काच = दीप्तौ अक० बन्धने सक० इदित् भ्वा० आत्म० सेट्। काञ्चते अकाञ्चिष्ट चकाञ्चे प्रनिकाञ्चते।

काच = न० कच्यतेऽनेन कच बन्धने करणे घञ् न कुत्वम्। (मोम) सिक्थे तस्य बन्धहेतुत्वात्तथात्वम्। काचः क्षारमृत्तिकाऽस्त्यस्याकरत्वेन अच्। क्षारनृत्तिकोद्भवे ३ लवणभेदे (कालालोन)। राजनि०। ३ तत्साधने मृत्तिकाभेदे पु०। (क्षारीमाटी) अमरः। ४ शिक्ये (शिका) ५ मणिभेदे (का~च) मेदि०। “आकरे पद्मरागाणां जन्म काचमणेः कुतः” काचः काचः मणिर्मणिः” उद्भटः। काचश्च सुश्रुते अनुशस्त्रतयोक्तो यथा“अनुशस्त्राणि तु त्वक्सारस्फटिककाचकुरुविन्दजलौकाग्निक्षारनखगोजीशेफालिकाशाकपत्नकरीरबालाङ्गुलयः” इति। “शिशूनां शस्त्रभीरूणां शस्त्राभावे च योजयेत्। त्वक्सारादिचतुर्वर्गं छेद्ये भेद्ये च बुद्धिमान्” इति तदुपयोगविषयस्तत्रैवोक्तः। “पानीयं पानकं मद्यं मृण्मयेषु प्रदापयेत्। काचस्फटिकपात्रेषु शीतलेषु शुभेषु च” “काचाम्लकोथान् पटलांश्च घोरान् पुष्पञ्च हन्त्यञ्जननस्ययोगैः” सुश्रु०। ६ नेत्ररोगवेदे तल्लक्ष्मादि सुश्रुते उक्तं यथा“तिमिराख्यः स यो दोषश्चतुर्थं पटलं गतः। रुणद्धि सर्वं तो दृष्टिं लिङ्गनाश इति क्वचित्। अस्मिन्नपि तमोभूते नातिरूढे महागदे। चन्द्रादित्यौ सनक्षत्रौ अन्तरिक्षे च विद्युतः। निर्मलानि च तेजांसि भ्राजिष्णूनीवपश्यति। स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः” व्याकृतमेतत् मावप्र० यथा “यो दोषोनेत्ररोगः चतुर्थं पटलं बाह्यं पटलं गतः स तिमिराख्यः तिमिरदर्शनेन तिमिर- मस्यास्तीति तिमिरः अर्शआदित्वात् अच्। तस्य लक्षणमाह रुणद्धीत्यादि सर्वतः सर्वत्र। लिङ्गनाश इति क्वचित् तन्त्रान्तरे लिङ्गनाशसंज्ञः। तस्य निरुक्तिश्च। लिङ्ग्यते ज्ञायतेऽनेनेति लिङ्गं दृष्टितेजः तस्य नाशोऽस्मिन्निति लिङ्गनाशः। अस्मिन्नपि तिमिरेऽपि तमोभूते तमस्तुल्ये अत्र भूतशब्दस्तुल्यार्थः “भूतं प्राण्यतीते समे” इत्यमरात् नातिरूढे अप्रौढे नवे, चन्द्रादित्यौ नक्षत्राणि च पश्यति अन्तरिक्षे अन्तरिक्षस्य प्रकाशमयत्वेन तमोऽभिभवात् तेजांसि अग्न्यादेः भ्राजिष्णूनि रत्नसुवर्ण्णादीनि। अस्मिन् प्रौढे चिरजे चन्द्रादीन्यपि न पश्यतीत्याशयः। नीलिकाकाचसंज्ञितः नीकिका काचेति नामान्तराभ्यां युक्तः”। तन्निदानादि दृष्टिरोगशब्दे वक्ष्यते। स्वार्थे कन् काचकोऽप्युक्तार्थे।

काचन = न० कच–बन्धने स्वार्थे णिच्–भावे ल्युट्। १ पुस्तकादिबन्धने त्रिका० स्वार्थे कन्। काचनक तत्रार्थे हारा०। का + चन मुग्ध०। २ असाकल्यान्वितायां किम्शब्दार्थस्त्रियाम् अव्य०। “व्यूढा काचन कन्यका खलु मया तेनास्मि ताताधिकः” प्रबोधच०

काचनकिन् = पु० काचनकमस्त्यस्य इनि। लेखपत्रे जटा० तस्य काचनकरूपबन्धनवत्त्वात् तथात्वम्।

काचभाजन = न० काचमयं भाजनम्। (काचेरवासन) काचपात्रे त्रिका०।

काचमल = न० काचस्य क्षारमृत्तिकायाः मल इव। काचभवे सौवर्चले लवणभेदे राजनि०।

काचलवण = न० काचः काचहेतुकं लवणम्। (कालालोन) सौवर्चले लवणमेदे राजनि० तस्य क्षारमृत्तिकोद्भवत्वात्तथात्वम्। तद्गुणाद्युक्तं सुश्रु०। “लघु सौयर्चलं पाके वीर्य्योष्णं विशदं कटु। गुल्मशूलविबन्धघ्नं हृद्यं सुरभि रोचनम्”।

काचसम्भव = न० सम्भवत्यस्मात् सम् + भू–अपादाने अप् काचः क्षारमृत्तिका सम्भवोऽस्य। काचलवणे सौवर्चले राजनि०। काचोद्भपमप्यत्र न०।

काचसौवर्चल = न० काचस्थानिकं सौवर्चलम् शा० त०। (कालालोन) लवणभेदे। राजनि०।

काचस्थाली = स्त्री काचस्य क्षारस्य स्थालीव। (पारुलगाछ) १ फलेरुहावृक्षे अमरः। ६ त०। २ काचपात्रेच।

