कल्प = पु० कल्पते समर्थो भवति स्वक्रियायै विरुद्धलक्षणया असमर्थोभवति वाऽत्र, कृपू सामर्थ्ये विरुद्धलक्षणया असामर्थ्ये वा आधारे घञ् कल्पयति सृष्टिं विनाशं वात्र कृप-णिचाधारे अच्। ब्रह्मणो रात्रिरूपे जगतां चेष्टाराहित्यसम्पादके १ प्रलये २ तस्य दिनरूपे जगतां चेष्टासम्पादके च कालभेदे। “यदा स देवो जागर्त्ति तदेदं चेष्टते जगत्। यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति” मनुना जगच्चेष्टातद्राहित्ययोर्ब्रह्माहोरात्रयोरुक्तेस्तथात्वम्।

कलिशब्दे दर्शितवाक्येन युगमानमुक्त्वा कल्पमानं प्रदर्श्य ब्रह्मणः आयुःपरिमाणं तस्य गतायुःकालश्च सू० सि० उक्तो यथा“युगानां सप्ततिः सैका मन्वन्तरमिहोच्यते। कृताव्दसङ्ख्यस्तस्यान्ते सन्धिः प्रोक्तो जलप्लवः” सू०। “युगानां सैका सप्ततिरेकसप्ततिर्महायुगमित्यर्थः। इह–मूर्त्तकाले। मन्वन्तरं मन्वारम्भतत्समाप्तिकालयोरन्तरकालमानमित्यर्थः। मूर्त्तकालमानभेदाभिज्ञैः कथ्यते। तस्य मनोरन्ते विरामे जाते सति कृताव्दसङ्ख्यः मदुक्तकृतयुगवर्षमितः सन्धिः कालविद्भिः प्रकर्षेण द्वितीयमन्वारम्भपर्य्यन्तं भूतमाविमन्वोरन्तिमादिसन्धिरूपैककालेन कथितः। तत्स्वरूपमाह “जलप्लव इति। जलपूर्ण्णा सकला पृथ्वी तस्मिन् लोकसंहारकाले भवति। अथ कल्पप्रमाणं सविशेषमाह” रङ्ग०। “ससन्धयस्ते मनवः कल्पे ज्ञेयाश्चतुर्दश। कृतप्रमाणः कल्पादौ सन्धिः पञ्चदशः स्मृतः” सू०। “ते एकसप्ततियुगरूपा मनवः स्वायम्भुवाद्याः ससन्धयः स्वस्वसन्धिसहिताश्चतुर्द्दशसङ्ख्याकाः कल्पकाले ज्ञातव्याः। स्वसन्धियुक्तचतुर्द्दशमनुभिः कल्पः स्यादित्यर्थः। ननु ग्रन्थान्तरे कल्पमानं युगसहस्रं त्वया तु युगमानमेकसप्ततिगुणं मनुमानं ३०६७२०००० कृतावद् १७२८००० युक्तं ससन्धिमनुमानं ३०८४४८००० इदं चतुर्द्दशगुणं ४३१८७२००० कल्पप्रमाणं तच्च कृतीनं युगसहस्त्रमित्यत आह। कृतप्रमाण इति। कल्पादौ प्रथममन्वारम्भे कृतयुगवर्षमितो मनोश्चतुर्दशत्वेऽप्याद्यः पञ्चदशकः सन्धिः कालज्ञैरुक्तः। तथा च कृतवर्षानन्तरं प्रथममन्वारम्भ इति तद्वर्षंयोजनेनाविरोध इति भावः। अथ ब्रह्मणो दिनरात्र्योः प्रमाणमाह” रङ्ग०। “इत्थं युगसहस्नेण भूतसंहारकारकः। कल्पो ब्राह्ममहः प्रोक्तं शर्वरी तस्य तावती” सू० “इत्थं पूर्व्वोक्तप्रकारसिद्धेन युगसहस्रेण भूतसंहारकारको लयात्मकः कल्पकाली ब्राह्मं ब्रह्मणः सम्बन्ध्यहः दिनं कालज्ञैरुक्तम्। तस्य ब्रह्मणस्तावती दिनपरिमिता शर्व्वरी रात्रिः। कल्पद्वयं तदहोरात्रमिति फलितार्थः। अथ ब्रह्मणआयुःप्रमाणमतीतवयःप्रमाणं चाह” रङ्ग०। “परमायुः शतं बस्य तयाहोरात्रसङ्ख्यया। आयुषो०ऽर्द्धमितं तस्य शेषकल्पोऽयमादिमः” सू०। परमपरं शृणु पूर्व्वोक्तं त्वया श्रुतमपरं च वक्ष्यमाणं शृणु त्वम्। यद्वा परमेति दैत्यवरार्थकं सम्बोधनम्। त्वं तस्य ब्रह्मणस्तथा पूर्ब्बोक्तयाहोरात्रमित्या कल्पद्वयरूपया शतं शतवर्षपरिमितमायुः शरीरघारणकालं जानीहि। एतदुक्तं भवति। अहोरात्रमानात् पूर्ब्बपरिभाषया (३०) मासमानं तस्मात् पूर्व्वोक्तपरिभाषया (१२) ब्रह्मणो वर्षमानमेतच्छतसङ्ख्यया ब्रह्मायुरिति। न तु यथाश्रुतार्थेन कल्पशतद्वयमायुः, कोटादीनामपि दिनसङ्ख्ययायुषोऽनुक्तेः सुतरां ब्रह्मणः शतदिनात्मकायुषोऽसम्भवात् “निजेनैव तु मानेन आयुर्वर्षशतं स्मृतम्” इति विष्णुपुराणोक्तेश्च। एतेन परमा–रित्येकं पदमिति निरस्तम् ब्रह्मणोऽनियतायुर्दायासम्भवात्। तस्य ब्रह्मण आयु शतवर्षरूपमस्यार्द्धं पञ्चाश द्वर्षपरिमितमितं गतम्। अयं वर्त्तमान आदिमः प्रथमः शेषकल्पः शेषायुर्दायस्य ब्रह्मदिवस उत्तरार्द्धस्य प्रथमदिवसो वर्त्तमान इति फलितार्थः। अथ वर्त्तमानेऽस्मिन् दिवसेऽप्येतद्गतमित्याह रङ्ग०। “कल्पादस्माच्च मनवः षड् व्यतीताः ससन्धयः। वैवस्वतस्य च मनोर्युगानां त्रिघनो गतः” सू०। “अस्माद्वर्तमानात् कल्पाद् ब्रह्मदिवसात् षट्सङ्ख्याका मनय एकसप्ततियुगरूपाः ससन्धयः सप्तभिः सन्धिभिः कृतयुगप्रमाणैः सहिता व्यतीता गताः। चकारआयुषोऽर्द्धमितमिति प्रागुक्तेन समुच्चयार्थकः। वर्त्तमानस्य सप्तमस्य मनोर्वैवस्वताख्यस्य युगानां त्रिघनस्त्रयाणां घनः स्थानत्रयस्थिततुल्यानां घातः सप्तविं शतिसङ्ख्यात्मको गतः। सप्तविंशतियुगानि गतानीत्यर्थः। चः समुच्चये। अथ वर्त्तमानयुगस्यापि गतमेतदिति वदन्नभिमतकालेऽग्रतो वर्षगणः कार्य्य इत्याह” रङ्ग०। “अष्टाविंशाद् युगादस्माद्यातमेतत् कृतं युगम्। अतः कालं प्रसङ्ख्याय सङ्ख्यामेकत्र पिण्डयेत्” सू०। “अष्टाविं शतितमाद्वर्तमानान्महायुगादेतदल्पकालेन पूर्व्वकाले साम्प्रतं स्थितं कृतं युगं गतम्। अतः कृतयुगान्ता नन्तरमभिमतकाले कालं वर्षात्मकं प्रसङ्ख्याय गणयित्वा सङ्ख्यां पञ्चस्थानस्थितां भिन्नामेकत्रैकस्थाने पिण्डयेत् सङ्कलनविषयां कुर्य्यात्। सर्वेषां गतानां योगं कुर्य्यादित्यर्थः” रङ्ग०!

मासस्य त्रिंशत्तिथ्यात्मकतया ब्रह्मसासस्य त्रिंशत्कल्पघटितत्वात् तेषां कल्पानां नामानि हेमा० दा० मात्स्ये आह स्म

“कल्पानुकीर्त्तनं वक्ष्य सर्व्वपापप्रणाशनम्। यस्यानुकीर्त्तनादेव वेदपुण्येन युज्यते। प्रथमः श्वेतकल्पस्तु द्वितीयो नीललोहितः। वामदेवस्तृतीयस्तु ततो रषन्तरोऽपरः। रौरवः पञ्चमः प्रोक्तः षष्ठः प्राण इति स्मृतः। सप्तमोऽथ वृहत्कल्पः कन्दर्पोऽष्टम उच्यते। सद्योऽथ नवमः प्रोक्त ईशानो दशमः स्मृतः। व्यान एकादशः प्रोक्तः तथा सारस्वतोऽपरः। त्रयोदश उदानस्तु गारुडोऽथ चतुर्दशः। कौर्म्मः पञ्चदशोज्ञेयः पौर्णमासी प्रजापतेः। षोडशोनारसिंहस्तु समानस्तु ततः परः। आग्नेयोऽष्टादशः प्रोक्तः सोमकल्पस्तथाऽपरः। मानवो विंशतिः प्रोक्तस्तत् पुमानिति चापरः। वैकुण्ठश्चापरस्तद्वल्लक्ष्मीकल्पस्तथा परः। चतुर्विंशस्तथा प्रोक्तः सावित्रीकल्पसंज्ञकः। पञ्चविंशतिमो घोरो वाराहस्तु ततोऽपरः। सप्तविंशोऽथ वैराजो गौरीकल्पस्तथाऽपरः। माहेश्वरस्ततः प्रोक्तो त्रिपुरो यत्र घातितः। पितृकल्पस्तथान्ते तु या कुहूब्रह्मणः स्मृता। इत्ययं ब्रह्मणोमासः सर्वपापप्रणाशनः। आदावेव हि माहात्म्यं यस्मिन् यस्य विधीयते। तस्य कल्पस्य तन्नाम विहितं ब्रह्मणा पारा”। तदारम्भकालश्च ब्रह्मसिद्धान्ते उक्तः “चैत्रसितादेर्भानोर्वर्षर्ष्ठुमासयुगकल्पाः। सृष्ट्यादौ लङ्कायामिह प्रवृत्ताः दिनैर्वत्स!” चैत्रसितादेः चैत्रशुक्लप्रतिपदमारभ्येत्यर्थः। ब्रह्मपु० “चैत्रे मासि जगत् ब्रह्मा ससर्ज प्रथमेऽहनि। शुक्लपक्षे समग्रन्तु तदा सूर्य्योदये सति। प्रवर्त्तयामास तदा कालस्य गणनामपि” इति कालसामान्यगणनस्य तत आरभ्योक्तेः” एवं चैत्रशुक्लप्रतिपदि कल्पप्रारम्भेऽपि “माघशुक्लतृतीयायां कृष्णायां फाल्युनस्य च। पञ्चमी चैत्रमासस्य यथैवाद्या तथा परा। शुक्ला त्रयोदशी माघे कार्त्तिकस्य तु सप्तमी। नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्। कल्पानामादयो ह्येता दत्तस्याक्षयकारकाः” वाराहवाक्यानि यदि समूलानि तदा कल्पभेदादविरुद्धानि कल्पादित्वेन तत्तत्तिथिषु श्राद्ध कर्त्तव्यतोपयोगिपारिभाषिकत्वपरतया वा समर्थनीयानि। अतएव सू० सि० सुरासुराणामन्योन्यमहोरात्रविपर्य्ययात्। यत् प्रोक्तं तद्भवेद्दिव्यं भानोर्भगणपूरणात्। मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम् न तत्र। द्युनिशो र्भेदो ब्राह्मं कल्पः प्रकीर्त्तितः, इत्यादिना युगमन्वन्तरकल्पानां सौरत्वेनोक्तिः। सौरमाने च नियतयुगादिकालेषु अनियततिथिसम्भवेऽषि सर्वेषां कल्पानामादौ चैत्रसितादितिथिरेव नियता पायुक्तवचनप्रामाण्यात्। किन्तु प्रागुक्तमात्स्ये ब्राह्मकल्पानां चान्द्रत्वोक्तेः चान्द्रत्वमपि तेन तिथिभेदसम्भवः सू० सि० वाक्यं तु ग्रहस्पष्टीकरणोपयोगीत्यविरोधः। अत्र तिथिद्वैधे युगादिवत् व्यवस्था। कृप–णिच्–भाबे अच्। २ रचने ३ विकल्पे च इतिकर्त्तव्यतायुक्ते ४ विधाने च। “प्रभुः प्रथमकल्पस्य योऽनुकल्पे प्रवर्त्तते” मनुः। कल्पोविधानमस्त्यत्र औचित्येन। ५ उचिते त्रि० शाश्वतः। कल्प्यतेऽनुष्ठीयतेऽनेन करणे अच्। ६ वैदिकविधानज्ञापके शास्त्रभेदे स चाश्वलायनापस्तम्बबौधायनकात्यायनादिसूत्रात्मकः। तस्य यथोपयोगिता तथोक्तं सायणाचार्य्येण ऋग्वेदभाष्योपोद्घाते यथा-

