कांशि = पु० कंस भवार्थे बा० इञ् वेदे पृषो० सस्य शः। कंसनिर्मिते पात्रे “त्रींस्त्रीन् कंशीस्त्रिरात्रं, द्वौ द्वौ त्रिरात्रं चेकैकं षड्रात्रम्” कौषी० सू०।

कांस = त्रि० कंसोदेशभेदोऽभिजनोऽस्य तक्षशिला० अञ्। कंसाधिष्ठितभोजदेशाभिजने नरादौ।

कांस्य = न० कंसाय पानपात्राय हितं कंसीयं तस्य विकारः यञ् छलीपः। ताम्ररङ्गजधातुभेदे कंसशब्दे विवृतिः। “न पादौ धावयेत् कांस्ये कदाचिदपि भाजने” मनुः। अस्य शोधनविधिर्भावप्र० उक्तो यथा–“पत्तलीकृत्य पत्राणि कांस्यस्याग्नौ प्रतापयेत्। निषिञ्चेत् तप्ततप्तानि तैले तक्रे च काञ्जिके। गोमूत्रे च कुलत्यानां कषाये च त्रिधा त्रिधा। एवं कांस्यस्य रीतेश्च विशुद्धिः सम्प्रजायते”। मारणविधिस्तत्रैव “अर्कक्षीरेण सम्पिष्टो गन्धकस्तेन लेपयेत्। समेन कांस्यपत्राणि शुद्धान्यम्लद्रवैर्मुहुः। ततोमूषापुटे धृत्वा पचेद् गजपुटेन च। एवं पुटद्वयात् कांस्यं रीतिश्च म्रियते ध्रुवम्” तस्य गुणाः यथा–“कांस्यं कषायं तीक्ष्णोष्णं लेखनं विशदं सरम्। गुरु नेत्रहितं रूक्षं कफपित्तहरं परम्” भावप्र०। “कांस्यमुपहितसरोजसापतत्” माघः।

कांस्यकार = पु० स्त्री कांस्यं तत्पात्रं करोति कृ–अण् उप० स०। (का~सारि)। जातिभेदे जातित्वाद् स्त्रियां ङीष्। कंसकारशब्दे विवृतिः।

कांस्यनील = पु०। कांस्येन कृतः नीलः। (कीमकाजल) अञ्जनभेदे हेमच०।

काक = पुंस्त्री कै–शब्दे कन्। स्वनामख्याते विहगभेदे स्त्रियां जातित्वात् ङीष् अण्डशावकयोः परतः ६ त० पुंवत् काकाण्डः काकशावकः। “काकाल्लौल्यं यमात् क्रौर्य्यम्” स्मृतिः “काकमांसं शुनोच्छिष्टं स्वल्पं तदपि दुर्लभम्” उद्भटः “काकः काकः पिकः पिकः” नीतिमा०। “काकाली काममधरा काशीतलवाहिनी गङ्गा। कंसं जघान कृष्णः कम्बलवन्तं न बाधते शीतम्” विदग्धमु०। तन्मांसगुणा मदनपालेनोक्ता यथा–“काकभासभवं मांस चक्षुष्यं दीपनं लघु। आयुष्यं वृंहणं बल्यं क्षतदोषक्षयापहम्” काकजङ्घायां काकतिक्तत्वोक्तेः तन्मांसस्य तिक्तत्वमपि बोध्यम्। राजनि० काकाह्वेति काकजङ्घापर्प्यायोक्तेः २ काकजङ्घायां पु० “काकजङ्घातुल्याकारत्वात्तथात्वम्। कुत्सितमकति अक–अच् कोः कादेशः। ३ पीठमर्पिणि(खोडे) ४ काकप्रधाने द्वीपभेदे। कस्य शिरसः आक सेधनम् अक–घङ् ६ त०। ५ शिरोऽवक्षालने ६ काकपदतुल्याकारे ७ तिलकभेदे काकवच्चञ्चलत्वात् ८ अतिधृष्टे च शब्दरत्ना०। काकानाम् संघः अण्। ९ काकसमूहे काकपदरूपे १० सुरतबन्धभेदे च न० मेदि०। काकपदशब्दे तल्लक्षणं दृश्यम्। ईषत् कं कोः। कादेशः। ११ ईषज्जले। बहु० १२ ईषज्जलयुक्ते त्रि०। काकमुद्गा।

काककङ्गु = पु० काकप्रियः कङ्गुः ईषज्जलयुक्तो वा कङ्गुः। (चीना) धान्यभेदे हेमच०।

काककला = स्त्री काकस्य कला अवयवो जङ्घेवावयवो यस्याः। काकजङ्घावृक्षेजटाध०।

काकघ्नी = स्त्री काकं हन्ति ट टित्त्वात् ङीप्। १ महाकरञ्जे राजनि०। तत्फलसेवने हि काकस्य नाशः।

काकचिञ्चा = स्त्री कामवर्णा चञ्चा प्रान्तभागः फले यस्याः। पृषो०। गुञ्जायाम् अमरः। पृषो० काकचिञ्चिः, काकचिञ्ची, काकचञ्चाप्यत्र शब्दरत्ना०।

काकच्छद = पुंस्त्री काकस्य च्छदः पक्ष इव छदः कृष्णत्वात् यस्य। खञ्जनविशेषे स्त्रियां जातित्वात् ङीष्। बा० इच् समा०। काकच्छदिरप्यत्र त्रिका०।

काकजङ्घा = स्त्री काकस्य जङ्घेवावयवो यस्याः। (केओयाटेङ्गा) ख्याते वृक्षभेदे। “काकजङ्घा नदीकान्ता काकतिक्ता सुलोमशा। पारावतपदी दासी काकाह्वापि प्रकीर्त्तिता। काकजङ्घा हिमा तिक्ता कषाया कफपित्तजित्। निहन्ति ज्वरपित्तास्रज्वरकण्डूविषक्रमीन्” भावप्र० तत्पर्यायगुणाद्युक्तम्।

काकजम्बु = स्त्री काकवर्णा जम्बुः। भूमिजम्ब्वाम् शब्दमा०। (वडजाम) स्वार्थे कन् तत्रार्थे।

काकजम्बू = स्त्री कं जलमकति उत्पत्तिस्थानत्वेन अक– अण् उप० स० काका काकवर्णा वा जम्बूः कर्म्म० ऊङ्। जलजातजम्बूभेदे राजनि०। तस्याः काकनीलेति जलजम्बुकेति पर्य्यायतोक्तेः तस्याः कृष्णवर्ण्णफलकत्वाज्जलजातत्वाच्च तथात्वम् “क्षुद्रजम्बूः सूक्ष्मपत्रा नादेयी जलजम्बुका। जम्बूः संग्राहिणी रूक्षा कफपित्तास्रदाहजित्”। मावप्र० तत्पर्य्यायगुणाद्युक्तम्।

काकण = न० सुश्रुतोक्ते महाकुष्ठभेदे। “महाकुष्ठान्यौडुम्बरर्ष्यजिह्वकपालकाकणकपुण्डरीकदद्रुकुष्ठानीति” विभज्य। “काकणन्तिकाफलसदृश्यान्यतीव रक्तकृष्णानि काकणकम्” इति, लक्षितम्। अत्र स्वार्थे कन्। “सर्वैरेवोल्वणैर्दोषैः प्राहुः काकणकं बुधाः” भावप्र० तन्निदानमुक्त्वा “यत् काकणन्तिकावर्णमपाकं तीव्रवेदनम्। त्रिदोषलिङ्ग तत् कुष्ठं काकणं नैव सिध्यति” काकणन्तिका गुञ्जा गुञ्जावर्णत्वेन मध्ये कृष्णम्, अन्ते रक्तम् अथवा मध्ये रक्तम् अन्ते कृष्णम्। अपाकं स्वभावात्, त्रिदोषलिङ्गम् सर्वेषां कुष्ठानां त्रिदोषजत्वेऽपि उल्वणदोषत्रयलिङ्गम्” भावप्र० लक्षितम्। अतएव पूर्ववाक्ये उल्वणैर्दोषैरित्युक्तम्।

काकणन्ती = स्त्री ईषत् कणन्ती निमीलन्ती कण–निमीलने शतृ ङीप कुगतिस० कोः कादेशः। गुञ्जायाम् सुश्रु०। तस्याः फलकोषस्येषन्निमीलनात्तथात्वम्। “कोष्ठं गत्वा क्षोभयन् यस्य रक्तं, तच्चाधस्तात् काकणन्तीप्रकाशम्” सुश्रु० स्वार्थे कन्। काकणन्तिकाप्यत्र रत्नमा०। काकणशब्दे उदा०। “रक्तजानि न्यग्रोधप्ररोहविद्रुमकाकणन्तिकाफलसदृशानि” सुश्रु०।

काकतालीय = न० अवितर्कितसम्भवतुल्ये यादृच्छिकन्याये तद्व्युत्पत्त्यादिर्यथा “समासाच्च तद्विषयादिति” पा० छ। अस्मादेव ज्ञापकादिवार्थे, सह सुपेति वा समासः, द्वाविवार्थौ काकागमनमिव तालपतनमिव काकतालम् काकतालमिव काकतालीयम् वृत्तिविषये काकतालशब्दौ काकतालसमवेतक्रियावाचिनौ तत्र काकागमनं देवदत्तागमनस्योपमानम् तालपतनं दस्यूपनिपातस्य, तालेन तु यः काकस्य बघः स देवदत्तस्य दस्युना बधस्योपमानम् इति वधादिः काकतालीयादिशब्दवाच्यः सम्पद्यते। काकतालसमागमसदृशश्चोरसमागम इति समासार्थः तत्प्रयुक्तकाकमरणसदृशस्तु देवदत्तवधादिः छप्रत्ययार्थः। “यत्तया मेलनं तत्र लाभो मे यश्च तद्रते। तदेतत् काकतालीयमवितर्कितसम्भवम्” चन्द्रालोकः। “फलन्ति काकतालीयं तेभ्यः प्राज्ञा न बिभ्यति” वेणी०।

काकतिक्ता = स्त्री काकमांसवत् तिक्ता। काकजङ्घायां भावप्र० काकजङ्घाशब्दे विवृतिः। (कु~च) ३ गुञ्जायां रत्नमा०। तयोः काकनांसतुल्यतिक्तत्वात्तथात्वम्।

काकतिन्दुक = पु० काकईषज्जलकस्तिन्दुतिकेन्दुकः, काकवर्णो वा तिन्दुकः काकप्रियो वा तिन्दुकः। (कु~चिलिया) (माकडातेंदु) इति च प्रसिद्धे कुपीलौ भावप्र०। तत्पर्य्यायगुणादि तत्रोक्तं यथा “तिन्दुको यस्तु कथितो जलजो दीर्घपत्रकः। कुपीलुः कुलयः काकतिन्दुकः काकपीलुकः। कुपीलु शीतलं तिक्तं वातलं मदकृल्लघु। पादव्यथाहरं ग्राहि कफपित्तास्रनाशनम्” अत्र फलपरत्वात् न०।

काकतुण्ड = पु० काकतुण्डस्य वर्णोऽस्त्यस्य अच्। कालागुरुणि हेमच०।

काकतुण्डफला = स्त्री काकतुण्डमिव फलमस्याः। काकनासायाम्” भावप्र०। काकनासाशब्दे विवृतिः।

काकतुण्डिका = स्त्री काकतुण्डस्य वर्णः अर्द्धफलेऽस्याः ठन्। गुञ्जायाम् हला०।

काकतुण्डी = स्त्री काकम् ईषदकं ईषद्दुःखं तुण्डते तुडि ङ–बधे अण् उप० स० पा० गौरा० ङीष्, मुग्ध० षण् ईप् इति भेदः। १ राजरीतौ नृपयोग्ये पित्तले (गिल्टीकरापितल) तस्य स्वर्णरूपतया दर्शनात् दुःखनाशकत्वात् तथात्वम्। काकतुण्ड इवाकारोऽस्याः अच् गौरा० ङीष। (केओयाठोटा) २ काकनासावृक्षे च।

काकदन्तगवेषण = पु० काकस्य दन्ताः सन्ति न येति संशये तत्र वर्ण्णभेदस्य संख्याविशेषस्य च गवेषणमिव अनर्थकः प्रयत्नी यत्र। निष्प्रयोजनान्वेषणयुक्ते न्यायभेदे।

काकध्वज = पु० काकमीषज्जलं बाष्पं ध्वज इवास्य। बाडवाग्नौ त्रिका०। तस्य समुद्रादुद्गच्छन्त्या ज्वालया जातवाष्पस्य तत्केतनतुल्यत्वात् तस्य तथात्वम्।

काकनामन् = पु० काकेनापि नाम्यतेऽसौ नम–णिच्कर्मणि ङ्वनिप्। वकवृक्षे रत्नमाला तस्य मृदुशाखत्वेन काकारोहणेनापि नामित्वात् तथात्वम्।

काकनास = पु० काकस्य नासा तद्वर्णः फलेऽस्य। विकङ्कतवृक्षे (व~इचि) राजनि०। तस्य फलस्य काकनासातुल्यकृष्णत्वात्तथात्वम्।

काकनासा = स्त्री काकस्य नासेव फलमस्याः। काकजङ्घायाम् (केओठेङ्गा)। भावप्र० तद्पर्य्यायगुणाद्युक्तं यथा“काकनासा कषायोष्णा कटुका रसपाकयोः। कफघ्नी वमनी तिक्ता शोथार्शः श्वित्रकण्डुनुत्”। स्वार्थे कन्। काकनासिका तत्रार्थे अमरः। सा च त्रिवृति राजनि०।