काचाक्ष = पुंस्त्री काच इवाक्षि अस्य षच् समा०। वकभेदे स्त्रियां जातित्वेऽपि संयोगोपधत्वात् न ङीष् किन्तु षित्त्वात् ङीष् इति भेदः। अयञ्च प्लवः सबचारी च सुश्रुतेनोक्तः यथा हंससारसेत्याद्युपक्रमे काचाक्षमल्लिकाक्षेत्यादीनुक्त्वा “प्लवाः संघचारिणश्च”।

काचिघ = पु० कच–दीप्तौ बा० इण् काचिं कान्तिं हन्ति नच्छति हन–गतौ बा० ड पृषो० हस्य घः। १ काञ्चने। २ छेमण्डे (छेमडा) ३ सूचके च मेदि०।

काचित = त्रि० कच–बन्धने णिच् कर्मणि क्त। शिक्यारोपिते अमरः।

काचित् = अव्य० का + चित् मुध० पाणिन्यादिमते द्विपदम्। असाकल्यान्विते कापीत्यर्थे। “गोपीभर्त्तुर्विरहविधुरा काचिदिन्दीवराक्षी” पदाङ्कदूतम्। चयनं चित् चिसंप० क्विप्–ईषत् चित् कोः कादेशः। ईषच्चयने। “प्रियं काचित्करं हविः” ऋ० १०८६, १३। “काचित् करम् ईषच्चयनकरम्”।

काचिम = पु० कच–बन्धे णिच्–इमन्। देवकुलोद्भवे भञ्जकवृक्षे त्रिका०।

काचूक = पुंस्त्री कच–दीप्तौ बा० ऊकञ्। १ कृकवाकौ ताम्रचूडे पीतमस्तके खगे २ कोके चक्रवाके च मेदि० स्त्रियां जातित्वात् ङीष्।

काजल = न० कुत्सितं जलम् कोः कादेशः। कुत्सितजले मुग्ध०

काञ्चन = न० काचि–दीप्तौ भावे ल्युट्। १ दीप्तौ। काचि–दीप्तौ ल्यु। २ स्वर्णे अमरः। “अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम्” “वार्य्यन्नगोमहीवासस्तिलकाञ्चनसर्पिषाम्” “गोवीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः” मनुः। ३ पद्मकेशरे मेदि०। ४ नागकेशरपुष्पे ५ धने राजनि०। ६ चम्पके ७ नागकेशरवृक्षे ८ उदुम्बरे ९ धुस्तूरे १० स्वनामख्याते वृक्षे च पु० मेदि०। स्वार्थे कन्। काञ्चनवृक्षे। काञ्चनवृक्षश्च सुश्रुते वातशमनतयोक्तः। भद्रदारुकुष्ठेत्याद्युपक्रमे “काञ्चनकभार्गीत्यादिना “समासेन वातसंशमनोवर्ग” इति। “काञ्चनारः काञ्चनको गण्डारिः शोणपुष्पकः। कोविदारश्च मरिचः कुद्दालो युग्मपत्रकः। कुण्डली ताम्रपुष्पश्चाश्मन्तकः स्वल्पकोरकः। काञ्चनारो हिमग्राही तुवरः श्लेष्मपित्तनुत्। कृमिकुष्ठगुदभ्रंश गण्डमालाव्रणापहः। कोविदारोऽपि तद्वत् स्यात् तयोः पुष्पं लघु स्मृतम्। रूक्षं संग्रांहि पित्तास्रप्रदरक्षयकासनुत्” भावप्र० तत्पर्य्यायभेदगुणाद्युक्तम्। काञ्चनमिव कायति कै–क। हरिताले न० राजनि० शालिभेदे सुश्रु० “लोहितकशालिकलमेत्याद्युपक्रमे” दीर्घ शूककाञ्चनकेत्यादि “महादूषकप्रभृतयः शालयः” इत्यन्तम्। काञ्चनस्य विकारः अण्। ११ काञ्चनविकारे त्रि०। “स काञ्चने यत्र मुनेरनुज्ञया” माघः। “निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति” मनुः। स्त्रियां ङीप्। “तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिः” मेघ०। किमः द्वितीयान्तात् स्त्रियां चन मुग्ध०। १३ काञ्चिदित्यर्थे अव्य०। “न च काञ्चन काञ्चनसद्मचितिम्” भटुः। “न काञ्चन परिहरेत्” छा० उ०। द्विपदमिति बहवः। काचि बन्धने भावे ल्युट्। १२ बन्धने न०।

काञ्चनकदली = स्त्री काञ्चनवर्णा कदली। स्वर्णकदल्याम् (चा~पाकला) राजनि०।

काञ्चनकारिणी = स्त्री काञ्चनं बन्धनं करोति कृ–णिनि ६ त०। शतमूल्यां शब्दच०। तस्या बहुमूलत्वेन बन्धनकारित्वात् तथात्वम्।

काञ्चनक्षीरी = स्त्री काञ्चनमिव क्षीरमस्याः गौरा० ङीष्। क्षीरिणीलतायाम् राजनि०।

काञ्चनगिरि = पु० काञ्चनमयस्तत्प्रधानो वा गिरिः शाक० त०। १ सुमेरुपर्वते हेमच०। २ दानार्थकल्पितस्वर्ण्णाचले च। काञ्चनाचलस्वर्णाचलादयोऽप्यत्र।

काञ्चनपुष्पक = न० काञ्चनमिव पीतं पुष्पमस्य कप्। आहुल्यवृक्षे राजनि० आहुल्यशब्दे ९०५ पृ० दृश्यम्।

काञ्चनपुष्पी = स्त्री काञ्चनमिव पुष्पमस्य ङीप्। गनिकारी वृक्षे राजनि०।

काञ्चनप्रभ = पु० ऐलवंश्ये नृपभेदे। ऐलपुत्रवंशोपक्रमे “अमावसोस्तु दायादो भीमोराजाथ लग्नजित्। श्रीमान् भीमस्य दायादो राजासीत् काञ्चनप्रभः” हरिवं० २७ अ०

