कल्य = न० कलयति चेष्टामत्र अघ्न्या० यक्, कल्यते कल–गतौ कर्म्मणि यत्, कलासु साधु यत् वा। १ प्रत्यूषे अमरः २ मधुनि हेमच०। ३ निरामये “यावदेव भवेत् कल्यस्तावत् श्रेयः समाचरेत्” मा० स० ५५ अ०। ४ सज्जे समर्थे उद्युक्ते च त्रि० अमरः “कथयस्व कथामेतां कल्याः स्म श्रवणे तव” भा० आ० ५ अ०। “लब्ध्वा रथं धनुश्चैव तथाऽक्षय्येमहेषुधीः। बभूव कल्यः कौन्तेयः प्रहृष्टः सह्यकर्म्मणि” भा० आ० २२५ अ०। “कल्यौ स्वोभगवन् योद्धुमपि सर्व्वैः सुरासुरैः” भा० आ० २२५ अ०। ५ वाक्श्रुतिवर्जिते(काला वोवा) ६ उपायवचने कल्याणवचने च त्रि० मेदि०। ६ सुरायां स्त्रो मेदि० ७ शुभात्मिकायां वाण्यां स्त्री अमरः ८ हरीतक्यां स्त्री शब्दर०।

कल्यजग्धि = स्त्री अद–क्तिन् कल्ये प्रातर्ज्जग्धिः। १ प्रातर्भोजने उपचारात् २ तत्कालभक्ष्ये जटाधरः कल्याशादयोऽप्यत्र

कल्यपाल = पु० कल्यं मधु मद्यं पालयति पाल–अण् उप० स०। शौण्डिके हेमच०। ण्वुल् कल्यपालकोऽपि तत्रार्थे शब्दमा०।

कल्यवर्त्त = पु० कल्ये प्रातर्वर्त्त्यतेर्वृत–णिच् कर्म्मणि अच्। प्रातर्भोजने, त्रिका०

कल्याण = न० कल्ये प्रातः अण्यते शब्द्यते अण–घञ्। १ हेम्नि, मेदि० २ मङ्गले। अभिप्रेतार्थसिद्धिर्मङ्गलम् “यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम्” “पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः” मनुः। “तद्रक्ष कल्याणपरम्पराणाम्” “अन्वमीयत कल्याणं तस्या विच्छिन्नसन्ततिः” रघुः तद्धेतुरपि शङ्खादिकं मङ्गलम्। “कल्याणानां त्वमसि महसां भाजनं विश्वमूर्त्ते!” मालतीमा०। ३ शुभयुक्ते त्रि० अमरः। “कल्याणपञ्चमा रात्रयः कल्याणपञ्चमीकः पक्षः” सि० कौ० “उदगयने आपूर्ब्बमाणे पक्षे कल्याणे नक्षत्रे चौलोपनयनगोदानविवाहाः” आश्व० गृ० १, ४, १, “प्रातिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजेः” मनुः। स्त्रियां बह्वा० वा ङीष्। “उपस्थितेयं कल्याणी नाम्नि कीर्त्तित एव यत्” रघुः। “उपो पविष्टः कल्याणीः कथाश्चक्रे मनोरमाः” भा० व० १२४ “उवाच चैनं कल्याण्या वाचा नधुरयोर्जितम्” भा० आ० १७३ अ०। ङीबन्तः ३ माषपर्ण्ण्याम् ४ गवि च राजनि०

कल्याणकगुड = पु० मुश्रुतोक्ते द्रव्यविशेषसंयुक्ततया पक्वे गुड भेदे। यथा “प्रस्थत्रयेणामलकीरसस्य शुद्धस्य दत्त्वार्द्धतुला गुडस्य। चूर्ण्णीकृतैर्ग्रन्थिकचव्यजीरव्योषेभकृष्णाहवुषाऽजमोदैः। विडङ्गसिन्धु त्रिफलायमानीपाठाग्निधान्यैश्च पिचुप्रमाणैः। दत्त्वा त्रिवृच्चूर्ण्णफलानि चाष्टावष्टौ क्ष तैलस्य पचेत् यथावत्। तं भक्षयेदक्षफलप्रमाणं यथेष्टचेष्टं त्रिसुगन्धियुक्तम्। अनेन सर्व्वे ग्रहणीविकाराः। सश्वासकासस्वरभेदशोषाः। शाम्यन्ति, चायं चिरमन्तरग्नेर्हतस्य पुंस्त्वस्य च वृद्धिहेतुः। स्त्रीणां च बन्ध्यामयनाशनः स्यात् कंल्याणको नाम गुडः प्रतीतः”।

कल्याणकघृत = न० सुश्रुतोक्ते ओषधिभेदयुक्तघृतभेदे यथा– “विडङ्गत्रिफलामुस्तामञ्जिष्ठादाडिमोत्पलैः। पियङ्ग्वेलैलबालूकचन्दनामरटारुभिः। वर्हिष्ठकुष्ठरजनीपर्णिनीसारिवाद्वयैः। हरेणुकात्रिवृद्दन्तीवचातालीशकेसरैः। द्विक्षीरं विपचेत्सर्प्पिर्मालतीकुसुमैः सह। विषमज्वरकश्वासगुल्मोन्मादगरापहम्। एतत्कल्याणकं नाम सर्पिर्माङ्गल्यमुत्तमम्। अलक्ष्मीग्रहरक्षोऽग्निमान्द्यापस्मारतापनुत्। शस्यते नष्टशुक्राणां बन्ध्यानां गर्भदं परम्। मेध्यञ्चक्षु- ष्यमायुष्यं रेतोमार्गरुजापहम्। एतैरेव यथाद्रव्यैः सर्व्वगन्धैश्च साधितम्। कपिलाया घृतप्रस्थं सुवर्णमणिसंयुतम्। तत्क्षीरेण सहैकध्यं प्रसाध्य कुसुमैरिमैः। सुमनश्चम्पकाशोकशिरीषकुसुमैर्घृतम्। तथा नलदपद्मानां केशरैर्दाडिमस्य च। तिथौ प्रशस्ते नक्षत्रे साधकस्यातुरस्य च। कृतं मनुष्यदेवाय ब्राह्मणैरभिमन्त्रितम्। दत्तं सर्व्वज्वरान् हन्ति महाकल्याणकं घृतम्। दर्शनस्पर्शनाभ्यान्तु मर्व्वरोगहरं शिवम्। अधृष्यः सर्व्वभूतानां वलीपलितवर्ज्जितः। अस्याभ्यासाद्घृतस्येह जीवेद्वर्षशतत्रयम्”।

कल्याणकलवण = न० सुश्रुतोक्ते औषधभेदयुक्ते लवणभेदे यथा “गण्डीरपलाशकुटजविल्वार्कस्नुह्यपामार्गपाटलापारिभद्रकनादेयीकृष्णगन्धानीपनिर्दहन्यटरूषकनक्तमालकपूतिकावृहतीकण्टकारिकाभल्लातकेङ्गुदीवैजयन्तीकदलीवर्षाभूह्रीवेरक्षुरकेन्द्रवारुणीश्वेतमोक्षकाशोका इत्येवंवर्गं समूलपत्रशाखमार्द्रमाहृत्य लवणेन सह संसृष्टं पूर्ब्बवद्दग्ध्वा क्षारकल्पेन परिस्राव्य विपचेदेतत्प्रतिवापश्चात्र हिङ्ग्वादिभिः पिप्पल्यादिभिर्व्वा। इत्येतत्कल्याणकलवणं वातरोगेषु गुलमप्लीहाभिषङ्गाजीर्णार्शोऽरोचकार्त्तानां कासादिभि रुपद्रुतानां चोपदिशन्ति पानभोजनेष्विति। भवति चात्र। विष्यन्दनादुष्णभावाद्दोषाणाञ्च विपाचनात्। संस्कारपाचनाच्चेदं वातरोगेषु शस्यते”। “कल्याणकं वा लवणं पिबेत्तु” सुश्रुतः।

कल्याणयोग = पु० ज्योतिषोक्ते यात्राङ्गे लग्नावधिस्थानविशेषस्थितग्रहयोगभेदे यथा “गुरौ केन्द्रे १, ४, ७, १०, त्रिकोणे ५, ९, वा रविर्लाभे ११ च कर्म्मणि १०। कल्याणयोगो भूपस्य यातुः कल्याणकृद्भवेत्”। “त्रिकोणगे ५, ९, शुभे खेटे सबले वा द्वितीयगे। कल्याणसंज्ञो योगोऽयं यायिनां मङ्गलप्रदः” इति च

कल्याणकृत् = त्रि० कल्याणं शुभं शास्त्रविहितं करोति कृ–क्विप् ६ त०। १ शास्त्रविहितकर्म्मकारके “नहि कल्याणकृत् कश्चिद्दुर्गतिं तात! गच्छति” गीता २ कल्याणकरमात्रे च त्रि०।

कल्याणवत् = त्रि० कल्याण + अस्त्यर्थे मतुप् मस्य वः। मङ्गलयुक्ते त्रिका० स्त्रियां ङीप्।

कल्याणवाचन = न० ६ त०। शास्त्रविहितकर्त्तव्यकर्म्मणः प्राक्कर्त्तव्ये ब्राह्मणादिद्वारा कल्याणयुक्तमन्त्रविशेषवाचने। तत्प्रकारोयथा “ओं श्वः कर्त्तव्येऽस्मित् कर्मणि कल्याणं भवन्तोऽघिब्रुवन्तुं इति प्रार्थिते ब्राह्मणैः “ओं कल्याणम्” इति त्रिरुक्ते “ओं पृथिव्यामुद्धृतायान्तु यत् कल्याणं पुरा कृतम्। ऋषिभिः सिद्धगन्धर्व्वैस्तत् कल्याणं सदास्तु नः” इतिय थेमामित्यस्य लौगाक्षिरृविस्नुष्टुप्छन्दो ब्रह्मा देवता कल्याणवाचने विनियोग इति स्मृत्वा “ओं यथेमां वाचं कल्याणीमावदानि जनेभ्यः ब्रह्मराजन्याभ्यां शूद्राय चार्य्याय च स्वाय चारणाय च प्रियोदेवानां दक्षिणायै दातुरिह भूयासमयं मे कामः समृध्यतामुपमादो नमतु” यजु० २९, २, इति च पठेत्।

कल्याणवीज = पु० कल्याणंवीजं यस्य। मसूरे राजनि०।

कल्याणिका = स्त्री कल्याण + संज्ञायां कन् अत इत्त्वम्। मनःशिलायाम् राजनि०।

कल्याणिन् = त्रि० कल्याण + अस्त्यर्थे इनि। १ कल्याणयुक्ते स्त्रियां ङीप् सा च २ वलानामोषधौ राजनि०।

कल्याण्यादि = पु० पाणिन्युक्ते ढक्प्रत्ययेनङादेशनिमित्तभूते शब्दगणे स च गणः “कल्याणी सुभगा दुर्भगा बन्धकी अनुदृष्टि अनुसृष्टि जगती वली बदी ज्येष्ठा कनिष्ठा मध्यमा परस्त्री” काल्याणेनेय इत्यादिः।

कल्यापाल = पु० कल्यां सुरां पालयति पाल–अण् उप० स०। शौण्डिके त्रिका०। ण्वुल्। कल्यापालकोप्यत्र।

कल्ल = कूजने अशब्दे च भ्वा० आत्म० अक० सेट्। कल्लते अकल्लिष्ट चकल्ले प्रनिकल्लति कल्लः।

कल्ल = त्रि० कल्ल–अच्। बधिरे त्रिका०। तस्य शब्दाश्रोतृत्वात्तथात्वम्।

कल्लत्व = न० कल्लस्य भावः त्व। १ स्वरस्य भेदने। हेमच० २ बाधिर्य्ये च।

कल्लोल = पु० कल्ल–बा० ओलच्, कम् जलं लोलं चपलं यस्माद्वा अत्र नित्यं अनुस्वारस्य लत्वम् नि० तस्याननुनासिकत्वं च। १ महातरङ्गे, अमरः “कालिन्दीजलकल्लोलकोलाहलकुतूहली” उद्भटः। “कल्लोलाः सलिलनिधेरवाप्यपारम्” माघः २ हर्षे च ३ वैरिणि त्रि० मेदि०। कल्लोलोऽस्त्यत्र पुष्करा० इनि। कल्लोलिन् कल्लोलयुक्ते देशे नद्यां स्त्री। “कल्लोलिनीवल्लभमुल्ललङ्घे” महाना० स जातोऽस्य तार० इतच्। कल्लोलित जातमहातरङ्गे त्रि०

