करिक = पु० करो विक्षेपोऽस्त्यस्य ठन्। विट्स्वदिरे शब्दच०

करिकणवल्ली = स्त्री करिकणः गजपिप्पल्यवयव इव वल्ली। चविकावृक्षे (चै) राजनि०।

करिका = स्त्री करोविलेखनमस्त्यस्याम् अश० अच् अतैत्त्वम्। नखरेखायाम् वैज०।

करिकुसुम्भ = पु० करी नागकेशरस्तस्य कसुम्भैव। नागकेशरचूर्णे शब्दचि०

करिज = पुंस्त्री करितोजायते जन–ड। हस्तिशिशी शब्दरत्ना०

करिणी = स्त्री करिन् + स्त्रियां ङीप्। १ हस्तिन्याम् अमरः “त्रासावसन्नमदधारकपोलभागाः सम्पादयन्ति करिणः करणीभ्रमं नः” धनञ्जयविज०। २ देवताभेदे शब्दचि०।

करिदारक = पु० १ करिणं दृणाति हिनस्ति दृ–ण्वुल्। सिंहे। शव्दर० स्त्रियां टाप् अत इत्त्वम्।

करिनासिका = स्त्री करिणोनासेवाकारोऽस्याः। यन्त्रभेदे शव्दचि०

करिन् = पुं स्त्री करः शुण्डः प्राशस्त्येनास्त्यस्य इनि। हस्तिनि गजे “वृंहितं करिगर्जितम् अमरः “मुक्ताफलाय करिणम् हरिण पलाय” व्या० उदा०। “अरिकरिहरणार्थं योजनानामशीत्या” लीला०। “करीव सिक्तं पृषतैः पयोमुचाम्” “कटप्रभेदेन करीव पार्थिवः” रघुः “आयामवद्भिः करिणां घटाशतैः” माघः। २ अष्टसंख्यायाम् एकाआदिशब्दे विवृतिः। करिभेदादिकम् पृ० ९५९ इभशब्दे उक्तम्। तन्नामनामके ३ नागकेपरे पु०।

करिप = पु० करिणं पाति पा–क। हस्तिपके (माहुत)। चू र्ण्णादि० अप्राणिवाचकषष्ट्यन्तात् अस्याद्युदात्तता। वनकरिप इत्यादि।

करिपत्र = न० करी तत्कर्ण्ण इव पत्रमस्य। तालिपत्रवृक्षे राजान०

करिपथ = पु० ६ त० अच् समा०। हस्तिगमनयोग्ये पथि ततः संज्ञायां कन् देवपथादि० तस्य लुक्। करिपथनामके देशभेदे पु०।

करिपिप्पली = स्त्री करिपूर्व्वपदयुक्ता पिप्ली शा० त०। गज पिप्पल्याम् अमरः

करिपोत = पु० ६ त०। हस्तिशावके हारा०।

करिबन्ध = पु० करिणं बध्नात्यत्र बन्ध–आधारे घञ्। १ हस्ति बन्धस्तम्भे हारा०। भावे घञ् ६ त०। २ गजबन्धने च

करिभ = न० करीव भाति भा–क। कुञ्जभेदे त्रिका०।

करिमाचल = पुंस्त्री मच–शाट्ये घञ् करिणि माचं शाट्य लाति ला–क। १ सिंहे त्रिका० गजमाचलादयोऽप्यत्र स्त्रियां जातित्वात् ङीष्।

करिमुख = पु० करिणोमुखं मुखमस्य। १ गणेशे यथा चास्य गजबक्त्रता तथा इभाननशब्दे ९८१ पृ० उक्तम्। ६ त०। २ गजस्य मुखे न०।

करिर = पुंन० कॄ–इरन्। गूढपत्रे उष्ट्रप्रिये मरुभूमिजे करीरे वृक्षभेदे। शब्दरत्ना०। करीरशब्दे गुणादि।

करिरत = न० “भूगतस्तनमूजास्यभस्तकामुन्नतां स्वयमधोमुखों स्त्रियम्। क्रामति स्वकरकृष्टमेहने वल्लभे करिरतं तदुच्यते” इत्युक्तलक्षणे १ रतिबन्धभेदे शव्दचि० करिपदमिति पाठान्तरे” करिपदमित्यपि तत्रार्थे। ६ त० २ गजरमणे च।

करिव = त्रि० करिणं वाति बा–क। करिगते अप्राणिषष्ट्यन्तात्तस्य चूर्ण्णा० आद्युदात्तता। वनकरिव इत्यादि

करिशावक = पु० गजशिशौ “यावत्पञ्चाव्दमेतस्मिन् करभः कलभोऽपि च” शव्दर० उक्ते पञ्चाव्दपर्य्यन्ते हस्ति बालके।

करिष्ठ = त्रि० अतिशयेन कर्त्ता इष्ठन् तृणोलोपः। कर्त्तृतमे “पुरू सखिभ्य आसुति करिष्ठः” ऋ०७, ९७, ७। ईयसुन्। करीयस् कर्त्तृतरे त्रि० स्त्रियां ङीप्।

करिष्यमाण = त्रि० कृ–भविष्यति शानच् स्यट्। कर्त्तव्ये। वेदे तु नि० मानलोपः। “यानि करिष्या कृणुहि प्रवृद्ध!” ऋ० १, १६५, ९, “करिष्या कर्त्तव्यानि” भा०। द्वितीयास्थाने आट्।

करिसुन्दरिका = स्त्री करीव सुन्दरी संज्ञायां कन्। ना गयष्टौ वस्त्रशोषणाथमङ्गणस्थापियन्त्रभेदे हारा०।

करिस्कन्ध = न० करिणां सभूहः स्कन्धच्। गजसमूहे। ६ त०। गजस्य २ स्कन्धे पुं न०।

करीर = पु० कॄ–ईरन्। १ घटे मेदि०। २ वंशाङ्कुरे अमरः। (वाशेरको~ड) ३ अङ्कुरमात्रे भावप्र० वंशमुक्त्वा “तत्करीरः कटुः पाके रसे रूक्षो गुरुः सरः। कषायः कफकृत् स्वादुर्विदार्ह बातपित्तलः” तद्गुण उक्तः। “हिंमांशुवंशस्य करीरमेव मां निशम्य किन्नासि फलेग्रहिग्रहा” नैष०। आनिन्यिरे वंशकरीरनीलैः” माघः। “वंशशब्दस्याम्नानताहेतोरलूनतायाः प्रतिपत्त्यर्थत्वान्न पौनरुक्त्यम् अतएव एकार्थं पदम् न प्रयोज्यमित्युक्त्वा करिकलभकर्ण्णावत सादिषु प्रतिपात्तिविशेषकरेषु न दोष इत्याह वामनः” मल्लि०। तेन वंशाङ्कुरार्थक्स्यापि करीरशब्दस्य प्रतिपत्तिविशेषार्थं वंशशब्दप्रयोग इति तत्त्वम्। ३ गूढपत्रे मरुभूमिजे उष्ट्रप्रियेवृक्षभेदे भावप्र०। “करोरः कटुकस्तिक्तः स्वेद्युष्णोभेदनः स्मृतः। दुर्नामकफवातामगरशोथव्रणप्रणुत” भावप्र० ४ चीरिकायां झिल्ल्याम् (झिझिपोका) ५ हस्तिदन्तभूले च स्त्री उणा०। अस्य प्रस्थशब्देन समासे करीरप्रस्थे कर्क्यादि० नाद्युदात्तता। मध्वा० चतुरर्थ्यां मतुप् मस्य वः। करीरवत् तत्सन्निकृष्टदेशादौ त्रि० स्त्रियां ङीप्।

करीरकुण = न० करीरस्य पाकः पील्वा० पाके कुणच्। तत्पाके

करीरिका = स्त्री करीरमिवाकारोऽस्त्यस्य ठन्। हस्तिदन्तमूले त्रिका०।

करीरी = स्त्री कॄ–ईरन् गौरा० ङीष्। नीरिकायां (झिजिपोका) १ झिल्ल्याम् २ गजदन्तमूले च मेदि०।