काञ्चनाक्ष = पु० दानवभेदे। “काञ्चनाक्षः कपिस्कन्धो व्याघ्राक्षः क्षितिकल्पनः” हरिवं० २४० अ०।

काञ्चनार = पु० काञ्चनं तद्वर्णमृच्छति पुष्पेण, ऋ–अण् अप० स०। पीतपुष्पे कोविदारे काञ्चनवृक्षभेदे भावप्र०।

काञ्चनाल = पु० काञ्चनं तद्वर्णमलति अल–अण् उप० स०। पीतपुष्पे कोविदारे काञ्चनवृक्षभेदे शब्दर०।

काञ्चनी = स्त्री काञ्चते दीप्यतेऽनया काचि–दीप्तौ करणे ल्युट् ङीप्। १ हरिद्रायाम् मेदि० २ गोरोचनायाम्। काञ्चनं तद्वर्णः क्षीरेऽस्याः ङीष्। ३ स्वर्णक्षीरिणीवृक्षे च राजनि०।

काञ्चनीया = स्त्री काञ्चनाय दीप्तौ हिता छ। १ गोरोचनायाम् राजनि० काञ्चनस्येदम् वृद्धत्वात् छ। २ काञ्चनसम्बन्धिनि त्रि०। “काञ्चनीयाऽपि माला या न सा दुष्यति कर्हिचित्” भा० अनु० १०४ अ०।

काञ्चि(ञ्ची) = स्त्री काचि–बन्धने कर्मणि इन्। रशनायाम् (चन्द्रहार गोट) इत्यादौ कटिबन्धदामभेदे। “स्वकरावलम्बनविमुक्तगलतकलकाञ्चि काञ्चिदरुणत्तरुणः” माघः। काचि–दीप्तौ कर्त्तरि इन्। २ मोक्षदसप्तपुर्य्यन्तर्गतपुरीभेदे च “अयोध्या मथुरा माया काशी काञ्चिरवन्तिका। पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः” काञ्चिरभिजनोऽस्य अण् तस्य बहुषु लुक्। ३ पित्रादिक्रमेण तत्र वासिषु जनेषु पु० ब० व०। “मूत्रतश्चासृजत् काञ्चींच्छरभांश्चै वै पार्श्वतः” भा० आ० १७५ अ०। कृदिकारान्तत्वात् वा ङीप् उक्तार्थे। “वारिक्षोभात्तरितविहगश्रेणिकाञ्चीगुणायाः” मेघ०। “पुनः पुनः केशरदामकाञ्चीम्” “काञ्चीगुणस्थानमनिन्दितायाः” कुमा०। “माहिष्मतीवप्रनितम्बकाञ्चीम्” रघुः। मुक्तिस्थानानान्यकेनीत्युपक्रमे “काञ्ची च त्र्यम्बकं चापि सप्तगोदावरीतटम्” काशी० ६ अ० “जगाम नगरीं काञ्चीं कान्तां त्रिभुवनादपि। लक्ष्मीकान्तः स्वयं साक्षाज्जन्तूस्तत्र निवासिनः। श्रीकान्तानेव कुरुते परत्रेह च निश्चितम्। दृष्ट्वा काञ्चीं कान्तिमतीं कान्तिमद्भिर्निषेविताम्। कान्तिमानभवत् सोऽपि नाकान्तिस्तत्र कस्यचित्” काशीख०। इत्यञ्च द्विविधा शिवकाञ्ची विष्णुकाञ्ची च पु० प्रसिद्धा। काञ्चीपुरी च दक्षिणस्यां वृ० स० कूर्म्मविभागे उक्ता। अथ दक्षिणेन लङ्केत्युपक्रमे काञ्ची “मरुचीपट्टन चेर्य्यार्य्यकसिं हला ऋषभाः” इति। काञ्चीशब्दस्य प्रस्थशब्दे परे आद्युदात्तता। मेखलाभेदश्च “एकयष्टिर्भवेत् काञ्ची मेखला त्वष्टयष्टिका। रशना षोडश ज्ञेया कलापः पञ्चविंशकः” इत्युक्तलक्षणः। अभेदोपचारादन्ययष्टिकायामपि वत्तिरिति बोध्यम्।

काञ्चिक = न० काचि–बन्धने इन् संज्ञायां कन्। काञ्जिके हेमच०।

काञ्चि(ञ्ची)पद = न० ६ त०। जघने। हेमच०।

काञ्जिक = न० अन्ज–धात्वर्थनिर्देशे ण्वुल् कुत्सिता अञ्जिका व्यक्तिर्यस्य। आरनाले (का~जि) हेमच०। तस्य ग्रणादि साव० प्र० उक्तं यथा “काञ्जिकं रोचनं रुच्यं पाचनं वह्निदीपनम्। शूलाजीर्ण्णविबन्धघ्नं कोष्ठशुद्धिकरं परम्” अन्यत्र वैद्यके च “संहितं धान्यमण्डादि काञ्जिकं कथ्यते जनैः। काञ्जिकम्भेदि तीक्ष्णोष्णं रोचनं पाचनं लघु। दाहज्वरहरं स्पर्शात् पानाद्वातकफापहम्। नाषादिवटकैर्यत्तु क्रियते तद्गुणाधिकम्। लघु वातहरं तत्तु रोचनं पाचनम्परम्। शूलाजोर्णविबन्धानां नाशनं वस्तिशोधनम्। धान्याम्लमच्छतरमामनिवारि हारि शुण्ठीरजोलवणजीरकसंस्कृतं यत्। आवासितं सुरभि हिङ्गुकणेन यत्नात् तेनाशुशुक्षणिकणोऽधिकतां प्रयाति। एलामहौषधविभावितमाणिमन्थं संसिद्ध- मामलकमेदककाञ्जिकं यत्। मन्दं विवर्द्धयति जाठरवीतिहोत्रं निर्वाणदीपमिव गन्धकचूर्ण्णयोगः। काञ्जिकं रुचिदं हृद्यं स्वच्छमग्निकरं परम्। वातहृद्बलदं श्रेष्ठं गुर्वाहारस्य पाचकम्”। अन्यत्र च “काञ्जिकं दधितैलन्तु बलीपलितनाशनम्। गात्रशैथिल्यदानाय मर्द्दनान्न च भक्षणात्”। भावप्र० तद्भेदतद्विधानाद्युक्तं यथा–“कुल्माषधान्यमण्डेन संहितं काञ्जिकं भवेत्। यन्मस्त्वादि शुचौ भाण्डे सगुडं क्षौद्रकाञ्जिकम्। धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते। तुषाम्बुसंहितम् ज्ञेयमामैर्विदलितैर्यवैः। यवेस्तु निस्तुषैः पक्वैः सौवीरं साधितं भवेत्। आरनालन्तु गोधूमैरामैः स्यान्निस्तुषीकृतैः। पक्वैर्वा संहितै स्तत्तु सौवीरसदृशं गुणैः। कल्माषधान्यमण्डादि संहितं काञ्जिकं विदुः। शिण्डिका संहिता ज्ञेया मूलकैः सर्षपादिभिः”।