काकनीला = स्त्री काक इव नीला। जम्बुभेदे। राजमि०।

काकन्दि(न्दी) = स्त्री देशभेदे। वा ङीप्। तत्र भवाद्यर्थे दीर्धान्तात् वुञ्। कादन्दक तत्र भवे त्रि०। २ तद्देशवासिषूपचारात् तेचायुधजीविनः। संघपरत्वे ततः दामन्यादि० स्वार्थे छ। काकन्दीय तद्देशवासिनि आयुधजीविसंघे।

काकपक्ष = पु० काकस्य पक्षः तदाकारोऽस्त्यस्य अच्। (काणपाटा) काणजुलपी) प्रसिद्धे शिरोऽधःकर्ण्णपार्श्वस्थे केशभेदे। “स वृत्तचूलश्चलकाकपक्षकैः” “काकपक्षधरमेत्य याचितः” “तौ प्रणामचलकाकपक्षकौ” “काकपक्षधरेऽपि राघवे” इति च रघुः “काकपक्षधरो युवा” पद्मपु० रामकवचम्।

काकपद = पु० “पादौ द्वौ स्कन्धयुग्मस्थौ क्षिप्त्वा लिङ्गं भगे लघु। कामयेत् कामुकां कामी बन्धः काकवदो मतः” रतिमञ्जर्य्युक्ते १ रतिबन्धभेदे। काकस्य पदं पदमानम्। २ काकपदतुल्यपरिमाणे न०। तत्परिमाणेन शिरसि शिखास्थापनं स्मृतौ विहितम्। काकस्य पदाकारोऽस्त्यस्य अच्। ३ काकपदतल्याकारे ग्रन्थलेखनकाले ऊर्द्ध्वमधोवाभिन्नपङ्क्तिलेखने प्रकृतग्रन्थत्रुटिसूचके ३ रेखाविशेषे। लेखकसंप्रदायप्रसिद्धिः।

काकपर्ण्णी = स्त्री काक इव कृष्णं पर्ण्णमस्याः काकमीषज्जलं पर्ण्णेऽस्या वा गौरा० ङीष्। मुद्गपर्ण्ण्यां भावप्र० तस्याः काककृष्णपर्ण्णत्वात् ईषज्जलयुक्तपत्रत्वाच्च तथात्वम्।

काकपीलु = पु० काकप्रियः पीलुः। (कुचिला) कुपीलौ। राजनि० संज्ञायां कन्। तत्रार्थे भावप्रकाशोक्ततद्गुणादि काकतिन्दुकशब्दे उक्तम्।

काकपुच्छ = पुंस्त्री काकस्येव पुच्छो यस्य। कोकिले शब्दरत्ना०। स्त्रियां जातित्वेऽपि संयोगोपधत्वान्न ङीष्। किन्तु “पुच्छाच्चेति” वार्त्ति० वा ङीष्।

काकपुष्ट = पु० काकेन पुष्टः। कोकिले त्रिका०। कोकिल्या हि स्वाण्डस्फोटनाशक्ततया काकाण्डं तन्नीडात् निष्कास्य स्वाण्डं तत्र स्थापयित्वा काकद्वारा स्वाण्डजपोषणात् कोकिलस्य तथात्वम्।

काकपुष्प = न० काकवर्णं पुष्पमस्य। गन्धपर्णे राजनि०।

काकपेय = त्रि० काकैरनतकन्धरैः पीयते पा–यत् “कृत्यैरधिकार्थवचने” पा० ३ त०। पूर्णोदकत्वेन प्रशस्ये काकैः पेये नदादौ। “काकपेया नदी” सि० कौ०।

काकफल = पु० काकप्रियं फलमस्य। निम्बवृक्षे राजनि०। तस्य तिक्तत्वेऽपि काकस्य तत्फलप्रियत्वात्तथात्वम्।

काकबन्ध्या = स्त्री काकीव बन्ध्या पुंवत्। काकीवत् एकमात्रपुत्रजननेन बन्ध्यात्वप्राप्तायां स्त्रियाम् काकस्य सकृत्प्रजत्वञ्च काकरुतशब्दोक्तप्रमाणादबसेयम्। “काकबन्ध्या च या नारी मृतापत्या च या भवेत्। बह्वपत्या जीववत्सा सा भवेन्नात्र संशयः” पद्मपु० रामकवचम्।

काकबलि = पु० ४ त०। काकेभ्योदेयेरलौ काकरुतशब्दे विवृतिः

काकभाण्डी = स्त्री काकस्य ईषज्जलस्य मुखनिस्रावहेतुकस्य भाण्डी क्षुद्रभाण्डमिव। महाकरञ्जे राजनि०। तत्फलसेवनात् सुखात् ईषज्जलस्रावात्तस्यास्तथात्वम्।

काकभीरु = पु० ५ त०। पेचके त्रिका०।

काकमद्गु = पु० काक इव कृष्णोमद्गुः दात्यूहे खगे त्रिका० “घृतं हृत्वा तु दुर्बुर्द्धिः काकमद्गुः प्रजायते” भा० अनु० ५५२० श्लो०।

काकमर्द = पु० काकं मृद्नाति मृद–अण् उप० स०। (माखालशशा) इति स्त्याते महाकालवृक्षे राजनि०। ण्वुल्। काकमर्दकोऽप्यत्र रत्नमाला।

काकमाची = स्त्री काकान् मञ्चते मचि–अण् पृषो० नलोपः पा० गौरा० ङीष्, मुग्ध० षण् ईप्। कट्फललतायाम्। (कठेया गुड्कामाइ) इति ख्याते वृक्षे भावप्र०। तत्पर्य्यायगुणाद्युक्तं तत्रैव यथा–“काकमाची ध्वाङ्क्षमाची काकाह्वा चेव वायसी। माकमाची त्रिदोषर्घ्न स्निग्धोष्णा स्वरशुक्रदा। तिक्ता रसायनी शोथकुष्ठाशे ज्वररोगजित्। कटुर्नेत्रहिता हिक्काच्छर्दिहृद्रोगनाशिनी “काकमाचिजनितं मृदुशाकं वेशवारमिलितं शुभवासम्। तप्ततैलतलनेन सुपाकं कैरवाप्य न कृतं मुखवासम्” इत्यत्र वैद्यके असंज्ञायामपि “ङ्यापोरिति” पा० ह्रस्वः इति बोध्यम्। स्वार्थे कन् काकमाचिकाऽप्यत्र।

काकमातृ = स्त्री काकस्य मातेव पोषिका तस्य तत्फलप्रियत्वात्। काकमाच्याम्। राजनि०।

काकमुद्गा = स्त्री काकेन ईषज्जलेन मुदं गच्छति गम–ड। मुद्गपर्ण्ण्याम् अमरः।

काकयव = पु० काकमीषज्जलमत्र तावृशो यव इव नीरसत्वात्। (आग्डा) इति ख्याते पदार्थे “यथाऽफलाः षण्डतिलाः यथा चर्ममया मृगाः। तथैव पाण्डवाः सर्वे यथा काकयवा इव” भा० १७५ अ०। काकयवा निष्फलतृणधान्यानि” नीलकण्ठः।