“कल्पस्त्वाश्वलायनापस्तम्बवौधायनादिसूत्रं, कल्प्यते समर्थ्यते याबप्रयोगोऽनेनेति व्युत्पत्तेः। नन्वाश्वलायनः किंमन्त्रकाण्डमनुसृत्य प्रवृत्तः? किं वा ब्राह्मणमनुसृत्य? नाद्यः “दशपूर्णमासौ तु पूर्वं व्याख्यास्याम” इत्येवं तेनोपक्रान्तत्वात् न ह्यग्निमीड इत्यादयोमन्त्रा दशपूर्ण्णमासयोः कचिद्विनियुक्ताः। न द्वितीयः “आग्नावैष्णवमेकादशकपालं पुरोडाशं निर्वपन्ति दीक्षणीयायाम्” इत्येवं दीक्षणीयेष्टेर्बाह्मणे प्रक्रान्तत्वात्। अत्रोच्यते–मन्त्रकाण्डोब्रह्मयज्ञादिजपक्रमेण प्रवृत्तो न तु यागानुष्ठानक्रमेण ब्रह्मयज्ञश्चैवं विहितः “यत् स्वाध्यायमधीयीतैकामप्यृचं यजुः साम वा तद्ब्रह्मयज्ञम्” इति सोऽयं ब्रह्मयज्ञ जपीऽग्निमीडे इत्याम्नायक्रमेणैवानुष्ठेयः तथा “सर्वा ऋचः सर्वाणि यजूंषि सर्वाणि सामानि वाचः स्तोमे पारिप्लवं शंसतीति” विवीयते तथा “आश्विने शस्यमाने सूर्यो नोदियादपि सर्वा दाशतयीरनुब्रूयादिति” विधीयते तथा “रिच्यत इव वा एष प्रेव रिच्यते यो याजयति यो वा प्रतिगृह्णाति याजयित्वा प्रतिगृह्य वाऽनश्नन् त्रिःस्वाध्यायं वेदमधीयीतेति” प्रायश्चित्तरूपं वेदपारायणं विहितम् इत्यादिषु कृत्स्नमन्त्रका ड्विनियोगेषु संप्रदायपारम्पर्यागत एव क्रम आदरणीयः। विशेषविनियोगस्तु मन्त्रविशेषाणां श्रुतिलिङ्गवाक्यादिप्रमाणान्युपजीव्याश्वलायनोदर्शयति अतोमन्त्रकाण्डक्रमाभावेऽपि न कश्चिद्विरोधः। इषे त्वेत्यादिमन्त्रास्तु क्रत्वनुष्ठानक्रमेणैवाम्नाता इत्यापस्तम्बादयस्तेनैव क्रमेण सूत्रनिर्माणे प्रवृत्ताः। आम्नातत्वादेव जपादिष्वपि स एव क्रमः। यद्यपि ब्राह्मणे दीक्षणीयेष्टिरुपक्रान्ता तथापि तस्या इष्टेर्दर्शपूर्णमासविकृतित्वेन तदपेक्षत्वादाश्वलायनस्यादौ तद्व्याख्यानं युक्तम् अतः कल्पसूत्रं मन्त्रविनियोगेन क्रत्वनुष्ठानमुपदिश्योपकरोति तर्हि “प्र वो वाजा” इत्यादीनां सामिधेनीनामृचामेव विनियोगमाश्वलायनोब्रवीतु “नमः प्रवक्त्र” इत्यादय स्त्वनाम्नाताः कुतो विनियुज्यन्ते? इति चेत् नायं दोषः शास्वान्तरसमाम्नातानां ब्राह्मणान्तरसिद्धस्य विनियोगस्य गुणोपसंहारन्यायेनात्र वक्तव्यत्वात् सर्व्वशाखां प्रत्ययमेकं कर्मेति न्यायविदः, तस्माच्छिक्षेव कल्पोऽप्यपेक्षितः”। कात्या० व्या० कर्केण कल्पशास्त्रप्रयोजनमित्थं दर्शितं यथा– “इह पुण्यो वै पुण्येन कर्म्मणा भवति” “तमेतं वेदानुवचनेन विविदिषन्ति ब्रह्मचर्य्येण तपसा श्रद्धया यज्ञेनेति” “अग्निहोत्रं जुहुयात् स्वर्गकाम” इत्यादिमिर्वाक्यैः कर्म्मणां स्वर्गापवर्गादिश्रेयःसाधनत्वं प्रतीयते। तानि चाग्निहोत्रादिकर्म्माणि वेदवाक्यैकवेद्यानि। वेदवाक्यानि चानेकशास्वावस्थिततया स्वतश्च प्रतिवाक्यं नानाविधपरस्परविरुद्धार्थस्फुरणेन दुर्बोधार्थानि बहुभिरर्थवादवाक्यैर्मिश्रितानि च तथाहि “अग्निहोत्रं जुहुयात् स्वर्गकामः” इत्यत्र किं स्वर्गो होमाय, उत होमः स्वर्गाय, तथा अग्निहोत्रशब्दोगुणविधानार्थो नामधेयं येति तथा “स वै संवत्सरं दीक्षाभिरेति” इत्याद्रौ क्वचित् संवत्सरशब्दस्य मुख्यार्थत्वम् सहस्रसंवत्सरादौ तस्यैव गौणत्वम्। अर्थवादादिभिश्च पाठात् विध्यर्थवादसंदेहोऽपि भवति किमयं विधिः? उतार्थवादः? इति यद्य पि जैमिनि शवरस्वामिकुभट्टमारिलप्रभृतिभिर्मीमांसायां तानि वाक्यानि संदेहनिरासपूर्व्वकं यथार्थं व्याख्यातानि सन्ति। अधीत शास्त्राणां च तदार्थावगमोऽपि सुकर एव, तथापि तेषां नानाशाखाव्यवस्थितत्वेनेदानीन्तनैः सर्वैः पुरुषैरध्येतुं ज्ञातुं वाऽशक्यत्वात्तदधीनं कर्म्मणां ज्ञानं दुःशक्यमिदानीन्तनानामिति मत्वा परमकारुणिको भगवान् कात्यायनाचार्य्यो नानाशाखागतविधिवाक्यसंग्रहरूपं कल्पसूत्रं प्रणीतवान्”। तत्र प्रतिपाद्यविषयाः कात्यायनशब्दे वक्ष्यन्ते

आर्षेयकल्पसूत्रविषयाश्च “अथार्षेयकल्पो व्याख्यातव्यः” इत्युपक्रम्य सर्वक्रतुप्रकृतिभूतस्य त्रिपर्वणोज्योतिष्टोमस्य सर्वाहर्गणप्रकृतिभूतस्य व्यूढस्य द्वादशाहस्य च ब्राह्मणवाक्येनैव प्रयोगो दर्शितस्तदुपजीवनेन क्रत्वन्तराणि प्रयोक्तव्यानीति दर्शयितुमादौ ऋत्विग्वरणादिकमभिधाय १ प्र० “कॢप्तो ज्योतिष्टोमोऽतिरात्रः षोडशिकः” इत्यादिना सौभरमुद्वं शीयमित्यन्तेन सामविशेषयुक्तस्य प्रायणीयस्य प्रयोगो दर्शितः। ततः “उपास्मै गायता नरः” इत्यादिना अभिप्लवस्य प्रथमाहस्य। “पवस्व वाचः” इत्यादिना द्वितीयाहस्य। “दविद्युतत्यारु चा” इत्यादिना तृतोयाहस्य। “पवमानोअजीजनत्” इत्यादिना चतुर्थाहस्य। “पवमानस्य विश्ववित्” इत्यादिना पञ्चमाहस्य। “असृत प्रवाजिनः” इत्यादिना षष्ठाहस्य। “पृष्ट्यः षडहः ससूढो वा व्यूढो वा” इत्यारिवा पृष्ट्यषडहस्य त्यहाणां प्रयोगः। एवम् चतुर्थस्याह्न इत्यादिला उत्तरत्र्यहकल्पः। २ ग्र० “पवस्य वाचो अग्रियः” इत्यादिना अभिजितोऽह्नः कल्पः। “उपास्मै गायता नरः” इत्यादिना स्वरसाम्नां प्रथमस्य। “पवस्व वाचोऽग्रि यः” इत्यादिना तेषां द्वितीयस्य “दविद्युतत्यारुचा” इत्यादिना तृतीयस्य। “उपास्मै गायता नरः” इत्यादिन विषुवायनानामावृत्तानां स्वरसाम्नाम् कल्पः। “उप त्व जामयः” इत्यादिना विश्वजितः। “पौरमीढं मानवं जनित्रम्” इत्यादिना आवृत्तयोः पृष्ट्याभिप्लवयोः,। ज्योतिष्टोममाज्येत्यादिना आयुष्टोमस्य। “पवस्व वाचोऽग्रियः” इत्यादिना गोष्टोमस्य। “उपास्मै गायता नरः” इत्यादिना महाव्रतस्य। ३ प्र० “कॢप्तो ज्योतिष्टोमः” इत्यादिना गोः, आयुषः, अभिजितः विश्वजितश्च महाव्रतस्य। “पवस्व वाचोऽग्रियः” इत्यादिंना प्रथम साहस्रस्य। “एषैवोत्तरस्य कॢप्तिः” इत्यादिना द्वितीयतृतीययोः। “उपास्मै गायता नरः” इति चतुर्थस्य। “उपास्मै गायता नरः” इत्यादिना प्रथमसाद्यस्क्रम्य। “एषैवोत्तरस्य कॢप्तिः” इत्यादिना साद्यस्क्रत्रिकस्य। “पवमानस्य जिन्वते” इत्यादिना श्येनरूपसाद्यस्क्रस्य। “उपास्मै गायता नरः” इत्यादिना एकत्रिकसाद्यस्क्रस्य। ज्योतिष्टोमं बहिष्पव मानमित्यादिना प्रथमव्रात्यस्तोमस्य। “एते असृग्रमिन्दव” इत्यादिना द्वितीयतृतीयव्रात्यस्तोमयोः। “अग्रियवती प्रतिपत्” इदित्यादिना चतुर्थव्रात्यस्तोमस्य। “अग्न! आयूंषि पवस” इत्यादिना प्रथमस्याग्निष्टुतः। “एषैवोत्तरस्य कॢप्तिः” इत्यादिना द्वितीयतृतीयचतुर्थानामग्निष्टुताम् प्रजापतेरपूर्व्वस्य वृहस्पतिसवस्य, इषु नामकयज्ञस्य च। “प्र सोमासो अधन्दिषुः” इत्यादिना सर्व्वस्वारस्य। ४ प्र०। “अग्न! आयूंषि पवसे” इत्यादिना वैश्वदेववारुणप्रघसिकैकाहस्य। “कया त्वं न ऊत्या पवस्व” इत्यादिना वारुणप्रघासिकद्वितीयाहस्य। “उप त्वा जामयोगिरः” इत्यादिना शाकमेधप्रथमाहस्य। “इन्द्रायेन्दो! मरुत्वते” इत्यादिना तदीयद्वितीयाहस्य। “विश्वकर्मन् हविषा” इत्यादिना तदीयतृतीयाहस्य शुनासीर्यस्य च। “पवस्वेन्दो! वृषासुतः” इत्यादिना उपहवस्य। “द्वितीयस्य स्वरसाम्न” इत्यादिना ऋतपेयदूणासवैश्यस्तोमतीव्रसुद्वाजपेयेषु प्रत्यवरोहणीयाभ्यारोहणीययोः कल्पः। “वायोः शुक्रो अयामि त” इत्यादिना अभिषेचनीयस्य। “राजा मेधाभिरीयते” इत्यादिना दशपेयस्य। “केशवपनाय व्युष्टिर्द्विरात्र” इत्यादिना तदीयद्वितीयाहस्य। इत्थं क्षत्रस्य धृतेश्च। एवमुक्तरूपेण सप्तसुत्यस्य वाजपेयस्य च।