कव = स्तुतौ वर्ण्णने च भ्वा० आत्म० सक० सेट्। कवते अकविष्ट। चकवे णिच्–कावयति ते ऋदित् अचकावत्। प्रनिकवते

कवक = पु० कु–अच् संज्ञायां कन्। १ ग्रासे, २ भूच्छत्राके, न० हेमच०। “लशुनं गृञ्जनञ्चैव पलाण्डुं कवकानि चेति” अभक्ष्ये मनुः। “देवतार्थं हविः शिग्रुं लोहितान् व्रश्चनांस्तथा। अनुपाकृतमांसानि विड्ज नि कवकानि च”। अभक्ष्ये याज्ञ० “कवकानि छत्राकाराणि” मिता०।

कवच = पु० कं वातं वञ्चति वन्च–मूल० क ऋतनीत्या० उणा० अच वा। १ गर्द्दभाण्डे वृक्षे २ पटहवाद्ये च मेदि०। ३ सन्नाहे गात्रत्राणे योद्धृभिर्युद्धकाले शस्त्राघातरक्षणार्थमङ्गे धार्य्ये लौहादिनिर्म्मिते वर्मणि पु० न० अमरः। कवचलक्षणादिकं युक्तिकल्पातरावुक्तं यथा“खड्गादीनान्तु गणना पूर्व्वमेव निदर्शिता। अस्त्रात्मनैव निर्द्दिष्टः कवाचादिरर्पाष्यते। तल्लक्षणं संग्रहेण प्रवक्ष्यामि निबोधत। काष्ठं चर्म सवल्कं च त्रयमेतत्तु दुस्तरम्। यथोत्तरं गुणयुतं यथापूर्वन्तु निन्दितम्। शरीरावरकत्वन्तु लघुत्वं दृढता तथा। दुर्भेद्यतेति कथितः कवचे गुणसंग्रहः। सच्छिद्रतातिगुरुता तनुता सुखभेद्यता। कवचानां विनिर्दिष्टः समासाद्दोषसंग्रहः। अत्र वर्णो विनर्दिष्टः क्रमादेवं चतुर्व्विधः। सितोरक्तस्तथा पीतः कृष्णो ब्रह्मादिषु क्रमात्। केचित् कुर्वन्ति कुशलाः कवचं धातुसम्भवम्। कनकं रजतं ताम्रंलौहं तेषु यथाक्रमम्”। अधिकं वर्मशब्दे वक्ष्यते। “यथा शस्त्रप्रहाराणां कवचं प्रतिवारणम्। तथा दैवोपघाताना शान्तिर्भवति वारणम्” मल० त० पु०। “वितत्य णार्ङ्गं कवचं पिनह्य” “सच्छत्रकवचं रथम्” भट्टिः। कवचोजातोऽस्य तार० इतच्। कवचित्तत तद्धारके त्रि०। सः अस्त्यस्य इनि। कवचिन् तद्धारके त्रि० “नमो विल्मिने च कवचिने च” यजु० १६, ३५ “यश्च कवची यश्चाऽकवचोऽमित्रो यश्चाज्मनि ज्या पाशैः कवच पाशैरज्मनाभिहतः शयाम्” अथ० ११, १०, २२ स्त्रियां ङीप्। तन्त्रोक्ते मन्त्रसाधनाङ्गे ४ वाक्यसंघभेदे। “मन्त्रेण म्रियते योगी रक्ष्यते कवचैर्यतः” इति तन्त्रोक्तेस्तस्य रक्षासाधकत्वेन वर्मतुल्यत्वात्तथात्वम्। “श्रीजमन्मङ्गलस्यास्य कवचस्य ऋषिः शिवः” “इदं कवचमज्ञात्वा योभजेत् कालिदक्षिणाम्” इति च भै० त०। कवचानि च देवताभेदे भिन्नानि तन्त्रोक्तानि तानि च सन्त्रसारे स्तोत्रकवचप्रकरणे अन्यत्र च दृश्यानि। तानि च “भूर्ज्जे विलिखितं चैतत् स्वर्णस्थं धारयेद्यदि। कण्ठे वा दक्षिणे वाहौ” इत्यादिना तन्त्रे लिखित्वा कण्ठादौ धार्य्यतया विहितानि।

कवचपत्र = पु० कवचं तल्लेखनसाधनं पत्रमिव वल्कलं यस्य। भूर्जपत्रवृक्षे शब्दच०। “भूर्जे विलिखितं चैतत्” तन्त्रोक्तेस्तद्वल्कलस्य कवचलेखनाधारत्वात्तथात्वम्।

कवचहर = पु० कवचं हरति येन वयसा हृ–लद्यमे अच् उप० स०। कवचहरणोद्यमयोग्यवयस्के कुमारे “कवचहरः कुमारः” सि० कौ०। वर्म्महरादयोऽप्यत्र “वर्म्महरः कुमारः” रघुः।

कवटी = स्त्री कौति शब्दायते कु–अटन् गौरा० ङीष्। कपाटे द्विरूपकोषः। तस्याः रोधनकाले शब्दायमानत्वात्तथात्वम्

कवती = स्त्री कशब्दः अस्त्यस्या मतुप् स्त्रियां ङीप्। “कया नश्चित्र” इत्यादिकासु ऋक्षु। “कवतीषु रथन्तरम् गायतीति” ताण्ड्य० श्रुतिः। “कया नश्चित्र” इत्याद्यास्त्रिस्र ऋचः कवत्यः” सा० सं भा० माधवः। “अतिदेश्यं विनिश्चेतुं कवतीषु रथन्तरम्” अधिकर० मा०। “ताश्च ऋचः” ऋ० ४, ३१ सूक्ते आद्यास्तिस्रः। तत्रान्त्यायाः कवत्त्वाभावेऽपि आय्ययोर्द्वयोः कवत्त्वेन बाहुल्यात्तथात्वम्।

कवयि(यी) = स्त्री काज्जलात् वयते गच्छति स्थानान्तरं वयगतौ इन् कृदिकारान्तत्वात् वा ङीप्। (कै) मत्स्यभेदे। त्रिका०। तस्या बलातिक्रमेण गमनात्तथात्वम्। “कवयी मघुरा स्निग्धा कषाया रुचिकारिणी। किञ्चित् पित्तकरी वातशमनी बलवर्द्धिनी” भावप्र० उक्तगुणा।

कवर = पु० कौति कु–शब्दे–अरन्। पाठके उज्ज्व० पाठकाले तस्य शब्दायमानत्वात् तथात्वम्। कं जलं वृणोति वृ–अच्। २ लवणे ३ अम्ले च पुंन० मेदि०। लवणस्य जलसंपर्कमात्रेण द्रवीभावेन जलरूपेण परिणामात् अम्लस्य च दर्शनमात्रेण मुखात् जलस्रावणात् तथात्वम्। के मूर्द्धनि वरम् वरणीयम्। ४ केशभूषायां त्रि०। केशविन्यास एव स्त्रियां ङीष्। अन्यत्र तु टाप्। सा च। ५ खरपुष्पायां (वावुइ) शब्दच०। कवरीमृतोमलयजार्द्रमिव व्याकीर्णमाल्यकवरां कवरीं तरुण्याः” माघः। “व्याकीर्णमाल्येन कर्वुरवर्ण्णाम्” मल्लि० ६ कर्वुरवर्णे पु० ७ तद्वति त्रि० हला०। कव–ग्तुतौ अरन्। ८ खचिते ९ संपृक्ते त्रि० हलायुधः। गौरा० ङीष्। १० वर्वरायाम् (वावुइ) मेदि०। तस्याः कवरीतुल्यत्वात्तत्त्वम्।

कवरकी = स्त्री कवरं किरति क्षिपति कॄ–बा० ड गौरा० ङीष्। वन्द्याम् तस्याः बन्धनागारे कवरबन्धनाभावेन तथात्वम्।

कवर्ग = पु० कघटितोवर्गः एकस्थानोत्पत्तिकसमूहः। कखगघङरूपेषु वर्णेषु तेषां कण्ठस्थानोत्पत्तिकत्वेन तथात्वम्। ततः वर्गान्तात् भवार्थे शब्दत्वात् छ। कवर्णीय तद्भवे त्रि०।

कवल = पु० केन जलेन वलते वल चलने अच्। १ ग्रासे “मुस्ताप्ररोहकनलावयवानुकीर्णम्” “आस्वादवद्भिः कवलैस्तृणानाम्” रघु० रोगनाशार्थं भावप्र० उक्तेदव्यभेदस्य २ क्रियाभेदे च। तत्करणविधिगुणौ भावप्र० उक्तौ यथा। “वातपित्तकफघ्नस्य द्रव्यस्य कवलं मुखे। अर्द्धं निक्षिप्य संचर्व्य निष्ठोयेत् कवले पिधिः। कवलः कुरुते काङ्क्षां भक्ष्येषु, हरते कफम्। तृष्णां शौचं च वैरस्यं दन्तचालञ्च नाशयेत्”। केजले वलते अच्। (वेल्यामाच्) ३ मत्स्यभेदे शब्दच० पुंस्त्री स्त्रियां जातित्वात् ङीष्। लस्य ङीवा। कवडोऽप्यत्र।

कवलप्रस्थ = पु० कवलस्य प्रस्थः। कवलयोग्यपरिमाण भेदे तस्य प्रस्थपरत्वेऽपि कर्क्यादि० न आद्युदात्तता।

कवलिका = स्त्री कवल इव इवार्थे कन्। (पुलट्टिश) इति ख्याते व्रणचिकित्साङ्गे औषधभेदे “ततः कल्केनाच्छाद्य नातिसिग्धां नातिरूक्षां कवलिकां दत्त्वा वस्त्रपट्टेन बध्नीयात्” “घनां कवलिकां दत्त्वा मृदु चैवापि पट्टकम्” “ततः कवलिकां दत्त्वा वेष्टयेत् सुसमाहितः” सुश्रु०

कवलित = त्रि० कवलं करोति कबल + णिच्–कर्म्मणि–क्त। १ कृतग्रासे २ भुक्ते ३ व्याप्ते च जटा०।

कवष = त्रि० कौति कु–शब्दे बा० अषच्। १ सच्छिद्रे कवाटादौ तस्य पिधानकाले शब्दायमानत्वात्तथात्वम्। स्त्रियां गौरा० ङीष्। “इन्द्र! दुरः कवष्योधावमानाः” यज० २, ४, “कवष्यः सशुषिरा, सच्छिद्र एव शब्दप्रसरात् कौतेरौणादिकोऽषच् प्रत्ययः” वेददी०। “कवष्योन व्यचस्वतीः” यजु० २०, ६०, “होता यक्षद्दुरोदिशः कवष्यः” २१, ३४,

कवष् = त्रि० कु–शब्दे असुन् वेदे षत्वम्। सच्छिद्रे कवाटादौ सच्छिद्रस्य शब्दायमानात्तथात्वम्। “ऋष्वाःसतीः कवषः इन्द्र! शुम्भमानाः” यजु० २९, ५, “कवषः कु–शब्दे कुवन्ति शब्द कुर्वन्ति कवषः कुवतेरसुन्प्रत्ययः षत्वमार्षम् कपाट्यः पिधानसमये शब्दं कुर्व्वाणाः सशुषिरा वा” वेददी०

कवस = पु० कु–ऋतनीत्यादिना अस। १ कवचे सन्नाहे २ कण्टकजातिभेदे च उज्ज्व०।

कवाट = न० कु–भावे अप् कवं शब्दमटति, कं वातं वटति वट वेष्टने वा अण् उप० स०। द्वाररोधके (कपाट) ख्याते काष्ठादिमये पदार्थे अमरः तस्य द्वारपिधानकाले शब्दायमानत्वात् वातरोधकत्वाच्च तथात्वम् “उरःश्रिया तत्र च गोपुरस्फु रत्कवाटदुर्द्दर्षतिरःप्रसारिता” नैष०। “मोक्षद्वारकबाटपाटनकरी काशीपुराघोश्वरी” अन्नदास्त०। कवाटपरिमाणादिकं वृ० स० उक्तं यथा। “विस्तारार्धं भवेद्गर्भो भित्तयोऽन्याः समन्ततः। गर्भपादेन विस्तीर्णं द्वारं द्विगुणमुच्छ्रितम्। उच्छ्रायात् पादविस्तीर्णा शाखा तद्वदु- दुम्वरः। विस्तारपादप्रतिमं बाहुल्य शाखयोः स्मृतम्। त्रिपञ्चसप्तनवभिः शाखाभिस्तत् प्रशस्यते”। तत्काष्ठनियमश्च ज्यो० त० भारतोक्तः “क्षीरवृक्षीद्भवं दारु गृहेषु न निवेशयेत्। कृताधिवासं विहगैरनिलानलपीडितम्। गजैर्विभग्नञ्च तथा विद्युन्निर्घातपीडितम्। चैत्यदेवालयोत्पन्नं वज्रभग्नं श्मशानजम्। देवाद्यधिष्ठितं दारु नीपनिम्बविभीतकान्। कण्टकिनोऽसारतरून् वर्जयेत् गृहकर्मणि। वटाश्वत्थौ च निर्गुण्डीं कोविदारविभीतकौ। पलाक्षं शाल्मलोञ्चैव पलाशञ्च विवर्जयेत्। विस्तारात् द्विगुणोच्छ्रायं द्वारं कुर्य्यात्तथा गृहम्”। अधिकं गृहशब्दे वक्ष्यते। अल्पार्थे ङीप्। कवाटी स्वल्पकवाटे स्त्री।

