरोपलब्धे” ३ अ० २८ सू० तत्र मानुषं शरीरं पार्थिबम्। कस्मात्? गुणान्तरोपलब्धे। गन्धवती पृथिवी, गन्धवच्छरीरम्, अवादीनामगन्धत्वात् तत्प्रकृत्यगन्धं स्यात् न त्विदमबादिभिरसंपृक्तया अथिव्यारब्धं चेष्टेन्द्रियार्थाश्रयभावेन कल्प्यत इत्यतः पञ्चानां संयोगे सति शरीरं भवति भूतसंयोगीहि मिथः पञ्चानां न निषिद्ध इति, आप्यतैजसवायव्यानि लोकान्तरे शरीराणि, तेष्वपि भूतसंयोगः पुरुषार्थतन्त्र इति स्थाल्यादिद्रव्यनिष्पत्तावपि निःसंशयं, नाबादिसंयोगमन्तरेण निष्पत्तिरिति। पार्थिवाप्यतैजसं तद्गुणोपलब्धेः, निश्वासो- च्छासोपलब्धेश्चातुर्भौतिकम्, गन्धक्लेदनव्यूहावकाशदानेभ्यः पाञ्चभौतिकम्, त इमे सन्दिग्धा हेतव इत्यपेक्षितवान् सूत्रकारः। कथं सन्दिग्धाः? सति च प्रकृतिभावे भूतानां धर्मोपलब्धिः, असति च संयोगाप्रतिषेधात् सन्निहितानामिति यथा स्थाल्यामुदकतेजोवाय्वाकाशानामिति, तदिदमेकभूतप्रकृति शरीरनगन्धमरसमरूपमस्पर्शं च प्रकृत्यनुविधानात् स्यात् नत्विदमित्थंभूतम् तस्मात् पार्थिवं गुणान्तरोपलब्धेः भा०।

“श्रुतिप्रामाण्याच” ३ अ० २९ सू० “सूर्यंते चक्षुर्गच्छवात्” इत्यत्र मन्त्रे “पृथिवीं ते शरीरमिति” श्रूयते तदिदं प्रकृतौ विकारस्य प्रलयाभिधानमिति “सूर्य्यं ते चक्षुः स्तृणोमि” इत्यत्र मन्त्रान्तरे “पृथिवीं ते शरोरमिति” श्रूयते, सेयं कारणाद्विकारस्य स्तृतिरभिधीयत इति, स्थाल्यादिषु च तुल्यजातीयानामेककार्य्यारम्भदर्शनाद्भिन्नजातीयानामेककार्य्यारम्भानुपपत्तिः” वात्स्या० भा० सां० सूत्रेषु च “पाञ्चभौतिकोदेहः” सू० पञ्चानां भूतानां मिलितानां परिणामोदेह इत्येकीयमतम्। “चातुर्भौतिकमित्येके” सू०। आकाशस्यानारम्भकत्वमभिप्रेत्येदम्। एतच्च चार्वाकादिप्तते तस्पते भूतचतुष्टयस्यैव स्वीकारात् चार्वाकशब्दे विवृतिः। “ऐकभौतिकमित्यपरे” सू०। “पार्घिवमेव शरीरमन्यानि भूतान्य, पष्टम्भकमात्राणि। अथवा ऐक भौतिकमैकैकभौतिकमित्यर्थः ततश्च मनुष्यदेहे पार्थिवांशाधिक्येन पार्थिवता। चन्द्रादिलोकेषु अबाद्यंशाधिक्येन आप्यत्वादि। हिमकरकसुवर्ण्णादीनामिव भूतान्तरसंसर्गमात्रम्” भा०। ऊष्मजादिदेहानुक्त्वा “सर्व्वेषु पृथिव्येवोपादानम् असाधारण्यात् तद्व्यपदेशः पूर्ब्बवत्” सू०। सर्व्वेष स्थावरास्थावरदेहेषु पृथिव्येवोपादानम् असाधारण्यात् आधिक्यादिभिरुत्कर्षात् अत्रापि काये पञ्चचतुरादिभूतजत्वव्यपदेशः पूर्ब्बवत् इन्द्रियाणां भौतिकत्व वदुपष्टम्भमात्रेणेत्यर्थः” भा०। शा० सू० भाष्ययोश्च छा० उ० मांसादीनां पृथिव्यादिकार्य्यत्व न्योक्त्याकयिस्य त्रैभौतिकत्वं व्यवस्थापित यथा “मांसादि भौमं यथाशब्दमितरयोश्च” सू०। “भूमेस्त्रिवृत्कृतायाः पुरुषेणोपयुज्यमानायाः मांसादि कार्य्यं यथाशब्दं निष्पद्यते। तथाहि (छा०) श्रुतिः “अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठोधातुस्तत्पुरीषं भवति, यो मध्यम स्तन्मासं, योऽणिष्ठस्तन्मनः” इति। त्रिवृत्कृता भूमिरेवैषा व्रीहियवाद्यन्नरूपेणाद्यते इत्यभिप्रायः। तस्याश्च स्थ- विष्ठं रूपं पुरीषभावेन बहिर्निर्गच्छति मध्यममध्यात्मं मांसं वर्द्धयति अणिष्ठन्तु मनः। एवमितरवोरप्तेजसोर्यथाशब्द कार्य्यमवगन्तव्यम्। मूत्रं लोहितं प्राणश्चापां कार्य्यम्। अस्थि मज्जा वाक् च तेजस इति। अत्राह यदि सर्वमेव त्रिवृत्कृतं भूतभौतिकम् अविशेषश्रुते “तासां त्रिवृतं त्रिवृतमेकैकामकरोदिति” किकृतस्तर्ह्ययं विशेषव्यपदेशः इदं तेजः इमा आप इदमन्नमिति तथा ध्यात्ममिदमन्नस्याशितस्य कार्य्यं मांसादि, इदमपां पोतानां कार्य्यं लोहितादि, इदं तेजसोऽशितस्य कार्य्यं मज्जादि। अत्रोच्यते“वैशेष्यात्तु तदुवादस्तदुवादः” सू०। तुशब्देन नोदितं दोषमपनुदति। विशेषस्य भावो वैशेष्यं भूयस्त्वमित्येतत्। सत्यपि त्रिवृत्करणे क्वचित् कस्यचिद्भूतधातोर्भूयस्त्वमुपलभ्यते। अग्नेस्तेजोभूयस्त्वम्, उदकस्याब्भूयस्त्वं, पृथिव्या अन्नभूयस्त्वमिति व्यवहारप्रसिद्ध्यर्थं चैवं त्रिवृत्करणम्। व्यवहारश्च त्रिवृत्कृतरज्वुवदेकत्वापत्तौ सत्यां न भेदेन भूतत्रयगोचरोलोकस्य प्रसिद्ध्येत्। तस्मात् सत्यपि त्रिवृत्करणे वैशेष्यादेव तेजोबन्नविशेषवादो भूतभौतिकविषय उपपद्यते” भा०।

