कर्म्मव्यतिहार = पु० वि–अति हृ–घञ् कर्मणा व्यतिहारः ३ त०। परस्परैकजातीयक्रियाकरणे, क्रियाविनिमये। यथा यः कश्चित् येन कर्मणा इतरं कर्म्मत्वादिना संबध्नाति, इतरोऽपि तज्जातीयेनैव कर्मणातं कर्मत्वादिना संबघ्नाति, तयोः कर्मविनिमयो भवति। यथा अन्योन्यं ताडयत इत्यादौ। अत्र अन्योन्ययोरेकजातीयताडनक्रियायां कर्मत्वेन सम्बन्धात्तथात्वम्। ‘कर्त्तरि कर्मव्यतिहारे’ ‘कर्मव्यतिहारे णच् स्त्रियाम्’ “न कर्मव्यतिहारे” पा०। क्रियाव्यतिहारोऽप्यत्र

कर्म्मशाला = स्त्री कर्म्मणः शिल्पादेः शाला। शिल्पादेः शालायाम्। “गत्वा तु तां भार्गवकर्मशालाम्”। “जगाम भार्गवकर्म्मशालाम्” भा० आ० १९, १०

कर्म्मशील = त्रि० कर्म शीलयति शील–अण्। कर्मकरणार्थशीलयुक्ते अमरः।

कर्म्मशूर = पु० कर्म्मणि शूरः। प्रयत्नेन १ प्रारब्धकर्म्मसमापके, आफलोदयं २ कर्म्मकारिणि च।

कर्म्मश्रेष्ठ = पु०। १ पुंलहपुत्रभेदे “पुलहस्य गतिर्भार्य्या त्रीनसूतसती सुतान्। कर्म्मश्रेष्ठं वरीयांसं सहिष्णुञ्च महामते!” भाग० ४, १, ३१। कर्म्मणा श्रेष्ठः। २ कर्मकार्य्यकरणेन वरिष्ठे त्रि०।

कर्म्मसंन्यास = पु० कर्मणः स्वरूपतः फलतो वा संन्यासस्त्यागः। फलाभिसन्धिराहित्येन १ तत्फलत्यागे २ स्वरूपतः कर्मत्यागे च। वा परसवर्णे कर्म्मसंन्न्यासोऽप्यत्र। आश्रमशब्दे ४८० पृ० संन्यासविवरणम्।

कर्म्मसंन्यासिक = पु० कर्मणां संन्यासोऽस्त्यस्य ठन्। प्रव्रज्यान्विते भिक्षुके हलायुधः। वा परसवर्णे कर्मसन्न्यासिकोऽप्यत्र

कर्म्मसंन्यासिन् = पु० कर्मसंन्यासोऽस्त्यस्य इनि। विधानेन १ कर्म्मत्यागिनि भिक्षुके २ कर्मफलत्यागिनि च। “द्विविधः कर्मणस्त्यागः फलसाधनभेदतः। फलाय ज्ञानिनस्त्यागो जिज्ञासोर्ज्ञानसिद्धये” इत्युक्तदिशा ज्ञानार्थं कर्मफलत्यागः, मोक्षार्थं स्वरूपतः कर्मत्यागश्च कर्मसंन्यासः। “आरुरुक्षोमुनेर्योग कर्म कारणमुच्यते। योगारूढस्य तस्यैव शमः कारणमुच्यते” इति गीतोक्तेः “अविशुद्धधियः कर्मण्यधिकारो विशुद्धधीः। सत्यां विविदिषोत्पत्तौ तदर्थं कर्म संत्यजेत्” इत्युक्तेश्च विविदिषायामेव कर्मणोहेतुत्वावगमात् तदुत्पत्तौ तत्त्याज्यत्वावगमाच्च तथात्वम्। वा परसवर्णे कर्मसंन्न्यासीत्यप्यत्र।

कर्म्मसङ्ग = पु० कर्मणि सङ्ग आसक्तिः सन्ज–घञ् ७ त०। इदमहं करोमि अनेनैतत्फलं भोक्ष्ये इत्याकारकेऽभिनिवेशे।

कर्म्मसचिव = पु० कर्मसु सचिवः ७ त०। राज्ञां मन्त्रव्यतिरिक्तकर्मसु सहाये अमरः।

कर्म्मसाक्षिन् = पु० साक्षात् पश्यति नि० साक्षी ६ त०। “सूर्य्यः सोमो यमः कालो महाभूतानि पञ्च च। एते शुभाशुभस्येह कर्मणो नव साक्षिणः” इत्युक्तेषु सूर्य्यादिषु नवसु। ६ त०। क्रियासाक्षात्कर्त्तृमात्रे त्रि०। “योयस्तत्कर्मसाक्षी स्वभुजबलयुतोयश्च यश्च प्रतीपः” वेणी०

कर्म्मसिद्धि = स्त्री ६ त०। इष्टानिष्टफलप्राप्तौ “स्वकर्मसिद्धिं पुनराशंशसे” इति कुमा०।

कर्म्मस्थान = न० कर्मणः व्यापारचिन्तनस्य स्थानम्। ज्योतिषोक्ते लग्नावधिदशमस्थाने। आजीवशब्दे विवृतिः। “लग्नेन्दुभ्यां वीर्य्यभाजः खभं स्यात् कर्मस्थानं खेशदृष्टं युतं सत्। सत्खेटैर्वा युक्तदृष्टं सुवृत्त्यै पापैर्दृष्टं वा युतं दुष्टवृत्त्यै। कर्मास्थोऽगुः स्वगृहे चेत् कुजज्ञकविभिर्युतः। दृष्टो वा वृद्धिहानिभ्यां युतोवित्तकरोमतः। कर्मभे शुभखगामिलिताः स्यूराज्यदा न रिपुनीचगृहे चेत्। धर्मधान्य सुखवृद्धिकराश्च खायुषः स्थिरधनस्य च वृद्ध्यै। नीचारिसंस्था अपि पापदृष्टाः पापाश्च कर्मण्यशुभप्रदाःस्युः। क्रूरा अपि खभवने शुभाः स्युर्विशेषतः सद्ग्रहवीक्षिताश्चेत्। शुभदृष्टाः शुभायोगाः कर्मभे सद्ग्रहोद्भवाः। अशुभाः प्रायशः प्रोक्ताः खलखेटनिरीक्षणात्। चिकित्सकाः शास्त्रविवादकाश्च पुरोहिता वञ्चनतत्परा वा। नरा अथो स्युर्गणकाः खलैस्तु कर्मस्थितैः सद्ग्रहवीक्षितैश्च। तृतीयषष्ठगाः पापा लग्नेन्दुभ्यां शुभा मताः। निधनान्त्यगता नेष्टा विशेषाल्लग्नसंस्थिताः। एकोनविंशे वियुतिं रविः खे, चन्द्रोधन ३, चन्द्रसुतः ४, क्रमेण। त्रिवेदनन्दैकमिते १२ऽर्क ईज्यो ९ भृगुः १ सुखं खे कुसुतो १२ऽस्त्रभीतिम्” जातके तच्चिन्ताप्रकारः।

कर्म्माङ्ग = न० ६ त०। विहितस्य यागादिकर्मणोऽङ्गे यथा दर्शादेः प्रयाजादि। देशकालादयोऽपि कर्माङ्गानि। यथाह गर्गः–“तिथिनक्षत्रवारादि साधनं पुण्यपापयोः। प्रधान गुणभावेन स्वातन्त्र्येण न ते क्षमाः”। “प्रधानस्य विधेयस्य कर्मणो गुणभावेनाङ्गत्वेन, तदुक्तं “कर्मासन्निहितं नैव बुद्धौ विपरिवर्त्तते। शब्दात्तु तदुपस्थानमुपादेये गुणोभवेत्” भट्टका० “प्रमाणान्तरासन्निहितं कर्म बुद्धौ प्रथमं न विषयीभवति प्राथमिकशब्दादेव तस्य कर्मण उपस्थितिरिति उपादेये स्वविधेये कर्म्मणि पूजादौ चन्द्रादिक्रियात्वेन तदवच्छिन्नकालत्वेन वा शुचितत्कालजीविनः कर्माधिकारात् प्रमाणान्तरलभ्यत्वेनाविधेयत्वात्तिथ्यादिर्गुणः” ति० त० रघु०। “फलवत्सन्निधावफलं तदङ्गमिति” न्यायेन फलवत्प्रकरणे पठितानामफलानां सर्वेषां तदङ्गत्वमवधेयम्।

कर्म्माजीव = पु० कर्मणा आजीवः जीवनम्। १ शिल्पादिकर्म्मद्वारा जीवनसाधने। स च नृणां जन्मलग्नावधिदशमभावे मेषादीनां द्रेक्काणनवांशद्वादशत्रिंशांशैः शिल्पादिकर्मविशेष आजीवे जातके उक्तः, तच्च आजीवशब्दे ६४१, ४२ पृ० दर्शितम्। कर्म जीवति अण्। २ शिल्पादिकर्मजीविकावति त्रि०।

कर्म्मात्मन् = पु० कर्मणा आत्मा आत्मभावो यस्य। संसारिणि स्वादृष्टोपनिबद्धशरीरयुक्ते १ जीवे। “तस्मिन् स्वपति तु खस्थे कर्मात्मानः शरीरिणः” मनुः। कर्मणि आत्मामनो यस्य। २ क्रियासक्तचित्ते च।

कर्म्माध्यक्ष = पु० ७ त०। क्रियामाक्षिणि कृताकृतावेक्षके।

कर्म्मान्त = पु० कर्मणः कृषिकर्मणोऽन्तो यत्र। सम्पन्नकृषिकर्मणि १ कृष्टभूमौ हेमच०। “अहन्यहन्यवेक्षेत कर्मान्तान् वाहनानि च” मनुः। कर्मणः तत्फलस्यान्तो यत्र। २ इक्षुधान्यादिसंग्रहस्थाने च। “शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने” मनुः। “कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः” भा० सभा० १६५ श्लो०। ६ त०। ३ कर्मसमाप्तौ च। “कर्मान्ते दक्षिणां दयात्” स्मृतिः”।

कर्म्मार = पु० कर्म ऋच्छति ऋ–अण्। १ कर्मकारके (कामार) जातिभेदे, “नमस्तक्षभ्योरथकारेभ्यश्च वो नमोनमः, नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमोनमः” यजु० ६, २७। “तपसे कौलालं मायायै कर्मारम्” यजु० ३०, ७, पुरुषमेधे “मायायै कर्मारं लौहकारम्” वेददी०। “कर्मारस्य निषादस्य रङ्गावतारकस्य च” मनुः। “ये धीवानोरथकाराः कर्मारा ये मनीषिणः” अथ० ६, ५, २ वंशभेदे (वेडवा~श), ३ कर्मरङ्गवृक्षे च राजनि०। ४ कर्म्मप्राप्तरि त्रि० स्वार्थेकन्। कर्मारक कर्मरङ्गे वृक्षे (कामराङ्गा) पु० राजनि०।

कर्म्मार्ह = पु० कर्मार्हति अर्ह–अण्। १ पुरुषे राजनि०। तस्य कर्मकरणसमर्थत्वात्तथात्वम्। २ कर्मकरणसमर्थे त्रि०।

कर्म्माशय = पु० आशेरते पुरुषा अस्मिन् आ + शी–आधारे अच् कर्मणामाशयः। कर्मजन्ये धर्माधर्मरूपे गुणभेदे “क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः” पात० सू०। कर्मविपाकशब्दे च अस्य भाष्यविवरणे दर्शिते।

कर्म्मिन् = त्रि० कर्मास्त्यस्य ब्रीह्या० इनि। व्यापारयुक्ते स्त्रियां ङीप् “कर्म्मिभ्यश्चाधिको योगी–तस्माद्योगी भवार्जुन!” गीता। २ फलाभिसन्धानेन कर्मकर्त्तरि च। “यत्कर्मिणो न प्रवेदयन्ति रागात्तेनातुराः क्षीणलोकाश्च्यवन्ते” मुण्ड० उ०। “इष्टापूर्त्तादिकर्मिणां धूमादिमार्गेण चन्द्रमण्डलादिप्राप्तिः” शा० भा० “ऋत्विक्कर्षककमिंणाम्” याज्ञ०।

