कात्यायन = पु० कतस्य गोत्रापत्यं युवा गर्गा० यञ् यञन्तत्वात् यनि फक्। कतस्य युवगोत्रापत्ये ऋषिभेदे। स च त्रिविधः विश्वामित्रवंश्या, गोभिलपुत्रः, कतवंश्यसोमदत्त द्विजपुत्रः वसुदत्तागर्भजः वररुचिनाम्ना ख्यातश्च। तत्र विश्वामित्रगोत्रोत्पन्नः हरिवं २८३० उक्तोयथा। “विश्वामित्रस्य च सुता देवरातादयः स्मृताः। विख्यातास्त्रिषु लोकेषु तेषां शीलानि ये शृणु। देवश्रवाः कतश्चैव यतः कात्यायनाः स्मृताः” इति। अयञ्च गोभिलपुत्रकात्यायनात् भिन्नः। गोभिलपुत्रकात्यायनेन च कर्मप्रदीपाख्यं छन्दोगपरिशिष्टरूपं शास्त्रं प्रणीतं तस्येदमादिमं वचनम्। “अथातो गोभिलोक्तानामन्येषाञ्चैव कर्म्मणाम्। अस्पष्टानां तथा सम्यग्दर्शयिष्ये प्रदीपवत्”। तत्र १ प्रपाठके १० खण्डाः तत्र १ ख० यज्ञोपवीतादिपरिभाषा। २ ख० श्राद्धदृव्यादि परिभाषा। ३ ख० अक्रियादित्रैविध्यादिकथनपूर्वकं श्राद्धविधिनिरूपणम्। ४ ख० पिण्डदानविधानम्। ५ ख० नान्दीमुखश्राद्धादिकर्त्तव्यताविधानानि। ६ ख० अग्न्याधानादिकालाधिकारिधर्मविधानम्। ७ ख० अरणीनिर्माणप्रकारादि। ८ ख० अग्न्युद्धारप्रकारादि। ९ ख० अग्निहोत्रकालादितद्विधानादि। १० ख० दन्तधावनस्नानादिविधानम् उपाकर्म्मोत्सर्गादिस्नानादिविधानञ्च।

२ प्रपाठके नव खण्डाः। तत्र १ ख० सन्ध्योपासनकालादितद्विधानानि। २ ख० तर्पणप्रकारादि। ३ ख० पञ्चयज्ञविधानप्रकारादि। ४ ख० वैश्वदेवविधानप्रकारः। ५ ख० दक्षिणादानादिप्रकारः। ६ ख० अमावास्यादिश्राद्धकालव्यवस्था तद्विधानप्रकारश्च। ७ ख० कर्षूनिर्माणप्रकारः श्राद्धविधानप्रकारश्च। ८ ख० दर्शपौर्णमासविधानप्रकारः। ९ ख० प्रवासगमनकाले साग्निकस्य कर्त्तव्यविशेषकथनम्।

तृतीयप्रपाठके। १ खण्डाः। तत्र १ ख० साग्निकस्य पत्नीमरणे कर्त्तव्यविशेषविधानम्। २ ख० साग्नेर्दाहप्रकारः। ३ ख० शवस्पर्शिकर्त्त व्यभेदविधानम् साग्निकस्य विदेशमरणे दाहविधानञ्च। ४ ख० सूतके सन्ध्यादित्यागेऽपि श्रौतकर्मणामनुष्ठानविधानम्। ५ ख० पुंसवनादिक्रियाङ्गहोमाहुतिसंख्याविशषकथनं शुङ्गापतिव्रताबह्मबन्धुशलाटुग्रन्थकपुष्णिकाकपुच्छलकृषरादिशब्दपरिभाषा ब्रह्मचारिकर्त्तव्यविधानञ्च। ६ ख० समशनीयचरुकर्त्तव्यताविषयोपदर्शनम् नवयज्ञकालकथनञ्च। ७ ख० विहितकर्मातिक्रमे प्रायश्चित्तविशेषविधानम्, अनृचैणरुरुशंवरशब्दपरिभाषा। ८ ख० वर्णभेदेन दण्डप्रमाणकथनम्, ग्राह्यदर्भनिरूपणञ्च। दक्षिणायां गोः प्रवर- तोक्तिः उपाकर्मप्रकारश्च। ९ ख० यवधानादिशब्दानां पारिभाषिकार्थकथनम्। वेदोत्सर्गकथनं तत्र बलिप्रकारः सूतकादिना तदकरणे आग्रहायणिककर्त्तव्यताविधानम् तत्र बलिदानवर्जनञ्च। त्रैयम्बकमण्डकगोलकचीवरशब्दपरिभाषा। अनुमन्त्रणप्रकारः। १० ख०। पशुसंस्कारस्थानविशेषकथनम्। पश्ववदाने एकादशस्थानकथनम्। पश्वभावे पायसपिण्डैः होमविधानम् श्राद्धे पिण्डदानप्राधान्यं गयादौ पिण्डमात्रदानदर्शनादिति परमतमुक्त्वा अन्नदानस्य प्राघान्यमिति स्वमतकथनम्। आमश्राद्धविधाने पिण्डाभाव इत्युक्तिः। द्वीपार्घ्यमधुपर्कादिशब्दपरिभाषा”। अनेनैव धर्म्मसंहिता कृता। “मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः। यमापस्तम्बसंवर्त्ताः कात्यायनवृहस्पती” इत्युपक्रमे “धर्मशास्त्रप्रयोजकाः” याज्ञ०। तत्र च प्रायेणाष्टादशविवादनिर्णयः। कातीयश्रौतगृह्यसूत्रसर्वानुक्रमणिकादिकमनेनैव कृतम्। वररुचिनामकात्यायनश्च पुष्पदन्तावतारस्तत्कथा च वृहत्कथायाम्। सुप्रतीकयक्षावतारकाणभूतये स्वजन्मादि श्रावणरूपशापान्तमुपवर्ण्य स्वजन्मकथादि तत्रोक्तं यथा। “ततः स मर्त्यवपुषा पुष्पदन्तः परिभ्रमन्। नाम्ना वररुचिः किञ्च कात्यायन इति श्रुतः। पारं संप्राप्य विद्यानां कृत्वा नन्दस्य मन्त्रिताम्। खिन्नः समाययौ द्रष्टुं कदाचित् विन्ध्यवासिनीम्” इत्युपक्रम्य तस्य काणभूतिना सह मेलने जाते काणभूतिना निजशापादिवृत्तान्ते उक्ते। “इत्थं मे शाषदोषोऽयं पुष्पदन्तागमावधिः। इत्युक्त्वा विरते तस्मिन् काणभूतौ च तत्क्षणम्। स्मृत्वा वररुचिर्जातिं सुप्तोत्थित इवावदत्। सएव पुष्पदन्तोऽहं मत्तस्ताञ्च कथां शृणु। इत्युंक्त्वा ग्रन्थलक्षेण सप्त सप्त महाकथाः। कात्यायनेन कथिताः काणभूतिस्ततोऽब्रवीत्” इत्युपक्रम्य “तद्ब्रूहि निजवृत्तान्तं जन्मनः प्रभृति प्रभो!” इति काणभूतिप्रश्ने “ततो वररुचिस्तस्य प्रणतस्यानुरोधतः। सर्वमाजन्मवृत्तान्तं विस्तरादब्रवीदिदम्। कौशाम्ब्यां सोमदत्ताख्यो नाम्ना ग्निशिख इत्यपि। द्विजोऽभूत् तस्य भार्या च वसुदत्ताभि धाऽभवत्। तस्यां तस्मात् द्विजवरात् एष जातोऽस्मिशापतः” इति स्वजन्ममूम्यादिकमुक्तम्। पश्चाच्च व्याडिसमीपे तन्मात्रा तस्य जन्मवृत्तान्तो यथा वर्णितस्तदप्युक्तं तत्रैव “तथा हि पूर्वं जातेऽस्मिन्नेकपुत्रे मम स्फुटा। गगनादेवमुदभूदशरीरा सरस्वती। एकश्रुतिधरो जातो विद्यां वर्षादवाप्स्यति। किञ्च व्याकरणं लोके प्रतिष्ठां प्रापयिष्यति। नाम्ना वररुचिश्चायं तत्तदस्मै हि रोचते। यद् यद् वरं भवेत् किञ्चिदित्युक्त्वा वागुपारमत्” इत्थं तज्जन्मकथान्ते व्याडीन्द्रत्ताभ्यां तन्मातुः सकाशादभ्यर्थ्यतं गृहीत्वा तेन सह वर्षसमीपं गतमित्यप्युक्तं तत्रैव यथा “व्याडीन्द्रदत्तौ तरसा निर्गतौ नगरात्ततः। अथ क्रमेण वर्षस्य गृहं प्राप्ता वयं गुरोः” इत्युपक्रमे “अध्यापयितुमस्मांश्च प्रवृत्तोऽभूदसौ ततः। सकृच्छ्रतं मया तत्र, द्विःश्रुतं व्याडिना तथा। त्रिःश्रुतञ्चेन्द्रदत्तेन गुरुणोक्तमगृह्यत” इति स्वस्य वर्षसमीपेऽध्ययनं वर्ण्णितम्। “अथ कालेन वर्षस्य शिष्यवर्गो महा नभूत्। तत्रैकः पाणिनिर्नाम जडबुद्धितरोऽभवत्। स शुश्रूषापरिक्लिष्टः प्रेषितोवर्षभार्य्यया। अगच्छत् तपसे खिन्नो विद्याकामो हिमालयम्। तत्र तीव्रेण तपसा तोषितादिन्दुशेखरात्। सर्वविद्यामुखं तेन प्राप्तं व्याकरणं नवम्। ततस्तत्रावयोर्वादे प्रयाताः सप्त वासराः। अष्टमेऽह्नि मया तस्मिन् जिते तत् समनन्तरम्। नमःस्थेन महाघोरो हुङ्कारः शम्भुना कृतः। तेन प्रनष्टमैन्द्रं तदस्मद्व्याकरणं भुवि। जिताः पाणिनिना सर्वे मूर्खीभूता वयं पुनः”। “अत्रान्तरे तुषाराद्रौ कृत्वा तीव्रतरं तपः। आराधितो मया देवो वरदः पार्वतीपतिः। तदेव तेन शास्त्रं मे पाणिनीयं प्रकाशितम्। तदिच्छानुग्रहादेव मया पूर्णीकृतं च तत्”। अनेनैव पाणिनिव्याकरणतात्पयप्रकाशकः परिशिष्टरूपो वार्त्तिकपाठोनिरमायि स च “सिद्धे शब्दार्थसम्बन्धे लोकतोऽर्थप्रयुक्ते शब्देप्रयोगे शब्देन धर्म्मनियमः” इत्या दिकः अष्टाध्याय्यात्मकः। वृहत्कथायाम् “तदैवानीय दत्ता मे योगनन्देन मन्त्रिता” इत्यनेन वररुचेस्तन्मन्त्रिताकरणं वर्णितम्। तेन पाणिनेर्वररुचिनामकात्यायनस्य च योगनन्दसमकालता प्रतीयते। वृहत्कथाया इदानीमप्राप्यत्वेऽपि तत्कथासारस्याधुनोपलम्भात् तत्र च यथावर्णितकालताऽवगम्यते वृहत्कथासारस्य चाप्रामाण्यं नाशङ्कनीयं तत्कथासारे “यथामूलं तथैवैतन्न मनागप्यतिक्रमः। ग्रन्थविस्तरसंक्षेपमात्रभाषा च भिद्यते” इत्युक्त्या वृहत्कथामूलकतायास्तत्कथासारस्योक्तेः। स च कतगोत्रापत्यत्वात् कात्यायनः। अतएव हरिवं० “ततः कात्यायनाः स्मृताः” इति बहुत्वनिर्दशात् अन्य- स्यापि तद्गीत्रभवयुवापत्यस्य कात्यायनत्वमिति भूतस्य भविष्यतो वा स्यादिति सूचितम्” इति। ततः प्राचीनेन कात्यायनेन शुक्लयजुर्वेदविहितकर्म्मणामनुष्ठानज्ञापकं षड्विंशत्यध्यायात्मकं कातीयं श्रौतसूत्रं गृह्याख्यं सूत्रञ्च प्रणीतम्। तत्र श्रौत्रसूत्रे १ अध्याये १ कण्डिकायां २१ सूत्राणि। तत्र अग्न्याध्यानादिषु अधीतसार्थवेदानां द्विजानां सपत्नीकानाम् रथकारस्य चाधिकारः। अङ्गहीनक्लीवपतितशूद्राणामनधिकारः। निषादस्थपतेर्गावेधुके चरावधिकारः। अवकीर्ण्णिनश्च प्रायश्चित्त रूपगर्द्दभेज्यायाम्। तत्र गावेधुकचरुरवकीर्ण्णिगर्द्दभेज्या च लौकिकेऽग्नौ कार्य्या। गर्द्दभेज्यायां पुरोडाश श्रपणं भूमावेव न कपाले कार्य्यम्। तत्र अवदानहोम उदके एव नाग्नौ, अन्यदाघारादि अग्नावेव। प्राशित्रं गर्द्दभस्य शिश्नादवदेयम्। श्रौतं कर्म्म वैतानिकेषु विहारार्थेषु गार्हपत्याहवनीयदक्षिणाग्निषु कर्त्तव्यम्। स्मार्त्तन्तु आवसथ्येऽग्नौ कर्त्तव्यम्। गृहारम्भे मांसपाकनिषेधः। २ क० २३ सू०। तत्र देवतोद्देशेन द्रव्यत्यागोयाग इति यागलक्षणम् दर्शपौर्ण्णमासादिशब्दवाच्यार्थस्त्यागविशेषः। तस्य च प्राधान्यं, तत्प्रकरणपठिताग्न्यान्वाधानादिब्राह्मणदक्षिणान्तस्य कर्म्मजातस्याङ्गत्वम्। एवं प्रयाजादयः पूर्ब्बाघारादिहोमाश्च तदङ्गानि। तिष्ठता होमः वषट्कार प्रदानः यजतिशब्दार्थः तत्र याज्यापुरोऽनुवाक्ये च। उपविष्टेन स्वाहाकारप्रदानो होमः जुहोतिशब्दार्थः। सर्व्वकर्म्मसु ब्राह्मणा एव ऋत्विजः, न क्षत्रियवैश्याः तेषा हविःशेषभक्षणनिषेधात्। फलेच्छासत्त्वे कास्यकर्म्माणि कर्त्तव्यानि नावश्यम्। नित्यानि तु अग्निहोत्रादान्यवश्यं कर्त्तव्यानि अकरणे दोषश्रवणात्। दोक्षितेन सत्यवचमाधःशयनब्रह्मचर्य्यादिनियमाः अवश्यं कार्य्याः। गृहदाहादिनिमित्त धनहानिनिमित्तं च प्रायश्चित्तमवश्यं कार्य्यं न तस्य इच्छयानुष्ठानम्। नित्यानि यथाशक्त्यङ्गयुक्तान्यपि कार्य्याणि। काम्यानि तु सर्व्वाङ्गोपेतान्येव। कामनासत्त्वेऽपि यदा यथाश्रुताङ्गानि कर्त्तुं शक्यन्ते तदैव काम्यं कार्य्यं नान्यदा। ३ क० ४२ सू०। तत्र ऋग्यजुःसामप्रैषभेदेन मन्त्राश्चतुर्विधाः। ऋगादिलक्षणम् (ऋग्वेदशब्दे उक्तम्)। यजुषां यावति पदसमूहे उच्चरिते पदसमूहोनिराकाङ्क्षोभवति। तावत्परिमितमेकं वाक्यं कर्म्मकाले प्रयोक्तव्यम्। यत्र तु मध्ये पठितैः पदैर्यजुर्निराकाङक्षं न भवति तत्र पदान्तरं योग्यमध्याहृत्य पूर्ब्बपठितं वानुषज्य निराकाङ्क्षीकृत्य प्रयोज्यम्। प्रयोगे मन्त्राः कर्म्मारम्भे प्रयोज्याः। यजुर्व्वेदमन्त्राश्च उपांशु प्रयोज्याः ऋग्वेदसामवेदयोस्तु मन्त्राउच्चैःप्रयोज्याः। याजुषा अपि प्रैषा उच्चैःप्रयोज्याः। कुशजातिमात्रं बर्हिःशब्दार्थः। अग्न्यगारादौ वसोर्धाराहोमादौ च विशेषसंख्यानुक्तौ यावता कार्य्यसिद्धिस्तावत्संख्या ग्राह्या। इध्मबर्हिर्बन्धार्थानि संनहनानि विषमसंख्यतृणमुष्टिवद्धानीति। संनहने भेदस्तु प्रागग्रे संहनने उदग्रं बहिर्निधाय संनहनेन दृढं बद्धा बर्हिमूलभागे ग्रन्थिमुपगूहेत्, उदगग्रे संनहने तु प्रागग्रमिध्मभागं निधायेध्ममूले ग्रन्थिमुपगूहेत् इति। अष्टादशसंख्यारत्निमात्रकाष्ठकः तथाभूतैकविंशतिकाष्ठको वा पालाशस्तदभावे वैकङ्कतः इध्मः कार्य्यः। तदभावे श्रीपर्ण्णवृक्षभवः वैण्वः औदुम्बरःखादिरो वा तत्तदभावे इध्मस्तथाभूतः कार्य्यः। इध्मादेव त्रीणि काष्ठान्यादाय परिधिपरिधानं कुर्य्यात्। सामिधेनीवृद्धौ चेध्मकाष्ठवृद्धिः पित्र्यादौ सामिधेनीह्रासेऽपि नेध्मसंख्याह्रासः। अग्निप्रणयनार्थ इष्म उक्तसंख्याधिककाष्ठकोऽपि भवति। इष्टकापशौ अष्टाविंशतिप्रभृतिभिस्तथाभूतकाष्ठैः इध्मः कार्यः। सच त्रिभिः संहननैर्मूलभागे बद्धः कल्प्यः। दर्शपौर्णमास एव वेदकरणम्। सूत्रे आङ्शब्दार्थोऽभिविधिरिति प्रतिज्ञा। सर्वकर्म्मस्वनुक्तमपि गार्हपत्यात् आहवनीयदक्षिणाग्न्योरुद्धरणं कार्य्यम्। अन्यकर्मार्थमुद्धृतयोस्तयोरागन्तुकान्यकार्य्यापाते तत्करणं नोद्धरणान्तरम्। यथा दर्शाद्यर्थमुद्धृतयोस्तयोः प्राप्तकालाग्निहोत्रहोमः। यत्कर्मार्थमुद्धृतौ तो तत्समाप्तौ लौकिकावेव भवतः। तत ऊर्द्ध्वं तत्राहवनीयादिविहितं कर्म्म न कार्य्यं तयोः