उत्तरपादे च बाहुण्यात् देहस्व त्रैमौतिकत्वमुक्तं यथा।

“तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाव्याम्” सू०। तदन्तर प्रतिपत्तौ देहाद्देहान्तरप्रतिपत्तौ देहवीजैर्भूतसूक्ष्मैः संपरिष्वक्तो गच्छतीत्यवगन्तव्यं कुतः? प्रश्ननिरूपणाभ्याम्। तथाहि प्रश्नः “वेत्थ यथा सौम्य! पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति”। निरूपणं च प्रतिवचनं द्युपर्जन्यपृथिवीपुरुषयोषित्सु पद्यस्वग्निष श्रद्धामेघवृष्ट्यन्नरेतोरूपाः पञ्चाहुतीर्दर्शयित्वा “इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति” तस्मादद्भिः परिवेष्टितो जीवोरह्तीति गम्यते। नन्वन्या श्रुतिर्जलूकावत् पूर्व्वं देहं न मुञ्चति यावद्देहान्तरं न क्रामतोति दर्शयति “तद्यया तृणजलायूकेति”। वत्राप्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेह विषयभावनया दोर्धीभावमात्रं जलूकयोपमीयते इत्यविरोधः एवं श्रुत्युक्ते देहान्तरपतिपत्तिप्रकारे सति याः पुरुषमतिप्रभवाः कल्पनाः व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मवशाद्वृत्तिलाभस्तत्र भवति, केवलस्येव वात्मनो वृत्तिलाभस्तत्र भवति, इन्द्रियाणि तु देहवदमिनवान्येव तत्र तत्र भोगस्थान उत्पद्यन्ते, मनएव वा केवद्भं भोगस्थानमभिप्रतिष्ठते, जीवएव वा उत्प्लुत्य देहाद्वेहान्तरं प्रतिपद्यते शुकैव वृक्षाद्वृक्षान्तरमित्येवमाद्याः ताः सर्वाएवानादर्त्तव्याः श्रुतिविरोधात्। ननूदाहृताभ्यां प्रश्नप्रतिवचनाभ्यां केवलाभिरद्भिः सपरिष्वक्तोरंहति इति प्राप्नोति अप्शब्दश्रवणसामर्थ्यात् तत्र कथं सामान्येन प्रतिज्ञायते? सर्वैरेव भूतसूक्ष्मैः संपरिष्रक्तोरंहतीत्यत उत्तरं पठति।

“त्र्यात्मकत्वात्तुभूयस्त्वात् तद्व्यपदेशः” सू०। तुशब्देन नोदितामाशङ्कामुच्छिनत्ति त्र्यात्मिकाह्यापः त्रिवृत्करणश्रुतेः तास्वारम्भिकास्वप्स्वभ्युपगतास्वितरदपि भूतद्वयमवश्याभ्युपगन्तव्यं भवति त्र्यात्मकश्च देहःत्रयाणामपि तेजोबन्नानां तस्मिन् कार्य्योपलब्धेः पुनश्च त्र्यात्मकः त्रिधातुकत्वात् त्रिभिर्वात पित्तश्लेष्माः। न स भूतान्तराणि प्रत्याख्याय केवलाभि रद्भिरारब्धुं शक्यते। तस्माद्भूयस्त्वापेक्षोऽयमापः पुरुषवचस इति प्रश्नप्रतिवचनयोरप्शब्दो न कैवल्यापेक्षः। सर्वदेहेषु हि रसलोहितादिद्रवभूयस्त्वं दृश्यते। ननु पार्थिवो धातुर्भूयिष्ठो देहेषूपलभ्यते! नैष दोषः इतरापेक्षया अपां बाहुल्यं मविष्यति, दृश्यते च शुक्रशोणि तलक्षणेऽपि देहवीजे द्रवद्रव्यबाहुल्यम्। कर्म च निमित्तं कारणं देहान्तरा रम्भे, कर्माणि चाग्निहोत्रादीनि सोमाज्यपयःप्रभृति द्रवद्रव्यव्यपाश्रयाणि, कर्मसमवायिन्यश्चापः श्रद्धाशब्दोदिताः सह कर्मिभिर्द्युलोकाख्येऽग्नौ हूयन्त इति वक्ष्यति तस्मादप्यपां बाहुल्यप्रसिद्धिः। बाहुल्याच्चाप्शब्देन सर्वेषामेव देहवीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम्”। तथा च त्रैभौतिकत्वं बाहुल्याभिप्रायेण ऐतरेयोपनिषदि पाञ्चभौतिकत्वोक्तेः। यथा

“एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्च महाभूतानि–पृथिवी वायुराकाश आपो ज्योतींषीत्येतानोमानि च क्षुद्रमिश्राणीव वीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वे दजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो–यत् किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरम्, सर्वं तत् प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म” उप० ३ अ०।

“स एष प्रज्ञानरूप आत्मा ब्रह्म। अपरं सर्व्वशरीरस्थप्राणप्रज्ञात्मान्तःकरणोपाधिष्वनुप्रविष्टो जलभेदगतसूर्यप्रतिविम्बवद्धिरण्यगर्भः प्राणः प्रज्ञात्मा। एष एवेन्द्र इन्द्रगुणवान् देवराजो वा। एषः प्रजापतिर्यः प्रथमजः शरीरी, यतो सुखादिनिर्भेदद्वारेणाग्न्यादयो लोकपाला जाताः। सप्रजो वा एषः प्रजापतिरेष एष येऽप्येते अग्न्यादयः सर्वे देवा एष एव। इमानि च सर्वशरीरोपादानभूतानि–पञ्च पृथिव्यादीनि महाभूतान्यन्नान्नहेत्वादि लक्षणान्येतानि। किञ्चेमानि च क्षुद्रैरल्पकैर्मिश्राणि सर्पादीनि। इवशब्दोऽनर्थकः। वीजानि कारणानि चेतराणि चेतराणि च द्वैराश्येन चलाचलतया निर्दिश्यमानानि। कानि तानि? इत्युच्यन्ते–अण्डजानि पक्ष्यादीनि। जारुजानि जरायुजानि मनुष्यादीनि। स्वेदजानि यूकादीनि उद्भिज्जानि च वृक्षादीनि। अश्वाः, गावः, मनुष्याः, हस्तिनः। अन्यच्च यत्किञ्चिदिदं प्राणिजातम्। किं तत्? जङ्गमं यच्चलति पद्भ्यां गच्छति। यच्च पतत्रि आकाशेन पतनशीलम्। यच्च स्थावरमचलं सर्व्वं, तदशेषतः प्रज्ञानेत्रम्–प्रज्ञप्तिः प्रज्ञा, तच्च ब्रह्मैव, नीयते सत्ता प्राप्यते अनेनेति नेत्रं, प्रज्ञा नेत्रं यस्य तदिदं प्रज्ञानेत्रम्। प्रज्ञाने ब्रह्मण्युत्पत्तिस्थितिलयकालेषु प्रतिष्ठितं प्रज्ञाश्रयमित्यर्थः। प्रज्ञानेत्रो लोकः पूर्ववत्। प्रज्ञाचक्षुर्वा सर्व एव लोकः। प्रज्ञा प्रतिष्ठा सर्व्वस्य जगतः। तस्मात् प्रज्ञानं ब्रह्म। तदेतत् प्रत्यस्तमितसर्व्वोपाधिविशेषं सन्निरञ्जनं निर्मलं निष्क्रियं शान्तमेकमद्वयं, नेति सर्व्वविशेषापोहसंवेद्यं सर्व्वशब्दप्रत्ययागोचरं तदत्यन्तविशुद्धप्रज्ञोपाधि सम्बन्धेन सर्व्वज्ञमीश्वरसंज्ञं भवति। सर्व्वसाधारणाव्याकृतजगद्वीजप्रवर्त्तकं नियन्तृत्वादन्तर्यामिसञ्ज्ञं भवति। तदेव जगद्वीजभूतबुद्ध्यात्माभिमानलक्षणहिरण्यगर्भसञ्ज्ञं भवति। तदेवान्तरण्डोद्भूतप्रथमशरोरोपाधिमद्विराट् प्रजापतिसञ्ज्ञं भवति। तदुद्भूताग्न्याद्युपाधिमद्देवताटिसञ्ज्ञं भवति। तथा विशेषशरीरोपाधिष्वपि ब्रह्मादिस्तम्बपर्य्यन्तेष तत्तन्नामरूपलाभो ब्रह्मणस्तदेवैकं सर्व्वोपाधिभेदभिन्नं सर्वैः प्राणिभिस्तार्किकैश्च सर्व्वप्रकारेन ज्ञायते विकल्प्यते चानेकधा। एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्। इन्द्रमेकेऽपरे प्राणमपरे ब्रह्म शाश्वतभित्याद्या स्मृतिः” शाङ्करभाष्यम्।