कर्म्मिष्ठ = त्रि० अतिशयेन कर्मी इष्ठन् इनेर्लुक्। क्रियादक्षे जने

कर्म्मेन्द्रिय = न० कर्मणां वचनादीनां निमित्तमिन्द्रियम् अश्वघासादिवत् निमित्तार्थे ६ त०। वचनादिकर्मकरेषु वागादिषु इन्द्रिवेषु “पञ्चोक्त्यादानगमनविसर्गानन्दकाः क्रियाः। कृषिवाणिज्यसेवाद्यास्तेष्वेवान्तर्भवन्ति हि”। “वाक्पाणिपादपायूपस्थैरक्षेस्तत्क्रियाजनिः। मुखादि गोलकेष्वास्ते तत्कर्म्मोन्द्रयपञ्चकम्” पञ्चदश्यां तेषां नाम कार्य्याण्युक्तानि। “वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्याहुः। वचनादानविहरणोत्सर्गानन्दाश्च पञ्चनाम्” सां० का०। “इन्द्रस्यात्मनश्चिह्नत्वादिन्द्रियमुच्यते” सां० कौ० व्याकृतञ्चैतदस्माभिः तद्विवृतौ। “तेषामिन्द्रियशब्दार्थत्वे कारणमाह इन्द्रस्यात्मनैति। “इन्द्रोमायाभिः पुरुरूवईयते इत्यादि” श्रुतौ इन्द्रशब्दस्यात्मार्थकत्वदर्शनात्, पाणिनिना “इन्द्रियमिन्द्रलिङ्गम्” इत्यादिना इन्द्रशब्दात् तल्लिङ्गाद्यर्थे घप्रत्ययेन निपा- तितत्वात्तस्य तथात्वम। करणव्यापारः कर्त्तृव्यापाराधीनः करणव्यापारत्वात् कुठारादिव्यापारवदिति करणव्यापारेण कर्त्तुरनुमानात् इन्द्रियादीनां पुरुषलिङ्गत्वम्”। अत्र विहरणशब्दस्य गतिपरत्वम्। स्पष्टमुक्तं शा० ति०। “ज्ञानेन्द्रियार्थाः शब्दाद्याः स्मृताः कर्मेन्द्रियाण्यपि। वाक्पाणिपादपाय्वन्धुसंज्ञान्याहुर्मनीषिणः। वचनादानगतयोविसर्गानन्दसंयुताः। कर्मेन्द्रियार्थाःसंप्रोक्ताः” “अन्धुर्लिङ्गम्” राघवभट्टः।तेषां लक्षणनिर्णयार्थं द्वितीया कारिका या दर्शिता सा च कौ० व्याख्याता। “पञ्चानां कर्मेन्द्रियाणाम्, कण्ठताल्वादिस्थानमिन्द्रियं वाक्, तस्या वृत्तिर्वचनम्” व्याकृतञ्चैतदस्माभिः “एवं वागिन्द्रियस्य स्थानमुक्त्वा लक्षणकथनाय तद्वृत्तिमाहतस्यावृत्तिर्वचनमिति। तथा च वचनसाधनमिन्द्रियं वाक्। एवम् आदानसाधनमिन्द्रियं पाणिरित्यादि लक्षणम्। कारिकायां विहरणपदं चलनपरं तच्च गतिभेदः। उत्सर्गः उदराद् मलस्यापसारणेन त्यागः। आनन्दः आनन्दविशेषजनको रमणीसंभोगात्मको व्यापारभेदः”। अत्रताल्वादिस्थानमित्युक्त्या आदिपदात् “अष्टौ स्थानानि वर्ण्णानामुरःकण्ठः शिरस्तथा। जिह्वामूलञ्च दन्तौष्ठं नासिका चैव तालु च” इत्युक्तानामुर आदीनां ग्रहणम्। अतएव शङ्खेन “हस्तौ पादावुपस्थञ्च जिह्वा पायुस्तथैव च। कर्मेन्द्रियाणि पञ्चैव” इति जिह्वायाः कर्मोन्द्रियत्वस्योक्तिः सङ्गच्छते। इन्द्रियाणि च आहङ्कारिकाणीति सांख्या मन्यन्ते “प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः। सात्विक एकादशकः प्रवर्त्तते वैकृतादहङ्कारात्” इति सां० का०। “प्रकाशलाघवाभ्यामेकादशक इन्द्रियगणः मात्विकः वैकृतादहङ्कारात् प्रवर्त्तते” इति कौ० व्याख्यातञ्चैतदस्माभिः। एकादशकगणस्य सात्विकत्वमुपपादयितुमाह प्रकाशलाघवाभ्यामिति “सत्वं लघु प्रकाशकम्” इति कारिकया लाघवस्य प्रकाशस्य च सत्वधर्म्मत्वस्योक्तेः इन्द्रियाणाञ्च प्रकाशकत्वात् लाघवाच्च सत्वकार्य्यत्वं निश्चितं, तथा च सात्विकादेवाहङ्कारात् तस्योत्पत्तिर्युक्ता। वैकृतात् विकृतमेव वैकृतन्तस्मादित्यर्थः”। इन्द्रियाणाञ्च यथा आहङ्कारिकत्वं तथा सां० सू० भाष्ययोः समर्थितम्।

“अभिमानोऽहङ्कारः” “एकादश पञ्चतन्मात्रं तत्कार्य्यम्” सू०।

“अहङ्करोतीत्यहङ्कारः कुम्भकारवत् अन्तःकरणद्रव्यं, स च धर्मधर्म्यभेदादभिमान इत्युक्तोऽसाधारणवृत्तितासूचनाय, बुद्ध्या निश्चित एवार्थेऽहङ्कारममकारौ जायेते। अतो वृत्त्योः कार्यकारणभावानुसारेण वृत्तिमतोरपि कार्यकारणभाव उन्नीयत इति। एकादशेन्द्रिंयाणि शब्दादिपञ्चतन्मात्रं चाहङ्कारस्य कार्यमित्यर्थः। मयानेनेन्द्रियेणेदं रूपादिकं भोक्तव्यमिदं मे सुखसाधनमित्याद्यभिमानादेवादिसर्गेष्विन्द्रियतद्विषयोत्पत्त्याहङ्कार इन्द्रियादिहेतुः लोके भोगाभिकामेनैव रागद्वारा भोगोपकरणसर्जनदर्शनात् “रूपरागादभूच्चक्षुरित्यादिना मोक्षधर्मे हिरण्यगर्भस्य रागादेव समष्टिचक्षुरादेरुत्पत्तिस्मरणाच्चेति भावः। अतश्च भूतेन्द्रिययोर्मध्ये रागधर्मकं मन एवादावहङ्कारादुत्पद्यत इति विशेष, स्तन्मात्रादीनां रागकार्य्यत्वादिति तत्रापि विशेषमाह सा० का०। “सात्विकमेकादशकं प्रवर्तते वै कृतादहङ्कारात्”। “एकादशानां पूरणमेकादशकं मनः षोडशात्मगणमध्ये सात्विकम्। अतस्तद्वैकृतात् सात्विकाहङ्काराज्जायत इत्यर्थः। अतश्च राजसाहङ्काराद्दशेन्द्रियाणि तामसाहङ्काराच्च तन्मात्राणीत्यपि मन्तव्यम्। “वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा। अहन्तत्त्वाद्विकुर्वाणान्मनो वैकारिकादभूत्। बैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः। तैजसादिन्द्रियाण्येव ज्ञानकर्ममयानि च। तामसो भूतसूक्ष्मादिर्यतः स्वं लिङ्गमात्मनः” इत्यादिस्मृतिभ्य एव निर्णयात्। अतएव पुराणाद्यनुसारेण कारिकायामप्येतदुक्तम्। “सात्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात्। भूतादेस्तन्मात्रं स तामसस्तैजसादुभयम्” इति। तैजसो राजसः। उभयं ज्ञानकर्म्मेन्द्रिये। ननु देवतालयश्रुतिरित्यागामिसूत्रे करणानां देवतालयं वक्ष्यति तत्कथं कारिकयापि देवानां सात्विकाहङ्कारकार्यत्वं नोक्तमिति उच्यते समष्टिचक्षुरादिशरीरिणः सूर्यादिदेवता एव चक्षुरादिदेवताः श्रूयन्ते। अतश्च व्यष्टिकरणानां समष्टिकरणानि देवतेत्येव पर्यवस्यति। तथा च व्यष्टिसमष्ट्योरेकताशयेनात्र शास्त्रे देवाः करणेभ्यो न पृथङ्गिर्दिश्यन्ते। अतः समष्टीन्द्रियाणि मनोऽपेक्षयाल्पसत्वत्वेन राजसाहङ्कारकार्यत्वेनैव निर्दिष्टानि। स्मृतिषु च व्यष्टीन्द्रियापेक्षयाऽधिकसत्वत्वेन सात्विकाहङ्कारकार्यतयोक्तानीत्यविरोधैति मन्तव्यम्। तदेवमहङ्कारस्य त्रैविध्यान्महतोऽपि तत्कारणस्य त्रैविध्यं मन्तव्यम्। “सात्विको राजसश्चैव तामसश्च त्रिधा महान्” इति स्मरणात् त्रैविध्यं चानयोर्व्यक्तिभेदादंशभेदाद्वेत्यन्यदेतत्। एकादशेन्द्रियाणि दर्शयति” भा०। “कर्मेन्द्रियबुद्धीन्द्रियैरान्तरमेकादशकम्” सू० “कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थानि पञ्च, ज्ञानेन्द्रियाणि च चक्षुःश्रोत्रत्वग्रसनघ्राणाख्यानि पञ्च। एतैर्दशभिः सहान्तरं मन एकादशकमेकादशेन्दियमित्यर्थः। इन्द्रस्य सङ्घातेश्वरस्य करणमिन्द्रियम्। तथा चाहङ्कारकार्यत्वे सति करणत्वमिन्द्रियत्वमिति”। “इन्द्रियाणां भौतिकत्वमतं निराकरोति” भा०। “आहङ्कारिकत्वश्रुतेर्न भौतिकानि” सू०। इन्द्रियाणीति शेषः। आहङ्कारिकत्वे च प्रमाणभूता श्रुतिः काललुप्ताप्याचार्यवाक्यान्मन्वाद्यखिलस्मृतिभ्यश्चानुमीयते। प्रत्यक्षा श्रुतिस्तु “अहं बहु स्याम्” इत्यादि। ननु–“अन्नमयं हि सौम्य मनः” इत्यादिर्भौतिकत्वेऽपि श्रुतिरस्तीति चेन्न प्रकाशकत्वसाम्येनान्तःकरणोपादानत्वस्यैवोचिततयाहङ्कारिकत्वश्रुतेरेव मुख्यत्वात्। भूतानामपि हिरण्यगर्भसङ्कल्पजन्यतयान्नस्य मनोजन्यत्वाच्च। व्यष्टिमनआदीनां भूतसंसृष्टतयैव तिष्ठतां भूतेभ्योऽभिव्यक्तिमात्रेण तु भौतिकत्वश्रुतिर्गौणीति। ननु तथाप्याहङ्कारिकत्वनिर्णयो न घटते? “अस्य पुरुषस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यम्” इत्यादिश्रुतौ देवतास्विन्द्रियाणां लयकथनेन देवतोपादानकत्वस्याप्यवगमात् कारण एव हि कार्यस्य लय इत्याशङ्क्याह भा०। “देवतालयश्रुतिर्नारम्भकस्य” सू० “देवतासु या लयश्रुतिः सा नारम्भकविषयिणीत्यर्थः, अनारम्भकेऽपि भूतले जलविन्दोर्लयदर्शनात्। अनारम्भकेष्वपि भूतेष्वात्मनो लयश्रवणाच्च। “स एष विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति” इत्यादिश्रुताविति भावः” भा०। एतन्मूलतयैव शां० ति० “वैकारिकादहङ्काराद्दे वा वैकारिका दश। दिग्वातार्कप्रचेतोऽश्वि + वह्नीन्द्रोपेन्द्रमित्रकाः। तैजसादिन्द्रियाण्यासंस्तन्मात्रक्रमयोगतः”। इन्द्रियाणामधिष्ठातृदेवानाञ्च आहङ्कारिकत्वमुक्तम्।

कर्मेन्द्रियाणामधिष्ठातृदेवाश्च वाचः वह्निः, पाणेरिन्द्रः, पादस्य उपेन्द्रः, पायोः मित्रः, उपस्थस्य कः ब्रह्मा।