कवाटघ्न = त्रि० कवा(पा)टं हन्ति शक्त्या “शक्तौ हस्तिकवा(पा)टयोः” पा० हन–टक्। कवाटहननशक्ते चौरभेदे।

कवाटवक्र = न० कवाटं वक्रं यस्मात्। (कवाटवेटु) वृक्षभेदे।

कवार = न० कं जलं वृणोति आश्रयत्वेन अण् उप० स०। पद्मे त्रिका०।

कवारि = च० कुत्सितोऽरिः कुगति० स० बा० कोः कवादेशः। कुत्सिते शत्रौ “दैवी पूतिर्दक्षिणादेवयाज्या न कवारिभ्यो न ते पृणन्ति” ऋ० १०, १०७, ३।

कवासख = त्रि० कुत्सितस्य सखा टच् पृषो० नि०। कुत्सितसहाये। “अपाप शक्रस्ततनुष्टिमूहति तनुशुभ्रं मघवा यः कवासखः” ऋ० ५, ३४, ३। “कुत्सितपुरुषसहायः” भा० निरुक्ते तु कवासखः यस्य कपूयाः सखायः इत्युक्तं तत्र बहुव्रीहौ टजपि निपात्यः इति भेदः।

कवि = पु० कव–वर्णने गतौ कु–शब्दे वा इन्। क्रान्तदर्शिनि–सर्वज्ञे–१ ब्रह्मणि हेमच०। तस्यसर्वगतत्वात् सर्व्वज्ञत्वात् क्रान्तदर्शित्वाच्च तथात्वम्। “कविर्मनीषी परिभूः स्वयम्भूः” १ शा० “कविः क्रान्तदर्शी सर्व्वदृक् “नान्यतोऽस्ति द्रष्टा” इति श्रुतेः” शाङ्ख० भा०। “कविं पुराणमुनुशासितारम्” गीता। २ स्तुत्ये “होता वा देव्या कवी” यजु० २८, ३०। “पृथग्बरजं भेषजंबकविम्” यजु० २८, ३४। ३ वाल्मिके मुनौ तस्य प्रथमं काव्यकर्त्तृत्वात् तथात्वम्। ४ कविताकारके “मन्दः कवियशःप्रेप्सुः” रघुः “नैकमोजः प्रसादी वा रसभावविदः कवेः” माघः। “इदं कविभ्यः पूर्वेभ्यो नमोवाक प्रशास्महे” उत्तर० च० (काव्यम्) “कविः कुर्व्वन् कीर्त्तिं प्रीतिञ्च विन्दति” चन्द्रा०। “एकोऽभून्नलिनात् परश्च पुलिनात् वल्मीकतश्चापरस्ते सर्वे कवयस्त्रिलोकगुरवस्तेभ्यो नमस्क महे” उद्भटः। “रवेः कवेः किं समरस्य सारम्” विदग्धमु०। ५ भृगुसुते ऋषिभेदे ६ तत्पुत्रे शुक्राचार्य्येतस्य कविपुत्रत्वेऽपि जन्यजनकयोरभेदोपचारात्तत्त्वम् “भृगोः पुत्रः कविर्विद्वान् शुक्रः कविसुतो ग्रहः” भा० आ० ६६ अ०। ७ सूर्य्ये मेदि०। ८ कल्किदेवस्य ज्यष्ठभ्रातरि “कल्केर्ज्येष्ठास्त्रयः शूराः कविप्राज्ञसुमन्त्रकाः” इति कल्किशब्दे उदाहृतम्। ९ चौरयोधे “वेधस्थाने रणे भङ्गो दुर्गे खञ्जिः प्रजायते। कविप्रवेशनं तत्र योधाघातश्च तत्र वै” ज्यो० त०। “कविश्चौरयोद्धा” रघु०। १० खलीने स्त्री मेदि०। वा ङीप्। ११ क्रान्तदर्शिनि त्रि०। “ऊर्ण्णासूत्रेण कवयो वयन्ति” यजु० १९, ८। “कवयः क्रान्तदशिनः” वेददी० १२ मेधाविनि त्रि० “अध्यापयामासपितृन् शिशुराङ्गिरसः कविः” मनुः। “क ऊ ते शासिता कविः” यजु० ३३, ३९। “कविर्मेधावी” वेददी०। १३ चाक्षुषमनोः वैराजप्रजापतेः कन्याजातसुतभेदे पु०। “कन्यायां भरतश्रेष्ठ! वैराजस्य प्रजापतेः। ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक् कविः” हरिवं० २ अ०। १४ स्तोतरि त्रि० “इन्द्रमग्निं कविच्छदा” ऋ० ३, १२, ३। “कविच्छदा कवीनां स्तोत्रृणामुचितफलप्रदानेनोपच्छन्दकौ” भा०।

कविक = पु० कवि + स्वार्थे कन् क्वचित् स्वार्थकप्रत्ययस्य प्रकृतिलिङ्ग व्यतिक्रम इति। खलीने (लागाम) हलायुधः।

कविकल्पद्रम = पु० वोपदेवकृते धातुपाठग्रन्थमेदे “कविकल्पद्रुमो नाम पद्यैर्निष्पाद्यतेऽत्र च” इति तदुपोद्घाते।

कविकल्पलता = स्त्री काव्यरचनाशिक्षोपयोगिग्रन्थभेदे।

कविका = स्त्री कवि + स्वार्थे कन्। (लागाम) स्वलीने अमरः २ कविकापुष्पे राजनि०। ३ कवयीमत्स्ये(कै)भावप्र०। कवयीशब्दे तद्गुणाद्युक्तम् तत्र कवयीत्यत्र कविकेति पाठान्तरम्।

कविज्येष्ठ = पु० कविषु ज्येष्ठः। १ वाल्मीकिमुनौ। त्रिका०।

कविता = स्त्री कवेः वर्ण्णयितुर्भावः तल्। कविकर्मणि काव्ये काव्यशब्दे विवृतिः। “केषां नैषा भवति कविताकामिनी कौतुकाय” प्रस० रा०। त्व। कवित्वमप्यत्र न०। “कवित्वं दुर्लभं लोके शक्तिस्तत्र सुदुर्लभा” सा० द० अग्निपुरा०। “स भवति कवित्वामृतनदीनदीनः पर्य्यन्ते परमपदलीनः प्रभवति” कर्पूरस्रवः। “ता ऊ कवित्वमा कवी” ऋ० ८, ४३, “कवित्वना कवित्वेन” भा० पृषो० साधु।

कविपुत्र = पु० कवेः भृगुसुतस्य पुत्रः ६ त०। १ भार्गवे ३ शुक्राचार्य्ये “भृगोः पुत्रः कविविद्वान् शुक्रः कविसुतो ग्रहः” भारते आदिपर्व्वणि ६६ अध्याये। कविसुतादयोऽप्यत्र।

कविय = न० कं सुखमजति अज–क वीभावः। १ खलीने त्रिका०। “कवियं कविकोच्यते” त्रिकाण्डे क्लीवतया पाठात् शब्दकल्पद्रुमे पु क्लीवतोक्तिः चिन्त्यमूला।

कविरहस्य = न० हलायुधकृते श्लोकात्मके अर्थभेदेन एकाकारधातुभेदप्रदर्शके ग्रन्थभेदे।

कविराज = पु० कवीनां राजा कविः राजेव वा टच् समा०। कविश्रेष्ठे। “श्रीहर्षं कविराजराजमुकुटालङ्कार हीरः सुतम्” नैषधम्। “श्रीविश्वनाथकविराजकृतिप्रणीतं साहित्यदर्पणममुं स्थगितप्रमेयम्” सा० द० टी० रामचरणश्लोके कविराजशब्दस्य तदर्थतैव चिकित्सके प्रसिद्धेस्तु मूलं न दृश्यतेऽतो न तदर्थकता।

कविरामायण = पु० कविना कवित्वेन रामः अथमं यस्य णत्वम्। वाल्मीकिमुनौ। शब्दरत्ना०!

कविल = त्रि० कु–कव वर्ण्णने वा वा० इलच्। १ स्तोतरि २ शब्दकारके च। ततः प्रगद्या० चतुरर्थ्याम् ञ्य। काविल्य तत्सन्निकृष्टदेशादौ त्रि०।

कविवेदिन् = त्रि० कविं कवित्वं वेत्ति विद–णिनि। काव्यवेत्तरि कवौ जटा० स्त्रियां ङीप्।

कवीय = न० कवि + स्वार्थे छ क्वचित् स्वार्थिकस्यापि प्रकृतिलिङ्गातिक्रमः। खलीने (लागाम) जटाधरः।

कवीयत् = त्रि० कविरिवाचरति कविं स्तोतारम् इच्छति वा कवीय–नाम० शतृ। १ कविसदृशे २ आत्मनः स्तोतुरिच्छौ च। “अपो वृणान पवते कवीयन् व्रजम्” ऋ० ९, ५१४, १। ३ कवीयन् कविरिवाचरन् कवयः स्तोतारः तानिच्छन् वा” भा०। एतेन अस्याः श्रुते कवीयः शब्दोदाहरणतयोपन्यासः प्रामादिकः। स्त्रियां ङीप्।

कवीयस् = त्रि० अतिशयेन कविः ईयसु। कवितरे स्त्रियां ङीप् कवीयसी। तरप्। कवितर तत्रार्थे। तमप्। कवितम बहूनां मध्ये अतिशयस्तोतरि काव्यकारकेन च त्रि०

कवूल = न० नीलकशठताजकोक्ते कंवुलयोगे कंवुलशब्दे लक्षणादि। “इत्यशालि कवूलं तदुत्तरोत्तममुच्यते” नील० ता०

कवेल = न० कं जलं विलति स्तृणाति विल–स्तृतौ अण् उप० स०। कुवलये शब्दच०।

कवोष्ण = न० कुत्सितमुष्णं कुगतिसमासः कोः कवादेशः। १ ईषदुष्णे स्पर्शे २ तद्वति त्रि० अमरः। “पयः पूर्वैः सनिश्वासैः कवोष्णमुपभज्यते” रघुः।