करीष = पुं न०। कॄ–ईषन्। १ शुष्कगोमये (घुटिया। “करीष मिष्टकाङ्गारान् शर्करा वालुकास्तथा” मनुः। २ पशुपुरीपमात्रे च “उच्छुष्कमृगपुरीषपांशुला” कादम्ब०। करीषाग्निः (घुटेर आगुन)।

करीषगन्धि = पु० करीषस्यन्ध इव गन्धोऽस्य इत् समा०। करीषतु नन्धयुक्ते तस्यापत्यमण् स्त्रियां ष्यङ् कारीगगन्ध्या तदीयस्त्र्यपत्ये। तस्याः पुत्रपतिशब्दाभ्यां समासे सं प्र० दीर्घश्च। कारीषगन्धीपुत्रः कारोषगन्धीपतिः एवं परमकारीगन्धीपुत्र इत्यादि उपसर्ज्जने तु न अतिकारीषगन्ध्यापुत्र इत्याद्येव सि० कौ०।

करीषङ्कषा = स्त्री करीषं कषति हिनस्ति कष–थच् मुम् च। वात्यायाम् तस्याः गीमयशोषणात्तथात्वम्।

करीषिन् = त्रि० करीषस्य देशः पुष्करा० इनि न मतुप्। १ करीषयुक्तदेशे स्त्रियां ङीप्। करीषमाश्रयत्वेनास्त्यस्याः इनि ङीप्। गोमयाधिष्ठातृदेव्यां २ लक्ष्म्याम् स्त्री। “गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्” श्रीसूक्तम्।

करुण = त्रि० करोति मनः आनुकूल्याय कॄ–उनन्। दयायुक्ते २ रसभेदे पु० तल्लक्ष्माद्युक्तं सा० द० यथा “इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत्। धीरैः कपोतवर्ण्णोऽयं कथितो यमदैवतः। शोकोऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं मतम्। तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः। अनुभावा दैवनिन्दा भूपातक्रन्दितादयः। वैवर्ण्योच्छ्वासनिश्वासस्तम्भप्रलपनानि च। निर्वेदमोहापस्मारव्याधिग्लानिस्मृतिश्रमाः। विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः”।

शोच्यं विनष्टबन्धुप्रभृति। यथा राघवावलासे। “विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरंवपुः। अनयोर्घटना विधेः स्फुटं ननु खड्गेन शिरीषकर्त्तनम्”। अत्र हि रामवनवासजनितशोकार्त्तस्य दशरथस्य दैवनिन्दा। एवं बन्धुवियोगविभवनाशादावप्युदाहार्य्यम्। परिपोषस्तु महाभारते स्त्रीपर्वणि द्रष्टव्यः। अस्य करुणविप्रलम्भाद्भेदमाह। शोकस्थायितया भिन्नो वि प्रलम्भादयं रसः। विप्रलम्भे रतिः स्थायी पुनः सम्भोगहतुकः” ३ परदुः खहरणेच्छायां दयायां स्त्री। “अहो विधे त्वां करुणा रुणद्ध्विनः” नैष०। “प्रायःसद्योभवति करुणावृत्तिरार्द्रान्तरात्मा” मेघ०। “करुणाविमुखेन मृत्युना” रघुः। दुःखितेषु दया करुणा साऽस्त्यस्य अर्श० श्वच् विषयत्वेन। ४ करणाविषये दीने त्रि०। “अनिशं निजैरकरुणः करुणम्” माघः। “करुणं दीनं यथा तथेति” मल्लि०। “अनुरोदितीव करुणेन पत्रिणां विरुतेन” माघः। “विरुतैः करुणस्वनैरियम्” कुमा०। (करलहनेवु) ५ वृक्षभेदे पु० त्रिका०। “पिकात् वने शृण्वति मृङ्गहुङ्कुतैर्दशामुदञ्चत्करुणे वियोगिनाम्” नैष०। “करुणस्य फलं म्लेष्मवाताममेदसां पुनः। नाशनं पित्तकोपस्य शमनं परिकीर्त्तितम्” इति तत्फलगुणाश्च षैद्यकोक्ताः। ६ बुद्धभेदे पु० त्रिका०। ७ परमेश्वरे ८ भूताभयकारके परिव्राञके पु० शब्दचि०।

करुणमल्ली = स्त्री करुणा करुणाविषयः मल्ली। १ नवमल्लिकायाम् शब्दत्त०। तत्पुष्पस्यातिसुकुमारत्वात् करुणाति- षयत्वेन सदय चीयमानतया तस्यास्तथामू तत्वम्।

करुणविप्रलम्भ = पु० शृङ्गाररसभेदे। शृङ्गारमुक्त्वा” सा० द० उक्तं यथा

“विप्रलम्भोऽथ सम्भोग इत्येष द्विविधो मतः। तत्र यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भोऽसौ। अभीष्टं नायकं नायिकां वा। स च पूर्व्वरागमानप्रवासकरुणात्मकश्चतुर्द्धा स्यात्”।

करुणानिधि = पु० करुणा निधीयतेऽत्र नि + धा–आधारे कि उप० स०। करुणाधारे दयायुक्ते करुणानिधानादयोप्यत्र।

करुणापर = त्रि० करुणायां परः आसक्तः करुणा परा वा यस्य। अत्यन्तकरुणायुक्ते।

करुणामय = त्रि० करुणा + प्राचुर्य्ये मयट्। प्रचुरकरुणावति “काकुत्स्थं करुणामयं गुणनिधिम्, विप्रप्रियं धार्मिकम्” महाना० स्त्रियां ङीष् करुणामयी।

करुणिन् = त्रि० मरुणाऽस्त्यस्य सुखा० इनि। कृपायुक्ते स्त्रियां ङीप्। सिद्धे सुखादिग्रहणम् ठनादिनिवृत्त्यर्थमिति सि० कौ०। तेन सुखादिभ्यो न मतुप्। आर्षे तु क्वचिदिष्यते।

करुत्थाम = पु० तुर्वमुवंस्ये दुष्मन्तपुत्रभेदे। “तुर्वसोश्च सुतोवह्निरित्युपक्रम्य “दुष्मन्तस्य तु दायादः करुत्थामः प्रजेश्वरः” हरिवं ०३ वृअ०।

करुन्धम = पु० तुर्वसुवंश्ये त्रैसानोः पुत्रे नृपभेदे। “करुन्धमस्तु त्रैसानोर्मरुत्तस्तस्य चात्मजः” हरिवं० ३२ अ०।

करुम = पु० पिशाचभेदे। ये शालाः परिनृत्यन्ति सायं गर्दभनादिनः। कुसूला ये च कुक्षिलाः ककुभाः करुमाः स्रिमाः। तानोषधे! त्वं गन्धेन विषूचीनान् विनाशय” अथ० ८, ६, १०।

करू = स्त्री कृ–हिंसायाम् ऊ। १ कर्त्तने। “चतुर्दश वा आसां करूकराणि” शत० ब्रा० २२, ३, ४, १०। कर्मणि ऊ। २ कृत्ते च। “वामं देवः करूलती” ऋ० ४, ३०, २४। “करूलती कृत्तदन्तः” भा० पृषो० दन्तस्य लतादेशः पूष्णोभग्नदन्तत्वेन तथात्वम्।

करूष = पु० कृ–ऊषन्। १ देशभेदे यस्याधिपतिर्दन्तबक्रः “एष मद्रान् वशे कृत्वा कुरूंश्च सह सोमकैः। चेदिकाशिकरूषांश्च कुरुलक्ष्मीं वहिष्यति” भा० आ० १२ ३ अ०। “शिशुपालः सहसुतः करूषाधिपतिस्तथा” भा० स० ४ अ०। करूषाणां जनपदानां राजा अण् तद्राजत्वात् बहुषु तस्य लुक्। करुषाः तद्राजेषु “दन्तवक्रः करूषश्च करभोमेघवाहनः” भा० स० १३ अ०। एकत्वेऽपि लुक् आर्षः। अस्य तालव्यमध्यताऽपि भर्गादिगणे तथापाठात् ततो भर्गा० स्त्वियां न तद्राजप्रत्ययस्य लुक्” सि० कौ०।

करूषज = पु० करूषदेशे जायते जन–ड। दन्तवक्रे नृपभेदे “ताविहाथ पुनर्जातौ शिशुपालकरूषजौ” भा० आ० ७, १० , ३०। तौ जयविजयौ विष्णोःपार्षदौ।