कणादसूत्रवृत्त्योस्तु कायस्य पञ्चादिभौतिकत्व निराकरणेन एकैकभूतारब्धत्वं व्यवस्थापितं यथा “पृथिव्यादि कार्य्यद्रव्यं त्रिविधं–शरीरेन्द्रियविषयसंज्ञकम्” क० सू०। तत्र शरीरत्वं प्रयत्नवदात्मसं योगासमवायिकारणवत्क्रियाबदन्त्यावयवित्वम् उपाधिभेदः न तु शरीरत्वं जातिः पृथिव्यादिना परापरभावानुपप्रत्तेः” उपस्करवृत्तिः। तथा च शरीरत्वम् अन्त्यावय- विमात्रवृत्तित्वे सति चेष्टावद्वत्तिजाति मत्त्वं। हस्तत्वपृथिवीत्वद्रव्यत्वसत्तादिवारणाय सत्यन्तम्। घटत्वादिवारणाय चेष्टावद्वृत्तोति। घटशरीरसंयोगादिवारणाय जातीति। मनुष्यत्वचैत्रत्वादिजातिमादाय मानुषादिशरोरे लक्षणसमन्वयः। वृक्षादावपि चेष्टा अस्त्येव आध्यात्मिकवापुसम्बन्धातु अन्यथा भग्नक्षतसंरोहणादिकं न स्यात्। कल्पभेदेन नृसिंहशरीरस्य नानात्वात् नृसिंहत्वजातिमादाय तत्र लक्षणसमन्वयः नतु शरीरत्वं जातिः पृथिवीत्वादिना सङ्करात् नापि चेष्टाश्रयत्वम् मिश्चेष्टशरोरेऽव्याप्तेः।

“इदानीं शरीरस्य त्रैभौतिकत्वचातुर्भौतिकत्वप्रवादं निराकर्त्तुमाह” उपस्करवृत्तिः। “प्रत्यक्षाप्रत्यक्षाणां सयोगस्याप्रत्यक्षत्वात् पञ्चात्मकं न विद्यते” सू० “यदि गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकं शरीरं भवेत् तदाऽप्रत्यक्षं भवेत् यथा प्रत्यक्षाप्रत्यक्षाणां वायुवनस्पतीनां संयोगोऽप्रत्यक्षस्तथा शरीरमप्यप्रत्यक्षं स्यादिति दृष्टान्तद्वारकं सूत्रं, पञ्चात्मकं न विद्यत इति शरीरमिति शेषः। क्लेदपाकादयस्तु उपष्टम्भकजलानलगता एव, चातुर्भौतिकमप्येवम्। नन्वस्तु त्रैभौतिकम्, त्रयाणां भूतानां प्रत्यक्षत्वादिति चेन्न विजातीयारम्भस्य प्रतिषेधात्। एकस्य गुणस्यावयविनि गुणानारम्भकत्वात्। तथा च यदि पृथिवीजलाभ्यामारम्भः स्यात्! तदा तदारब्धमगन्धमरसञ्च स्यात्! एवं पृथिव्यनलाभ्यामगन्धमरूपमरसञ्च स्यात्! पृथिव्यनिलाभ्यामगन्धमरसमरूपमस्णर्शञ्च स्यादित्याद्यूह्यम्” उ० वृत्तिः “गुणान्तराप्रादुर्भावाच्च न त्र्यात्मकम्” सू०। “पृथिव्यप्तेजसां प्रत्यक्षाणामेवारब्धं शरीरं प्रत्यक्षं स्यादपि यदि तत्र गुणान्तरं कारणगुणपूर्व्वकं प्रादुर्भवेत्, न त्वेतदस्ति एकस्य गन्धादेरनारम्भकत्वस्योक्तत्वात् तथाच न त्र्यात्मकमपि शरीरं न रूपवद्भूतत्रयारब्धमपीत्यर्थः। कथं तर्ह्येकस्मिन्नेव शरीरे पाकादीनामुपलम्भः? इत्यत आहं” वृत्तिः। “अणुसंयोगस्त्वप्रतिषिद्धः” सू० “मिथः पञ्चानां भूतानां परस्परमुपष्टम्भकतया संयेगो न निषिध्यते, किन्तु विजातीययोरण्वोर्द्रव्यं प्रत्यसमवायिकारणं संयोगो नेष्यते। तथाच तदुपष्टम्भात् पाकादीनां शरीरे भवत्युपलम्भ इति तर्हि किंप्रकृतिकमिदं मानुषशरीरम्? इत्यत्र गोतमीयं सूत्रमुपतिष्ठते “पार्थिवं तद्विशेषगुणोपलब्धेः” (पाठान्तरम्) पृथिवीविशेषगुणो गन्धो मानुषशरीरे आनाशमनपायी दृश्यते, पाकादयस्तु शुष्कशरीरे नोपलभ्यन्ते इति तेषामौपाधिकत्व गन्धस्य स्वाभाविकत्वमिति पार्थिवत्वव्यवस्थितेः” उपस्करवृत्तिः।

वेदान्तिनस्तु मनुष्यादिकायस्य पाञ्चभौतिकत्वमेव प्रतिपेदिरे। तच्च प्रमेयविवरणोपन्यासे उक्तं तच्च ६६४ पृ० दर्शितम्। चार्वाकास्तु कायस्यैव भोक्तृत्वं मन्यन्ते तन्मतं तत्रैव निराकृतं तच्च ६६४ पृ० दर्शितम्।

अत्रेदमभिधीयते। प्राधान्येन यद्येकैकभूतारब्धत्वं तथापि कस्य मानबदेहारम्भकत्वम् तद्विवेचनीयम्। प्रागुक्तसुश्रुतवाक्येन या० वाक्येन प्रत्यक्षेण अवरोहशब्दे ४४० पृ० दर्शितशा० सूत्रभाष्येण वक्ष्यमाणैतरेयश्रुत्या च शुक्रशोणितयोरेव योनिनिषेकेण चेतनाधिष्ठाने देहारम्भस्योक्तत्वात् शुक्रशोणितयोरुपादानत्वं युक्तं ताभ्यामेव देहा रम्भणात् शुक्रशोणितोपादानवत्वात् देहस्याप्यत्वं शुक्रस्य तैजसत्वात् तैजसत्वञ्च युक्तं, श्रुतौ “वेत्थ यथा सौम्य! पञ्चम्यामाहुतावापः पुरुषवचसोभवन्तीति” प्रश्ने “इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति” प्रतिवचने च छा० उ० पुरुषशब्दवाच्यदेहेन्द्रियसंघातस्य अम्मयत्वमुक्तम् शुक्रस्य च ब्रीह्यन्नोपादनकत्वेन पार्थिवत्वमपि “आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” इति मनुना प्राग्दर्शितेन याज्ञ० वचनेन च अन्नोपादानकत्वस्योक्त्या च पार्थिवत्वसिद्धेः। तथा च नूथस्त्वेन त्र्यत्मकत्वमेव मानवदेहानां युक्तम् अतएव “त्र्यात्मकत्वात्तुभूयस्त्वात्तद्व्यपदेशः” शा० सू० त्र्यात्मकत्वमेवोक्तं तेन पाञ्चभौतिकत्वोक्तिरितरभूतोपष्टम्भकतामात्राभिप्राया। श्रुत्या बलवदागमेश्च विरोधात् कायस्य एकभूतारब्धावानुमानं नरशिरःकपालशुचित्वानुमानवत् न प्रसरति। ६६४ पृ० दर्शितविवरणोपन्यासोक्तदिशा पाञ्चभौतिकत्ववत् त्रैभौतिकत्वस्याप्युपपत्तेरिति।