कव्य = न० कवयः क्रान्तदर्शिनः पितरस्तस्येदं यत्, कूयते पितृभ्यः कु शब्दे कर्मणि यत्वा। पित्र्युद्देशेन दीयमानेऽन्नादौ अमरः। हव्यकव्यदानपात्रापात्रब्राह्मणानाह स्म मनुः “श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः। अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम्। एकैकमपि विद्वांसं दैवे पित्र्ये च भोजयेत्। पुष्कलं फलमाप्नोति नामन्त्रज्ञान् बहूनपि। दूरादेव परीक्षेत ब्राह्मणं वेदपारगम्। तीर्थं तद्धव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः। सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते। एकस्तान् मन्त्रवित् प्रीतः सर्व्वानर्हति धर्म्मतः। ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च। न हि हस्तावसृग्दिग्धौ रुधिरेणैव शुध्यतः। यवतो ग्रसते ग्रासान् हव्यकव्येष्वमन्त्रवित्। तावतो ग्रसते प्रेत्य दीप्तशूलर्ष्ट्ययोगुडान्। ज्ञाननिष्ठा द्विजाः केचित् तपोनिष्ठास्तथाऽपरे। तपःस्वाध्यायनिष्ठाश्च कर्म्मनिष्ठास्तथाऽपरे। ज्ञान निष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः। हव्यानि तु यथान्यायं सर्व्वेष्वेव चतुर्ष्वपि। अश्रोत्रियः पिता यस्य पुत्त्रः स्याद्वेदपारगः। अश्रोत्रियो वा पुत्रः स्थात् पिता स्याद्वेदपारगः। ज्यायांसमनयोर्विद्यात् यस्य स्याच्छ्रोत्रियः पिता। मन्त्रसम्पूजनार्थन्तु सत्कारमितरोऽर्हति। न श्राद्धे भोजयेन्मित्रं धनैः कार्य्योऽस्य संग्रहः। नारिं न मित्रं यं विद्यात् तं श्राद्धे भोजयेद्द्विजम्। यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च। तस्यप्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च। यः सङ्गतानि कुरुते मोहाच्छ्राद्धेन मानवः। स स्वर्गाच्च्यवते लोकाच्छाद्धमित्रो द्विजाधमः। सम्भोजनी साभिहिता पैशाची दक्षिणा द्विजैः। इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनि। यथेरिणे वीजमुप्त्वा न वप्ता लभते फलम्। तथाऽनृचे हविर्द्दत्त्वा न दाता लभते फलम्। दातॄन् प्रतिग्रहीतॄंश्च कुरुते फलभागिनः। विदुषे दक्षिणा दत्ता विधिवत् प्रेत्य चेह च। कामं श्राद्धेऽर्च्चयेन्मित्रं नाभिरूपमपि त्वरिम्। द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम्। यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम्। शाखान्तगमथाध्वर्य्युं छन्दोगन्तु समाप्तिकम्। एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्च्चितः। पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी। एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः। अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः। मातामहं मातुलञ्च स्वस्रीयं श्वशुरं गुरुम्। दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत्। न ब्राह्मणं परीक्षेत दैवे कर्म्मणि धर्म्मवित्। षित्र्ये कर्मणि तु प्राप्ने परीक्षेत प्रयत्नतः। ये स्तेनपतितक्लीवा ये च नास्तिक्रवृत्तयः। तान् हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत्। जटिलञ्चानधीयानं दुर्बलं कितवन्तथा। याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत्। चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा। विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः। प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः। प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्व्वार्द्धषिस्तथा। यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः। ब्रह्मद्विट् परिवित्तिश्च गणाभ्यन्तर एव च। कुशीलवोऽवकीर्णी च वृषलीपतिरेव च। पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे। भृतकाध्यापको यश्च भृतकाध्यापितस्तथा। शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ। अकारणपरित्यक्ता मातापित्रोर्गुरोस्तथा। ब्राह्म्यैर्यौनैश्च सम्बन्धैः संयोगं पतितैर्गतः। अगारदाही गरदः कुण्डाशी सोमविक्रयी। समुद्रयायी वन्दी च तैलिकः कूटकारकः। पित्रा विवदमानश्च कितवो मद्यपस्तथा। पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी। धनुःशराणां कर्त्ता च यश्चाग्रेदिधिषूपतिः। मित्रध्रुक् द्यूतवृत्तिश्च पुत्राचार्य्यस्तथैव च। भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा। उन्मत्तोऽन्धश्च वर्ज्याः स्युर्व्वेदनिन्दक एव च। हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति। पक्षिणां पोषको यश्च युद्धाचार्य्यस्तथैव च। स्रोतसां भेदको यश्च तेषाञ्चावरणे रतः। गृहसंवेशको दूती वृक्षारोपक एव च। श्वक्रीडी श्येनजीवी च कन्यादूषक एव च। हिंस्रो वृषलवृत्तिश्च गणानाञ्चैव याजकः। आचारहीनः क्लीवश्च नित्यं याचनकस्तथा। कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च। औरभ्रिको माहिषिकः परपूर्व्वापतिस्तथा। प्रेतनिर्हारकश्चैव वर्जनीयाः प्रयत्नतः। एतान् विगर्हिताचारानपाङ्क्तेयान् द्विजाधमान्। द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत्। ब्राह्मणस्त्वनधीयानस्तृणाग्निरिव शाम्यति। तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते। अपाङ्क्तदाने यो दातुर्भवत्यूर्द्धं फलोदयः। दैवे हविषि पित्र्ये वा तं प्रवक्ष्याम्यशेषतः। अव्रतैयंद्द्विजैर्भुक्तं परिवेत्त्रादिभिस्तथा। अपाङ्क्तेयैयेदन्यैश्च तद्वै रक्षांसि भुञ्जते। दाराग्निहीत्रसयोग कुरुते योऽग्रजे स्थितो। परिवेत्ता स विज्ञेयः परिवि- त्तिस्तु पूर्व्वजः। परिवित्तिः परीवेत्ता यया च परिविद्यते। सर्व्वे ते नरकं यान्ति दातृयाजकपञ्चमाः। भ्रातुर्मृतस्य भार्य्यायां योऽनुरज्येत कामतः। धर्म्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः। परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ। पत्यौ जीवति कुण्डः स्यान्मृते भर्त्तरि गोलकः। तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चेह च। दत्तानि हव्यकव्यानि नाशयेते प्रदायिनाम्। अपाङ्क्यो यावतः पाङ्क्त्यान् भुञ्जानाननुपश्यति। तावतां न फलं तत्र दाता प्राप्नोति बालिशः। वीक्ष्यान्धो नवतेः, काणः षष्टेः, श्वित्री शतस्य तु। पापरोगी सहस्रस्य, दातुर्नाशयते फलम्। यावतः संस्पृशेदङ्गैर्ब्राह्मणान् शूद्रयाजकः। तावतां न भवेद्दातुः फलं दानस्य पौर्त्तिकम्। वेदविच्चापि विप्रोऽस्य लोभात् कृत्वा प्रतिग्रहम्। विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि। सोमविक्रयिणे विष्ठा, भिषजे पूयशोणितम्। नष्टं देवलोके दत्तम्, अप्रतिष्ठन्तु वार्द्धुषौ। यत्तु बाणिजके दत्तं, नेह नामुत्र तद्भवेत्। भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे। इतरेषु त्वपाङ्क्येषु यथोद्देष्टेष्वसाधषु। मेदोऽसृङ्मांसमज्जास्थि वदन्त्यन्नं मनीषिणः। अपाङ्क्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैः। तान्निबोधत कात्र्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान्। अग्र्याः सर्वेषु वेदेषु सर्व्वप्रवचनेषु च। श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः। त्रिणाचिकेतः पञ्चाग्निस्त्रिसुवर्णः षडङ्गवित्। ब्राह्म्यदेयात्मसन्तानो ज्येष्ठसामग एव च। वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः। शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः” भाग० ४, १८, १८। “वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षतेति” पृथिव्याः पितृभिः कव्यरूपक्षीरदोहनात् तस्य तदन्नत्वम्। कु–शब्दे कर्मणि यत्। २ स्तुत्ये “कव्योऽसि कव्यवाहनः” ताण्ड्य० ब्रा०। “कव्यः स्तुत्यः” भा०। कवलं कवः कु–भावे अप् कवे साधु यत्। ३ स्तवसाधकेस्तोतरि। “वीती जनस्य दिव्यस्य कव्यैरधि” ऋ० ९, ९१, २। “कव्यैः कवनसाधुभिः स्तोतृभिः” भा०।

कव्यबाल = पु० कव्यं बलते ददाति अत्र बल–दाने आधारे घञ्। १ वह्नौ तत्र दाने हि पितॄणां दाननिप्पत्तेस्तथात्वम्। कव्यं बल्यते दीयते बल–दाने सम्प्रदाने घञ्। २ पितृदेवभेदे त्रिका० “कव्यबालीऽनलः सोमः यमश्चैवार्यमा तथा। अग्निष्वात्ता बर्हिषदः सोमपाः पितृदेवताः वायु० पु० लस्य बा डः कव्यबाडोऽप्यत्र।

कव्यवाह = पु० कव्यं वहति प्रापयति पितॄन् वह–अण् उप० स०। अग्नौ। कव्यवाहनशब्दे विवृतिः।

कव्यवाह् = पु० कव्यं वहति वह–ण्वि। पितृभ्यः कव्यप्रापके वह्नौ।

कव्यवाहन = पु० कव्यं वह–वहति “कव्यपुरीषपूरीष्येषु ञ्युट्” पा० वह–ञ्युट्। पितृभ्यः कव्यप्रापके वह्नौ “त्रयो वा अग्नयो, हव्यवाहनो देवानां, कव्यवाहनः पितॄणां, सहरक्षा असुराणाम्” तैत्ति० २, ५, ८, ६। “अग्नये कव्यवाहनाय स्वाहा” यजु० २, २९। “अग्नये कव्यवाहनायानुव्रूहीति तत्स्विष्टकृते हव्यवाहनो देवानां, कव्यवाहनः पितॄणामिति” शत० ब्रा० ३, ६, १, ३०।

कश = शब्दे अक० वोप० गतौ शासने च सक० पा० भ्वा० पर० सेट्। कशति अकशीत्–अकाशीत् चकाश। प्रनिकशति। “अन्थोऽनश्नन्नभिचाकशीति” श्रुतिः। यङ्लुकि लटोरूपम्। उभयपदीत्येके।

कश = पु० कशति शब्दायते शास्ति ताडयति वा करणस्य कृर्तृविवक्षया कर्त्तरि कश–अच्। अश्वादेस्ताडनसाधने चर्म्मवस्त्रादिनिर्मिते पदार्थभेदे (चावुक) “स राजा तं कशेनाताडयत्” मा० व० १९६ अ०। अमरे अस्य स्त्रीत्वमाह। “जघान कशया मोहात्तदा राक्षसवन्मुनिम्” भा० आ० १७७ अ०। “सम्यक्कशात्रयविचारवता नियुक्तः” माघः ५, १० श्लो० व्या० मल्लि०।

“अत्र कशाः कशाघातास्तासां त्रयमुत्तममध्यमाधमेषु यथासङ्ख्यं मृदुसमनिष्ठुरद्वित्रिरूपं त्रितयन्तस्य विचारः “एतेषु निमित्तेषु अङ्गेष्वेवन्ताड्यः” इति विमर्षः तद्वता तज्ज्ञेन। यथाह भोजः “मृदुनैकेन घातेन दण्डकालेषु ताडयेत्। तीक्ष्णं मध्यं पुनर्द्वाभ्याञ्जघन्यन्निष्ठुरैस्त्रिभिः। उपवेशेऽथ निद्रायां स्खलिते दुष्टचेष्टिते। बडवालोकनौत्सुक्ये बहुगर्व्वितह्रेषिते। सन्त्रासे च दुरुत्थाने विमार्गगमने भये। शिक्षात्यागस्य समये सञ्जाते चित्तविभ्रमे। दण्डः प्रयोज्यो वाहानां कालेषु द्वादशस्वपि। ग्रीवायाम्भीतमाहन्यात् त्रस्तञ्चैव च वाजिनम्। विभ्रान्तचित्तमधरे त्यक्तशिक्षञ्च ताडयेत्। प्रह्रेषितं स्कन्धवाह्वोर्बाडवालोकिनं तथा। उपवेशे च निद्रायां कटिदेशे च ताडयेत्। दुश्चेष्टितं मुखे हन्यादुन्मार्गप्रस्थितं तथा। जघने स्खलितं हन्यान्नेत्रमार्गे दुरुत्थितम्। यः कुण्ठप्रकृतिर्वाजी तं सर्वत्रैव ताडयेत्” इति। अधिकमश्वशब्दे उक्तम्। मांसरोहिण्यां स्त्री भावप्र०

कशकृत्स्न = पु० ऋषिभेदे तस्यापत्यम् शिवा० अण्। काशकृत्स्नव्याकरणशास्त्रकारके ऋषिभेदे “इन्द्रश्चन्द्रः काशकृत्स्नापिशिलींशाकटायनः। पाणिन्यमरजैनेन्द्राः जयन्त्यष्टादिशाब्दिकाः” वोपदेवः। ततः उपका० गोत्रप्रत्ययस्य बहुषु लुक्। कशकृत्स्नेन निर्वृत्तम् चतुरर्थ्याम् अरीहणादि० वुञ्। काशकृत्स्नक तन्निर्वृत्तादौ त्रि०।

कशस् = न० कशति नीचं कश–गतौ असुन्। जले निरु०।

कशार्ह = त्रि० कशामर्हति अर्ह–अण् उप० स०। कशाताडनयोग्ये दुष्टे अश्वादौ अमरः।

कशिक = पु० कशति हिनस्ति सर्पम् कश–शासने बा० इक। नकुले तस्य पादाविव पादावस्य उपमानपूर्वकत्वेऽपि हस्त्वा० पाठात् नान्त्यलोपः। कशिकपादः।