काञ्जिकवटक = पु० (का~जिवडा) प्रसिद्धे भावप्रकाशोक्ते वटकभेदे तद्विधानगुणादि तत्रोक्तं यथा “मन्थनी नूतना धार्य्या कटुतैलेन लेपिता। निर्म्मलेनाम्बुनापूर्य्य तस्यां चूर्ण्णं विनिःक्षिपेत्। राजिकाजीरलवणहिङ्गुशुण्ठीनिशाकृतान्। निःक्षिपेद्वटकांस्तत्र भाण्डस्यास्यञ्च मुद्रयेत्। ततोदिनत्रयादूर्द्धमम्लाः स्युर्वटका ध्रुवम्। काञ्जिको वटकोरुच्यो वातघ्नः श्लेष्मकारकः”। शीतोदाहं शूलमजीर्ण्णं हरते दृगामयेष्वहितः”।

काञ्जिका = स्त्री ईषदञ्जिका अन्ज–ण्वुल् अत इत्त्वम् कोः कादेशः। १ जीवन्तीलतायां २ पलाशीलतायां राजनि०। वैद्यकीक्ते सार्षपकन्देन कृते व्यञ्जनभेदे तल्लक्षणं यथा “सार्षपीक्रन्दली सूक्ष्मा खण्डिता स्निग्धभाजने। स्थापिता मण्ड सहिता त्वथ वा तण्डुलोदके। सप्तरात्रात् परं चुक्रं ततः सम्यक् प्रजायते। तस्मादेव समाकृष्य तलयेद्वाप्रलेहयेत्। काञ्जिकेति समाख्याता सूदधर्म्मोपजीवकैः। सार्षपस्य गुणा ये हि ते चास्या अपि कीर्त्तिताः”।

काञ्जी = स्त्री कं जलमनक्ति अन्ज–अण् उप० स० गौरा० ङीष् पा०, मुग्ध० षण् ईप्। महाद्रोणीवृक्षे राजनि०

काट = पु० कं जलमट्यते प्राप्यतेऽत्र अट–आधारे घञ्। १ कूपे निरु०। “इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाह्लः” ऋ० १, १०६, ६, “कूटयास्य संशीर्य्यन्ते श्लोणया काटमर्द्दति” अथ० १२, ४, ३, २ विपममार्गे वेददी०

काटुक = न० कटुकस्य भावः युवा० अण्। कटुकरसे।

काट्य = त्रि० काटे विषममार्गे कूपे वा भवः यत्। १ विषममार्गभवे २ कूपभवे च ३ रुद्रभेदे पु०। “नमः काट्याय च नीप्याय च” यजु० १६, ३७, नमः काट्याय च गह्वरेष्ठाय च”। “काटे कूपे विषममार्गे वा भवः” वेददी०।

काठ = पु० कठ्यते तङ्क्यते कठ–तङ्कने कर्म्मणि घञ्। १ पाषाणे त्रिका०। कठस्येदम् अण्। २ कठसंबन्धिनि त्रि० स्त्रियां ङीप्।

काठक = न० कठानां धर्म्मआम्नायः समूहो वा वुञ्। १ कठशाखाध्यायिधर्म्मे ३ तदाम्नाये ३ तत्समूहे च “देवसुम्नयोर्यजुषि काठके” पा० कठशब्दे व्याकृतमेतत्। “यदरोदीत्तद्रुद्रस्य रुद्रत्वमिति काठकम्” निरु०।

काठिन्यफल = पु० काठिन्यं फलेऽस्य। कपित्थे राजनि०।

काठेरणि = पु० ऋषिभेदे। तस्येदं तत्रभवो वा गहा० छ। काठेरणीय तत्सम्बन्धिनि तत्रभवे वा त्रि०।

काण = पुं स्त्री कण–निमीलने संज्ञायां कर्त्तरि घञ्। १ काके मेदि० स्त्रियां जातित्वात् ङीष्। २ एकचक्षुर्युक्ते त्रि०। काणत्वञ्च चक्षुरिन्द्रियशून्यैकगोलकवत्त्वम्। “पौनर्भवश्च काणश्च यस्योपपतिर्गृहे” “वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु” अपाङ्क्तेयकथने मनुः। “खञ्जो वा यदि वा काणो दातुः प्रेष्योऽपि वा भवेत्” “काणं वाप्यथवा खञ्जमन्यं वापि तथाविधम्। तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणं वरम्” मनुः। अस्य निरुक्ते ६ अ० “अदायिकाणे विकटे” इत्यृचमधिकृत्य अन्याऽपि निरुक्तिर्दर्शिता यथा– “अदायिनि काणे विकटे विक्रान्तदर्शने इत्यौपमन्यवः। कणतेर्वा स्यादणूभावकर्मणः। कणतिः शब्दाणूभावे भाष्यतेऽनुकणतीति मात्राणूभावात् कणादर्शनाणूभावात् काणः” इति “परोपहासकृत् काणो गां दद्यात् स समौक्तिकाम्” शाता० परोपहासकर्मविपाकः काणत्वमुक्तम्। मनुना तु दीपनिर्वाणकर्म्मविपाकत्वमुक्तम्। “दीपहर्त्ता भवेदन्धः काणो निर्वापको भवेत्”।