काकरुत = न० काकस्य रुतम्। काकशब्दे। काकादिरवादेः भाविशुभाशुमसूचकतया शकुनत्वं यथाह वृह० सं० ९५ अ०। “प्राच्यानां दक्षिणतः शुभदः काकः करालको वामे। विपरीतमन्यदेशेष्ववधिर्लोकप्रसिद्ध्यैव। वैशाखे निरुपहते वक्षे नीडः सुभिक्षशिवदाता। निन्दितकण्टकिशुष्केष्वसुभिक्षभयानि तद्देशे। नीडः प्राक्छाखायां शरदि भवेत्प्रथमवृष्टिरपरस्याम्। याम्योत्तरयोर्मध्या प्रधानवृष्टिस्तरोरुपरि। शिखिदिशि मण्डलवृष्टिर्नैरृत्यां शारदस्य निष्पत्तिः। परिशेषयोः सुभिक्षं मूषकसम्पत्तु वायव्ये। शरदर्भगुल्मवल्लीधान्यप्रासादगेहनिम्नेषु। शून्यो भवति स देशश्चौराऽनावृष्टिरोगार्त्तः। द्वित्रिचतुः। शावत्वं सुभिक्षदं पञ्चभिर्नृपान्यत्वम्। अण्डावकिरणमेकाण्डताप्रसूतिश्च न शिवाय। चौरकवर्णैश्चौराश्चित्रैर्मृत्युः सितैश्च वह्निभयम्। विकलैर्दुर्भिक्षभयं काकानां निर्द्दिशेच्छिशुभिः। अनिमित्तसंहतैर्ग्राममध्यगैः क्षु- द्भयं प्रवाशद्भिः। रोधश्चक्राकारैरभिघातो वर्गवर्गस्थैः। अभयाश्च तुण्डपक्षैश्चरणविघातैर्जनानभिभवन्तः। कुर्वन्ति शत्रुवृद्धिं निशि विचरन्तो जनविनाशम्। सव्येन खे भ्रमद्भिः स्वभयं, विपरीतमण्डलैश्च परात्। अत्याकुलं भ्रमद्भिर्वातोद्भ्रामो भवति काकैः। ऊर्ध्वमुखाश्चलपक्षाः पथि भयदाः क्षुद्भयाय धान्यमुषः। सेनाङ्गस्था युद्धं परिमोषं चान्यभृतपक्षाः। भस्मास्थिकेशपत्राणि विन्यसन् पतिबधाय शय्यायाम्। मणिकुसुमाद्यवहनेन सुतस्य जन्माङ्गनायाश्च। पूर्णाननेऽर्थलाभः सिकताधान्यार्द्रमृत्कुसुमपूर्वैः। भयदो जनसंवासाद् यदि भाण्डान्यपनयेत्काकः। वाहनशस्त्रोपानच्छत्रच्छायाङ्गकुट्टने मरणम्। तत्पूजायां पूजा विष्ठाकरणेऽन्नसम्प्राप्तिः। यद्द्रव्यमुपनयेत्तस्य लब्धिरपहरति चेत्प्रणाशः स्यात्। पीतद्रव्ये कनकं, वस्त्रं कार्पासिके, सिते रूप्यम्। सक्षीरार्ज्जुनवञ्जुलकूलद्वयपुलिनगा रुवन्तश्च। प्रावृषि वृष्टिं दुर्द्दिनमनृतौ स्नाताश्च पांशुजालैः। दारुणनादस्तरुकोटरोपगो वायसो महाभयदः। सलिलमवलोक्य विरुवन् वृष्टिकरोऽब्दानुरावी वा। दीप्तोद्विग्नो विटपे विकुट्टयन् वह्निकृद्विघुतपक्षः। रक्तद्रव्यं दग्धं तृणकाष्ठं वा गृहे विदधत्। ऐन्द्रादिदिगवलोकी सूर्य्याभिमुखो रुवन् गृहे गृहिणः। राजभयचोरबन्धनकलहाः स्युः पशुभयं चेति। शान्तामैन्द्रीमवलोकयन् रुयाद्राजपुरुषमित्राप्तिः। भवति च सुवर्णलब्धिः शाल्यन्नगुडाशनाप्तिश्च। आग्नेय्यामनलाजीविकयुवतिप्रवरधातुलाभश्च। याम्ये माषकुलत्था भोज्य गान्धर्विकैर्योगः। नैरृत्यां दूताश्वोपकरणदधितैलपललभोज्याप्तिः। वारुण्यां मांससुरासवधान्यसमुद्ररत्नाप्तिः। मारुत्यां शस्त्रायुघसरीजवल्लीफलाशनाप्तिश्च। सौम्यायां परमान्नाशनतुरङ्गाम्बरप्राप्तिः। ऐशान्यां सम्प्राप्तिर्घृतपूर्णानां भवेदनडुहश्च। एवंफलं गृहपतेर्गृहपृष्ठसमाश्रिते भवति। गमने कर्णसमश्चेत् क्षेमाय न कार्य्यसिद्धये मवति। अभिमुखमुपैति यातुर्विरुवन्विनिवर्त्तयेद्यात्राम्। वामे वाशित्वादौ दक्षिणपार्श्वेऽनुवाशते यातुः। अर्थापहारकारी तद्विपरीतोऽर्थसिद्धिकरः। यदि वाम एव विरुयान् मुहुर्मुहुर्यायिनोऽनुलोमगतिः। अर्थस्य भवति सिद्ध्यै प्राच्यानां दक्षिणश्चैवम्। वामः प्रतिलोमगतिर्वाशन् गमनस्य विघ्नकृद्भवति। तत्रस्थस्यैव फलं कथयति यद्वाञ्छितं गमने। दक्षिणविरुतं कृत्वा वामे विरुयाद्यथेप्सितावाप्तिः। प्रतिवाश्य पुरो यायाद् द्रुतमग्रेऽर्थागमोऽतिमहान्। प्रतिवाश्य पृष्ठतो दक्षिणेन यायाद् द्रुतं क्षतजकर्त्ता। एकचरणोऽर्कमीक्षन् विरुवंश्च पुरी रुधिरहेतुः। दृष्ट्वार्कमेकपादस्तुण्डेन लिखेद्यदा स्वपिच्छानि। परतो जनस्य महतो बधमभिधत्ते तदा बलिभुक्। सस्योपेते क्षेत्रे विरुवति शान्ते ससस्यभूलब्धिः। आकुलचेष्टो विरुवन् सीमान्ते क्लेशकृद्यातुः। सुस्निग्धपत्रपल्लवकुसुमफलानम्रसुरभिमधुरेषु। सक्षीराव्रणसुस्थितमनोज्ञवृक्षेषु चार्थकरः। निष्पन्नसस्यशाद्वलभवनप्रासादहर्म्यहरितेषु। धान्योच्छ्रयमङ्गल्येषु चैव विरुवन् धनागमदः। गोपुच्छस्थे वल्मीकगेऽथवा दर्शनं भुजङ्गस्य। सद्यो ज्वरो महिषगे विरुवति गुल्मे फलं स्वल्पम्। कार्य्यस्य व्याघातस्तृणकूटे वामगेऽस्थिसंस्थे वा। ऊर्ध्वाग्निप्लुष्टेऽशनिहते च काके वधो भवति। कण्टकिमिश्रे सौम्ये सिद्धिः कार्यस्य भवति कलहश्च। कण्टकिनि भवति कलहो वल्लीपरिवेष्टिते बन्धः। छिन्नाग्रेऽङ्गच्छेदः कलहः शुष्कद्रुमस्थिते ध्वाङ्क्षे। पुरतश्च पृष्ठतो वा गोमयसंस्थे धनप्राप्तिः। मृतपुरुषाङ्गावस्थितोऽभिवाशन् करोति मृत्युभयम्। भञ्जन्नस्थि च चञ्च्वा यदि वाशत्यस्थिभङ्गाय। रज्ज्वस्थिकाष्ठकण्टकिनिःसारशिरोरुहानने रुवति। भुजगगददंष्ट्रितस्करशस्त्राग्निभयान्यनुक्रमशः। सितकुसुमाशुचिमांसाननेऽर्थसिद्धिर्यथेप्सिता यातुः। वुन्वन् पक्षावूर्ध्वानने च विघ्नं मुहुः क्वणति। यदि शृङ्खलां वरत्रां वल्लीं वादाय वाशते बन्धः। पाषाणस्थे च भयं क्लिष्टापूर्वाधिकयुतिश्च। अन्योऽन्यभक्षसङ्कामितानने तुष्टिरुत्तमा भवति। विज्ञेयः स्त्रीलाभो दम्पत्योर्वाशतोर्युगपत्। प्रमदाशिरौपगतपूर्ण्णकुम्भसंस्थेऽङ्गनार्थसम्प्राप्तिः। घटकुट्टने सुतविपद् घटोपदहनेऽन्नसम्प्राप्तिः। स्कन्धावारादीनां निवेशसमये रुवंश्चलत्पक्षः। सूचयतेऽन्यस्थानं निश्चलपक्षस्तु मयमात्रम्। प्रविशद्भिः सैन्यादीन् सगृध्रकङ्कैर्विनामिषं ध्वाङ्क्षैः। अविरुद्धैस्तैः प्रीतिर्द्विषतां युद्धं विरुद्धेश्च बन्धः। शूकरसंस्थे पङ्काक्ते शूकरे द्विकेऽर्थाप्तिः। क्षेमं खरोष्ट्रसंस्थे केचित्प्राहुर्बधं तु खरे। वाहनलाभोऽश्वगते, विरुवत्यनुयायिनि क्षतजपातः। अन्येऽप्यनुव्रजन्तो यातारं काकवद्विहगाः। द्वात्रिंशत्प्रविभक्ते दिक्चक्रे यद्यथा समुद्दिष्टम्। तत्तत्तथाऽभिधेयं गुणदोषफलं यियासूनाम्। का इति काकस्य रुतं स्वनिलयसंस्थस्य निष्फलं प्रोक्तम्। कवैति चात्मप्रीत्यै क इति रुते स्निग्धमित्राप्तिः। कर इति कलहं कुरुकुरु, हर्षमथ कटकटेति दधिभक्तम्। केके विरुतं कुकु वा धनलाभं यायिनः प्राह। खरे खरे पथिकागममाह कखाखेति यायिनो मृत्युम्। गमनप्रतिषेधकमाखलखल सद्योऽभिवर्षाय। काकेति विघातं काकटीति चाहारदूषणं प्राह। प्रीत्यास्पदं कवकवेति बन्धमेवं कगाकुरिति। करकौ विरुते वर्षं गुडवत्त्रासाय, वडिति वस्त्राप्तिः। कलयेति च संयोगः शूद्रस्य ब्राह्मणैः साकम्। फडिति फलाप्तिः फलवाहिदर्शनं टडिति प्रहाराः स्युः। स्त्रीलाभः स्त्रीति रुते गडिति गवां, पुडिति पुष्पाणाम्। युद्धाय टाकुटाक्विति गुहु वह्निभयं कटेकटे कलहः। टाकुलि चिण्टिचि केकेकेति पुरञ्चेति दोषाय। काकद्वयस्यापि समानमेतत् फलं यदुक्तं रुतचेष्टिताद्यम्। पतत्त्रिणोऽन्यऽपि यथव काको वन्याः श्ववच्चोपरिदंष्ट्रिणो ये। स्थल सलिलचराणां व्यत्ययो मेघकाले प्रचुरसलिलवृष्ट्यै शेषकाले भयाय। मधु भवननिलीनं तत्करोत्याशु शून्यं मरणमपि निलीनाम क्षिका मूर्घ्निनीला। विनिक्षिपन्त्यः सलिलेऽण्डकानि पिपीलिका वृष्टिनिरोधमाहुः। तरुस्थलं वापि नयन्ति निम्नाद् यदा तदा ताः कथयन्ति वृष्टिम्। कार्य्यंतु सूलशकुनेऽन्तरजे तदह्नि विन्द्यात् फलं नियतमेवमिमे विचिन्त्याः। प्रारम्भयानसमयेषु तथा प्रवेशे ग्राह्यं क्षुतं न शुभदं क्वचिदप्युशन्ति। शुभं दशापाकमविघ्नसिद्धिं मूलाभिरक्षामथ वा सहायान्। इष्टस्य संसिद्धिमनामयत्वं वदन्ति ते मानयितुर्नृपस्य। क्रोशादूर्ध्वं शकुनिविरुतं निष्फलं प्राहुरेके तत्रानिष्टे प्रथमशकुने मानयेत्पञ्च षट् च। प्राणायामान्नृपतिरशुभे षोडशैव द्वितीये प्रत्यागच्छेत् स्वभवनमतो यद्यनिष्टस्तृतीयः”। काकस्य वर्ण्णादिभेदेन विप्रादिभेदकथनपूर्ब्बकं कालभेदेन तद्रुतादिफलमुक्तं वसन्तराजशाकुने यथा

“अथोच्यते काकरुतं रुतानां मूर्द्ध्नि स्थितं शाकुनभाषितानाम्। अचिन्तितावेदितकार्य्यसिद्धिः पूर्वादिकाष्ठाप्रहरक्रमेण। ये ब्राह्मणक्षत्रियवैश्यशूद्राः काका भवन्त्यन्त्यजपञ्चमास्ते। वर्णाकृतिभ्यां ऋषिभाषिताभ्यां सदाभियुक्तैरुपलक्षणीयाः। वृहत्प्रमाणो गुरुदीर्घतुण्डो दृढस्वरः कृष्णवपुः स विप्रः। पिङ्गाक्षनीलाक्षविमिश्रवर्णः स्यात् क्षत्रियस्तीक्ष्णरवोऽतिशूरः। यः पाण्डुनीलः सितनीलचञ्चुर्नात्यर्थरूढो रटितश्च वैश्यः। भस्मच्छविर्भूरिककारशब्दः शूद्रः कृशाङ्गश्चपलो निरूक्षः। विरूक्षसूक्ष्मास्यतनुर्विशङ्को यः कन्धरादीप्तरवं विभार्त्ति। स्थिरारवः स्थैर्य्यसमेतबुद्धिः काकोऽन्त्यजातिः खलु पञ्चमोऽत्र। द्रोणाभिधः कृष्णवपुर्द्विजो यो ग्राह्यः स काकः स्वलु मुख्यवृत्त्या। तस्मादृते श्यामगलो निरीक्ष्यः श्वेतश्च निन्द्योऽद्भुतदर्शनेऽसौ। विप्रः स्फुटं जल्पति पृछ्यमानो न्यूनं ततः क्षत्रियजातिराह। आख्याति वैश्यस्त्वधिवासनेन ब्रवीति शूद्रो वलिदानलोभात्। प्रश्नं कृतं जल्पति कृष्णवर्णः सदा समस्तं विहगोऽन्त्यजातिः। सद्यस्त्रिसप्ताहदशाहपक्षैः पञ्चापि काकाः फलदाः क्रमेण। शान्ते प्रदीप्ते च रटन् विहङ्गः शुभप्रदो दीप्तपराङ्मुखः सन्। न क्वापि रौद्रो रटितः प्रशस्तः सर्वत्र शस्तो मधुरश्च रक्तः। दीप्तस्थितो यः परुषस्वरेण विरौति दीप्ताभिमुखः स कार्य्यम्। निष्पाद्य निर्नाशयते च सम्यग्दीप्तोन्मुखः शान्तरवो हि सिद्ध्यै। शान्तप्रदीप्ताभिमुखो विधाय शब्दं प्रविश्याथ पुनः प्रदीप्ताम्। यो रौति काको मधुरस्वरेण हृत्वा विरुद्धं स ददाति सिद्धिम्। विधाय दीप्तामिमुखो विरावं ततः प्रशान्ताभिमुखो विरौति। यो वायसोऽसौ विनिहन्त्यसम्यक् कार्य्याणि सर्वाणि पुनः करोति”। विप्रादिश०