गर्भत उत्पत्तिप्रकारः ऐतरयोपनिषदि तद्भाष्ये च दर्शितो यथा“पुरुषे ह वा अयमादितो गर्भो भवति। यदेतद्रेतस्तदेतत् सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भृतमात्मन्ये वात्मानं बिभर्त्ति। तद्यदा स्त्रियां सिञ्चत्यथैतज्जनयति तदस्य प्रथमं जन्म।

तत् स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा। तस्मादेनां न हिनस्ति सास्यैतमात्मानमत्र गतं भावयति।

सा भावयित्री भावयितव्या भवति तं स्त्रीगर्भं बिभर्त्ति सोऽग्र एव कुमारं जन्मनोऽग्रेऽधिभावयति। स यत् कुमार् जन्मनोऽग्रेऽधिभावयति आत्मानमेव तद्भावयत्येषां लोकानां सन्तत्याएवं सन्तता हीमे लोकास्तदस्य द्वितीयं जन्म।” उप०

“वैराग्यहेतोरयमेवाविद्याकामकर्मवान् यज्ञादिकर्म कृत्वा अस्माल्लोकाद्धूमादिक्रमेण चन्द्रमसम्प्राप्य क्षीणकर्मा वृष्ट्या दिक्रमेणेमं लोकं प्राप्यान्नभूतः पुरुषेऽग्नौ हुतः। तस्मिन् पुरुषे ह वै अयं संसारी रसादिक्रमेणादितः प्रथमं रेतोरूपेण गर्भो भवतीति तदाह तदेतत् पुरुषे रेतस्तेन रूपेणेति। तच्चैतद्रेतोऽन्नमयस्य पिण्डस्य सर्वेभ्यः अङ्गेभ्यो रसादिलक्षणेभ्यस्तेजः साररूपं शरीरस्य, सम्भृतं परिनिष्पन्नं तत् पुरुषस्याऽऽत्मभूतत्वादात्मा। तमात्मानं रेतोरूपेण गर्भीभूतमात्मानमात्मन्येव स्वशरीरे एव बिभर्त्ति धारयति। तद्रेतो यदा यस्मिन् काले भार्य्या ऋतुमती तस्यां योषाऽग्नौ स्त्रियां सिञ्चति। उपगच्छन्नथ तदैतद्रेत आत्मनो गर्भभूतं जनयति पिता। तस्य सुरुषस्य स्थानान्निर्गमनं रेतःसेककाले रेतोरूपेणास्य संसारिणः प्रथमं जन्म प्रथमावस्थाभिव्यक्तिः। तदेतदुक्तं पुरस्तादसावात्माऽमुमात्मानमित्यादिना। तद्रेतो वस्यां स्त्रियां सिक्तं सत् तस्या आत्मभूयमात्माव्यतिरेकतां यथा पितुरेवं गच्छति प्राप्नोति यथा स्वमङ्गं स्तनादि तथा तद्वदेव। तस्माद्धेतोरेनां मातरं स गर्भो न हिनस्ति पिटकादिवत्। यस्मात् स्तनादि स्व ङ्गवदात्मभूयं गतं तस्रान्न हिनस्ति न बाधते इत्यर्थः। साऽन्तर्वत्नी एवमस्य भर्त्तुरात्मानमन्नात्मन उदरे प्रविष्टं गतं बुध्वा भावयति वर्द्धयति परिपालयति गर्भविरुद्धाशनादिपरिहारमनुकूलाशनाद्युपयोगञ्च कुर्वती। सा भावयित्री वर्द्धयित्री भर्त्तुरात्मनो गर्भभूतस्य भावयितव्या रक्षयितव्या च भर्त्रा भवति। न ह्युपकारप्रत्युपकारमन्तरेण लोकेकस्वचित् केनचित् सम्बन्ध उपपद्यते। तं गर्भं स्त्री यथोक्तेन गर्भधारणविधानेन बिभर्त्ति धारयति प्राग्जन्मनः। सा पिता अग्र एव पूवमेव कुमारं जातमात्रं जन्मनोऽध्यूर्द्घञ्जन्मनो जातं कुमारं जातकर्म्मादिना यद्भावयति तदात्मानमेव भावयति पितुरात्मैव पुत्ररूपेण जायत। तथा ह्युक्तं “पतिर्जायां प्रविशतःत्यादि” तत् किमर्थमात्मानं पुत्ररूपेण जनयित्वा भावयति? उच्यते–एषां लोकानां सन्तत्यै अविच्छेदायेत्यर्थः। विच्छिद्येरन् हीमे लोकाः पुत्रोत्पादनादि यदि न कुर्य्युः ते च पुत्रोत्पादनादिकर्म्माऽविच्छेदेनैव सन्तता हि प्रबन्धरूपेण वर्त्तन्ते यस्मादिमे लोकास्तस्मात्तदविच्छेदाय तत्कर्त्तव्यं न मोक्षायेत्यर्थः। तदस्यं संसारिणः पुंसः कुमाररूपेण मातुरुदराद्यन्निर्गमनं तद्रेतोरूपापेक्षया द्वितोयं जन्मद्वितीयावस्थाभिव्यक्तिः अस्य पितुः” शाङ्करभाष्यम्। स्थावराणामपि भोगायतनदेहवत्त्वमस्ति। तदेतदुद्भिज्जशब्दे ८०८ पृ० उक्तप्रायमपि सां० सू० प्र० भाष्ययोर्व्यक्तं दर्शितं यथा। “न बाह्यबुद्धिनियमो वृक्षगुल्मलतौषधिवनस्पतितृणवीरुदादीनामपि भोक्तृभोगायतनत्वं पूर्ववत्” सू०। “न बाह्यज्ञानं यत्रास्ति तदेव शरीरमिति नियमः किन्तु वृक्षादीनामन्तःसंज्ञानामपि भोक्तृभोगायतनं शरीरं मन्तव्यम्। यतः पूर्व्ववत् पूर्वोक्तो यो भोक्त्रधिष्ठानं विना मनुष्यादिशरीरस्य पूतिभावस्तद्वदेव वृक्षादिशरीरेष्वपि शुष्कतादिकमित्यर्थः। तथा च श्रुतिः “अथ यदेकां शाखां जीवो जहात्यथ सा शुष्यतीत्यादिरिति”। न बाह्यबुद्धिनियम इत्यशस्य पृथकसूत्रत्वेऽपि सूत्रद्वयमेकोकृत्येत्थमेव व्याख्येयम्। सूत्रभेदस्तु दैर्घ्यभयादिति बोध्यम्” भा०। “स्मृतेश्च” सू०। “शरिरजैः कर्मदोषैर्याति स्थावरतां नरः। वाचिकैः पक्षिमृगतान् मानसैरन्त्यजातिताम्” इत्यादिस्मृतेरपि वृक्षादिषु भोक्तृभोगायतनत्वमित्यर्थः। ननु वृक्षादिष्वप्येवं चेतनत्वेन धर्माधर्मोत्पतिप्रसङ्गस्तत्राह।

“न देहमात्रतः कर्माधिकारित्वं वैशिष्ट्यश्रुतेः” सू० “न देहमात्रेण धर्माधर्मोत्पत्तियोग्यत्वं जीवस्य, कुतः? वैशिष्ट्यश्रुतेः ब्राह्मणादिदेहविशिष्टत्वेनैवाधिकारश्रवणादित्यर्थः” भा०।