काणभूति = पु० वररुचिनामकात्यायनेन वृहत्कथाश्रावणोद्देश्ये पिशाचत्वप्राप्ते यक्षभेदे। “विन्ध्याटव्यां कुवेरस्य शापात् प्राप्तः पिशाचताम्। सुप्रतीकाभिधोयक्षः काणभूत्याख्यया स्थितः” “इत्याख्याय कथामध्ये विन्ध्यान्तः काणभूतये। पुनर्वररुचिस्तस्मै प्रकृतार्थमवर्ण्णयत्” इति च वृहत्क० तदितिवृत्तं तत्रैव दृश्यम्।

काणुक = त्रि० कण–दीप्तौ बा० उकञ्। १ कान्ते २ क्रान्ते ३ पूर्ण्णीकृते च। “इन्द्रः सोमस्य काणुका” ऋ० ८, ७७, ४। “काणुका कान्तानि क्रान्तानि सोमेन, कृतानि वा सोमपूर्णानि” भा०। निरुक्ते तु इमामृचमविकृत्य ५, ११, उक्तं यथा–“काणुका कान्तकानीति वा क्रान्तकानीति वा कृतकानीति वा इन्द्रः सोमम्य कान्त इति वा कणेघात इति वा कणेहतः कान्तिहत इति”। तत्र पृषो० सर्व्वत्र साधु।

काणूक = पुंस्त्री कणति कण–ऊकण्। वायसे उज्ज्व०। स्त्रियां जातित्वात् ङीष्।

काणेय = पुंस्त्री काणायाः अपत्यम् “स्त्रीभ्यो ढक्” पा० ढक्। काणाया अपत्ये पक्षे “क्षुद्राभ्यो वा” पा० ढ्रक्। काणेरतत्रार्थे पुंस्त्री “क्षुद्राश्च अङ्गहीनाः शीलहीनाश्च” सि० कौ०। काणेयानां विषयो देशः भैरिका० विधल्। काणेयविध तद्विषये देशे।

काणेली = स्त्री १ अनूढायां कन्यायाम् २ असत्यां स्त्रियाञ्च। “काणेलीमातः! वामतस्तस्य सार्थवाहस्य गृहम्” मृच्छ०।

काण्टकमर्द्दनिक = त्रि० कण्टकमर्दनेन निर्वृत्तम् अक्षद्यूता० ठक्। कण्टकमर्दनेन निर्वृत्ते स्वास्थ्यादौ।

काण्ठेविद्धि = पुंस्त्री कण्ठे विद्धः ७ त० सप्तम्याः अलुक् कण्ठे विद्धऋषिभेदस्तस्यापत्थम् इञ्। कण्ठेविद्धस्यापत्ये स्त्रियां तु गोत्रप्रत्ययान्तत्वात् वा ष्यञ् पक्षे ङीप्। काण्ठेविद्ध्या काण्ठेविद्धी वा।

काण्ड = पुंन० कनी–दीप्तौ ड तस्य नेत्त्वं किच्च दीर्घः। १ दण्डे २ वाणे ३ पर्वणि कुत्सिते ४ वर्गे ५ अवसरे ६ जले च अम०। ७ नाले (डा~टा) ८ वृक्षस्कन्धे (गु~डि) ९ स्तम्वे (गुल्मभेदे) १० निर्जने धरणिः ११ नाङीवृन्दे १२ वृक्षभेदे (शरवृक्षे) मेदि०। १३ श्लाघायां हेमच०। टण्डश्चात्र षोडशहस्तमितः वंशः वंशाटिण्डश्च “काण्डान्तात् क्षेत्रे” पा० क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि सति द्वे काण्डे प्रमाणमस्याः सा द्विकाण्डा क्षेत्रभक्तिः। “प्रमाणे दृयसजिति” पा० विहितस्य मात्रचः “प्रमाणे लोद्विगोर्नित्यमिति” वार्त्ति० लुक्। क्षेत्रे किं द्विकाण्डी रज्जुः” सि० कौ०। “पृषता वरत्राकाण्डेनाहन्ति” कात्या० ८, ७, २७। वरत्राकाण्डेन वंशदण्डेन” कर्कः। वाणे “सविप काण्डमादाय मृगयामास वै मृगम्” भा० अनु० २६५ ओ०। वर्गे “क्षपातमस्काण्डमलीमसं नभः” माघः। “घृक्षकाण्डमितो भाति” रामा०। “दूर्व्वाकाण्डमिव श्यामा” भट्टिः। वर्गश्च एकजातीयसमुदायः “क्रियाकाण्डेषु निष्णातोयोगेषु च कुरूद्वह!” भाग० ४, २४, ९। “अग्निर्मुखं यस्य तु जातवेदा जातः क्रियाकाण्डनिमित्तजन्मा” भाग० ८, ४, २४। उपचारात् १४ तत्प्रतिपादकग्रन्थे च ब्रह्मकाण्डं कर्म्मकाण्डम् अवसरश्चात्र योग्यकालः प्रस्तावश्च तत्र योग्यकाले अकाण्डशब्दे ५३९ उदा०। प्रस्तावे अयोध्याकाण्डं लङ्काकाण्डमित्यादि। नालमत्रलतादीनां पत्राधारदण्डः (डा~टा)नालारूपञ्च। तत्र नाले “काण्डमूलपत्रपुष्पफलप्ररोहरसगन्धानां सादृश्येन प्रतिनिधिं कुर्य्यात् सर्वाभावे यवः प्रतिनिधिः” श्रा० त० पैठी०। “काण्डं नालम्” रघु०। “पुच्छकाण्डाद्दक्षिणेऽस्थनि” कात्या० २५, ६, ५। पुच्छं काण्डमिव नालारूपत्वात्। स्तम्बे “काण्डात् काण्डात् प्ररोहन्तीः” यजु० १३, १४। “महतः पञ्चमूलस्य काण्डमष्टादशाङ्गुलम्” सुश्रु०। स्कन्धे “इक्षुकाण्डानि वा कृष्णसर्पेण दंशयित्वा भक्षयेत्” “दूर्वेन्दीवरनिस्त्रिंशार्द्रारिष्टशरकाण्डानामन्यतमवर्ण्णः” सुश्रु० “उद्भिज्जाः स्थावराः सर्वे वीजकाण्डप्ररोहिणः” “वीजकाण्डरुहाण्येव प्रतानाबल्ल्य एव च” मनुः। १५ ग्रन्थपरिच्छेदे। मधुकाण्डं श्राद्धकाण्डम् १६ सन्धिविच्छिन्नैकखण्डास्थ्नि न०। “भग्नं समासात् द्विविधं हुताशकाण्डे च सन्धौ च हि तत्र सन्धौ। उत्पिष्टविश्लिष्टविवर्त्तितञ्च तिर्य्यग्गतं क्षिप्तमधश्च षट् च”। रोगनिश्चयः। “सन्धिविच्छिन्नमेकखण्डेमस्थि काण्डम्” तट्टीकाकाण्डस्यावयवो विकारो वा विल्वा० अण्। १७ काण्डावयवे १८ तद्विकारे च त्रि० १९ अङ्कोठवृक्षे पु० शब्दचि०।