कशिपु = पु० कशति दुःखम् कश्यते वा कश–गतिशासनयोः मृगय्वा० नि०। १ अन्ने आच्छादने च २ अमरः। एकशक्त्या ३ भक्ताच्छादनयोश्च विश्वः। पुष्पवन्तावित्यत्रेव अयं द्विवचनान्तः इति मेदि०। ४ शय्यायाम्। “कॢप्तैः कशिपुभिः कान्तं पर्य्यङ्कव्यजनाशनैः” भाग० ३, २३, १६। “चेदस्ति भूः किं कशिपोः प्रयासैः” भा० २, २, ५। “कशिपोः शय्यायाः” श्रीधरः। ५ आसनभेदे च “क्वचिच्छये वरोपस्थे तृणपर्ण्णाश्मवेश्ममु। क्वचित् प्रासादपर्य्यङ्के कशिपौ वा यथेच्छया” भाग० ७, १३, ३७। वेदे अस्य क्लीवत्वमपि “प्रमुच्याश्वं दक्षिणेन वेदिम् हिरण्मयं कशिपूपस्तृणाति तस्मिन् होतोपविशति” “हिरण्मययोः कशिपुनोः पुरस्तांत् प्रत्यङ्ङध्वर्य्युः” शत० ब्रा० १३, ४, ३, १। “कशिपु आसनभेदः। “होत्रध्वर्य्यू हिरण्मययोः कशिपुनोरुपविष्टौ” कात्या० १५, ६, १। कशिपुशब्देन मसूरक उच्यते। “फलकमिति पितृभूतिः” सं० व्या०। “अध्वर्य्युयजमानौ कूर्चयोः” “फलकयोर्वा, होतृब्रह्मोद्गातारः कशिपुषु” कात्या० २०, २, २, १९, २०, २१। “सपादमासनं कूर्चः (कुरछीचौकी) “पादरहितं फलकं कशिपुशब्देन मृद्वासनं मसूरक उच्यते” संग्र० व्या०। तेन मृद्वासनं पादरहितं फलकं च कशिपुशब्दार्थः।

कशीका = स्त्री कश + बा० ईकन्। सूतवत्सायां नकुल्याम्। “आगधिता परिगधिता या कशीकेव जङ्गाहे” ऋ० १, १२६, ६। “कशीका सूतवत्सा नकुली सा यथा पत्या सह चिरं क्रीडति न कदाचिदपि विमुञ्चति” भा०

कशु = पु० चेदिपुत्रे राजभेदे। “यथा चिच्चैद्यः कशुः शतमुष्ट्राणाम्” ऋ० ८, ५, ३७।

कशेरक = पु० यक्षभेदे। “मणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः। कशेरकोगण्डकण्डुः” इत्युपक्रम्य “एते चान्ये च बहवो यक्षाः शतसहस्रशः” इति भा० म० १० अ० कुवेरसभावर्ण्णने उक्तम्।

कशेरु(रू) = स्त्री कं जलं वातं वा शृणाति शॄ–“के श्र एरक्चास्य” उणा० ऊ उ वा। तृणकन्दभेदे (केशुर) उज्ज्व०। दीर्घान्तःत्वष्टुश्चतुर्दश्यां २ कन्यायां सा च नरकासुरेण गजरूपेण हृता तत्कथा हरिवं० १२१ अ० यथा “त्वष्टुर्दुहितरं भौमः (नरकासुरः) कशेरूमगमत्तदा। गजरूपेण जग्राह रुचिराङ्गीं चतुर्दशीम्। प्रमथ्य तां वरारोहां नरकोवाक्यमब्रवीत्” उप्रत्ययान्तः पुंसि च। “किं कुर्व्वता वराहेण खाद्यन्ते हि कशेरवः”। उज्ज्व० चन्द्रः। ह्रस्वान्तं क्लीवमाह अमरः। “शृङ्गाटकं विसं द्राक्षा कशेरु मधुकं सिता” सुश्रु०। स्वार्थेकन्। तत्रार्थे न०। तद्भेदगुणा भावप्र० उक्ता यथा। “कशेरु द्विविधं तत्तु महद्राजकशेरुकम्। मुस्ताकृति लघु स्याद्यत्तच्चिचोटमिति स्मृतम्। कशेरुकद्वयम् शीतं मधुरं तुवरं गुरु। पित्तशोणितदाहघ्नं नयनामयनाशनम्। ग्राहि शुक्रानिलश्लेष्मरुचिस्तन्यकरम्परम्। भारतवर्षस्य नवखण्डान्तर्गते ३ खण्डभेदे पु० “ऐन्द्रं कशेरुशकलं किल ताम्रपर्णमन्यद्गभस्तिमदतश्च कुमारिकाख्यम्। नागं च सौम्यमिह वारुणमन्त्यखण्डं गान्धर्वसंज्ञमिति भारतवर्षमध्ये” सि० शि०। पुराणसर्वस्वे विष्णुपुराणेच “भारतस्यास्य वर्षस्य नव भेदान्निशामय। इन्द्रद्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान्। नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः। अयन्तु (कुमारिकाख्यः) नवमस्तेषां द्वीपः सागरसंवृतः। योजनानां सहस्रन्तु द्वीपोऽयं दक्षिणोत्तरात्। पूर्व्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः। ब्राह्मणाः क्षत्रियावैश्या मध्ये शूद्राश्च भागशः। इज्यायुद्धवणिज्याद्यै र्वर्त्तयन्तोव्यवस्थिताः। वेदस्मृतिमुखाश्चान्याः पारिपात्रोद्भवा मुने!। नर्मदासुरसाद्याश्च नद्योविन्ध्यविनिर्गताः। तापीपयोष्णीनिर्व्विन्ध्याकावेरीप्रमुखा नदी। गोदावरीभीमरथीकृष्णवेन्वादिकास्तथा। सह्यपादोद्भवानद्यः स्मृताः पापभयापहाः। हृतामलाताम्रपर्णीप्रमुखामलयोद्भवाः। त्रिसामा ऋषिकुल्याद्या महेन्द्रप्रभवाः स्मृताः। ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः। शतद्रु- चन्द्रभागाद्या हिमवत्पादनिःसृताः। आसां नद्युपनद्यश्च सन्त्यन्याश्च सहस्रशः। पश्चिमे कुरुपञ्चालमध्वदेशादयोजनाः। पूर्व्वदेशादिकाश्चैव कामरूपनिवासिनः। ओड्राः कलिङ्गमगधा दाक्षिणात्याश्च सर्व्वशः। तथाऽपरान्ताः सौराष्ट्राः शुद्धाभीरास्तथार्बुदाः। मारुकामालवाश्चैव पारिपात्रनिवासिमः। सौवीराः सेन्धवा हूणाःशाल्वाः शाकलवासिनः। मद्राभार्गास्तथाम्वष्ठाः पारसीकादयस्तथा। आसां पिबन्तः सलिलं वसन्ति सहिताः सदा। चत्रारि भारते वर्षे युगान्यत्र महामुने!। कृतं त्रेता द्वापरञ्च कलिश्चान्थत्र न क्वचित्। तपस्तप्यन्ति मुनयोजुह्वते चात्र यज्विनः। दानानि चात्र दीयन्ते परलीकार्थमादरात्। पुरुषैर्यज्ञपुरुषो जम्बुद्वीपे सदेज्यते। तत्रापि भारतं श्रेष्ठं जम्बुद्वीपे महामुने!। यतो हि कर्मभूरेषा ततोऽन्याभोगभूमयः। अत्र जन्मसहस्राणां सहस्रैरपि सत्तमः। कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात्। गायन्ति देवाः किल गीतकानि धन्यास्तु ये भारतभूमिभागे स्वर्गापवर्गास्पदहेतुभूते भवन्ति भूयः पुरुषाः सुरत्वात्। कर्माण्यसं कल्पिततत्फलानि सन्न्यस्य विष्णौ परमात्मरूपे। अवाप्य तां कर्म्ममहीमनन्ते तस्मिल्ल~यं ये त्वमलाः प्रयान्ति। जानीम नैतत् क्व वयंविलीने स्वर्गप्रदे कर्म्मणि देहबन्धम्। प्राप्याथ धन्थाः खलु ते मनुष्या ये भारते चेन्द्रियसङ्गहीनाः। नववर्षन्तु मैत्रेय! जम्बुद्वीपमिदं मया। लक्षयोजनविस्तारं संक्षेपात् कथितं मया” ४ पृष्ठदण्डस्थ्नि पुंन० हला० स्वार्थे कन्। पृष्ठास्थिभेदे स्त्री अमरः। तृणकंन्देऽपि स्त्री रत्नमाला “कशेरुकञ्चातियुक्तं श्लेषकोपकं यथाह सुश्रुतः। दिवास्वप्नेत्याद्युपक्रमे “कशेरुकशृङ्गाटकमधुरवल्लीफलसमशनाध्यशनप्रभृतिभिः श्लेष्मा कोपमापद्यते”। एतद्रसश्च कूलचरमांसभोजनेऽनुपानम् यथाह अनुपानवर्गे सुश्रुतः “कूलचराणां शृङ्गाटककशेरुकासवः”। इदञ्च सुश्रुते मधुरवर्गे उक्तम्। तद्वाक्यं मधुरवर्गे दृश्यम्। एतस्य श्लेष्मपित्त प्रकोपकत्वेनकृमिकारित्वमुक्तम् सुश्रु० “माषपिष्टान्नद्विदलविसशालूकशेरुकैरित्युपक्रमे “श्लेष्मा पित्तं च कुप्यति। कृमीन् बहुविधाकारान् करोति विविधाश्रयान्”।

कशेरुमत् = पु० यवनराजभेदे। “इन्द्रद्युम्नोहतः कोपाद् यवनश्च कशेरुमान्” हरिवं० १६ अ०। भा० व० १२ अ०।

कशोक = त्रि० कश–ताडने बा० ओक। हिंसके राक्षसादौ “मा त्वा दभन् दूरे वासः कशोकाः” अव० ५, २, ४।

कश्चन = अव्य० कः + विभक्त्यन्तात् चन इति मुग्ध० पाणिन्यमरमते पृथक् पदमिति भेदः। (केओ) इत्यर्थे “दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ” माघः। चित्। कश्चिदप्यत्र अव्य० एकपदं द्विपदं वेति भेदः। “कश्चित् कान्ताविवहगुरुणा स्वाधिकारे प्रमत्तः” मेघ०।

कश्मल = न० कश–कल मुट् च। १ मूर्च्छायां, २ मोहे, “कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्” गीता। “मा राजन्! कश्मलं षोरं प्राविशो बुद्धिनाशनम्” भा० स० ४४ अ०। वेदे पृषो० लस्य शः। कश्मश तत्रार्थे “विद्वेष कश्मशं भयममित्रेषु निदध्मसि” अथ० ३ पापे च शब्दमा० ४ मलिने त्रि० हेम०।

कश्मीर = पु० कश–ईरन् मुट् च। स्वनामख्या ते देशभेदे। ततो भवादौ कच्छा० अण्। काश्मीर तद्देशभवे त्रि०। कश्मीरोऽभिजनोऽस्य तक्षशिला० अञ्। काश्मीर पित्रादिक्रमेण तद्देशवासिनि त्रि० स्त्रियामुभयत्र ङीप्। तस्य राजन्यपि तथा। बहुषु तु तस्य लुक्। कश्मीराः। स्त्रियां भर्गादि० न लुक्। काश्मीरी। “अत ऊर्द्धं जनपदान् निबोध गदतो मम” इत्युपक्रमे “कश्मीराः सिन्धुसौवीराः गान्धारा दर्शकास्तथा” भा० भी० ९ अ० जम्बुखण्डविभागे देशकीर्त्तने। तद्देशसीमादि शक्तिसङ्गमतन्त्रे ७ पटले उक्तं यथा–“शारदामठमारभ्य कुद्धुमाद्रितटान्तकः। तावत् कश्मीरदेशः स्यात् पञ्चाशद्योजनात्मकः”।

कश्मीरजन्मन् = न० कश्मीरदेशे जन्म यस्य। कुङ्कुमभेदे। कश्मीरजादयोऽप्यत्र। तद्भेदगुणादि भाव प्र० उक्तं यथा“कुङ्कुमं मसृणं रक्तं काश्मीरं पीतकं वरम्। सङ्कोचं पिशुनन्धीरं वाह्लीकं शोणिताभिधम्। कश्मीरदेशजेक्षेत्रे कुङ्कुमं यद्भवेद्धि तत्। सूक्ष्मकेशरमारक्तं पद्मगन्धि तदुत्तमम्। वाह्लीकदेशसञ्जातं कुङ्कुमं पाण्डुरम्मतम्। केतकीगन्धयुक्तन्तत् मध्यर्म सूक्ष्मकेशरम्। कुङ्कुनम्पारसी के यत् मधुगन्धि तदीरितम्। ईषत्पाण्डुरवर्णं तदधमं खलु केशरम्। कुङ्कुमं कटुकं स्निग्धं शिरोरुग्व्रणजन्तुजित्। तिक्तं वमिहरं वस्त्यं व्यङ्गदोषत्र यापहम्”