सूर्य्योदये पूर्वदिशि प्रशस्तस्थाने स्थितो योऽभिमुखं विरौति। नाशं रिपोश्चिन्तितकार्य्यसिद्धिं स्त्रीरत्नलाभं स करोति काकः। ध्वाङ्क्षः प्रभाते यदि वह्निभागे विरौति तिष्ठन् रमणीयदेशे। शत्रून् प्रणश्यत्यचिराद्विशङ्कः प्रयाति योषित् समवाप्यते तत्। रुवन् प्रभाते दिशि दक्षिणस्यां काकः समावेदयतेऽतिदुःखम्। रोगार्त्तिमृत्युं परुषस्वरेण रम्येण चेष्टागमयोषिदाप्तिम्। नैरृत्यभागे यदि च प्रभाते करोति काकः सहसा विरावम्। क्रूरं ततः कर्म्म समभ्यपैति दूतागमो मध्यमिका च सिद्धिः। प्रातः प्रतीच्यां यदि रौति काको ध्रुवं तदा वर्षति वारिवाहः। स्त्रीवस्त्रभूभृत्पुरुषागमश्च कलिः कलत्रेण समं तदा स्यात्। ध्वाङ्क्षस्य शब्दे पवनालयस्थे वस्त्रान्नयानाभिमतागमाः स्युः। पान्थागमः प्राक्तनवृत्तिनाशः स्यादन्यदेशे गमनं स्वदेशात्। दिश्युचरस्यां सुरवः प्रभाते निरीक्षमाणो बलिभुग् नराणाम्। ददाति दुःखं भुजगाच्च भीतिं दरिद्रतां नष्टधनेष्टलाभम्। दिशीशवत्यां यदि रौति काक आगच्छतस्तद्वनितान्त्यजाती। व्याधेर्निमित्तं प्रियवस्त्रलाभो भवेत्तदा रोगबलेऽवसानम्। ब्रह्मप्रदेशे स्थितवायसस्य प्रभातकाले मधुरस्वरेण। अभीप्सितार्थागमनं ध्रुवं स्यात् स्वामिप्रसादो द्रविणस्य लाभः”। इति सूर्य्योदये काकशकुनम्। “पूर्वत्र याभे प्रथमे सशब्दः काको भवेच्चिन्तितकार्य्यसिद्ध्यै। अर्भाष्टलोकागमनं तथा स्यान्नष्टार्थलाभो नियतं नराणाम्। आग्नेयभागे यदि चाद्ययामे स्त्रीलाभविद्वेषिबधौ भवेताम्। कृतान्तभागे बलिभुग्विरावः स्त्रीलाभसौख्यप्रियसङ्गकारी। नैरृत्यकोणे प्रिययीषिदाप्तिर्म्मिष्टाशनं सिद्ध्यति चिन्तितोऽर्थः। दिशि प्रतीच्यां विरुते भवेतामभ्यर्थनीयागमनाम्बुवृष्टी। वायव्यकोणे करटः शुभः स्यात् नृपप्रसादोऽध्वगदर्शनं च। सौम्ये च भीस्तस्करशोकवार्त्ता सौम्या च वार्त्ता धनलाभवार्त्ता। ईशानदेशेऽभिमतेन सङ्गस्त्रासो हुताशाद्बहुलोकसङ्गः। ब्रह्मप्रदेशे सुखकामभोगः सम्मानसम्पद्द्रविणेष्टसिद्धिः”। इति प्रथमप्रहरे क्षकु०। “प्राच्यां द्वितीये प्रहरे विरावैः काकस्य कश्चित् पथिकोऽभ्युपैति। चौराद्भयं व्याकुलता च बह्वी जायेत काचिन्महती च शङ्का। हुताशदेशे नियतं कलिः स्यात् प्रियागमाकर्णनयोषिदाप्तिः। याम्ये तु वृष्टिर्महती च भीतिः प्रियस्य चेष्टस्य समागमः स्यात्। रक्षोदिशि प्राणभयं तदा स्युः स्त्रीभोज्यलाभाखिलरुक्प्रणाशाः। भवेत् प्रतीच्यां प्रबला बलाप्तिर्योषागमो वृद्धि सुवर्षणं च। समीरभागे ध्वजचौरसङ्गो दूतागमस्त्री पिशितान्नलाभः। सौम्ये गणेष्टागमनं जयं च रम्ये रवे, चौरभयं त्वरण्ये। महेश्वराशाविरुतश्च काकश्चौराग्निसंत्रासविरुद्धवार्त्ताः। ब्रवीति रूक्षैरटनैररूक्षैः सदार्य्यगुर्वागमनं जयं च। ब्रह्मप्रदेशे प्रहरे द्वितीये काकः सुशब्दो नृपतिप्रसादम्। मिष्टान्नभोज्यं च ददाति पुंसां करोत्यसौ चौरभयं कुशब्दः”। इति द्वितीयप्रहर श०। “ऐन्द्र्यां विरूक्षः प्रहरे तृतीये वृद्धिं तथा चौरभयं ब्रवीति। कृष्णस्तु राजागमनं जयं च करोति यात्रां शुभकार्य्यसिद्धिम्। अग्नेर्विभागेऽग्निभयं कलिश्च विरुद्धवार्त्ता विफला च यात्रा। भवेद्विरुद्धैर्बलिभुग्विरावैर्जयादिवार्त्ता च भवेद्विशुद्धैः। ककुभ्यवाच्या कुरुतेऽतितूर्णं रोगं तथाप्तागमनं विहङ्गः। क्षुद्राणि कार्य्याणि च यान्ति सिद्धिं सर्वाणि तन्मुख्यतया नराणाम्। क्रव्याददेशे जलदागमः स्यान्मिष्टान्नलाभो रिपवो न सन्ति। शूद्रागमः स्वामिविरुद्धवार्त्ता भवन्ति यात्रासु च कार्य्यनाशः। स्यात् पश्चिमे नष्टधनस्य लाभो दूराध्वयानं सुहृदागमश्च। योषागमोऽभीष्टजयादिवार्त्ता यात्रासु रम्ये रटितेऽर्थसिद्धिः। वातालये दुर्दिनमेव वार्त्ता चौराभिनष्टार्थसमागमश्च। सन्तोषवार्त्ता वरयोषिदाप्तिर्यात्रा रवे स्यान्मधुरे प्रशस्ता। यामे तृतीये विरुवन्त्युदीच्यां कार्य्यार्थलाभो नृपसेवकानाम्। भोज्यप्रवृद्ध्यै शुभदा च वार्त्ता प्रयाणकं वैश्यसमागमश्च। दिश्यन्धकारेः कुरुते सुशब्दो भोज्यं जयं हानि कली कुशब्दः। ब्रह्मप्रदेशे तिलतण्डुलाभ्यां भोज्यं च ताम्बूलयुतं ददाति”। इति तृतीयप्रहरशकु०। “ऐन्द्र्यां तुरीयप्रहरेऽर्थलाभो भूमीशपूजा भयवृद्धिरोगाः। वह्नेर्विभागे भयरोगमृत्युः शिष्टागमो वायसवाशितेन। याम्ये रवे तस्करवैरिभीती स्यातां विशिष्टागमरोगमृत्युः। स्यात् यातुधान्यां महती प्रवृद्धिरभीष्टसिद्धिः पथि चौरयुद्धम्। दिशि प्रतीच्यां प्रहरे चतुर्थे द्विजातिरभ्येति ततोऽर्थलाभः। आयाति योषिद्विजयाम्बुवृष्टिः सिद्धिः प्रयाणे नृपतेर्वरश्च। वायव्यभागे करटस्य शब्दै रायाति योषित् प्रयमानिनी या। ध्रुवं प्रवासो दिनसप्तकेन शीघ्रागमः स्यात् गमने कृते च। कुवेरभागे पथिकोऽभ्युपैति ताम्बूललाभः कुशलस्य वार्त्ता। वैश्याद्धनाप्तिस्तुरगादिरूढा यात्रा विरुद्धे म्रियते च रोगी। स्थाणौ स्थितः स्याद्बलिभुग्विरावैः सुवर्णवार्त्ता सरुजो विनाशः। ब्रह्मप्रदेशे प्रहरे चतुर्थे वार्त्ता भवेन्मध्यमिका च सिद्धिः”। इति चतुर्थप्रहरशकु०। “यद्भाषितं शाकुनिकैर्विमिश्रं शुभाशुभं दिक्प्रहरक्रमेण। तत्राशुभं यच्छति दीप्तशब्दः श्रेयष्करः शान्तरवश्च काकः। रम्यं रवं दीप्तदिशि प्रसर्पन् शान्तां दिशं भूरि फलं ददाति। तदैव तुच्छं वितरत्यसौ वै दीप्ता स्थितः पश्यति दीप्तकाष्ठाम्। यथोपदिष्टं फलमत्रदुष्टं तथैव तद्दीप्तदिशि स्थितः सन्। ध्वाङ्क्षोऽधिरूढो विरुवन् करोति निरीक्षमाणः ककुभं प्रदीप्ताम्। काकः पशान्ताभिमुखोऽतितुच्छ’ दीप्ताश्रितो दुष्टफलं ददाति। श्यामाश्रितः शान्तदिगीक्षणेन रूक्षारवोऽल्पं कथयत्यनिष्टम्। शान्तस्वरः शान्तककुप्प्रदेशे तिष्ठन् प्रदीप्तां ककुभञ्च पश्यन्। ददात्यभीष्टं फलमेवमल्पं दीप्तां स पश्यंस्तु तदेव तूर्णम्। आकारचेष्टारवभागविज्ञाश्चत्वारि काष्ठादिनयोः क्रमेण। सदाभियुक्ताश्च निरूपयन्ति यस्माच्च ते काकरुतं मनुष्याः”। इति काकरुते दिक्चक्रभेद शकु०। “वर्षकालमधिकृत्य किञ्चन प्रोच्यते बलिभजो यथाक्रमम्। आलयाण्डकविचारसुन्दरं शाकुनं सकलशाकुनोत्तमम्। वैशाखमासे निरुपद्रवेषु द्रुमेषु काकस्य शुभाय नीडम्। निन्द्येषु शुष्केषु सकण्टकेषु द्रुमेषु दुर्भिक्षमलाभहेतुः। प्रशस्तवृक्षे यदि पूर्वशाखामाश्रित्य काकेन कृतः कुलायः। तद्वृष्टिरिष्टा शकुनप्रमोदो नीरोगता स्याद्विजयश्च राज्ञः। आग्नेयशाखारचिते च नीडे स्याद्वृष्टि रिष्टार्त्तिभयं कलिश्च। दुर्भिक्षशत्रूद्भवदेशभङ्गो भवन्ति रोगाश्च चतुष्पदानाम्। याम्यासु शाखासु च वायसेन नीडे कृतेऽल्पं जलपातमाहुः। व्याधिप्रकोपं मरणं समन्तादन्नक्षयं शत्रुविरोधितां च। नैरृत्यशाखारचिते च नीडे तस्माच्छनैर्वर्षति वर्षकाले। पीडा नृणां विप्लवचौरभीतिदुर्भिक्षयुद्धानि भवन्त्यवश्यम्। नीडे कृते पश्चिमवृक्षशाखामाश्रित्य काकैः कथिता च वृष्टिः। नीरोगता क्षेमसुभिक्षवृद्धिः सम्पत्प्रमोदाश्च भवन्ति लोके। वायव्यशाखासु कृते च नीडे प्रभूतवाताल्पजलाश्च मेघाः। स्युर्मूषिकोपद्रवशस्यनाश पक्षद्वयोद्वेगमहारिरोधाः। कौवेरशाखामधिकृत्य नीडे कृते भवेत् प्रावृषि वृष्टिरिष्टा। भवन्ति च क्षेमसुभिक्षसौख्यनीरोगतावृद्धिसमृद्धयोऽस्मित्। ईशानशाखासु च वृष्टिरल्पा वैरं प्रजानामुपसर्गदोषः। स्याद्बान्धवानां कलहप्रवृत्ति र्म्मर्य्यादया हीयत एष लोकः। वृक्षाग्रनीडे त्वतिवर्षकाले मध्ये पुनर्म्मध्यमतोयपातः। तुच्छापि वृष्टिर्न भवत्यधस्तात् स्फुटं दिशोक्तं न दिशः स्फुटत्वम्। अवृष्टिरोगादिभयादिवृद्धिं विद्याच्च भूमौ वलिभुक् कुलाये। शुष्के च वृक्षे डमरान्ननाशौ प्राकाररन्ध्रे च भयं प्रभूतम्। निम्नप्रदेशे तरुकोटरे वा वल्मीकरन्ध्रे व्रततिष्वपीह। काकस्य नीडे रुगवृष्टिदोषैर्भवन्ति शून्या नियमेन देशाः”। इति काकनीडशकुनम्। अथ काकाण्डशकुनम्। “एकं भवेद्वारुणमग्निसंज्ञं द्वितीयकं मारुतकं तृतीयम्। ऐन्द्रं तथा नाम चतुर्थमेव मण्डानि काक्याः परिकीर्त्तितानि। काक्या भवेद्वारुणमण्डकं चेत् पृथ्वी तदा नन्दति सर्वशस्यैः। मन्दप्रवर्षोऽनलसंज्ञकेऽण्डे भोप्तस्य वीजस्य भवेत् प्ररोहः। जातानि शस्यानि समीरणेऽण्डे खादन्ति कीटाः शलभाः शुकाद्याः। क्षेमं सुभिक्षं सुखिता धरित्री स्यादैन्द्रडोऽण्डेऽभिमता च सिद्धिः”। इति काकाण्डश०। “यात्रानिमित्तानि च कीर्त्तयामः सकृत्प्रजानां शकुनानि यानि। विज्ञायतानि प्रजहात्यनर्थानथांश्च सर्वान कुरुतेऽध्वनीनः। भुङ्क्षे बलिं पक्षिषु मन्त्रपूतं त्वं प्राणिषु प्राणिषि वर्षलक्षम्। गुप्तेन च स्त्रीं भजसे नमोऽस्तु तुभ्यं स्वगेन्द्राय सकृत्प्रजाय। विलोक्य काकं विनिवेद्य तस्मै मन्त्रेण पूजां दधिभक्तयुक्ताम्। उदीर्य्य कार्य्यं निजमध्वगेन विलोकनीयं शकुनं तदर्थम्। वामेन शब्दं मधुरं विमुञ्चन् व्रजं स्त्ववामेन करोति काकः। सर्वार्थसिद्धिं पुनरागमञ्चाशुभप्रदेशे तु तदन्थरूपम्। प्रदक्षिणं संप्रविधाय मार्गे वामेन काको विनिवर्त्ततेऽसौ। यातुः करोतीहितकार्य्यसिद्धिं क्षेमञ्च शीघ्रं पुनरागमञ्च। वामे कलं रौत्यनुलोमयायी यो वायसोऽसौ सकलार्थसिद्ध्यै। स्यातां क्रमाद्दक्षिणवामशब्दौ सिद्ध्यै, विरुद्धौ विपरीतभूतौ। पृष्ठे विरावं मधुरं विमुञ्चन्ननुव्रजं श्चापि मतो हिताय। प्रायेण यातारमनुव्रजन्तः सर्वेऽपि काकैः कथिता विहङ्गाः। कृत्वा रवं यः पुरतः प्रयाति उपस्थितो यो मुदमादधाति। कण्डूयते यः स्वशिरोऽङ्घ्रिणाऽसौ पुंसां तदाभीष्टफलं ददाति। स्तम्भे गजाना नियतं गजाप्तिं गजेऽधिरुढः पृथिवीपतित्वम्। तुरङ्गमे वाहनभूमिलाभं करोति काको विजयं ध्वजे च। प्रनष्टलाभं विजयं च कूपे, क्षिप्रं नदीरोधंसि कार्य्यसिद्धिम्। पूर्णे घटेऽद्भिश्च धनाप्तिवृद्धिं ध्वाङ्क्षोऽधिरूढः कुरुते सशब्दः। प्रासादधान्योच्चयहर्म्म्यपृष्ठनिष् पन्नशस्यावनि शाद्वलादौ। ध्वाङ्क्षोऽधिरूढो धनसाधनाय रौति श्रियं यच्छति युग्मरावः। पृष्ठे पुरो वा यदि गोमयस्थो तथा वटाद्येषु तरुष्वपीह। स्थितो रुवन् भोजनपानमिष्टं विष्ठां च कुर्वन् वितरत्यवश्यम्। अन्नाद्यविष्ठाफलसूलपुष्पमत्स्यादिभिः पूर्णमुखः सदैव। संदृष्टमात्रोऽभिमतार्थसिद्ध्यै मिष्टान्नभोज्याय सदैव काकः। नारीशिरःपूर्णघटस्थितस्य काकस्य शब्दैर्वनिताधनाप्तिः। शय्याधिरूढस्य च तस्य शब्दैः समागमः स्यात् स्वजनेन सार्द्धम्। गोपृष्ठदूर्वातरुगोमयेषु तुण्डानि घर्षन्नवलोकिताग्रः। आहारमन्यस्य तथा ददानो ददाति भोज्यं बलिभुखिचित्रम्। धान्यं यवं वा दधिं वापि चाज्यं विरौति पश्यन्निधिलाभकारी। करोति लाभं पुरतः स दृष्टो यस्यास्ति वक्त्रे तृणमप्यशुष्कम्। वृक्षेषु रम्याङ्कुरपत्रपुष्पच्छायाफलाद्येषु सकृत्प्रजस्य। शब्देन सिध्यन्त्यसकृन्नराणां सदैव सर्वाणि समीहितानि। प्रशान्तनादः शिखरे तरूणां स्त्रीसङ्गसौख्यं करटोऽसिधत्ते। धान्यादिकूटेषु तथान्नलाभो गोपृष्ठगो गोवनिताधनाप्तिम्। क्षेमं विधत्ते करभस्य पृष्ठे खरस्य पृष्ठेऽरिभयं बधञ्च। क्रीडस्य पृष्ठे बधमर्थलाभं तस्यैव पृष्ठे घनलग्नपङ्के। सद्योज्वरं सैरिभपृष्ठसंस्थो मृताङ्गसंस्थो मरणं करीति। कार्य्यक्षतिं रिक्तघटस्य संस्थः काकः कलिं काष्ठमधिष्ठितश्च। यो दक्षिणं कूजति दक्षिणैन प्रयाति यश्चाभिमुखोऽभ्युपैति। यो याति पृष्ठे प्रतिलोमगत्या कृतारवः पातयते स रक्तम्। वामे रवो दक्षिणतस्ततो यः सोऽनर्थहेतुर्बलिभोजनस्य। वामप्रदेशे प्रतिलोमयानं विघ्नाय लाभो गृह एव तेन। प्रयाति पृष्ठे यदि दक्षिणेन कृतारवस्तद्रुधिरं पुरः स्यात्। वल्लीवरत्रादि च यो गृहीत्वा प्रदक्षिणं याति स सर्पभीत्यै। गोपुच्छवल्मीककृतास्पदश्च रुवन् भवेत् सर्पविलोकनाय। स्यान्मृत्यवेऽङ्गारचितास्थिसंस्थः काकः प्रकुर्वन् करचर्वणं च। रुवन् पुरो हानिरुजौ करोति मृत्युं पुनर्निष्ठुरपृष्ठशब्दः। प्रसार्य्य रिक्तं वदनं य आस्ते सर्वत्र निन्द्यो बलिभोजनोऽसौ। वामोऽप्यसृक्पातभयं मृतिं वा सन्ताडयन् वा रसचर्म्मखण्डम्। चञ्च्वाऽस्थिभङ्गं ध्रुवमस्थिभङ्गबन्धौ बधं जल्पति युध्यमानः। वामोऽपि रोगं कुरुते विशुष्के तिक्तेऽपि वृक्षे कलिकार्य्यनाशौ। पक्षौ विधुन्वन् विरुवंश्च रूक्षं सकण्टके मृत्युमुपादधाति। बधो भवेद्भूरुहभग्नशाखे बन्धो लताभिः परिवेष्टिते स्यात्। रम्ये तरौ कण्टकयुक्तवृक्षे सदा भवेतां कलिकार्य्यसिद्धी। छन्नाधिरूढो न रवेण यायात् प्रयाति चेत् स्यात् खलु रक्तपातः। अवस्कराम्भस्तृणकाष्ठकूपभस्मादिसंस्थो विनिहन्ति कार्य्यम्। वल्लीवरत्राकच शुष्ककाष्ठचर्म्मास्थिजीर्णाम्बरवल्कलानि। अङ्गाररक्तोत्पलकर्पराणि दृष्टानि चेत् काकमुखे तदानीम्। पुण्यक्षयः पापसमागमश्च महद्भयं रोगसमुद्भवश्च। बन्धो बधः सर्वघनापहार इत्यादिकं स्यात् पथि मन्दिरे च। ऊर्द्ध्वाननश्चञ्चलपक्षयुग्मः काकः कुनादी विदधाति मृत्युम्। छायायुधच्छत्रघटास्थियानवादित्रकाष्ठादिककुट्टनानि। सङ्कोचितैकाङ्घ्रिरुपेतचिन्तो दीप्तस्वरो भास्करमीक्षते च। काष्ठादिकं कुट्टयतेऽथ वा यो युद्धाधिकानर्थकरः खगोऽसौ। तुण्डेन पिच्छं विलिखन् रवेण यो रौति तूर्णञ्च निरीक्षते कम्। एकेन पादेन तथोपविष्टो ब्रूते स बन्ध पुरतो जनस्य। विड्गोमयौ न्यस्यति यस्य मूर्द्ध्नि तस्याऽनलत्रासरुजौ भवेताम्। यस्यास्थिखण्डं विसृजत्यसौ तु प्रयाति तूर्णं नगरीं यमस्य। ब्रह्म- प्रदेशे विरुवन् यियासोः कलत्रदोषं जनयत्यवश्यम्। मनुष्यमातङ्गतुरङ्गमाणां शिरोधिरूढो निधनाय तेषाम्। नदीतटे वाऽथ रटन्नटव्यां खरस्वरो व्याघ्रभयाय गन्तुः। नैवातुरः क्वापि मतो हिताय न दुष्टचेष्टो वितनोति शान्तिम्। यात्रोद्यमे सैन्यबधाय काको दृष्टो रथे साश्वनृमस्तकेषु। आयाति यस्याभिमुखो बलस्य युद्धोद्यमे तस्य पराजयः स्यात्। सगृध्रकङ्कैः कटके नृपस्य काकैः प्रविष्टैः पिशितं विनापि। संयुध्यमानै ररिभिः समं स्यान्महाहवे सन्धिरयुध्यमानैः। चिह्नध्वजच्छत्रकृताधिरोहः समुद्यतं शत्रुबलं प्रपश्यन्। आजौ जयं जल्पति भूमिपानां कृतध्वनिः क्षीरतरौ च काकः। गतिस्वरौ वायससंप्रयुक्तौ प्राच्यां फलायोदितवैपरीत्यात्। एवं जनोऽप्याचरति प्रभूतो यथोदितं तत्र यथागमार्थम्। दिग्यामचक्रेऽपि शुभाशुभानि फलानि यानि प्रतिपादितानि। प्रतिष्ठमानस्य भवन्ति तानि तथाविधानीति वदन्ति तज्ज्ञाः”। इति यात्राङ्गकाकश०। “स्थानस्थितिभ्यां कथयन्ति काकाश्चेष्टाविशेषेण शुभाशुभानि। प्रबोधिताः प्राक्तनकर्म्मभिर्ये तल्लक्षणाय क्रियते प्रयत्नः। निष्कारणं संवलिता रुवन्तो ग्रामेऽन्ननाशाथ भवन्ति काकाः। रोधञ्च चक्राकृतयो वदन्ति सव्यापसव्यभ्रमणाद्भयञ्च। विघातमाहुबहुवर्गसंस्था रात्रौ रुवन्तो जनताविनाशम्। लोकञ्च चञ्चचरणप्रहारैरुद्वेजयन्तः परचक्रवृद्धिम्। यः स्नाति धूल्यान्तु विलोक्य रौति वृष्टिं समाशंसति वायसोऽसौ। जलस्थलप्राणिविपर्य्ययेण वर्षासु वृष्टिं भयमन्यदा तु। मध्यंदिने वेश्मनि यस्य काको विरौति रौद्रं विधुनोति वाङ्गम्। हरन्ति चौरा द्रविणानि तस्य ध्रुवं तथान्यो भवति प्रमादः। रुवन्नदृष्टस्तृणपूर्णवक्त्रो हुताशभीतिं करटः करोति। स्यात् प्रस्थितस्याप्यथ वा स्थितस्य दुःखं प्रभूतं दिवसत्रयेण। छायासु लाभं, भुवि भूमिलाभं, विघ्नं जले, ग्रावणि कार्य्यनाशम्। करोति काको विरुवन्नरस्य प्रस्थायिनः स्थानगतस्य वापि। द्वारप्रदेशे रुधिरानुलिप्तो विरौति काकः शिशुनाशनाय। पक्षौ विधुन्वन् विरुवंश्च रूक्षं शान्ते च दीप्ते भवने न शस्तः। भूयस्तथोर्द्ध्वे प्रविधाय पक्षौ काकः कुनादं प्रलयं करोति। क्रुद्धोऽधिरुढः करटान्तरञ्च रोगेण मृत्युं कुरुते नराणाम्। द्रव्ये हते वाऽपहृते खगेन विनाशलाभावपि तादृशस्य। रुक्मस्य पीते, रजतस्य शुक्ले, चेलस्य कार्पाममये भवेताम्। प्रश्ने कृते रोगविनाशबुद्ध्या हन्त्याशु रोगं सुरवः प्रदीप्ते। शान्ते प्रदेशे करटश्चिरेण स्वल्पारवो रोगमपाकरोति। प्रश्ने शुभे शान्तदिगाश्रयस्थः शान्तस्वरो यः शुभमादघाति। यो वायसस्तं शुभदं वदन्ति तद्व्यत्यये व्यत्ययहेतुरुक्तः। विरौति कुम्भे मणिकेऽथ वा यः स गर्भवत्याः सुतजन्महेतुः। उड्डीयते कण्टकिनीञ्च शाखामादाय राजागमनाय काकः। अन्नादिविष्ठापिशितादिभि र्यः पूर्णाननोऽभीष्टफलप्रदोऽसौ। सन्त्रादिसिद्धौ बणिजादिलामे शस्तो विवाहादिविधौ च काकः। इष्टार्थदोऽश्वादिकवाहनस्थश्छत्त्रादिस स्थस्तदवाप्तकारी। बध्वागमं जल्पति तोरणस्थो हृद्यार्थदो हृद्यतरुस्थितश्च। वायसः कुलकुलध्वनिं यदा व्याहरेद्भवनसं मुखं तदा। अभ्युपैति पथिकस्तदा ध्वनिं सर्व्वकार्य्यशुभदं वदत्यसौ। इदं त्विहोत्पातयुगं पृथिव्यां महाभयं शाकुनिका वदन्ति। यद्वायसो मैथुनसन्निविष्टो दृश्येत १ यद्वा धवलः २ कदाचित्। उद्वेगविद्वेषभयप्रवासघनक्षयव्याधिभयप्रहाराः। बुद्धिप्रणाशाकुलताप्रवादा नृणां भवन्त्यद्भुतदर्शनेन। शमाय तत् सूचितदुःखराशेः स्नानं बहिस्तत्क्षणमेव कुर्य्यात्। आत्मीयशक्त्या च सदक्षिणानि द्विजाय दद्यात् वसनानि तानि। नयेदहःशेषमपुण्यहान्या शयीत भूमावकृतान्नभक्षः। हविष्यभोजी न भजेच्च नारीं दिनानि सप्त त्रिगुणानि यावत्। अकाकघातव्रतमादधीत बलिं च दद्याद्बलिभोजनेभ्यः। स्नात्वा प्रभाते विदधीत शान्तिं दद्यात् स्वशक्त्या द्रविणं गुणिभ्यः। देशे तु यत्राद्भुतमेतदुग्रमालोक्यते तत्र समापतन्ति। अवृष्टिदुर्भिक्षभयोपसर्गचौराग्निशत्रूद्भवधर्म्मनाशाः। कर्म्मणि तस्योपशमाय राजा प्रवर्त्तयेत् शान्तिकपौष्टिकानि। अन्नाद्यगोभूमिवसूनि दद्यात् युद्धं विदध्यान्न च यावदव्दम्”। इति स्थानविशेषस्थितकाकचेष्टा शकु०। अथ काकध्वनिभेदश०। “ककामिति क्षेमविधो विरावः केकामितीष्टाशनपानहेतुः। करोति कूंकूमिति चार्थलाभं, क्कं क्कं ध्वनिः काञ्चनलाभमाह। केंकेमिति स्त्रीवरयोषिदाप्त्यै भोगाय कांकामिति शब्दतः स्यात्। अपत्यलाभः कुव इत्यनेन गन्तुः फलं केकव इत्यनेन। कौं कोमितीदं शुभलाभकारि कुंकुंनिनादः प्रियसङ्गमाय। क्रां क्रुमिति क्रामिति च त्रयोऽमी क्रां क्रामिति द्वौ च रवौ रणाय। क्रां क्रामिति क्रौ मिति च द्विरुक्तं क्रूं क्रूमिति क्रौ कुकु कू इतीदम्। रुतं प्रदिष्टं मरणाय नॄणां गन्तुः प्रणाशं कुरुते खगाख्यः। क्रीं क्रीमितीष्टार्थविना शनाय ज्वलज्वलेत्यग्निभयाय शब्दः। कीकीति कोका विति यः कथञ्चिन्मुहु र्मुहुः स्यात् स मतो बधाय स्यात् का इतीदं विफलं सदैव मित्राप्तये स्यात् क इती दृशञ्च। काका इतीदं तु विघातकारि करोति काको वदति स्वतुष्ट्यै। आहारदोषाय च काकटीति स्यादाकुलं कुक्कुनिभं रणाय। केके ध्वनिः काकुटि किं टिकीति त्रयं त्विदं स्यात् पुरदूषणाय। यत् का इति त्रिस्तदनुस्वरेण शब्दद्वयं स्यान्महते रणाय। कामित्ययं वाहननाशनञ्च ददाति हर्षं कुकुकुर्व्वितीदम्। यत्का इतीदं विरुतं सुदीर्घकृतस्वरेणोच्चरितम् प्रमादात्। उत्साहहीनः श्रमदैन्ययुक्तः स वायसः कार्य्यविनाशनाय। सामिषं वकवकेति भोजयेद्वारयेत् कलिकलीति वाशनम्। अभ्युपैति स्वररूक्षभाषिते प्रोषितः शवशवारवे शवः। स्यात् कलिः कवकवध्वनौ नृणां जायते कणकणाध्वनौ रणः। आव्रजेत् कुलुकुलुध्वनौ प्रियः सौदनं कटकटध्वनौ दधि। एवंप्रकारा बहवोऽपरेऽपि प्रशान्तदीप्ता बलिभोजनानाम्। भवन्ति शब्दाः खलु तेषु केचिदस्माभिरुक्ताः खलु लक्षणीयाः। इति काकध्वनिभेदशकुनम्। “हितं नरेभ्यो मुनिभिः पुराणैर्ज्ञानं यदुक्तं बलिपिण्डयुक्त्या। तदुच्यते संप्रति येन काका वदन्ति नित्यं बलिलाभतुष्टाः। अदक्षिणस्यां दिशि यत्र काकैर्युतो भवेत् क्षीरतरुः प्रभूतः। गत्वा निवृत्तेऽहनि तत्र काका निमं न्त्रणीया बलिपिण्डभोज्ये। प्रातस्ततः क्षीरतरोरधस्ताद्विशोध्य लिप्येत च गोमयेन। भूमिप्रदेशे चतुरस्रमस्य मध्येऽर्च्चयेत् ब्रह्ममुरारिभानून्। इन्द्राग्निवैवस्वतयातुधानजलेशवायुद्रविणेशशम्भून्। अभ्यर्च्चयेदष्टसु दिक्षु भक्त्या क्रमेण चाष्टावपि लोकपालान्। नमोयुतैः सप्रणवैश्च सर्व्वान्निजाभिधानैः प्रयतो मनुष्यः। अर्घासनालेपनपुष्पधूपनेवेद्यदीपाक्षतदक्षिणाभिः। आब्रह्म काकांस्तरुसन्नि विष्टानाध्याय तत्प्राक्तनमन्त्रयुक्त्या। तत स्तदर्थं बलिमाज्यसिक्तं मन्त्रेण दद्यात् दधिपिण्डयुक्तम्। “उदीर्य्यं कार्य्यं स्वमथावसृत्य ततः प्रदेशे करटस्य चेष्टाः। स्तब्धोकृताङ्गश्च शुभाशुभार्थं संलक्षयेन्निश्चलपाणिपादः। पूर्व्वेण स्वादन् सुखवित्तवृद्धिं करोति वह्ने र्दिशि वह्निभीतिम्। काकोऽथेनाशं दिशि दक्षिणस्यां नैरृत्यदिग्गोवरकृत्यदिष्टः। जलेशदेशेऽभिमतार्थसिद्धिर्वायोर्दिशीतिप्रभवाल्पवृष्टिः। सौम्ये सुखारोग्यसमीहितार्थमीशानदेशे वितरत्यभीष्टम्। बलौ विलुप्ते करटैः समन्तात् कार्य्ये विमिश्रं परिभावनीयम्। बलिंविकीर्य्यापि न भक्षयन्ति काकास्तदानीं भयदा भवन्ति। क्षीरद्रुमारामचतुष्पथेषु सरित्समीपे त्रिदशालयेषु। देयो बलिर्भूतदिनाष्टमी षुकुल्माषदध्योदनतण्डुलाद्यैः”। इति काकबलिदानशकु०। “पिण्डत्रयस्याथ विधानमेतदाख्या यते यत् किल नारदाद्यैः। दृष्टं मुनीन्द्रैरशुभशुभञ्च यथावदस्मिन् कथयन्ति काकाः। गत्वा शुभेऽह्नि प्रहरे चतुर्थे देशेषु पूर्व्वप्रतिपादितेषु। नरेण पिण्डत्रयभोजनार्थं काकाः प्रयत्नेन निमन्त्रणीयाः। ततः प्रभाते ह्युपलिप्य भूमिं तस्याञ्च पूर्व्वोदितमन्त्रयुक्त्या। ब्रह्माच्युतेशाप्पतिलोकपालाः काकाश्च पुंसां क्रमतोऽर्च्चनीयाः। दध्योदनाद्यर्विहितं निवेश्य पिण्डत्रये मण्डलकस्य मध्ये। अभ्यर्च्चयेदक्षतपुषधूपैर्मनोहरैर्यत्नपरो मनुष्यः। तेषु क्षिपेत् प्राग्दिगनुक्रमेण पिण्डेषु हेम प्रथमे, द्वितीये। रूप्यं, तथा लौहलवं तृतीये, शेषं च कुर्य्याद्वलिपिण्डतुल्यम्। त्रिःसप्तकृत्वो विनिवेशपिण्डे पिण्डा निवेश्या बलिभोजनेभ्यः। मन्त्रोक्तमावाहनतोषितेभ्यः कार्य्यं विचार्याऽपसरेत्ततश्च। काकेन भुक्ते ससुवर्णपिण्डे ज्ञेयं नरेणोत्तममात्मकार्य्यम्। भुक्ते सरूप्ये खलु मध्यमं स्याद्भुक्ते स लोहे त्वधमं प्रदिष्टम्। विवादबाणिज्यविवाहवृष्टिक्षेमाश्वचिन्ताकृषिभोगरोगाः। संग्रामसेवानृपकार्य्यदेशाः इत्यादयोऽस्मिन् परिभावनीयाः। चेष्टाः सुरामा विदधाति याति प्रदक्षिणं दक्षिणपक्षमुच्चैः। ग्रीवां तथोच्चां कुरुते सशब्दः स्थानं मनोज्ञं श्रयति द्रुमञ्च। एवविधां यो विदधाति चेष्टां पिण्डं समादाय शुभं खगोऽसौ। अभीष्टकार्य्यादधिकं करोति चेष्टाविपर्य्यासतयान्यथात्वम्। पिण्ड समादाय यदि प्रधानं शान्तां दिशं गच्छति काकपक्षी। पूर्णं फलं तत् कुरुते नराणां चिकीर्षिते वस्तुनि यत्र तत्र। काको गृहीत्वा यदि मुख्यपिण्डं प्रयाति दीप्तां ककुभं तदानीम्। अत्यत्तमं कार्य्यफलं प्रदर्श्य ततः समस्तं विनिहन्त्य- वश्यम्। द्वितीयकं यद्यपहृत्य पिण्डम् प्रडीयते शान्तदिगाश्रयेण। फलं तदानीं शुभदं नराणां याप्यं खगो जल्पति कार्य्यजातम्। काके समादाय जघन्यपिण्डं याते प्रदीप्तां ककुभं वदन्ति। कार्य्यं जघन्यादधिकं जघन्यं स्यान्मध्यमं मध्यमपिण्डभागे”। इति वलिदाने पिण्डत्रयशकुनम्। “महर्षयो वायसशाकुनस्य वदन्ति सारादपि सारमूतम्। पिण्डाष्टकं यत्तदशेषमेतदाख्यायते कार्य्यविनिश्चयार्थम्। शुभेऽह्नि काकानधिवास्य सायं पिण्डाष्टकं भोक्तुमथ प्रभाते। यत्काकभोग्यानि समस्तवस्तून्यादाय यायाद् बहिरप्रमत्तः। एकान्तदेशे तरुपार्श्वभूमौ मृद्गोमयाभ्यामुपलेपितायाम्। सत्पञ्चगव्येन समुक्षितायां सौम्योपहारैरुपशोभितायाम्। विधाय पूजां कुलदेवतानां मध्ये ततोऽष्टास्वपि दिक्षु देयम्। भक्तेन सर्पिर्दधिमिश्रितेन पिण्डाष्टकं प्राग्दिगनुक्रमेण। पक्षीन्द्रवह्न्यन्तकराक्षसेन्द्रान् विष्णुं विरिञ्चिं धनदं महेशम्। पूर्व्वादिकाष्ठाक्रमयोजितेषु न्यस्येत् क्रमादष्टसु पिण्डकेषु! नमोयुतैस्तान् प्रणवैश्च सर्व्वांस्ततोऽर्च्चयेत्तन्निजनामन्त्रैः। अर्घासनालेपनपुष्पधूपैर्नैवेद्यदीपाक्षतदक्षिणाभिः। अभ्यर्च्चितेभ्यो विधिनोदितेन पिण्डाष्टकं तत् वितरेत् द्विजेभ्यः। मन्त्रेण संमन्त्र्य निवेदनार्थं कार्य्यं विचिन्त्यापसरेच्च किञ्चित्। काकेन पिण्डे प्रथमे गृहीते तिष्ठन् प्रजन् वापि भवेत् कृतार्थः। उद्वेगशोकौ विफलं प्रयाणे, हानिः कलिर्व्वा भवति द्वितीये। याम्ये रुगापद्भयमृत्यवः स्युः पिण्डे चतुर्ये विजयो रणेषु। स्याद्वैष्णवेऽभीष्टमकष्टसाध्यं भवेत् प्रवासो विफलश्च षष्ठे। नास्तीह तन्निश्चयमेव कार्य्यं भुक्ते न यत् सिद्ध्यति सौम्यपिण्डे। सन्तापशौकौ विफला च यात्रा पिण्डेऽष्टमे वायसभक्षिते च। पिण्डं न गृह्णात्यथ वा न भुङ्क्ते चञ्चूनखैर्विक्षिपति द्विजो यः। कार्य्येषु सर्वेषु स न प्रशस्तो व्रवीति घोरं समरं स पुंसाम्