काण्डकटुक = पु० काण्डे स्तम्बेऽपि कटुकस्तिक्तः। कारवेल्ले, (करेला) राजनि०।

काण्डकाण्डक = पु० काण्डस्य शरवृक्षस्य काण्डमिव काण्डमस्य कप्। काशतृणे राजनि०।

काण्डकार = पु० काण्डं किरति विस्तीर्णतया कॄ–ण्वुल्। १ गुवाकवृक्षे शब्दमा०। कृ–ण्वुल्। २ वाणकारके त्रि०।

काण्डकीलक = पु० काण्डे कीलमिव यस्य कप् समा०। लोध्रवृक्षे राजनि०। तस्मित् हि कीटसम्बन्धात् कीलमिव स्कन्धे जायते।

काण्डगुण्ड = पु० काण्डेन गुण्डयति गुडि–वेष्टने अण्। दोघकाण्डे गुण्डनामतृणे राजनि०।

काण्डगोचर = पु० काण्डस्य बाणस्य गोचर इव गोचरोऽस्य। लोहनाले नाराचाख्ये अस्त्रभेदे त्रिका०।

काण्डतिक्त = पु० काण्डे तिक्तः। भूनिम्बे (चिराता) राजनि०। स्वार्थेकन्। काण्डतिक्तक तत्रैव।

काण्डधार = पु० काण्डं घारयत्यत्र धृ–णिच् आधारे अच्। १ देशभेदे। स अभिजनोऽस्य तक्षशिला० अञ्। २ काण्डधार पित्रादिकमेण तत्रवासिनि त्रि०।

काण्डनील = च० काण्डे नोलः कीटाकलितत्वात्। लोध्रवृक्षे राजनि०।

काण्डपट = पु० काण्ड इव पटः। (कानात) पटभेदे, हेमच०। तस्य हि संकोचे काण्डरूपता भवति। “ततः स्वमेवागारमानीय काण्डपटपरिक्षिप्ते विविक्तोद्देशे” दशकु० स्वार्थे कन्। काण्डपटक तत्रैव। “उत्क्षिप्तकाण्डपटकान्तरलीयमानः” माघः।

काण्डपुङ्खा = स्त्री काण्डस्य शरस्य पुङ्खो यस्याः ५ त०। शरपुङ्खावृक्षे राजनि०।

काण्डपुष्पा = स्त्री काण्डात् पुष्पमस्याः “काण्डप्रान्तशतैकेभ्यः पुष्पात्” पा० ठाप्। द्रोणवृक्षे शब्दच० पुष्पे न०।

काण्डपृष्ठ = न० काण्डं वृक्षस्कन्धैव स्थूल पृष्ठमस्य। १ स्थूलपृष्ठे धमुरादौ। काण्डः पृष्ठेऽस्य। २ शस्त्राजीविनि पु०। “स्त्रीपूर्व्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ!। अजपा ब्राह्मणश्चैव श्राद्धं नार्हन्ति केतनम्” भा० अनु० २३ अ०। “अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च” भा० अनु० १० अ० अपाङ्क्तेयकथने। “चिकित्सकः काण्डपृष्ठः पुराध्यक्षः पुरोहितः” भा० अनु० १३५ अ० अभोज्यान्नकथने। पाप्रिनां तिर्य्यग्योनितः काण्डपृष्ठताप्राप्तिश्च क्रमशो यथा भवति तथा भा० अनु० २८ अ० निरूपितं यथा “तिर्य्यग्योनिगतः सर्व्वोमानुष्यं यदि गच्छति। स जायते पुक्कशो वा चण्डालो वाऽप्यसंशयः। पुक्कशः पापयोनिर्वा यः कश्चिदिह लक्ष्यते। स तस्यामेव सुचिरं मातङ्गः परिवर्त्तते। ततोदशशते काले लभते शूद्रयोनिताम्। शूद्रयोनावपि ततो बहुशः परिवर्त्तते। ततस्त्रिंशद्गुणे काले लभते वैश्यतामपि। वैश्यतायां चिरं कालं तत्रैव परिवर्त्तते। ततः षष्टित्रये काले लभते ब्रह्मबन्धुताम्। ब्रह्मबन्धुश्चिरं कालं तत्रैव परिवर्त्तते। ततस्तु द्विशते काले लभते काण्डपृष्ठताम्। काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्त्तते। ततस्त त्रिशते काले लभते जडतामपि। ताञ्च प्राप्य चिरं कालं तत्रैव परिवर्त्तते। ततश्चतुःशत काले श्रोत्रियो नाम जायते”। “स्वकुलं पृष्ठतः कृत्वा योवै परकुलं व्रजेत्। तेन दुश्चरितेनासौ काण्डपृष्ठ इति स्मृतः” स्मृत्यन्तरोक्तकर्म्मविपाकः काण्डपृष्ठता। ३ वेश्यापतौ शब्दकल्पद्रुमः तन्मूलं मृग्यम्।

काण्डरुहा = स्त्री काण्डात् रोहति रुल–क। (कटकी) १ कटुक्याम् रत्नमाला। २। स्कन्धरुहमात्रे त्रि०। “वीजकाण्डरुहाण्येव” मनुः।

काण्डर्षि = पु० काण्डस्य वेदभागभेदस्य ऋषिः तदधिकारेण विचारकः। वेदभागभेदमीमांसके जैमिन्यादौ त्रिका०। तत्र कर्म्मकाण्ड मीमांसको जैमिनिः तेन हि ‘अथातो धर्म्मजिज्ञासा’ इत्यादिसूत्रजातेन कर्म्मकाण्डस्य विचारः कृतः। ब्रह्मकाण्डस्य विचारको वेदव्यासः तेन हि “अथातो ब्रह्मजिज्ञासा” इत्यादिसूत्रजाते ब्रह्मकाण्डस्य विचारः कृतः। एवं भक्तिकाण्डस्य विचारकः शाण्डिल्य इति बोध्यम्

काण्डवत् = पु० काण्डोऽस्त्यस्य प्रहरणत्वेन मतुप् मस्य वः। शरधारिणि (तीरन्दाज) अमरः।

काण्डवारिणी = स्त्री काण्डान् रिपुवाणान् वारयति स्मरणेन वृ–णिच्–णिनि। दुर्गायाम् “महागजघटाटीपसंयुगे नरवाजिनाम्। स्मरणात् वारयेत् वाणान् तेन सा काण्डवारिणी” देवीपु० ४५ अ० देवीनामभेदनिरुक्तौ।

काण्डलाव = त्रि० काण्डं लुनाति लू–अण् उप० स०। १ वृक्षस्कन्धच्छेदके काण्डं लवितुम् “अण् कर्मणि च” पा०। क्रियार्थायां क्रियायां कर्मण्युपपदेऽण्। २ काण्डं छेत्तुमित्यर्थे। काण्डलावो व्रजति” सि० कौ० काण्डं छेत्तं व्रजतीत्यर्थः।

काण्डवोणा = स्त्री काण्ड इव स्थूला वीणा। १ स्थूलवीणायां चाण्डालवीणायाम्। काण्डस्य शरस्य विकारः विल्वा० अण् काण्डी वीणा कर्म०। २ शरमय्यां वीणायाम् २ “गोधावीणाः काण्डवीणाश्च पत्न्योवादयन्त्युपगायन्ति” कात्या० १३, ३, १७। “शरकाण्डमय्योवीणाः काण्डवीणाः” कर्कः।

काण्डसन्धि = पु० ६ त०। ग्रन्थौ पर्वणि (पाव्) (गा~ट) राजनि०

काण्डस्पृष्ट = पु० स्पृष्टं गृहीतं काण्डं येन निष्ठान्तत्वात् परनि०। शस्त्राजीवे अमरः।

काण्डहीन = न० काण्डेन हीनम् ३ त०। भद्रमुस्तके शब्द च०।

काण्डिका = स्त्रौ काण्डोऽस्त्यस्याः प्राशस्त्येन ठन्। १ लङ्कानामकधान्यभेदे २ वालुकानामकर्कटीभेदे च राजनि०।

काण्डिन् = त्रि० काण्डः गुलमीऽस्त्यस्य प्राशस्त्येन इनि। प्रशस्तगुल्मयुक्ते स्त्रियां ङीप्। “अशुमतीः काण्डिनीर्या विशाखा ह्वयामि ते वीरुधः” अथ० ८, ७, ४।

काण्डीर = पु० काण्डोवाणोऽस्त्यस्य इत्यर्थे “काण्डाण्डादीरन्नीरचौ पा०” इत्यत्वन ईरन् ईरच्वा। १ वाणास्त्रधारिणि (तीरन्दाज) अमरः “काण्डीरः खाड्गिकः शार्ङ्गी” भट्टिः वाणाकारशिखावत्त्वात् २ अपामार्गे काण्डवेल इति ख्याते ३ लताभेदे च राजनि० ४ मञ्जिष्ठायां स्त्री रत्नमाला अत्रार्थे गौरादित्वात् ङीष्।

काण्डेक्षु = पु० काण्डे इक्षुरिव (ताल्माखना) इति ख्याते काशतृणभेदे राजनि०।

काण्डेरी = स्त्री काण्डं वाणाकारं हस्तिदन्तमिव पुष्पम् ईर्त्ते ईरङ्–गतौ अण् गौरादेराकृतिगणत्वात् ङीष् पा०, मुग्ध० षण् ईप्। नागदन्तीवृक्षे रत्नमाला।

काण्डेरुहा = स्त्री काण्डे रोहति रुह–क ७ त० अलुक्स०। (कट्की) कटुकीवृक्षे रत्नमा०।