कश्य = न० कशत्यनेन कश–शब्दे बा० करणे यत्। १ मद्ये वैज०। मद्यपानेन यथेष्टशब्दकरणात् तथात्वम्। कशामर्हति दण्डा० यत्। २ कशाघातयोग्ये अश्वमध्यभागे त्रि० अमरः।

कश्यप = पु० कश्यं पिवति वा–क उप० स०। ब्रह्मणो मानसपुत्रस्य मरीचेः पुत्रे ऋषिभेदे तस्य तन्नामनिरुक्ति- र्यथा–“ब्रह्मणस्तनयो योऽभूत् मरीचिरिति विश्रुतः। कश्यपस्तस्य पुत्रोऽभूत् कश्यपानात् स कश्यपः” मार्कण्डे० पु०। तस्य वंशादिकथा “ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः। मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः। मरीचेः कश्यपः पुत्रः कश्यवात्तु इमाः प्रजाः। प्रजग्मिरे महाभागा दक्षकन्यास्त्रयोदश। अदितिदितिर्दनुः काला दनायुः सिंहिका तथा। क्रोधा प्रधा च विश्वा च विनता कपिला मुनिः। कद्रूश्च मनुजव्याघ्र! दक्षकन्यैव भारत!। एतासां वीर्य्यसम्पन्नं पुत्रपौत्रप्रपौत्रकम्” भा० आ० ६५ अ० एतासामपत्यभेदास्तत्तच्छब्दे दृश्याः। “कश्यपाय त्रयोदशः” मनुः। तस्य च वंशादिकथा भाग० अन्यथैवोक्ता यथा–“पत्नी मरीचेस्तु कलासुषुवे कर्दमात्मजा। कश्यपं पौर्ण्णमासं च रापूरितं जगत्” भाग० ४, १, ११ श्लो० इत्युक्त्वा तत्पत्नीनां दक्षप्रजापतिकन्यानां नामभेदः नामान्तरेण तार्क्ष्यनामकस्य तस्य च अन्या अपि चतस्रः दक्ष कन्याः पत्न्य आसन्” इति ६ स्क० उक्तं यथा० “ततः प्राचेत तसोऽसिक्न्यामनुनीतः स्वयम्भुवा। षष्टिं संजनया मास दुहितॄः पितृवत्सलाः। दश धर्मस्य कायेन्दोर्द्विषट् त्रिनव दत्तवान्। भूताङ्गिराकृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः “नामाधेयान्यमूषां त्वं सापत्यानाञ्च मे शृणु” इत्युपक्रमे (काय कश्यपाय द्विषट् षट्द्विगुणाः द्वादश त्रयोदशत्यर्थः श्रीधरः) उत्तरत्रादित्यादीनां त्रयोदशानां वंशकीर्त्तनत्तथार्थः। “तार्क्ष्याय नामान्तरं प्राप्ताय कश्यपायैव अपरा अवशिष्ठाष्टतस्रः इति” श्रीधरः) “तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनीस्यपि। पतङ्ग्यसूत पतगान् यामिनो शलभानथ। सुपर्ण्णाऽ (विनता) सूत गरुड साक्षाद् यज्ञेशवाहनम्। सूर्य्यसूतमनूरुञ्च कद्रूर्नागाननेकशः” इति। तार्क्ष्यनामककश्यपस्य पत्नीपुत्रानुक्त्वा प्रसिद्धनामककश्यपस्य पत्नीपुत्रनामादिकमुक्तं यथा तत्रैव

“अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत्। अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला। मुनिः क्रोधवशा ताम्या सुरभिः सरमा तिमिः। तिमेर्यादोगणा आसन् श्वापदाः सरमासुताः। सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप!। ताम्रायाः श्येनगृध्राद्यामुनेरप्सरसां गणाः। दन्दशूकादयः सर्पा राजन्!। क्रोधवशात्मजाः। इलायाभूरुहाः सर्वे जातुधानाश्च सौरसाः। अरिष्टायास्तु गन्धर्वाः काष्ठाया द्विशफेतराः। सुता दनोरेकषष्टिस्तेषां प्राधानिकान् शृणु। द्विमूर्द्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः। अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलोऽरुणः। पुलोमा वृषपर्वा च एकचक्रोऽनुतापनः। धूम्रकेशोविरूपाक्षो विप्रचित्तिश्च दुर्जयः। स्वर्भानोः सप्रभां कन्यामुवाह नमुचिः किल। वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली। वैश्वानरसुतायाश्च चतस्रश्चारुदर्शनाः। उपदानवी हयशिरा पुलोमा कालका तथा। उपदानवीं हिरण्याक्षः क्रतुर्हयशिरां नृप। पुलोमा कालका च द्वे वैश्वानरसुते तु कः। उपयेमेऽथ भगवान् कश्यपो ब्रह्मनोदितः। पौलमाः कालकेयाश्च दानवा युद्धशालिनः। तयोः षष्टिसहस्राणि यज्ञघ्नांस्ते पितुः पिता (अर्जुनः)। जघान स्वर्गतो राजन्नेक इन्द्रप्रियङ्करः। विप्रचित्तिः सिंहिकायां शतञ्चैकमजीजनत्। राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागताः। अथातः श्रूयतां वंशोयोऽदितेरनुपूर्वशः। यत्र नारायणो देवः स्वांशेनावतरद्विभुः। विवस्वानर्य्यमा पूषा त्वष्टाऽथ सविता भगः। धाता विधाता वरुणो मित्रः शक्र उरुक्रमः। विवस्वतः श्राद्धदेवं संज्ञाऽ सूयत वै मनुम्। मिथुनञ्च महाभागा यमं च यमुनां तथा। सैब भूत्वाथ बडवा नासत्यौ सुषुवे भुवि। छाया शनैश्चरं लेभे सावर्णिञ्च मनुं ततः। कन्यां च तपतीं या बे वब्रे संवरुणं पतिम्। अर्य्यम्णो मातृका पत्नी तयोश्चर्षणयः सुताः। यत्र वै सानुषो जातिर्ब्रह्मणा चोपकल्पिता। पूषानपत्यः पिष्टादो भग्नदन्तोऽभवत् पुरा। योऽसौ दक्षाय कुपितं जहास विवृतद्विजः। त्वष्टुर्दैत्यानुजा भार्य्या रचना नाम कन्यका। सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्य्यवान्। तं वब्रिरे सुरगणाः स्वस्त्रीयं द्विषतामपि। विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत्” भाग० ६, ६ अ०। कश्यपस्येव तत्पत्नीनामपि नामान्तरकल्पनया विरोथः परिहरणीयः। तस्य पृथिव्याः प्रतिग्रहरूपेण प्राप्तिकथादि भा० हरिवं० ५३। यथा “मार्गवेण पितुः श्राद्धे कश्यपाय निवेदिता। मांसमेदोऽस्थिदुर्गन्धा दिग्धा क्षत्रियशोणितैः। रजस्वलेव युवतिः कश्यपं समुपस्थिता। स मां ब्रह्मर्षिरप्याह किमुर्वि! त्वमवाङ्मुखी। वीरपत्नोब्रतमिदं घारयन्ती विषीदसि। साहं विज्ञापितवती कश्यपं लोकभावनम्। पतयो मे हता ब्रह्मन्! भार्गवेण महात्मना। साहं विहीना विक्रान्तैः क्षत्रियैः शस्त्रवृत्तिभिः। विधवा शून्यनगरा न धारयितुमुत्सहे। तन्मह्यं दीयतां भर्त्ता भगवं स्तत्समो नृपः। रक्षेत् सग्रामनगरां यो मां सागरमालिनीम्। स श्रुत्वा भगवान् वाक्यं वाढमित्यब्रवीत् प्रभुः। ततो मां मानवेन्द्राय मनवे संप्रदत्तवान्। सा मनुप्रमवं पुण्यं प्राप्येक्ष्वाकुकुलं महत्। विपुले नास्मि कालेन पार्थिवात् पार्थिवं गता। एवं दत्तास्मि मनवे मानवेन्द्राय धीमते। भुक्ता राजसहस्रैस्तु महर्षिकुलसम्भवैः। बहवः क्षत्रियाः शूरा मां जित्वा दिवमाश्रिताः”। अयं च गोत्रप्रवर्त्तकः। आर्षशब्दे गोत्रशब्दे च विवृतिः। “त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम्” यजु० ३, ६२। “कश्यपस्यैतन्नामकस्य प्रजापतेः” वेददी०। तस्यापत्यानि विदा० अञ् बहुषु लुक्। कश्यपास्तद्गोत्रापत्येषु “कश्यपानां काश्यपावत्सारासितेति”। “कश्यपासितदेवलेति वा” ८। “शाण्डिलानां कश्यपशाण्डिलयोः” आ० श्रौ० १२, १४, ७। “एते कश्यपाः। एतेषां परस्परमविवाहः” नारा०। काश्यपिर्गरुडाग्रजः इत्यत्र तु भवार्थे इञ्। १ मृगभेदे २ मत्स्यभेदे च मेदि० स्त्रियां जातित्वात् ङाष्। ४ कच्छपे “अपामुद्रो मासां कश्यपः” यजु० २४, २७। “कश्यपः कच्छपः” वेददी०। ४ श्यावदन्ते त्रि०। “प्रसृप्तेभ्यश्चान्यत् कण्वकश्यपयाचमानवर्ज्जम्” कात्या० १०, २, ३५। “कण्वशब्दं बधिरं मन्यन्ते कश्यपञ्च श्यावदन्तमिति केचित्” कर्कः।

कश्यपनन्दन = पु० ६ त०। गरुडे हलायु०। कश्यपसुतादयोऽप्यत्र

कष = बधे भ्वा० पर० सक० सेट् बधोऽत्र निष्पीडनं घर्षणञ्च। कषति अकषीत्–अकाषीत्। ककाष प्रनिकषति। “छदहेम कषन्निवालसत् कषपाषाणनिभे नभस्तले” नैष०। अस्य परस्मैपदिषु पा० ग० पाठात् शब्दकल्पद्रुमे च तथा पाठात् आ० उक्तिर्भ्रान्तिमूला। “पामानं कषमाणम्” इत्यादिप्रयोगस्तु ताच्छीलिकचानशैवोपपत्तेः। “निमूलसमूलयोः कषः” “कषादिषु यथाविध्यनुप्रयोगः” पा० णमुल् अनुप्रयोगश्च। निमूलकाषं कषति समूलकाषं कषति समूलं निमूलं वा कषतीत्यर्थः सि० कौ० “समूलकाषं चकषूरुदन्तः” भट्टिः। “सर्वकूलाभ्रकरीषेषु कषः” पा० कर्मरूपेष्वेषूपपदेषु खच्। सर्वङ्कषः कूलङ्कषः अभ्रङ्कषः करीषङ्कषः”

कष = पु० कष–अच्। स्वर्ण्णषर्णरूपज्ञानार्थे (कषटी) पाषाणभेदे इतरप्रस्तरस्य स्वर्ण्णेन घर्षणात्तस्यैव तथात्वम्। अस्त्रादेस्तीक्ष्णी करणसाधने शाणाख्ये पदार्थे अमरः। “कषपापाणनिभे नभस्तले” नैष० “सुवर्ण्णरेखेव कषे निवेशिता” मृच्छ०।

कषण = त्रि० कष्यते कष–कर्मणि ल्युट्। १ अपक्वे शलाटौ शब्दच०। भावे ल्युट्। २ घर्षणे ३ चालने न०। “कषणकम्पनिरस्तमहाहिभिः” माघः। “कषणेन कम्पनेन” मल्लि०

कषा = स्त्री कष्यते ताड्यतेऽनया कष–बा० करणेअच्। अश्वादेस्ताडनसाधने चर्मादिनिर्मिते पदार्थे (चावुक) रमानाथः। “कृच्छ्रेण पृष्ठे कषया च ताडितः” भाग० ३, ३०, २२।