५ प्र० “राजा मेधाभिरीयते” इत्यादिना राड्विराडोरुपसदाम्। “रौरवयौधाजये” इत्यादिना पुनस्तोमस्य चतुष्टोमस्य च। “उपोषु जात” इत्यादिना उद्भिद्बलमिदोरपचितेश्च। “साहस्रं वहिष्पवमानम्” इत्यादिना सर्व्वस्तोमोपचितेरग्नेः स्तोमयोश्च। “पुनानः सोमधारया” इत्यादिना ऋषभगोषवमरुत्स्तोमानामिन्द्राग्न्योः कुलायाश्च। “इन्द्रायोन्दो! मरुत्वत” इत्यादिना इन्द्रस्तोमस्य। “पवस्व वाचो अग्निय” इत्यादिना इन्द्राग्न्योःस्तोमस्य आद्यविघनस्य च। “पवस्व वाचो अग्रियः” इत्यादिना द्वि तीयविघनस्य। “श्येनमाज्यबहिष्पवमा- नम् इत्यादिना एकाहसाध्यानां कल्पः। एते एकाहसाध्या इतुक्तिश्च।

६ प्र०। “कॢप्तो ज्योतिष्टोमोऽतिरात्रोऽषोडशिक” इत्यादिना ज्योतिष्टोमातिरात्रस्य, आहीनिक्या रात्रे, सर्वस्तोमाप्तोर्यामस्य, नवसप्तदशस्य, विषुवतः गोआयुषः विश्वजिदभिजितोः एकस्तोमानाञ्च प्रथमाहस्य कल्पः। “गोराज्यबहिष्पवमानम्” इत्यादिना, उक्तानां ज्योतिष्टोमातिरात्रादीनां द्वितीयतृतीयचतुर्थाहानाम् एकस्तोमानामाङ्गिरसचैत्ररथकापिवनरूपाणां द्विरात्राणां च कल्पः। “अभिप्लवस्य प्रथमस्याह्नः” इत्यादिना गर्गत्रिरात्रे प्रथमाहस्य। “उपोषु जातम्” इत्यादिना तत्र द्वितीयाहस्य। “पवस्व वाचः” इत्यादिना तत्र तृतीयाहस्य कल्पः। “पवस्व वाज सातये” इत्यादिना अश्वमेधत्रिरात्रस्य। “प्रसोमासो विपश्चित” इत्यादिना वैदत्रिरात्रस्य। “सांवत्सरिकस्य विषुवतः” इत्यादिना, छन्दोमपवमानत्रिरात्रस्य। ये गर्गत्रिरात्रस्येत्यादिना अन्तर्वसुपराकत्रिरात्रयोः कल्पः। ७ प्र०। “उपास्मै गायता नरः” इत्यादिना चतुरह प्रथमाहस्य। “पवस्व वाचो अग्रियः” इत्यादिना तदीयद्वितीयाहस्य। “दविद्युतत्यारुचा” इत्यादिना तृतीयाहस्य। “पवमानो अजीजनत्” इत्यादिना चतुर्थाहस्य। “उपोषु जातम्” इत्यादिना जामदग्न्यचतुरहस्य। “या जामदग्न्यस्य” इत्यादिना वाशिष्ठचतुरहस्य। प्रसोमासोविपश्चितः” इत्यादिना जाह्नवचतुरहस्य। “वैश्वामित्रोद्व्यहः” इत्यादिना देवपञ्चरात्रस्य त्रयाणामह्नाम्। “पवमानो अजीजनत्” इत्यादिना तदीयचतुर्थाहस्य। “पवमानस्य विश्ववित्” इत्यादिना पञ्चमाहस्य कल्पः। “एष चतुरहोयीदेवानाम्” इत्यादिना पञ्चशारदीयव्रतमध्वोः। “पृष्ट्यः षडहः समूढो व्यूढो वा” इत्यादिना ऋतुषडहायुष्कामपृष्ठ्यालम्बनानां षडहानाम्। “एष एव षडहो य क्रतूनाम्” इत्यादिना सप्तर्षीणां प्रजापतेः छन्दोगानां जमदग्नेरिन्द्रस्य च पञ्चसप्तरात्राणाम्। “या देवानां पञ्चरात्रस्य” इत्यादिना जनकसप्तरात्रस्य। “एष एव षडहोयः क्रतूनाम्” इत्यादिना पृष्ठ्यस्तोमस्य सप्तरात्रस्य अष्टरात्रनवरात्रयोश्च कल्पः।

८ प्र०। “अग्न आयूंषि पवस” इत्यादिना त्रिककुब्दशरात्रस्य द्वयीरह्नोः। “दविद्युतत्यारुचा” इत्यादिना तदीयतृतीयाहस्य। “पवमानो अजीजनत्” इत्या- दिना चतुर्थाहस्य। “पवमानस्य विश्ववित्” इत्यादिना पञ्चमाहस्य। “असृक्षत प्रवाजिनम्” इत्यादिना षाष्ठाहस्य। “ये सोमासः परावति” इत्यादिना मप्तमाहस्य। “पवमाना असृक्षत” इत्यादिना अष्टमाहस्य। “उपोषु जातम्” इत्यादिना नवमाहस्य विश्वजिदतिरात्रस्य च कल्पः। “या वृहस्पतिसवस्य सा कुसुरुविन्दस्य” इत्यादिना कुसुरुविन्दुदशरात्रस्य। “पृष्ठ्यालम्बस्य पञ्चाहः” इत्यादिना छन्दोमदशरात्रस्य। “त्रिष्टोमोऽग्निष्टोमोयत्” इत्यादिना देवपूर्दशरात्रस्य पुण्डरीकैकादशरात्रस्य च कल्पः। इत्येते अहर्गणसाध्यत्वात् अहीना इत्युच्यन्तं इत्युक्तिश्च।

९ प्र०। “द्वादशरात्रस्य षोडशिमन्तावतिरात्रौ” इत्यादिना त्रयीदशरात्रयोर्द्वयोः, तृतीयषड्विंशतिरात्रस्य, चतुर्दशरात्राणां त्रयाणां, पञ्चदशरात्राणां चतुर्ण्णाम्, षोडशरात्रस्यैकस्य च कल्पः। एते सत्रसंज्ञा इत्युक्तिश्च। “सप्तदशरात्रे चत्वार्य्याभिप्लवकान्यहानि” इत्यादिना सप्तदशरात्रस्य, अष्टादशरात्रस्य, एकोनविंशरात्रस्य च। “विंशतिरात्रे सांवत्सरिकौ विश्वजिदभिजितौ” इत्यादिना विंशतिरात्रस्य। एकविंशतिरात्रयोर्द्वयोः, त्रयोविंशतिरात्रस्य, चतुर्विंशतिरात्रसम्बन्धिपृष्ठ्यातिरात्रयोश्च कल्पः। “पवस्वेन्दो! वृषा सुतः” इत्यादिना त्रयोविंशतिरात्रस्य। “उपास्मै गायता नर” इत्यादिना तदीयप्रथमविशालस्य। “एष उस्यवृषा रथम्” इत्यादिना तदीयद्वितीयप्रभृतिविशालस्य, चतुर्विंशतिरात्रस्य च कल्पः। तत्रैकैकोत्तरवृद्धाअष्टौ इत्युक्तिश्च। “नानाब्रह्मसाम्नामतिरात्रः” इत्यादिना नानाब्रह्मसामादीनां त्रयाणां त्रयस्त्रिंशद्रात्राणाञ्च तत्र च एकोत्तरवृद्धानि सप्तेत्युक्तिश्च। “विधृतीनां ज्योतिष्टोमोऽतिरात्रोऽषोडशिकः” इत्यादिना विधृतीनाम्। “पृष्ठ्यः षडहः समूढोवा” इत्यादिना, च विधृतीनाम्। “यमातिरात्रासु गीष्टोमस्य” इत्यादिना यमातिरात्रप्रभृतीनां षण्णाम्, एकपञ्चाशद्रात्रस्य, एकषष्टिरात्रस्य, शतरात्रस्य सांवत्सरिकस्य गवामयनस्य च कल्पः। १० प्र० “मध्ये पृष्ठ्यस्य कॢप्तोऽतिरात्रः” इत्यादिना मध्ये पृष्ट्यस्य, कॢप्तानां व्यूहाग्निष्टोमेभ्य आद्वितीयादह्नः कल्पः। “द्वितीयस्याह्न” इत्यादिना तत्रैव द्वितीयाहादि पञ्चानामङ्गाम्। “सप्तमस्याह्नः” इत्यादिना सप्तमप्रभृतीनां त्रयाणानह्नाम्। “दशमस्याह्नः पञ्चानाम्” इत्यादिना दशमाहप्रभृतिकॢप्तस्य च्छन्दोमदशाहस्य अर्हगणस्य। “अस्य प्रत्ना सनुद्यतम्” इत्यादिना छन्दोमदशाहप्रथमाहस्य। “पवस्व वाचो अग्रियः” इत्यादिना छन्दोमद्वितीयाहस्य। “दविद्युतत्यारुचा” इत्यादिना छन्दोमतृतीयाहस्य। “पवमानो अजीजनत्” इत्यादिना छन्दोमचतुर्थाहस्य। उतशुग्रासः” इत्यादिना तदीयपञ्चमषष्ठयोरह्नोः। “ये सोमासः परावति” इत्यादिना तत्र सप्तमाहस्य। “हिन्वन्ति सूरमुस्रयः” इत्यादिना तत्र अष्टमाहस्य। “उपोषु जातम्” इत्यादिना नवमदशमयोरह्नोः कल्पः। ११ प्र० “पुरस्तात् पृष्ठ्यस्य कॢप्तोऽतिरात्रः” इत्यादिना पुर स्तात् पृष्ट्यस्य, त्रिरात्राभिप्लवस्य, गोः, आयुषश्च कल्पः। “अस्य प्रत्माममुद्युतम्” इत्यादिना द्वितीये छन्दोमे प्रथमाहस्य। “पवस्व वाचो अग्नियः” इत्यादिना तत्र द्वितीयाहस्य। “दविद्युतत्यारुचा” इत्यादिना तत्र तृतीयाहस्य। “बभ्रवे नु स्वतवसे” इत्यादिना तत्र चतुर्थपञ्चमयोः षष्ठस्य च। “ये सोमासः परावति” इत्यादिना सप्तमादिदशमान्तानां, महाव्रतस्यातिरात्रस्य च कल्पः। “विधृतिभिः कॢप्तम्” इत्यादिना दृतिकुण्डपायिनामयनानां, द्वादशसंवत्सरस्य, षड्विंशतिसंवत्सरस्य, शतसंवत्सरस्य, अग्नेः सहस्रसाध्यायनस्य च। “प्रथमस्य सारस्वतस्य षोडशिमन्तावतिरात्रौ” इत्यादिना त्रयाणां सारस्वतीनां, दाषर्दृततैरयोः, सर्पसत्रातिरात्रयोः दशि प्रथमस्य च कल्पः। “पवस्व वाचो अग्रियः” इत्यादिना दशि द्वितीयस्य, तत्र उत्तरषण्मासे विपर्य्यासस्य च कल्पः। इत्येवं यागविशेषे दिनभेदे सूक्तपाठादिप्रयोगो दर्शितः। अन्येषु आश्वलायनसूत्रादिरूपेषु तेषु प्रतिपाद्यविषयाश्च तत्तच्छब्दे दृश्याः। कल्पग्रन्थश्च वेदाङ्गभेदः तन्मूलमङ्गशब्दे ७२ पृ० शिक्षादिवाक्यमुक्तम् तत्र “हलों कल्पोऽथ पठ्यते” इत्यत्र वैदिककर्म्मणां विधानज्ञानस्य कल्पग्रन्थाधीनत्वात् कर्म्मसाधनत्वेन हस्तसादृश्याद्धस्तता। पिवृकल्पः श्राद्धकल्पः पशुकल्पैत्यादि “कल्पवित् कल्पयामास वन्यामेवास्य संविधाम्” रघुः। अनुष्ठाने। “वैश्यवच्छौचकल्पश्च” मनुः। सपूर्वपदः कल्पप्रत्ययनिष्पन्नस्तु ईषदसमाप्तप्रकृत्यर्थे। “एते प्रदीपकल्पाः परस्परविलक्षणगुणविशेषाः” सां० का०। “कार्य्यं त्वया नः प्रतिपन्नकल्पम्” कुमा०। “श्राद्धकल्पात्मकश्च यजुर्वेदपरिशिष्टभागः यजुर्वेदशब्दे विवृतिः। अथर्ववेदस्यांशभेदरूपकल्पस्तु पञ्चविधः। “नक्षत्रकल्पोवेदानां संहितानां तथैव च। चतुर्थः। स्यादाङ्गिरसः शान्तिकल्पश्च पञ्चमः” विष्णुपु०। हेमा० दा० देवीपुराणे च “पञ्च कल्पा मवन्ति नक्षत्रकल्पो वैतानः संहिताविधिराङ्गिरसः शान्तिकल्पश्च आथर्वणः” इति।