वेदान्तिमते च आकाशादीनां रजोंशैः वागादीनां क्रमेणोत्पत्तिः “रजोऽशैः पञ्चभिस्तेषां क्रमात् कर्मेन्द्रियाणि तु। वाकपाणिपादपायूपस्थाभिधानानि जज्ञिरे” पञ्चदश्युक्तेः तेषाञ्चाहङ्कारित्वं प्रमेयविवरणोपन्यासे निराकृतं, तच्च आत्मशब्दे ६६६ पृ० दर्शितम्, तेषामनुमानेन भौतिकत्वसिद्धिरिति शुष्कतार्किकमतमपि तत्र निरासितं तत्रैव पृ० दृश्यम्। “तेषां रजोऽंशैर्जातानि क्रमात् कर्मेन्द्रियाणि च” शब्दचि० भागवतवाक्यम्।

कर्व = दर्पे भ्वा० प० अक० सेट्। कर्व्वति अकर्व्वीत् चकर्व प्रनिकर्वति। कर्वटः कर्वुरः कर्वूरः।

कर्व = पु० किरति विषयेषु चित्तम् कॄ–व। कामे उज्ज्व०। कामस्य चित्तविक्षेपकत्वात् तथात्वम्।

कर्वट = पु० कर्व–अट। द्विशतग्राममध्ये सुन्दरस्थाने, यत्र गत्वा क्रयविक्रयादिना सन्निहितजनपदवासिनो जनाजीवन्ति १ तादृशे ग्रामे पुरे वा २ नगरमात्रे च अमरटीका “कर्वटं द्विशतग्राममध्ये ग्रामोमनोहरः” हारा० उक्तेः न० च। ३ प्रचुरकण्टकसन्ताने ग्रामे च। “धनुःशतं परीणाहो ग्रामात् क्षेत्रान्तरं भवेत्। द्वे शते कर्वटस्य स्यात् नगरस्य चतुःशतम्” याज्ञ० “कर्वटस्य प्रचुरकण्टकसन्तानस्य ग्रामस्य” मिता० कूर्मविभागे प्राच्यां दिशि वृ० सं० उक्ते ४ देशभेदे “अथ पूर्वस्यामञ्जनवृषभध्वजपद्ममाल्यवद्गिरयः। व्याघ्रमुखसुह्मकर्वटचन्द्रपुराः शूर्पकर्णाश्च”। “ताम्रलिप्तं च राजानं कर्वटाधिंपतिं तथा। सुह्मानामधिपं चैव ये च सागरवासिनः” भा० स० २९ भीमप्राचीविजये। त्रिकाण्डशेषे तु “चतुरष्टशतग्रामान्तर्द्रोणमुखकर्कटौ” इत्युक्तेः ५ अष्ठशतग्राममध्यस्थग्रामे च पु०।

कर्वर = न० कृ–वरच्। १ कर्मणि निरु०। “अन्यदद्य कर्वरमन्यदु” ऋ० ६, २४, ५। “कर्वरं कर्मनामैतत्” भा०। कॄ–विक्षेपे ष्वरच्। २ व्याघ्रे ३ राक्षसे च पुंस्त्री उज्ज्व० जातित्वात् स्त्रियां ङीष् ४ निशायां स्त्री विश्वः षित्त्वात् ङीष्। कर्बरीत्येव। सा च ५ हिङ्गुपत्र्याम् जटाघ० ६ शिवायां मेदि०।

कर्वुदार = पु० कर्व दर्पे उण् तं दारयति दृ–अण्। कोविदारवृणे

कर्वु(र्वू)र = पु० कर्बु(र्बू)रशब्दार्थे।

कर्श्य = पु० कृश–यत्। कर्चूरे, (कचूर) राजनि०।

कर्ष = पुंन० कृष–अच् कर्मणि घञ् वा। “दशार्द्धगुञ्जं प्रवदन्ति माषं माषाह्वयैः षोडशभिश्च कर्षम्” लीला० उक्ते अशीतिरत्तिकापरिमाणे षोडशमाषके मानभेदे २ तन्मिते सुवर्णे च। ३ विभीतकवृक्षे पु० शब्दरत्ना०। भ्वा० कृष–भावे घञ्। ४ आकर्षणे। तुदा० कष–भावे घञ्। ५ विलेस्वने च। अत्र प्रसङ्गात् पौराणिकस्मार्त्तकर्मोचित स्मृत्यादिपरिभाषितवैद्यक परिभाषितमानभेदौच्यते। तत्र पौराणिकाटिमा नमाह हेमा० दा० ख० मनुः “लोकसव्यवहारार्थं याः संज्ञाः प्रथिता भुवि। ताम्ररूप्यसुवर्ण्णानां ताः प्रवक्ष्याम्यशेषतः। जालान्तरगते भानौ यत् सुक्ष्मं दृश्यते रजः। प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते। त्रसरेण्वष्टकं ज्ञेया लिक्षैका परमा यतः। ता राजसर्षपस्तिस्रस्ते त्रयोगौरसर्षपः। सर्षपाः षट् यवोमध्यस्त्रियवश्चैव कृष्णलः। पञ्च कृष्णलको माषस्ते सुवर्णस्तु षोडश। पलं सुवर्णाश्चत्वारः पलानि धरणं दश। द्वे कृष्णले समधृते विज्ञेयोरूप्यमाषकः। ते षोडश स्याद्धरणं पुराणश्चैव राजतः। कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः। धरणानि दश ज्ञेयं शतमानस्तुराजतः। चतुःसौवर्णिको निष्कोविस्तं तु तत्प्रमाणकम्” याज्ञवल्क्यः “जालसूर्य्यमरीचिस्थं त्रसरेणू रजः स्मृतम्। तेऽष्टौ लिक्षा तु तास्तिम्रो राजसर्षप उच्यते। गौरस्तु ते त्रयः षट् ते यवोज्ञेयस्तु ते त्रयः। कृष्णलः, पञ्च ते माषस्ते सुवर्ण्णस्तु षोडश। पलं सुवर्ण्णाश्चत्वारः पञ्च वापि प्रकीर्त्तितम्। द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते। शाणमानन्तु दशभिर्द्धरणैः पलमेव च। निष्कः सुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः मणः” आह विष्णुः” “जालस्थार्कमरीचिगतं रजस्त्रसरेणुसंज्ञं, तदष्टकं लिक्षा, तत्त्रयं राजसर्षपः, तत्त्रयं गौरसर्षपः, ते षट्यवः, तत्त्रयं कृष्णलः, तत्पञ्चकं माषः, तद्द्वादशकमक्षार्द्धं स चतुर्माषकं सुवर्ण्णः, तच्चतुःसौवर्ण्णिकोनिष्कः। द्वे कृष्णले रूप्यमाषकः ते षोडश धरणम्” “ताम्रिकः कार्षापणः पण” कात्यायनः “माषो विंशतिभागश्च ज्ञेयः कार्षापणस्य तु। काकिनी तु चतुर्भागो माषस्य परिकीर्त्तिता। पञ्चनद्याः प्रदेशे तु संज्ञेयं व्यावहारिकी। कार्षापणप्रमाणं तु तत् निबद्धमिहैव यत्। ते द्वादश सुवर्णस्तु दीनारस्तु त्रिकः स्मृतः” नारदः “कार्षापणो दक्षिणस्यां दिशि रौप्यः प्रवर्त्तते। पणो निबद्धः पूर्व्वस्यां षोडशैव पणाः पलम्। अगस्तिरपि “यवः स्यात् सर्षपैः षडिभर्गुञ्जा चैका त्रिभिर्यवैः। गुञ्जाभिः पञ्चभिश्चैको माषकः परिकीर्त्तितः। भवेत् षोडशभिर्माषैः सुवर्णस्तैः पुनः स्मृतः। चतुर्भिः पलमेकन्तु दश ते घरणं विदुः”। “अष्टभिर्भवति व्यक्तै स्तण्डुलः गौरसर्षपैः। स वैणवयवः प्रोक्तो गोधूमं चापरे जगुः”। विष्णुगुप्तः “पञ्चगुञ्जोभवेन्माषः शणस्तेश्च चतुर्गुणैः। कलञ्जं धरणं प्राहुर्भणिमानविशारदाः। मज्जाटिकाकलञ्जस्तु तौल्ये गुञ्जाद्वयं विदुः। सज्जाटिका विंशतिस्तु धरणं तद्विदां मतम्। स्थूलमध्यातिसूक्ष्माणां सुसूक्ष्माणामपि स्मृतम्”। “दीनारोरोपकैरष्टार्विंशत्या परिकीर्त्तितः। सुवर्णसप्ततितमोभागोरोपक इष्यते” प्रकान्तरेणाप्याह सुक्षेत्रे यथावन्मध्यपाककाले निष्पन्नधान्ययवादश सुवर्ण्णमाषः पञ्च वा गुञ्जाः सुवर्णमाषकः ते षोडश सुवर्ण्णः एवं प्रमाणसिद्धस्य द्वितीया संज्ञा कर्ष इति चतुष्कर्षं पलं पलानां शतेन तुला विंशतितौलिको भारः अस्यैव भारस्य उदतौलिक इति द्वितीया संज्ञा” दानखाण्डे हेमाद्रिः। एतेषा मानभेदः शक्तितारतम्यापेक्षया ग्राह्यतावेदनार्थः। वैद्यकपरिभाषितमानं भावप्र०। “न मानेन विना युक्तिर्द्रव्याणां जायते क्वचित्। अतः प्रयोगकार्यार्थं मानमत्रोच्यते मया। चरकस्य मतं वैद्यैराद्यैर्यस्मान्मतं ततः। विहाय सर्वमानानि मागधं मानमुच्यते। त्रसरेणुर्बुधैः प्रोक्तस्त्रिंशता परमाणुभिः। त्रसरेणुस्तु पर्य्यायनाम्ना वंशी निगद्यते। जालान्तरगतैः सूर्य्यकरैर्वंशी विलोक्यते। षड्वंशीभिर्मरीचिः स्यात्ताभिः षड्भिश्च राजिका। तिसृभीराजिकाभिश्च सर्षपः प्रोच्यते बुधैः। यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम्। षड्भिस्तु रत्तिकाभिः स्यान्माषको हेममानके। माषैश्चतुर्भिः शाणः स्याद्धरणः स निगद्यते। टङ्कः स एव कथितस्तद्द्वयं कोल उच्यते। क्षुद्रको वटकश्चैवं द्रङ्क्षणः स निगद्यते। कोलद्वयन्तु कर्षः स्यात् स प्रोक्तः पाणिमानिका। अक्षः पिचुः पाणितलं किञ्चित्पाणिश्च तिन्दुकम्। विडालपदकं चैव तथा षोडशिका मता। करमध्यो हंसपदं सुवर्णं कवलग्रहः। उदुम्बरञ्च पर्य्यायैः कर्षमेव निगद्यते। स्यात्कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा। शुक्तिभ्याञ्च पलं ज्ञेयं मुष्टिराम्रञ्चतुर्थिका। प्रकुञ्चः षोडशी विल्वं पलमेवात्र कीर्त्त्यते। पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतञ्च निगद्यते। प्रसृतिभ्यामञ्जलिः स्यात्कुडवोऽर्द्धशरावकः। अष्टमानञ्च स ज्ञेयः कुडवाभ्याञ्च मानिका। शरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः। शरावाभ्यां भवेत् प्रस्थः चतुःप्रस्थैस्तथाढकः। भाजनं कांस्यपात्रं च चतुःषष्टिपलश्च सः। चतुर्भिराढकैर्द्रोणः कलशोनल्वणोऽर्मणः। उन्मानश्च घटोराशिद्रोणपर्यायसं ज्ञितः। दोणाभ्यां सूर्यकुम्भौ च चतुःषष्टिशरावकः शूर्पाभ्याञ्च भवेद्द्रोणी वाही गोणी च सा स्मृता। द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः। चतुःसहस्रपलिका षण्णवत्यधिका च सा। पलानां द्विसहस्रञ्च भार एकः प्रकीर्त्तितः। तुला पलशतं ज्ञेयं सर्वत्रैवैष निश्चयः। माषटङ्काक्षविल्वानि कुडवप्रस्थमाढकम्। राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणम्। मागधपरिभाषायां षड्रत्तिको माषश्चतुविंशतिरत्तिकष्टङ्कः षण्णवतिरत्तिकः कर्षः। अयञ्चरकसम्मतः। सुश्रुतमते पञ्चरत्तिकोमाषो विंशतिरत्तिकष्टङ्कोऽशीतिरत्तिकः कर्षः। अयमेव कालिङ्गपरिमाषायामपि यतस्तत्राष्टरत्तिकोमाषो द्वात्रिशद्रत्तिकष्टङ्कः सार्द्धटङ्कद्वयमितः कर्षः। गुञ्जादिमानमारभ्य यावत् स्यात्कुडवस्थितिः। द्रवार्द्रशुष्कद्रव्याणां तावन्मानं समं मतम्। प्रस्थादिमानमारभ्य द्विगुणं तद्द्रवार्द्रयोः। मानन्तथा तुलायास्तु द्विगुणं न क्वचित् स्मृतम्। मृद्वृक्षवेणुलोहादेर्भाण्डं यच्चतुरङ्गुलम्। विस्तीर्णञ्च तथोच्चञ्च तन्मानं कुडवं वदेत्। इति मागधमानम्। कालिङ्गमानम् “यतो मन्दाग्नयो ह्रस्वा हीनसत्वा नराः कलौ। अतस्तु मात्रा तद्योग्या प्रोच्यते सुज्ञसम्मता। यवो द्वादशभिर्गौरषर्षपैः प्रोच्यते बुधैः। यवद्वयेन गुञ्जा स्यात् त्रिगुञ्जो वल्ल उच्यते। माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा मवेत् क्वचित्। चतुर्भिर्माषकैः शाणः स निष्कष्टङ्क एव च। गद्याणो माषकैः षड्भिःकर्षः स्याद्दशमाषिकः। चतुः कर्षैः पलं प्रोक्तं दशशाणमितं बुधैः। चतुः पलैश्च कुडवप्रस्थाद्याः पूर्ववन्मताः। स्थितिर्नास्त्येव मात्रायाः कालमग्निं वयोबलम्। प्रकृतिं दोषदेशौ च दृष्ट्वा मात्रां प्रकल्पयेत्। नाल्पं हन्त्यौषधं व्याधिं यथाम्भोऽल्पं महानलम्। अतिमात्रं च दोषाय शस्यो यस्थे बहूदकम्”। कर्षं नित्यमर्हति ठञ्। कार्षिक कर्षपरिमाणार्हे “कार्षिकस्ताम्रिकः पणः इत्यमरः”। नित्यकर्षणार्हे क्षेत्रभेदे च घञन्तकर्षस्य “कर्षान्ततो घञोऽन्त उदात्तः” पा० अन्तोदात्तता अत्र कर्षेतिशपा निर्द्देशात्तुदादेराद्युदात्ततेति सि० कौ०।