तस्य कायस्य षाड्विध्यं सां० सू० भा० उक्तं यथा। “स्थूलशरीरगतं विशेषं प्रसङ्गादबधारयति” भा०। “ऊष्मजाण्डजजरायुजोद्भिज्जसाङ्कल्पिकसांसिद्धिकं चेति न नियमः” सू०। “तेषां खल्वेषां भूतानां त्रीण्येतवीजानि भवन्ति अण्डजं जीवजमुद्भिज्जमिति” श्रुतावण्डजादिरूपं शरीरत्रैविध्य प्रायिकाभिप्रायेणोक्तं न तु नियमः। यत ऊष्मजादिषड्विधमेव शरीरं भवतीत्यर्थः। तत्रोष्मजा दन्दंशूकादयः। अण्डजाः पक्षिसर्पादयः। जरायुजा मनुष्यादयः। उद्भिज्जा वृक्षादयः। सङ्कल्पजाः सनकादयः। सांसिद्धिका मन्त्रतपआदिसिद्धिजाः। यथा रक्तवीजशरीरोत्पन्नशरीरादयः इति” भा०।

कणादेन संक्षेपेण कायस्य योनिजायोनिजत्वभेदेन द्वैविध्यमुक्तम् तच्च अयोनिजशब्दे ३४७ पृ० दर्शितम्। प्रकारान्तरेण कायस्य चातुर्विध्यमुक्तं सां० सू० भा० यया। “त्रिधा त्रयाणां व्यवस्था कर्मदेहोपभोगदेहोभयदेहाः” सू० त्रयाण मुत्तमाधममध्यमानं सर्वप्राणिनां त्रिप्रकारो देहविभागः, कर्मदेहभोगदेहोभयदेहा इत्यर्थः। तत्र कर्म्मदेहः परमर्षीणाम्, भोगदेह इन्द्रार्दनाम्, उभय देहश्च राजर्षीणामिति। अत्र प्राधान्येन त्रिधा विभागः। अन्यथा सर्वस्यैव भोगदेहत्वापत्तेः। चतुर्थमपि शरीरमाह” भा०।

“न किञ्चिदप्यनुशयिनः” सू०। “विद्यादनुशयं द्वेष्यं पश्चात्तापानुतापयोः” इतिवाक्यादनुशयो वैराग्यम् विरक्तानां शरीरमेतत्त्रयविलक्षणमित्यर्थः। यथा दत्तात्रेयजडभरतादीनामिति” भा०।

सर्व्वेषु च कायेषु भोक्तुरधिष्ठानमेव तदारम्भे प्रयोजकं तदेतत् सां० सू० भाष्ययोर्दर्शितं यथा

“भोक्तु रधिष्ठानाद्भोगायतननिर्माणमन्यथा पूतिभावप्रसङ्गात्” सू०।

“भोक्तुः प्राणिनो धिष्ठानाद्व्यापारादेव भोगायतनस्य शरीरस्य निर्माणं भवति। अन्यथा प्राणव्यापाराभावे शुक्रशोणितयोः पूतिभावप्रसङ्गात् मृतदेहवदित्ययेः। तथा च रससञ्चारादिव्यापारविशेषैः प्राणो देहस्य निमित्तकारणं धारकत्वादिति भावः। ननु प्राणस्यैवाधिष्ठानत्वं सम्भवति व्यापारवत्त्वात्, न प्राणिनः, कूटस्थत्वात् निर्व्यापारस्याधिष्ठाने प्रयोजनाभावाच्चेति तत्राह” भा०।

“भृत्यद्वारा स्वाम्यधिष्ठितिर्नैकान्तात्” सू०। “देहनिर्माणे व्यापाररूपमधिष्ठानं स्वामिनश्चेतनस्येकान्तात् साक्षान्नास्ति, किन्तु प्राणरूपभृत्यद्वारा, यथा राज्ञः पुरनिर्माण इत्यर्थः। तथा च प्राणस्याधिष्ठातृत्वं साक्षात्, पुरुषस्याधिष्ठातृत्वं प्राणसंयोगमात्रेणेति सिद्धम्। कुलालादीनां घटादिनिर्माणेष्वप्येवम्। विशेषस्त्वय तत्र चेतनस्य बद्ध्यादेश्चाप्युपयोगोऽस्ति बुद्धिपूर्वकसृष्टित्वादिति। यद्यपि प्राणाधिष्ठानादेव देहनिर्माणं तथापि प्राणद्वारा प्राणिसंयोगोऽप्यपेक्ष्यते पुरुषार्थमेव प्राणेन देहनिर्माणादित्याशयेन भोक्तुरधिष्ठानादित्युक्तम्” भा०।

स च प्रकारान्तरेण द्विबिधः स्थूलसूक्ष्मभेदात् तत्रस्थूलकायोऽपि व्यष्टिसमष्टिभेदात् द्विविधः। तत्र व्यष्टि कायोऽस्मदादीनां, तदुत्पत्तिप्रकारो विस्तरेण दर्शितः। समष्टिकायस्तु विराट्शब्दवाच्यः। तस्योत्पत्तिप्रकारः संक्षेपेण ऐतरेयोपनिषदि तद्भाष्ये च दर्शितो यथा।

“स ऐक्षतेमे नु लोका लोकपालाम्नु सृजा इति। सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्च्छयत्” उपनि०।

“सर्व्वप्राणिकर्म फलोपादानाधिष्ठानभूतान् चतुरो लो कान् सृष्ट्वा स ईश्वरः पुनरेवैक्षत–इमे त्वम्भःप्रभृतयो मया सृष्टा लोकाः परिपालयितृवर्जिता विनश्येयुः, तस्मादेषां रक्षणार्थं लोकपालान् लोकानां पालयितॄन् सृजेऽहमिति। एवमीक्षित्वा सोऽद्भ्य एवाप्प्रधानेभ्यः पञ्चभूतेभ्यो येभ्योऽम्भःप्रभृतीन् सृष्टवान् तेभ्य एवेत्यर्थः। पुरुषं पुरुषप्रकारं शिरःपाण्यादिमन्तं समुद्धृत्याद्भ्यः समुपादाय मृत्पिण्डमिव कुलालः पृथिव्या असूर्च्छयत् संमूर्च्छितवान् सम्पिण्डितवान् स्वावयवसंयोजनेनेत्यर्थः” शाङ्क० भा०

“तमभ्यतपत्तस्याऽभितप्तस्य मुखं निरभिद्यत यथाण्डम्, मुखाद्वाग्वाचोऽग्निः, नासिके निरभिद्येतां, नासिकाभ्यां प्राणः, प्राणाद्वायुः, अक्षिणी निरभिद्येताम्, अक्षिम्याञ्चक्षुश्चक्षुष आदित्यः, कर्ण्णो निरभिद्येतां, कर्ण्णाभ्यां श्रोत्रं श्रोत्राद्दिशः, त्वङ्निरभिद्यत, त्वचो लोमानि, लोमभ्य ओषधिवनस्पतयो, हृदयं निरभिद्यत, नाभ्या अपानः, अपानान्मृत्युः, शिश्नं निरभिद्यत, शिश्नाद्रेतो, रेतस आपः” उप०।

“तं पिण्डं पुरुषविधमुद्दिश्याभ्यतपत् तदभिध्यानं सङ्कल्पं कृतवानित्यर्थः। “यस्य ज्ञानमयं तपः” इति श्रुतेः तस्याभितप्तस्येश्वरसङ्कल्पेन तपसाभितप्तस्य पिण्डस्य मुखं निरभिद्यत मुखाकारं सुषिरमजायत। यथा पक्षिणोऽण्डं निर्भिद्यते एवम्। तस्मान्निर्भिन्नान्मुखाद्वाक्करणमिन्द्रियं निरवर्त्तत ततोवाचस्तदधिष्ठाताग्निर्लोकपालः। तथा नासिके निरभिद्येताम्, नासिकाभ्यां प्राणः, प्राणाद्वायुरिति सव्व त्राधिष्ठानं करणं देवता च त्रयं क्रमेण निर्भिन्नमिति। अक्षिणी कर्ण्णौ त्वक्। हृदयमन्तःकरणाधिष्ठानम्। मनोऽन्तःकरणम्। नाभिः सर्वप्राणनिबन्धनस्थानम्। तस्मादपानसंयुक्तत्वादपान इति पाय्विन्द्रियमुच्यते। तस्याधिष्ठात्री देवता मृत्युर्यथान्यत्र तथा, शिश्नं निरभिद्यत प्रजनेन्द्रियस्थानमिन्द्रियं, रेतोविसर्गार्थत्वात्सह रेतसा उच्यते रेतस आपः इति” भा०।