कल्पक = त्रि० कल्पयति रचयति आरोपयति वा कृप–णिच्ण्वुल्। १ रचके २ आरोपके च। ३ कर्चूरे (कचूर) भावप्र० ४ नापिते पु० शब्दमाला तस्य केशवेशरचकत्वात् तच्छेदत्वात् वा तथात्वम्। कल्प + स्वार्थे कन्। ४ कल्पशब्दार्थे च

कल्पकारः = पु० कल्पं कल्पसूत्रं करोति कृ–ण्वुल्। १ कल्पसूत्रकारकेषु आश्वलायनादिषु कल्पं वेशं करोति अण्। २ वेशादिकारके त्रि० ३ नापिते पु० ण्वुल्। कल्पकारकोऽप्यत्र

कल्पक्षय = पु० कल्पस्य सृष्टेः रचनाविशेषस्य क्षयोयत्र। प्रलये। “पुरा कल्पक्षये वृत्ते जातं जलमयं जगत्” वृहत्कथा। “कल्पक्षये पुनस्ते तु प्रविशन्ति परं पदम्” विष्णुपुरा०।

कल्पतरु = पु० कर्म्म० राहुशिरोवत् त० वा। १ देवतरुभेदे कल्पपादपशब्दे विवृतिः। “आसीत् कल्पतरुच्छायानाश्रिता सुरभिः पथि” “मेरौ कल्पतरोरिव” रघुः। “निगमकल्पतरोर्गलितं फलम्” भाग० १, १, २। २ स्मृतिनिबन्धनभेदे शारीरकसूत्रभाष्यटीकाभामतीव्याख्यानरूपे ३ ग्रन्थे च

कल्पद्रुम = पु० कर्म्म० राहुशिरोवत् त० वा। देवतरुभेदे। संकल्पविषयफलदातृत्वाच्च तस्य कल्पद्रुमत्वम् “अनुकूलयतीन्द्रोऽपि कल्पद्रुमविमूषणैः” कुमा०। “नाबुद्ध कल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्रवृक्षम्” रघुः। “कल्पद्रुमैरिह विचित्रफलैर्विरेजुः” माघः। कल्पद्रुकल्पवृक्षादयोऽप्यत्र।

कल्पन = न० कृप–छेदने भावे ल्युट्। १ छेदने त्रिका०। कृपूसामर्थ्ये णिच्–भावे ल्युट्। २ रचमायाम् ३ विधाने ४ आरोपे च।

कल्पना = स्त्री कृप–णिच्–भावे युच्। १ रचनायाम् “उद्धारेऽनुद्धृते तेषामियं स्यादं शकल्पना” मनुः “प्रबन्धकल्पना कथा” अम० २ विधाने ३ आरोहणाय गजसज्जीकरणे हेम० “सकल्पनं द्विरदगणं वरूथिनः” माघः। ४ व्यतिरेकव्याप्तिज्ञानाधीने अनुमानभेदे नैया० ५ अर्थापत्तिरूपे प्रमाणाऽन्तरे मीमांसकावेदान्तिनश्चाहुः। आरोपश्चाविद्यमानपदार्थस्य अन्यत्र स्थितस्य अन्यत्र प्रतिभासरूपः मानसव्यापारः। “कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम्” सर्व्वद० स०। यथा रज्जौ सर्पकल्पना। वेदान्तिमते एवं प्रपञ्चस्य ब्रह्मणि कल्पनारूप आरोपः। “चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः। उपासकानां सिद्ध्यर्थं ब्रह्मणोरूपकल्पना”। निराकारस्य साकरतया जगदाकारेणारोपोऽपि कल्पनैव स चाध्यासशब्दे उक्तः। तदेतत् मुक्ताफले तट्टीकायां च निर्ण्णीतं यथा-