लौकिकत्वोपदेशात्। तेन यत्र पौर्ण्णमासादौ पृथक्तन्त्रा बह्व्यः इष्टयः सन्ति तत्र प्रतीष्टि पृथगग्न्युद्धरणेन ताः कार्याः। तथा च न सकृदुद्धृतयोः सर्वत्रोपयोगः। खादिरस्रुवादीनां क्वचिदनुक्तौ प्रकृतिवत् विकृतावपि कार्य्यता। स्रुवस्फ्यस्रुग्जुहूप्रभृतिहोमसाधनपदार्थानां लक्षणम्। तानि च तद्भाष्ये विवृतानि यथा (खादिरः स्रुवोऽङ्गुष्ठपर्ववृत्तपुष्करो नासिकावत्पर्व्वार्द्धखातो भवति। स्फ्यश्च खादिरः खड्गाकृतिररत्निमात्रः स्रुचो बाहुमात्र्यो मूलदण्डास्त्वग्बिला हंसमुखसद्वशैकप्रणालिकायुक्ताः पा- णिमात्रपुष्करास्तावत्खातयुक्ताश्च कार्य्याः। पालाशी जुहूः। उपभृदाश्वत्थी, वैकङ्कती ध्रुवा, एतेषां वृक्षाणामेकस्य वा सर्व्वाः स्रुचः कारयेत्। अग्निहोत्रहवणी वैकङ्कती, अग्निहोत्रस्रुवो वैकङ्कतः। यैः पात्रैर्होमोन क्रियते तानि सर्वाणि वारणानि भवन्ति तानि चोलूखलमूसलकूर्चेडापात्रीपिष्टपात्रीपुरोडाशपात्रीशम्याशृतावदानाभ्र्युपवेषान्तर्द्धानकटप्राशित्रहरणषडवत्त ब्रह्मासनादीनि। तत्रोलूखलमूसलौ लोकप्रसिद्धौ। कूर्चो बाहुमात्रः पीठाकारः। इडापात्री पिष्टपात्र्यौ अरत्निमात्र्यौ मध्यसंगृहीते। पुरोडाशपात्री प्रादेशमात्री समचतुरस्रा षडङ्गुलवृत्तखातवती। शम्या प्रादेश द्वादशाङ्गुला। प्राशित्रहरणं वृत्तमादर्शाकारं वतुरस्रं चमसाकारं वा तथैव द्वितीयमपिधानपात्रम्। षडवत्तं चोभयत्र खातवत्। आसनानि चारत्निमात्रदीर्घाणि प्रादेशमात्रविपुलानि। सर्वेषु पात्रेषु मूलाभिज्ञानार्थं वृन्तानि कार्याणि। अनादशे सोमसाधनपात्राणि वैकङ्कतानि कार्य्याणि। षोडशिनः पात्रं खादिरं चतुरस्रम्। अंश्वदाभ्यपात्रमौदुम्बरम्। वाजपेये सप्तदशग्रहपात्राणि वरणवृक्षभवानि। सुराग्रहपात्राण्यपि। मृण्मयानि वा”। इष्टिसु प्रणीतोत्करावन्तरेण सर्वेषां गमनागमनार्थो मार्गः, सोत्तरवेदिकेषु कर्मसु चात्वालोत्करयोरन्तरालेन मार्गः।

४ क० १९ सू०। तत्र विहितद्रव्याभावे काम्यं कर्मनारब्धव्यम्। नित्यन्तु मुख्यद्रव्याभावे प्रतिनिधिनाप्यारभ्यम्। काम्येऽङ्गसद्भावं ज्ञात्वाऽऽरम्भोत्तरम् मुख्यद्रव्यापचारे प्रतिनिधिद्रव्येण समापनम्। न तु असमाप्तस्य त्यागः। नित्ये तु आरब्धेऽनारब्धे वा प्रतिनिध्युपादानमिति भेदः। काम्यस्यावश्यकार्य्यत्वाभावात् प्रतिनिधिना नारम्भः। आरब्धे चावश्य समापनीयत्वात् समाप्त्यर्थं प्रतिनिधिर्भवति। दीक्षितस्य पयआदिके व्रतेऽपि प्रतिनिधिरस्ति। प्रतिनिधिना करणपक्षे मुत्यद्रव्यवाचकपदघटितमन्त्रे ऊहो न कार्थः। यत्र जात्यन्तरं विहितं तत्र ऊहः। विकल्पस्थले अन्यतर द्रव्यारब्धे कर्मणि दैवात्तस्य दोषेविनाशे वा तत्प्रतिनिधिद्रव्यान्तरेणैव समाप्यं न तु वैकल्पिकद्रव्येण यथा व्रीह्यारब्धे कर्मणि व्रीहिनाशदोषयोः व्रीहिसदृशनीवारादिना समापनं न तु यवेन, एवमन्यत्र। व्रीह्यभावे नीवारैः प्रयोगे आरब्धे नीवारेषु विनष्टेषु कथञ्चिद् व्रीहिप्राप्तौ व्रीहिभिरेक अप्राप्तौ व्रीहिसदृशैरेव कर्म समापनम् न नीवारसदृशैः नापि वैकल्पिकैर्यवैः। मुख्यद्रव्येण सर्वप्रयोजनासिद्धौ तत्समर्थप्रतिनिधिनैव कर्मकार्य्यम्। यत्र कृष्णाः व्रीहयोविहितास्तत्र कृष्णव्रीह्यलाभे शुक्लव्रीहिभिः कर्म कार्य्यं न तु कृष्णनीवारैः गुणस्य द्रव्यापेक्षया दुर्ब्बलत्वात्। पुंवत्सत्वलक्षणं गुणं हित्वा स्त्रीवत्सायाअपि गोः पयसा होमो न तु पुंवत्सायाः मेष्याः पयसा। एवमार्द्रत्वगुणालाभे शुष्कपलाशैरपि कर्म कार्य्यं न तु आर्द्रसमिदन्तरेण एवं सर्वत्र। एवं प्राशित्रादिसर्वकर्मसु पार्य्याप्तव्रीह्यलामेऽपि अवदानद्वयपर्याप्तपु रोडाशनिष्पत्तिसमर्था व्रीहय एव ग्राह्या न तु प्राशित्रादिसर्वकार्य्यपर्याप्ता नीवारा इति ५ क० १७ सू०। तत्र श्रुतिपाठमन्त्रपाठार्थसिद्धिक्रमेण पदार्थानुष्ठानम्। यत्र च पाठक्रमार्थसिद्धिक्रमयोर्विरोधः तत्र पाठक्रममनादृत्यार्थसिद्धिक्रमोग्राह्यः। यथा “स वै पर्ण्णशाखया वत्सानपाकरोति तामाच्छिनत्ति” इत्यत्र पाठक्रममनादृत्य पूर्ब्बं छेदनं ततोऽपाकरणम्। यत्र तु श्रुतिपाठक्रमयोर्विरोधः “संस्थिते यज्ञे ब्राह्मणं तर्पयितवै ब्रूयादिति” श्रुतिः संस्थिते यज्ञे ब्रह्मतर्पणं विदधाति पाठक्रमस्तु प्राशित्रावदानात् पूर्व्वम्। तत्र श्रुतिक्रमेण संस्थितएव कार्यम् न पाठक्रमेण। यत्र च श्रुतिपाठमन्त्रपाठयोर्विरोधः तत्र श्रुतिपाठक्रममनादृत्य मन्त्रपाठक्रमेण कार्य्यम्। यथा सोऽसावाज्यमधिश्रयतीत्यधिश्रयणं विधाय, तदनन्तरमेवोद्वासनं विहितम् मन्त्रक्रमस्तु पत्नीसंहननान्ते इति विरोधः तत्रमन्त्रपाठक्रमेणैवाज्योद्वासनम्। यत्र बहूनां प्रधानानां सह प्रयोगस्तदा सन्निपत्योपकारकाः पदार्थाः सर्व्वेषां प्रधानानां पृथक पृथक् सदृशपदार्थानुसमये कार्य्याः यथा सप्तदशसु प्राजापत्येषु पशुषु सर्व्वेषां प्रथम मुपाकरणं ततः सर्व्वेषां नियोजनम वतः सर्व्वेषां प्रोक्षणमित्यादि। आरा कारकास्तु तन्त्रेण कार्य्या न तेषु क्रमचिन्ता। यथा दर्शादौ प्रयाजादय आरादुपकारकास्तन्त्रेण कार्य्याः। चतुर्मुष्टिकनिर्वापः एकादशादिकपालोपधानञ्च एकैकस्य कार्य्यम्। सोमे चैकैकस्य ग्रहस्यासादनान्तं ग्रहणं कार्य्यम्। सर्व्वत्रहविषोऽवदानं प्रदानान्तं कार्य्यम्। देवताऽभेदे हविर्मात्रभेदे देवतागुणे वा उपांश्वादिकेऽभिन्ने प्रदानान्तमवदानं न भवति किन्तु क्रमेण सर्षाणि हुवींष्यवदाय पश्चा त्तेभ्यः प्रदानं कार्य्यम्। सप्तदशसु प्राजापत्यपशुषु उपाकरणरूपे प्रथमपदार्थे कृते द्वितीयपदार्थादौ उपाकरणक्रम आदर्त्तव्यः न क्रमान्तरम्। अयं प्रावृत्तिकः क्रमः। प्रधानानामाग्नेयादीनां पाठक्रमेण तदङ्गानां निर्वापादिक्रमः। यथा प्रथमपठितस्याग्नेयस्य प्रथमं निर्वापादि। पश्चात् पठितस्याग्नीषोमीयस्य पश्चात् इत्ययं क्रमो मुख्यः। अनेकाहसाध्यदर्शादौ क्रियमाणे मध्ये नित्यस्याग्निहोत्रादेः काले प्राप्तेकाम्यमध्येऽपि तत् कार्य मेव न तु दर्शाद्यनुरोधेन नित्याग्निहोत्रादिकालातिक्रमः कार्यः। सौत्रामण्यादिविकृतिमध्यएवामावास्यायां दक्षिणाग्नौ पिण्डपितृयज्ञः कार्यः। षोडश्यतिरात्रादौ च षोडशिनोनियतकालत्वेऽपि दैवादुक्थ्योत्कर्षे तदनन्तरमेव षोडशियागः कार्यः न तु कालानुरोधात् ततः पूर्वम्। अग्निष्टोमादिसत्रपर्यन्तानां प्रधानानामनुष्ठाने क्रमा भावः। यदा यत्र यस्येच्छा तदा तदनुष्ठेयम्। अध्ययनार्थ एवैषां पाठक्रमः नानुष्ठानार्थः। ६ क० २६ सूत्राणि। तत्र अवत्तहविर्नाशेऽन्यद्धविः कार्य्यं न स्विष्टकृदादिप्रतिपत्तिसहितः यागः कार्यः। नवा पुनः शेषादवदेयम्। अग्न्यादिदेवतानां, मन्त्राणां, प्रयाजानुयाजादिक्रियाणाञ्च न प्रतिनिधिरस्ति। दृष्टार्थानां तु क्रियाणामवघातादीनां प्रतिनिधिरस्ति। प्रतिषिद्धं वस्तु श्रुतद्रव्यसदृशमपि न प्रतिनिधेयम्। यथा मौद्गे चरौ माषादि। त्यागादौ वपनादौ संस्कारकर्म्मणि च यजमानस्य प्रतिनिधिर्नास्ति। गुणकर्म्मसु पात्रासादनाज्यावेक्षणाग्न्याधानव्यूहनवेदबन्धनादिषु यन्नमानस्यापि प्रतिनिधिरस्ति। पत्न्यभावेऽप्याज्यावेक्षणान्वारम्भोपाञ्जनादौ गुणकर्म्मणि प्रतिनिधिरस्ति। सत्रेषु यजमानस्य प्रतिनिधिरस्ति। यजमानकर्म्मणा सम्बन्धात् यजमानधर्म्मा अपि दीक्षणादयः प्रतिनिहितस्य भवन्ति सत्रेषु यजमानानामृत्विक्पदार्थकर्त्तृत्वविधानात्। ब्राह्मणस्यैव सत्नेषु अधिकारो न क्षात्रवैश्यानाम्। ब्राह्मणानामप्येककल्पानां न भिन्नकल्पानाम्। वैश्य क्षत्रिययोर्गृहपतित्वेऽपि सत्रेषु नाधिकारः। सहस्र संवत्सरसत्रं मनुष्याणामपि भवति तत्र संवत्सरशब्दस्य अहःसु लक्षणा यतस्तत्र सहस्रसंवत्सरे सहस्रं सौत्यान्य हानि तानि च दिनसहस्रे सम्भवन्तीति। ७ क० २८ सूत्राणि। यत्र एकफलार्थं बहूनि प्रधानानि एक वाक्येन विधीयन्ते। तत्र तेषां सह प्रयोगः। देशकाल फलकर्म्मादिसाम्ये सति प्रधानानामारादुपकारीणि आघारप्रयाजाज्यभागादीनि सकृदेव कार्य्याणि। न प्रतिप्रधानं पृथक् पृथक् कार्य्याणि। देशभेदे कालभेदे च तन्त्रभेदएव भवति न सहक्रिया। यथा दर्शपौर्ण्णमासयोः कालभेदे। वरुणप्रघासेषु च मारुत्या देशभेदे। अहर्गणे सुब्रह्मण्यानिगदे द्वादशाहे सुत्यामुपगच्छेदित्यत्र कालसंयुक्तं कर्म्म तन्त्रेणैव सकृत् प्रयोज्यम्। एकद्रव्ये कर्म्मावृत्तौ सत्यां मन्त्रवचनं सकृदेव कार्य्यम् न प्रतिक्रियम्। यथा स्फ्येन पदं त्रिः परिलिखेदस्मे रमस्वेत्यत्र एकवारं मन्त्रेण, द्विस्तूष्णोमिति। हविर्ग्रहणे बर्हिषोलवने तस्य स्तरणे आज्यग्रहणे च प्रतिक्रियं मन्त्रावृत्तिः न सकृत्। आज्यग्रहणे तु वचनात् त्रिधा मन्त्रेण ग्रहणम् शेषं तूष्णीं हविर्ग्रहणे चतुर्थं तूष्णीम्। वचनादुत्तमे मुष्टौ मन्त्रनिवृत्तिः। दीक्षितस्यानेकदुःस्वप्नदर्शने सकृदेव मन्त्रपाठः। एकनद्या अनेकप्रवाहतरणेऽनुमन्त्रणं सकृदेव। अववर्षणे अनेकवृष्तिधारासंयोगेऽपि अनुमन्त्रणं सकृदेव। युगपदनेकामेध्यदर्शने सूर्य्योपस्थापनं सकृदेव। वनीवाहने (विश्रम्य विश्रम्य पुनः पुनः प्रयाणे) अमेध्यदर्शने मन्त्रपाठः सकृदेव। एकरात्रिमध्ये पुनपुनःस्वापादौ अमेध्यदर्शनादिषु च कालभेदे भेदेनैवानुमन्त्रणं न सकृत्। अप्रधानकालीनमङ्गं सकृदेव, न प्रतिधानमावर्त्तते। यथाऽग्निषोमीयसवनीयानूबन्ध्यपशूनां साधारण एव स्वरुरपि यूपवत् सर्व्वपशुसाधारण एव। आधानादिकर्म्मसु पुरुषाएव कर्त्तारोन स्वयं केवलं यजमानः। तत्रायं भेदः देवतोद्देशेन द्रव्यत्यागात्मककर्म्माणि यजमानः स्वयं कुर्य्यात्। पुरुषयोगिमन्त्रान् यजमानः स्वयं जपेत् वपनाभ्यञ्जनादयो यजमानस्यैव संस्काराः। सति विशेषवचने ऋत्विजामपि ते संस्काराः यथा “हिरण्यमालिनोवाजपेयेन चरन्ति”। सति वचने उक्तादन्यदपि यजमानस्य भवति। यथा यजमानोवसोर्धारां जुहोति। यजमानः पात्राण्यासादयतीत्यादि। शेषं कर्म्मं यथासमख्यमृत्विगादयः कुर्युः। यथा अध्वर्युराध्वर्य्यवं, होता हौत्रम्, उद्गाता औद्गात्रमित्यादि। सर्व्वाणि कर्म्माणि यज्ञोपवीतिनः कुर्य्यः तानि च प्राक्संस्थानि उदक्संस्थानि वा कुर्युः। परिस्तरणपर्य्युक्षणादौ प्रदक्षिणं कार्य्यम्। पित्र्येऽपसव्यम्। दैवे यत्रावृत्तिः पैत्रे तत्र सकृत्। दक्षिणा च दिक् पित्र्ये। यद्दैवे प्राक्संस्थादि पैत्रे तत्दक्षिणसंस्थं कार्य्यम्। प्रधान- द्रव्यविनाशे सन्निपत्योपकारकाङ्गसहितस्यैव तस्यावृत्तिः नारादुपकारकसहितस्य। ८ क० ४७ सू०। विकल्पस्यले एकेनेव कार्य्यकरणम्। अदृष्टार्थेषु बहुषु विहितेषु समुच्चयः यथा होतृमन्त्राणामग्निमन्थनीयादीनाम् अग्निस्थापनमन्त्राणाञ्च। होतृमन्त्रत्वेऽपि याज्यानुवाक्ययोर्न समुच्चयः। तथा च याज्या पुरीनुवाक्या च एकैकस्मिन् यागे एकैकैव। एकनिमित्तकप्रायश्चित्तानां समुच्चयः। यज्ञकाले मन्त्राणामेकश्रुत्या प्रयोगः, न संहितास्वरेण, नापि ब्राह्मणंस्वरेण। सुब्रह्मण्यासामजपन्यूङ्खयाजमानानां मन्त्राणां संहितावदेव स्वरेण प्रयोगोन त्वेकश्रुतिस्वरेण। आधाने विहितदक्षिणाभेदस्य विकल्पः, न समुच्चयः। अनेक साघनके कर्म्मणि ऊबध्यादीनां समुच्चयः। सर्व्वपशूनां तानि कार्य्याणि। सोमक्रये विहितगवादिद्रव्यदशकस्य दृष्टार्थत्वात् न समुच्चयः। सर्व्वत्र गार्हपत्याहवनीययोः प्रदक्षिणीकृत्यापसव्यावृत्तिः अपसव्यीकृत्य च प्रदक्षिणा वृत्तिः कार्य्या। विहारोत्तरतः सर्व्वकर्म्म कार्य्यम्। विहारस्य दक्षिणतः ब्रह्मयजमानयोरासने कार्य्ये। तयोर्मध्ये यजमानस्य वेदिं स्पृष्ट्वा (वेदिमध्ये