कर्षक = त्रि० कृष–विलेखने। १ क्षेत्रकर्षंणकारके (कृषाण) “कच्चिन्न वीजं भक्तञ्च कर्षकस्यावसीदति” भा० स० ५ अ० “पश्यैनं कर्षकं क्षुद्रं दुर्वलं मम पुत्रकम्। प्रतोदे- नाभिनिघ्नन्तं लाङ्गलेन च पीडिनम्” भा० ९ अ० सुरभेर्वाक्यम् “कालप्राप्तमुपासीत शस्यानामिव कर्षकम्” भा० व० २५८ अ०। “त्वं समीरण इव प्रतीक्षितः “कर्षकेण वलजां पुपूषता” माघः २ लेखके ३ आकर्षके च।

कर्षण = न० तुदा० कृष–भावे ल्युट्। लाङ्गलादिना भूमेर्विलेखने (चास देओया) हेम०। “मृतं तु याचित भैक्ष्यं प्रमितं कर्षणं स्मृतम्” मनुः। कृषिशब्दे विवृतिः। भ्वा० कृषल्युट्। २ आकर्षणे च (टाना) “भज्यमानमतिमात्रकर्षणात्” रघुः “शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा” मनुः। ३ क्षीरिणीवृक्षे स्त्री राजनि० गौरा० ङीष्।

कर्षणि = स्त्री कृष–अनि। असत्यां स्त्रियाम् उणादिकोषः शब्दकल्पद्रुमे उक्तम्। तच्चिन्त्यम् “कृषेरादेश्च धः” उणा० २, १०५ सू० धर्षणिरित्यस्यैव सिद्धेः कर्षणिरिति पाठो लिपिकरप्रमादकृतः। अतएव उज्ज्वलदत्तेन “धर्षणि र्बन्धकीत्युक्त्वा” धृषेरनिप्रत्ययेन सिद्धे वैचित्र्यार्थम्” इत्युक्तम्

कर्षफल = पु० कर्षः तन्मात्रं फलमस्य। १ विभीतकवृक्षे, अमरः २ आमलक्याम् स्त्री रत्रमाला टाप्।

कर्षापण = पु० कर्षेणापण्यते क्रीयते। षोडशपणपरिमाण (काहन) कर्षस्य षोडशमाषकमितत्वेन षोडशभिः पणैस्तस्य क्रयणात् तत्संख्यासाम्यात् तथात्वम्। “अशीतिभिर्वराटकैः पण इत्यभिधीयते। ते षोडश पुराणं स्यात् रजतं सप्त भिस्तुतैः” गौतमेन षोडशपणेषु पुराणशब्दस्य परिभाषितत्वात् “द्वात्रिंशत्पणिका गावो वत्सः पौराणिकोमतः” कात्यायनेन द्वात्रिंशत्पणानां गोमूल्यतयाभिधानेन “धेनुः पञ्चभिराढ्यानां मध्यानां त्रिपुराणिका। कार्षापणैकमूल्या हि दरिद्राणां प्रकीर्त्तिता” षट्त्रिंशन्मते पुराणकार्षापणयोः पर्य्यायतादर्शनाच्च तथार्थता। ततः प्रज्ञा० स्वार्थेअण्। कार्षापणोऽप्यत्र अर्द्धर्चादि० तेन पुंन०।

कर्षिन् = त्रि० कृष–आकर्षेणिनि। आकर्षके। “स्तम्बेरमामुखरशृङ्खलकर्षिणस्ते” रघुः। स्त्रियां ङीप्। “घ्राणकान्तमधुगन्धकर्षिणीः” रघुः। ङीबन्तः २ क्षीरिणीवृक्षे ३ अश्वमुखबन्धनरज्जुस्थितलौहभेदे कविकायां च स्त्री जटा०

कर्षू = पु० कृष–ऊ। १ करीषानले (घुटेर आगुन)। २ कुल्यायां स्त्री अमरः। ३ इष्टखाते मेदि०। इष्टखातस्तु “चतुरंङ्गुलपृथ्वीस्तावदन्तरास्तथाधःखाता वितस्त्यायतास्तिस्रः कर्षूः कुर्य्यात्” प्रा० वि० विष्णूक्तप्रमाणकगर्त्तभेदः। “ततः कर्षूःकुर्य्यात् तन्मूले प्रागुदगग्न्युप समाधानं कृत्वा पिण्डनिर्वपणम्” “कर्षूत्रयमूले पुरुषाणां, कर्षूत्रय- मूले स्त्रीणाम्। पुरुषकर्षूत्रयं सान्नेनोदकेन पूरयेत् स्त्रीकर्षूत्रय सान्नेन पयसा दध्ना मांसेन, पयसा च प्रत्येकं कर्षूत्रयं पूरयित्वा जपेत्” विष्णु०। ४ गर्त्तमात्रे च। “कर्षूवीरणवति” कात्या० २१, ३ २६। “कर्षूः कुहर उच्यते” कर्कः अस्य ह्रस्वान्तमपि। “दक्षिणतः कुटिले कर्षू खात्वा क्षीरोदकाभ्यां पूरयन्ति सप्तोत्तरतः प्राचीरुदक्स्थाःः” कात्या० २१, ३, २६। “श्मशानत उत्तरतः कुटिले कर्षू गर्त्तौ खात्वा” कर्कः।

कर्हि = अव्य० कस्मिन् काले किम् + र्हिल् कादेशः। अनद्यतने कस्मिन् काले इत्यर्थे। कर्हि स्वित्तदिन्द्र यन्नृभिः” ऋ० ६, ३५, २।

कर्हिचित् = अव्य० कर्हि + चित् मुग्ध० पा० मते भिन्नं पदद्वयम्। कस्मिंश्चित्काले इव्यर्थे। “अश्विना यद्ध कर्हि चित्” ऋ० ५, ७४, १०। अतएव पदकाराः कर्हि, चित्। इति भिन्नपदतया पेठुः” यदद्य कर्हि कर्हिचित्” ऋ० ८, ७३, ५।

कल = संख्यायां सक० शब्दे अक० भ्वा० आत्म० सेट्। कलते अकलिष्ट चकले प्रनिकलते।

कल = गतौ संख्यायाञ्च अद० चुरा० उभय० सक० सेट्। कलयति ते अचकलत् त। कलयाम्–बभूव आसचकार चक्रे। गत्यर्थत्वात् ज्ञानार्थत्वमपि। “कलयन्त्यनुक्षणमनेकलयम्” माघः “व्यालनिलयमिलनेन गरलमिव कलयति मलयजसारम्” जयदे० ग्रहणे “कलथ बलयश्रेणीं पाणौ पदे कुरुनूपुरौ” जलदे०। संख्यानञ्चात्र गणनं ज्ञानभेदश्च। “स पश्चात् संपूर्णः कलयति धरित्रीं तृणसमाम्” नीतिः “कलयैदमानमनसं सखि! माम्” माघः। “वाचामाचकलत् रहस्यमखिलं यश्चाक्षपादस्फुराम्” मल्लि०। उच्चारणेच “माद्यन्तः कलयन्तु चूतशिखरे, केलिपिकाः पञ्चमम्”। ग्रासे “कालः कलयतामस्मि” गीता। “कलनात्सर्वभूतानां स कालः परिकीर्त्तितः” ति० त० विष्णुध०। कलनीयम् कलयितव्यम् कलयिता कलितः। कलयन् कलयमानः कलयितुम् कलयित्वा आकलय्य। “कलितललितवनमालम्” जयदे० “करकलितकपालः कुण्डली दण्डपाणिः” वटुकस्तवः।अव–अवगमे अवकलयति वि + अव वियोजने “यदि व्यक्ते युक्तिव्यवकलनमार्गेऽसि कुशला” लीला०।आ + बन्धने “सुवर्ण्णसूत्राकलिकधराम्बराम्, माघः ज्ञाने च” “वाचामाचकलत्” मल्लि०। “मकरध्वजद्विरदमाकलयत्” “सुक्तावलीराकलयाञ्चकार” इति च माघः।प्रति आ + प्रतिबोधे प्रत्याकलितस्वदुर्नयः” दशकु०।उद् + उत्क्षिप्य ग्रहणे “स तस्य हस्तोत्कलितस्तदासुरो विक्रीडतो यद्वदहिर्गरुत्मतः” भाग० ७, ८, १६।सम् + एकसंख्यापादनरूपे योगे। “अथ संङ्कलनव्यकलननयोः करणसूत्रम्” “सैकपदघ्नपदार्धमथैकाद्यङ्गयुतिः किल सङ्गलिताख्या” लीला०।

कल = नोदने प्रेरणे चुरा० उभय० सक० सेट्। कालयति ते अचीकलत् त। कालयां बभूव आस चकार चक्रे। कालयितव्यः कालनीयः। कालयिता कालितः कालयन् कालयमानः। कालयित्वा आकाल्य। कर्म्मणि काल्यते अकालि अकालयिषाताम् अकालिषाताम्। “गवां शतसहस्राणि त्रिगर्त्ताः कालयन्ति ते” भा० वि० १००, ७। “गावो न काल्यन्त इदं कुतो रजः” भाग० ४, ५, ८। सा गौस्तत्सकलं सैन्यं कालयामास दूरतः” भा० आ० ६६९०।

कल = पु० कल–शब्दे घञ् नि० अवृद्धिः। मधुराव्यक्ते ध्वनौ अमरः। “सारसैः कलनिर्ह्रादैः” “कलमन्यमृतासु भाषितं कलहंसीसु मदालसं गतम्” “निशासु भास्वत् कलनूपुराणाम्” रघुः। “कलपक्षिणीरवमुदासि वपुः”। “कलकाञ्चि काञ्चिदरुणत्तरुणः” माघः। कलप्रधानाकाञ्चिर्यत्र एवं कलहंस इत्यादौ शा० त० समासस्तेन तस्य न तद्युक्तार्थता। अतएवामरेण “कलो मन्द्रस्तु गम्भीरस्तारोऽत्युच्चैस्त्रयस्त्रिषु” मन्द्रादीनां त्रयाणामेव त्रिलिङ्गत्वमुक्तम्। “उदकण्ठि कण्ठपरिवर्त्तिकलस्वरशून्यगानपरया परया” माघः। कड–मदे अच् डस्य लः। २ शुक्रे चरमधातौ न० मेदि०। ४ कोलिवृक्षे पु० शब्दच०। ४ सालवृक्षे पु० राजनि०। ५ अजीर्ण्णे त्रि० मेदि०। कलास्त्यस्य अच्। कुलान्वितेऽवयवे च।