“अहमेवासमेवाग्रे नान्यद्यत् सदसत् परम्। पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम्” मुक्ताफ०। “अहमेवेति कर्त्रन्तरस्य व्यावृत्तिः आसमेवेति क्रियान्तरस्य। अग्रे मायासम्बन्धादहमेव त्रिधा विभक्त इत्यर्थः, पश्चान्मायावियोगादनन्तरमप्यहमेव प्रपञ्चस्यादिमध्यावसानेष्वहमित्यर्थः। यच्चैतत् प्रपञ्चरूपं तदप्यहं नान्यत्र सिद्धं मय्यारोपितं यथाऽ न्यत्र सिद्धः सर्पोरज्जौ एवं विवेचनात् भ्रमे निवृत्ते योऽवशिष्येत सोऽहमस्मि इदन्तया स्वरूपस्य निर्देष्टुमशक्यत्वादेवमुच्यते। एतेन यथा कटकादिष्ववस्थात्रयेऽपि सुवर्णत्वमेव सत्यम्। तथा जगदादिमध्यान्तेष्वनुष्यूतं सत्तामात्रं भगवत्स्वरूपमिति लक्षणार्थ इत्युक्तं, न तावदस्यासम्भवः “सदेव सोम्येदम्” इत्यादिश्रुतिसिद्धत्वात्। न च कालाकाशादिष्वतिव्याप्तिः तदुत्पत्तेः श्रुतत्वात् विमतमनित्यं बाध्यत्वात् शुक्तिरूप्यवदित्यनुमानाच्च। नापि साकारेषु चतुर्ष्वव्याप्तिः तेषामाकारतिरोहितत्वात् तस्मान्निर्दोषं लक्षणम्। एवं सामान्यलक्षणमुक्त्वा विशेषाल्लक्षयितुमाह” टी० “स द्वेधा निराकारः साकारश्च अनवच्छिन्नं चैतन्यं निराकारः, सत्वावच्छिन्नं चैतन्यं साकारः। स चतुर्धा रजस्तमोभ्यां युक्ते सत्वे पुरुषः १ रजसा ब्रह्मा २ तमसा रुद्रः ३ शुद्धे विष्णुरेव ४” मुक्ता०। “स द्वेधेति द्वेधात्वमेवाह निरेति अनवच्छिन्ने वस्तुन्यवच्छेदक उपाधिराकारः तेन रहितो निराकारः तत्सहितोऽन्यः। तत्राद्यं लक्षयति “अनवच्छिन्नमिति। द्वितीयं लक्षयति सत्वेति। अस्यैव भेदानाह स चेति सः साकारः। तदाद्यं भेदमाह रजस्तमोभ्यामिति। तुल्याभ्यां रजस्तमोभ्यां युक्ते सत्वे प्रतिफलितं चैतन्यं पुरुषशब्दार्थं इति पूरंणीयम्। एवमुत्तरत्र रजस्तमोभ्यामिति तृतीयया तयोरप्राधान्थ” “सहयुक्ते चाप्रधाने” (पा०) इति स्मरणात् तेन पुरुषे सत्वं बहुलं, रजस्तमश्च तदपेक्षवा न्यूनमित्यर्थः। न तु त्रीणि समान्येव त्रिसाम्यस्य प्रकृतिलक्षणत्वात्, स्तोकाधिकभावश्चैषां कार्य्य गम्यो न तु मासादिमूर्त्तद्रव्यवत् प्रत्यक्षः। युक्तग्रहणं द्वयोर्वर्त्तते, सत्वग्रहणं त्रिषु। द्वितीयं भेदमाह रजसेति। रजसा यक्ते सत्वे ब्रह्मा। अत्र च मात्रया विद्यमानमपि तमो रजसः प्राधान्य वक्तुं नोक्तम् नतु तन्नास्त्येव तत्कार्य्यस्योपलम्भात् तृतीया तु प्राग्वत् तेन ब्रह्मणि तमस्तोकं तदपेक्षया रजः प्रभूतमित्यर्थः। रजसः प्रागुक्तिः सत्वापेक्षया हेयत्वात् तुर्यप्रकरणानुरोधाच्च तृतीयं भेदमाह तमसेति। अत्र रजोमात्रानुरोधादिकं प्राग्वत्। चतुर्थमाहशुद्धेविष्णुरेवेति शुद्धे रजस्तमोभ्यामस्पृष्टे सत्वे विष्णुरेव विष्णुसंज्ञैव क्रियते न तु तत्रावन्तरवत्संज्ञान्तरमित्येवशब्दार्थः। तथाहि “तमेनं विशुद्धोर्जितसत्वाकारं सदाशिव” इत्याचक्षते” शैवाः। पशुपतिरिति पाशुपताः। पुरुषोत्तम इति पाञ्चरात्राः। आदिविद्वान् सिद्ध इति कापिलाः। ईश्वर इति षातञ्जलाः। इह तु तस्य विष्णुसंज्ञैव। यद्वा विष्णुं पञ्चात्मक मित्यत्र पञ्चानामपि विष्णुसंज्ञामुक्त्वा चतुर्णां संज्ञान्तरमप्युक्तम्। शुद्धसत्वोपाधिस्तु विष्णुसंज्ञ एवेत्येपशब्दार्थः। ते च ब्रह्मविष्णुरुद्राः प्रत्येकम् आधिदैविकादिभेदात् त्रेधा विष्णुरेव” टो० “अगोचरस्य गोचरत्वे हेतुः प्रकृतिगुणः सत्वम्, गोचरस्य बहुरूपत्वे रजः, बहुरूपस्य तिरोहितत्वे तमः। तथा परस्परमुदासीनत्वे सत्वम्” मुक्ता०। “एवमुपाधिसंभेदात् पञ्चरूपतामुक्त्वा इदानीमननुसंहितोपाधेरुपहितप्रत्ययायोगादुपाधीन् लक्षयति अगोचरस्येति। अगोचरस्य अविषयभूतस्य वस्तुनोगोचरत्वे विषयीभावे हेतुर्यः प्रकृतिगुणः तत् सत्वमित्यर्थः। हेतुः प्रकृतिगुणैत्युत्तरत्र पञ्चस्वनुवर्त्तते। गोचरस्य सतोयत्सम्बन्धान्नानात्वं तद्रजः। तस्यैव तिरोहितत्वे कारणात्मनावस्थाने हेतुस्तमः इत्यर्थः। विनाशे इत्यनुक्त्वा सत्कार्य्यपक्षाश्रयणात्तिरोहितत्वे इत्युक्तम्। एवमाधिदैविकोपाधिस्वरूपमुक्त्वा आध्यात्मिकोपाधिस्वरूपमाह तथेति। अयमर्थः–परस्परमुदासीनमित्रद्विषत्सु उदासीनत्वे हेतुः सत्वम् इति” टी० “गोचरत्वे सत्वम्, उपकारित्वे रजः, अपकारित्वे तमः। गोचरत्वादीनि, स्थितिसृष्टिसंहाराः” मुक्ता०। “आधिदैविकाध्यात्मिकोपाधिलक्षणादाधिभूतोपाधिस्वरूपमपि लक्षितं येन हि एकस्मिन् वस्तुनि द्विरूपोविच्छेदः असावाधिभौतिकः तदुक्तम् “योध्यात्मिकोऽयं पुरुषः सोऽसावेवाधिदैविकः। य स्त्रत्रोभयविच्छेदः स स्मृतोह्याधिभौतिकः”। उक्तान् गोचरत्वादीन् उपाधीनुन्मीलयितुमाह गोचरत्यादीनीति। गोचरत्वबहुरूपत्वतिरोहितत्वानि क्रमात् स्थित्यादिशब्दै रुच्यन्त इत्यर्थः। न चैवं सृष्ट्यनन्तरस्थितिरिति विरु- द्धत्वं शङ्क्यं स्थितिपूर्वकत्वात् सृष्टेः। स्थिता हि मृदादयोघटाद्यात्मना सृज्यन्ते नास्थिता इति अतएवोक्तं “सत्वं त्रिलोकम्थितये स्वमायया विभर्षि शुक्लं खलु वर्णमात्मनः। स्वर्गाय रक्तं रजसोपसंहितं कृष्णं च वर्णं तमसा जनात्यये” इति टी० “उदासीनत्वादीनि च” मुक्ता०। “एवमाध्यात्मिकेष्वपीत्याह उदासीनेति। अयमर्थः यदिदं चैत्रादेरुपकारापकारवैधुर्य्येणावस्थानं सा स्थितिः। उपकारकत्वेन सृष्टिः। अपकारकत्वेन तु संहारः। ततश्च जगत्स्थित्यादिहेतव आधिदैविकाः, अन्ये त्वाध्यात्मिकाः। सुरनरादयः अवताराश्च सर्वे विना कृष्णम्, स तु पुरुषः त्रिविक्रमावतारत्वात् यथोक्तम् “तयोर्वां पुनरेवाहमदित्यामास कश्यपात्। उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः” (भाग०) इति। अत एव तत्र तत्र विश्वरूपप्रकटनं पूर्वावतारदेशवात्सल्यञ्च। दृश्यते चाद्यापि कुशस्थलीमूर्त्तौ त्रैविक्रमचिह्नं कृष्णव्यपदेशश्च। अतएव प्रह्रादसंहितायां द्वारकामाहात्म्ये तृतीये अध्याये वैकुण्ठमलङ्करिष्यता भगवता सकलं निजं तेजस्तस्यां मूर्त्तौ विन्यखमिति दर्शितम्। तथा हि “यत्र त्रैविक्रमी मूर्त्तिर्वहते यत्र गोमती। नरा मुक्तिं प्रयास्यन्ति चक्रतीर्थेन संगताः। कलेवरं परित्यक्तं प्रभासे हरिणा तदा। कलाभिः सहितं तेजस्तस्यां मूर्त्तौ निवेशितम्। तस्मात् कलियुगे विप्रा! नान्यत्र प्राप्यते हरिः। यदि कार्यं हि कृष्णेन तत्र गच्छत मा चिरम्” इति। तथा “आदौ त्रिविक्रम इति ख्यातिरासीन्महीतले। कृष्णस्य तु कलान्यासात् कृष्ण इत्यभिधीयत” इति। यत्तु सत्वं विशुद्धमित्यादिना शुद्धसत्वतासंकीर्त्तनं त्तत् सत्वम्यस्त्वविषयं, न तु यथाश्रुतमेव गुणान्तरकाय्यस्याप्युपलम्भात् तत्र तदसत्यमन्यत्र तु वास्तवमिति तु भक्तिमात्रं तस्मात् पुरुष एवायमिति सन्तोष्टव्यं निष्क्रष्टव्यं चेदमुपरिष्टात्। यथा चैता ब्रह्मादिमूर्त्तयोगुणमूलाः तथा हास्यादयोरसाश्च तन्मूला एवेत्युपरिष्टात् प्रवेदयिष्यामः। किं बहुना तत्त्रितयतारतम्यवैचित्र्याक्रान्तमिदं विश्वं तदुक्तं “न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः। सत्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैरिति” टी० “तेषु विष्णुब्रह्मरुद्रा निमित्तं पुरुष उपादानं गोचरत्वे तु चैतन्यम्, एव पञ्च भेदाः तत्र निराकारः” मुक्ता०। एवमुपाधिस्वरूपं निर्धार्योपहितेषु संख्यायिशेषस्योपयोगमाह तेष्विति” तेषु स्थितिसृष्टिसंहारेषु विष्णु- दयः क्रमान् निमित्तम् कुलाल इव घटस्य, पुरुष उपादानं समवायिकारणं घटस्येव मृत्, दृष्टा च कारणद्वयपूर्विका कार्य्यप्रवृत्तिः असमवायिकारणं तु निमित्तान्तर्गतमेवेति पृथङ्नोक्तम्। अतएव “अन्वयादितरतश्चेति” भाग० प्रथमश्लोके द्वयमेवोपात्तम्। गोचरत्वे प्रतीतिविषयत्वे तु निर्विशेषचैतन्यं हेतुः “तस्य भासा सर्वमिदं विभातीति” श्रुतेः। तत्र स्थित्यादिनिमित्तार्थं त्रयः, उपादानार्थं चैकः गोचरत्वार्थमन्यश्चेति “विष्णुं पञ्चात्मकम् इत्यत्र पञ्चैवोक्ता न न्यूनाधिका इत्यभिप्रेत्याह एवमिति। नचैवमेकः सामान्यात्मा विशेषरूपाश्च पञ्चेति षट्कमाशङ्क्यं विशेषपरिहारे सामान्यस्यानवस्थानात् एवं तावत् पञ्च वस्तूनि स्वयं लक्षयित्वा तदेव ग्रन्थान्तरानुरूपेण लक्षणेन द्रढयितुमाह तत्रेति। निराकार इति निराकारस्य लक्षणं कथ्यत इत्यर्थः” टी०। “न यत्र कालोऽनिमिषां परः प्रभुः कुतो नु देवा जगतां य ईशिरे। न यत्र सत्वं न रजस्तमश्च न वै विकारो न महान् प्रधानम्। परं पदं वैष्णवमामनन्ति तत् यत्र नेतीत्यतदुत्सिसृक्षवः। विसृज्य दौरात्म्यमनन्यसौहृदाहृदोपगुह्यार्हपदं पदे पदे” (भाग०) मुक्ता०। “तत्रापि न यत्रेति तटस्थस्य, परं पदमिति स्वरूपस्य। तत् परं पदं वैष्णवम् आमनन्ति विष्णुनाधिष्ठितं अघिकृताधिष्ठितेन राज्ञाधिष्ठितवत् ब्रह्मादिपदानामपि विष्णुनाऽधिष्ठितत्वात् परमित्युक्तं विष्णुनैवाधिष्ठितमित्यर्थः। यत्र पदे कालोनास्ति यः अनिमिषां ब्रह्मादीनां परः प्रभुः सहर्त्ता महाप्रलयेऽपि नाशोनास्त्येवेत्यर्थः। अतएव कालाभावे किंपुनर्न्यायेन देवा अपि तत्र न सन्तीत्याह कुतोन्विति। तथा देवाभावे जीवा अपि न सन्तीत्याह जगतामिति। ये देवा जगताम् उच्चावचां गतिं गच्छतां जीवानामीशाः तेषां का वार्त्ता? तत्कृतविघ्नगन्धोऽपि नास्तीत्याह ईशिरे इत्यनित्यत्वद्योतनार्थं लिट्प्रयोगः। यत्र च पदे सत्वादिर्नास्ति सत्वमिन्द्रियदेवतारूपं, रज इन्द्रियम्,। तम इन्द्रियार्थरूपं, विकारोऽहङ्कारस्तेषां त्रयाणां कारणं महान् बुद्धितत्त्वं तदहङ्कारस्य प्रधान मव्यक्तं तन्महतः। सत्वाद्यभावादेतत् प्राप्तवतां पुनर्जन्मादिशङ्कावीजलेशोऽपि नास्तीत्यर्थः। एवं दुःखं नास्तीत्युक्त्वासुखमस्तीत्याह यत्रेतीति। यत् विष्णुपदं हृदा मनसा उपगुह्या श्लिष्य अनन्यसौहृदाभवन्ति अन्यत्र विषये प्रीतिं परित्यजन्ति तादृक्सुखाभावात् तद्धि पदे पदे क्षणे क्षणे अर्हपदं अर्हणस्य आदरस्य स्थानम् उत्तरोत्तरचमत्करणीय- त्वात् दोरात्म्यं विसृज्य अनादिदुर्वासनावासितत्व त्यक्त्वा विषयान्तरस्मृतिरपि नास्तीत्यर्थः नेति नेतीत्युपनिषदुपदेशविश्वासबलात् अतत् विष्णुपदादन्यत् उत्सिसृक्षवः स्वेच्छयैवोत्सृष्टवन्तः। नित्यनिरतिशयसुखानुभवरूपे विष्णुपदे अनुभविता अनुभवनं अनु भवनीय इति कर्त्तृकरणकर्माणि अतच्छब्देनीच्यन्ते तानि ह्यनुभवार्थमुपादीयन्ते सत्यनुभवे तु त्यज्यन्त असत्यत्वादन्तरायत्वाच्च” टी० “इत्थं मुनिस्तूपरमेद्व्यवस्थितो विज्ञानदृग्वीर्य्यसुरन्धिताशयः”। पुरुषः–“भूतैर्यदा पञ्चभिरात्मसृष्टैः पुरं विराजं विरचय्य तस्मिन्। स्वांशेन विष्टः पुरुषामिधानमवाप नारायण आदिदेवः” (भाग०)मुक्ता०। “एवमस्य द्विविधलक्षणमुक्त्वा अत्राधिकारिणम्हाह इत्थमिति। इत्थं व्यवस्थितः अनेन प्रकारेण विशिष्टामवस्थामापन्नो मुनिरुपरमेत् न किञ्चित् कुर्य्यात् यतोविज्ञानस्य विशुद्धज्ञानरूपस्य विष्णोर्दृक् दर्शनं साक्षात्कारः तस्य वीर्य्यं बलं तेन सुरन्धितो यथा पुनर्नोदेति तथा हिंसितः आशयोजीवत्वोपाधिर्य्येन स तथा। अयमर्थः वक्ष्यमाण भूमिकोपासनाक्रमबलात् सत्वपुरुषान्यताख्यातिमापन्नस्तामपि सायुज्यार्थी निरोद्धुकाम इत्येतामवस्थामापन्नो मुनिरत्राधिक्रियते नान्यः। अवश्यञ्चाधिकारिनिर्धारार्थं इत्थमित्यादि ज्ञेयम् अन्यथास्योद्धरणं निःप्रयोजनं स्यात्। इति शुकः राजानं प्रति पुरुषलक्षणमाह। भूतैरित्यादि। आत्मसृष्टैः आत्मना प्रकृतिमधिष्ठाय सृष्टैः पुरं देहं विराजं ब्रह्माण्डं विरचय्य निष्पाद्य तस्मिन् स्वांशेन जीवकलया यदा प्रविष्टः तदा पुरुषसंज्ञामवाप पुरि शयनाद्वसनाद्वा पुरुषः अनंशेऽप्यंशोक्तिः कल्पनया। नारायणः जलशायी आदिदेवो निराकारः” टी०। मुक्ताफलस्थाः श्लोकास्तु भागवतीयाः।

कल्पनाकाल = त्रि० कल्पनायाः कालः कालो यस्य। संकल्पवदाशुविनाशिनि अस्थिरे पदार्थे त्रि०।