काकरुहा = स्त्री काकैव रोहति अन्तरीक्षे मूलशून्यतया जायते। (परगाछा) वन्दाकवृक्षे त्रिका०।

काकरूक = पु० कुत्सितं करोति कृ–ऊक कोः कादेशः। १ स्त्रीजिते स्त्रीजितस्य स्त्रीमतानुसारेण कुत्सितकरणात्तथात्वम्। २ निर्द्धने ३ दिगम्बरे ४ भीरौ च त्रि०। तेषा कुत्सिताचरणात् तथात्वम्। करणे ऊक। ५ दम्भे पु०। दम्भेन धर्माचरणस्य कुत्सितत्वात् तस्य तथात्वम्। काकेन लूयते लू–छिदि कर्मणि क्विप् लस्य रः संज्ञायां कन्। ६ पेचके पुंस्त्री हेमच०। तस्य काकच्छेद्यत्वात्तथात्वम्। स्त्रियां जातित्वात् ङीष्।

काकल = न० ईषत् कलो यस्मात् कोः कादेशः। १ ग्रीवास्थे उन्नतप्रदेशे (टु~टि) त्रिका०। ततो वा कप्। तत्रार्थे पु० हेमच०। “एकः काकलके नासायाञ्च” इति शरीरस्थसन्धिकथने “एकैका काकलकगलयोः” इति पेशीसंख्यानोक्तौ च सुश्रु० केति कलो यस्य। २ द्रोणकाके पुं स्त्री शब्दर० स्त्रियां ङीष्। ईषत् कं जलं लाति ला–क संज्ञायां कन्। षष्टिकधान्यभेदे तस्येषज्जलनिष्पन्नत्वात्तथात्वम्। “षष्टिककङ्गुकमुकन्दकपीतकप्रमोदककाकलकासनपुष्पकमहाषष्टिकचूर्णककुरवककेदारकप्रभृतयः षष्टिकाः” सुश्रु०। “गर्भस्था एव ये पाकं यान्ति ते षष्टिका मताः”। भावप्रका० षष्टिकलक्षणमुक्त्वा तद्गुणा दर्शिता यथा– “षष्टिकाः मधुराः शीताः लघवो बद्धवर्चसः। वातपित्तप्रशमनाः शालिभिः सदृशा गुणैः” इति एवं सुश्रुतेऽपि।

काकलि(ली) = स्त्री कल–इन् ईषत् कलिः कोः कादेशः। कृदिकारान्तत्वात् वा ङीप्। सूक्ष्ममधुरास्फुटध्वनौ अमरः “सहकारकिसलयमकरन्दास्वादनरक्तकण्ठानां मधुकरकलकण्ठानां काकलीकलकलेन” दशकु०। “उन्मीलन्मधुगन्धल्ब्धमधुपव्याधूतचूताङ्कुरक्रीडकोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः” सा० द०। काकलं गलस्थोन्नतप्रदेशाकारः अस्त्यस्य अच् गोरा० ङीष्। काकलाकारे२ स्तेयसाधने पदार्थे “फणिमुखकाकलीसंदशकपुरुषशीर्षकयोगचूर्ण्णयोगवर्त्तिकामानसूत्रकर्कटकरज्जुदीपभाजनभ्रमरकरभकप्रभृत्यनेकोपकरणयुक्तोगत्वा कस्यचिल्लुव्धेश्वरस्य गृहे सन्धिं छित्त्वा” दशकु०। काकं काकवर्ण्णमर्धफले लाति ला–क गौरा० ङीष्। ३ गुञ्जायाम्। “काकलीमूलं गुञ्जामूलम्” ज्यो० त० रघु०।

काकलीद्राक्षा = स्त्री काकलीव सूक्ष्मा द्राक्षा। अवीजायाम् क्षुद्रद्राक्षायाम्(किस् मिस्)राजनि०। “अवीजान्या स्वल्पत्रा गोस्तनीसदृशैर्गुणैः” भावप्र०। गोस्तनीअब्दे तद्गुणा दृश्याः