पादाग्रं निधाय) उपवेशनम्। पश्चात् ब्रह्मोपवेशनम्। अनादेशेऽध्वर्युः यजुर्विहितं कर्म्म कुर्य्यात् आदेशे तु अन्योऽपि। विरोधे तु अन्योऽपे कर्त्ता यथा पेषणेऽध्वर्योर्व्यापृतत्वेन विरोधात् कपालोपधानमग्नीत् कुर्य्यात्। हविष्पात्रस्वामृयत्विजामेकत्र समावेशे यद्यत् पूर्व्वं तत्तदन्तरं, यद्यदुत्तरं तद्बहिर्भवति। हविषामपि मध्ये पूर्ब्बं पूर्ब्बं हविरन्तरं कार्य्यं उत्तरमुत्तरं बहिः। प्रतापनाद्यग्निसाध्यसस्कारा गार्हपत्याग्नौ कार्य्याः। सर्व्वकर्मसु हविःश्रपणं गार्हपत्ये आहवनीये वा कार्य्यम्। संस्काररहितं घृतमात्रमाज्यशब्दार्थोग्राह्यः। घृतं च गव्यमेव ग्राह्यम्। द्रव्यविशेषानुक्तौ सर्व्वत्र घृतेन होमः कार्य्यः विशेषवचने तेनैवं। चात्वालात् बहिस्थं पुरीषं निवपेत्। आहवनीये यजतयः, आज्यभागोपांशुयाजादयः आज्यहविष्का ध्रुवातः आज्यं गृहीत्वा चतुरवदाय कार्य्याः। इडाप्राशित्राघारानप्येके ध्रुवातः कुर्व्वन्ति। आघारौ प्राञ्चौ विदिशौ वा होतव्यौ उभयपक्षेऽपि ऋजू दीर्घौ सन्ततौ च तौ कार्य्यौ। अनादेशेसर्वे होमा आहवनीये एव कार्य्याः। आदेशे तु यथादेश मन्यत्राग्नौ। आदेशाभावे सर्व्वत्र सकृद्गृहीतमेव होतव्यम् आदेशविशेषेऽन्यथा। ९ क० २१ सू०। सर्व्वत्र व्रीहयोयवा वा हवींषि भवन्ति। व्रीह्याग्रयणानन्तरं यवाग्रयणादर्वाक् व्रीहिभिरेव दर्शपौर्ण्णमासौ कार्य्यौ यवाग्रयणानन्तरं च प्राग्व्रीह्याग्रयणात् यवैरेव तौ कार्य्यौ। आपस्तम्बमते सर्व्वदा व्रीहिभिरेवेति भेदः। दर्शपौर्णमासयोरेवायं द्रव्यनियमः न विकृतौ। द्विरवदानविधाने पुरोडाशचर्वादेर्म ध्यदेशादेक मङ्गुष्ठपर्व्वमात्रं तिरश्चीनम् आद्यमवदानम्। द्वितीयं तु हविःपूर्व्वभागात् तथावदानम्। तच्चावदानयोर्मर्यादाभङ्गाभावेनैव कार्य्यम्। पञ्चार्षेयाणां जमदग्नीनां जमदग्निप्रवराणाञ्च हविषस्त्रिरवदानम्। तत्राद्यं मध्यात्, द्वितीयं पूर्ब्बभागात्, तृतीयम् पश्चाद्भागात्। यत्र आज्यभागपत्नीसंयाजोपांशुयाजाग्निहोत्रहोमादौ चतुरवदानं विहितं तत्र जमदग्नीनां पञ्चशोऽवदानम्। दधिपयसीरपि स्रुवेणावदानग्रहणम्। तदप्यङ्गुष्ठपर्व्वमात्रमेव कार्य्यम्। पुरोडाशादिहविषोऽवदानात् प्रथममाज्यं सकृदवदाय ततोऽन्यद्धविरवदेयम्। पुनरप्यन्ते आज्यं सकृदवदेयम्। स्विष्टिकृद्धोमे तु प्रधानावदानादेकोनं हविषोऽवदानम्। तथा च येषां प्रधानयागेऽवदानद्वयं विहितं तेषां स्विष्टिकृद्धोमे सकृदवदानं, येषां प्रधानेऽवदानत्रयं तेषां हविष उत्तरार्द्धादेव स्विष्टिकृति अवदानद्वयम्। एवं चतुः पञ्चशोऽवदाने त्रिः चतुर्वाऽवदानम्। उपस्तारः सकृत्। उपर्य्यभिघारणं तु द्विर्वारं भवति। हविषोऽवदेयावदानयोः प्रत्यभिघारणम्। स्विष्टिकृदवदानानन्तरम् हविषो न प्रत्यभिधारणम्। एककपालः पुरोडाशः सर्वहुतः कार्यः। चतुर्थ्यन्तेन देवतापदेनानुवचनप्रैषा कार्य्या यथा अग्नयेऽनुब्रूहीषेवंरूपा। आश्रावणानन्तरं यत्र मैत्रावरुणः प्रैष्यते तत्रापि चतुर्थ्यन्तं देवतापद प्रयोज्यम्। अग्नये प्रेष्य, सोमाय प्रेष्येत्येवम्। आश्रावणानन्तरं यत्र मेत्रावरुणस्य प्रेषाभावस्तत्र द्वितीयान्तं देवतापदं प्रयोज्यम्। अग्निं यज सोमं यजेत्येवम्। प्रैषसम्बन्धिन्यनुवाचने द्रव्यात् षष्ठी भवति यथा इन्द्राग्निभ्यां छागस्य हविषोऽनुब्रूहीति। वपायै धाना सोमेभ्यः इति प्रैषद्वये तु न षष्ठी। यत्रासौ यजेति विहितं यथा नामग्राहं यजेति प्रशास्त्रादीन् प्रति। तत्र देवतापदं न प्रयोज्यम्। प्रशास्तर्यज पोटर्श्रजेत्येवं प्रयोज्यम्। यत्र यत्र मन्त्रे असाविति पदं श्रूयते तत्र तत्र असाविति पदमपनीय तस्य स्थाने तत्पदवाच्यस्य मैत्रादेर्नामो- च्चार्यं यथा इमममुष्य पुत्रमित्यादौ देवदतस्य पुत्रमित्यादि। सवषट्कारास्वाहुतिषु वेदेर्दक्षिणभागे उदक्प्राङ् इतीशानाभिमुखस्तिष्ठन् वषट्कारानन्तरं वषट्कारेण सह वा जुहुयात्। यत्राज्यमिश्रं हविर्विहितं, तत्र पूर्ब्बमाज्यं हुत्व ततो मध्ये हविर्हुत्वा पुनरुपर्य्याज्यं जुहुयात्। अथ वा सहैव सर्वमाज्यं हविश्च जुहुयादिति पक्षद्वयम्।

१० क० १४ सू०। तत्र आग्नेयोऽष्टाकपालो भवतीत्यादौ लटः लिङ्परत्वकल्पनया विधिपरत्वम्। कर्मसु कर्त्तव्येषु तदुपकरणद्रव्यसमुदायानामादौ उपकल्पनं तानि चानीय कर्मदेशस्थाने स्थापयेत्। चर्माण्यु त्तरलोमानि प्राग्ग्रीवाणि सर्व्वत्रास्तरणीयानि। हविषां मध्ये यत् पश्चात् पठितं तद्देशतः कालतश्चोत्तरं कार्य्यम्। ग्रहणादिकं पूर्ब्बपठितस्य पूर्वम् उत्तरपठितस्योत्तरम् कार्यम्। एवम् अधिश्रयणाद्यपि पूर्ब्बपठितस्य दक्षिणतः पश्चात्पठितस्योत्तरत इति। एकद्रव्ये स्थालीस्रुवादौ साज्ये दक्षहस्तेन गृहीते सति वामेन वेदस्योप ग्रहणं कार्य्यम्। एकद्रव्यैत्युक्तेः उपभृदादौ द्वितीयद्रव्ये सति वेदोपग्रहणाभावः। आज्यादन्यद्रव्येण द्रव्यवति यागे उपस्थानादौ च स्फ्येनोपग्रहणं कार्यम्। असत्सु वेदवज्रद्वितीयद्रव्येषु कुशैरुपग्रहणम्। यथा स्फ्ये अन्यकर्मव्यापृते सोमे ग्रहहोमादौ द्वितीयद्रव्याभावे च कुशोपग्रहणम्। स्रुचोरादानकाले आसादितां स्रुचं जुहूञ्च पाणिम्यां परिगृह्य उपभृतौपरि निदध्यात्। तत्र च परस्परसंस्पर्शजशब्दो न कार्य्यः। विश्वजिन्न्यायेन सर्व्वत्र स्वर्गः फलत्वेन कल्प्यते। एकस्मिन् कर्मणि वैकल्पिकानामङ्गानां यथाश्रुतञ्च विहितानां मध्ये अधिकाङ्गानुष्ठानपक्षे सर्व्वत्र फलाधिक्यम्। यथा पौर्णमासादौ वैकल्पिकवैमृधाद्यधिकाङ्गानुष्ठाने। एवमन्वाहार्य्यादिदक्षिणादाने षड्दक्षिणापक्षतोद्वादशचतुर्विंशतिदक्षिणापक्षयोः फलतारतम्यम्। दानान्वारम्भणवरणव्रतप्रमाणानि यजमानसम्बन्घीनि ग्राह्याणि। तथाच यानि दानादीनि प्रमाणानि विहितानि च तानि याजमानान्येव व्रतञ्च सत्यवदनाधःशयनपयोव्रतादिकं यजमानस्येव, प्रयाणं चाग्निखरवेदिशालासदोगृहादिमानं यजमान हस्तमानेनैव कार्य्यम्। यूपावटोपरवादौ खाते, लूने बर्हिषि, छिन्ने यूपे, अवहतेषु व्रीहिषु पिष्टेषु तण्डुलधानादिषु, दुग्धेपयसि, दग्धेषु महावीरेष्टकादिषु तदव- यवलक्षणया क्रियादिसम्भवः। रौद्रमन्त्रं रक्षोदैवतम् असुरदैवतं शैव्यं मन्त्रमुच्चार्य तत्तद्देवताकं कर्म्म च कृत्वा आत्मानमुपस्पृश्यापां स्पर्शनं हस्तेन कुर्य्यात्। इति सर्व्वकार्य्योपयोगिविधानानि प्रथमाध्याये उक्तानि। एतेषां सर्व्वकर्म्मोपयोगित्वात् विस्तरेणोक्तिः। अन्यान्याध्यायार्थाः संक्षेपणोच्यन्ते। २ अध्याये अष्टौ कण्डिकाः। तत्र १ क० पौर्णमासेष्टिकालः तत्राग्न्यान्वाधानेऽध्वर्युयजमानयोरधिकारः। तद्विधानप्रकारः। दीक्षाग्रहणे दीक्षितधर्माः। दिवामैथुनमांसवर्जनम् अशिखकेशादिवापनम्। अपराह्णे पत्नी यजमानयोरतृप्त्या हविषा सह व्रतकालयोग्यं माषमांसलवणवर्ज्जंहविष्यं भोज्यम्। तत्र व्रतयोग्यं भोज्यं भाष्ये दर्शितं यथा पुलस्त्यः “सकृत् पर्व्वणि सर्पिष्मत् हविष्यं लघु भोजनम्। न सायं नोपवासः स्यात् तैलामिषविवर्जितम्” बौधा० “सर्वमेवैतदहः, कौशीधान्यं विवर्जयेदन्यत्र तिलेभ्यः”। परिशिष्टे च “शाकं मांसं मशूरं च चणकं कोरदूषकम्। माषान् मधु परान्नञ्च वर्जयेदौपवस्तके”। कर्म्मप्रदीपे “लवणं मधु मांसञ्च क्षारान् श्वोयेन हूयते। उपवासे न भुञ्जीत नोरुरात्रौ न किञ्चन”। “तिलमुद्गादृते शैत्यं शस्यं गोधूभकोद्रवौ। चणकं देवधान्यञ्च सर्व्वशाकं तथैक्षवम् (गुडम्)। सर्ज्जीक्षारं यवक्षारं टङ्कणक्षारमेव च। व्रतस्थो वर्ज्जयेन्नित्यं सामुद्रं लवणं तथा”। सामुद्रविशेषणात् सैन्धवमानसयोर्न निषेधः। “सैन्धवं लवणं यच्च यच्च मानससम्भवम्। पवित्रं लवणं ह्येते प्रत्यक्षे अपि मर्वतः इति स्मृतेः”। सत्यवदनञ्चात्र कर्म्मार्थम् उपनयनोत्तरविहितं तु पुरुषार्थः अतः प्रायश्चित्तभेदः। रात्रौ तस्मिन्नेव विहारेऽग्निहोत्रहोमः। सायमशनेच्छायां होमानन्तरमारण्यौषधीनां नीवारादीनामन्नम् आरण्यवृक्षादीनां च फलमनतिरात्रौ भुञ्जीत। आहवनीयगृहे गाहपत्यगृहे वाऽधः शयनं तत्राप्यास्तरणनिषेधः, ब्रह्मचर्य्यञ्च। एष नियमः सपत्नीकयजमानस्यैव। पौर्णमासे अन्वाधानादिकर्मापवर्गान्ते द्व्येहे एकाहे वा कार्यभेदोक्तिः तच्च प्रातरेव कार्यम्। २ क०। अग्निहोत्रानन्तरं ब्रह्मवरणं तत्प्रकारः। ३ क० ८ क० पर्य्यन्ते ब्रह्मसदनादेः आत्मस्पर्शपर्यन्तस्य कर्मकलापस्यानुष्ठानप्रकारमन्त्रादिकीर्त्तनम्। ३ अध्याये अष्टौ कण्डिकाः। तत्र होतृसदनादिपौर्ण्णमाससमाप्तिपर्यन्तकर्त्तव्यकार्यकलापस्यानुष्ठानप्रकारमन्त्रादि। ४ अ० १५ क०! तत्र १। २। ३ क० दर्शयागात् प्राक्कर्त्तव्यं पिण्डपितृयज्ञानुष्ठानप्रकारमन्त्रादिकथनम्। तत्र द्रव्यदेवतायुक्तः आख्यातप्रत्ययान्तकर्म्मशब्दोवेदबोधितो यागशब्दार्थः इत्युक्तिः। सर्व्वासु इष्टिषु अग्नीषोमीये पशौ च दर्शपौर्ण्णमास यागधर्म्मातिदेशः। वैश्वदेववरुणप्राघाससाकमेधशुनासीरीयरूपचतुःपर्व्वात्मकचातुर्मास्यस्याद्ये वैश्वदेवे पर्व्वणि दर्शपौर्ण्णधर्म्माः। ततोऽतिरिक्तत्रयेषु औपदेशिकाः प्राचोनप्रवणे त्रिधाबर्हिःप्रस्ताराद्रयोधर्म्मा भवन्ति। चातुर्मास्ये वरुणप्रघासादिषु त्रिषु तु वैश्वदेवपर्व्वधर्म्माः किन्तु मारुत्यादिषु न भवन्ति। सौमिकादवभृथात् वारुणप्राघासिकावभृथे धर्म्माभवन्ति। क्व? कुर्यादिति सन्देहे लौकिकाग्निरेव ग्राह्यः। दर्शपौर्ण्णमासयोराग्नेयादयः षट् प्रधानयागाः। वैकृते कर्मण्येकदैक्ये सर्व्वत्राग्नेयधर्माः। अतेकदैवत्ये तु अग्नीषोमीयैन्द्राग्नादेः। तत्रापि आग्नावैष्णवादौ अग्नीषोमीयस्यैव धर्मा नैन्द्राग्न्यास्येति निर्द्धार्यम्। मारुतेषु ऐन्द्राग्न्यस्येति निर्द्धार्यम्। द्रव्यसामान्येनापि धर्मप्रवृत्तिर्भवति यथा पुरोडाशचरुधानासक्त्वादौ पुरोडाशस्य, सान्नाय्ये सान्नाय्यस्य, आज्ये आज्यस्येति। देवतागुणस्योपांशुत्वादेः साम्ये धर्म्मप्रवृत्तिर्भवति। यथोपांशुयाजे उपांशुयागः। द्रव्यदेवतासामान्यविरोधे द्रव्यसामान्यादेव धर्माभवन्ति न देवतासामान्यात् यथा ऐन्द्रपुरोडाशादौ देवता सामान्यात् पुरोडाशस्यैव। पयस्यायां पयस एव धर्माभवन्ति न दध्नः। अतश्चातुर्सास्यादौ परिवासितया शाखया पवित्नबन्धनानन्तरं वत्सापाकरणं दोहनचतुष्टयासादनञ्च भवति। पशावपि पयस एव धर्माभवन्ति न दध्नः। अतःसान्नाय्योखास्थानापन्नानां वशाश्रपणीशूलोखाना मासादनप्रोक्षणे भवतः। द्रव्येषू स्थानापत्तेर्धर्माभवन्ति यथा श्यामाकानां व्रीहिववस्थानापत्तेस्तर्द्धर्म्मा ग्रहणा सादनप्रोक्षणकण्डनादयो गृह्यन्ते। प्राकृतस्थानापन्नस्यापि द्रव्यस्य ये स्थानिनो धर्माविरुध्यन्ते स्थानापन्ने द्रव्ये नं ते भवन्ति यथा परिधौ पशुनियोजने यूपस्थानापन्नस्यापि परिधेः तक्षणाष्टाश्रीकरणादयोधर्मा न भतन्ति विरुद्धत्वात्। विकृतौ यत्र प्राकृतद्रव्यदेवतास्थानेऽन्यद्रव्यदेवतादिर्विहितस्तत्र प्राकृतमन्त्रस्य यथार्थ मूहोभवति। यथा अग्नये त्वा जुष्टभिणस्य प्रकृतौ मन्त्रस्य इन्द्राग्निव्यां वां जुष्टमित्यूहः। प्रकृतौ मन्त्राणामूहो न भवति प्रकृतेरपूर्वत्वात्। यथा पत्नीं संनह्ये- त्येकवचनान्तमन्त्रस्य बहुपत्नीकयागेऽपि नोहः। किन्तु एकवचनान्त एव प्रयोज्यः। तथा पवित्रे स्थ इति मन्त्रस्य पवित्रद्वयपक्षेऽपि नोहः। अत्रापवादः। विकृतौ वचनविशेषे प्राकृतधर्म्मा न भवन्ति। अर्थलोपात् (प्रयोजनलोपादपि) प्राकृतधर्म्मा न भवन्ति। यथा मौद्गे चरौ कण्डनस्य प्रकृतितः प्राप्तस्यापि प्रयोजनाभावात् नानुष्ठानम्। तथा विरोधादपि प्राकृतधर्म्माणां विकृतावप्रवृत्तिः। यथा चरौ पेषणस्य दध्युपसर्जनीनामधिश्रयणस्य च। यच्च प्रकृतौ परार्थतया विहितं विकृतौ परार्थाभावेन तस्याप्रवृत्तिः यथा प्रकृतौ प्रतिपत्तिकर्म्मणां परार्था (प्रतिपाद्यद्रव्यार्था) उत्पत्तिरस्ति अती विकृतौ प्रतिपाद्यद्रव्याभावे द्रव्यकर्मणामप्यभावो भवति। यत्र तु परार्थोत्पन्नं द्रव्यं क्वचित् कर्म्मान्तरसाधनत्वेन विहितं तत्र परस्याभावेऽपि परार्थोत्पन्नस्य भावो भवति (परार्थोत्पन्नेन द्रव्येण यत्कार्य्यं तदन्येनापि येन केनचित् कार्यम्) यथा यूपशकलेन शुक्रं समार्ष्टीत्यत्र यूपार्थं तक्ष्यमाणे यूपे यत् शकलमुत्पन्नं यूपाभावेन तत्सम्बन्धिशकलाभावेऽपि ग्रहसंमार्गसाधनत्वेन विहितत्वाद्येन केनचिच्छकलेन शुक्लसंमार्जनं कार्यम्। सर्व्वासामिष्टीनां सद्यस्कालत्वम्। ४ क०। प्रजापश्वन्नयशस्कामकार्य्य दाक्षायणयज्ञमन्त्रप्रकारादि। दर्शपौर्णमासयोर्देवद्रव्यभेदकथनपूर्ब्बकतद्विधानप्रकारः। ५ क०। उपांशुशब्दार्थकथनम्। (व्यक्तत्वे चोदनैकत्वे तन्त्रैक्ये यत्र कामना। तादर्थ्येनैव चोत्पत्तिस्तत्रैव स्यादुपांशुता” कर्कः। तत्रद्रव्यदेवतादिकथनम्।