कलक = पुंस्त्री कल–चु० ण्वुल्। शकुलमत्स्ये हेमच०। स्त्रियां जातित्वात् ङीष्।

कलकण्ठ = पुंस्त्री कलः कलप्रधानः कण्ठोऽस्य। १ कोकिले २ हंसे, ३ पारावते च। जातित्वेऽपि संयोगोपधत्वात् स्त्रियां न ङीष् किन्तु स्वाङ्गत्वात् ङीप्। कलध्वनियुक्तकण्ठके त्रि० स्त्रियां ङीप्।

कलकल = पु० कलप्रकारः गुणवचनत्वात् प्रकारे द्वित्वम्। कोलाहले। “चलितया विदधे कलमेखलाकलकलोऽलकलोलदृशाऽन्यया” माघः। कलस्य शालवृक्षस्य कला यत्र। २ शालनिर्यासे मेदि०।

कलकीट = पु० कलप्रधानः कीटः शा० त०। कीटभेदे। तत्र भवः पलद्या० अण्। कालकीट तद्भवे त्रि०।

कलकूट = पु० नगरभेदे राजनि०। ततः भवार्थे तद्राजार्थे च “साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्” पा० इञ्। कालकूटि तद्भवे त्रि० तन्नृपे च। इञश्चास्त्रियां बहुषु लुक्। कलकूटास्तद्देशवासिषु तन्नृपेषु च स्त्रियां तु न लुक्। कालकूटय इत्येव।

कलघोष = पुंस्त्री कलोघोषोऽस्य। कोकिले शब्दर० स्त्रियां जातित्वात् ङीष्

कलङ्क = पु० कलयति क्विप् कल् चासौ अङ्कश्चेति, कं ब्रह्माणमपि लङ्कयति गच्छति लकि–गतौ अण् वा। १ चिह्ने २ अपवादे, ताम्रादिधातूनां ३ मलभेदे (कल्कान), ताम्रादियोगात् ४ अम्लादेर्विकारे च मेदि०। “शशकृपाणकवचेषु कलङ्काः” काद०। “धारानिबद्धेव कलङ्करेखा” “मत्तः सदाचारशुचेः कलङ्कः” रघुः। “ताम्रवर्ण्णश्च परुषो मन्दरश्मिर्दिवाकरः। अदृश्यत कलङ्काङ्कः संसक्तो धूमकेतुना” रामा०। ततः अस्त्यर्थे इनि। कलङ्किन् तद्युक्ते त्रि० स्त्रियां ङीप्। “कलङ्की जायते विल्वे” ति० त० स्मृतिः। ततः तारका० जातार्थे इतच्। कलङ्कित जातकलङ्के त्रि०।

कलङ्कष = पुंस्त्री करेण कषति बा० खच् मुम् च रस्य लः। १ सिंहे शब्दमा०। जातित्वात् स्त्रियां ङीष्। २ करताल्यां स्त्री शब्दरत्ना० टाप्।

कलङ्कुर = पु० कं जलं लङ्कयति लकि–गतौ णिच–उरच्। जलानामावर्त्ते स्वतोजलभ्रमे त्रिका०।

कलञ्ज = पु० केतिशब्दं लञ्जति भाषते क इत्यव्यक्तानुकरणम् लजि–अण्। विषाक्तास्त्रेण हते १ मृगे, २ पक्षिणि च। ३ तन्मांसे न० “न कलञ्जं भक्षयेदिति” श्रुतिः। ४ ताम्रकूटे च (तामाक) “कलञ्जसंवेष्टनधूमपानात् स्याद्दन्तशुद्धिर्मुखरोगहानिरिति” वैद्यके तत्सेवनान् मुखरोगहान्यादि उक्तम्। ५ परिमाणभेदे च। कर्षशब्दे भावप्र० तन्मानभेदोदृश्यः।

कलञ्जाधिकरण = न० “न कलञ्जं भक्षयेदित्यादिवाक्यमधिकृत्य पञ्चावयवन्यायभेदे स च न्यायः यथा किं यदा कष्टापि तद्भक्षणनिषेधः। उत सर्व्वदेति संशयः। यदा कदाचिन्निषेध इति पूर्व्वपक्षः सर्व्वदा तन्निषेध इति सिद्धान्तः। तदेतत्भङ्ग्या एका० त० दर्शितं यथा “न कलञ्जंभक्षयेत्” इति श्रुतिः कलञ्जमक्षणाभावविषयकं कार्य्यमित्यर्थः। तत्र कालविशेषानुपादानान्निषिध्यमानक्रियायां प्रवृत्तिमतोनिषेधविधावधिकाराद्यावत्कालमेव तस्यां तस्य निवृत्तिः। न हि कलञ्ज- भक्षणाद्यतः कुतश्चित् करणान्निवृत्तस्य निषेधानुपालन सकृद्वृत्तमिति कलञ्जभक्षणनिषेधो न पुनस्तं निवर्त्तायति किन्तु भक्षणप्रवृत्तिमत्तामात्रमधिकारिविशेषण यदा यदा भवति तदा तदैव निषेधविधिरपि तं निवर्त्तयति। न हि कलञ्जस्य भक्षणमुपक्रम्य यावत् कालं तद्भक्षयति। अतस्तदितरकाले निवृत्तिः सिद्धैवेति भवति विफलोविधिः। ननु नासौ निवृत्तिरप्रवृत्तस्य निवृत्त्यनुपपत्तेः। सत्यं, प्रवृत्त्युपाधिना विनाशं प्राप्स्यन् प्रागभाव एव प्रवृत्तिनिराकरणात् साध्यमानोनिवृत्तिरुच्यते न तु प्रवृत्तिरपि साध्यतयोपदिश्यते किन्तु रागप्राप्तप्रवृत्तिमतएव निषेधविधावधिकारः। यत्तु “मनसा तु प्रवृत्तस्य भूतचेष्टावतोऽपि वा। यदनागतभावस्य वर्ज्जनं तन्निवर्त्तनम्” इति। अत्रापिशब्देनाप्रवृत्तमात्रसमुच्चयान्न विरोधः। भूतचेष्टावत इति। “भूतं क्ष्मादौ पिशाचादौ जन्तौ क्लीवं त्रिषूचिते। प्राप्ते वृत्ते समे सत्ये देवयोन्यन्तरे तुना” इति मेदिन्युक्तेः भूते प्राप्ते निषेध्ये चेष्टावतैत्यर्थः। ततश्च प्रागभाव एव कालान्तरसम्बन्धितया साध्यत्वेनोपदिश्यते। प्रागभावश्चानादिसंसर्गाभावमात्रपरः सचाप्रवृत्तस्य भक्षणकारणमननुतिष्ठतः सिध्यत्येव। तस्मात् सकृत्क्रियापर्य्यवसायित्वे विफलोविधिः। कादाचित्काकरणस्य निषेधमन्तरेणापि प्राप्तेः। न च स्वर्गकामादिवत् साध्यतया प्रवृत्तिमत्कर्त्तृकत्वमप्यङ्गं विषयमात्राननुष्ठानाधीनसिद्धत्वान्निषेधनियोगानामितिकर्त्तव्यताकाङक्षाविरहात् अतएव शुचित्वमपि तत्र नाङ्गम्। तस्मान्निषेधविधिषु काकवन्तोदेवदत्तस्य गृहाइत्यादिवत्तटस्थत्वेनाधिकारिविशेषणीभूतायाः प्रवृत्तेर्यावत्कालभनुवृत्तिस्तावत्कालमेव निवृत्तौ साफल्यं पुनर्निमित्तान्तरवन्न सकृदनु ष्ठानेनैव शास्त्रार्थसिद्धिः”। यथा चात्र निवृत्तेरेव बोध्यता न प्रवृत्त्यभावस्य तथा समर्थितं वृहदारण्यकब्राह्मणभाष्ययोः यथा– “प्रतिषिद्धानिष्टफलसम्बन्धश्च वेदादेव विज्ञायते न चानुष्ठेयः सः। न च प्रतिषिद्धविषये प्रवृत्तक्रियस्याकरणादन्यदनुष्ठेयमस्ति। अकर्त्तव्यताज्ञाननिष्ठतैव हि परमार्थतः प्रतिषेधविधीनां स्यात्। क्षुधार्त्तस्य प्रतिषेधज्ञानसंस्कृतस्याभक्ष्येऽभोज्ये वा प्रत्युपस्थिते कलञ्जाभिशस्तान्नादाविदं भक्ष्यमदो भोज्यमिति वा ज्ञानमुत्पन्नं तद्विषयया प्रतिषेधज्ञानस्मृत्या बाध्यते मृगतृष्णिकायामिव पेयज्ञान तद्विषययाथार्थ्यविज्ञानेन तस्मिन् बाधिते खाभाविकविपरीतज्ञानेऽनर्थकरी तद्भक्षणभोजनप्रवृत्तिर्न भवति। विपरीतज्ञाननिमित्तायाः प्रवृत्तेर्निवृत्तिरेव न पुनर्यत्नः कार्य्यस्तदभावे” शङ्कराचार्य्यकृतभाष्यम्। “यद्यपि कलञ्जभक्षणादेरधःपातस्य च सम्बन्धो” न कलञ्जम्भक्षयेत्” इत्यादिवाक्यात्प्रतीयते, तथापि तस्यानुष्ठेयत्वाद्वाक्यस्यानुष्ठेयनिष्ठत्वसिद्धिरित्याशङ्क्याह न चेति। सम्बन्धस्यामावार्थत्वान्नानुष्ठेयतेत्यर्थः। अभक्षणादि कार्य्यमिति विधिपरत्वमेव निषेधवाक्यस्य किन्न स्यादित्याशङ्क्याह न चेति। तस्यापि कार्य्यार्थत्वे विधिनिषेधभेदभङ्गात् नञश्च स्वसम्बन्ध्यभावबोधने मुख्यस्यार्थान्तरे वृत्तौ लक्षणापातान्निषिद्धविषये रागादिना प्रवृत्तक्रियावतो निषेधशास्त्रार्थधीसंस्कृतस्य निषेधश्रुतेरकरणात् प्रसक्तक्रियानिवृत्त्युपलक्षितादौदासीन्य दन्यदनुष्ठेयं न प्रतिभातीत्यर्थः। भावविषयं कर्त्तव्यत्वं विधीनामर्थोऽभावविषयन्तु निषेधानामिति विशेषमाशङ्क्याह। अकर्त्तव्यतेति। अभावस्य भावत्वाभावात् कर्त्तव्यताविषयत्वासिद्धिरिति हि शब्दार्थः। प्रतिषेधज्ञानवतोऽपि कलञ्जमक्षणादिज्ञानदर्शनात् तन्निवृत्तेर्नियोगाधीनत्वात् तन्निष्ठमेव वाक्यमेष्टव्यमिति चेन्नेत्याह। क्षुधार्त्तस्येति। विषलिप्तवाणहतस्य पशोर्मासं कलञ्जम्। ब्रह्मबधाद्यभिशापयुक्तस्यान्नपानादि। तस्मिन्नमक्ष्येऽभोज्येच प्राप्ते यद्भ्रमज्ञानं क्षुत्क्षामस्योत्पन्नं तन्निषेधधीसंस्कृतस्य तद्धीस्मृत्या बाध्यमित्यत्र लौकिकदृष्टान्तमाह। मृगतृष्णिकायामिति। तथापि प्रवृत्त्यभावसिद्धये विधिरर्थ्यतामिति चेन्नेत्याह। तस्मिन्निति। तदभावः प्रवृत्त्यभावो न विधिजन्यप्रयत्नसाध्यो निमित्ताभावेनैव सिद्धेरित्यर्थः” आनन्दगिरिः। नैयायिकमते तत्र बोधप्रकारः शब्दचि० दर्शितो यथा“ननु न कलञ्जं भक्षयेत्” इत्यत्र विध्यर्थनिषेधानुपपत्तिः तद्भक्षणस्य श्रेयोरूपेष्टसाधनत्वात्, न चासुराऽविद्यावत् पर्य्युदासलक्षणया विरोध्यनिष्टसाधनबोधनं, नञोऽसमस्तत्वात् क्रियासङ्गतत्वेन प्रतिषेधवाचकत्वव्युत्पत्तेश्चेति चेत् न विशेष्यवति विशिष्टनिषेधस्य “सविशेषणे हीति” न्यायेन विशेषणनिषेधपर्य्यवसायितया कलञ्जभक्षणमिष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखसाधनमिति” न कलञ्जं भक्षयेत्” इत्यनेन बोधनात्, इष्टसाधनतावाचकस्य विधेः सामात्ये निषेधानुपपत्तेर्बलवदनिष्टाननुबन्धी ष्टसाधनविशेषे तात्पर्य्यं तथा चाशक्यविशेषणनिषेधपरत्वं नञ इति कश्चित् तन्न यथाह्ययोग्यतया छिद्रं विहाय घटत्वेन तदितरान्वयो न तच्छिद्रेतरत्वेन, युगपद्वृत्तिद्वयविरोधात् तथेहापि बलवदनिष्टाननुबन्धित्वेन नोपस्थितिरिति” विशेषबोधप्रकारस्तु आख्यातवादे गदाधरेण दर्शितो यथा “न कलञ्जं भक्षयेत्” इत्यादिनिषेधविधेः प्रामाण्यानुरोधेन बलवदनिष्टाननुबन्धित्वस्य विध्यर्थेप्रवेशः निषेधोऽपि, कलञ्जभक्षणादौ तृप्त्यादिरूपेष्टसाघनतासत्त्वेन तदभावस्य नञाबोधने तत्प्रामाण्यानुपपत्तेः बलवदनिष्टाननुबन्धित्वस्य विघिप्रत्ययवाच्यत्वे तस्यैवाभावो बलवदनिष्टनरकानुबन्धिनि तत्कर्म्मण्यबाघितो बोध्यत इति तत्प्रामाण्योपपत्तिः। वलवदनिष्टाननुबन्धित्वस्येष्टसाधनताविशेषणतया वाच्यत्वे विशिष्टाभावस्यैव शाब्दबोधे भानं सोऽपि विशेषणाभावायत्तोऽबाधितः। कलञ्जभक्षणादौ विशिष्टाभावबोधानन्तरं तल्लिङ्गकानुमानगम्यो बलवदनिष्टाननुबन्धित्वरूपतदननुबन्धित्वाभावः। प्रवर्त्तकमिव निवर्त्तकमपि ज्ञानं श्रुतिवाक्यात् परम्परयैव, न तु साक्षात्। मवन्मते च तादृशाभावस्य शाब्दबोधे न भानं पदार्थैकदेश इतरविशेषणत्वेनोपस्थितत्वेन नञर्थविशेषणतया अनिष्टानमुबन्धित्वान्वयासम्भवात्। वस्तुतो विशिष्टशक्तौ विशेष्यविशेषणभावे विनिगमनाविरहात् पृथगेव बलवदनिष्टाननुबन्धिताया वाच्यत्वम्। न च बलवदनिष्टाननुबन्धित्वस्येष्टसाधनताविशेष्यत्वे विधिवाक्यतः क्रियाविशेष्यकेष्टसाधनताज्ञानसम्भवात् क्रियागोचरचिकीर्षाद्यर्थं विधिवाक्यजन्यशाब्दबोधोत्तरमिष्टसाधनत्वप्रकारकक्रियाविशेष्यकज्ञानान्तरं कल्पनीयमिति तदकल्पनप्रयुक्तलाघवमेव बलवदनिष्टाननुबन्धित्वविशेषणत्वे विनिगमकमिति वाच्यं क्रियायां बलवदनिष्टासाधनत्वज्ञानतद्गोचरेच्छयोर्हेतुतया बलवदनिष्टासाधनत्वस्येष्टसाधनताविशेषणत्वमते क्रियाविशेष्यकतत्प्रकारकज्ञानान्तरस्य कल्पनीयतया तन्नये कल्पनासाम्यात्। यदि च बलवदनिष्टानुबन्धित्वज्ञानमेव तद्द्वेषसामग्रीत्वेन इच्छाप्रतिबन्धकं न तु तदसाधनत्वज्ञानमिच्छाहेतुस्तदोक्तविशेष्यविशेषणभावे विनिगमकस्य सम्भवेऽपि विशिष्टस्य वाच्यत्वोपगमे तत्र वाधेन तद्विधायकश्रुतेरप्रामाण्यप्रसङ्ग इति शक्तिभेदस्य श्येनस्थले इष्टसाधनताबोधस्य चोपगम आव- श्यकः। मणिकृतापि तत्र बलवदनिष्टसाधनत्वविनिर्म्मोकेणेष्टसाधनत्वस्य भानं लिखितं तदभानञ्च विशिष्टशक्तिपक्षे न सम्भवति विशिष्टशक्तेर्विशेषणविनिर्मोकेण विशेष्याभासकत्वात्। तद्धर्मप्रकारेण पदार्थविषयकशाब्दबोधे तत्तर्द्धमांशे शक्यतावच्छेदकतापर्य्याप्त्यवगाहिज्ञानस्यं हेतुत्वात् अन्यथा विशिष्टसुखादिवाचकस्वर्गादिपदाद्विना लक्षणां केवलसुखत्वादिशाब्दबोधापत्तेः”। “इदन्तु बोध्यं बलवदनिष्टाजनकत्वमत्र न तीव्रदुःखाजनकत्वं बह्वायातसाध्ययागादौ तस्य बाधात् नापि बलवद्द्वेषविषयदुःखाजनकत्वं दुःखमात्रस्य विरक्तानां बलवद्द्वेषविषयत्वेनाऽव्यावर्त्तकतापत्तेः तज्ज्ञानस्याप्रवर्त्तकतया तस्य विधित्वायोगाच्च यत्र बलवान् द्वेषस्तज्जनकताज्ञानत्वेन बलद्द्वेषविषयत्वेन वा प्रवृत्तिसामान्यं प्रति प्रतिबन्धकत्वात्, परन्तु नरकाजनकत्वं पापाजनकत्वं वा, तद्विरहस्यैव कलञ्जभक्षणादौ नञा बोधनात्” शब्द० प्र०