कषाकु = यु० कष–आकु। अग्नौ सूर्य्ये च उणादिको०।

कषाय = पुंन० कषति कण्ठम्, कष–आय–अर्द्धर्चादि। (कषा) १ रसभेदे २ तद्वति त्रि०। तस्य कारणगुणादि सुश्रुते उक्तं यथा–“तत्र शैत्यरौक्षलाघववैशद्यवैष्टम्भ्यगुणलक्षणोवायुस्तस्य समानयोनिः कषायो रसः सोऽस्य शैत्यात् शैत्यं वर्द्धयति, रौक्ष्यात् रौक्ष्यं, लाघवात् लाघवं, वैशद्यात् वैशद्यं, वैष्टम्भ्यात् वैष्टम्भ्यमिति” “योवक्त्रं परिशोषयति जिह्वां स्तम्भयति कण्ठं बध्नाति हृदयं कषति पीडयति च स कषायः”। “कषायः संग्राहकोरोपणः स्तम्भनः शोधनालेखनः शोषणः पीडनः क्लेदीपशोषणश्चेति। स एवंगुणोऽत्येकएवात्यर्थमुपसेव्यमानः पीडास्यशोषोदराध्मानवाक्यग्रहमन्यास्तम्भगात्रस्फुरणचुमुचुमायनाकुञ्चनक्षेपणप्रभृतीन् जनयति” इति च। कषायवर्गश्च। “न्यग्रोधादिरम्बष्ठादिः प्रियङ्ग्वादीरोध्रादिस्त्रिफलाशल्लकीजम्ब्वाम्रबकुलतिन्दुकफलिनीकतकशाकपाषाणभेदकवनस्पतिफलानि सालसारादिश्च प्रायशः कुरवककोविदारकजीवन्तीचिल्लीपालङ्क्यसु निषण्णकप्रभृतीनि नीवारकादयोमुद्गादयश्च समासेन कषायोवर्गः” सुश्रु०। अस्योत्पत्तिकारणमपि तत्रोक्तं यथा“तस्मादाप्योरसः परस्परसंसर्गात् परस्परानुग्रहात् परस्परानुप्रवेशाच्च सर्वेसु सर्वेषां सान्निध्यमस्त्युत्कर्षापकर्षात्तु ग्रहणम्। स खल्वाप्योरसः शेषभूतसंसर्गाद्विदग्धाः षोढा विभज्यते” इत्युपक्रम्य। पृथिव्यनिलगुणबाहुल्यात् कषायः इति। तत्र तस्य च पित्तकफघ्नत्वमपि तत्रैवोक्तम् “मघुरातक्तकषायाः पित्तघ्नाः कटुतिक्तकषायाः श्लेष्मघ्नाः” इति। “केचिदाहुरग्नीषोमीयत्वाज्जगतो रसाः द्विविधाः सौम्या आग्नेयाश्च, तत्र मधुरतिक्तकषायाः सौम्याः, कट्वम्ललवणा आग्नेयाः मधुराम्ललवणाः स्निग्धाः गुर- वश्च कटुतिक्तकषाया रूक्षा लघवश्च। सौम्याः शीता आग्नेयाश्चीष्णाः” इति सुश्रुते अन्यमतेनोक्त्वा तच्च दूषयित्वा पूर्वदर्शितमतमादृतम् भावप्र० तदेतद्विवृतम् यथा“कषायो रोपणो ग्राही स्तम्भनः शोधनस्तथा। लेखनः पीडनः सौम्यः शोषणो वातकोपनः। कफशोणितपित्तघ्नो रूक्षः शीतो लघुर्मतः। त्वक्प्रसादनमालस्य स्तम्भनो विषदो मतः। जिह्वाया जाड्यकृत् कण्ठस्रोतसाञ्च विबन्धकृत्”। रोपणः व्रणस्य, स्तम्भनो गात्राणां, शोधनो व्रणस्य, लेखनो व्रणाद्युत्सन्नमांसस्य, शोषणोव्रणमज्जादीनाम्। पीडनो हृदयस्य वातकारित्वात्, सौम्यः सोमादुत्पन्नः”। अथातियुक्तस्य कषायस्य गुणास्तत्रोक्ताः “सोऽतिचयुक्तो गुदाध्मानहृत्पीडाक्षेपणादिकृत्”। अभयायामत्र विशेषः। “प्रायशः स्तम्भनं प्रोक्तं कषायमभयां विना”। ३ रागद्वेषादिदोषे। “आहारशुद्धौ सत्वशुद्धिः सत्वशुद्धौ ध्रुवा स्मृतिः, स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै मृदितकषायाय तमसः पारं दर्शयति” छा० उ०। “तस्मै मृदितकषायाय वार्क्षारादिरिव कषायो रागद्बेषादिदोषः, सत्वस्य रञ्जनरूपत्वात् ज्ञानवैराग्याभ्यासरूप्रक्षारेण क्षालितोमृदितो विनाशितो यस्य नारदस्य तस्मै” भा०। “कषाये कर्मभिः पक्वे ततो ज्ञानं प्रजायते” वेदा० प० कर्मणां रागद्वेषादिदोषरूपकषायनाशकत्वमुक्तम्। “लयविक्षेपाभावेऽपि चित्तवृत्तेः रागादिवासनया स्तकीभावात् अखण्डवस्त्वनवलम्बनं कषायः” इति वेदान्तसारोक्तलक्षणे ४ निर्विकल्पकसमाधिविघ्नभेदे “सकषायं विजानीयात् शमप्राप्तं न चालयेत्”। “सकषायं कलुषितं मे चित्तमिति, विज्ञाय शमेऽद्विती यात्मनि निवेशयेत्” विद्वन्म०। ५ रक्ते अनुरागान्विते ६ सुरभौ ७ अपटौ च केशवः। “चूताङ्कुरास्वादकषाय कण्ठः” कुमा०। “कषायः रक्तः” मल्लि०। “निद्राकषायितविपाटललोचनेषु” माघः “कषायितान्यपटूकृतानि” मल्लि०। ८ रागे ९ क्वाथभेदे १० निर्यासे च “रागे क्वाथे कषायोऽस्त्री निर्यासे सौरभे रसे” वैज०। कषायः जातोऽस्य तार० इतच्, तत्करोतीति णिच्कर्मणि क्तवा। कषायित जातकषाये कषायीकृते च त्रि० “अमुनैव कषायितस्तनी” कुमा० “कषायितः रञ्जितः मल्लि०। ११ विलेपने १३ अङ्गरागे च विश्वः। “कर्ण्णार्पितोलोध्रकषायरूक्षे” कुमा० “कषायेण विलेपनेन” मल्लि०। क्वषायश्च सरसादिकः पञ्चविधः भावप्र० दर्शितो यथा। “सरसश्च तथा कल्कः क्वाथश्च हिमफाण्टकौ। ज्ञेयाः कषायाः पञ्चैते लघवः स्युर्यथोत्तरम्” तेषां पञ्चानां लक्षणानि तु तत्तच्छब्दे दृश्यानि। १३ श्योनाकवृक्षे पु० जटाघरः। १४ कलियुगे अमरटीका रागदीषहेतुत्वात्तस्य तथात्वम् १५ लोहितवर्ण्णयुक्ते त्रि० मेदि० १६ रक्तपीतमिश्रितवर्णे अमरटीका। १७ धववृक्षे पु० राजनि० १८ क्षुद्रदुरालभायां स्त्री राजनि०। देशे गम्ये अस्मात् पानशब्दस्य णत्वम्। कषायपाणोदेशभेदः।

कषायपाक = पु० सुश्रुतोक्ते द्रव्यविशेषाणां क्वाथभेदे। तत्प्रकारो यथा “केचिदाहुस्त्वक्पत्रमूलादीनां भागन्तच्चतुर्गुणजलमावाप्य, चतुर्भागावशेषं निःक्वाथ्यापहरेदित्येषः कषायपाककल्पः” इति परमतमुक्त्वा “एतत्तु न सम्यक्” इति तन्मतं दूषयित्वा द्रव्यपरिमाणभेदं दर्शयित्वा च “तत्रान्यतमषरिमाणसम्मितानां यथायोगं त्वक्पत्रमूलादीनामातपपरिशोषितानां छेद्यानि खण्डशश्छेदयित्वा, भेद्यानि अणुशोभेदयित्वाऽवकुट्याष्टगुणेन षोडशगुणेन वा जलेनाभिषिच्य स्थाल्यां चतुर्भागावशिष्टं क्वाथयित्वाऽपहरेदित्येष कषायपाककल्पः” इति स्वमतेनोक्त्वा पक्षान्तरमप्युक्तम् “अथ वा तत्रोदकद्रोणे त्वक्पत्रमूलादीनां तुलामावाप्यचतुर्भागावशिष्टं निःक्वाथ्यापहरेदित्येष कषायपाककल्पः” इति,। अयञ्च कल्पो विशेषानुक्तविषये विशेषनिर्देशे तु तथैव ग्राह्यः” यथाह तत्रैव “स्नेहभेषजतीयानां प्रमाणं यत्र नेरितम्। तत्रायं विधिराख्येयो निर्दिष्टे तत्तदेव तु। अनुक्तद्रव्यकार्य्ये तु सर्वत्र सलिलं मतम्। कल्कक्वाथावनिर्देशे गणात्तस्मात् विनिर्देशेत्”।

कषाययावनाल = पु० नित्यकर्म्म०। तुवरयावनाले धान्यभेदे राजनि०।

कषायवासिक = पु० सुश्रुतोक्ते कीटभेदे। “सूचीमुखः कृष्णगोधा यश्च कषायवासिकः” इत्युपक्रमे “त्रयोदशैते सौम्याः स्युः कीटाः श्लेष्मप्रकोपणाः इति विभज्य–तेषां सौम्यत्वं श्लेष्मप्रकोपकत्वञ्चोक्तम् “तस्य शकृन्मूत्रविषत्वञ्चतत्रैवोक्तं यथा “चिपिटपिच्चटककषायवासिकसर्षपवासिकतोटकवर्च्चःकीटकौण्डिल्यकाः शकृन्मूत्रविषाः”।

कषायित = त्रि० कषायो रक्तपीतवर्ण्णादिर्जातोऽस्य तार० इतच्। जातकषाये तत्करोतीति णिच्–कर्मणि क्त। कषायीकृते च “अमुनैव कषायितस्तनी” इति कुमा०।

कषायिन् = पु० कषायोनिर्यासोऽस्त्यस्य इनि। १ शालवृक्षे जटा० २ खर्जूरवृक्षे ३ लकुचवृक्षे च राजनि० ४ कषाययुक्ते त्रि०

कषि = त्रि० कष–हिंसायां इन्। हिंसाकारके उणादिकोषः।

कषीका = स्त्री कष–हिंसने “कषिदुषिभ्यामीकन्” उणा० कर्मणि ईकन्। १ पक्षिजातौ उज्ज्वल०। शब्दकल्पद्रुमे ह्रस्वमध्यपाठः प्रामादिकः उणादिसूत्रे ईकनो दीर्घतया निर्देशात्। इत उत्तरत्र फर्फरीकादयश्चेत्यादौ सर्वत्र दीर्घादेरेवानुवृत्तेः दीर्घादेरेवोचितत्वात्। कषत्यनया करणे ईकन्। २ खनित्रे स्त्री शब्दचि०।

कषेरुका = स्त्री कशेरुकावत्। (केशुर) तृणकन्दे रायमुकुटः।

कष्कष = पु० कषित्यव्यक्तं शब्दमुचार्य्य कषति कष–हिंसने अच्। कृमिभेदे। “येवाषासः कष्कषास एजत्काः शिपवित्नुकाः। दृष्टश्च हन्यतां कृमिरुतादृष्टश्च हन्यताम्” अथ० ५, २३, ७।