६ क० व्रीहीणां यवानां वा पाके आग्रयणसंज्ञं कर्म्म कार्य्यम् तत्र शरद्वसन्तादिकालद्रव्यदेवतादिमन्त्रविधानप्रकाराश्च। दर्शपौर्ण्णमासेष्ट्यनन्तरमेवाग्रयणाद्या प्रकृतिवत् कार्य्याः न पूर्ब्बम्। दर्शपौर्णमासोत्सर्गे कृते अग्निहोत्रमेव जुह्वत आग्रयणविधानप्रकारः। दीक्षिते विशेषः। संवत्सरोपसत्कादौ यज्ञे आग्रयणविशेषः। संवत्सरसुत्यादौ द्रव्यविशेषाः। श्यामाकाग्रयणविधान प्रकारः। ७ क०। अग्न्याध्येयकर्मकालदेवतामन्त्रविधानप्रकारादि अग्नाधेयशब्दे ऋग्वे दविधिरुक्तो माध्यन्दिनानां विशेषस्तु विस्तरभयान्नोक्तः पद्धतौ दृश्यः। ८। ९। १० क०। आधानस्याङ्गकर्मणां विधानम्। मन्त्रादिकथनम्। ११ क०। पुनराधाने निमित्तं वित्तहान्यादि। तद्विधान- १२ क०। अग्निहोत्राङ्गस्य वात्सप्रस्योपस्थानप्रकारः। १३। १४। १५ क०। अग्निहोत्रकालद्रव्यदेवताविधानमन्त्रादि। तत्र कागनाभेदेनावस्थाभेदयुक्ते वह्नौ होमः कार्यः यथा प्रजाभ्योबलेनान्नादिकं जिहीर्षुणा समिद्धे धूममिश्रेऽग्नौ होमः कायः। प्रजाउपरुध्य ताभ्योऽन्नं जिहीर्षुणा अतिबहुलज्वालायुक्ते, श्रीकामैः यशस्कामैर्ब्राह्मणादिभिः प्रदीप्ते, मित्रभावेन प्रजाभ्योऽन्नं जिघृक्षुणा राज्ञा ज्वालापसरणे जाते, ब्रह्मवर्चसकामेन देदीप्यमानेष्वङ्गारेषु सत्सु वह्नौ होमः। कामनाभेदे हीम्यद्रव्यभेदाः। यथा स्वर्गकामः पशुकामो वा पयसाऽग्निहोत्रं जुहुयात्। एवं ग्रामकामो यवाग्वा, बलकामः व्रीहिश्यामाकनीवारयवगोधूमशालीनां तण्डुलैः, यावनालैः प्रियङ्गुभिश्च। इन्द्रियकामोदध्ना, तेजस्कामो घृतेन। एतमुक्तद्रव्याणां प्रत्यहं संवत्सरहोमे तत्तत्फलसिद्धिः। अग्निहोत्रहोमे सर्वास्विष्टिषु च गार्हपत्यागारस्य दक्षिणद्वारेण प्रवेशनम्। सर्वदा यजमानः स्वयं होमः कार्यः, कार्यवशात् तन्नियुक्तेन अध्वर्युणा वा। किन्तु दर्शे पौर्णमास्याञ्च सदा स्वयं होमः कार्यः। प्रवासे सूतकादौ च विशेषः। ५ अध्याये। १ ३ कण्डिकाः तत्र। १। २ क०। चातुर्मास्ययज्ञ वैश्वदेवपर्व्वकालद्रव्यदेवताप्रयोगादि। ३, ४, ५, क० वरुणप्राघासरूपतदीयपर्व्वकालद्रव्यदेवतामन्त्रविधानादि। ६ क०। साकमेधरूपतदीयपर्व्वकालविधानद्रव्यदेवतामन्त्रादि। ७ क० तत्र द्विहविष्कक्रौडिनीयेष्टिकालविधानद्रव्यदेवतामन्त्रादिकथनम्। ८, ९, क० तत्र पित्र्येष्टिकालद्रव्यदेवतामन्त्रादिकथनम्। १० क० तत्र त्रैयम्बकहोमकालविधानद्रव्यदेवतामन्त्रादि ११ क० चातुर्मास्यपर्ब्बभेदशुनासीरीयकालद्रव्यदेवतामन्त्रादिकथनम्। तत्रायं विशेषः। कृतवैश्वदेवपर्व्वण एव वरुणप्राघाससाकमेधादिपर्व्वत्रयस्य नियतकालत्वात् वरुणप्राघासादि कर्त्तव्यमेव। कृते पौर्णमामे दर्शेष्टिवत्। चातुर्मास्यानां षुनःप्रारम्भः सूतकादावपि कार्यएव। चातुर्मास्यानि त्रिविधानि ऐष्टिकानि, पाशुकानि सौमिकानि वेति तेषां द्रव्यदेवतामन्त्रविधानादि। १२, १३, क० मित्रविन्देष्टिद्रव्यदेतता मन्त्रबिधानकथनम्। ६ अ० दशभिः कण्डिकाभिः निरूढपशुबन्धयागकालद्रव्यदेवतामन्त्रविधानादिकथनम्। ७ अ० ९ क०। तत्र ज्योतिष्टोमकालद्रव्यदेवतामन्त्रादि विधानादि। तत्र सोमयागरूपस्याद्यसंस्थस्य द्रव्यदेवतादि विधानादि। ८ अ० ९ क०। तत्र १, २, क० आतिथ्यकर्मद्रव्यदेवतामन्त्रादि ३ क० औपवसथ्यकालद्रव्यदेवतामन्त्रादिकथनम्। ४, ५, ६, ७, ९, क०। आसु९ अ० १४ कण्डिकात्मके १ कण्डिकायाञ्च सौत्यकर्म्मकालद्रव्यदेवतामन्त्रविधानादिकथनम्। अध्यायशेषे समाप्तिपर्य्यन्ते प्रातःसवनद्रव्यदेवतामन्त्रविधानोक्तिः। १० अ० ९ क०। तत्र किञ्चिदूनाध्यायसमाप्तिपर्य्यन्ते मध्यन्दिनसवनतृतीयसवनयोर्द्रव्यदेवतामन्त्रविधानकथनम्। अन्ते ज्योतिष्टोमे सोमोत्तरकर्त्तव्यानाम् ‘अत्यग्निष्टोमः उक्थ्यः षोडशी वाजपेयोऽतिरात्रः आप्तोर्याम इत्येवं रूपाणां षण्णां सोमसहितानां सप्तानां यागानां ज्योतिष्टोमत्वमुक्तं तत्र च ज्योतिष्टोमस्याध्वर्यवविधानप्रकारः। ११ अ० १ कण्डिका। तत्रज्योतिष्टोमाङ्गब्रह्मत्वविधानादि। १२ अ० ६ क०। तत्र द्वादशाहयागविधानम्। तत्र एकादशाहादियागे च ज्योतिष्टोमधर्मातिदेशः। तत्राग्निष्टुतो धर्मातिदेशः इत्येकस्य मतम्। द्वादशाहो द्विविधः सत्ररूपः अहीनरूपश्च। तत्रोभयरूपयोर्लिङ्गप्रदर्शनम्। यथा यस्याद्यन्तयोः अतिरात्रयागस्तत्सत्रं, यत्र तु अन्तेएव अतिरात्रोयागः सः अहीन इति तयोर्लिङ्गतोक्तिः। सत्रेषु यजमानसहितानां षोडशर्त्त्विजां कर्त्तृत्वात् सर्व्वेषां यजमानत्वम् तेन तत्र दक्षिणाभावः सर्व्वेषां स्वामित्वयोगात् फलवत्त्वाच्च यजमानत्वातिदेशेन सप्तदशानामेव यजमानधर्म्मदीक्षणादि। अन्वारम्भस्तु गृहपतेरेव। क्रतुनिष्पत्त्यर्थं पात्रासादनादौ कर्मणि एकस्यैककर्त्तृत्वं तेनैव कृते सर्व्वकृतत्वम्। गृहपत्याहवनीयीय एव अङ्गारप्रामनम्। अध्यायसमाप्तिपर्य्यन्ते तदीयद्रव्यदेवतामन्त्रदीक्षाकालविधानादि। १३ अ० ४ क०। तत्र १ क० गवामयनमत्रप्रकारः तत्र द्वादशाहधर्मातिदेशः। २, ३, ४ क० तत्रद्रव्यदेवतामन्त्रविधानादि १४ अ० ३ क०। तासु ज्योतिष्टोमसंस्थाभेदवाजपेयकाल द्रव्यदेवतामन्त्रविधानादि। १५ अ० १० क०। तासु राजसूययाग उक्तः तत्र क्षत्रियजातेरेवाधिकारः वाजपेयेनेष्ट्वा न राजसूयः कार्यः। तत्र द्रव्यदेवतामन्त्रविधानादि १६ अ० ८ क०। तत्र १ क० पञ्चचितिकस्थलविशेषस्थाग्निविधानप्रकारः चयनरूपाङ्गकाग्नेः सोमाङ्गत्वोक्तिः तत्र च इच्छयाऽधिकारः तत्रायं भेदः महाव्रतसंज्ञकस्तोत्रसाध्यसोमयागे एव पञ्चचितिकस्थलस्य नियमः अन्यत्र इच्छया विकल्पः। ४ क० पर्य्यन्ते उखानिर्माणप्रकारादि। उखाशब्दे तद्विधिरुक्तः ४ कण्डिकान्ते ५ क० च अग्निचयनप्रकारस्तत्रत्यदेवतामन्त्रादिकथनम्। ६ क० अग्निविशेषपञ्चकचयनप्रकारः ७ क० तत्रत्यप्रायश्चित्तिहोमविधानम् ८ क० अग्निचयनस्य पूर्व्वमुक्तस्य प्रकारभेदतत्कालद्रव्यदेव तामन्त्रादि। १७ अ० १२ क०। तत्र प्रायश्चित्तान्तकर्मोत्तरकर्त्तव्यविधानभेदद्रव्यदेवतामन्त्रादिकथनम्। १८ अ० ६ क० तासु शतरुद्रियहोमः तदङ्गकर्मद्रव्यंदेवतामन्त्रादिकयनम्। ६ क० शेषे अग्निचितोनियमा उक्ता यथा अग्निचिद्वर्षति न पठेत्। पक्षिमांसाभोजनम्। प्रथमचयने द्विजातिभार्य्यामेव गच्छेत् न शूद्राम्। द्वितीयचयने सवर्णामेवोपगच्छेत् नान्यवर्णां क्षत्रियां वैश्यां वा। तृतीव्ये न काञ्चन स्त्रियं गच्छेत्। ब्रह्मचार्येव भूयात्। यावज्जीवमित्थं व्रतं कुर्य्यात्। संवत्सरं वेति पक्षान्तरम्। चित्याशक्तौ सोमेज्यायां स्वय मातृण्णाविश्वज्योतिरृतव्यानामन्यतमानामिष्टकानामुपधानम्। पुनश्चयनमचयनं वेति पक्षान्तरोक्तिः। १९ अ०। ७ क०। तत्र सौत्रामणीयागोविहितः। तत्र ऋद्धिकामस्य ब्राह्मणस्यैवाधिकारः। स च अग्निमता सोमयाजिना सोमयागान्ते कार्य्यः। सीमातिपूतस्य (यस्य मुखातिरिक्तनासाकर्णगुह्यादिच्छिद्रेभ्यः पीतः सोमः स्रवति स सोमातिपूतः) सोमवामिनश्च (मुखेन यः पीतसीमं वमति स सोमवामी) तस्याऽत्राधिकारः। स्वराज्यात् रिपुभिः प्रच्यावितस्य राज्ञोऽपि स्वराज्यप्राप्त्यर्थमधिकारः। पशुप्राप्तियोग्यस्यापि अप्राप्तपशोः पशुकामनया वैश्यस्याऽप्यत्राधिकारः। अयं चतूरात्रसाध्यः। तदङ्गसुरासन्धान प्रकाराद। तत्र द्रव्यदेवतामन्त्रादि। २० अ० ८ क०। तत्राश्वमेधयागोविहितः तत्र अभिषेकवतः क्षत्रियजातेः राज्ञोऽधिकारः न विप्रवैश्ययोः। स च त्रिरात्रसाध्यः सर्वकामाप्तिफलकः। तत्र कालद्रव्यदेवतामन्त्रादि। अश्वमेधशब्देऽस्य विवृतिः। २१ अ० ४ क०। तत्र १ क० पुरुषमेधयज्ञोविहितः सर्वभूतेभ्योऽतिष्ठोत्कर्षकामस्यात्राधिकारः। स च पञ्चरात्रसाध्यः एकविंशतिदीक्षः ब्राह्मणक्षत्रिययोस्तत्राधिकारः न वैश्यस्य। तदीयद्रव्यदेवतामन्त्रादि। २ क० सर्व्वकामस्य सर्वमेधयागोविहितः स च दशरात्रसाध्यः। ३। ४ क०। तत्र पुरुषः अश्वः गौः मेषः अजः इति पञ्चपश्वालम्भनं तद्विधानादि प्रोषितस्य मृतस्य वा संवत्सरास्मृतौ पितृमेधो यज्ञो विहितः तत्र नक्षत्रादिकालद्रष्टव्यदेवतामन्त्रविधानादिकथनम्। २२ अ० ११ क०। तत्र १ क० यजुर्वेदोक्ताधानादिपितृमेधान्तकर्म्माण्युक्त्वा सामवेदविहिता एकाहसाध्ययागा विहिताः। तत्र परिभाषा। संस्यान्तरानुक्तौ अग्निष्टोममंस्थएव क्रतुर्भवति। भूर्नामैकाहः १ धनुमात्रदक्षिणः। ज्यीतिर्नामैकाहः २। तौ च विशेषानुक्तौ अग्निष्टोमसंस्थौ। गोसंज्ञकः ३ आयुःसंज्ञकश्च ४ एतावेकाहौ उक्थ्यसंस्थौ अभिजिद्विश्वजितौ ५६ एतौ अग्निष्टोमकल्पौ। तत्राभिजिति गोसहस्रं शताश्वं वा समुदितं वा दक्षिणा। विश्वजिति सहस्रं सर्व्वस्वं वा समुदितं वा दक्षिणा। तत्र ज्येष्ठपुत्रस्य विभागयोग्यद्रव्यभिन्नं भूमिदासवर्ज्जं सर्वस्वपदार्थः। यतो भूमेः धारणचङ्क्रमणद्वारेण उपयोगात् दासस्य शुश्रूषार्थमुपयोगात् तद्वर्ज्जं हिरण्यादिकं सर्व्वस्वपदार्थः इत्येकमतम्। स्वमते पुरुषमेधे गर्भदासदानदर्शनात् भूम्येकदेशपरित्यागे धारणसम्भवात् तद्व्यतिरिक्तं सर्व्वस्वं देयमिति। अवभृथस्नाने वत्सच्छविं परिदधातीतिश्रुतेः तद्व्यतिरिक्तविषयं सर्व्वस्वम्। एवं दीक्षोपयोगिद्रव्यव्यतिरिक्तविषयमपि। सहस्रादधिकं सर्व्वस्वं दक्षिणा देयेति फलितम्। विश्वजिति द्वादशरात्रादिनियमभेदः। अभिजिति कृते विश्व जितोऽनुष्ठानम् अभिजिद्विश्वजितोर्युगपदनुष्ठानं वा। तयोर्युगपत्करणे देवयजनस्थानविशेषोक्तिः तत्र वृतषोडशर्त्विजां बाहुल्यात् अन्यतमेनान्यत्र कर्म सम्पाद्यम्। तत्र बहिर्वेदिकानि कर्म्माणि समानानि। अन्तर्वेदिकान्येव विशिष्टानि। युगपत्करणपक्षेऽपि अभिजित एव पूर्व्वं पूर्व्व मङ्गं कृत्वा विश्वजितः उत्तरमुत्तरं कार्यम्। सर्वजिन्नामा ७ एकाहः स च महाव्रतसंज्ञसामस्तवसाध्यः तद्विधानादि तत्र संवत्सरं दीक्षा सप्ताहाभिषवः। तत्र तिस्रः षट् वा उपसदः। तथा च संवत्सरं दीक्षां कृत्वा तदूर्द्ध्वं सप्तमाहे अभिषवं कृत्वा सप्ताहे अतीते सुत्या भवति तत्र च तिस्रः षड् वा उपसदः कार्य्याः। तत्र संवत्सरं दीक्षाअग्निचयनवद्वा दीक्षा कार्य्या। स च अग्निष्टोमसंस्य एव। २ क० सर्व्वजिति दक्षिणाभेदतद्विधानादि। अयञ्च उक्य्यकल्पः। उक्तानामभिजिदादीनां संज्ञान्तरम्। तत्र अभिजितो ज्योतिःसंज्ञा विश्वजितः विश्वज्योतिःसंज्ञा। सर्वजितः सर्व्वज्योतिःसंज्ञा। तद्दक्षिणाभेदविधानादि। उक्थ्यसंस्थश्चतुर्थस्त्रिरात्रसम्मितसंज्ञः। साद्यस्क्रसंज्ञाः ८, ९, १०, ११, १२, १३ षट् क्रतवोविहिताः। ते च क्रमेणोत्तरत्र दर्शिताः। तत्राद्ये ८ स्वर्गकामपशुकामभ्रातृव्यवतामेवाधिकारः। द्वितीये साद्यस्क्रे ९ दीर्घव्याधिशमप्रतिष्ठान्नाद्यकामानामधिकारः। अनुक्रीनाम साद्यस्क्रः तृतीयः १० तत्र कर्मादिना हीनस्य तन्निवृत्तिकामस्याधिकारः। विश्वजिच्छिल्पाख्यः ११ चतुर्थः। तस्मिन् दक्षिणाभेदः तत्र सर्व्वस्वप्रतिनिधिर्वेति दक्षिणोक्ता सर्व्वस्वप्रतिनिधिद्रव्याण्येवमुक्तानि यथा धेत्वनुडुत्सीरधान्यपलादिमानार्हस्वर्ण्णरूप्यादिदासदासीमिथुनसोपकरणमहानसहयाद्यारोहणगृहशय्या। तेन सर्व्व स्वपदेनैषामेव ग्रहणम्। वैरनिर्यातनकामस्य श्येनोनाम १२ पञ्चमः साद्यस्क्रः। तत्र दक्षिणाऽनुष्ठानमन्त्रदेवतादि। एकत्रिकनामा षष्ठः १३ साद्यस्क्रः। सर्व्वेषामेषां दीक्षायाः सद्यःक्रियमाणत्वात् साद्यस्क्रसंज्ञा। व्रात्यस्तोमाश्चत्वार एकाहाः १४। १५। १६। १७ विहिताः। इह त्रिपुरुषं पतितसावित्रीका व्रात्यास्तद्दोषशान्त्यै एते कार्य्यास्तत्र लौकिकेऽग्नौ होमः। तेषां प्रथमे १४ व्रात्यस्तोमे गाननर्त्तनकारिणां व्रात्यानामधिकारः। नृशंसत्वेन निन्दितस्य द्वितीये उक्थ्यसंस्थे १५ अधिकारः। कनिष्ठस्य तृतीये १६। तथा च कनिष्ठं गृहपतिं कृत्वा स कार्य्यः। ज्येष्ठस्य अल्पप्रजनस्य स्थविरस्य चतुर्थे १७ अधिकारः तादृशं गृहपतिं कृत्वा गार्हपत्ये स कार्यः। तद्दीक्षाविधानादि। कृतव्रात्यस्तोमस्य व्यवहार्यता भवति। अन्ते ब्रह्मवर्चसवीर्य्यान्नाद्यप्रतिष्ठाकामस्य आत्मनोऽपूतत्वनिवृत्तिकामस्य च कर्त्तव्यः अग्निष्टोमसंस्थः अग्नि ष्टुन्नामैकाहः १८। ५ क०। तत्र द्रव्यदेवतामन्त्रविधानाद्युक्तम्। त्रिवृत्स्तोमका अग्निष्टोमस स्थाः चत्वारः क्रतवोविहिताः। तत्र अनिरुक्तप्रातःसवनः प्रथमः १९। तस्य ईप्सुयज्ञ इति संज्ञा। हिरण्यादिकामस्य ग्रामकामस्य चात्राधिकारः। तत्र द्रव्यदेवतामन्त्रविधानादि। वृहस्पतिसवः द्वितीयः २०। राज्ञा सहिता ब्राह्मणाः यं ब्राह्मणं धर्म्मस्थापकत्वेनाङ्गीकुर्वीरन् तस्यात्राधिकारः। इषुसंज्ञ २१ स्तृतीयः। स च श्येनवत्कार्य्यः किन्तु न सद्य इति भेदः। स च मरणकामकर्त्तव्यः। ६ क० सर्व्वंस्वारश्चतुर्थः २२ एकाहः क्रतुः जीवितुकामस्य मर्त्तुकामस्य वात्राधिकारः। तत्रसिद्धान्नदक्षिणा। तस्य द्रव्यदेवताविधानादि। ऋत्विगपोहनीयास्त्रयः २३, २४२५ क्रतवोविहिताः। तेषु आद्यः सर्व्वस्तोमः २३। द्वादशाहिकच्छन्दोमत्रयमध्ये उक्थ्यसंस्थे उत्तमे अहनो पृथक् कृत्वा द्वितीयतृतीयौ २४, २५, ऋत्विगपोहनीयौ कार्यौ। वाचस्तोमाश्चत्वारः २६, २७, २८, २९। छान्दोग्ये चैषां विशेषः। अन्ते त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिनवत्रयस्त्रिंशाख्याः षट् ३०, ३१, ३२, ३३, ३४, ३५, पृष्ट्यस्तोमाः एकाहविशेषाविहिताः। ७ क०। तेषां विधानप्रकारमन्त्रदेवतादिकथनम्। अग्न्याधेयपुनराधेयाग्निहोत्रदर्शपौर्ण्णमासदाक्षायणाग्रयण संज्ञाः ३६, ३७, ३८, ३९, ४०, ४१, षट् प्रतिकर्म्मसोमाः क्रतवोविहिताः। तद्विधानादि। ८ क०। सप्तदशस्तोमकाः ४२, ४३, ४४, ४५, ४६, पञ्च क्रतबोविहिताः तत्र ग्रामकामस्य उपहव्यनामा ४२ अनिरुक्तः। मिथ्याभिशस्तस्यापि तत्राधिकारः। तद्दक्षिणाविधानादि। स्वर्गकामस्य ऋतपेयः ४३। तद्विधानप्रकारदेवतामन्त्रकथनम्। ९ क० पशुवैश्यकामयोर्वैश्यस्तोमः ४४। तद्विधानादि। तीव्रसुन्नामकः ४५ उक्थ्यसंस्थः क्रतुः। तीव्रसुति सोमातिदेशेऽपि विशेषविधानम्। तत्र सोमातिपूतस्य स्वराज्यात् प्रच्यावितस्य राज्ञः दीर्घव्याधिशान्तिग्रामप्रजापशुकामानाञ्चाधिकारः। तद्विधानादि। १० क० राज्यकामस्य राजन्यस्य राट्संज्ञकः क्रतुः ४६ तद्विधानादि। सचाग्निष्तोमसंस्थः। सऐन्द्रपरियज्ञः ऋषभवत्कार्य्यः। विराडाख्यः ४७ क्रतुः अन्नाद्यकामस्य कर्त्तव्यः सऐन्द्रपरियज्ञवत् आद्यन्तयोः आग्नेयपशुकः कार्य्यः। औपशदनामा ४८ एकाहः प्रजातिकामस्य विहितः। तद्विधानादि। पुनस्तोमनामा ४९ एकाह उक्थ्यसंस्थः। तत्र प्रतिग्रहदोषशान्तिकामस्याधिकारः तद्दक्षिणादि। पशुकामस्य चतुष्टोमनामकौ ५०, ५१ उद्भिद्बलभिदौ च एकाहौ ५२, ५३ दर्शपौर्ण्णमासंवत् संहतावेव तौ फलसाधकौ। इषुरिष्टिः ५४ तद्विधानादि। उद्भिदा इष्ट्वा ततएव दिनादारभ्यार्द्धमास मासं संवत्सरं वा प्रत्यहं इषुरिष्टिर्विधेया। तद्विधानादि। पूजाकामस्य अपचितिनामकौ ५५, ५६, द्वौ यज्ञौ विहितौ। तत्राराज्ञस्त्रैवर्णिकस्य वाधिकारः। तद्वि- धानादि। तत्रपूर्ब्बस्य पक्षीतिसंज्ञा ५५ उत्तरस्य ज्योतिः संज्ञा ५६। तौ च साग्निचित्यौ सर्वजिद्वद्दीक्षायुक्तौ च ११ क० तयोर्दक्षिणा। ऋषभगोषव उ५७, ५८, द्वौ क्रतू विहितौ तत्र अग्निष्टोमसंस्थे ऋषभे राज्ञोऽधिकारः तद्दक्षिणाभेदश्च। गोषव उक्य्यसंस्थः गवायुतदक्षिणः तत्र वैश्यस्यान्येषा वा अधिकार इति मतद्वयम्। तद्विधानादि। मरुत्स्तोमनामा ५९ यज्ञः तत्र भातॄणां सखीनां वा गणभूतानामधिकारः। वैश्यस्तोमोक्तदक्षिणा। ऐन्द्राग्नकुलायोनाम ६० क्रतुः प्रजाकामपशुकामयोस्तत्राधिकारः। गोकुलदक्षिणा। तत्र च द्वयोर्भ्रात्रोः सख्योर्वाऽधिकारः न गणानाम्। राजकर्त्तव्यः उक्थ्यसंस्थ इन्द्रस्तोमो ६१ विहितः। पुरोधाकामस्य इन्द्र्याग्नोस्तोमः ६२ क्रतुः विहितः। सायुज्यकामयोः राजपुरोहित योरप्यत्राधिकारः। तयोः पृथक् वा सह वाधिकार इति विकल्पः। पशुकामस्य अग्निष्टोमसंस्थौ विघनौ ६३, ६४ नाम यज्ञौ विहितौ। अभिचारकामस्य पशुकामस्य वा तयोरधिकारः तत्र पशुकामस्य सम्पन्ना वृहती, अभिचारकामस्य त्रिंशद्गावोदक्षिणेति भेदः। अभिचारकामस्य संदशबज्रौ ६५, ६६ द्वौ यज्ञौ विहितौ, तौ च द्वन्द्वसोमौ कर्त्तव्यौ, तत्र वज्रः षोडशिसंस्थः कर्त्तव्यः तत्र विशेषोक्तिः। स दशेन राजानमेवाभिचरेत् न जनपदम्। वज्रेण जनपदमेवाभिचरेत् न राजानम्। वैपरीत्येन वेति मतान्तरम्। अभिचारेण राजाद्युपशमं कृत्वा मारयित्वा वा आत्मशुद्ध्यर्थं ज्योतिष्टोमेन यजेतेति। इति सामवेद विहिता एकाहाः दर्शिताः। २३ अ० ५ क०। तत्र १ क०। अहीनसंज्ञकयागानां द्वादश उपसदः, माससमाप्यत्वञ्च। सुत्योपसद्विशेषोपदेशः दीक्षाभेदश्च च विहितः। तथा च सौत्यानि उपसदाञ्च दिनानि परिगणय्य दीक्षा। द्विरात्रावधिद्वादशाहपर्य्यन्तसाध्या यागाः अहीना इत्युच्यते। तत्र पाठात् अतिरात्रस्याप्यहीनसंज्ञत्वम् इत्येकीयमतम्। द्व्यहादिषु दशरात्रादिकादिप्रवृत्तिर्गौण्या इत्युक्तिः। द्वादशाहकर्त्तव्यदशरात्रस्य द्व्यहादिषु कर्त्तव्यतोक्तिः। द्विरात्रादिषु सहस्रदक्षिणा चतूरात्रादिष्वधिका दक्षिणा। तत्र दक्षिणादाने प्रत्यहं समभागेन देयतोक्तिः। अन्त्येऽवशिष्टदानम्। १३ त्रयोदश अतिरात्राः विहिताः। यथा तत्र षोडशिग्रहरहिताश्चत्वारः प्रथमा अतिरात्राः। तत्र प्रजातिकामस्य नवसप्तदशसंज्ञः १ ज्येष्ठभ्रातृमत्याः स्त्रियाः ज्येष्ठपुत्रस्य कर्त्तव्यः विषुवन्नामातिरात्रः २। भ्रातृव्यवतः गौर्नामातिरात्रः ३। स्वर्गकामस्यारोग्यकामस्य वा आयुर्नामातिरात्रः ४। इति प्रथमाः चत्वारः। ऋद्धिकामस्य ज्योतिष्टोमनामा ५। पशुकामस्य विश्वजिन्नामा ६। ब्रह्मवर्चसकामस्य त्रिवृन्नामा ७। वीर्य्यकामस्य पञ्चदशनामा ८। अन्नाद्यकामस्य सप्तदशनामा ९। प्रतिष्ठाकामस्य एकविंशनामा १० इति षट् अतिरात्रा विहिताः। प्राप्तस्यप्राप्तस्यपशोर्भ्रंशे तल्लाभकामस्य आप्तोर्यामोऽतिरात्रः ११। भ्रातृव्यवतोऽभिजिन्नामातिरात्रः १२। भूतिमिच्छोः सर्वस्तोऽमोतिरात्रः १३। इति त्रयोदश अतिरात्राः। २ क०। द्विसुत्यास्त्रयः अहीनाः। तत्र द्वितीयतृतीययोः षोडशिग्रहरहितौ द्वौ अतिरात्रौ। आङ्गिरसचैत्ररथकापिवना इति तेषां संज्ञाः। द्वितीयं द्विरात्रमुक्थ्य पूर्वकमेके इच्छन्ति। पार्ष्ठिकस्याग्निष्टोमस्य स्याने उक्थ्यं कुर्व्वन्ति। संस्थान्यत्वमात्रं धर्म्मास्तु तदीयाएव। पुण्यार्होऽपि यः पुण्यहीन इव स्यात् तस्य आङ्गिरसद्विरात्रेऽधिकारः। १। प्रजाकामस्य चैत्ररथे २। स्वर्ग कामस्य पशुकामस्य वा कापिबनेऽधिकारः ३। त्रिसुत्या अहीनाः गर्गवैदच्छन्दोमान्तर्वसुपराकाख्याः पञ्च क्रतवः। तत्र वैदे त्रिरात्रे १ त्रिवृत्स्तोमयुक्ताः सर्व्वे अतिरात्राः तत्संस्थान्यत्वमात्रम्। तत्र राज्यकामस्याधिकारः। पशुकामस्य अन्तर्वसौ २। स्वर्गकामस्य पराके ३ इति भेदः। अत्रिचतुर्वींरजामदग्न्यवशिष्ठसंसर्पविश्वामित्राख्याश्चत्वारः चतुरहसाध्याःक्रतवो विहिताः। तत्र जामदग्न्ये, चतुरहे पुष्टिकामोऽधिकारी। तत्र विंशतिर्दीक्षाः। सर्वेषु उपसदः पुरोडाशवत्यः स्युः। ३ क० तेषां विधानादि। ४ क०। पञ्चाहसाध्याः त्रयः अहीनाः। तत्र प्रथमः देवपञ्चाहसंज्ञकः पञ्चशारदीयः द्वितीयः तद्विधानादि व्रतवत् संज्ञकस्तृतीयः पञ्चाहः। तत्र ज्योतिर्गौर्महाव्रतं गौरायुः इत्येतन्नामका पञ्च एकाहाः। सर्वजितैवात्र दीक्षा भवति। तद्विधानदि। ५ क०। षडहा अहीनास्त्रयः। ऋतुषडहः १ पृष्ठ्यावलम्बाख्यः २ त्रिकद्रुकः ३ इति तेषां नाम। तेषु स्तोमविधानादि। सप्त सप्ताहा अहीना विहिताः। तत्र चतुर्ण्णां महाव्रतमुत्तमं भवति। चतुर्ण्णां मध्येतृतीयः पशुकामस्य भवति। इन्द्रसप्ताहसंज्ञः पञ्चमः। तत्र पञ्चमे सप्ताहे द्वितीयादेकाहादारभ्य षडेकाहाः सुत्याहानि भवन्ति। तत्र ज्योतिर्गौः आयुः अभिजिद्विश्वजित् सर्व्वजित् इत्येते षट् प्रत्येकं समहाव्रताः कार्याः। एवञ्च महाव्रतं सर्वाहेषु भवति। सर्वस्तोमौत्तमः शेषाहे ज्योतिर्गौरायुरभिजित् विश्वजित् सर्व्वजित् महाव्रतं सर्व्वस्मोमोऽतिरात्रः। जनकसप्तरात्रः षष्ठः सप्ताहः। तद्वि धानादि। उत्तमे सप्तमे सप्ताहे वृहद्रथन्तरसामयुक्तवृष्ट्यः ते च पृष्ट्यस्तीमाख्याः इत्येवं सप्त सप्ताहा अहीना उक्ताः। तत्र विधानादि। अष्टसुत्ये अहीने पार्ष्ठिकात् षडहादवसितात् महाव्रतम् भवति। नवरात्रे त्रिकद्रुका ज्योतिः गौः आयुः इत्येतन्नामकाः। नवरात्रे षडहादूर्द्ध्वं ज्योतिः गौः आयुरित्येते रकाहा भवन्ति। तस्यैव प्रकारान्तरम्। तद्विधानादि। दशरात्राश्चत्वारः। त्रिककुप् प्रथमः प्रतिष्ठाकामस्य। तद्विघानादि। कोसुरुविन्दो नाम द्वितीयः अभिचर्य्यमाणस्य। पूर्दशरात्रनामा तृतोयो दशरात्रः। तद्विधानादि। पशुकामस्य छन्दोमनामा चतुर्थो दशरात्रः। पोण्डरीकनामा एकादशरात्रः तद्विधानादि। २४ अ० ७ कण्डिकाः। तत्र १ क०। द्वादशरात्रादीनि एकैकाहर्वृद्ध्या चत्वारिंशद्रात्रान्तानि सत्राणि उक्तानि। तत्र च येन क्रमेण यान्यहानि उपदिष्टानि तानि तथैवावगम्यानि। तत्र आवापिकानामन्यः क्रमः औपदेशिकानान्तु उपदेशक्रमएव ग्राह्यः। तत्रोपदिष्टाहर्व्यतिरिक्तानामह्ना मावापक्रमोक्तिः। यथा अपूर्य्यमाणे सत्रे दशरात्रावापोभवतिं स च भवन् पर एव भवति न पूर्ब्बः। षट् पार्ष्ठिकानि अहानि, चत्वारि छन्दोमानि अहानीति दशरात्रः। पृष्ट्यः षडहः त्रयश्छन्दोमा अविवाक्योदशम इत्ययं वा दशरात्रो भवति। अयञ्च सर्व्वेषामह्नामन्ते परोमवति। प्रकृतिविहितेषु महाव्रतं दशरात्रादुत्तरमेकाहार्थे भवति। एकाहं विना सत्रसंख्यापूरणे दशरात्रात् परं महाव्रतं भवतीत्यर्थः। महाव्रतादम्यत्र आवापानन्तरं दशरात्रात् पूर्व्वं भवति। यत्र षड्भिरहोभिर्विना न पूर्यते सत्रसंख्या तत्राभिप्लवः षडहाथे पूरणोभवति। अभिप्लवस्यादितः पञ्चाहानि। पञ्चाहार्थे (पञ्चाहन विना (संख्याऽपूरणे)। त्र्यहार्थे (त्र्यहेम विना सत्रसंख्याऽपूरणे) ज्योतिर्गौरायुः। ज्योतिरादीनां त्रिकद्रुका इति