एवं साधिदैवतेन्द्रियादिसृष्टिमुक्त्वा सृष्टदेवतानां यथायतनं प्रवेशोऽपि तत्रोक्तो यथा

“ता अब्रवीद्यथायतनं प्रविशतेति” उप०। “ता देवता ईश्वरोऽब्रवीत्–इष्टमासामिदमधिष्ठानमिति मत्वा, सर्व्वोहि स्वयोनिषु रमन्ते, अतो यथाऽऽयतनं यस्य यद्वदनादिक्रियायोग्यमायतनं तत्प्रविशेति” भा०।

“अग्निर्वाग्भूत्वा मुखं प्रायिशद्वायुः प्राणोभुत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशद्दिशः श्नोत्रं भूत्वा कर्ण्णौ प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशन्, चन्द्रमा मनो भूत्वा हृदय प्राविशत् मृत्युरपानो भूत्वा नाभिं प्राविशत् आपो रेतो भूत्वा शिश्नं प्राविशत्” उपनि०।

“तथास्त्वित्यनुज्ञां प्रतिलभ्य ईश्वरस्य नगर्य्यामिव बलाधिकृताः। अग्निर्वागभिमानी वागेव भूत्वा स्वां योनिं मुखं प्राविशत्तथोक्तार्थमन्यत्। वायुर्नासिके। आदित्योऽक्षिणो। दिशः कर्ण्णौ। औषधिवनस्पतयस्त्वचम्। चन्द्रमा हृदयम्। मृत्युर्नाभिम्। आपः शिश्नं प्राविशन्” भा०। विस्तरस्तु भाग० २ स्क० १० अ० उक्तोयथा

“पुरुषोऽण्डं विनिर्भिद्य यदासौ स विनिर्गतः। आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचिः शुचिः” ११।

“उक्तमेवाध्यात्मादिविभागं प्रपञ्चयन् “यदुताहं त्वया पृष्टो वैराजात् पुरुषादिदम्। यथासीत्तदुपाख्यास्ये” इति प्रतिज्ञातं तदुत्पत्तिप्रकारमाह पुरुष इत्यादिना पुरुषो वैराजः अण्डं विनिर्भिद्य पृथक्कृत्य विनिर्गतः पृथक् स्थितैत्यर्थः अयनं स्थानमन्विच्छन् यतः शुचिः स्वयं अतः शुचीः शुद्धाः अपः गर्भोदकसंज्ञाः अस्नाक्षीत् ससर्ज” ११ श्रीधरः।

“तास्ववात्सीत् स्वसृष्टासु सहस्रं परिवत्सरान्। तेन नारायणो नाम यदापः पुरुषोद्भवाः” १२।

“अप्सु निवासं नारायणनामनिरुक्त्या स्पष्टयति तेन अप्सुवासेन, यत् यस्मात् पुरुषो नरः तस्मादुद्भवो यासां तानारा आपोऽयनमस्य इति नारायण इत्यर्थः। तदुक्तं “आपो नारा इति प्रोक्ता आपो वै नरसूनवः। अयनं तस्य ताः पूर्व्वं तेन नारायणः स्मृतः इति” १२ श्रीधरः

“द्रव्यं कर्म च कालश्च स्वभावो जीवएव च। यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया” १३।

“तस्य प्रभावमाह द्रव्यमुपादानं कर्मादीनि निमित्तानि, जीवो भोक्ता यस्याऽनुग्रहात् सन्ति कार्य्यक्षमा भवन्तीत्यर्थः” १३ श्रोधरः।

“एको नानात्वमन्विच्छन् योगतल्पात् समुत्थितः। वीर्य्यं हिरण्मयं रेतो मायया व्यसृजत् त्रिधा” १४।

“योगएव तल्पं शय्या तस्मात्। वीर्य्यं गर्मरूपं देहं हिरण्मयमिव प्रकाशबहुलम्” १४ श्रीधरः।

“अधिदैवमथाध्यात्ममधिभूतमिति प्रभुः। अथैकं पौरुषं वीर्य्य त्रिधाऽभिद्यत तच्छृणु” १५।

“तस्यैव प्रपञ्चः अधीत्यादिना” १५ श्रीधरः।

“अन्तःशरीर आकाशात् पुरुषस्य विचेष्टतः। ओजः सहोबलं जज्ञे ततः प्राणो महानऽसुः” १६।

“अन्तःशरीर यआकाशः तस्मात्, क्रियाशक्त्या तत्र विविधं चेटमानस्य सतः, ओजः–इन्द्रियशक्तिः, सहो–मनः शक्तिः, बलं–देहशक्तिः, ततः शक्त्यात्मकात् सूक्ष्माद्रूपात् प्राणः सूत्राख्यः महान् सुख्यः असुः प्राणः सर्वेषाम्” १६ श्रीधरः।

“अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्व्वजन्तुषु। अपानन्तमपानन्ति नरदेवमिवाऽनुगाः” १७।

“महत्त्वं दर्शयति अन्विति यं प्राणन्तं चेष्टां कुर्व्वन्तं प्राणा इन्द्रियाणि अनु पश्चात् प्राणन्ति चेष्टां कुर्व्वन्ति अपानन्तं चेष्टां त्यजन्तं अनु अपानन्ति चेष्टां त्यजन्ति, राजानमनु भृत्या इव” १७ श्रीधरः।

“प्राणेन क्षिपता क्षुत्तृडऽन्तराजायते विभोः। पिपासतोजक्षतश्च प्राङ्मुखं निरभिद्यत” १८।

“क्षिपता चालयता निमित्तेन क्षुत्तृडादिकन्तु विराड् जीवाभेदेनोपासनार्थमुक्तम् आजायते स्म ततः जक्षतो भक्षयितुमिच्छत इत्यर्थः प्राक् प्रथमं निरभिद्यत विभक्तमभूत्” १८ श्रीधरः।

“मुखतस्तालु निर्भिन्नं जिह्वा तत्रोपजायते। ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते” १९।“तालु अधिष्ठानं, जिह्वा इन्द्रियं मानारसो विषयः षरुणश्च देवता ज्ञातव्या एवं सर्व्वत्र अधिष्ठानमिन्द्रियं देवता विषय इत्येतच्चतुष्टयमनुक्तमप्यूह्यम्” १९ श्रीधरः।

“विवक्षोर्मुखतो भूम्नो वह्निर्वाग्व्याहृतं तयोः। जले वै तस्य सुचिरनिरोधः समजायत” २०।

“विवक्षोर्वक्तुभिच्छोर्मुखतएव वह्निर्देबता वाक् इन्द्रियं व्याहृतं भाषणं तयोरिति इन्द्रियदैवताधीनत्वं कर्मणो दर्शयति” २० श्री०।“नासिके निरभिद्येतां दोधूयति मभस्वति। तत्र वायुर्गन्धवहो घ्राणोनसि जिघृक्षतः” २१।“नभस्वति प्राणवायौ दोधूयति दोधूयमाने अत्यन्तं प्रचलति सति। तत्र नसि नासिकायां वायुर्देवता गन्धं वहतीति तथा, अनेन गन्धो विषयो दर्शितः घ्राण इन्द्रियं जिघृक्षतः गन्धं गृहोतुमिच्छतः” २१ श्रीधरः।“यदात्मनि निरालोकमात्मानञ्च दिदृक्षतः। निर्भिन्ने अक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रहः” २२।“निरालोकं प्रकाशशून्यम् आसीदिति शेषः निर्मक्षिकमितिवदव्ययीगावः। तदा आत्मानं देहं चकारादन्यच्च वस्तु दिदृक्षतः अक्षिणी स्थानं ज्योतिरादित्यो देवता, चक्षुरिन्द्रियं, ततो गुणस्य रूपस्य ग्रहोग्रहणम् अनेन रूपं विषयो दर्शितः” २२ श्रीधरः।