करूषाधिपति = पु० ६ त०। दन्तवक्रे नृपे। “काश्मीरराजोगोनर्दः करूषाधिपतिस्तथा” हरिवं० ९। करूषाधिपादयोऽप्यत्र।

करेऽट = पु० करे अटति अट–अच् अलुक् स०। नखे त्रिका०

करेऽटव्या = स्त्री करेऽटनं व्ययति व्ये–ड टाप्। धनच्छूप क्षिणि त्रिका०।

करेटु = पु० केन मस्तकेन रेटति रेट–कु। (कर्कटिया) इति ख्याते खगे। अमरः।

करेणु = पु० कृ–एणु(नु)के मस्तके रेणुरस्य वा। १ गजे अमरः। “त्रस्तः समस्तजनहासकरः करेणोः” माघः। उत्क्षिप्तगात्रः स्म विडम्बयन्नभः–करेणुरारोहयते निषादिनम्” माघः “स्वातन्त्र्यमुज्ज्वलमवाव करेणुराजः” माघः। २ कर्ण्णिकारवृक्षे विश्वः। ३ गजस्त्रियां स्त्री अमरः। “गजाय गण्डूषजलं करेणुः” कुमा०। “करेणुभिर्दन्तमृणालभङ्गाः” रघुः। करेणुदुग्धगुणाश्च सुश्रुते “अश्वायाश्चैव नार्य्याश्च करेणूनाञ्च यत् पयः। तत्त्वनेकौषधिरसप्रसादं प्राणदं गुरु। मधुरं पिच्छिलं शीतं स्निग्धं श्लक्ष्णं मृदु स्मृतम्” सामान्यत उक्त्वा। “हस्तिन्याः मधुरं वृष्यं कषायानुरसं गुरु। स्निग्धं स्थैर्य्यकरं शीतं चक्षुष्यं बलवर्द्धनम्” उक्ताः। “करेणुः सबहुक्षीरा कन्देन गजरूपिणी। हस्तिकर्णंपलाशस्य तुल्यपर्ण्णा द्विपर्ण्णिनी” सुश्रुतोक्तलक्षणायाम् ४ ओषधौ स्त्री तदुत्पत्तिकालश्च तत्रैवोक्तः। “करेणुस्तत्र कन्या च छत्रातिच्छत्रके तथा। गोलोमो चाजलोमी च महती श्रावणी तथा। वसन्ते कृष्णसर्पाख्यो गोलोमी च प्रतायते” स्वार्थे कन् करेणु काप्यत्र स्त्री। रायमुकुटस्तु करेणूशब्दं दीर्घान्तं पठित्वा हस्तिनि पुंस्त्रीत्याह।

करेणुभू = पु० करेणौ भववृ भू–क्विप्। १ हस्तिशास्त्रप्रवर्त्तंके पालकाव्यमुनौ हेमच०। २ हस्तिजातमात्रे त्रि०।

करेणुमती = स्त्री नकुलस्य भार्याभेदे। “नकुलस्तु चैद्यां करेणुमतीं भार्यामुदावहत्तस्यां पुत्रं निरमित्रं नामाजनयत्” भा० आ० ९५ अ०।

करेणुसुत = पु० ६ त०! पालकाव्ये मुनौ त्रिका०।

करेनर = पु० तुरष्कनामगन्धद्रव्ये करेवरोऽप्यत्र राजनि०।

करेन्दुक = पु० करेण किरणेनेन्दरिव मायति कै–कृ। मूतृणे राजनि०।

करोट = न० के शिरसि रोटते रुट्–द्युतौ अच्। शिरोऽस्थ्नि। (माथारखुलि) इन् करोटिरप्यत्र स्त्री वा ङीप् अमरः। “वपुषि भटकरोटिन्यस्तकीलालसिन्धुः” धनञ्ज०।

करोटक = पु० नागभेदे “आप्तः करोटकश्चैव शङ्खो वालिशिखस्तथा” भा० आ० ३५ अ० नागनामकीर्त्तने। अत्र कर्कोटार्थाभिधानं प्रामादिकमेव। उपक्रमे ऐराबतस्तक्षकश्च कर्कोटकधनञ्जयौ” इति कर्कोटकस्य पृथगुक्तेस्ततोभिन्न एवायमिति तत्त्वम्।

कर्क = हामे सौत्रः पर० अक० सेट्। कर्कति अककींत्। चकर्क प्रनिकर्कति।

कर्क = पु० कृनोति करोति क्रियते वा कृ–क तस्य नेत्त्वम् कर्क– अच् वा। १ वह्नौ २ श्वेताश्वे अमरः ३ दर्पणे ४ घटे ५ मेषावधिचतुर्थे राशौ ६ कुलीरे ७ कर्कटवृक्षे (का~कडाशिङा) च हेम०। ८ कात्यायनश्रौतसूत्रभाष्यकारे पु०।

कर्कखण्ड = पु० कर्कः श्वेताश्वयुक्तः खण्डः भूमिखण्डो यत्र देशभेदे। “मागधान् कर्कखण्डांश्च निवेश्य विषये त्मनः” भा० व० २५३ अ०।

कर्कचिर्भटि = स्त्री कर्कवर्णा चिर्भटी। कर्कटीभेदे। राजनि०।

कर्कट = पु० सौ० कर्क–अटन्। क्षद्रामलकवत्क्षुद्रफलके १ वृक्षभेदे २ जलजन्तुभेदे कुलीरे। (काक~डा) “गणनाटत् करकर्कटोत्करम्” नैष० राजान०। (करकटिया) ३ पक्षिभेदे। ४ अलाबूवृक्षे च मेदि०। ५ पद्मकन्दे जटा० मेषादितश्चतुर्थे ६ राशौ “पादः पुनर्वसोरन्त्यः पुष्योऽश्लेषा च कर्कटः” ज्यो० त० उक्तसपादनक्षत्रद्वयात्मकः। तथा च ३६० अंशात्मके राशिचक्रे ९० अंशोत्तरम् ३० त्रिंशदंशात्मकः स राशिः। “शेषाः स्वनामसदृशाकृतयो भवन्ति” ज्यो० त० उक्तेस्तस्य कुलीराकृतित्वम्। अस्य वर्ण्णाद्युक्तं नील० ता० “बहुप्रजासङ्गपदः कुलीरश्चरोऽङ्गना पाटलहीनशब्दः। शुभः कफी स्निन्धजनोऽम्बुचारी समोदयी विप्रनिशोत्तरेशः” तथा च अस्य बहुप्रजासङ्गिता बहुपदता चरराशित्वं स्त्रीरूपता पाटलवर्ण्णता हीनशब्दता शुभत्वं शुभस्वामिकता च। कफप्रकृतित्वं स्निग्धजनत्वम् जलचरत्वम् समराशित्वम् विप्रवर्ण्णत्वम् निशाबलित्वम् उत्तरदिग्मुखत्वञ्च। अयं च कोटराशिः “कर्कटवृश्चिकमीना धनुषश्चान्त्यार्द्धञ्च कीटसंज्ञाःस्युः” इत्युक्तेः तत्र समत्वं युग्मराशित्वं सम- परिमाणञ्च। “ओजोऽथ युग्मं विषमः समश्च” “क्रूरोऽथ सोम्यः पुरुषोऽङ्गना च” इत्युक्तेः “ह्रस्वास्तिनि गोऽविघटा मिथुनघनुःकर्किमृगमुखाश्च समाः” इत्युक्तेश्च। “पृष्ठोदयाविमिथुना दिवा शीर्षोदयाः परे” इत्युक्तेः अस्य शीर्षोदयत्वम्। अस्याधिपः चन्द्रः। कुजशुक्रबुधेन्द्वर्क सौम्य शुक्रावनीभुवाम्।–क्षेत्राणि स्युरजादयः इत्युक्तेः “मेष कर्कटयोर्मध्ये गाढं तपति भास्करः” तिथि० पु०। “कर्कटे प्रथमं देवी त्र्यहं गङ्गा रजस्वला” स्मृतिः। (का~कुड) ७ एर्वारौ स्त्री गौरा० ङीष् भावप्र०। तस्याः गुणाः भावप्र० उक्तायया। “एर्वारुः कर्कटी प्रोक्ता कथ्यन्ते तद्गुणा अथ। कर्कटी शीतला रूक्षा ग्राहिणी मधुरा गुरुः। रुच्या पित्तहरा साऽमा पक्वा तृष्णाग्निपित्तकृत्”। अस्याः पाकप्रकारस्तु। “त्वग्वीजरहिता प्रौढा गुलिकाकारखण्डिता। तलिता सुघृते तप्ते कर्कटी वावलेहिता। विपाण्डु खण्डं धृतदुग्धसार्द्धं विभावितं वल्लजशर्कराभ्याम्। कृतैलवासञ्च कदुष्णमेतत् प्रतिक्षणं रोचनमातनोति”। ङीषन्तः। ८ शाल्मलौ मेदि०। ९ सर्पे शब्दरत्ना०। १० देवदालीलतायां १२ घोषिका १३ वृक्षे राजनि०। १४ कर्कटजातिस्त्रियाञ्च। “यथा च कर्कटी गर्भमाधत्ते मृत्युमात्म” भा० विरा० २७२ श्लो०। कर्कटस्य कोषस्थता तन्मांसगुणाश्च भावप्रका० उक्ता यथा। “शङ्खः शङ्खनखश्चापि शुक्तिसम्बूककर्कटाः। जीवा एवंविधाश्चान्ये काषस्थाः परिकीर्त्तिताः। कोषस्था मषुराः स्निग्धा वातापत्तहरा हिमाः। “ताम्रचूडकर्कटकृष्णमत्स्यशिशुमार वराहवशाः” सक्षीरं कर्कटरसे सिद्धं चात्र घृतं पिवेत्” सुश्रु०। स्मृतौ चास्याभक्ष्यातोक्ता तच्चाभक्ष्यशब्दे दर्शितम्। कर्कट स्तच्छृङ्गाकारोऽस्त्यस्य अर्श० अच्। तुलाप्रान्तनिखेये कर्कट शृङ्गाकारे आयसे १५ कीलकभेदे” पु० मिता० १६ कण्टके पु० च। तत्पादाग्रतुल्याग्रत्वात्तस्य तथात्वम्। १७ कर्कटशृङ्ग्याम् स्त्री ङीष् भाव० प्र०।