कष्ट = न० कष–क्त “कृच्छ्रगहनयोः कषः” पा० नेट्। १ पीडायाम् व्यथायाम्, “कष्टं युद्धे दश शेषाः श्रुता मे” भा० आ० ३ अ०। “एकस्य कष्टस्य न यावदन्तम्” पञ्चत० २ पीडायुक्ते ३ गहने ४ पीडाकारके च त्रि० “बन्धनानि च कष्टानि परप्रेष्यत्वमेव च” मनुः। “मोहादभूत् कष्टतमः प्रबोधः” रघु०। “शीतातपादिकष्टानि सहतेऽन्यानि सेवकः” पञ्चत० “ततः कष्टतरं नु किम्” गीता। “एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे”। “क्रोधजेऽपि गणे विद्यात् कष्टमेतत्त्रिकं बुधाः” मनुः। ५ कष्टसाध्ये बहूपायेन शाम्ये रिपुरोगादौ। “स हि कष्टतमो रिपुः” “कृतज्ञं धृतिमन्त च कष्टमाहुररिं बुधाः” मनुः। रोगाणां कष्टता च बह्वायाससाध्यता यथोक्तं सुश्रुते “केवलः समदेहाग्नेः सुखसाध्यतमोगदः। अतोऽन्यथा त्वसाध्यः स्यात् कृच्छ्रोव्यामिश्रलक्षणः। क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत्। पूर्वस्यां शान्तवेगायां न क्रियासङ्करो हितः। गुणालाभेऽपि सपदि यदि सैव क्रिया हिता। कर्त्तव्यैव तदा व्याधिः कृच्छ्रसाध्यतमो यदि”। तथा च रोगः त्रिविधः साध्यः असाध्यः याप्यश्च। तत्र साध्योऽपि द्विविधः अल्पायाससाध्योबह्वायाससाध्यश्च बह्वायाससाध्यस्यैव कष्टता। कष्टसाध्याश्च रोगाः सुश्रुते तत्तत्स्थाने उक्तास्तत एबायसेयाः। कष्टसाधने ६ पापे च। “कष्टाय क्रमणे” पा० क्यङ् “कष्टायते कष्टं पापं कर्त्तुमुत्सहते इत्यर्थः” सि० कौ०। अलङ्कारोक्ते ७ दोषभेदे यत्र सन्ध्यादिना अर्थस्य दुर्बोधत्वं तत्र कष्टत्वम् “कष्टं तदर्थावगमोदुरायत्तोभवेद् यदि” इत्यक्तलक्षणात् तच्च सन्धिकृतम् अतएव सा० दर्पणे “सन्धौ विश्लेषाश्लीलकष्टताः” इत्युक्त्वोदाहृतम् “उर्व्यसावत्र चार्वङ्गि! मर्वन्ते चार्ववस्थितिः” इदन्तु वाक्यगतम्। क्लिष्टत्वमप्यस्यैव नामान्तरं “अवाचकत्वं क्लिष्टत्वमिति” सा० द० पदगतदोषे उक्त्वा “क्षीरोदजावसति जन्मभुवः प्रसन्नाः” इति अत्र अर्थप्रतीतेर्व्य वहितत्वमिति तत् लक्षयित्वा क्षीरोदजालक्ष्मीस्तस्या वंसतिः पद्मं तस्य जन्मभुवो जलानि” अर्थावबोधे व्यवधानं दर्शितम्।

कष्टकार = पु० कष्टं करोति कृ–अण् उप० स०। १ संसारे त्रिका०। २ पीडाकारके त्रि०।

कष्टरिपु = पु० कर्म०। कष्टसाध्ये रिपौ स च मनुनोक्तलक्षणो यथा “प्राज्ञं कुलीनं शूरञ्च दक्षं दातारमेव च। कृतज्ञं धृतिमन्तञ्च कष्टमाहुररिं बुधाः” इति।

कष्टस्थान = न० कष्टस्य स्थानम्। दुःखदस्थाने हारा०।

कस = गतौ भ्वा० पर० सक० सेट्। कसति अकसीत्–अकासीत्। चकास–ज्वलादित्वात् कर्त्तरि वा ण। कासः। यङ् चनीकस्यते यङ् लुक् चनीकसीति–कस्ति। प्रनिकसतिउद् + ऊर्द्धगतौ “उत्कसन्तु हृदयान्यूर्द्ध्वं प्राण उदीषतु” अथ० ११, ९, २ १”।निस् + निर् + अपगतौ निष्कसति। णिचि निष्कासयति “निरकासयद्रविमपेतवसुम्” माघः।वि + प्रकाशे। विकसति पङ्कजकलिका “फुल्लश्च इते विकसिते” अमरः “स प्रीतियोगात् विकसन्मुखश्रीः” कुमा०। “क्षणदृष्टिपातविकसद्वदनाम्” माघः। “विकसद्भिरास्यकमलैः कमलैः प्रमदाः” माघः “मुखं विकसितस्मितं वशितवक्रिमप्रेक्षितम्” मालतीमा०। णिचि विकासयति व्यचीकसत्। “वचनेन चोपकुसुमं व्यचीकसत्” माघः। “वौ कसल सेत्या०” पा० इनि विकासी। वरच्। विकस्वरः “मुदा रमन्ते कलभा विकस्वरैः” माघः।अनु + वि + अनुरूपविकाशे “अन्तर्जलेऽनुविकसन्मधुमाधवीनाम्” भाग० ३, १५, १७।प्रवि + प्रकर्षविकाशे प्रविकसति चिरायद्योतिताशेषलोके” माघः सम् + सम्यग्गतौ सङ्कसुकः।

कस = शातने गतौ च अदा० इदित् आत्म० सक० सेट् शातममिह नाशनम्। कंस्ते अकंसिष्ट। चकंसे। प्रनिकंस्ते। कर्मणि कंस्यते। अकंसि।

कस = शातने गतौ च सक० अदा० आत्म० सेट्। शातनमत्र नाशनम्। कस्ते अकसिष्ट। चकसे प्रनिकस्ते।

कस = पु० कस–अच्। (कषटीपातर) कषपाषाणे भरतः।

कसन = पु० कसति हिनस्ति कस–ल्यु। १ कासरोगे २ लूताभेदे स्त्री। “आलमूत्रविषा कृष्णा कसना चाष्टमी स्मृता” सुश्रु० लूताभेदकयने। “पिच्छिला कसनादंशात् रुधिरं शीतलं स्रवेत्” सुश्रु०।

कसनोत्पाटन = पु० कसनं कासरोगम् उत्पाटयति उत्पाटि–ल्यु। वासकवृक्षे, शब्दच०। “येन तेन प्रकारेण वासकः कासनाशकः” इति वैद्योक्तेस्तस्य तथात्वम्।

कसर्णीर = पु० सर्पभेदे। “एतं कसर्ण्णीरः काद्रयेयो मन्त्रमपश्यत्” तैत्ति० सं० १, ५, ४, १। रस्य लत्वमपि “पैद्वो हन्ति कसर्ण्णीलम् पेद्वः श्वित्रमुतासितम्” अथ० १४, ३, ५। विषनाशकल्पे।

कसाम्बु = न० पितृभ्यः कव्यदानकाले देये जले। “उपासते षितरः स्वधाभिः” इत्युपक्रमे “इदं कसाम्बु चयनेन चितं तत्सजाता अपश्यतेवत” अथ० १८, ४, ३७।

कसिपु = पु० कशिपुवत्। अन्ने जटाधरः।

कसेरु = पु० कस–उ एरुगागमः। १ कशेरौ, (केशुर) शूकरस्य प्रिये २ जलकन्दभेदे च। ३ कशेरुशब्दार्थे च राजनि०।

कसेरुका = स्त्री कशेरुकावत्। १ पृष्ठास्थ्नि राजनि०।

कस्कादि = पु० पाणिन्युक्ते विसर्जनीयस्य सत्वनिमित्ते शब्दगणे स च गणः “कस्कः कौतस्कुतः भ्रातुष्पुत्रः शुनस्कर्णः सद्यस्कालः सद्यस्क्राः कांस्कान् सर्पिस्कुण्डिका धनुष्कपालं बर्हिष्पलं यजुष्पात्रं अयस्कान्तः तमस्काण्डः अयस्काण्डः मेदस्पिण्डः भास्करः अहस्करः आकृतिगणः”

कस्तम्भी = स्त्री कं शिरोऽग्रभाग स्तभ्नाति स्तन्भ–अण् गौरा० ङीष मुग्ध० षणीप्। शकटस्याधःपतनवारणार्थमीषादण्डाग्रोत्तम्भ्नार्थायां मेथौ “अथ यज्जघने कस्तम्भीम्” शत० ब्रा० १, १, २, ९। “शकटस्याधःपतनं वारयितुमीषादण्डाग्रोत्तस्तनार्था मेथिः कस्तम्भी” भा०।

क(का)स्तीर = न० ईषत्तीरमत्र कुगति० समा० कोः कादेशः “कास्तीराजस्तुन्दे नगरे” पा० सृट्। १ नगरविशेषे २ तज्जाते रङ्गे हेम०। हेमचन्द्रे कस्तीरमिति ह्रस्वपाठः प्रामादिकः पा० सूत्रे कास्तीरे दीर्घपाठदर्शनात्।

कस्तूरी = स्त्री कसति गन्धोऽस्याः दूरतः कस–ऊर–बा० तुट् च। मृगमदे मृगनाभिजाते गन्धद्रव्यभेदे स्वार्थे कन्। कस्तूरिका तत्रैव “तद्गुणपर्य्यायादि मावप्र० उक्तं यथा– “मृगनाभिर्मृगमदः कथितस्तु सहस्रभित्। कस्तूरिका च कस्तूरो वेधमुख्या तु सा स्मृता। काश्मीरी कपिलच्छाया कस्तूरी त्रिविधा स्मृता। कामरूपोद्भवा श्रेष्ठा नैपाली मध्यमा भवेत्। कामरूपोद्भवा कृष्णा नैपाली नीलवर्णयुक्। काश्मीरदेशसम्भूता कस्तूरी त्वधमा मता। कस्तूरिका कटुस्तिक्ता क्षारीष्णा शुक्रला गुरुः। कफवातविषच्छर्दिशीतदौर्गन्ध्यशोषहृत्”। “प्रस्थं हिमाद्रेर्मृगनाभिगन्धि” कुमा० श्लोकव्या० मल्लिनाथेन “मृगनाभिःकस्तूरी तद्गन्धि कस्तूरीमृगाधिष्ठानादित्युक्तं तेन हिमाद्रावपि तन्मृगस्य सञ्चारोऽस्तीति गम्यते। “कस्तूरीतिलकं ललाटपटले” विष्णुमूर्त्तिवर्णने। “कस्तूरिकाजननशक्तिभूता मृगेण किं सेव्यते सुमनसां मनसापि गन्धः” रसग०। “कस्तूरिकामृगविमर्दसुगन्धिरेति” माघः। कस्तूरिकाहेतुर्मृगः कस्तूरिकामृगः।

कस्तूरी(म)वल्लिका = स्त्री कस्तूरीगन्धयुक्ता म(व)ल्लिका। (मुसक्दाना) लताभेदे राजनि० वमध्यपाठः भावप्र० सम्मतः। तद्गुणा भावप्र० उक्ता यथा। “लता कस्तूरिका तिक्ता स्वाद्वी वृष्या हिमा लघुः। चक्षुष्या भेदिनी श्लेष्मतृष्णा वस्त्यास्यरोगहृत्” अत्र लतेति विशेष्यपदोक्तेः कस्तूरिका वल्लिकेत्येवेत्युचितम्।

कस्मल = न० कश्मलवत्। पापाद्यर्थे रायमुकुटः।

कस्वर = त्रि० कस–गतौ शातने च वरच्। १ गन्तरि २ हिंसके च

कहय = पु० कस्य सूर्य्यस्य हयः। सूर्य्याश्वे तस्यापत्यम् शिवा० अण्। काहय तदपत्ये पुंस्त्री। पाणिनिगणे कह्वेति पाठः साधुः।

कहूय = पु० ह्वे–क्यप् हूयः कः सूर्य्यो हूयो यस्य। सूर्य्यह्वायके ऋषिभेदे। तस्यापत्यं शिवा० अण्। काहूय तदपत्ये पुंस्त्री।

कहोड = पु० ऋषिभेदे स च उद्दालकर्षिशिष्यः अष्टावक्रस्य पिता। “उद्दालकस्य नियतः शिष्य एको नाम्ना कहोड इति विश्रुतोऽभूत्” भा० व० १३२ अ०। अधिकमष्टाबक्रशब्दे दृश्यम्। वा डस्य लः कहोलोऽप्यत्र। ततः अनुकम्पायां नीतौ च वा ठक् द्वितीयाजादेः सन्ध्यक्षरस्य च ल्क्। कहिक अनुकम्पितकहोडे। वा इल। कहिल। घ। कहिय इत्यादिरपि तत्रार्थे।

कह्लार = न० के जले ह्लादते ह्लाद–अच् पृषो० दस्य रः। श्वेतोत्पले। “आह्लादिकह्लारसमीरणाहिते” माघः। “नलवञ्जुलकह्लारचन्दनोत्पलपद्मकैः” सुश्रु०। तस्य गुणादि उत्पलशब्दे उक्तम्।

कह्व = पु० कं जलं ह्वयति स्पर्द्धते शुक्लरूपत्वात् ह्वे–क। वके अमरः। अस्यैव शिवादिगणे पाठमते अपत्ये अण्। काह्व तदपत्ये पुं स्त्री।

***