“बोध्यमानस्य ऋषिभिरात्मनस्तज्जिघृक्षतः। कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः” २३।

“ऋषिभिवेर्दैर्बोध्यमानस्य तदात्मनः प्रबोधनं ग्रहीतुमिच्छतः ततो गुणग्रहः शब्दग्रहणम्” २३। श्रीधरः

“वस्तुनो मृदुकाठिन्यलघुगुर्व्वोष्णशीतताम्। जिघृक्षतस्त्वङ् निर्भिन्ना तस्यां रोम महीरुहाः” २४।

“मृदुत्वञ्च काठिन्यञ्च लघुत्वञ्च गुरुत्वञ्च आउष्णत्वञ्च ईषदुष्णत्वं शीतताञ्चेत्यर्थः। यद्यप्यत्युष्णत्वमपत्वगीन्द्रियविषयमेव तथापि तस्य जिघृक्षाभावात् ओष्णत्वमित्युक्तं गुर्वुष्णेति पाठे वङादेशश्छान्दसः। वस्तुन एतान् धर्मान् जिघृक्षतस्त्वङ्निर्भिन्ना त्वगिन्द्रियाधिष्ठानं चर्म जातमित्यर्थः। तस्यां रोमाणि, इन्द्रिवं, महोरुहाश्च देवता जाता वस्तुनि हस्तेनोत्तोलिते लघुत्वगुरुत्वयोर्ज्ञानात्तयोरपि त्वगिन्द्रियविषयत्वमिति पौराणिकाः २४। श्रीधरः।

“तत्र चान्तर्बहिर्वातस्त्वचालब्धगुणोवृतः” २५। तत्र त्वचि अन्तर्बहिश्च वातो वायुर्वृतः आवृत्यस्थितः कर्त्तरि निष्ठा। कथम्भूतः? त्वचा लब्धो गुणस्पर्शो येन। अयमर्थः त्वगिन्द्रियमेव बहिःकण्डूतिसहितं स्पर्शं गृह्लत्रोमशब्देनोच्यते। तत्र महीरुहाणां देवतात्वम्। अन्तर्बहिश्च स्पर्शं गृह्णत् तदेव त्वक्शब्दे नोच्यते तत्र वातो देवता। तथाच तृतीये वक्ष्यति “त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमोषधीः। अंशेन लोमभिः कण्डूं यैरसौ प्रतिपद्यते। निर्भिन्नान्यस्य मर्माणि लोकपालोऽनिलोऽविशत्। प्राणिनांशेन संस्पशें येनासौ प्रतिपद्यते” इति। तत्र मर्माणोति मर्मोपलक्षिता त्वगित्यथेः प्राणेनांशेनेति प्राणवायुना व्याप्तेन त्वगिन्द्रियेणेत्यर्थः। बह्वृचश्रुतौ त्वेक एवांशोनिर्दिष्टः “त्वङ्निरभिद्यत त्वचोलोमानि लोमभ्य ओषधिवनस्पतय इति” २५। श्रीधरः

“हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया। तयोस्तु बलवानिन्द्र आदानमुभयाश्रयम्” २६।

“रुरुहतुः निर्भिन्नौ बलमिन्द्रियम् इन्द्रो देवता तदुभयाश्रयम् आदानं कर्म” २६। श्रीधरः

“गतिं जिगीषतः पादौ रुरुहातेऽभिकामिकाम्। पद्भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः”। २७

“अभिकामिक्ताम् अभीष्टां विहितामित्यर्थः। पद्भ्यां सहयज्ञो विष्णुरेव स्वयं तदधिष्टातृरूपेण स्थितः। कर्मभिरिति गत्याख्यकर्मशक्तिरिन्द्रियमुक्तं हव्यं क्रियते इति गतिप्राप्यं यज्ञार्थं द्रव्यं विषय इत्युक्तं नृभिरिति व्यष्टिजीवेष्वपीयमेव रीतिरिति दर्शयन्नराधिकारित्वं यज्ञादीनां दर्शयति” २७ श्रीधरः।

“निरभिद्यत शिश्नोवै प्रजानन्दामृतार्थिनः। उपस्थ आसीत् कामानां प्रियं तदुभयाश्रयम्” २८। “प्रजा अपत्यम् आनन्दोरतिः अमृतं स्वर्गादि तदर्थिनः शिश्नोऽधिष्ठानम् उपस्थ इन्द्रियं प्रजापतिश्चासिदिति ज्ञेयम्। तदुभयाश्रयम् इन्द्रियदेवताश्रयम्। कामानां स्त्रीसम्भोगानां मम्बन्धि प्रियं सुखम्” २८ श्रीधरः

“उत्सिसृक्षोर्धातुमलं निरनिद्यत वै गुदम्। ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः” २९।

“धातुमलं भुक्तान्नादीनाम् असारांशं त्यक्तुमिच्छोः गुदपायुमित्रोत्सर्गा अधिष्ठानेन्द्रियदेवताविषयाः” २९ श्री०

“आसिसृप्सोः पुरःपुर्य्या नाभिद्वारमपानतः। तत्रापानस्ततो मृत्युः, पृथक्त्वमुभयाश्रयम्” ३०।

“पुर्य्या देहात् पुरा देहान्तराणि आसिसृप्सोः सर्वतो गन्तुमिच्छोः, निरभिद्यत इत्यनुषङ्गः। अपानतः अपगच्छतः पृथक्त्वंमरणं। नाभ्यादीन्यधिष्ठानादीनि नाभ्यां हि प्राणापानयोर्बन्धविश्लेषे मृत्युरिति प्रसिद्धम्” ३०। श्री०

“आदित्सोरन्नपानानामासन् कुक्ष्यन्त्रनाडयः। नद्यः समुदाश्च तयोस्तुष्टिः पुष्टिस्तदाश्रये” ३१।

“अन्नपानमादित्सोः संग्रहेच्छोः कुक्षिश्च अन्त्राणि च नाड्यश्चासन्। तत्र कुक्षिरधिष्ठानम्। अन्त्राणि अन्नसंग्रहेकरणम् इन्द्रियस्थानीयं, नाड्यस्तु पानसंग्रहे तयोर्नाड्यन्त्रवर्गयोः क्रमेण नद्यः समुद्राश्च देवते तुष्टिरुदरभरणं पुष्टिस्तु रसपरिणामतः स्थौल्यं, तदाश्रये तदुभयनिमित्ते तत्रान्नसंग्रहेच्छोः कुक्ष्यन्त्रसमुद्रतुष्टय इति चतुष्टयं, पेयसंग्रहेच्छोः कुक्षिनाडीनदीपुष्टय इति विवेकः” ३१ श्री०

“निदिध्यासोरात्ममायां हृदयं निरभिद्यत। ततोमनश्चन्द्रैति सङ्कल्पः कामएव च” ३२।

“निदिध्यासोर्नितरां चिन्तयितुमिच्छोः कामोऽभिलाषः हृदयमनश्चन्द्रसङ्कल्पा अधिष्ठानादयः” ३२ श्रीधरः।