काकलीरव = पुंस्त्री काकली मधुराव्यक्ती रवो यस्य। १ कोकिले राजनि० स्त्रियां जातित्वात् ङीष्। कर्म०। २ काकलीरूपे रवे पु०। काकलीकलादयोऽप्यत्र।

काकवल्लभा = स्त्री ६ त०। काकजम्बुके राजनि०।

काकवल्लरी = स्त्री काकप्रिया वल्लरी शाक० त०। स्वर्ण्णवल्ल्याम् राजनि०

काकशिम्यी = स्त्री काकप्रिया शिम्बी। काकतुण्ड्याम् राजनि०

काकशीर्ष = पु० काकः शीर्षेऽग्रेऽस्याः। वकवृक्षे जटाधरः। काकस्य तदग्रे वासयोग्यत्वात्तस्य तथात्वम्।

काकस्त्री = च० काकस्य स्त्रीव नाम्यत्वात्। वकवृक्षे शब्दचि०।

काकस्फूर्ज = पु० काकः स्फूर्जत्यत्र स्फूर्ज–आधारे घञ्। काकतिन्दुके राजनि०।

काका = स्त्री ईषत् कं जलमत्र, काकः काकाकारोऽस्त्यस्य अच् वा। १ काकनासावृक्षे २ काकोल्यां ३ काकजङ्घायाम् ४ गुञ्जायां ५ मलप्वाम् (काकीदुम्बरिकायाम्) ६ काकमाच्याञ्च मेदि०।

काकाक्षिगोलकन्याय = पु० काकस्याक्षिगोलकमिव न्यायः। काकस्य एकं चक्षुर्यथा उभयगोलके पर्य्यायेण चक्षुः कार्य्यकारकमेवमेकस्योभयसंबन्धज्ञापके न्याये।

काकाङ्गी = स्त्री काकस्याङ्गं जङ्घेवाकारोऽस्याः वा ङीष्। काकजङ्घावृक्षे अमरः। पक्षे टाप् काकाङ्गा तत्रार्थे रमानाथः।

काकाञ्ची = स्त्री काकं तज्जङ्घाकारमञ्चति गच्छति अन्चगतौ अण् गौरा० ङीष्, पा०, मुग्ध० षण् ईप्। काकजङ्घावृक्षे शब्दरत्ना०।

काकाण्ड = पु० काक्या अण्ड इव फलं यस्याः पुंवत्। १ महानिम्बे तस्य गुणादि सुश्रुतेनोक्तं यथा “माषैः समानं फलमात्मगुप्तमुक्तञ्च काकाण्डफलं तथैव”। २ कोलशिम्ब्याम् स्त्री गौरा० ङीष् तदन्तः ३ महाज्योतिष्मत्यां राजनि०। ६ त०। ४ काक्याअण्डे पुंन०।

काकाण्डोला = स्त्री काकाण्डस्य तुला उपमा फले यत्र पृषो० तलोपः। कोलशिम्ब्याम् राजनि०।

काकादनी = स्त्री काकैरद्यतेऽसौ अद–कर्म्मणि ल्युट् ६ त० ङीप् १ गुञ्जायाम् शब्दर०। २ श्वेतगुञ्जायाम् राजनि० ३ कुलिकवृक्षे (कुलियाखाडा) वृक्षे रत्नमा०। “मद्येनाश्वमारकगुञ्जाकाकादनीमूलकल्कनं पाययेत्” सश्रु० इयञ्च सुश्रुते “कालेयकागुरुतिलपर्ण्णीत्याद्युपक्रमे” “सुमनः काकादनीलाङ्गलीत्यादिना” “समासेन श्लेष्मसंशमनो वर्गः” इति श्लेष्मशमनतयोक्ता।

काकायु = पु० काकस्यायुर्यस्मात्। स्वर्णबल्लीवृक्षे शब्दचि०।

काकार = त्रि० कं जलमाकिरति आ + कॄ–अण्। जलस्रायिणि। स्त्रियां टाप् मुग्ध० षण् ईप् इति भेदः।

काकारि = पु० काकोऽरिरस्य। पेचके। हेमच०।

काकाल = पुंस्त्री केति शब्दं कलते रौति कल–अण्। द्रोणकाके शब्दरत्नमा० स्त्रियां जातित्वात् ङीष्।

काकि = पुं स्त्री काकस्यापत्यम् वा इञ्। काकापत्ये स्त्रियां ङीप्। पक्षे वाकिना० फिञ् कुक् च। काककायनि तदर्थे पुं स्त्री। स्त्रियां ङीप्।

काकिणी = स्त्री “काकिणी च चतुर्भागो माषकस्य पणस्य च” शु० त० नारदोक्ते १ माषकचतुर्थभागे २ पणचतुर्थभागे च। “वराटकानां दशकद्वयं यत् सा काकिनी(णी)ताश्च पणश्चतस्रः” इति लीला०। “तस्मात् पणं काकिणीं वा फलं पुष्पमथापि वा। प्रदद्यात् दक्षिणां यज्ञे यया स सफलो भवेत्” शु० त० वृह०। स्वार्थे कन्। काकिणिका तत्रार्थे “क्कचिच्छिल्पिव्यवहारेण यत्किञ्चिद्धनमनेभ्यो वा काकिणिकामात्रम्” भाग० १, १४, २।

काकिनी = स्त्री १ पणपादे २ मानपादे ३ वराटके च मेदि०। मानपादः निवर्त्त नपाद इति केचित् (चारिकाठा) माषपाद इत्येवः पाठो न्याय्यः काकिणीशब्ददर्शितनारदवाक्यैकवाक्यत्वात्

काकिल = पु० ईषत् किरति कॄ–क कोः कादेशः रस्य लः। गलस्थोन्नतदेशे (टुंटि) शब्दमा०।

काकी = स्त्री काक + जातित्वात् स्त्रियां ङीष्। १ काकयोषिति काकवर्ण्णत्वात् २ वायसीलतायाम् ३ काकोल्याञ्च शब्दचि०

काकु = स्त्री कक–उण्। १ शोकभीत्यादिभिर्ध्वनेर्विकारे, अलङ्कारप्रसिद्धे २ विरुद्धार्थकल्पके नञादौ शब्देच। “कामेकान्ते सा रसिका काकुरुतेन” सा० द०। “प्रणिजगदुरकाकु श्रावकाःस्निग्धकण्ठाः” माघः। सा० द० “वक्तृबोद्धव्य वाक्यानामन्यसन्निधिवाच्ययोः। प्रस्तावदेशकालानां काको श्चेष्टादिकस्य च। वैशिष्ट्यादन्यमर्थं या बोधयेत् साऽर्थसम्भवा” इति व्यञ्जनाहेतून् निर्द्दिश्य “भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते” काकुं लक्षयित्वा उदा० “गुरुपरतन्त्रतया वत दूरतरं देशमुद्यतो गन्तुम्। अलिकुलकोकिलललितैर्नैष्यति सखि! सुरभिसमयेऽसौ” नैष्यति अपि तर्हि ऐष्यत्येवेति काक्वा व्यज्यते” इत्युक्तम्।

काकुत्स्थ = पुंस्त्री ककुत्स्थस्यनृपस्यापत्यं शिवा० अण्। ककुत्स्थवंश्ये स्त्रियां ङीप्। कुकुत्स्थशब्दे विवृतिः “काकुत्स्थमालोकयतां नृपाणाम्” “तं विनिष्पिष्य काकुस्थो पुरा दूषयति स्थलोम्” “असज्जनेन काकुत्स्थःप्रयुक्तमथ दूषणम्” रघुः। “काकुत्स्थ ईषत्स्मयमान आस्त” भट्टिः

काकुद = न० काकुं ददाति दा–क उप० स०। तालुनि अमरः तालुना काकूच्चारणात् तस्य तथात्वम् “उद्विम्यां काकुदस्य” प्रा० बहु० अस्यान्त्यलोपः “उत्काकुत्० विकाकुत्” सि० कौ० “पूर्ण्णाद्विभाषा” पा० बहुव्रीहौ वाऽन्त्यलोपः। पूर्ण्णकाकुत् पूर्ण्णकाकुदः।

काकुभ = त्रि० ककुभ इदं उत्सा० अञ्। १ ककुप्छन्दस्के प्रगाथादौ। २ दिक्सम्बन्धिनि च स्त्रियां ङीप्। ककुभोऽपत्यम् शिवा० अण्। तदपत्ये पुं स्त्री स्त्रियां ङीप्।

काकेक्षु = पु० काकमीषज्जलमत्र कोः कादेशः कर्म्मधा०। (नलखाग्डा) १ तृणभेदे त्रिका० २ काशभेदे राजनि०।

काकेन्दु = पु० काकस्य इन्दुरिवाह्लादकत्वात् काकस्य प्रियस्तिन्दुः पृषो० बा। (माकडाकेन्दु) कुलिकवृक्षे अमरः।

काकेष्ट = पु० ६ त०। निम्बवृक्षे राजनि०।

काकोचिक = पु० ईषत् कोचो सङ्कोची कुच–णिनि स्वार्थे कन् (कु~चे) मत्स्यभेदे कनभावे काकोचिन् इत्यपि तत्र हारा० पु०। हारावल्यां “काकोचिकस्तु काकोचीत्यत्र पुंसाहचर्य्यात् पुंस्त्वमेव न्याय्यम्। ईकारान्तत्वभ्रमेण शब्दकल्पद्रुमे स्त्रीत्वोक्तिः प्रामादिकी।

काकोडु(दु)म्बर = पु० काकमीषज्जलमत्र कर्म्म० काकस्य प्रियौदु(डु)म्बरो वा। (कोटाडुमर) ६ उ(दु)डुम्बरभेदे शब्दरत्ना०। स्वार्थे कन् अत इत्त्वम् स्वार्थिकप्रत्ययस्य प्रकृतिलिङ्गव्यतिक्रमः। काकोडु(दु)म्बरिकाप्यत्र स्त्री अमरः। “तत्र दद्यात् प्रतीवापं काकोडु(दु)म्बरिकारसम्” “काकोडु(दु)म्बरिकागोजीपत्रैर्विंस्रावयेदसृक्” सुश्रु०। काकोदु(डु)म्बरिका फल्गुर्मलपूर्जघनेफला” मलपूस्तम्भकृत् तिक्ता शीतला तुवरा जयेत्। कफपित्त व्रणश्वित्रकुष्ठपाण्ड्वर्शःकामलाः” इति भावप्र० तद्गुणपर्य्यायोक्तिः।

काकोदर = पुंस्त्री कुत्सितं कुटिलमकति अक–वक्रगतौ अच् कोः कादेशः काकमुदरं यस्य। १ सर्पे अमरः स्त्रियां जातित्वात् ङीष् तस्य उरसा कुटिलगामित्वात्तथात्वम् “काकोदरोयेन विनीतदर्पः” राघवपाण्डवीयम्।

काकोल = पु० काकयति लोलयति कक–लौल्ये णिच्बा० ओल काकेन उल्लाय अद्यतेऽत्र उद् + लाघञर्थे आधारे क पृषो० वा। १ नरकभेदे “महा नरककाकोलम् संजीवनमहायसम्” नरकभेदकीर्त्तने मनुः, काकोलं यत्र काकैर्भक्ष्यते” प्रा० वि०। कं जलमाकोलति आ + कुल–सं स्त्याने अण् उप० स०। २ कुम्भकारे तस्य घटनिर्म्माणेन जलसंस्त्यानकरणात्तथात्वम्। कक–लौल्ये स्वार्थे णिच् बा० ओल। ३ द्रोणकाके पुंस्त्री मेदि० स्त्रियां जातित्वात् ङीष्। “वकञ्चैव बलाकाञ्च काकोलं खञ्जरीटकम्” अभक्ष्यमांसोक्तौ मनुः। “कलविङ्कं सकाकोलं कुररं रज्जुदानकम्” अभक्ष्यमांसोक्तौ याज्ञ०। ईषत् कोलति कुल–स्त्याने करणे घञ् कोः कादेशः। “काकोलमुग्रतेजः स्यात् कृष्णच्छवि महाविषम्” वैद्यकोक्तलक्षणे ४ विषभेदे अमरः ५ सर्पे ६ शूकरभेदे पुंस्त्री शब्दरत्ना० स्त्रियां जातित्वात् ङीष्। काकोलीनामोषधौ पु० धरणी।

काकोली = स्त्री काकोल + गौरा० ङीष्। “जीवकर्षभकौ मेदे काकोल्यौ ऋद्धिवृद्धिके। अष्टवर्गोऽष्टभिर्द्रव्यैः कथितश्चरकादिभिः” इति भावप्रकाशीक्ताष्टवर्गान्तर्गते लताभेदे तद्भेदलक्षणगुणादिकं भावप्र० उक्तं यथा “जायते क्षीरकाकोली महामेदोद्भवस्थले। यत्र स्यात् क्षीरकाकोली काकोली तत्र जायते। पीवरीसदृशः कन्दः क्षीरं स्रवति गन्धवान्। सा प्रोक्ता क्षीरकाकोली काकोल्यपि तथा भवेत्। एषा किञ्चिद्भवेत् कृष्णा भेदोऽयमुभयोरपि। काकोली वायसोली च वीरा कायस्थिका तथा। सा शुक्ला क्षीरकाकोली वयस्था क्षीरवल्लिका। कथिता क्षीरिणी धारा क्षीरशुक्ला पयस्विनी। काकोलीयुगलं शीतं शुक्रलं मधुरं गुरु वृहणं वातदाहास्रपित्तशोषज्वरापहम्”। “सोमामृताश्वगन्धासु काकोल्यादौ गणे तथा। क्षीरिप्ररोहेष्वपि च वर्त्तयोरोपणाः स्मृताः”। “समङ्गा सोमसरला सोमवल्का सचन्दना। काकोल्यादिश्च कल्कःस्यात् प्रशस्तोव्रणरोपणे”। “पृश्निपर्ण्यात्मगुप्ता च हरिद्रे मालती सिता। काकोल्यादिश्च योज्यःस्यात् प्रशस्तोरोपणे घृते” इति च सुश्रु०।