कल्पनी = स्त्री कृप–छेदने करणे ल्युट् ङीप्। कर्त्तर्य्याम्। (काञ्चि) हेमच०।

कल्पपादप = पु० कर्म्म० राहुशिरोवत् त० स० वा। १ सुरतरुभेदे “मृषा न चक्रेऽल्पितकल्पपादपः” नैष०। महादानान्तर्गते स्वर्णनिर्म्मितपादपाकारे देये २ द्रव्यभेदे तद्विधानं हेमा० दा० उक्तं यथा“मत्स्य उवाच। “कल्पपादपदानाख्यमतः परमनुत्तमम्। महादान प्रवक्ष्यामि सर्व्वपातकनाशनम्। पुण्यं दिन- मथासाद्य तुलापुरुषदानवत्। पुण्याहवाचनं कुर्य्याल्लोकेशावाहनं तथा। ऋत्विग्मण्डपसम्भारभूषणाच्छादनादिकम्”। आदिशब्देण कालदेशवृद्धिश्राद्धशिवादिपूजागुर्वृत्विग्चतुष्टयवरण–मधुपर्कं–दान–होम–वेदिकोपरिचक्र–लेखनपञ्चवर्ण–वितानपताकातोरणादि, मत्स्यपुराणोक्ततुलापुरुषदानवद्वेदितव्यम्। “काञ्चनान् कारयेद्वृक्षान् नानाफलसमन्वितान्। नानाविहारवस्त्राणि भूषणानि च कारयेत्”। नानाफलेति, पूंस्त्रीगोगज–वाजि–मणि–वज्र–कनक–रजत–भक्ष्यफलादोणि। “शक्तितस्त्रिपलादूर्द्धमासहस्रात् प्रकल्पयेत्। अर्द्धात् कॢप्तसुवर्ण्णस्य कारयेत् कल्पपादषम्। गुडप्रस्थोपरिष्टाच्च सितवस्त्रयुगावृतम्। कामदेवमधस्ताच्च सकलत्रं प्रकल्पयेत्”। अर्द्धात् कॢप्तसुवर्ण्णस्येति यथाशक्ति दानार्थकॢप्तसुबर्ण्णस्यार्द्धेन ब्रह्मादिप्रतिमासहितं कल्पपादप कुर्य्यात् द्वितीयमप्यर्द्धं चतुर्द्धा विभज्य एकैकांशेन वक्ष्यमाणस्वस्वदेवतासहितान् सन्तानादीन् विदध्यात्, गुडप्रस्थोऽत्र “द्वात्रिंशत्पलिकः प्रस्थः पुराणे परिकीर्त्तित” इति। ब्रह्मादिलक्षणमुक्तं ब्रह्माण्डदाने, कामदेवरूपन्तु विष्णु धर्मोत्तरात् “कामदेवस्तु कर्त्तव्योरूपेणाप्रतिमो भुवि। अष्टबाहुः प्रकर्त्तव्यः शङ्खपद्मविभूषणः। चापवाणकरश्चैव समाकुञ्चितलोचनः। रतिः प्रीतिस्तथाशक्तिर्भार्य्याश्चैतास्तथोज्ज्वला। चतस्रस्तस्य कर्त्तव्याः पत्न्योरूपमनोहराः। चत्वारश्च करास्तस्य कार्य्या भार्य्यास्तनोपगाः। केतुश्च मकरः कार्य्यः पञ्चवाणमुखोमहानिति”। अधस्तादिति ब्रह्मादिभिरपि सम्बध्यते। अत्र प्रकृतौ परिमाणाभावात् पुरुषेच्छया प्रतिमादिपरिमाणानियमः। “सन्तानं पूर्व्ववत्तद्वत्तुरीयांशेन कल्पयेत्” तुरीयांशेन, द्वितीयार्द्धचतुर्थांशेनेत्यर्थः। तद्वत्कल्पवृक्षबत्, पञ्चशाखं गुडप्रस्थोपरिगतं ब्रह्मादिप्रतिमान्वितं कुर्य्यादित्यर्थः। केचित्तु कामदेवमधस्तात् प्रकल्पयेदितिसन्तानवृक्षे योजयन्ति, तन्मते तत्प्रतिमैव कर्त्तव्या। “मन्दार दक्षिणे पार्श्वेश्रिया सार्द्धं घृतोपरि। पश्चिमे पारिभद्रन्तु सावित्र्या सह जीरके। सुरभीसंयुतं तद्वन्निवेश्यं हरिचन्दनम्। तुरीयांशेन कुर्वीत सौम्येन फलसंयुतम्”। श्रोलक्षणमुक्तं ब्रह्माण्डदाने, सावित्रीलक्षणमाह नारदः “पद्मासना च सावित्री साक्षसूत्रकमण्डलुः”। सुरभीलक्षणं ब्रह्माण्डपुराणे “सवत्सा सुरभी, धेनुरारक्ता प्रस्नुतस्तनीति, “सौम्येन, उत्तरेण। घृतादीनासपि परिमाणापेक्षायां तद्वदिति वचनात् मलि- धानाच्च प्रस्थपरिमाणत्वमवधेयम्। “कौशेयवस्त्रंसंयुक्तानिक्षुमाल्यफलान्वितान्। तथाष्टौ पूर्ण्णकलशान् पादुकासनभाजनम्। दीपकोपानहच्छत्रचामरासनसंयुतम्। फलमाल्ययुतं तद्वदुपरिष्टाद्वितानयकम्। तथाष्टादश धान्यानि समन्तात् परिकल्पयेत्”। अशनभाजनं, भोज्यान्वितभाजनं वितानं पञ्चवर्ण्णम्। अथ पूर्व्ववत् पूर्व्वेद्युरविवासनं विधाय श्वोभूते ब्राह्मणवाचनादिपूर्णाहुतिपर्य्यन्तं कर्म्मशेषं समापयेत्। “होमाधिवासनान्ते च स्नापितो वेदिपुङ्गवैः। त्रिःप्रदक्षिणमावृत्य मन्त्रमेतमुदीरयेत्। नमस्ते कल्पवृक्षाय चिन्तितार्थप्रदायिने। विश्वम्भराय देवाय नमस्ते विश्वमूर्त्तये। यस्मात् त्वमेव विश्वात्मा ब्रह्मा स्थाणुर्दिवाकरः। मूर्त्तामूर्त्तपरं वीजमतः पाहि सनातनः! त्वमेवामृतसर्व्वस्वमनन्तः पुरुषोऽव्ययः। सन्तानाद्यैरुपेतः सन् पाहि संसारसागरात्”। अमृता, देवाः तेषां सर्व्वस्वं, अमृतसर्वस्वम्। “एवमामन्त्र्य तं दद्यात् गुरवे कल्पपादपम्। चतुर्भ्यश्चापि ऋत्विग्भ्यः सन्तानादीन् प्रकल्पयेत्”। दानवाक्यमत्र तुलापुरुषोक्तमूहनीयं, चतुर्भ्यः प्रकल्पयेदित्येकैकस्मै दद्यादित्यर्थः। चतुर्भ्यैतिवचनादत्र चतुर्णामेवर्त्विजां वरणमिति गम्यते ऋत्विगष्टकपक्षे तु ऋत्विग्भ्य इति ऋत्विग्युग्मेभ्य इत्यर्थः। एतस्मिंश्च पक्षे जापकादिभ्योऽन्यैव दक्षिणा दातव्या। वेदचतुष्टयापेक्षया चतुःसंख्यत्वमिदमृत्विजामिति केचित्। इहापि “प्राप्य तेषामनुज्ञाञ्च तथान्येभ्योपि दापयेदिति” बोद्धव्यम। दक्षिणानिर्ण्णयश्च पूर्व्ववत्। स्वल्पेष्वेकाग्निवत् कुर्य्याद् गुरवे वाभिपूजनम्। न वित्तशाठ्यं कुर्वीत न च विस्मयवान् भवेत्”। स्वल्पत्वविवरणमुक्त ब्रह्माण्डदाने। ततः पुण्याहवाचने कृते वेदिसमीप गत्वा कृतदेवपूजोयजमानोगुरुश्च पूर्ववदेव देवताविसर्जनं कुर्य्यात्। “अनेन विधिना यस्तु महादानं निवेदयेत्। सर्व्वपापविनिर्मुक्तः सोऽश्वमेधफलं लभेत्। अप्सरोभिः परिवृतः सिद्धचारणपन्नगैः। भूतान् भव्यांश्च मनुजांस्तारयेद्रोमसंमितान्। स्तूयमानो दिवःपृष्ठे पितृपुत्रप्रपौ त्रवान्। विमानेनार्कवर्णेन विष्णुलोकं स गच्छति दिवि कल्पशतं तिष्ठेद्राजराजो भवेत् ततः। नारायण बलोपेतो नारायणपरायणः। नारायणकथासक्तो ना रायणपुरं व्रजेत्। यो वा पठेत् सकलकल्पतरुप्रदानं, यो वा शणोति पुरुषोऽल्पधनः स्मरेद्वा। सोऽपीन्द्रलोकमयिगम्य सहाप्सरोभिर्म्मन्वन्तरं वसति पापविमुक्तदेहः”। इति मत्स्यपुराणोक्तकल्पतरुदानविधिः। तत्रैव लिङ्गपुराणे, “सनत्कुमार उवाच। अथान्यत् संप्रवक्ष्यामि कल्पपादपमुत्तमम्। शतनिष्केण कर्त्तव्यं सर्वशस्यसमन्वितम् “। सर्वशाखाः, सर्वदिगन्तशाखाः। “शाखायां विधिना कृत्वा मुक्तादाम प्रलम्बितम्। दिव्यैर्म्मरकतैश्चैव चाङ्कुराणि प्रविन्यसेत्”। दिव्यैः, उत्कृष्टैरित्यर्थः। “प्रबालङ्कारयेद्धीमान् प्रबालेन द्रुमस्य च”। प्रबालेन प्रबालङ्कारयेदिति, विद्रुमैर्बालपल्लवान् कारयेत्यदिर्थः। “फलानि पद्मरागैश्च पारिजातस्य शोभनम्। मूलदण्डञ्च नीलेन वज्रेण स्कन्धमुत्तमम्। वैदूर्य्येण द्रुमाग्रञ्च पुष्परागेण मस्तकम्”। स्कन्धादूर्द्ध्वभागो मस्तकं, तदूर्द्धं, द्रुमाग्रम्। “गोमेदकेन वै स्कन्धं सूर्य्यकान्तेन सुव्रतः। चन्द्रकान्तेन वा वेदिं द्रुमस्य स्पटिकेन वा। वितस्तिमात्र आयामो वृक्षस्य परिकीर्त्तितः। शाखाष्टकसमानञ्च विस्तारञ्चोर्द्धतस्तथा”। शाखाव्यतिरिक्तस्य वृक्षस्य वितस्तिमात्र उच्छ्रायः कार्य्यः, उर्द्ध्वतस्तथेति, स्कन्धादूर्द्ध्वमुखी नवमी या मध्यमशाखा तस्या अपि वितस्तिमात्र उच्छ्रायः, शाखाष्टकसमानं विस्तारमिति, अष्टदिग्मुखीनामष्टशाखानां विस्तारं तिर्य्य ग्व्याप्तिवितस्तिमात्रमेव कुर्य्यादित्यर्थः। “तन्मूले स्थापयेल्लिङ्गं लोकपालसमावृतम्। पूर्व्वीक्तवेदिमध्ये तु मण्डले स्थाप्य पादपम्। पूजयेद्देवमीशानं लोकपालांश्च यत्नतः। पूर्ववज्जपहोमाद्यन्तुलाभारवदाचरेत्। निवेदयेद्द्रुमं शम्भोर्ब्राह्मणायाथ वा नृप!। ब्राह्मणेभ्योऽथवा राजा सार्वभौमो भविष्यति”। तुलाभारवदाचरेदिति लिङ्गपुराणोक्ततुलापुरुषदानविहितविधिमाचरेदित्यर्थः। कालोत्तरे। “फलानान्तु सहस्रेण कल्पयेत् कल्पपादपम्। समूलदण्डपत्रञ्च फलपुष्पसमन्वितम्। पञ्चस्कन्धन्तु संकल्प्य पञ्चानां स्थापयेत् सुधीः। सद्योजातेन मन्त्रेण देय ग्राह्यं शिवाग्रतः। दिव्यैर्विमानैर्देहान्ते शिवलोके महीयते। पितरस्तस्य मोदन्ते सत्यलोके महीपते!”। इति लिङ्गपुराणो क्तकल्पपादपदानविधिः।

कल्पपाल = पु० कल्पं सुराविधानकल्पं संकल्पं मद्याभिलाषं वा तत्पायिनां, पालयति पाल–अण्। शौण्डिके सुराजीवे हेमच०। कल्यपाल इत्येव पाठः साधुः।