कर्कटक = न० कर्कटैव कायति कै–क। १ यन्त्रभेदे (कम्पास) “फणिमखकाकलीसंदशकपुरुषशीर्षकयोगचूर्ण्णयोगवर्त्तिकामानसूत्रकर्कटकरज्जुदीपभाजनभ्रमरकरण्डक प्रभृत्येनेकोपकरणयुक्तः” दशकुमा०। कर्कटः वृक्ष इव कायतिके क। २ इक्षुभेदे शब्दचिन्ता०। स्वार्थेकन्। ३ कुलीरे अमरः।

कर्कटशृङ्गी = स्त्री कर्कट इव शृङ्गं यस्याः। (कांकडाशिङा) १ वृक्षभेदे। स्वार्थे कन् कर्कटशृङ्गिकाप्यक। “शृङ्गी कर्कटशृङ्गी च स्यात् कुलीरविषाणिका। अजशृङ्गीच वक्रा च कर्कटाख्या च कीर्त्तिता। शृङ्गी कषाया तिक्तोष्णा कफवातक्षयज्वरान्। श्वासोर्द्ध्ववाततृट्कास हिक्कारुचिवमीन् हरेत्” भावप्र० तद्गुणादि उक्तम्

कर्कटाक्ष = पु० कर्कट इवाक्षि ग्रन्थिभेदोऽस्य। कर्कट्याम् (कांकुड) रत्नमाला।

कर्कटाख्या = स्त्री कर्कटस्याख्याख्या यस्याः। (का~कडाशिङा) शृङ्ग्याम् भावप्र०।

कर्कटाङ्गा = स्त्री कर्कटस्याङ्गं शृङ्गमिव शृङ्गमग्रमस्याः अजा० टाप्। शृङ्ग्याम्। राजनि०।

कर्कटाह्व = पु० कर्कटमाह्वायते कण्टकारत्वात् आ + ह्वे–क। विल्ववृक्षे राजनि०।

कर्कटि = स्त्री कर्कं कण्टकमटति इन् शक०। (का~कुड) १ एर्वारौ शब्दचि०। वा ङीप् अत्रार्थे, २ शाल्मलीवृक्षे ३ कर्कटशृङ्ग्याञ्च। मेदि०।

कर्कटिनी = स्त्री कर्कटस्तदाकारोऽस्त्यस्याः इनि ङीप्। दारुहरिद्रायाम् राजनि०।

कर्कटु = पु० कर्क–मृगया० नि०। (कर्कटिया) पक्षिभेदे शब्दरत्ना०।

कर्कन्ध = स्त्री कर्कं कण्टकं दधाति धा–कू नि० मुम्। १ वदर्य्याम् (कुल) “कर्कन्धूफलमुच्चिनोति शवरी मुक्ताफलाशङ्कया” सा० द०। तस्य पुस्त्वमपि। “पुंसि स्त्रियाञ्च कर्कन्धूः र्वदरी कोलमित्यपि। फेनिलं कुवलं घोटा सौवीरं वदरं महत्। अजप्रिया कुहा कोली विषमोभयकण्टका। पच्यमानं सुमधुर सौवीरं वदरं महत्। सौवीरं वदरं शीतं भेदनं गुरु शुक्रलम्। वृंहणम्पित्तदाहास्रक्षयतृष्णानिवारणम्। सौवीरं लघु सपक्वं मधुर कीलमुच्यते। कोलन्तु वदरं ग्राहि रुच्यवुष्णञ्च वातलम्। कफपित्तकरञ्चापि गुरु सारकमोरितम्। कर्कन्धूः क्षुद्रवदरं कथितं पूर्ब्बसूरिभिः। अम्लं स्यात् क्षुद्रवदरं कषायं मधुरं मनाक्। स्निग्धं गुरु च तिक्तञ्च वातपित्तापहं स्मृतम्। शुष्कं भेद्यग्निकृत्सर्वं लघुतृष्णाक्लमास्रजित्” फले न०। “दध्नोरूपं कर्कन्धूनि” यजु० १९, २३, कर्कन्धूनां पाकः पील्वादि० कुणच्। कर्कन्धूकुण तत्पाके न०। प्रस्थपरे कर्क्यादि० कर्कन्धूप्रस्थैत्यादौ नाद्युदास्तता। ततः मध्वा० चतुरर्थ्यां मतुप्। कर्कन्धूमत् तत्सन्निकृष्टदेशादौ त्रि० स्त्रियां ङीप्। कर्कन्धूमतो। तस्या अदूरभवः सुवास्त्वा० अण्। कार्कन्धूमत तददूरदेशभवे त्रि०।

कर्कफल = न० कर्क–हासे अच् कर्कं प्रकाशान्वितं सत् फलति फल–अच्। क्षुद्रामलके राजनि०।

कर्कर = पु० कर्क–हासे–अरन्। १ दर्पणे, मेदि० २ चूर्णसाधने क्षुद्रपाषाणखण्डे कङ्करे (का~कर)। कर्क–घञ् कर्कं हासं राति–रा–क। ३ दृढे ४ कठिने त्रि० मेदि०। “किंनो वर्करकर्करैः प्रियशतैराक्रम्य विक्रीयते” अमरुश०। “करीरः कर्करोऽर्करुक्” माघः। २ मुद्गरे शब्दचि०।

कर्कराङ्ग = पु० कर्करैवाङ्गं यस्य। खञ्जने कालकण्ठविहङ्गमे शब्दमा०।

कर्कराटु = पु० कर्कं हासं रटति रट–कु। कटाक्षे जटाधरः।

कर्कराटुक = पु० कर्कं कठिनं रटति रट–उकञ्। (करकटिया) विहभेदे शब्दर०।

कर्करान्धुक = पु० कर्करः कठोरः अतिशयितान्धाकारवत्त्वात् अन्धुः कूपः संज्ञायां कन। अत्यन्तान्धकारवति कूपे। त्रिका०।

कर्कराल = पु० कर्करः सन् अलति अल–अच्। चूर्णकुन्तले हेमच०। तस्य इतरकेशापेक्षया कठिनत्वात्तथात्वम्।