संज्ञा। चतुरहार्थे (चतूरहं विना सत्रसंख्याऽपूरणे)। ज्योतिरादित्रिकम् महाव्रतञ्च। एतच्चतुष्कं पूरणं भवति। द्व्यहार्थे (द्व्यहं विना सत्रसंख्याऽपूरणे) गौरायुश्च पूरण भवति। सत्रस्याद्यन्तयोरतिरात्रः कार्य्यः प्रायणीयोदयनीययोरन्तराले। आवापस्थानम्। यश्चा- वापः क्रियते तस्य तयोरतिरात्रयोर्मध्ये करणं विहितम्। आवापानां समवायेन यत्र सत्रं पूर्य्यते तत्र यद्यदल्पं तत्तत्पूर्ब्बं भवति। यथा एकोऽभिप्लवः षडहः अपरस्तस्यैव पञ्चाहः चतुरहस्त्र्यहोह्यहो वा तत्र पञ्चाहादेः पूर्व्वमावापः। इति सत्रावापोपयोगिनी परिभाषा। द्वेत्रयोदशरात्रसत्रे। तत्र पृष्ठ्यादवसितात् सर्व्वस्तोमसंज्ञोऽतिरात्रो भवति। अयं भावः सर्व्वेषु सत्रेषु द्वादशाहधर्माविहिता अतस्त्रयोदशरात्रे सत्रे सकलोऽपि द्वादशाहो भवति, एकमहरवशिष्यते। तत्र पृष्ठ्यात् परः सर्व्वस्तीमोऽतिरात्रः कार्यः। तथाच १ प्रथमदिने प्रायणीयातिरात्रः, ततो द्वितीयादिषु षट्सु दिनेषु सप्तमाहान्तेषु पृष्ट्यः षडहः, अष्टमे सर्वस्तोमोऽतिरात्रः, नवमादिषु चतुर्षु छन्दोमाश्चत्वारः, त्रयोदशे उदयनीयातिरात्र इत्येवं क्रमः, एवमन्यत्रापि। द्वियोये त्रयोदशरात्रे तु दशरात्रादुत्तरं महाव्रतमिति भेदः। सम्भार्यतृतीयत्रयोदशरात्रस्य गवामयनवत् सम्भरणप्रकारः। चतुर्द्दशरात्राणि त्रीणिसत्राणि। तेषां विधानादि। तत्रान्तिमे विवाहोदकतल्पसंशयितानामधिकारः। पञ्चदशरात्राणि चत्वारि। तद्विधानादि सप्तदशरात्रे अष्टादशरात्रे एकोनविंशरात्रे विंशतिरात्रे च एवमेवावपनपूर्त्तिः। २ क० षोडशरात्रादिषु चतुर्षु आवापप्रकारः। तत्र षोडशरात्रे प्रायणीयात् त्रिकद्रुकाः दशरात्रोत्तरं व्रतञ्च। सप्तदशरात्रे प्रायणीयात् पञ्चाहः। अष्टादशरात्रे प्रायणीयात् षडहः, एकोनविंशरात्रे प्रायणीयात् षडहोदशरात्रोत्तरं व्रतञ्च। इत्येवमावापोक्त्या विधानप्रकारः। एकविंशतिरात्रौ अषोडशिको द्वौ अतिरात्रौ। तत्रावापप्रकारः। तद्विधानाति। अन्नाद्यकामस्य द्वातिंशतिरात्रो विहितः। तद्विधानादि। प्रतिष्ठाकामस्य त्रयोविंशतिरात्रोविहितः। प्रजाकामस्य पशुकामस्य च चतुर्विंशतिरात्रोविहितः। तच्च द्विविधं तत्र प्रथमस्य विधानादि। द्वितीयस्य संसदसंज्ञा। तत्र विधानादि। अन्नाद्यकामस्य पञ्चबिंशतिरात्रं, प्रतिष्ठाकामस्य षड्विंशतिरात्रम्, ऋद्धिकामस्य सप्तविंशति रात्रम्, प्रजाकामस्य पशुकामस्य वा अष्टाविंशतिरात्रस्, द्वात्रिंशद्रात्रञ्च विहितम्। तेषां क्रमशो विधानानि। एकोनत्रिंशद्रात्रस्य त्रिंशद्रात्रस्य एकत्रिंशद्रात्रस्य द्वात्रिशद्रात्रस्य च विधानादि। त्रयस्त्रिंशद्रात्रस्य त्रयो भेदास्तेषां विधानादि। चतुस्त्रिंशद्रात्रमारभ्य आ चत्वारिंशद्रात्रात् सप्तानि सताणि आवापक्रप्तेण पूर्य्याणि। तत्र च विशेषः अन्नाद्यकामस्य चतुस्त्रिंशद्रात्रम् प्रतिष्ठाकामस्य षट्त्रिंशद्रात्रम् समृद्धिकामस्य सप्तत्रिंशद्रात्रं प्रजाकामस्य पशुकामस्य वा अष्टात्रिंशद्रात्र चत्वारिंशद्रात्रञ्च सत्रं विहितम्। एकान्नपञ्चाशद्रात्राणि सप्त सत्राणि विहितानि। तत्र प्रथमस्य विधृतिसंज्ञा। तद्विधानादि। द्वितीयस्य यमा तिरात्रसंज्ञा तद्विधानादि। अञ्जनाभ्यञ्जनीयम् तृतीयं, विद्वत्सु मध्ये आत्मानं विख्यापयितुकामस्यात्राधिकारः। तद्विधानादि। संवत्सरमितं नाम चतुर्थं तद्विधानादि। ३ क०। प्रजातिकामस्य विहितस्य एकषष्टिरात्रस्य एतत् समानतया विधानादिप्रसङ्गादुक्तम्। सवितुः ककुभः पञ्चमः तद्विधानादि। तत्र प्रजातिकामस्याधिकारः। षष्ठसप्तमयोः सामान्यतोविधानादि। शतरात्रस्य विधानादि। तत्र विधाने विकल्पः। ४ क०। तत्र सवनसन्तन्यादिहोमविधानादि। संवत्सरप्रभृतिसत्रे गवामयनधर्मातिदेशः। आदित्यानामयनसंज्ञकसत्रस्य विधानादि। आदित्यानामयनवत् अङ्गिरसामयनं कार्य्यंतत्र विशेषः। दृतिवातवतोरयनसंज्ञसत्रस्य विधानादि। कुण्डपायिनामयनसंज्ञसत्रस्य कालविधानादि। तत्र सुत्यास्थानेषु सोमोपनहनादिविशेषः। सर्पसत्रसंज्ञस्य सत्रस्य भेदविधानादि तत्र गवामयनधर्मातिदेशः। ५ क०। तापश्चितनामसत्रस्य विधानादि। महतापश्चितनामसत्रस्य विधानादि। क्षुल्लकतापश्चितनामसत्रस्य, सहस्रसाव्याग्निसत्रस्य च विधानादि। त्रिसंवत्सरसत्रस्य विधानादि। महासत्रसंज्ञसत्रस्य विधानादि। प्रजापतिसत्रसंज्ञस्य द्वादशसंवत्सरसाध्यस्य विधानादि। षट्त्रिंशद्वत्सरसाध्यस्य शक्त्यानामयनासंज्ञसत्रस्य विधानादि। शतसंवत्मरसाध्यस्य साध्यानामयनसंज्ञसत्रस्य विधानादि। सहस्रसंवत्सरसाध्यस्य विश्वसृजामयननामसत्रस्य विधानादि। तस्य च गौण्या वृत्त्या सहस्रदिनसाध्यता तेन सहस्रसुत्यमेतत् सत्रमित्युन्नेयम्। सारस्वतसत्राणां विधानादि। यात्सत्रनाम सत्रम्। ऋषभेनाधिकं गर्भिणीनां वत्सतरीणां प्रथमगर्भाणां शतं सहस्रपूरणायारण्ये उत्सृजेत् तासां सहस्रपूरणे इदं सत्रं समाप्यते स्त्रीवत्सानां दोहनाभावे क्षिप्रं वर्द्धमानानां तासां सहस्रपूरणं सम्पद्यते इत्युक्तिः। सारस्वतस्य दीक्षाकालदेशादि यथा चेत्रशुक्लसप्तम्याम् सरस्वतीविनशने स्थाने दीक्षा। सरस्वती नाम प्रत्यक्स्रोता नदी प्रवहति। तस्याः प्राक्पश्चाद्भागौ सर्वलोक प्रत्यक्षौ मध्यमस्तु भागः भूम्यन्तर्निमग्नः प्रवहति नासौ केनचिद्दृश्यते तत्स्थानं विनशनमुच्यते तच्च प्रभासस्थानमिति माधवाचार्य्यः। तत्र दीक्षाविधानादिप्रकारः। ६ क०। तदीयाङ्गविधानादि। सरस्वतीदृषद्वत्योः सङमे तद्विधानादि। प्लक्षस्रवणे (सरस्वत्या उत्पत्तिस्थाने) अग्नये कामाये ष्टिर्विहिता तत्र कारपचदेशभेदे यजमानावभृथस्नानम्। उदवसनीया इष्टिश्चान्ते कार्य्या। पृष्ठशमनीयरहितानि स्वारस्वतानि त्रीणि सत्राणोत्युक्तिः। पूर्व्वोक्तसहस्रापूरणे गृहपतिमरणे सर्वासां गवां हानौ वा एतत् सत्रं समाप्यते इत्युक्तिः। तत्र वक्ष्यमाणैरतिरात्रैरिष्ट्वा सत्रं समाप्यमित्युक्तिः। तत्र सहस्रपूरणे तदेव दत्त्वा सत्रसमाप्तिः। गृहपतिमरणे आयुःसंज्ञातिरात्रं कृत्वा, सर्वहानौ तु विश्वजित्सत्रं कृत्वा समापयेत् इति भेदः। उभयथाऽपि ज्योतिष्टोमं कृत्वा वेति पक्षान्तरम्। इति प्रथमसारस्वतम्। द्वितीय दृतिवातवतोरयनवत् कार्यं तद्विधानादि। तत्र तिथिक्षयवृद्ध्योरप्यविशेष विधानम्। शुक्लकृष्णयोर्विशेषविधानादि। तृतीये सारस्वते विश्वजिदभिजितोर्विधानादि। ऋत्विजाऽऽचार्य्येण वा तत्र दार्षद्वतं नाम सत्रं कार्य्यम्। तत्र अरण्ये उत्सृष्टागावः संवत्सरं, द्वितीयसंवत्सरं विगतोदके स्थाने रक्षणीयाः। सरस्वतीतीरे नेतन्धवानाम पुराणा ग्रामाः सन्ति, तत्राग्न्याधानमारम्भणीयं, कुरुक्षेत्रे परीणत्स्थले अन्वारम्भणीयम्। ततस्तृतीयवत्सरे परीणन्नामस्थले दर्शपौर्णमासान्तं कुर्य्यात्। अवशिष्टविधानादि। दृषद्वतीतीरेणागत्य यमुनाया मवभृथस्नानम् तत्र स्थाने मन्त्रपाठे विशेषः। ७ क०। चैत्रस्य वैशाखस्य वा शुक्लपञ्चम्यां तुरायणनाम सारस्वतं सत्रं कार्य्यम्। तस्य दीक्षाविधानादि। तच्चैकवर्षसाध्यं तत्र वर्षपर्यन्तकर्त्तव्योपदेशः। दार्षद्वतवदनियतोकेऽवभृथस्नानम्। भरतद्वादशाहादिः द्वादशाहभेदः तद्विधानादि। उत्सर्पिषु गवामयनविकल्पाभिधानम्। २५ अ० १४ क०। तत्र अङ्गवैगुण्यदोषोपशमार्थं प्रायश्चित्तविधानम्। तत्र प्रायश्चित्तशब्दार्थस्तु प्रपूर्व्वकायतेर्भावे घञ् प्रायोविनाशः स च विध्यतिक्रमदोषः तस्य चित्तं सन्धानं चितधातोर्भावे क्तः चित्तं धातूनामनेकार्थत्वात् सन्धानमित्युच्यते। प्रायस्य विध्यतिक्रमदोषस्य चित्तं सन्धानम् “प्रायस्य चितिचित्तयोः” इति “पारस्करप्रभृतीनीति” पा० वा० सुट्। तच्च विनाशकालएव कार्य्यमिति पूर्ब्बपक्षे “आगन्तुकानामन्ते निवेशः” इति न्यायेन सर्व्वकार्य्यान्ते कार्य्यमिति सिद्धान्तो गौणः। निमित्तकाले एव कर्त्तव्यतेतिमुख्यसिद्धान्तः तत्कालाकरणेऽन्ते करणमितितस्य गौणकालताव्यपस्थापनम्। अनादेशे सर्व्वत्र प्रायश्चित्तं महाव्याहृतिहोमः। आदेश विशेषे तु यथादिष्टं करणीयम्। यथा “प्रणीताः स्कन्ना अभिमृशेदिति” यजु० ५, २८, प्रणीताभिमर्शनमेव प्रायश्चित्तम्। महाव्याहृतिहोमेऽयं विशेषः। हौत्रिके (ऋग्वेदोदिते) कर्म्मणि उपघाते गार्हपत्येऽग्नौ भूःस्वा हेति प्रा० होमः अयमग्निदैवतः। स च अनादिष्टकर्त्तृकत्वात् ब्रह्मणा कार्य्यः। ब्रह्मवरणात् प्राक्निमित्ते जाते ब्रह्मवरणात् प्राक् व्याहृतिहोमाय ब्रह्मान्तरं वृत्वा तेन कारयितव्यम्। अब्रह्मवरणकेऽग्निहोत्रादौ तु स्वयं कार्य्यः। सोमे तु कालाहुतिमिरस्य समुच्चयः। यजुर्व्वेदोक्तकर्म्मोपवाते दक्षिणाग्नौ भुवःस्वाहेति प्रा० होमः कार्य्यः स च प्राग्वत् ब्रह्मणैव कार्य्यः। सोमे तु तत्रापि आग्नीध्रीये भुवः स्वाहेति होम इति भेदः। तस्य वायुर्देवता। सामवेदविहितकर्मोपघाते आहवनीयेऽग्नौ स्वःस्वाहेति प्रा० होमः स च सूर्य्यदैवतः। चतुर्गृहीतानि सर्व्वत्र। सर्ववेदोक्तकर्म्मोपघाते व्यस्तैस्त्रिभिः समस्तेन भूर्भुवः स्वःस्वाहेत्येकेनेति चतुर्वारहोमः कार्य्यः। अयाश्चाग्ने इत्याद्याभिः पञ्चभिः प्रत्यृचमाहवनीये पञ्चाहुतिरूपः सर्व्वप्रायश्चित्तसंज्ञकोहोमः। अविज्ञाते स्मार्त्तादौ कर्म्मणि व्यस्तसमस्तमहाव्याहृतिहोमाश्चत्वारः कार्य्याः। तथा हि यत्र ऋग्वेदोक्तत्वादिना विशेषग्रहोनास्ति अथ च स्मृतिरुपलभ्यते। यथा यज्ञोपवीतिना वद्धशिखेन दक्षिणपाणिना पवित्रपाणिना कर्म कर्त्तव्यमित्यादि स्मृतिविहितं यज्ञोपवीतधारणादि। तस्य कथञ्चिदुपघाते व्यस्तसमस्तमहाव्याहृतिहोमचतुष्टयं प्रायश्चित्तं कार्य्यम्। तदन्ते च याजुषेः प्रागुक्तं सर्वप्रायश्चित्तसंज्ञकं पञ्चर्चाहुतिरूपं सर्व्वत्र ज्ञातेऽविज्ञाते निमित्ते वा करणीयम्। अत्रायं सम्प्रदायभेदः। भूरिति गार्हपत्ये, भुव इति दक्षिणाग्नौ, स्वरिति आहवानीये भूर्भुवः स्वरिति, सर्व्वप्रायश्चित्तसंज्ञकनञ्चार्चाहुतिहोमश्च आहवनीये इति याज्ञिक वासुदेव भट्टाः। भूरित्याद्याहुतिनवकमाहवनीय एवेति सम्प्रदायकारिकाकारौ। महापितृयज्ञे, दक्षिणाग्नौ अवभृथेऽप्स्वेव, शतरुद्रिये परिश्रित्सु। त्र्यम्बकासु च चतु षशथाग्नौ” इति कर्कः। अथ कर्मविशेषेषु प्रायश्चित्तभेदाः ७ क० ८ सू० पर्य्यन्तेषु उक्ताः। ७ क० ९ सूत्रादौ कर्मसमाप्तितः पूर्ब्बं यजमाने मृते तदैव कर्मसमाप्तिर्भव- त्येकः पक्षः ऋत्विगादिभिः शेषं समाप्यमित्यपरः पक्षः। तत्र कर्मसमाप्तावपि उत्तरक्रियाविशेषोविहितः। ८ क० उपकृतपशुपलायनादौ प्रायश्चित्तभेदः। ततोऽन्त्येष्टिपद्धतिः। ९ क०। अस्थिचयनप्रकारादि। १० क०। सत्रविशेषकरणार्थं कृते उद्यमे दैवात्तदकरणे विश्वजिन्नामकेनातिरात्रेण यजेत्। सत्राद्यर्थं कृतदीक्षाणां यदि देवान्मानुषाद्वा निमित्तात् सामिकृते दीक्षामात्र कृते वा सत्रे स्वामिनः सत्रं न समापयामीति बुद्धिर्जायते तदा सोमेनोपलक्षितं साधारणं धान्यघृतादिकं पुत्रादिभ्यः पृथगात्मीयं कृत्वा सर्व्वस्वदक्षिणेन विश्वजिताऽतिरात्रेण यजेत्। स च सोमे क्रीतएव भवति नाकृते इति ताण्ड्ये स्थितम्। क्रीतेऽक्रीते वा सोमे विश्वजिद्भवतीति स्वमतम्। अध्वर्य्युप्रभृतीनां दैवात् स्वस्वकार्य्याकरणे अदक्षिणं कर्म समाप्य पृनरन्यवरणपूर्व्वकं यागारम्भः। तत्र दिनभेदे विशेषः। दीक्षितस्य पत्नी चेत् रजस्वला तदा दीक्षारूपाणि शङ्क्वादीनि निधाय सिकतासु आ रक्तस्रवणात् आसीत। सुत्यासु वर्त्तमानासु सिकतासूपविशेत्। प्रातःसायञ्च वेदिसमीपे सिकतास्वेव तिष्ठेत्। चतुर्थेऽहनि गोमूत्रमिश्रोदकेन स्मार्त्तं