“त्वक्चर्ममांसरुधिरमेदोमज्जास्थिधातवः। भूम्यप्तेजोमयाः सप्त, प्राणोव्योमाम्ब वायुभिः” ३३।

“तदेवम् अधिदैवादिभेदं विभज्य उक्त्वा तदंशभूतानं धात्वादीनां स्वरूपमाह त्वगिति द्वाभ्यां, त्वक्स्थूलं चर्म्म, तदुपरिस्थितं सूक्ष्म, त्वगादयोऽस्थ्येन्ताद्वन्द्वैकवद्भावेन निर्दिष्टाः सप्त ये धातवस्ते भूम्यप्तेजोमयाः तेषां पाञ्चभौतिकत्वेऽपि वाय्वाकाशयोराहाररूपत्वेन संवर्द्धकत्वाभावादेवमुक्तम्” ३३ श्रीधरः।

“गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणाः। मनः सर्व्वविकारात्मा बुद्धिर्विज्ञानरूपिणी” ३४।

“गुणात्मकानि गुणेषु शब्दादिषु आत्मा येषां विषयाभिमुखस्वभावानीत्यर्थः। गुणाः शब्दादयः भूतादिरहङ्कारः ततः प्रकर्षेण भवतीति तथा, अहङ्कारकल्पितशोभनस्वभावा न वस्तुतस्तथेत्यर्थः। अत्र हेतुः यतो मनएव सर्व्वविकाराणाम् आत्मा स्वरूपं, बुद्धिस्तु तथा भूतार्थविज्ञानरूपिणी। न तु परमार्थग्राहिणीति वैराग्यार्थमुक्तम् अनेनैव बुद्धिमनसोः स्वरूपञ्चोक्तम्”।

“एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया। मह्यादिभि श्चावरणैरष्टभिर्बेहिरावृतम्” ३५।

“उपसं हरति एतदिति प्रकृत्या सह अष्टभिः” ३५ श्री०। विस्तरस्तु विराट्शब्दे दृश्यः।

सूक्ष्मोऽपि द्विविधः आधाराधेयभेदात्। तत्राधारभूतस्य आतिवाहिकत्वं तत्स्वरूपादिकं च ६६३ पृ० दर्शितम्। “तत्क्षणादेव गृह्णाति शरीरमातिवाहिकमिति” विष्णुध०। “आतिवाहिकस ज्ञोऽसौ देहो भवति भार्गव!। केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वचित्” विष्णुध०। “आतिवाहिक एकोऽस्ति देहोऽन्यस्त्वाधिभौतिकः। सर्व्वासां भूतजातीनां ब्रह्मणस्त्वेक एव किम्” सां० प्र० भा० धृतवाक्यम्। आधेयकायस्तु तदाश्रितं सप्तदशावयवं सूक्ष्मशरीरम् तच्च आतिवाहिकशब्दे ६६३ पृ० दर्शितम्। तच्च वेदान्तिमते “पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम्। अपञ्चीकृतभुतोत्थं सूक्ष्माङ्गम् भोगसाधनम्” इत्युक्तलक्षणम्। साङ्ख्यमते पञ्चप्राणस्थले पञ्चभूतानीति भेदः आतिवाहिकशब्दे ६६३ पृ० विवृतिः। स च प्रथमतः हिरण्यगर्भस्यैवोत्पेदे तत एव कर्म्मविशेषात् उच्चावचकायोत्पत्तिर्यथोक्तं सां० सू० भा० “ननु लिङ्गं चेदेकं तर्हि कथं पुरुषभेदेन विलक्षणा भोगाः स्युः? तत्राह। “व्यक्तिभेदः कर्मविशेषात्” सू०। “यद्यपि सर्गादौ हिरण्यगर्भोपाधिरूपमेकमेव लिङ्गं तथापि तस्य पश्चाद्व्यक्तिभेदो व्यक्तिरूपेणांशतो तानात्वमपि भवति यथेदा- नीमेकस्य पितृलिङ्गदेहस्य नानात्वमशतो भवति पुत्रकन्यादिलिङ्गदेहरूपेण। तत्र कारणमाम् कर्मविशेषादिति। जीवान्तराणां भोगहेतुकर्मारेरित्यर्थः। अत्र विशेषवचनत् समष्टिसृष्टिर्जीवानां साधारणै कर्मभिर्भवतीत्यायातम्। अयं च व्यक्तिभेदो मन्वादिभिरप्युक्तः। यथा मनौ पुरुषस्य षडिन्द्रियोत्पत्त्यनन्तरम्

“तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम्। सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे” इति षण्णामिति समस्तलिङ्गशरीरोपलक्षणम्। आत्ममात्रासु चिदंशेषु संयोज्येत्यर्थः। तथा च तत्रैव वाक्यान्तरम्

“तच्छरीरसमुत्पन्नैः कार्यैस्तैः करणैः सह। क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः”।

तस्य च सर्व्वकायव्यापित्वेऽपि शास्त्रेऽङ्गुष्ठमात्रतया कल्पनं यथा साङ्ख्यप्रवचनभाष्ये“अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः”। “अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष बलाद्यमः” इति श्रुतिस्मृती न हि लिङ्गशरीरस्य सकलशरीरव्यापिनः स्वतोऽङ्गुष्ठमात्रत्वं सम्भवति। अत आधारस्याङ्गुष्ठमात्रत्वमर्थात् सिद्ध्यति। यथा दीपस्य सर्वगृहव्यापित्वेऽपि कलिकाकारत्वं तैलवर्त्त्यादिसूक्ष्मांशस्य दशोपरि सम्पिण्डितस्य पार्थिवभागस्य कलिकाकारता तथेव लिङ्गदेहस्य देहव्यापित्वेऽप्यङ्गुष्ठपरिमाणत्वं सूश्मभूतस्याङ्गुष्ठप्ररिमाणत्वेनानुमेयमिति”।

तथा च भोगसाधनत्वेन मोगायतनत्वं लिङ्गशरीरस्थैव तदाश्रयत्वात् स्थूलशरीरस्य तथा व्यवहार उपचारात्, तदेतत् सां० प्र० भाष्ययोर्दर्शितं यथा “तदधिष्ठानाश्रये देहे तद्वादात् तद्वादः” मू०। “तस्य लिङ्गस्य यदधिष्ठानमाश्रयो वक्ष्यमाणभूतपञ्चकं तस्याश्रये षाट्कौषिकदेहे तद्वादो देहवादस्तद्वादात् तस्याधिष्ठानशब्दोक्तस्य देहवादादित्यर्थः लिङ्गसम्बन्धादधिष्ठानस्य देहत्वम्, अधिष्ठानाश्रयत्वाच्च स्थूलस्य देहत्वमिति पर्यवसितोऽर्थः। अधिष्ठानशरीरं च सूक्ष्मं पञ्चभूतात्मकं वक्ष्यते तथा च शरोरत्रयं सिद्धम्” भा०।

वेदान्तिमते कारणशरीरमप्येकमस्ति तच्चाविद्यारूपं वेदान्तसारे तच्चोक्तम्। चीयते सञ्चीयते संघातरूपेण चि–कर्म्मणि घञ्। आर्हतमतसिद्धे जोवधर्म्माधर्म्मा काशपुद्गलोपाधिके विद्यमाने १३ संघातभेदे जीवास्तिकायः धर्मास्तिकायः अधर्म्मास्तिकायः आकाशास्तिकायः पुद्गलास्तिकायः इति हि तेषां मते पञ्च पदार्थाः। अर्हच्छब्दे ३८४ पृ० विवृतिः। “कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि। योगिनः कर्म्म कुर्व्वन्ति” गीता। “पश्चार्द्धेन प्रविष्टः शरपतनभयात् भूयसा पूर्व्वकायम्” शकु०। “पर्य्यङ्कबन्धस्थिरपूर्व्वकायम्” कुमा०।

***