कल्पलता = स्त्री कृप–णिच्–कर्म्मणि अच् कर्म०। महादानान्तर्गते स्वर्णंकल्पितलताकारे दानीयद्रव्यभेदे तद्विधिः हेमा० दा० मत्स्य पु० उक्तो यथा– “अथातः सम्प्रवक्ष्यामि महादानमनुत्तमम्। महाकल्पलता नाम महापातकनाशनम्। पुण्यां तिथिमथासाद्य कृत्वा ब्राह्मणवाचनम्। ऋत्विग्मण्डपसम्भारभूषणाच्छादनादिकम्। तुलापुरुषवत् कुर्य्यात् लोकेशावाहनादिकम्”। आदिशब्दव्याख्यानं पूर्ववत् (कल्पपादपोक्तवत्)। “चामीकरमयीः कुर्य्यात् दश कल्पलताः शुभाः। नानापुष्पफलोपेता नानांशुकविभूषिता। विद्याधरसुपर्णानां मिथुनैरुपशोभिताः। हरीनादित्सुभिः सिद्धैः फलानि च विहङ्गमैः”। चामीकरं, सुवर्णं कल्पलतास्तुलाकारा विधेयाः,। नानाफलानि, पुंस्त्रीगोगजवाजिप्रभृतीनि, स्वरूपपुष्पफलानां तुलनार्थत्वेनैवोपपत्तेः। अंशुकानि, वस्त्राणि। सुपर्णाः पक्षिणः। एवं दश कल्पलता विधाय वेदिकायाम् लिखितचक्रस्योपरि मध्ये द्वयं, पूर्व्वादिदिक्षु चाष्टौ स्थापयेत्। “लोकपालानुसारिण्यः कर्तव्यास्तासु देवताः। ब्राह्मीमनन्तशक्तिञ्च लवणस्योपरि न्यसेत्। अधस्ताच्च तयोर्मध्ये पद्मशङ्खकरे शुभे”। लोकपालानुसारिण्यो देवता, लोकपालशक्तय इत्यर्थः। अधस्ताच्च तयोरिति, मध्यस्थापितयोः कल्पलतयोरधस्तात् पद्मकरां ब्राह्मीं, शङ्खधरामनन्तशक्तिञ्च स्थापयेत्। लवणादिपरिमाणञ्च, परिमाणविशेषानिर्देशात् पुरुषेच्छया नियम्यते। लवणस्तूपयोर्न्यस्येदिति क्वचित् पाठः। तत्र स्तूपो राशिः द्विवचनं राशिद्वयापेक्षयेति। “इभासनस्था तु गुडे पूर्वतः कुलिशायुधा। रजन्यजस्थिताऽऽग्नेयी स्रुवपाणिरयानले। याम्या महिषमारूढा गदिनी तण्डुलोपरि। पृतेन नैरृती स्थाप्या सखड्गा दक्षिणापरे। वारुणे वारुणी क्षीरे झषस्था नागपाशिनी। पताकिनी च वायव्ये मृगस्था शर्करो परि। सौम्या तिलेषु संस्थाप्या शङ्खिनी निधिसंस्थिता। माहेश्वरी वृषगता त्वीशपाणिः त्रिशूलिनी”। इभोगजः स च चतुर्दन्तोविधेयः, कुलिशं, वज्रं, रजन्यजस्थितेति, रजनी, हरिद्रा, अजः, छागः, हरिद्रीपरिस्थापिता छागवाहनेत्यर्थः अनले, आग्नेयदिग्भागे, दक्षिणापरे नैरृतदिग्भागे नैरृती प्रेतवाहनेत्यवधेयं, झषस्था मकरवाहनेत्यर्थः। निधिसंस्थितेति निधिरूपं कलशानुकारि। “मौलिन्योवरदास्तद्वत् कर्त्तव्या बालिकान्विताः। शक्त्या पञ्चपलादूर्द्धमा सहस्रात् प्रकल्पयेत्। सर्व्वासामुपरिष्टाच्च पञ्चवर्णं वितानकम्। धेनवो दश कुम्भाश्च वस्त्रयुस्मानि चैव हि”। मौलिन्यो मुकुटघराः, वरदा इति, यथोक्तायुधधारिणः करादितरेण करेण वरदमुद्रान्विताइत्यर्थः। “बालिका, कर्णभूषणं (वालि) बालकान्विता इति क्वचित्पाठः तदा वामोत्सङ्गस्थितवालकाइति व्याख्या। एतच्च पञ्चपलादिपरिमितकल्पलताकरणोपकॢप्तसुवर्णेनैव विभज्य सर्वं कर्त्तव्यं, पृथग्द्रव्येण कर्त्तव्यानुपदेशात्। “मध्यमे द्वे तु गुरवे ऋत्विग्योऽन्यास्तथैव च। ततो मङ्गलशब्देन स्नातः शुक्लाम्बरो बुधः। त्रिः प्रदक्षिणमावृत्य मन्त्रानेतानुदीरयेत्”। तत इति होमाधिवासनपुण्याहवाचनादि पूर्वोक्तकर्मकलापानन्तर्यमुच्यते, स्नात इति कुण्डसमीपवर्त्तिकलशस्थितसर्वौषधिजलेन ऋत्विग्भिः स्नापितः, गृहीतकुसुमाञ्जलिरित्यपि ज्ञेयम्। अत्र मन्त्रः “नमोनमः पापविनाशिनीभ्यो ब्रह्माण्डलोकेश्वरपालिनीभ्यः। आशंसिताधिक्यफलप्रदाभ्यो दिग्भ्यस्तथाकल्पलताबधूभ्यः”। अथ पूर्ववत् प्रयोगमुच्चार्य्य मध्यमे द्वे देवतादिसहिते कल्पलते गुरवे प्रतिपाद्य शेषा ऋत्विग्भ्यः प्रतिपादयेत्। तदनुज्ञया अन्येभ्योऽपि दानं दीनानाथपूरणं, स्वल्पेत्वेकाग्निविधानं चेति पूर्वोक्तमनुसन्धेयम्। ततः पुण्याहवाचनदेवतापूजनविसर्जनानि कुर्य्यात्। “इति सकलदि गङ्गनाप्रदानं भवभयसूदनकारि यः करोति। अभिमतफलदे सु नाकलोके वसति पितामहवत्सराणि त्रिंशत्”। अभिमतफलदे, इष्टफलदायिनि। “पितृशतमवतारयेद्भवाब्धेः स च दुरितौघविनाशशुद्धदेहः। मरपतिवनितासहस्रंसंख्यः परिवृतमम्बुजसंसदाभिवन्द्यः। इति विधानमिदं सदिगङ्गनाकनककल्पलताविनिवेदने। पठति यः स्मरतीह तदीक्षते स पदमेति पुरन्दरसेवितम्”। कल्पस्य संकल्पविवयस्य साधनं लता। २ सुरवृक्षशाखारूपलतायाञ्च।

कल्पवर्ष = पु० उग्रसेनभ्रातुर्देवकस्यात्मजोपदेवस्यात्मजभेदे “आहुकात्मजौ” देवकश्चोग्रसेनश्च चत्वारो देवकात्मजाः। देववानुपदेवश्च सुदेवोदेववर्द्धनः” इत्युक्त्वा राजन्यकल्पवर्षाद्या उपदेवसुता दश” भाग० ९, २४, २५ उक्तम्।

कल्पसूत्र = न० कल्पस्य वैदिककर्म्मानुष्ठानस्य प्रतिपादकं सूत्रम्। आश्वलायनापस्तम्बप्रणीतेषु वैदिककर्मप्रयोगावेदकेषु सूत्रात्मकग्रन्थेषु “त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः। चतुष्टोममहस्तस्य प्रथमं परिकल्पितम्” रामा०।

कल्पान्त = प्र०। कलपग्वालोयल। पलये अमरः। “कतपान्तैधितसिन्धवः” भाग० ३, ११, ३।

कल्पित = त्रि० कृप–णिच्–क्त। रचिते “प्रजापतिः कल्पितयज्ञभागम्” कुमा०। “मदीयसीमपि घनामनल्पगुणकल्पिताम्” २ व्यञ्जिते। “सप्तभेदकरकल्पितस्वरम्” माघः। “करेण कल्पितोव्यञ्जितः स्वरोयत्र” मल्लि०। ३ आरोपिते च। “अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः” सूतसं०। “किं न पश्यसि संसारं तत्रैवाज्ञानकल्पितम्” वेदा० प्र०। ४ आरोहणार्थं सज्जितगजे हेमच० ५ कृत्रिमसंज्ञया परिभाषिते “तच्चेप्सिततमं कर्म चतुर्द्धा न्यत्तु कल्पितम्” वाक्यप०।

कल्पिन् = त्रि० कल्पयति कृप–णिच्–णिनि। १ रचके २ आरोषके ३ वेशकारके च ४ नापिते पु०। “त्रेतायै कल्पिनं द्वापरायाधिकल्पिनम्” यजु० ३०, १८।

कल्प्य = त्रि० कृप–णिच्–यत्। १ रचनीये २ आरोप्ये २ अनुष्ठेये ४ विधेये “कालोपपन्नातिथिकल्प्यभागम्” रघुः।

कल्मन् = न० कर्मन् + रस्य लः। कर्मणि।

कल्मलि = पु० कलयत्यपगमयति मलम् पृषो०। १ तेजसि। “तस्य प्राच्यां दिशि श्रद्धा पुंश्चली मन्त्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्त्तौ कल्मलिर्मणिः” अथ० १५, २, १।

कल्मलीक = न० कलयत्यपगमयति मलम् पृषो०। ज्वलनयुक्ते तेजसि निरु०। “नमस्या कल्मलीकिनम् नमोभिः” ऋ० २, ३३, ८। “कलमलीकिलं ज्वलतोनामधेयमेतत् निरु०। १, १७। ज्वलन्तं कलयत्यपगमयति मलमिति कल्मलीकं तेजः” तद्वन्तं रुद्रम्” भा० ततः अस्त्यर्थे इनि।

कल्मष = न० कर्म शुभकर्म स्यति सो–क पु० षत्वं रस्य लः। १ पापे “व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते” “व्यपेतकल्लषोऽभ्येति” “यामीस्तायातनाः प्राप्य स जीवो वीतकल्मषः” मनुः। २ तद्वति त्रि० अमरः ३ हस्तपुच्छे न० त्रिका० ४ नरकभेदे पु० मेदि०। ५ मलिने त्रि० जटाधरः “जन्मन्यृक्षे यदि स्यातां वारौ भौमशनैश्चरौ। स मासः कल्मषो नाम मनोदुःखप्रदायकः” दीपिकोक्ते ६ मासभेदे पु०।

कल्माष = पु० कलयति कल–क्विप् कल् माषयति हिनस्ति अन्यवर्ण्णम् स्वभासा चु० मष–हिंसायाम् अच् कर्म०। १ चित्रवर्णे २ तद्वति त्रि० अमरः “अश्वांस्तित्तिरिकल्माषान्” भा० आ० ९ अ०। तित्तिरिवच्चित्रवर्णान् इत्यर्थः। “कल्माषा आग्निमारुताः” यजु० २४, ७। “कल्माषाः कर्वुरास्त्रयः पशवः आग्निमारुताः षष्ठे यपे” वेददी० “कलमाष ऐन्द्राग्न्यः” यज० २९, ५८। “मारुतः कल् माष आग्नेयः कृष्ण” यजु० २९, ५९। ३ कृष्णवर्ण्णे ४ कृष्णपाण्डरवर्णे पु० ५ तद्वति त्रि०। ६ राक्षसे च पुंस्त्री स्त्रियां जातित्वात् ङीष् मेदि०। वर्णवाचित्वे गौरा० पाठात् स्त्रियां ङीष्। ७ गन्धशालौ पु० राजनि०। ८ अग्निभेदे भारतम्। “अग्नीनां वासुदेवेन संसक्तानां महामृधे!। ते जातवेदसः सर्वे कल्माषः कुसुमस्तथा। दूहनः शोषणश्चैव तपनश्च महालयः” हरिवं० १८० अ०। ९ नागभेदे “नीलानीलौ तथानागौ कल्माषशवलौ तथा” भा० आ० ३५ नागनामोक्तौ। १० कृष्णविन्द, चिते च। “कल्माषमित्येके” आश्व० गृ० ४, ९, ५। “कल्माषो नाम कृष्णविन्दुचितः” नारा०।

कल्माषकण्ठ = पु० कल्माषः कृष्णपाण्डुरः कृष्णोवा कण्ठोऽस्य। महादेवे हारा० तस्य स्वतः श्वेतवर्ण्णत्वेऽपि विषपानकाले नीलकण्ठत्वात् तथात्वं कल्माषग्रीवादयीप्यत्र। “ध्रुवा दिग्विष्णुरधिपतिः कल्माषग्रीवो रक्षिता” अथ० ३, २७, ५। “ध्रुवाय त्वा दिशे विष्णवेऽधिपतये कल्माषग्रीवाय रक्षित्रे” अथ० १२, ३, ५९।