स्नानं विधाय वासो धृत्वा सान्निपातिकं कुर्यात् नारादुपकारकम्। आरादुपकारकं च दीक्षणीयभूम्युल्लेखनादि। प्रसूतायास्तु दशरात्रादूर्द्ध्वं स्नानादि। गर्मिणीं न दीक्षयेदिति तद्दीक्षानिषेधः इति मतान्तरम्। “अयज्ञियाः गर्भा” इति श्रुतेः अनुबन्ध्याप्रकरणीयत्वात् निषेधस्य तद्विषयत्वेन गर्मवत्या अपि दीक्षाधिकारः इति स्वमतमुक्तम्। दीक्षितस्य दुःस्वप्नादिदर्शनादिप्रायश्चित्तविशेषः। चमसस्य पीतापीतत्वविषये प्रायश्चित्तम्। सोमस्योपरि मेघवर्षणे भक्षाभक्षनिर्ण्णयपूर्ब्बकं तत्र प्रायश्चित्तम्। चमसदोषे द्रोणकलसशोषे च प्रायश्चित्तम्। अभ्रिभेदने होमभेदः प्रायश्चित्तम्। सोमापहरणे, अव्यक्तरागपुष्पाणि तृणानि सोमकार्ये निधाय अभिषवं कुर्य्यात्। बहुकालीनखादिरवृक्षस्य वल्लीरूपा अङ्कुरा जायमाना श्येनहृतमित्युच्यते तत्, श्यामकान्, सोमसदृशान् लताविशेषान् पूतीकान्, अरुणदूर्व्वा अव्यक्तरागा दूर्व्वा हरितकुशान् अशुष्कान् दर्भान् वा पूर्वपूर्व्वाभावे उत्तरोत्तरान् प्रतिनिघायाभिषुणुयात्। तत्र गोदानं प्रायश्चित्तं कृत्वा उक्तद्रव्येण यागसमापनम्। तत्र च अवभृयान्ते पुनः यज्ञः करणीयः, सोमकलसभेदे ब्रह्मसाम पाठः प्रायश्चित्तम् इति विकल्पः। अभिषवणचर्मणि प्रसृत्यादिमात्रसोमरसलाभे जलादिना तस्य वर्द्धनेन कलसमापूर्य्य द्रोणकलसपूरणं सम्पाद्यम्। सोमेऽनुलभ्यमाने यत्किञ्चिदविगतमानीय पुनः यज्ञः। तत्र गोदानं प्रायश्चित्तम्। १२ क०। सोमातिरेके आद्यादिसवनभेदे प्रायश्चित्तभेदः। दीक्षितस्य रोगे द्रोणकलसे उप्तानां शुण्ठीपिष्पल्यादीनां मध्ये येने च्छेत् तेन भिषक् विचिकित्सेत् नान्येन। तस्य विधानादि। ज्वरितस्यापि रोगशान्तिं यावत् प्राग्विहितदेश एव वासोनान्यत्र। प्रातःसवने च तस्य मन्त्रविशेषेणाभिषेकप्रकारः। एवं दीक्षितं सर्वे ऋत्विजः सवनान्तेषु स्पृशेयुः। तत्र यजमानस्य मन्त्रभेदेन स्पर्शः। तत्र मरणे तस्य दाहविशेषं कृत्वा दीक्षितस्यास्थीनि कृष्णाजिने बद्ध्वा मृतस्यैव पत्न्यपि स्वकर्म पतिकर्म च कुर्य्यात्। पत्नीमरणेऽप्येवम् इति पक्षान्तरम्। तस्य भ्रात्रादिकं नेदिष्ठिनं दीक्षयित्वा सत्रस्य समापनम् इति मतान्तरम्। खमते मरणे एव कर्मसमाप्तिः। उभयपक्षेऽपि। तत्र प्रायश्चित्तविधानादि। १४ क०। उखाभरणदिने यजमानमरणे विशेषविधानप्रायश्चित्तानि। सत्रदीक्षामध्ये मरणेऽपि उक्तसोमादिकर्मान्तकरणाय दीक्षितस्य तत्कमेफलं भवति दीक्षितस्य भ्रात्रादेरेव प्रकृतक्रतुफलप्राप्तिरिति मतान्तरम्। त्साग्निना नेदिष्ठिना पुत्रादिना स्वकीयेष्वग्निषु स्वकीयेन द्रव्येणानुष्ठितस्य साग्निचित्यादिकक्रतोः नेदिष्ठिनएव फलं प्रकृतक्रतुफलं तु मृतयजमानस्येति स्वमतम्। तत्र उपदीक्षी स्वेष्वग्निषु नस्वनिकृन्तनावधि द्वादशान्तं सान्निप्रातिकं कुर्य्यात्। यद्यनाहिताग्निर्नेदिष्ठी तदा सत्रिणामेवाग्निषु करणं तत्र च वैश्वानरनिर्वापः प्रायश्चित्तम्। एकराजकयोरपर्व्वतान्तरेऽबद्यन्तरे समानदेशे यजमानयोः यज्ञकरणे सोमसंसवो भवति। तथाच द्वौ यजमानौ चेत् मिथो वैरिणौ समकाले एकस्मिन् देशे, गिरिनद्यादिव्यवधानं विना यागार्थं सोममेककालं सुनुतः तदा समेत्य सवनात् संसव इत्युच्यते। तत्र सर्व्वं कर्म सत्वरं कार्यम्। परयज्ञापेक्षया स्वयज्ञे संस्थाधिक्यमिच्छन् सत्वरं सर्वं कार्य्यं कुर्य्यात्। तद्विधानादि। भिन्नदेशकालादौ पर्व्वताद्यन्तरे प्रीतौ च न संसव। ति भेदः। संसवविषयएव होत्रादिभिस्वसदृशमरणकामैः कर्त्तव्यकर्मविशेषविधानम्। यया होत्रा होतुः अध्वर्युणाऽध्वर्योः यजमानेन यजमानस्येत्यादिरूपेण मरण- मिच्छता तत्कर्म कार्यम्। अयञ्च यज्ञः एकदिनरथगम्यदेशे परस्परद्वेषे भवति अन्यतरस्य द्बेषाभावे उक्तदेशतोदूरत्वेच न सम्भवति। उक्तानामेकतरेण तथानुष्ठिते एकतरस्य मरणे। स्वस्वयज्ञान्तर्गता अध्वर्य्वादयः तदीयकर्म्मशेषं स्मरणपूर्ब्बकं कुर्युः न वरणान्तरमपेक्ष्यते। सोमादिदाहे प्रतिनिधिना कर्म समापयेयुः। पञ्चगोदानं दत्त्वा यज्ञसमापनम्। द्वादश्या रात्रेः प्राक् तथाभूते दोषे पुनर्यज्ञारम्भः उत्तरन्तु पञ्चगोदानमात्रदक्षिणा प्रायश्चित्तमिति मतान्तरम्। ब्रह्मणएव विहितकर्माधिकारात् अनादेशे सर्व्वत्र प्रायश्चित्तहोमे तस्येवाधिकारः। अब्रह्मके तु अग्निहोत्रादौ यजमानाधिकारः इत्युक्तं प्राक्। २६ अ० ६ क० कण्डिकाः प्रवर्ग्योपयोगिमहावीरसम्भरणकर्मप्रतिपादिकाः। यथा मृत्पिण्डसञ्चयं वल्मीकलोष्टं शूकरोत्खातां मृत्तिकां पूतिकालताविशेषं गवेधुकाः (जलसन्निहितमहातृणजानि शुक्लानि फलानि) इत्येतान् सम्भारान् प्राक्संस्थान् उदक्संस्थान् वा कृत्वा कृष्णाजिनम् वक्ष्यमाणलक्षणम्, अभ्रिम् (कुद्दालम्) उत्तरतोनिदध्यात्। तेषामादाननिधानादिमन्त्राः। मृच्चात्र अतिचिक्कणा भाण्डादिनिर्माणयोग्या कुम्भकारसंस्कृतैव गृह्यते। तथाभूतमृदः कृष्णाजिने उत्तरतोनिधानम्। दक्षिणतश्च कृष्णाजिने वल्मीकलोष्टस्य। कृष्णाजिनं परिगृह्य पञ्चारत्निप्रमाणं समचतुरस्रं भूभागं प्राग्द्वारं कृत्वा सप्त भूसंस्कारान् कृत्वा सिकतोपकिरणे परिवृते उक्तस्थाने कृष्णाजिनस्थान् सम्भारान् निदध्यात्। उल्लेखने जलैरभ्युक्षणे सम्भारैः संसर्गे च मन्त्राः। ततोऽध्वर्युः गवेधुका अजापयश्च पृथक् निधाय वल्मीकलोष्टादिभिः सह मृत्पिण्डं मिश्रयेत्। ततो महावीरं कार्य्यम्। तत्स्वरूपं प्रादेशमात्रमूर्द्ध्वमासेचनवन्तं (गर्त्तवन्तम्) मध्यदेशे सङ्कुचितमेखलम् (उलूखलवत् मुष्टिग्रहणयोग्यम्)। मेखलाया ऊर्द्ध्वं त्र्यङ्गुलम् (प्रादेशमात्रस्योपरिभागे त्र्यङ्गुलम्) परिशेष्य ततोऽधस्ता मेखला कार्य्या। “मखस्य शिर” इति मन्त्रेण निष्पन्नमहावोरस्पर्शनम्। अनेनैव मन्त्रेण तदादानमपीत्येके। एवमितरौ महावीरौ कुर्य्यात्। अभिमर्शनानन्तर मर्वेषां भूमौ निधानम्। स्रुड्मुखाकृती पिन्वने (दोहनपात्रे) रौहिणकपाले वक्ष्यमाणपुराडाशकपाले वर्त्तुले सर्व्वसमीपे भूमौ निधाय। उपशायाम् (तदवशिष्टां सृदम्) प्रायश्चित्तार्थं निदध्यात्। “मखाय त्वेति मन्त्रेण” गवेधुकाभिः श्लक्ष्णीकुर्य्यात्। दक्षिणाग्निनादीप्तेन अश्व पुरीषेण् “अश्वस्य त्वेति” तस्याः मृदोधूपनम्। उखावत्प्रदाहनादि। चतुरस्रमवटं खात्वा तत्र श्रपणम् (पाकसाधनमिन्धनादि) आस्तीर्य्य तत्र त्रीन् महावीरान् न्युब्जीकृतान् निधाय पिन्वने (दोहनपात्रे) रौहिणकपाले च न्युब्जे निधाय पुनः श्रपेणावच्छाद्य दक्षिणाग्निना दीपयेत्। “ऋजवे त्वेति” मन्त्रेण पक्वां मृदमुद्वरेत् दिवैव प्रदाहनोद्ध्वारौ कार्य्यौ। ततस्तानि अजापयसावसिञ्चेत्। तूष्णीं पिन्वनादीनां करणाभिमर्शनश्लक्षणधूपनप्रदहनोद्धरणावसेचनादि कुर्यात्। २ क० महावीरमुक्त्वा प्रवर्ग्यचरणप्रकारः। यथा प्रत्यहं सायंप्रातः प्रागुपसदः प्रवर्ग्यचरणं कार्यम्। अपिहितद्वारे प्रवर्ग्यचरणम्। पत्नीसन्निधावपि तया तस्य दर्शनं न कार्यम्। वैदिकशब्दानुक्तिस्तत्र कार्या। प्रकृत्यन्तराभावात् यावदुक्तं तावदेवात्र भवति नाधिकम्। अत्र घर्मसम्बन्धिपात्रमौदुम्बरम् मानसूत्रं मौञ्जं त्रिवृत्। तत्र विशेषः यजमानस्कन्धप्रमाणपादाया औदुम्बर्या आसन्द्या वाल्वजं वल्वजत्रयं बन्धनरज्जुर्भवति। गार्हपत्यं पूर्ब्बेण प्रागग्रकुशानास्तीर्य तेषु पात्रासादनं द्वन्द्वशः कार्यम्। पात्राणि तु उपसंयमनीं महावीरं, परोशासौ, पिन्वने, रौहिणकपाले, रौहिणहवन्यौ। अनुत्कीर्णे स्रुचौ, स्थूणामयूखम्, धृष्टी, शतमाने, विंशतिं मुञ्जप्रलवान्, प्रादेशमात्रान् विकङ्कतशकलान्, स्रुवं मुञ्जवेदम्, धवित्राणि, परिधीन्, रज्जुसन्दानमासन्दीम् कृष्णाजिनमभ्रिम्, खरार्थाः सिकता अर्थवच्च, पाठक्रमेणैवासादयेत्। तत्र बाहुप्रमाणा औदुम्बरी उपसंयमनी। महामुखा प्रचरणीया स्रुक्। परीशासौ संदशाकारौ, स्थूणा गोर्बन्धानार्थः स्तम्भभेदः। मयूखः अजाबन्धनार्थः शङ्कुरूपः कीलकः। धृष्टी उपवेषौ औदुम्बरौ। एकं रजतरत्तिकाशतमानं, द्वितीयं स्वर्णरत्तिकाशतमानम् इति द्वे शतमाने। औदुम्बरएवारत्निमात्रः स्रुवः। वेदोमुञ्जमयः। धुनोत्येमिरिति धवित्राणि कृष्णाजिनखण्डनिर्म्मितानि दण्डवन्ति त्रीणि व्यजनानि। सन्दानं दोहनकाले गोपादबन्धनार्था अजबग्यनार्था च रज्जुः। अर्थवत् प्रयोजनोपयोगि अन्यदपि द्वन्द्वश आसादयेत्। प्रयोजनवद्द्रव्यञ्च स्फ्यः पवित्रे, अग्निहोत्रहवनी आज्यस्थाली प्रभूतमाज्यं, शूर्पं, पात्रीपिष्टम्, उपसर्ज्जनीपात्रम्, उपशया, इतरौ महावीरौ, च। होतृषदनं मौञ्जं कार्य्यम् औदुम्बरी समिदित्यादि द्वन्द्वश आसादयेत्। प्रोक्षणीः संस्कृत्य उत्थाय ब्रह्मणोऽनुज्ञाकरणम्। होत्रादिप्रेषणञ्च “यमाय त्वेति, मन्त्रेण प्रतिमन्त्रम् उक्तद्रव्याणां प्रत्येकं प्रोक्षणं राशीकृत्य च तूष्णीं प्रोक्षणञ्च कार्यम्। शालायाः पूर्ब्बद्वारेण स्थूणां मयूख च निष्कास्य, शालाया दक्षिणस्यां होतुः सन्दर्शने निखननम्, (गार्हपत्यसमीपे उपविष्टो होता यत्र निखातां स्थूणां मयूखं च पश्यति तादृशं स्थानं होतृसन्दर्शनम्)। गार्हपत्याहवनीययोरुत्तरतः खरनिवापः। दक्षिणतश्च भित्तलग्नमुच्छिष्टखरनिवापः कार्य्यः। आहवनीयं पूर्ब्बेण सम्राडासन्दीं पर्य्याहृत्य दक्षिणतः प्राचीमासादयेत्। राजासन्द्या उत्तरतः कृष्णाजिनमथास्तृणाति तस्मिन्नभ्र्युपशये निदध्यात् महावीरौ चाच्छादयेद्वेति। स्थूणादिनिर्हरणानि अध्वर्य्युरन्यो वा कुर्य्यात्। “देवस्य त्वे” ति मन्त्रेण एतेषामञ्जनं होता कुर्यात्। महावीरमाज्यं च संस्कृत्य “पृथिव्याः संस्पृश” इति मन्त्रेण रजतशतरत्तिकामानं सिकतामध्ये प्रवेशयेत्। ३ क० शुक्रं गायेति प्रस्तोतुः प्रेषणम्। पत्नीशिर आच्छादनम्। संसीदस्वेति यदाऽऽज्यं संस्कृत्य होता वक्ति तदा मुञ्जप्रलवान् शरेषीकापरितोभवानि शरतृणानि मध्यमोटनेन द्विगुणीकृतानादीप्य प्रतिदिशं सिकतासु निदध्यात्। तेषु मुञ्जप्रलवेषु संस्कृतं प्रचरणीयं महावीरं घृत पूर्ण्णम् “अर्चिरसीति” मन्त्रेण निदध्यात्। महावीरस्योपरि प्रादेशधारकं यजमानम् “अनाधृष्टेति” मन्त्रं वाचयेत्। प्रतिदिशं वा तथा वाचनमिति विकल्पः। दक्षिणत उत्तानं पाणिं यजमानोनिदध्यात्। “मनोरश्वेति” मन्त्रेण महावीरस्योत्तरतः प्रादेशनिधानम्। महावीरं परितः भस्मक्षेपं कृत्वा गार्हपत्याङ्गारैः उपवेषाभ्यां महावीरं “मरुद्भिरिति” परिकीर्य्य (महावीरस्य सर्व्वतो निरन्तरानङ्गारान् निधाय)। अङ्गारैः विकङ्कतशकलैश्च प्रागुदग्भिः त्रयोदशभिः “स्वाहामरुद्भिरिति” मन्त्रेण परिश्रपयेत्। तेषां त्रयोदशानां मध्ये प्रतिदिशं त्रीन् त्रीन् स्थापयेत् तत्र द्वौ द्वौ समन्त्रकमेकं तूष्णीं तयोरुपरि इत्येवं प्रागादिषु चतुर्षु दिक्षु स्थापितानां द्वादशानामधिकमेकं दक्षिणतः स्थापयेत् स्थापनक्रमेणैव श्रपणञ्च। मुवर्ण्णशतरत्तिकामानेन “दिवः संस्पृश” इति मन्त्रेण महावीरं पिदध्यात्। ४ क० तत्रपिधानकाले “चन्द्रं गायेति” प्रस्तोतुः प्रेष- णम्। कृष्णाजिनखण्डनिर्म्मितेर्व्यजनैर्दण्डवद्भिस्त्रिभिः महावीरं परितः प्रकीर्ण्णानङ्गारान् दीपनाय उपवीजयेयुः। तेषु व्यजनेषु एकं प्रतिप्रस्थाता, अपर मग्नीधा, शिष्टमध्वर्युणा गृहीत्वा धूनयद्भिः सव्यापसव्यं त्रिः प्रदक्षिणं कार्यम्। तत्र सव्यावृत्तौ व्यजन धूननम् दक्षिणावृत्तौ व्यजनान्यन्तः कृत्वेति भेदः। धूननेन प्रदीप्तत्वात् जाते अर्चिषि सुवर्णशतमानं निधायाज्येन स्रुवेण महावीरं सिञ्चेत्। एतच्च सुवर्ण्णशतमानं महावीरादन्यत्र सुगुप्ते देशे स्थापयित्वा