कलट = न० कं जलं लटति आवृणोति लट–अच्–६३०। गृहाच्छादने (चाल) तृणादिमये पदार्थे शब्दर०।

कलतूलिका = स्त्री कं सुखं लाति विषयत्वेन ला–क कलं सुखविषयं कामं तूलयति निष्कर्षति पूरयति वा तूल पूरणे–निष्कर्षे वा ण्वुल्। इच्छावत्याम् स्त्रियां त्रिका०। इच्छायाः सुखविषयत्वेन सुखाधायकत्वात् तत्पूरकत्वात् तन्निष्कर्षकत्वाद्वा तस्यास्तथात्वम्। कलकूजिका कलतूणिका वा अत्र पाठान्तरमस्ति उभयत्र पृषो० साधु।

कलत्र = न० गड–सेचने अत्रन् आदेश्च कः डस्य लः, कलं त्रायते त्रै–क–कड–शासने वा० अत्रन् डस्य लो वा। १ भार्य्यायाम् “कलत्रवानहं बाले”! “कलत्रवन्तमात्मानमवरोधे महत्यपि” “वसुमत्या हि नृपाः कलत्रिणः” रघुः। “पत्युस्त्विषामिह महौषधयः कलत्र–स्थानं परैरनभिभूतममूर्वहन्ति” माघः “नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः” मेघ०। २ नितम्बे अमरः “कलत्रभारेण विलोलनीविना” किरा०। नृपाणां ३ दुर्गस्थाने हेमच०।

कलधूत = न० कलेनावयवेन धौतः शुद्धत्वात् पृषो०। रूप्ये राजनि०।

कलधौत = न० कलेनावयवेन धौतं शुद्धम्। १ स्वर्ण्णे। “यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पंणश्रीः” माघः “व्योमस्पृशः प्रथयता कलधौतभित्तीः” माघः। २ रूप्ये च मेदि० “अनतिचिरोज्झितस्य जलदेन चिरस्थितबहुबुद्वुदस्य पयसोऽनुकृतिम्। विरलविकीर्ण- वज्रशकलान् सकलामिह विदधाति धौतकलधौतमहीम्” “अधिरात्रि यत्र निपतन्नभोलिहां कलधौतधौतशिलवेश्मनां रुचौ” माघः “अमलकलधौतपट्टायितमष्टमीचन्द्रशकलाकारम्” काद०। कलो ध्वनिभेदौ धौतः शुद्धोऽत्र। ३ कलध्वनौ विश्वः।

कलध्वनि = पु० कलोध्वनिरस्य। १ पारावते २ कोकिले ३ मयूरे जातित्वात् स्त्रीत्वमपि। ४ मधुराव्यक्तध्वनियुक्ते त्रि०। कर्म्म०। ५ मधुराव्यक्तध्वनौ पु०।

कलन = न० कलयत्यनेन कल–गतौ गत्यर्थस्य ज्ञानार्थत्वात् ज्ञाने करणे ल्युट्। १ चिह्ने २ वातपित्तादिदोषे च तैः स्वरूपानुमानात् तथात्वम्। ३ ग्रहणे ४ ग्रासे। “कलनात् सर्वभूतानां स कालः परिकीर्त्तितः” ति० त० विष्णुध० पु०। ५ ज्ञाने च “लोकानामन्तकृत् कालः कालोऽन्यः कलनात्मकः” सू० सि०। “कलनात्मकः ज्ञानविषयस्वरूपः ज्ञातुम् शक्य इत्यर्थः” रङ्ग०। “न सोऽस्ति प्रत्ययो लोके यः कालानुगमादृते” इत्युक्तेः ज्ञानमात्रस्य कालविषयकत्वात् तथात्वम्। कं जलं लाति उत्पत्तिसाधनत्वेन तथा सन् नमति नम–बा० ड। ६ वेतसवृक्षे पु० राजनि०। तस्य जलसमीपजातत्वात् तत्स्रोतसा नमनाच्च तथात्वम्। “स्त्रियाः प्रविष्ट उदरं पुंसो रेतः कलाश्रयः। कलनं(लं)त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम्” भाग० ३, ३०, ३७ उक्ते ७ एकरात्रेण पच्यमाने गर्भकारणे रेतोविकारभेदे इति शब्दकल्पद्रुभादयः। तच्चिन्त्यम् “आर्त्तवं वायुरादाय कुक्षौ गर्भं करोति हि। मासि मासि विवर्द्धेत गर्भिण्या गर्भलक्षणम्। कललं जायते तस्याः इति” सुश्रुते “दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः” सा० कारिकायाम् “कार्य्यं शरीरं तस्यावस्थाः कललबुद्बुदमांसपेशीकरण्डाङ्गप्रत्यङ्गव्यूहाः” कौ० उक्तेश्च तदेकवाक्यतया लकारद्वययुक्तपाठस्यैव भागवतेऽवधृतत्वेन नकारयुक्तपाठोलिपिकरप्रमादकृतः इति विवेच्यम्

कलना = स्त्री चु० कल–भावे युच्। १ ज्ञाने २ ग्रहणे ३ आदाने ४ आमोचने ५ अवमोचने च “पिच्छावचूडाकलनामिवोरः” माघः “कलनामामोचनमवमोचनं वा” मल्लि०।

कलनाद = पुंस्त्री कलोनादोऽस्य। १ राजहंसे राजनि० स्त्रियां जातित्वात् ङीष्। २ कलध्वनियुक्ते त्रि०। कर्मधा०। ३ कलध्वनौ पु०।

कलन्दर = पुंस्त्री वर्ण्णसङ्करजातिभेदे स्त्रियां जातित्वात् ङीष्। जातिशब्दे विवृतिः।

कलन्दिका = स्त्री कं सुखं लाति विषयतया ला–क कलं कामं ददाति दा–क पृषो० मुम् च टाप् अत इत्त्वम्। सर्वविद्यायाम् हेमच०। तस्याः सर्व्वसंशयनिराकरणेन कामदातृत्वात्तथात्वम्।