कर्करिका = स्त्री कर्कर इवास्त्यस्याः अच् संज्ञाया कन् अत इत्त्वम्। नेत्रस्वर्जूभेदे शब्दचि०। तत्र हि नेत्रे कङ्करयुक्ततेवोपणभ्यत इति तस्यास्तथात्वम्।

कर्करी = स्त्री कर्कं हासं राति रा–क गौरा० ङीष्। (झारी) १ सनालपात्रे, अमरः कन्दोर्घृतादिपक्वनिष्काशनसाधने (ञाजरा) २ द्रव्ये च शब्दचि०। कर्कं राति राईकक्। कर्करीकोऽप्यत्र। कर्करी + स्वार्थे कन् न ह्रस्वः कर्करीका तत्रार्थे स्त्री।

कर्करीक = न० कर्क–फर्फरीका० ईकन् नि०। शरीरे उज्ज्वल०।

कर्करेट = पु० कर्कं कर्केति शब्दं रेटत्यस्मात् रेट–अपादाने घञ्। अर्द्धचन्द्रे गलहस्ते (गलाटिपि) गलामर्दने हि कर्कशब्दकरणात्तस्य तथात्वम्।

कर्करेटु = पु० कर्केति शब्दं रेटति उन् उप० स०। (कर्कटिया) पक्षिभेदे अमरः।

कर्कश = पु० कृञ् हिंसायां विच् कः सन् + कशति–कर्क–अच् कर्क + लोमादि० शं, करे कशति कश–शब्दे अच् शक० वा। १ काम्पिल्लवृक्षे (गुडारोचनी) अमरः। २ कासमर्दे। (काल्कासेन्दा) ३ इक्षुवृक्षे ४ खड्गे च हेम०। ५ साहसिके कठोरे च त्रि० अमरः “वेणुकर्कशपर्वया” रघुः। “ऐरावतास्फालनकर्कशेन” कुमा०। “कृष्णा स्तब्धावलिप्ता वा जिह्वा शूना च यस्य वै। कर्कशा वा भवेद्यस्य सोऽचितराद्विजहाअसून्” सुश्रु०। कर्कशं परिजीर्णञ्च कृमिजुष्टमदेशजम्। वर्जयेत् पत्रशाकन्तत्” सुश्रु० “सुरद्विपास्फालन- कर्कशाङ्गुलौ” रघुः। ६ कठिनम्पर्शवति त्रि० अमरः ७ क्रूरे ८ निर्दये च त्रि० मेदि०। ९ दुर्बोधे च “तर्केवा भृशकर्कशे मम ममं लीलायते भारती” प्रसन्न०। १० अत्यन्ते च “तस्य कर्कशविहारमम्भवम्” रघुः कर्कशस्य भावः त्व। कशत्व न० तल्कर्कशता स्त्री। ष्यञ्। कार्कश्य न० इमन् कर्कशिमन् पु० कर्कशभावे “नागेन्द्रहस्तास्त्वचि कर्कशत्वात्” कुमा०। “आश्लेषलोलुपबधूस्तनकार्कश्यसाक्षिणीम्” माघः। कार्कश्यञ्च स्पर्शभेदः। “स्पर्शनेन्द्रियविज्ञेयाः शीतोष्णश्लक्ष्णकर्कशभृदकठिनाः” इत्यादिसुश्रुतोक्तेस्तस्य स्पर्शेन्द्रियग्राह्यता। स च पार्थिवगुणभेदः। अन्यद्रव्ये तु कार्कश्यव्यवहारोभाक्तः। सुश्रुतोक्तेषु चिकित्सोपयोगिविंशतिगुणेषु ११ गुणभेदे ते च गुणा यथा

“अत ऊर्द्ध्वं प्रवक्ष्यामि गुणानां कर्म्मविस्तरम्। कर्म्म भिस्त्वनुमीयन्ते नानाद्रव्याश्रया गुणाः। ह्लादनः स्त म्भनः शीतो मूर्च्छातृट्स्वेददाहजित्। उष्णस्तद्विपरीतः स्यात्पाचनश्च विशेषतः। स्नेर्हमार्दवकृत् स्निग्धो बलवर्णकरस्तथा। रूक्षस्तद्विपरीतः स्याद्विशेषात्स्तम्भनः खरः। पिच्छिलो जीवनो बल्यः सन्धानः श्लेष्मलो गुरुः। विशदी विपरीतोऽस्मात् क्लेदादूषणरोपणः। दाहपाककरस्त क्ष्णः स्रावणो मृदुरन्यथा। सादोपलेपबलकृद्गुरुस्तपर्णवृंहणः। लघुस्तद्विपरीतः स्याल्लेखनो रोपणस्तथा। दशाद्याः कर्म्मतः प्रोक्तास्तेषां कर्मविशेषणैः। दशैवान्यान् प्रवक्ष्यामि द्रवादींस्तान्निबोध मे। द्रवः प्रक्लेदनः सान्द्रः स्थूलः स्याद्बन्धकारकः। श्लक्ष्णः पिच्छिलवज्ज्ञेयः कर्कशो विशदो यथा। सुखानुबन्धी सूक्ष्मश्च सुमन्धो रोचनो मृदुः। दुर्गंन्धो विपरीतोऽस्माद्धृल्लासारुचिकारकः। सरोऽनुलोमनः प्रोक्तो मदो यात्राकरः स्मृतः। व्यवायी चाखिलं देहं व्याप्य पाकाय कल्पते। विकासी विकसन्नेवं धातुबन्धान् विमोक्षयेत्। आशुकारं तथाशुत्वाद्धावत्यम्भसि तैलवत्। सूक्ष्मस्तु सौक्ष्म्यात् सूक्ष्मेषु स्रोतस्स्वनुसरः स्मृतः। गुणा विशतिरित्येवं यथावत्परिकीत्तिताः”। ११ वृश्चिकालीवृक्षे स्त्री राजनि०

कर्कशच्छद = कर्कशः छदः पत्रमस्य। (शेओडा) १ शाकोटवृक्षे शब्दमा० २ पटोत्वे च त्रिका० कर्कशदलोऽप्यत्र। ३ कोषातक्यां स्त्री टाप् राजनि०। कर्कशदला दग्धवृक्षे राजनि०।

कर्कशवाक्य = न० कर्म्मं०। निष्ठुरवाक्ये परुषवाक्ये शब्दर०।

कर्कशिका = स्त्री कर्कश–संज्ञायां कन् अत इत्त्वम्। वनको- लिवृक्षे रत्नमा०।

कर्कसार = न० कर्कः कठिनः सारोऽस्य। करम्भे दधिमिश्रितसक्रुषु हारा०।

कर्कारु = पु० कर्कं हासं श्वेततामृच्छति ऋ–उण। १ कुष्माण्डे। (पाडकुमडा)। अमरः तस्य पक्वे फले श्वेततायुक्तत्वात् तथात्वम्। अस्य स्त्रीत्वमपि “ककीरुर्ग्राहिणी शीत रक्तपित्तहरा गुरुः। पक्वा तिक्ताग्निजननी मक्षारा कफवातनुत्” इति भावप्र० उक्तेः। ३ एर्वारुकर्कारुकुष्माण्डप्रभृतीनां तैलानि मधुराणि” सुश्रु० तयोर्भेदनिर्देशात् विशेषकुष्माण्ड एव एर्कारुरिति बोध्यम। “एर्वारुकं सकर्कारु पक्वं स्यात् कफवातकृत्। सक्षारं मधरं रुच्यं दीपनं नातिपित्तलम्। सक्षारं मधुरञ्चैव शीर्णवृन्तं कफापहम्। भेदनं दीपनं हृद्यमानाहाष्ठीलनुल्लघुः वपुः”। इति कर्कारोः “पित्तघ्नं तेषु कुष्माण्डम् बालं मध्यं कफावहम्। पक्वं लघूष्णं क्षारं च दीपनं वस्तिशोधनम्”। इति कुष्माण्डस्य च भेदेन गुणभेदोक्तेस्तयोर्भेदः

कर्कारुक = पु० कर्कं हासमृच्छति ऋ–उकञ् ६ त०। कालिन्दवृक्षे (खे~डो) हारा० कालिन्दशब्दे गुणादि वक्ष्यते