कल्माषपाद = पु० कल्माषौ पादौ यस्य। सूर्य्यवंश्ये सुदासपुत्रे नृपभेदे। “द्वेभार्य्ये सगरस्यास्ताम्” इत्युपक्रम्य “अयु ताजित्सुतस्त्वासीदृतपर्ण्णो महायशाः। दिव्याक्षहृदयज्ञोऽसौ राजा नलसखो बली। ऋतपर्ण्णसुतस्त्वासीदार्त्तपर्णिर्महीपतिः। सुदासस्तनयस्तस्य राजा इन्द्रसखोऽभवत्। सुदासस्य सुतस्त्वासीत् सौदासो नाम पार्थव!। ख्यातः कल्माषपादो वै नाम्ना मित्रसहोऽभवत्” हरिवं० १५ अ०। तस्य ब्रह्मशापात् राक्षसत्वप्राप्तेर्वसिष्ठेन शापविमोचनस्य च कथा भा० आ० १७७, ७८० अ० यथा“कल्माषपाद इत्येवं लोके राजा बभूव ह। इक्ष्वाकुवंशजः पार्थ! तेजसाऽसदृशो भुवि। स कदाविद्वनं राजा मृगयां निर्ययौ पुरात्। मृगान् विध्यन् वराहांश्च चचार रिपुमर्द्दनः। तस्मिन् वने महाघोरे खड्गांश्च बहुशोऽहनत्। हत्वा च सुचिरं श्रान्तो राजा निववृते ततः। अकामयत्तं याज्यार्थे विश्वामित्रः प्रतापवान्। स तु राजा महात्मानं वाशिष्ठमृषिसत्तमम्। तृष्णार्त्तश्च क्षुधार्त्तश्च एकायनगतः पथि। अपश्यदजितः सङ्ख्ये मुनिं प्रतिमुखागतम्। शक्त्रिं नाम महाभागं वशिष्ठकुलवर्द्धनम्। ज्येष्ठं पुत्रं पुत्रशताद्वशिष्ठस्य महात्मनः। अपगच्छ पथोऽणाकमित्येवं पार्थिवोऽब्रवीत्। तथा ऋषिरुवाचैनं सान्त्वयन् श्लक्ष्णया गिरा। मम पन्था महाराज! धर्म्म एष सनातनः। राज्ञा सर्व्वेषु धर्म्मेषु देयः पन्था द्विजातये। एवं परस्परं तौ तु पथोऽर्थं वाक्यमूचतुः। अपसर्पापसर्पेति वागुत्तरमकुर्व्वताम्। ऋषिस्तु नापचक्राम तस्मिन् धर्म्मपथे स्थितः। नापि राजा मुनेर्म्मानात् क्रोधाच्चापजगाम ह। अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः। जघान कशया मोहात्तदा राक्षस वन्मुनिम्। कशाप्रहाराभिहतस्ततः स मुनिसत्तमः। तं शशाप नृपश्रेष्ठं वाशिष्ठः क्रोधमूर्च्छितः। हंसि राक्षसवद्यस्माद्राजापसद! तापसम्। तणात्त्वमद्यंप्रभृति पुरुषादो भविष्यसि। मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम्। गच्छ राजाधमेत्युक्तः शक्त्रिणा वीर्य्यशक्तिना। ततो याज्यनिमित्तन्तु विश्वामित्रवशिष्ठयोः। वैरमासोत्तदा तन्तु विश्वामित्रोऽन्वपद्यत। तयोर्विवदतोरेवं समीपमुपचक्रमे। ऋषिरुग्रतपाः पार्थ! विश्वामित्रः प्रतापवान्। ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः। ऋषेः पुत्त्रं वशिष्ठस्य वशिष्ठमिव तेजसा। अन्तर्द्धाय तदात्मानं विश्वामित्रोऽपि भारत!। तावुभावतिचक्राम चिकीर्षन्नात्मनः प्रियम्। स तु शप्तस्तदा तेन शक्त्रिणा वै नृपोत्तमः। जगाम शरणं शक्त्रिं प्रसादयितुमर्हयन्। तस्य भावं विदित्वा स नृपतेः कुरुसत्तम। विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति। शापात्तस्य तु विप्रर्षेर्व्विश्वामित्रस्य चाज्ञया। राक्षसः किङ्करो नाम विवेश नृपतिं तदा। रक्षसा तं गृहीतन्तु विदित्वा मुनिसत्तमः। विश्वामित्रोऽप्यपाक्रामत्तस्माद्देशादरिन्दम!। ततः स नृपतिस्तेन रक्षसान्तर्गतेन च। बलवत्पीडितः पार्थ! नान्ववुध्यत किञ्चन। ददर्शाथ द्विजः कश्चिद्राजानं प्रस्थितं वनम्। अयाचत क्षुधापन्नः समांसम्भोजनन्तदा। तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा। आसस्व व्रह्मंस्त्वमत्रैव मुहूर्त्तं प्रतिपालयन्। निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम्। इत्युक्त्वा प्रययौ राजा तस्थौ स द्विजसत्तमः। ततो राजा परिक्रम्य यथाकामं यथासुखम्। निवृत्तोऽन्तःपुरं पार्थ! प्रविवेश महामनाः। ततोऽर्द्धरात्र उत्थाय सूदमानाय्य सत्वरम्। उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम्। गच्छामुष्मिन् वनोद्देशे ब्राह्मणो मां प्रतीक्षते। अन्नार्थो तं त्वमन्नेन समांसेनोपपादय। गन्धर्व्व उवाच। एवमुक्तस्ततः सूदः सोऽनासाद्यामिषं क्वचित्। निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः। राजा तु रक्षसा- विष्टः सूदमाह गतव्यथः। अप्येनं नरमांसेब भोजयेति पुनः पुनः। तथेत्थुक्त्वा ततः सूदः स स्थानं बध्यघातिनाम्। गत्वाऽऽजहार त्वरितो नरमांसमपेतभीः। स तत् संस्कृत्य विधिवदन्नोपहितमाशुवै। तस्मैप्रादाद् ब्राह्मणाय क्षुधिताय तपस्विने। स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः। अभोज्यमिदमित्याह क्रोधपर्य्याकुलेक्षणः। ब्राह्मण उवाच। यस्मादभोज्यमन्नं मे ददाति स नृपाधमः। तस्मात्तस्यैव मूढस्य मविष्यत्यत्र लोलुपा। सक्तो मानुषमांसेषु यथोक्तः शक्त्रिणा पुरा। उद्वेजनीयो भूतानां चरिष्यति महीमिमाम्। द्विरनुव्याहृतो राज्ञः स शापो बलवानभूत्। रक्षोबलसमाविष्टो विसंज्ञश्चाभवन्नृपः। ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः। उवाच शक्त्रिं तं दृष्ट्वा न चिरादिव भारत!। यस्मादसदृशः शापः प्रयुक्तोऽयं मयि त्वया। तस्मात्त्वत्तः प्रवर्त्तिष्ये स्वादितुं मानुषानहम्। एवमुक्त्वा गतः सद्यस्तं प्राणैर्व्विप्रयुज्य च। शक्त्रिं त भक्षयामास व्याघ्रः पशुमिवेप्सितम्। शक्त्रिं तन्तु मृतं दृष्ट्वा विश्वामित्रः पुनः पुनः। वशिष्ठस्यैव पुत्रेषु तद्रक्षः सन्दिदेश ह। स तान् शक्त्र्यवरान् पुत्त्रान् वशिष्ठस्य महात्मनः। भक्षयामास संक्रुद्धः सिंहः क्षुद्रान् मृगानिव। वशिष्ठो घातितान् श्रुत्वा विश्वामित्रेण तान् सुतान्। धारयामास तं शोकं महाद्रिरिव मेदिनीम्”। “ततः प्रतिनिवृत्तः स तया बध्वा सहानघः। कल्माषपादमासीनं ददर्श विजने वने। स तु दृव तं राजा क्रुद्ध उत्थाय भारत!। आविष्टो रक्षसोग्रेण इयेषात्तुं तदा मुनिम्। अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः। भयसंविग्नया वाचा वशिष्ठमिदमब्रवीत्। असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः। प्रगृहीतेन काष्ठेन राक्षसीऽभ्येति दारुणः। तंनिवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन। त्वदृतेऽद्य महाभाग! सर्व्ववेदविदां वर!। पाहि मां भगवन्! पापादस्माद्दारुणदर्शनात्। राक्षसोऽयमिहात्तुं वै नूनमावां समीहते। वशिष्ठ उवाच। मा भैः पुत्त्रि! न भेतव्यं राक्षसात्तु कथञ्चन। नैतद्रक्षो भयं यस्मात् पश्यसि त्वमुपस्थितम्। राजा कल्माषपादोऽयं वीर्य्यवान् प्रथितो भुवि। स एषोऽस्मिन् वनोद्देशे निवसत्यतिभीवणः। गन्धर्व्व उवाच। तमापतन्त संप्रेक्ष्य वशिष्ठो भगवानृषिः। वारयामास तेजस्वी हूङ्कारेणैव भारत!। मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा। मोक्षयामास वै शापात् तस्माद्घोरान्नराधिपम्। स हि द्वादश वर्षाणि वाशिष्ठस्यैव तेजसा। ग्रस्त आसीद्ग्रहेणेव पूर्णकाले दिवाकरः। रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत्। तेजसा रञ्जयामास सन्ध्याभ्रमिव भास्करः। प्रतिलभ्य ततः संज्ञामभिवाद्य कृताञ्जलिः। उवाच नृपतिः काले वशिष्ठमृषिसत्तमम्। सौदासोऽहं महाभाग! याज्यस्ते मुनिसत्तम!। अस्मिन् काले यदिष्टन्ते ब्रूहि किं करवाणि ते। वशिष्ठ उवाच। वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि वै। ब्राह्मणांस्तु मनुष्येन्द्र! मावमंस्थाः कदाचन। राजोवाच। नावमंस्ये महाभाग! कदाचिद्ब्राह्मणर्षभान्। त्वन्निदेशे स्थितः सम्यक् पूजयिष्याम्यहं द्विजान्”।

कल् माषाङ्घ्रिरप्यत्र। तस्य कल्माषपादताकथा स्त्रीसंसर्गे मृत्युरूपशापादिकथा च भाग० ९, ९ अ० यथा-

“ऋतपर्ण्णोऽनलसस्वोयोऽश्वविद्यामियान्नलात्। दत्त्वाऽक्षहृदयञ्चास्मै, सर्व्वकामस्तु तत्सुतः। ततः सुदासस्तत्पुत्रोमदयन्तीपतिर्नृपः। आहुर्म्मित्रसहं यं वै कल्भषाङ्घ्रिमुत क्वचित्। वशिष्ठशापाद्रक्षोऽभूदनपत्यः स्वकर्म्मणा। श्रीराजोवाच। किंनिमित्तोगुरोः शापः सौदासस्य महात्मनः। एतद्वेदितुमिच्छामि कथ्यतां न रहोयदि। श्रीशुक उवाच। सौदासोमृगयां किञ्चिच्चरनृक्षोजघान ह। मुमोच भ्रातरं, सोऽथ गतः प्रतिचिकीर्षया। संचिन्तयन्नयं राज्ञः सूदरूपधरोगृहे। गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिवम्। परिवेक्ष्यमाणं भगवान् विलोक्याभक्ष्यमञ्जसा। राजानमशपत् क्रुद्धोरक्षोह्येवं भविष्यसि। रक्षःकृतं तद्विदित्वा चक्रे द्वादशवार्षिकम्। सोऽप्यपोऽञ्जलिमादाय गुरुं शप्तुं समुद्यतः। वारितोमदयन्त्याऽपोरुशतीः पादयोर्जहौ। दिशः स्वमवनीं सर्व्वं पश्यञ्जीवमयं नृपः। राक्षसं भावमापन्नः पादे कल्माषताङ्गतः। व्यवायकाले ददृशे वनौकोदम्पती द्विजौ। क्षुधार्त्तोजगृहे विप्रं तत्पत्न्याहाकृतार्थवत्। न भवान्राक्षसः साक्षादिक्ष्वाकूनां महारथः। मदयत्न्या पतिर्व्वीर! नाधर्म्मं कर्त्तुमर्हसि। देहि मेऽपत्यकामाया अकृतार्थं द्विजं पतिम्। देहोऽयं मानुषोराजन्! पुरुषस्याखिलार्थदः। तस्मादस्य बधो वीर! सर्व्वार्थबध उच्यते। एष हि ब्राह्मणो विद्वांस्तपःशीलगुणान्वितः। आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम्। सर्व्वभूतात्मभावेन भूतेष्वन्तर्हितं गुणैः। सोऽयं ब्रह्मर्षिवर्य्यस्ते राजर्षिप्रवराद्विभो। कथमर्हति सर्व्वज्ञ! वधं पितुरिवात्मजः। कर्म्मणा मनसा वाचा सर्व्वमूतेषु सौहृदम्। विद्याविवेकसम्पन्नाः शोलमेतद्विदुर्बुधाः। तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः। कथं बधं यथा बभ्रोर्म्मन्यते सम्मतोभवान्। यद्ययं क्रियते भक्ष्यस्तर्हि मां स्वाद पूर्व्वतः। न जीविष्ये विना येन क्षणञ्च मृतकं तथा। एवं करुणभाषिण्या विलपन्त्या अनाथवत्। व्याघ्रः पशुमिवाखादत् सौदासः शापमोहितः। ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम्। शोचन्त्यात्मानमुर्व्वीशमशपत् कुपिता सती। यस्मान्मे भक्षितः पाप! कामतः स्वपतिस्त्वया। तवापि मृत्युराधानादकृतप्रज्ञ! दर्शितः। एवं मित्रसहं शप्त्वा पतिलोकपरायणा। तदस्थीनि समिद्धेऽग्नौ प्रास्य भर्त्तुर्गतिङ्गता। विशापोद्वादशाब्दान्ते मैथुनाय समुद्यतः। विज्ञाप्य ब्राह्मणीशापं महिष्या स निवारितः। ततऊर्द्ध्वं स तत्याज स्त्रीसुखं कर्म्मणाऽप्रजः। वशिष्ठस्तदनुज्ञातोमदयन्त्यां प्रजामधात्”।

कल्माषी = स्त्री कल्माष + “अन्यतो ङीष्” पा० ङीष्। १ चित्रवर्णयुक्तायां स्त्रियां २ कृष्णवर्णायां यमुनानद्याञ्च “प्रतिकर्त्तं नृपश्रेष्ठो यतमानोऽपि भारत!। अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन्” भा० आ० १६७। “कल्माषीं कृष्णवर्ण्णां यमुनामभितः” नीलक० “कल् माषीतीरसंस्थस्य गतस्त्वं शिष्यतां भृगोः” भा० स० ७६ अ०। गङ्गायमुनासङ्गमसमीपे एव भृगोराश्रम इति भारतादौ लोके च प्रसिद्धिरतः कल्माषीशब्देन यमुनोच्यते सितासितयोर्नद्योःमिश्रितत्वेन कृष्णपाण्डुरवर्णत्वात् प्रयागस्थयमुनायस्तथात्वम्

***