काकोलूक = न० काकश्च उलूकश्च शाश्वतिकविरोधित्वात् समाहारद्वन्द्वः। काकोलूकसमाहारे ततः वैरे वुञ्। काकोलूकिका तयोर्वैरे स्त्री। काकोलूकमधिकृत्य कृतोग्रन्थः “द्वन्द्वाच्छः” पा० काकोलूकीय तयोराख्याने तच्च भा० सौ० १ अ० स्थितं यथा-

“सुप्तेषु तेषु काकेषु विश्रब्धेषु समन्ततः। सोऽपश्यत् सहसायान्तमूलूकं घोरदर्शनम्। महास्वनं महाकाय हर्य्यक्षं वभ्रुपिङ्गलम्। सुदीर्घघोणानखरं सुपर्णमिव वेगितम्। सोऽथ शब्दं मृदुं कृत्वा र्लायमान इवाण्डजः। न्यग्रोधस्य ततः शाखां प्रार्थयामास भारत सन्निपत्ग तु शाखायां न्यग्नोघस्य विहङ्गमः। सुप्तान् जघान सुबहून् बायसान् वायमान्तकः। केषाञ्चिदच्छिनत् पक्षाञ्छिरांसि च चकर्त्त ह। चरणांश्चैव केषाञ्चिद्बभञ्ज चर- णायुधः। क्षणेनाहत्य बलवान् येऽस्य दृष्टिपथे स्थिताः। तेषां शरीरावयवैः शरीरैश्च विशाम्पते!। न्यग्रोधमण्डलं सर्वं सञ्छन्नं सर्वतोऽभवत्। तांस्तु हत्वा ततः काकान् कौशिकोमुदितोऽभवत्। प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदन!”।

काकोल्यादि = पु० सुश्रुतोक्ते काकोलीप्रभृतौ ओषधिगणे स च गणः “काकोलीक्षीरकाकोलीजीवकर्षभकमुद्गपर्णीमासपर्णीभेदामहामेदाछिन्नरुहाकर्कटशृङ्गीतुगाक्षीरीपद्मकप्रपौण्डरीकर्द्धिवृद्धिमृद्वीकाजीवन्त्यो मधुकञ्चेति” “काकोल्यादिरयं पित्तशोणितानिलनाशनः जीवनो वृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा”।

काकोष्ठक = पु० काकस्योष्ठ इव कायति कै–क। सुश्रुतोक्ते कर्ण्णबन्धाकृतिभेदे “तत्र समासेन पञ्चदश कर्ण्णबन्धाकृतयः” इत्युपक्रमे। नेमिसन्धानक इत्यादिना “षष्टिकर्ण्णकाकोष्ठक” इत्यन्तेन विभज्य “निर्माससंक्षिप्ताल्पशोणितपालिः काकोष्ठकपालिरिति” सुश्रु० लक्षितम्।

काक्ष = काङ्क्षणे इदित् भ्वा० सक० सेट्। काड्क्षति अकाङ्क्षीत् चकाङ्क्ष काङ्क्षा प्रनिकाङ्क्षति। “न शोचति न काङ्क्षति” गीता “काङ्क्षन्नु गतिमुत्तमाम्” मनुः। अस्यात्मनेपदित्वमिच्छन्ति। “न काङ्क्षे विजयं कृष्ण!” गीता “काङ्क्षावहे द्वारपतेस्तवाज्ञाम्” भा० व० १०६२३। “नाहं भूयो वरं काङ्क्षे” भा० अनु० ७६९ भा० स० २१३५।अनु + आनुलोम्येन प्रार्थने। “अतः प्रियंचेदनुकाङ्क्षसे त्वम्”अभि + आभिमुख्येन प्रार्थने “अत्यर्थमभिकाङ्क्षामि मृगयां सरयूवने” रामा०।आ + सम्यक्प्रार्थने रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षदुदयं रवेः” रामा०। “धीरेव कन्या पितुराचकाङ्क्ष” रघुः। “आकाङ्क्षेयं तनुगुरुतया नैव गन्तुं समर्था” पदाङ्कदूतम्।प्रति + आ प्रत्याशायाम। “इहैव फलमासीनः प्रत्याकाङ्क्षत सर्वगम्” भा० शा० ४८७।प्रति + प्रतिरूपतयाभिलाषे। “त्वामेघ प्रतिकाङ्क्षन्त पर्जन्यमिव कर्षकाः” रामा०।

काक्ष = पु० कुत्सितमक्षमत्र “का प्रथ्यक्षया प्रा० कोः कादेशः। कटाक्षे त्रिका०। “आज्ञालाभोन्म खोदूरात् काक्षेणानादरेक्षितः” भट्टिः।

का(च्छी)क्षी = स्त्री कक्षे(च्छे) भवः अण् ङीप्। १ तुवरिकायाम् (अरहर) २ सौराष्ट्रतृत्तिकायाञ्च मेदि०। ३ कक्ष(च्छ) भवमात्रे त्रि०।

काक्षीव = पु० ईषत् क्षीवयति क्षीव–णिच्–अच् कोः कादेशः। १ शोभाञ्जनवृक्ष अमरः २ गौतमात् शूद्रायामौशीनर्य्यां जाते पुत्रप्नेदे। “शूद्रायां गौतमो यत्र महात्मा संशितव्रतः। औशोनर्य्यामजनयत् काक्षीवाद्यान् मुतान् मुनिः” भा० स० २० अ० मगधदेशवर्ण्णने। ण्वुल्। काक्षीवकोऽपि शोभाञ्जनवृक्षे पु० शब्दच०।

काक्षीवत् = पु० दीर्घतमस ऋषेः शूद्रायामुत्पन्ने पुत्रभेदे तदुत्पत्तिकथा “गोतमादिभिः पुत्रैर्बद्ध्वा उडुपेन गङ्गाम्भसि निःक्षिपं दोर्घमसमुपक्रम्य” भा० आ० १०४ अ० उक्ता यथा। तन्तु राजा बलिर्न्नाम सर्व्वधर्म्मविशारदः। अपश्यन्मज्जनगतः स्रोतसाभ्यासमागतम्। जग्राह चैनं धर्म्मात्मा बलिः सत्यपराक्रमः। ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थे भरतर्षभ!। सन्तानार्थं महाभाग! भार्य्यासु मम मानद!। पुत्त्रान् धर्म्मार्थकुशलानुत्पादयितुमर्हसि। एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः। तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा। अन्धं वृद्धञ्च तं मत्वा न सा देवो जगाम ह। स्वान्तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा। तस्यां काक्षीवदादीन् स शूद्रयोनावृषिर्व्वशी। जनयामास धर्म्मात्मा पुत्त्रानेकादशैव तु। काक्षीवदादीन् पुत्रांस्तान् दृष्ट्वा मर्व्वानधीयतः। उवाच तमूषिं राजा ममेम इति भारत। नेत्युवाच महर्षिस्तं ममेम इति चाब्रवीत्। शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः। अन्धं वृद्धञ्च मां दृष्ट्वा सुदेष्णा महिषीतव। अवमन्य ददौ मूढा शूद्रां धात्रेयिकां मम”। ३ चण्डकौशिकपितरि गौतमे मुनिभेदे। “अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः। सुश्राव तपसि श्रान्तमुदारं चण्डकौशिकम्” भा० स० १६ अ०। “काक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतम” ४ अ०। अत्र पृथग्निर्द्देशात् काक्षीवतोऽन्य एव गौतमः “ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप। उपस्पृश्य ततस्तत्र काक्षोवानिवमोदते” भा० व० ८४ अ०। “काक्षोवान गौतमोऽआत्रश्च” माग० २, ९, ५। ४ राजभेदे च। “सुहोत्र रान्तदवञ्च काक्षीवन्तं महाद्युतिम्” भा० आ० १ अ० चतुर्विशतिविख्यातनृपकथंने।

काक्षीवत = पुं स्त्री कक्षावतीमुनेरपत्यम् अण् तस्येदसित्यण् वा १ कलीवटपत्ये २ ततसम्बन्धिनि च स्त्रियां ङीप्। सा च व्युषिताश्वस्य। भदाख्यायां भार्य्यायां तदितिवृत्त भा० आ० १२१ अ० यथा- “आसीत् काक्षीवती चास्य भार्य्या परमसम्मता। भद्रा नाम मनुष्येन्द्र! रूपेणासदृशी भुवि। कामयामासतुस्तौ च परस्परमिति श्रुतम्। स तस्यां कामसम्पन्नो यक्ष्मणा समपद्यत। तेनाचिरेण कालेन जगामास्तमिवांशुमान्। तस्मिन् प्रेते मनुष्येन्द्रे भार्य्यास्य भृशदुखिता। अपुत्रा पुरुषव्याघ्र! विललापेति नः श्रुतम्। भद्रा परमदुःखार्त्ता तन्निबोध जनाधिप!। भद्रोवाच। नारी परमधर्म्मज्ञ! सर्व्वा भर्त्तृविनाकृता। पतिं विना जीवति या न सा जीवति दुःखिता। पतिं विना मृतं श्रेयो नार्य्याः क्षत्रियपुङ्गव!। त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम्। त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे। प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम्। पृष्ठतोऽनुगमिष्यामि समेषु, विषमेषु च। त्वामहं नरशार्द्दूल! गच्छन्तमनिवर्त्तिनम्। छायेवानुगता राजन्! सततं वशवर्त्तिनी। भविष्यामि नरव्याघ्र! नित्यं प्रियहिते रता। अद्यप्रभृति मां राजन्! कष्टा हृदयशोषणाः। आधयोऽभिभविष्यन्ति त्वामृते पुष्करेक्षण!। अभाग्यया मया नूनं वियुक्ताः सहचारिणः। तेन मे विप्रयोगोऽयमुपपन्नस्त्वया सह। विप्रयुक्ता तु या पत्या मुहूर्त्तमपि जीवति। दुःखं जीवति सा पापा नरकस्थेव पार्थिव!। संयुक्ता विप्रयुक्ताश्च पूर्व्वदेहे कृता मया। तदिदं कर्म्मभिः पापैः पूर्व्वदेहेषु सञ्चितम्। दुःखं मामनुसम्प्राप्तं राजंस्त्वद्विप्रयोगजम्। अद्यप्रभृत्यहं राजन्! कुशसंस्तरशायिनी। भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा। दर्शयस्व नरव्याघ्र! शाधि मामसुखान्विताम्। कृपणां नाथ! कृपणं विलतषन्तीं नरेश्वर!। कुन्त्युवाच। एवं बहुबिधं तस्यां विलपन्त्यां पुनः पुनः। त शवं संपरिषूज्य वाक्किलान्तर्हिताऽब्रवीत्। उत्तिष्ठ भद्रे! गच्छ त्वं ददानीह वरं तव। जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि!। आत्मकीये वरारोहे! शयनीये चतुर्द्दशीम्। अष्टमीं वाप्यृतौ स्नाता संविशेथा मया सह। एवमुक्ता तु सा देवो तथा चके पतिब्रता। वथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा। सा तेन सुषुवे देवी शवेन भरतर्वभ। त्रीन् शालाश्चतुरो सद्रान सुतान् भरत सत्तम!”

काग = पुं स्त्री केति शब्दं गायति गे–क। काके जटा०। स्त्रियां जातित्वात् ङीष्।

कागद = न० कागःकाकवर्ण्णोमस्यादिर्दीयतेऽत्र दा–धञर्थे,क कागेन कागवर्णेन मस्यादिना दायति शुध्यति वा दै–शोधे क वा। लेखनाधारे पत्रभेदेतप्प ष्प्पवर्ण्णमस्यादिदानाधारत्वात् तेन शुद्धत्वाच्च तथात्वम्। “भूर्जे वा वसने रक्ते क्षौमे वा तालपत्रके। कागदे वाऽष्टगन्धेन पञ्चगन्धेन वा पुनः। त्रिगन्धेनैकगन्धेन विलिख्य धारयेन्नरः” मन्त्रकल्पद्रुमे हनुम्त्कवचम्।

काग्नि = पु० ईषदग्निः कोः कादेशः। ईषदग्नौ मुग्ध०।

काङ्क्षा = स्त्री काक्षि–भावे अ। अभिलाषे “उद्गारशुद्धावपि भक्त काङ्क्षा” सुश्रु०।

काङ्क्षिन् = त्रि० काक्षि–णिनि। अभिलाषिणि “देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः” गीता स्त्रियां ङीप्। तदाश्वसिहि भद्रं ते भव त्वं कालकोङ्क्षिणी” रामा०।

काङ्गा = स्त्री कुत्सिकमङ्गमस्याः। वराटिकायाम् शब्दच०।

***