कर्कि = पु० कर्क–इन्। कर्कटराशी। “कर्किर्मीनधनुर्भ्याञ्च हरिः कीटघटेन च” ज्यो० त०।

कर्की = कर्क–हासे अच् गौरा० ङीष। कुष्याण्ड्याम् (कांकुड)

कर्केतन = पु० न० रत्नविशेषे। “रत्नान्याह गरुडपुराणे” आ० त० “तेषुरक्षोविषव्यालव्याधिघ्नान्यघहानि च। प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च। घज्रं मुक्तामणयः पद्मरागाः स मरकताः प्रोक्ताः। अपि चेन्द्रचीलमणयोवैदूर्य्याः पुष्परागाश्च। कर्केतनकुरुविल्वौ रुधिराक्षसमन्वितं तथा स्फटिकम्। विद्रुममणिश्च यत्नादुद्दिष्टं संग्रहे तज्ज्ञैः इत्युद्दिश्य। “वायुर्नखान् दैत्यपते र्गृहीत्वा विक्षेप मासाद्य वनेषु हृष्टः। ततः प्रसूतं पवनोपपन्नं कर्केतनं पूज्यतमं पृथिव्याम्। वर्णेन तद्रुधिरशोभमधुप्रकाशमाताम्रपीतदहनोज्ज्वलितं विभाति। नीलं पुनः सुलसितं परुषं विभिन्न” व्याध्यादिदोषहरणेन न तद्विभाति। स्निग्धा विशुद्धाः समरागिणश्च आपीतवर्ण्णा गुरुवो विचित्राः। त्रासव्रणव्याघिविवर्जिताश्च कर्केतनास्ते परमाः पवित्राः। पत्रेण काञ्चनमयेन तु वेष्टयित्वा हस्ते गलेऽथ धृतमेतदतिप्रकाशम। रोग प्रणाशनकरं कलिनाशनञ्च आयुष्करं कुलकरञ्च सुखप्रदञ्च। एवंविधं बहुगुणं मणिमावहन्ति कर्केतनं शुभमलं कतरे वरा ये। ते पूजिता बहुघना बहुवान्धवाश्च नित्योज्ज्वलाः प्रमुदित अपि ते भवन्ति। एके पिनह्य- विकृताकुलनीलभासः प्रम्लानरागलुलिताः कलुषा विरूपाः। तेजोऽतिदीप्रिकुलपुष्टिविहीनवर्ण्णाः कर्केतनस्य सदृशं वपुरुद्वहन्ति। कर्केतनं यदि परीक्षितवर्ण्णरूपं प्रत्यग्रभास्वरदिवाकरसुप्रकाशम्। तस्योत्तमस्य मणिशास्त्रविदा महिम्ना तुल्यन्तु मूल्यमुदितं तुलितस्य कार्य्यम्” ७५ अ०

कर्कोट(क) = पु० कर्क–ओट। १ नागभेदे स च अष्टनागान्तर्गतः। “अनन्तोवासुकिः पद्मो महापद्मोऽपि तक्षकः। कर्कोटः कुलिकः शङ्ख इत्यष्टौ नागनायकाः” त्रिका०। ति० त० पुराणान्तरे गारुडे च द्वितीयार्द्धे “कुलिकः कर्कटः शङ्ख इति पाठः। अयञ्च नागपञ्चम्यां पूज्यः यथाह तत्रैव। “शेषः पद्मो महापद्मः कुलिकः शङ्खपालकः: वासुकिः शङ्खकश्चैव कालियो मणिभद्रकः। ऐरावतो धृतराष्ट्रं कर्कोटकधनञ्जयौ” इति। अयञ्च कद्रुपुत्रभेदः। “शेषः प्रथमतोजातोवासुकिस्तदनन्तरम। ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ” भा० आ० ३५ अ० नागनामकथने। कर्कोटकनागस्य नारदशापेन जडताप्राप्तिकथा नलेन सह संवादश्च भा० व० ६६ अ० “उत्सृज्य दमयन्तीन्तु नलो राजा विशाम्पते!। ददर्श दावं दह्यन्तं महान्तं गहने वने। तत्र शुश्राव शब्दं वै मध्ये भूतस्य कस्यचित्। अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत्। मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम्। ददर्श नागराजानं शयानं कुण्डलीकृतम्। स नागः प्राञ्जलिर्भूत्वा वेपमानो नलन्तन्ता। उवाच विद्धि मां नाम्ना नागं कर्कोटकं नृप!। मया प्रलुब्धो महर्षिर्नारदः सुमहातपाः। तेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप!। तिष्ठ त्वं स्थावर इव यावदेव नलः क्वचित्। इतो नेता हि तत्र त्वं शापान्मोक्ष्यसि मत्कृतात्। तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम्। उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान्। सखा च ते भविष्यामि मत्समो नास्ति पन्नगः। लथश्च ते भविष्यामि शीघ्रमादाय गच्छ माम्। एवमुक्त्वा स नागेन्द्रो वभुवाङ्गुष्ठमात्रकः। तं गृहीत्वा नलः प्रायाद्देशं दावविवर्जितम्। आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना। उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत्। पदानि गणयन् गच्छ स्वानि नैषध! कानिचित्। तत्रतेऽहं महावाहो! श्रेयो धास्यामि यत् परम्। ततः सङ्ख्यातुमारब्धमदशद्दशमे पदे। तस्य दष्टस्य रूपं तत् क्षिप्रमन्तरधीयत। स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृत नलः। स्वरूपधारिणं नागं ददर्श स महीपतिः। ततः कर्कोटको नागः सान्त्वयन् नलमब्रवीत्। मया तेऽन्तर्हितं रूपं न त्वां विद्युर्जना इति। यत्कृते चासि निकृतो दुः खेन महता नल!। विषेण स मदीयेन दुः खं त्वयि निवत्स्यति। विषेण संवृतैर्गात्रैर्यावत्त्वां न विमीक्ष्यति। तावत्त्वयि महाराज! दुःखं वै स निवत्स्यति। अनागा येन निकृतस्त्वमनर्हो जनाधिप!। क्रोधादसूययित्वा तं रक्षा मे भवतः कृता। न ते भयं नरव्याघ्र! दंष्ट्रिभ्यः शत्रुतोऽपि वा। ब्रह्मद्विड्भ्यश्च भविता मतप्रसादान्नराधिप!। राजन्! विषनिमित्ता च न ते पीडा भविष्यति। संग्रामेषु च राजेन्द्र! शश्वज्जयमवास्प्यसि। गच्छ राजन्नितः सूतो वाहुकोऽहमिति ब्रुवन्। समीपमृतुपर्णस्य स हि वैवाक्षनै पुणः। अयोध्यां नगरीं रम्यामद्य वै निषधेश्वर!। स तेऽक्षहृदयं दाता राजाश्वहृदयेन वै। इक्ष्वाकुकुलजः श्रीमान् मित्रञ्चैव भविष्यति। भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा। समेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाः। राज्येन तनयाभ्याञ्च सत्यमेतद्ब्रवीमि ते। स्वंरूपञ्च यदा द्रष्टुमिच्छेथास्त्वं नराधिप!। संस्मर्त्तव्यस्तदा तेऽहं वासश्चेदं निवासयेः। अनेन वाससाच्छन्नः स्वं रूपं प्रतिपत्स्यसे। इत्युक्त्वा प्रददौ तस्मै दिव्यं वासोयुगं तदा। एवं नलं समादिश्य वासो दत्त्वा च कौरव!। नागराजस्ततो राजंस्तत्रैवान्तरधीयत”। ७२ अ० “तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः। कर्कोटकविषं तीक्ष्णं मुखात् सततसुद्वमन्”। ७९ अ०। “कर्कोटकस्य नागस्य दमयन्त्या नलस्य च। ऋतुपर्णस्य राज्ञश्च कीर्त्तनं कलिनाशनम्” संज्ञायां कन् २ विल्ववृक्षे पु० राजनि०। ३ फललताभेदे (का~कुड) गौरा० ङीष् “कर्कोटकीफलं कुष्ठहृल्लासारुचिनाशनम्। श्वासकासज्वरान् हन्ति कटुपाकञ्च दीपनम्। ईषद्विभिन्नमरिचः परिपूर्ण्णगर्भं तैलेन रन्धितसुसैन्धवपातयोगम्। बाह्लीकयुक्तपयसा विहिताभिषेकं कर्कोटकीफलमिदं रुचिकृत्तरूत्थम्”। वैद्यके तद्गुणपाकादि। ४ पीतघोषावृक्षे स्त्री राजनि०। स्वार्थे कन् अत इत्त्वम्। कर्कोटिका (काकरोल) वृक्षे (का~कुड) ५ कुष्माण्ड्याञ्च स्त्री राजनि०।