कार्यम्। अध्वर्यो र्महावीरसेके व्यापृततया प्रतिप्रस्थाता लौकिकपिष्टानां व्रीहीणां यवाना रौहिणौ पुरोडाशौ पचेत्। रौहिण पुरोडाशयोरन्यपुरोडाशधर्म्मत्वं तेन कपालयोः संस्कारादि कार्यम्। “ईडे द्यावापृथीवी” इति मन्त्रेण परिधीन् परिधाय रौहिणौ पुरोडाशौ पात्रीस्थानीययोरुपस्तीर्ण्णयोः रौहिणहवन्योः स्रुचोरुद्वास्य तत्स्थावेव आहवनीयदक्षिणोत्तरयोः एकं दक्षिणतोऽपरमुत्तरतश्च स्थापयेत्। “घर्म्मस्य तन्वौ गायेति” प्रस्तोतृप्रेषणम्। यजमानसहितानामृत्विजां परिक्रमणम्। प्रस्तोतृव्यतिरिक्ताः पञ्चर्त्विजः उपतिष्ठेयुः। छन्दोगानां मते तत्सहिताः षट् परिक्रमेयुः। “गर्भो देवानामिति” सकृत्, द्विस्तूष्णीं परिक्रमेयुः। पत्नीशिरोऽपगताच्छादनं कृत्वा महीवारमीक्षमाणां पत्नीं “त्वष्टृमन्त” इत्येतं मन्त्रं वाचयेयुः। प्रातः “अहः केतुनेति” मन्त्रेण दक्षिणं रौहिणं, सायं “रात्रिरिति” मन्त्रेण उत्तरं रौहिणं जुहुयात्। ५ क०। घर्म्मधुग्बन्धनार्था पाशवती रज्जुः तस्याएव पश्चात्पादबन्धनार्थं मन्दानं तद्द्वयमादाय “इडएहीति” मन्त्रेण उपांशु, नाम्ना च त्रिरुच्चैः गार्हपत्यं गच्छन् तामाह्वयेत्। “धेनुं गायेति” प्रस्तोतृप्रेषणम्। “अदित्यै रास्नासीति” मन्त्रेणसमागतां गां पाशेन प्रतिमुच्य (तस्याः रज्जुपाशं शृङ्गयोः प्रोतं कृत्वा स्थूणायां बद्धा) “पूषासीति” मन्त्रेण धेनुं पश्चात्पादयोः सन्दानेन (नियमनेन) बद्ध्वा “घर्म्माय दीष्वेति” वत्सं ततोऽपाकुर्य्यात्। (स्तनपानात् निवर्त्तयेत्) “अश्विभ्यां पिन्वस्वेति” मन्त्रेण पिन्वने (पात्रभेदे) दुहेत्। “स्वाहेन्द्रवदिति” मन्त्रेण पिन्वने पतिताविप्रुषोऽभिमन्त्रयेत्। “यस्ते स्तन” इति स्तनालम्भनम्। प्रतिप्रस्थाता अजामेवं मयूखे तूष्णीं बद्ध्वा दुहेत्। “पयोगायेति प्रतिप्रस्थातृप्रेषणम्। “उत्तिष्ठ ब्रह्मणस्पते” इति मन्त्रे होत्रोच्यमाने अध्वर्युः गोः समीपादुत्तिष्ठेत्। “उपद्रव पयसेति” मन्त्रे हीत्रीच्चार्यमाणे गार्हपत्यं प्रति अध्वर्युगतिः। “गायत्रं छन्दोऽसीति” प्रतिमन्त्रं परीशासावादद्यात्। “वसिष्ठशफौ गायेति” प्रस्तोतृप्रेषणम्। “द्यावापृथिवीभ्यां त्वा परिगृह्णामीति” मन्त्रेण परीशासाभ्यां महावीरग्रहणम् परीशासाभ्यां महावीरमुत्क्षिप्य मुञ्जवेदेनोपमृज्य उपयमन्या अन्तरिक्षेणोपयच्छामीति गृह्णीयात्। उपयमनीं च दुग्धरूपधर्म्मस्य अधस्तात् स्थापयेत्। उपयमन्या गृहीतं महावीरमजपयसासेकेन शान्ते महावीरे “प्रैतु ब्रह्मणस्पते इति” वाक्ये होत्रोच्यमाने “इन्द्राश्विनेति” गोः पयोऽपनयेत्।

६ क० आहवनीयं गच्छन् “समुद्राय त्वेति” मन्त्रेण वातनाम जपेत्। उपयमन्यां पतितं पयोघृतं वा घर्म्मे (दुग्धे) “स्वाहा घर्म्मायेति” आसिञ्चेत्। “स्वाहा घर्म्मः पित्रे” इति जपित्वाऽतिक्रम्याश्राव्य प्रस्तोतारं घर्म्मस्य यजेतिप्रेषयेत्। वषट्कारेण “विश्वाआशा इति” मन्त्रेण होमः। “दिवि वा इति” मन्त्रेण महावीरंत्रिरुत्कम्पयेत्। “स्वाहाऽग्नये इति” मन्त्रेण वषट्कारयोजितेन होमः। हुतावशिष्टद्रव्यस्य “अश्विनी घर्ममिति” ब्रह्मानुमन्त्रणम्। “अपातामिति” मन्त्रेण घर्मस्य यजमानानुमन्त्रणम्। अतितप्तत्वात् पात्रमध्ये सर्वतः इतस्तत उच्छलन्तो ये घर्मलेशास्तेषाम् “इषे पिन्वस्वेति” मन्त्रेणानुमन्त्रणम्। “घर्मादिति” मन्त्रेण ऐशान्यामध्वर्युरुद्गच्छन् “अमेन्यस्मे” इति मन्त्रेण महावीरं सिकतासु निदध्यात्। तच्च परीशासगृहीतमेव स्थापयेत्। नीचैर्घर्म्ममध्ये शकलं प्रवेश्य तत्स्थेनाज्येन विकङ्कतशकलम् अक्त्वा अक्त्वा “स्वाहा पूष्णे शवस” इति मन्त्रेण तदेव जुहुयात् हुत्वा हुत्वा च प्रथमपरिधौ विकङ्कतशकलान् निदध्यात्। एवं त्रिधा हुत्वा चतुर्थमहुतं तच्छकलमीक्षमाणो दक्षिणतो बर्हिषि उपगूहेत् (प्रवेशयेत्)। अहुतं सप्तमं च विकङ्कतशकलम् दक्षिणेक्षमाणः सर्वलेपाक्तं (महावीरस्थघृतलेपेवाक्तम्) मूलाग्रपर्यन्तं प्रतिप्रस्थात्रे दद्यात्। प्रतिस्थाता तं शकलमुदञ्चं नियच्छेत्। घर्मसम्बन्धि नवनीतादि “स्वाहा सं ज्योतिषा” इति मन्त्रेण परीशासाभ्यामुत्पाद्य उपयमन्यां स्रुच्यासिञ्चति (स्रुग्मुखस्यीपरि अधोमुखं करोतीत्यर्थः) ततोद्विनीयरौहिणहोमः। मध्यमपरिधौ निहितानि पञ्च वैकङ्कतशकलानि आहवनीये जुहुयात्। उपयमन्यां स्थितं घमाज्यमग्निहोत्रविधानेन हुत्वा “मधु हुतमिति” मन्त्रेण सर्वे ऋत्विगादयो वाजिनवत् भक्षयेयुः। उच्छिष्टखरे प्रक्षाल्य उपयमनीं निदध्यात्। अत्र काले उपश्रितानां पञ्चशकलानामाहवनीये प्रहरणम्। अध्वर्युर्होत्रा संसाद्यमानाय महवीरायानुब्रूहीति अनुवाचयेत्। ततो धेनवे तृणोदके दद्यात्। सर्वं पात्रजातमनाशाय आसन्द्यां कुर्य्यात्। “अभीममिति” मन्त्रेण महावीरमासन्द्यां स्थापयेत्। इतराणि तु पात्राणि तूष्णीमिति भेदः। ततः शान्तिपाठः द्वारोद्घाटनञ्च। खरस्थूणामयूखकृष्णाजिनाभ्र्युपशयासन्दीनां सकृदासादन प्रोक्षणे। आरादुपकारकत्वात् प्रथमे प्रवर्ग्यचरणे एव आसादनप्रोक्षणे इत्येकपक्षः। असकृत्, “प्रतिप्रधानं गुणा वृत्तिरिति” न्यायात् इति पक्षान्तरम्। ७ क०। उपसदन्ते प्रवर्ग्योत्सादनप्रकारः। यथा शालामध्यात् दक्षिणेन द्वारेण घर्मसम्बन्धि द्रव्यं निष्क्रास्य अन्तःपात्यसमोपे सादितपात्रेभ्यो दक्षिणतएव निदध्यात्। आहवनीये त्रीन् शालाकान् प्रदीप्य प्रदीप्य अग्नीध्रो धारयेत् यजमान सक्तेषु मुखमात्रनाभिमात्रजानुमात्र प्रमाणेषु तान् प्रदीप्तान् शालाकान् निदध्यात्। अध्वर्युराज्यं संस्कृत्य चतुर्गृहीतं गृहीत्वा तेषां प्रदीप्तानां शालाकानामुपरि “याते घर्म! दिव्या शुगिति” प्रतिमन्त्रं जुहुयात्। एकमेव चतुर्गृहीतं गृहीत्वा त्रिष्वपि शालाकेषु जुहुयात्। तथाच शलाकानां समूहः शालाकः तेन त्रिसृभिः शलाकाभिः एकः शालाकः। तादृशान् त्रीन् शालाकान् हस्ते गृहीत्वा तेषामेकं शालाकं शालाद्वार्य्ये प्रदीप्याग्नीध्रोयजमानमुखमात्रे आहवनीयस्योपरि धारयेत्। अध्वर्युश्चतुर्गृहीतं तृतीयांशं तस्मिश्छालाके प्रदीप्ते जुहुयात्। ततस्त्रं शालाकमाहवनीयमध्यएव क्षिपेत्। ततोद्वितीयं शालाकं प्रदीप्याग्नीध्रो यजमानस्य नाभिदघ्ने आहवनीयस्योपरि धारयेत् अध्वर्युस्तथैव जुहुयात्। तृतीयन्तु अग्नीधा प्रदीप्य यजमानजानुमात्रे धृतमध्वर्युराहवनीये निक्षिप्य तत उपविश्य सर्वं चतुर्गृहीतं शेषं जुहुयात्। अत्र उपविश्ये युक्तेः पूर्वयोः तिष्ठता होमौ कार्य्यौ। ततोऽध्वर्युः पुरस्तात् पत्नीमग्रे कृत्वा “क्षत्रस्य त्वेति” मन्त्रेण शालाया निष्क्रमेत्। अवभृथवत् अध्वर्युणा प्रस्तोतुः सामगानार्थं प्रेषणम्। अवभृथवत् देशगतिः निधनञ्च। सामगानात् परं मर्वे उत्सादनदेशं गच्छेयुः। (उत्सादनदेशश्च महावीरादि पात्रादीनां परित्यागदेशः “परिष्यन्दोवा अन्योवा देशः” इति शत० ब्रा० १४, ३, १, १४, विहितदेशः)। तत्र अग्निचित्यारहिते यज्ञे उत्तरवेदिं प्रति सर्व्वेगच्छेयुः। अग्निचित्यायुक्ते यज्ञे तु परिष्यन्दं (जलपरिवृतं द्वीपम्) (निर्जनस्थलं वा) प्रत्येव गमनम्। तमुत्सादनदेशम् उत्तरवेदिं वा “अचिक्रददिति” त्रिः परिषिच्य उत्तरकार्य्यं कार्य्यम्। अध्वर्युरुत्तरवेदौ उत्सादनपक्षे प्रथमं महावीरं नाभिस्पृष्टं “चतुःस्रक्तिरिति” निदध्यात्। इतरौ महावीरौ प्राक्संस्थौ प्राच्यां मन्त्रावृत्त्या निदध्यात्। उपशयाम् (महावीरघटनावसरे पुरिशेषितां मृदम्) तथैव तूष्णीं निदध्यात्। महावीरादिकमभितः परीशासौ निदध्यात्। अवकृष्टे (नीचे वाह्ये) रौहिणहवन्यौ स्रुचौ निदध्यात्। रौहिणहवन्योरुत्तरतः अभ्रिनिधानम्। तयोरेव दक्षिणतः आसन्दीम्, अभ्रेरुत्तरतः सर्व्वधवित्राणि च निदध्यात्। तथाच दक्षिणतः, पश्चात्, उत्तरतश्चैकैकं धवित्रं निदध्यात्। परिधीनपि निहितद्रव्याण्यभितो निदध्यात्। निहितप्रात्रगणस्य पश्चात् उपयमनीं स्रुचं प्रागग्रां निघाय रज्जुसंदानं वेदञ्च तन्मध्ये निदध्यात्। पिन्वने (दोहनपात्रे) उपयमनीमुखस्य पश्चात् अभितोदण्डं निदध्यात्। पिन्वनयोः पश्चात् दक्षिणतः स्थूणाम्, उत्तरतो मयूखं, निदध्यात् स्थूणामयूखयोः पश्चात् रौहिणकपाले निदध्यात्। तयोरेव पश्चात् धृष्टी (उपवेषौ) निदध्यात्। घर्मोपयुक्तं स्रुवमौञ्जकूर्चादि आसादितपात्राणां मध्ये निदध्यात्। सर्वपात्राणामुत्तरतः प्रचरणीयौ खरौ निदध्यात्। मार्जालीयस्थानस्य दक्षिणतो वेदेर्बहिर्भागे उच्छिष्टखरं निदध्यात्। सगर्त्तानि सप्त पात्राणि (महावीरत्रयं द्वे पिन्वने उपयमनीं स्रुवञ्च) एतानि “घर्मैतत्ते” इति प्रतिमन्त्रं पयसा पूरयेत्। व्रतमिश्रं पयःशेषं पूर्ब्बमदत्तं चेत् साग्निके सोमे प्रागेव सकलं देयमिति विधानात्। वर्षाहारेष्टाहोत्रीय मामगानार्थं प्रस्तोतुरध्वर्युणा प्रेषणम्। सपत्नीकाः सर्वे “सुमित्रिया न इति” मन्त्रेण चात्वालं मार्जयेयुः। ऐशानीं प्रति “उद्वयमिति” मन्त्रेण यजमान उद्गच्छेत्। प्रादेशमात्रामेकां समिधं हस्तेन “अनपेक्षमेत्येधोऽसीति” मन्त्रेणादाय “समिदसीति” मन्त्रेण आहवनीये दद्यात्। गार्हपत्ये तु तादृशीं समिधं तूष्णीं दद्यात्। यजमानः रजतसुवर्णशतमाने ब्रह्मणे दद्यात्। यजमानव्रतदुघां रूपां घर्मदुघां यजमानः अध्वर्य्यवे दद्यात्। पत्नीव्रतदुघां गामुद्गात्रे दद्यात्। अजामग्नीधे दद्यात्। घर्मस्य महा वीरस्य भेदने यथाकालं प्रायश्चित्तं कुर्यात्। तत्प्रायश्चित्त प्रकारादि। अभग्नेन द्वितीयतृतीययोर्मध्ये द्वयेनान्यतरेण वा प्रवर्ग्यं चरेत्। तत्र पूर्णाहुतिहोमप्रकारः। संभ्रियमाणो महावीरो यदि भिद्यते तदा प्रायश्चित्तहोमे प्रजापतिर्देवता। निष्ठिताभिमर्शनादारभ्य अजापयोऽवसेचनान्तकाले महावीरभेदने प्रायचित्तमेदः। तत्र प्रथमदिने भेदने प्रा० सविता देवता। द्वितीयेऽहनि भेदे अग्निर्देवता तृतीयदिने भेदने वायुर्देवता। अथ प्रवर्ग्याधिकारिणः। अग्निष्टोमस्याठ्यसंस्थातिरात्रस्य प्रथमे प्रयोगे न प्रवर्ग्यचरणम् इत्येकः पक्षः। विकल्पेन तत्रापि प्रवर्ग्यचरणमिति शाखान्तरम्। सप्रवर्ग्ये यज्ञे दधिघर्मसम्बन्धिनीतिकर्त्तव्यता। सपवित्रायामग्निहोत्रहवन्यां दधिघर्मग्रहणं कुर्य्यात्। तच्च यथाकथञ्चित् स्थालीमुखेनैव स्रुचि निनयेत्। प्रस्तरणाभि घारणे अप्यत्र न। हुतशेषस्य “मयि त्यदिति” मन्त्रेण भक्षणम्। तच्च महाव्रतीयेऽह्नि कर्त्तव्यम्। दधिभक्षानन्तरं चात्वाले मार्ज्जनम्। प्रवर्ग्यचरणस्यादौ अन्ते च शान्तिकाध्यायपाठः। (शान्तिकाध्यायश्च ऋचं वाचमित्याद्यध्यायः)। शान्तिकरणद्वयमध्ये द्वारपिधानोत्तरकाले आदिमम्। पात्राणामासन्द्यां निधानानन्तरमन्तिमम् इति भेदः। कातीयगृह्यसूत्रप्रतिपाद्यविषयाश्च विस्तरभयान्नात्रोक्तास्तत एवासेयाः। कात्यायनसर्व्वानुक्रमणिकाप्रतिपाद्यविषयाश्च सर्व्वानुक्रमणिकाशब्दे वक्ष्यन्ते।

कात्यायनी = स्त्री कतस्य गीत्रापत्यं स्त्री गर्गा० यञ् लोहितकतन्ता० ष्फः षित्त्वात् ङीष्। १ कतगोत्रापत्यस्त्रियाम्। पत्न्यां ङीष्। २ कात्यायनर्षेः पत्न्याम् ३ तत्तुल्य कषायादिवस्त्रधारिण्यामर्द्धवृद्धायां विधवायां स्त्रियां ४ कल्पभेदे कतगोत्रोत्पन्नायां दुर्गायां ५ याज्ञवल्क्यर्षिपत्नीभेदे च। “याज्ञवल्क्यस्य द्वे भार्य्ये बभूवतुः मैत्रेयो कात्यायनी च तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव स्त्रीप्रज्ञैव तर्हि कात्यायनी” वृ० उ०।

कात्यायनीतन्त्र = न० ६ त०। कात्यायनीपूजामन्त्रादिविधायके शिवप्रणीते तन्त्रभेदे।

कात्यायनीपुत्र = पु० ६ त०। कार्त्तिकेये।

***