काण्डोल = पु० कण्डोल + प्रज्ञा० स्वार्थे अण्। कण्डोलशब्दार्थे अमरे पाठान्तरम्।

काण्व = पु० काण्व्यस्य कण्वगोत्रापत्यस्य छात्रः कण्वादि० अण् यलोपः। १ कण्वगोत्रापत्यस्य छात्रे “यजुर्भिरकरोच्छाखा दशपञ्चशतेर्बिभुः। जगृहुर्वाजसंन्यस्ताः काण्वमाध्यन्दिनादयः” भाग० १२, ६, ७७। २ तदधीतशाखायां स्त्री ङीप्। कण्वस्यापत्यं शिवा० अण्। ३ कण्वापत्ये पुं स्त्री “याभिः काण्वस्योप बहिः” ऋ० ८, १, ८। “इथा धीमन्तमद्रिवः काण्वं मेध्यातिथिम्” ८, २, ४०। “काणं कण्वस्य पुत्रम्” भा०। गोत्रापत्ये तु गर्गा० यञ्। काण्व्य तद्गोत्रापत्ये बहुषु तस्य लुक्। स्त्रियां गोत्रान्तत्वात् ङीप् यलोपश्च। काण्वी तद्गोत्रापत्यस्त्रियाम्। “काण्वीपुत्रात् काण्वीपुत्र” वृ० उ० वेदवंशवर्णने। ततः स्त्रियां लोहिता० फक्। काण्वायनी। ततोयून्यपत्ये तु “यञिञोश्च ४। १। १०१” पा० फक्। काण्व्यायन तदीययुवापत्ये पुंस्त्री। कण्वेन दृष्टं साम अण्। ४ कण्वदृष्टे सामभेदे। “कौत्सं भवति काण्वं भवति” श्रुतिः। तच्च साम गेय(वे)गाने १६ प्रपाठके दृश्यम्।

कात् = अव्य० कुत्सितमतत्यनेन अत–आधारे क्विप् कोः कादेशः। तिरस्कारे तिरस्कारस्य कुत्सितप्राप्तिहेतुत्वात्तथात्वम्। “यन्मयैश्चर्य्यमत्तेन गुरुः सदसि कात्कृतः” भाग० ६, ७, ९। “कात्कृतस्तिरस्कृतः” श्रीधरः।

कातन्त्र = न० ईषत्तन्त्रमस्य कोः कादेशः। कालापकव्याकरणे तच्च कार्त्तिकेयप्रसादेन सर्ववर्मणा कृतं यथोक्तं वृहत्कथासारे सर्ववर्माभ्यभाषतेत्युपक्रमे “ततोऽन्तःपभणा तेन स्कन्देन मम दर्शनम्। दत्तं तत्र प्रविष्टा मे मुखे मूर्ता सरस्वती। अथासौ भगवान् साक्षात् षड्भिराननपङ्कजैः। “सिद्धोवर्णसमाम्नायः” इति सूत्रमु दैरयत्। तच्छ्रुत्वैव मनुष्यत्वसुलभाच्चापलात् परम्। उत्तरं सूत्रमभ्युह्य स्वयमेव मयोदितम्। अथाब्रवीत् स देवो मां नावदिष्यः स्वयं यदि। अमविष्यदिदं शास्त्रं पाणिरीयोपमर्दकम्। अधुना स्वल्पतन्त्रलात् कातन्त्राख्यं भविष्यति। मद्वाहनकलापस्य नाम्ना कालापकं तथा। इत्युक्त्वा शब्दशास्त्रं तत्प्रकाश्याभिनवं लघु। साक्षादेव स मां देवः पुनरेवमभाषत”

कातर = त्रि० ईषत्तरति स्वकार्य्यसमाप्तिं गच्छति तॄ–अच् कोः कादेशः। १ अधीरे, व्यसनाकुले अमरः २ भीते, ३ विवशे, ४ चञ्चले च। “घेन्वा तदध्यासितकातराक्ष्या” रघुः। “तयोः समापत्तिषु क्रातराणि” कुमा०। “कातरोऽपि यदि चोद्गतार्चिषा” रघुः। “मद्गेहिन्याः पिय इति सखे! चेतसा कातरेण” मेघ०। “विद्धा मृगी व्याधशिलीमुखेन मृगोऽपि तत्कातरवीक्षणेन” उद्भटः। के जले आतरति प्लवते न तु विशेषती मज्जति। ५ उडुपे। (कातला) ६ मत्स्यभेदे पुंस्त्री स्त्रियां जातित्वात् ङीष्। ७ ऋषिभेदे पु० ततः गोत्रे नडा० फक्। कातरायण तद्गोत्रापत्ये पुंस्त्री। भावे ष्यञ्। कातर्य्य व्याकुलतायां न० “कातर्य्यं केवला नीतिः शौर्य्यं श्वापदचेष्टितम्” रघु। तल् कातरता स्त्री, त्व कातरत्व न० तदर्थे।

कातल = पु० कस्य जलस्य न तलमस्ति स्पृश्यत्वेनास्य अच्। (कातला) १ मत्स्यभेदे राजमि०। स्त्रियां जातित्वात् ङाष्। “कातलो मधुरश्चोष्णोगुरुपाकी त्रिदोषकृत्” वैद्य०। २ ऋषिभेदे च ततः गोत्रापत्ये नडा० फक्। कातलायन तदपत्ये पुंस्त्री स्त्रियां गोत्रत्वात् ङीष्।

काति = स्त्री कै–शब्दे क्तिन्। स्तवे ऋणकातिशब्दे उदा०।

कातीय = त्रि० कात्यायनस्य छात्रः तस्येदं वा “वृद्धाच्छः” पा० छ तत्र फको वा लुक्। १ कात्यायनच्छात्रे २ तत्सम्बन्धिनि च त्रि०। कातीयं श्रौतसूत्रं गृह्यसूत्र मित्यादि पक्षे न लुक्। कात्यायनीय तदर्थे त्रि०। कातीय श्रौतसूत्रप्रतिपाद्यविषयाश्च कात्यायनशब्दे दृश्याः।

कातु = पु० कं जलमतति सातत्येन गच्छति अत–उन् ६ त०। कूपे निरु० तस्य ग्रीष्मे निःशेषेण शोषणाभावात् तथात्वम्

कात्थक्य = पु० कत्थ–श्लाघायाम् ण्वुल् कत्थकः स्वार्थे ष्यञ् अग्निभेदे निरु०। “यज्ञैध्म इति कात्थक्योऽग्निरिति” शाकपूणिः। “नाराशंसो यज्ञ इति कात्थक्यः नरा अस्मिन्नासीनाः शंसन्ति अग्निरिति शाकपूणिः। इति च निरु० ८, ५, ६,

कात्य = पुं स्त्री कतस्यर्षेःगोत्रापत्यम् गर्गा० यञ्। कतर्षिगोत्रापत्ये।

***