कर्कोटवापी = स्त्री कर्कोटनागवासेन कृता वापी। काशोस्ये ती भेदे। “कर्कोटवाप्या ईशाने मरीचेः कुण्डमुत्तमम्” काशीख०।

कर्क्यादि = पु० प्रस्थेपरे अवृद्धपूर्ब्बपदस्य आद्युदात्ततापर्य्युदा साषिये पाणिन्युक्ते शब्दगणभेदे स च कर्की मध्नी मकरीं कर्कन्धू करीर कन्दुक करण वदरी” कर्कीप्रस्थः।

कर्च्चरिका = स्त्री पूरिकाभेदे (कचुरी) पाकराजेश्वरः। तत्पाकप्रकारः भावप्र० उक्तो यथा “माषाणां पिष्टिका पूर्य्या लवणार्द्रकहिङ्गुभिः। तया पिष्टिकया पूर्ण्णा सम्मिता कृतपोलिका। ततस्तैलेन पक्वा सा पूरिका कथिता बुधैः। रुच्या स्वाद्वी गुरुस्निग्धा बल्या पित्तास्रदूषिका। चक्षुस्तेजोहरी चोष्णा पाके वातविनाशिनी। तथैव धृत पक्वापि चक्षुष्या रक्तपित्तहृत्”।

कर्चरी = स्त्री कं जलं चुर्य्यतेऽत्र चुर–पृषो० क गौरा० ङीष्। जलशून्ये शुष्कफलखण्डे (कच्री) पाश्चात्त्यभाषाप्रसिद्धे द्रव्ये “क्षीराम्लकृतसंस्कारा शुष्का स्नेहविपाचिता। अरोचकादिरोगाणां कर्चरी कण्ठकर्त्तरी। कर्चरी रुचिकुद्बल्या सुस्वादुरतिलेखनी। उष्णा पित्तकरी प्रोक्ता कफकृत् सारिका स्मृता” भावप्र०।

कर्चूर = न० कर्ज्ज ऊर + पृषो०। १ स्वर्णे। २ कर्वूरवर्ण्णे ३ तद्वति त्रि० अमरटीका (कचूर) प्रसिद्धे ४ गन्धसारे शट्याम् पु० भावप्र०। तद्गुणादि “कर्चूरो वेधमुख्यश्च द्राविडः कल्पकः शठी। कर्चूरो दीपनो रुच्यः कटुकस्तिक्त एव च। सुगन्धिः कटुपाकः स्यात् कुष्ठार्शोव्रणकासनुत्। उष्णोलघुहरेच्छ्वासं गुल्मवातकफक्रिमीन्” ५ हरिताले न० वैज०। “रराज कर्चूरपिशङ्गवाससः” माघः। “कर्चुरः हरितालम्” मल्लि०।

कर्चूरक = पु० कर्चूर + स्वार्थे कन् स इव कायति कै–क वा। (का~चा) १ हरिद्रायाम् क्षीरस्वा०। तस्याः शट्याकृतित्वात् तयात्वम्। २ कर्चूरशब्दार्थे च।

कर्ज्जपीडायाम् = भ्वा० पर० सक० सेट्। कर्जति अकर्जीत्। चकर्ज्ज प्रनिकर्ज्जति।

कर्ण्ण = भेदने अदन्तचुरादि० उभ० सक० सेट्। कर्ण्णयति ते अचकर्णत् त। कर्ण्णयाम्–बभूव आस। चकार चक्रे। कर्ण्णयिता कर्ण्णयिष्यति। कर्णनम् कर्ण्णः कर्ण्णितः कर्ण्णयितुम्। कर्ण्णयन् कर्णयमानः। कर्णयित्वा आकर्ण्य कर्ण्णी। कर्ण्यते अकर्ण्णि अकर्ण्णिषाताम् अकर्णयिषाताम्आ + कर्ण्ण–श्रवणे। “आकर्णयन्नुत्सुकहंसनादान्” भट्टिः। “मिथस्तदाकर्णनसज्जकर्णया” देवाकर्णय सुश्रुतेन चरकस्योक्तेन जानेऽस्विलम्। “अदस्तदाऽकर्ण्णिफलाढ्यजीवि- लम्” इति च नैष०। “आकर्ण्य सम्प्रति रुतं चरणायुधानाम्” सा० द०।

कर्ण = पु०। कर्ण्यते आकर्ण्यतेऽनेन कर्ण करणे अच् कीर्य्यन्ते शब्दा वायुनाऽत्र कॄ–नन् वा। १ श्रोत्रे शब्दज्ञानसाधने इन्द्रियभेदे तदाधारे २ गोलके च। श्रोत्रञ्च कर्ण्णशषुकल्यवच्छिन्ननभोरूपमिति नैयायिकादयः। सात्विकाकाशसूक्ष्मांश इति वेदान्तिनः सांख्यादयश्च स्वीचक्रुः। तत्राद्यमते शब्दोत्पत्तिदेशे श्रोत्रस्य गमनाभावेन अन्यत्रोत्पन्नशब्दग्रहणासम्भवः। तथा हि आकाशस्यैकत्वेऽपि उपाधिभेदेन भेदात् यदीयकर्णशष्कुलीप्रदेशे शब्दसमवायस्तस्यैव श्रावणम् नान्यस्य, ततश्च वीचितरङ्गन्यायेन कदम्बकोरककन्यायेन वा शब्दोत्पत्तावपि शब्दोत्पत्तिदेशस्य श्रोतुश्च विभिन्नदेशस्थतया न शब्दोपलब्धिः स्यात्। अतस्तत्तद्देशस्थस्य शीघ्रं धावमानस्य वायोः संयोगविभागादयः श्रोतुः शब्दादभिव्यञ्जकाः। तदेतत् शङ्कापूर्व्वकम् मीमांसाभाष्ये समर्थितम् यथा।