कलन्धु = पु० कलाया मात्रायाः अन्धुरिव शक०। घोलीशाके राजनि०।

कलभ = पु० करेण शुण्डेन भाति भा–क रस्य लः। “त्रिंशद्वर्षस्तु कलभ” इति वैजयन्त्युक्ते १ गजभेदे। “मुदा रमन्ते कलभा विकस्वरैः”। “इह मुहुर्मुदितैः कलभै रवः” “सकलकलभकुम्भविभ्रमाभ्याम्” माघः। २ पञ्चवर्षे करिपोते सुभूतिः “द्विपेन्द्रभावं कलभः श्रयन्निव” मोघवृत्तिकलभस्य चेष्टितम्”। “दृष्टो हि वृण्वन् कलभप्रमाणम्” रघुः। “ननु कलभेन यूथपतेरनुकृतम्” मालवि०। “गत्वा सद्यः कलभतनुतां शीघ्रसम्पातहेतोः” मेघ०। शावकमात्रपरत्वेनकरिकलभकरमृदिततमालकिशलया मेदिनी” काद०। वयोवाचित्वात् जातित्वात् स्त्रियां ङीप्। कं वातं लभते साधनत्वेन लभ–अच्। धुस्तूरे मेदि० तस्य मादकद्रव्यत्वेन वाताधायकत्वात्तथात्वम्

कलभवल्लभ = पु० ६ त०। पीलुवृक्षे राजनि०। कलभप्रियादयोप्यत्र।

कलभी = स्त्री कं जलं लभते आश्रयत्वेन लभ–अच् गौरा० ङीष्। चञ्चुवृक्षे राजनि०।

कलम = पु० कलते अक्षराणि कल–कमच्। १ लेखन्याम् जटाधरः २ धान्यभेदे च राजव०। स च “कलमःकलिविख्यातो जायते स वृहद्वने। कश्मीरदेश एवोक्ती महातण्डुलगर्भकः” इति भावप्र० उक्तदेशजः। ३ उत्खातप्रतिरोपितधान्यभेदे च। “आपादपद्मप्रणताः कलमा इव ते रघुम्। फलैः संवर्द्धयमासुरुत्खातप्रतिरोपिताः” रघुः “कलमगोपबधूर्न मृगव्रजम्” माघः “तत्र लोहितकशालिकलमकर्दमकपाण्डुकसुगन्धकशकुनाहृतपुष्पाण्डकपुण्डरीकमहाशालिशीतभीरुकलोध्रपुष्पकदीर्घशूककाञ्चनकमहिषमस्तकहायनकदूषकमहादूषकप्रभृतयः शालयः। मधुरा वीर्य्यतः शीता लघुपाका बलावहाः। पित्तघ्नाल्पानिलकफाः स्निग्धा बद्धाल्पवर्चसः। तेषां लोहितकः श्रेष्ठो दोषघ्नः शुक्रमूत्रलः। चक्षुष्योवर्ण बलकृत् स्वर्य्यो हृद्यश्रमापहः। व्रण्यो ज्वरहरश्चैव सर्वदोषविषापहः। तस्मादल्पान्तरगुणाः क्रमशः शालयोऽवराः” सुश्रुते तस्य गुणा उक्ताः। अस्य च रोपितधान्यत्वेन गुणविशेषःभावप्र० उक्तो यथा “रोपितास्तु नवा वृष्याः पुराणा लधवः स्थिराः। तेभ्यस्तु रोपिता भूयः शीघ्रपाकाः गुणाधिकाः”। अस्य शिला पिङ्गलवर्ण्णा “कपोलदेशे कलमाग्रपिङ्गलाः” इति कुभारे पिङ्गलोपमानत्वेन वर्णनात्। कलयति परेस्वं कल–अमच्। ४ चौरे पु० मेदि०।

कलमोत्तम = पु० ७ त०। गन्धशालौ राजनि०।

कलम्ब = पु० कल–क्षेपे अम्बच् कड–मदे अम्बच् डस्य लो वा। शाकनाडिकायां तस्या आहारकाले त्यज्यमानत्वात् तथात्वम्। २ शरे अमरः तस्य अरिं प्रति क्षिप्यमाणत्वात् तथात्वम् ३ कदम्बवृक्षे विश्वः कामिनां मादहेतुत्वात्तथात्वम्। संज्ञायां कन्। कलम्बक–धाराकदम्बे राजनि०।

कलम्बिका = स्त्री कलम्बोव कायति कै–क संज्ञायां ह्रस्वः। १ ग्रीवापश्चाद्भागस्थनाड्यां तस्याः कलम्बीतुल्यशुषिरमध्यत्वात् तथात्वम्। स्वार्थे कन् ह्रस्वः। (कलमी) २ शाकभेदे च।

कलम्बी = स्त्री के जले लम्बते लबि–अविश्रंसने अच् गौरा० ङीष्। (कलमी) शाकभेदे तस्या जले लम्बमानत्वात्तथात्वम्। भावप्र० तद्गुणाद्युक्तं यथा। “कलम्बी शतवर्षी च कथ्यन्ते तद्गुणा अथ। कलमी स्तन्यदा प्रोक्ता मधुरा शुक्रकारिणी”। ति० त० स्मृतौ अस्यादशम्यामभक्ष्यत्वमुक्तम् “तुम्बी गोमांसतुल्या स्यात् कलम्बी गोबधात्मिका” हरिशयने चास्या अभक्ष्यत्वमभक्ष्यशब्दे उक्तम्। डलयोरैक्यात् कडम्बीत्यप्यत्र शब्दरत्रा०।

कलम्बु(म्बू) = स्त्री के जले लम्बते लवि–उण् ७ त०। (कलमी) शाकभेदे शब्दर०। अप्राणिजातिवाचकत्वात् वा ऊङ्।

कलम्बुट = न० के जले लम्बते लबि–बा० उट ३ त०। १ हैयङ्गवीने राजनि०। २ नवनीते हारा०। तयोर्जलोपरिप्लवमानत्वात्तथात्वम्।

कलरव = पुंस्त्री कलोरवोऽस्य। १ पारावते (पायरा) अमरः २ कोकिले राजनि०। स्त्रियां जातित्वादुभयतो ङीष्। ३ कलध्वनियुक्ते त्रि० मेदि० कर्म०। ४ मधुराव्यक्ते रवे पु०

कलल = पुंन० कल–वृषा० कलच्। १ गर्भवेष्टचर्म्मणि अमरः कलनशब्ददर्शितभागवतोक्ते एकरात्रेण पच्यमानगर्भाद्यवयवभूते २ रेतोविकारभेदे। उदा० तत्रैव शब्दे दृश्यम्।

कललज = पु० कललमिव जायते जन–ड कर्म्म०। १ राले राजनि०। २ गर्भे च।

कललजोद्भव = पु० उद्भवत्यस्मात् उद्–भू–अपादाने अप् ६ त०। १ सालवृक्षे राजनि०। ततो रालरूपकललजस्योत्पत्तेः तस्य तथात्वम्।

कलविङ्क(ङ्ग) = पुंस्त्री कलं वङ्क(ङ्ग)ते वगि (बकि)–गतौ अच् पृषो० अत इत्त्वम्। १ चटके खगे, अमरः जातित्वेऽपि संयोगोपधत्वात् स्त्रियां टाप्। “ग्रीष्माय कलविङ्गान् वर्षाभ्यस्तित्तिरान्” यजु० २४, २०। “कल- विङ्कोलोहितादिः पुष्करसादस्ते त्वाष्ट्राः” २४, ३०। अश्वमेधपशुदेवकथने। अभक्ष्यप्रकरणे अस्याभक्ष्यतोक्ता मनुना “कलविङ्कं प्लवं हंसं चक्राङ्कं ग्रामकुक्कुटम्” बन्मांसगुणाः तस्य संज्ञाभेदश्च सुश्रुते उक्तो यथाचकोरकलविङ्कमयूरक्रकरोपचक्रकुक्कुटसारङ्गशतपत्रकतित्तिरकुररबाहुकशरलप्रभृतयस्त्र्याहना विष्करालघवः शीतमधुराः कषाया दोषशमनाश्च”। मुखपादैर्हननात्त्र्याहनाः। भावप्र० विशेषतस्तन्मांसगुणा उक्ता यथा-

चटकः कलविङ्कः स्यात् कुलिङ्गः कालकण्ठकः। कुलिङ्गः शीतलः स्निग्धः स्वादुः शुक्रकफप्रदः सन्निपातहरो वेश्मचटकश्चातिशुक्रलः” २ कलिङ्गवृक्षे मेदि०।

कलश = पु० कलं मधुराव्यक्तं ध्वनिं शवति शु–गतौ बा० ड। १ घटे। कर्षशब्दे दर्शितभावप्रकाशोक्ते २ मानभेदे च।

कलशदिर् = स्त्री कलशस्य दीर्दरणम् दॄ–भावे क्विप्। यज्ञियकलशविदारणे “अथ कलशदिराम् यदि कलशो दीर्य्येतानुलिप्सध्वमिति ब्रूयात्” “यद्यनीतासु दक्षिणासु कलशो दीर्य्येत तत्राप्येकामेव गां दद्यादथावभृथादेवो देत्य पुनर्दीक्षेत पुनर्यज्ञोह्येव तत्र प्रायश्चित्तिरिति कलशदिराम्” शत० ब्रा० ४, ५, १०, ७।

कलशपोतक = पु० नागभेदे “आर्य्यकश्चोग्रकश्चैव नागः कलशपोतकः” भा० आ० ३५ अ०।

कलशि = स्त्री कं जलं लाति ला–क तथा सती शीर्य्यति बा० शॄ–डि। (चाकुलिया) १ पृश्निपर्ण्ण्याम् अमरः २ घटे हेमच० “कलशिमुदधिगुर्वीं वल्लवा लोडयन्ति” माघः। अस्य कृदिकारान्तत्वात् वा ङीप् कलशीत्यप्युभवत्र।

कलशीकण्ठ = त्रि० कलश्याः कण्ठ इव कण्ठोऽस्य। १ कलशी कण्ठतुल्यकण्ठान्विते २ ऋषिभेदे पु० ततः गोत्रप्रत्ययस्य बहुषु उपका० वा लुक्। कालशीकण्ठयः कलशीकण्ठाः

कलशीपदी = स्त्री कलशीव पादावस्याः अन्त्यलोपः समा० कुम्भपद्या० ङीप् पद्भावश्च। कुम्भाकारपादयुतायां स्त्रियाम्।

कलशी(सी)सुत = पु० कलश्याः (स्याः) सुत इव तत्रोत्पन्नत्वात्। अगस्त्ये मुनौ कुम्भसम्भवशब्दे तत्कथा।

कलशोदर = पु० कलश इव उदरमस्य। दानवभेदे “सुबाहुः खञ्जबाहुश्च वरुणः कलशोदरः” हरिवं० २४०। २ कुम्भकारीदरयुक्ते त्रि० स्त्रियां वा ङीप्।

कलस = पु० केन जलेन लसति लस–अच् ३ त०। १ घटे हेमच०। तन्नामनिरुक्तिः “कलां कलां गृहीत्वा तु देवानां विश्वकूर्मणा। निर्मितोऽयं स वै यस्मात् कलसस्तेन कथ्यते” निर्वाणत० उक्ता। “सागरे मथ्यमाने तु पीयूषाथं सुरासुरैः। पीयूषधारणार्थाय निर्मितो विश्वकर्मणा। कलाः कलास्तु देवानामपि तास्ताः पृथक् पृथक्। यतः कृतास्तु कलसास्ततस्ते परिकीर्त्तिताः” कालि० पु० ८७ अ० पृषो० साधनम्। कर्मादौ स्थाप्यफलसमानमुक्तं शा० ति० यथा–“पञ्चाशदङ्गुलो, व्यासं उत्सेधः षोडशाङ्गुलः। कलसानां प्रमाणन्तुमुखमष्टाङ्गुलं मतम्। षट्त्रिंशदङ्गुलं कुम्भं विस्तारोन्नतिशालिनम्। षोडशं द्वादशं वापि ततो न्यूनं न कारयेत्”। पुष्पाभिषेके कालिकापु० ८७। पुष्पाभिषेके स्थाप्यघटनामभेदस्तत्स्थापनप्रकारश्च तत्रैवाध्याये यथा “नवैव कलसाः प्रोक्ता नामतस्तान्निबीधत। गोह्योपगोह्यो मरुतो मयूखश्च तथाऽपरः। मनोहा कृषिभद्रश्च विजयस्तनुशोधकः। इन्द्रियघ्नोऽथ विजयो नवमः परिकीर्त्तितः। तेषामेव क्रमाद्भूप! नव नामानि यानि तु। शृणु तान्यपराण्येव शान्तिदानि सदैव हि। क्षितीन्द्रः प्रथमः प्रोक्तो द्वितीयो जलसम्भवः। पवनाग्नी ततो द्वौ तु यजमानस्ततः परः। कोषसम्भवनामा तु षष्ठः स परिकीर्त्तितः। सोमस्तु सप्तमः प्रोक्तश्चादित्यस्तु तथाष्टमः। विजयो नाम कलसो योऽसौ नवम उच्यते। स तु पञ्चमुखः प्रोक्तो माहादेवस्वरूपधृक्। घटस्य पञ्चवक्त्रेषु पञ्चवक्त्रः स्वयं तथा। यथाकाष्ठं स्थितः सम्यक् वामदेवादिनामतः। मण्डलस्य च पद्मान्तः पञ्चवक्त्रघटं न्यसेत्। क्षितीन्द्रं पूर्व्वतो न्यस्य पश्चिमे जलसम्भवम्। वायव्ये वायवं न्यस्य आग्नेये ह्यग्निसम्भवम्। नैरृत्ये यजमानन्तु ऐशान्यां कोषसम्भवम्। सोममुत्तरतो न्यस्य सौरं दक्षिणतो न्यसेत्। न्यस्यैवं कलसांश्चैव तेषु चैतान् विचिन्तयेत्। कलसानां मुखे ब्रह्मा ग्रीवायां शङ्करः स्थितः। मूले तु संस्थितो विष्णुर्म्मध्ये मातृगणाः स्थिताः। दिक्पाला देवताः सर्व्वे वेष्टयन्ति दिशो दश। कुक्षौ तृ सागराः सप्त सप्त द्वीपाश्च संस्थिताः। नक्षत्राणि ग्रहाः सर्व्वे तथैव कुलपर्व्वताः। गङ्गाद्याः सरितः सर्व्वा वेदाश्चत्वार एव च। कलसे संस्थिताः सर्व्वेतेषु तानि विचिन्तयेत्। रत्नानि सर्व्ववीजानि पुष्पाणि च फलानि च। वज्र मौक्तिकवैदूर्य्यमहापद्मेन्द्रस्फाटिकैः। सर्व्वधाममयं विल्वं नागरोडुम्बरं तथा। वीजपूरकजम्बीरकाम्राम्रातकदाडिमान्। यवं शालिञ्च नीवारं गीधूमं सितसर्षपम्। कुङ्कुमागुरुकर्पूरमदनं रोचनं तथा। चन्दनञ्च तथा मांसीमेलां कुष्ठं तथैव च। कर्पूरपत्र चण्डञ्च जलं निर्यासकाम्बुदम्। शैलेयं वदरं जातो पत्रपुष्पे तथैव च। कालशाकं तथा पृक्वां देवीं पर्णकमेव च। वचां धात्रीं समञ्जिष्ठां तुरुष्कं मङ्गलाष्टकम्। दूर्व्वां मोहनिकां भद्रां शतमूलीं शतावरीम्। पर्णालीं सरलां क्षुद्रां सहदेवीं गजाङ्कुशाम्। पूर्णकोषां सितां पाठां गुञ्जां सुरसिकालसौ। व्यामकं गजदन्तञ्च शतपुष्पां पुनर्णवाम्। ब्राह्मीं देवीं शिवां रुद्रां सर्व्वसन्धानिकां तथा। समाहृत्य शुभानेतान् कलसेषु निधापयेत्। कलसस्य यथा देवान् विधिं शम्भुं गदाधरम्। यथाक्रमं पूजयित्वा शम्भुं मुख्यतया यजेत्। प्रासादेन तु मन्त्रेण शम्भुतन्त्रेण शङ्करम्। प्रथमं पूजयेन्मध्ये नानानैवेद्यवेदनैः”। सर्व्वकर्म्मोपयोगिकलसस्थापनविधिः रुद्रकल्पे दर्शितो यथा ओं मूरसीतिमन्त्रेण मण्डलात्पूर्वस्यां दिशि भूमिस्पर्शः। ओं ओषधयः समवन्तेति तत्र धान्यपुञ्जीकरणम्। ओं चित्पतिर्म्मा पुनात्विति सप्तभिर्द्दर्भपवित्रैः कलसपवित्रीकरणम्। ओं आजिघ्रेति धान्यपुञ्जोपरि कलसस्थापनम्। ओं स्थिरोभवेति स्थिरीकरणम्। ओं मही द्यौरिति जलेन कलसपूरणम्। ओं या ओषधीरिति तत्र सर्वौषधिप्रक्षेपः। ओं व्रीहयश्च म इति धान्यम्। ओं हिरण्यगर्भ इति हिरण्यम्। ओं अश्वत्थेव इति पञ्च पल्लवान्। ओं काण्डात्काण्डादिति दूर्वाः। ओं स्योना पृथिवीति पञ्च सप्त वा मृदश्च दापयेत्। ओं धान्यमसीति पूर्णपात्रे धान्यनिधानम्। ओं पूर्णादर्वीति तस्यैव पूर्णपात्रस्य कलसोपरिनिधानम्। ओं याः फलिनीरिति पूर्णपात्रे नारिकेलादिफलस्थापनम्। ओं सुजात इति वासोयुग्मेन वाससा वा पवित्रेण वा कलससंवेष्टनम्। ततः कलसे गङ्गाद्यावाहनम् “इमं मे गङ्गे! यमुने! सरस्वति! सिताऽसिते सरितौ! पावका नः सरस्वती। ओं अश्वावतीर्गोमतोः। ओं पञ्चनद्यः। ओं “प्रपद्ये वरुणं देवं यादसांपतिमीश्वरम्। याचितं देहि मे तीर्थं सर्वपापापनुत्तये”। ओं “गङ्गे! त्वं सर्वतीर्थानामाश्रयोऽसि यतस्ततः। यजमानाभिषेकार्थमेहि पाप विनाशय”। “तापनि! यसुने! देवि! त्रिषु लोकेषु विश्रुते! यजमानाभिषेकार्थमेहि पापं विनाशय। सरस्वति! नमस्तुभ्यं महेश्वरि! हरिप्रिये!। यजमानाभिषेकार्थमे हि पापं व्यपीह वै” इति मन्त्रैः ओं कल- सस्य मुखे विष्णुरित्यादिकैः प्रसन्नोभव सर्वदेत्यन्तैर्मन्त्रैश्चावाहनम्। ओं मनोजूतिरितिमन्त्रान्ते “कलस! सुप्रतिष्ठितोभवेति प्रतिष्ठा। ततोगन्धादिभिः कलसपूजनम्”।

अत्र प्रतीकमात्रं प्रदर्शितम् समग्रमन्त्राश्च मत् कृततुलादानादिपद्धतौ २२ पृष्ठादौ ज्ञेयाः। अत्र शाखिभेदात् मन्त्रभेदास्तु तत्तद्ग्रन्थेऽवधेयाः नवरात्रे कलसस्थापने विशेषः नि० सि० उक्तो यथा। भार्गवार्चनदीपिकायां देवीपुराणे “त्वाष्ट्रवैधृतियुक्ता चेत् प्रतिपन्नाम्बिकार्चने। तयोरन्ते विधातव्य कलसारोपणं गुहेति”। चित्रावैधृतियुतापि द्वितीयायुता चेत् सैव ग्राह्येत्युक्तं दुर्गोत्सवे। “भद्रान्विता चेत् प्रतिपत्तु लभ्यते विरुद्धयोगैरपि सङ्गता सती। सैवापराह्णे विबुधैर्विधेया स्त्रीपुत्रराज्यादिविवृद्धिहेतुरिति”। यदा तु वैधृत्यादिपरिहारेण प्रतिपन्न लभ्यते। तदोक्तं तत्रैव कात्यायनेन। “प्रतिपद्याश्विने मासि भवेत् वैधृतिचित्रयोः। आद्यपादौ परित्यज्य प्रारभेन्नवरात्रकमिति”। भविष्येऽपि चित्रावैधृतिसंपूर्णाप्रतिपच्चेद्भवेन्नृप!। त्याज्या अंशास्त्रयस्त्वाद्यास्तुरीयेऽंशे तु पूजनमिति”। रुद्रयामलेऽपि “वैधृतौ पुत्र नाशः स्याच्चित्रायां धननाशनम्। तस्मान्न स्थापयेत्कुम्भं चित्रायां वैधृतौ तथा। संपूर्णा प्रतिपद्देव! चित्रायुक्ता यदा भवेत्। वैधृत्या वापि युक्ता स्यात्तदा मध्यन्दिने रवौ। अभिजित्तु मुहूर्त्तं यत्तत्र स्थापनमिष्यते”। “इदं कलसस्थापनं रात्रौ न कार्य्यम्। “न रात्रौ स्थापनं कार्य्यं न च कुम्भामिषेचनमिति” मात्स्योक्तेः “भास्करोदयमारभ्य यावत्तु दश नाडिकाः। प्रातः काल इति प्रोक्तः स्थापनारोपणादिषु” इति विष्णुधर्मोक्तेश्च। रुद्रयामले “स्नानं माङ्गलिकं कृत्वा ततो देवीं प्रपूजयेत्। शुभाभिर्मृत्तिकाभिश्च पूर्वं कृत्वा तु वेदिकाम्। यवान्वै वापयेत्तत्र गोधूमैश्चापि संयुतान्। तत्र संस्थापयेत्कुम्भं विधिना मन्त्रपूर्वकम्। सौवर्णं राजतं वापि ताम्रं मृण्मयमेव वेति”। “कलसं जलसंभृतं पुरः” नैष०।

कलसि = स्त्री केन लसति लस–इन्। १ घटे २ पृश्निपर्ण्याञ्च (चाकुलिया) हेम०। कृदिकारान्तत्वात् वा ङीप् कलसीत्युभयत्र “अलम्बितकर्ण्णशष्कुलीकलसीकं रचयन्नवोचत” नैष०।

कलह = पुं न० कलं कामं हन्त्यत्र हन–बा० आधारे ड। अर्द्ध- र्चादि। विवादे वाग्विवादे (झक्डा) “क्षत्तः! पुत्रेषु पुत्रैर्मे कलहोन भविष्यति” भा० आ० ४८। “न विवादे न कलहे न सेनायां न सङ्गरे” मनुः। २ युद्धे अमरः। “विधित्सतः कलहमवेक्ष्य विद्विषः” “भाविकलहफलयोगमसौ” माघः।

कलहंस = पुंस्त्री कलप्रधानो हंसः। १ (बालहा~स) हंसभेदे २ राजहंसे ३ नृपश्रेष्ठे च मेदि०। “कुन्दावदाताः कलहंसमालाः प्रतीयिरे श्रोत्रसुखैर्निनादैः” भट्टिः। “कलसं जलसंभृतं पुरः कलहंसः कलयाम्बभूव सः” नैष० “बधूदुकूलं कलहंसलक्षणम्” कुमा०। स्त्रियां जातित्वात् ङीष्। “कलहंसीषु मदालसं गतम्” रघुः। ४ परमात्मनि ब्रह्मणि च शब्दर०।

कलहकार = त्रि० कृलहं करोति कृ–हेत्वादावपि न ट किन्तु अण् उप० स०। कलहकारके। “हन्तुं कलहकारोऽसौ शब्दकारः पपात खम्” भट्टिः।

कलहनाशन = च० कलहं नाशयति नश–णिच्–ल्यु। पूतिकरञ्जे शब्दरत्र० कलहनाशकता चास्य कार्मण विद्यायां विख्याता।

कलहप्रिय = पु० कलहः प्रियोऽस्य। १ नारदे ॠषौ, तस्य कलहप्रियत्वं पुराणादौ प्रसिद्धम्। २ सारिकापक्षिण्याम् स्त्री राजनि०।

कलहान्तरिता = स्त्री अवस्थान्तरप्राप्ते नायिकाभेदे। सा च “चाटुकारमपि प्राणनाथं दोषादपास्य या। पश्चात्तापमबाप्नोति कलहान्तरिता तु सा” सा० द० उक्तलक्षणा। यथा “नो चाटुश्रवणं कृतं न च दृशा हारोऽन्तिके वीक्षितः कान्तस्य प्रियहेतवे निजसखीवाचोऽपि दूरीकृताः। पादान्ते विनिपत्य तत्क्षणमसौ गच्छन्मया मूढया पाणिभ्यामवरुध्य हन्त सहसा कण्ठे कथं नार्पितः?”।

कलहाय = कलहं करोति कलह + ङ्य नामधातुः आत्म० अक० सेट्। कलहायते अकलहायिष्ट। कलहायाम् बभूव आस चक्रे। कलहायमानः कलहायितः।

***