“यदि शब्दं संयोगविभागा एवाभिव्यञ्जन्ति न कुर्व्वन्ति, आकाशविषयत्वाच्छब्दस्य, आकाशस्यैकत्वात्, य एवापरत्र श्रोत्राकाशः, स एव देशान्तरेष्वपीति स्रुघ्नस्यैः संयोगविभागैरभिव्यक्तः पाटकिपुत्रेऽप्युपलभ्येत?। यस्य पुनः कुर्व्वन्ति, तस्य वायवीयाः संयोगविभागा वाय्वाश्रितत्वाद्वायुष्वेव करिष्यन्ति। यथा, तन्तवः तन्तुष्वेव पटं, तस्य पाटलिपुत्रेष्वनुपललम्भी युक्तः, स्रुघ्नस्थत्वात्तेषाम्। यस्याप्यभिव्यञ्जन्ति, तस्याप्येष न दोषः, दूरे सत्याः कर्णशष्कल्याः अनुपकारकाः संयोगविभागाः। तेन दूरे यच्छ्रोत्रं तेन नोपलम्यते” इति। नैददेवं, अप्राप्ताश्चेत् संयोगविभागाः श्रोत्रस्योपकुर्युः सन्निकृष्टविप्रकृष्टदेशस्थौ युगपच्छब्दमुपलभेयाताम् न च युगपदुपलभेते। तस्मान्नाप्राप्ताः उपकुर्वन्ति, न चेदुपकुर्वन्ति, तस्मादनिमित्तं शब्दोपलम्भने संयोगविभागौ इति”। नैतदेवं, अभिघातेन हि प्रेरिताः वायवस्तिमितानि वाय्वन्तराणि प्रतिबाधमानाः सर्व्यतोदिक्कान् संयोगविभागान् उत्पादयन्ति, यावद्वेगमभिप्रतिष्ठन्ते। ते च (संयोगविभागाः) वायोरप्रत्यक्षत्वात् नोपलभ्यन्ते। अनुपरतेष्वेव तेषु शब्दः उपलभ्यते, नोपरतेषु। अतो न दोषः। अत एव चानुवातं दूरादुपलभ्यते शब्दः”। वेदान्त्यादिमते शब्दस्य पञ्चमूतगुणतया शब्दाधारं वायुना झटिति कण्णदेशे यथावेगं धावमानेन कर्ण्णप्रापणसम्भव स्तेन शब्दोपलम्भः। तन्मते श्रवणेन्द्रियस्य प्राप्यकारित्वोक्तिरप्येतत्परेति बोध्यम्। कर्ण्णस्याविष्ठातृदेवश्च दिक् इति करणाधिषशब्दे उक्तम्। कर्ण्णग्राह्याश्च शब्दास्तद्भेदास्तद्धर्म्माश्च “कर्ण्णेकृतं कनकपत्रमनालपन्त्या” चोगप०। “मिथस्तदाकर्ण नसज्जकर्णया” नैष० “तद्गुणैः कर्ण्णमागत्य चापलाय प्रणोदितः” रघुः श्रवणेन्द्रियस्य सूक्ष्मत्वेऽपि तदाधाराभिप्रायेण “अवलम्बितकर्णशष्कुलीकलसीकं रचयन्नवोचत” नैष० वाक्यम्। ३ सुवर्ण्णालीवृक्षे मेदि०। त्रिकोणादिक्षेत्रे ४ भुजकोटिसंयोजकरेखाभेदे तद्रेखामानज्ञानोपायश्च लीला० उक्तः यथा “इष्टाद्बाहो यः स्यात्तत्स्पर्द्धिन्यां दिशीतरोबाहुः। त्र्यस्रे चतुरस्रे वा सा कोटिः कीर्त्तिता तज्ज्ञैः। तत्कृत्योर्योगपदं कर्ण्णो, दोःकर्ण्णवर्गयोर्विवरात्। मूलं कोटिः, कोटिश्रुतिकृत्योरन्तरात् पदं बाहुः” इति उदा० दिङ्मात्रमत्रोच्यते भुजः ४ कोटिः ३ अनयोर्वर्गः १६, ९, तयोर्योगः २५ तस्य मूलम् ५ तथाच चतुर्हस्तबाहुके त्रिहस्तकोटिके क्षेत्रे कर्ण्णमानम् पञ्च हस्ताः। अधिकं क्षेत्रव्यवहारशब्दे वक्ष्यते। अस्य च भुजकोटिभेदनात् कृतिद्वारा तयोर्वर्गव्यापनाच्चकर्ण्णत्वम्। ५ कुटिले च “व्याघारणवत् प्राणभृतः कर्णसहिताः” कात्या० १७, ६, ०। “कर्ण्णेन अक्ष्णया सहिताः” संग्र० व्या० “अक्ष्णया कौटिल्येन” इति कात्या० ५, ४, १५ सू० व्या० कर्कः। कुन्त्याः कन्यावस्थायां सूर्य्यात् जाते स्वनामख्याते ६ वसुषेणे तदुत्पत्तिकथा यथा “शूरोनाम यदुश्रेष्टोवमुदेवपिताऽभवत्। तस्य कन्या पृथा नाम रूपेणासदृशी भुवि। पितुः स्वस्रीयपुत्राय सोऽनपत्याय वीर्यवान्। अग्रमग्र प्रतिज्ञाय स्वस्यापत्यस्य वैतदा। अग्रजातेति तां कन्यां शूरोऽनुग्रहकाङ्क्षया। अददत् कुन्तिभोजाय स तां दुहितरं तदा। सा नियुक्ता पितुर्गेह ब्राह्मणातिथिपूजने। उग्रम्पर्य्यचरद्घोरं ब्राह्मणं श सि तव्रतम्। निगूढनिश्चयं धर्मवन्तं दुर्वाससं विदुः। तमुग्रं शंसितात्मानं सर्वयत्नैरतोषयत्। तुष्टोऽभिचारसंयुक्तमाच चक्षे यथाविधि। उवाचचैनां भगवान् प्रीतोऽस्मि सुभगे! तव। यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि। तस्य तस्य प्रसादात्त्व देवि। पुत्रान् जनिष्यसि। एवमुक्ता च सा बाला तदा कौतूहलान्विता। कन्या सती देवमर्कमाजुहाव यशस्विनी। प्रकाशकर्त्ता भगवांस्तस्यां गर्भं दघौ तदा। अजीजनत् सुतं तस्यां सर्वशस्त्रभृतांपरम्। सकुण्डलं सकवचं देवगर्भं श्रियान्वितम्। दिवाकरसमं दाप्त्या चारुसंर्वाङ्गभूषितम्। निगूह- माना जातं वै बन्धुपक्षभयात् तदा। उत्ससर्ज जले कुन्ती तङ्कुमारं यशस्विनम्। तमुत्सृष्टं जले गर्भं राधाभर्त्ता महायशाः। राधायाः कल्पयामास पुत्रं सोऽधिरथिस्तदा। चक्रतुर्न्नामधेयञ्च तस्य बालस्य तावुभौ। दम्पती वसुषेणेति दिक्षु सर्वाखु विश्रुतम्। स वर्द्धमानो बलवान् सर्वास्त्रेषूत्तमोऽभवत्। वेदाङ्गानि च सर्वाणि समाप जयतांवरः। यस्मिन् काले जपन्नास्ते घीमान् सत्यपराक्रमः। नादेयं ब्राह्मणेष्वासीत्तस्मिन् काले महात्मनः। तमिन्द्रो ब्राह्मणोभूत्वा पुत्रार्थेभूतभावनः। ययाचे कुण्डले वीरं कवचञ्च सहाङ्गजम्। उत्कृत्य कर्णोह्यददत् कवचं कुण्डले तथा। शक्तिं शक्रोददौ तस्मै विस्मितश्चेदमब्रवीत्। देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्। यस्मिन् क्षेप्स्यसि दुर्द्धर्व। स एकोन भविष्यति। षुरा नाम च तस्यासीद्वसुषेण इति क्षितौ। ततो वैकर्त्तनः कर्णः कर्मणा तेन सोऽभवत्। आमुक्तकवचोवीरोयस्तु जज्ञे महायशाः। स कर्ण इति विख्यातः पृथायाः प्रथमः सुतः। स तु सूतकुले वीरो ववृधे राजसत्तम। कर्णं नरनरश्रेष्ठं सर्वशस्त्रभृतां वरम्। दुर्योधनस्य सचिवं मित्रं शत्रुविनाशनम्। दिवाकरस्य तं विद्धि राजन्नं शमनुत्तमम्”। तस्याङ्गदेशाषिपताप्राप्तिः अङ्गाधिपशब्दे उक्ता। कर्णोऽस्त्यस्य प्राशस्त्येन अर्श० अच्। ७ लम्बकर्णे त्रि०। “खड्गोवैश्वदेवः श्वा कृष्णः कर्ण्णोगर्दभः” यजु० २४, ४०। “कर्ण्णो लम्वकर्ण्णः” वेददी०। ८ अरित्रे च पु० कर्णः “श्रोत्रमरित्रञ्चेति” दुर्गः। कर्ण्णधारः। “हतकर्ण्णेव नौर्जले” रामा०।

कर्णक = पु० कर्णयति विभिद्य जायते कर्ण्ण–ण्वुल्। वृक्षादीनां १ पत्रशाखादौ तेषां दारुस्फोटनेन जायमानत्वेन तथात्वम्। “अथौदुब्धरीमादधाति ऊर्ग्वै रस उदुम्बर ऊर्ज्जैवैनमेतद्रसेन प्रीणाति कर्णकवती भवति पशयो वै कर्ण्णकाः” “यदि कर्णकवतीं न विन्देत् दधिद्रप्समुपहत्यादध्यात्” शत० ब्रा०। ९, २, ३, ४०। “कर्णकशब्देनात्र पत्रशाखादिकं विवक्ष्यते” भा०। पशूनाञ्च कर्ण्णकशब्दवाच्यत्वञ्च पत्रशाखादिना पुष्टिमत्त्वात् इत्यपि तत्रैवोक्तम् पत्राणाञ्च कर्णाकारत्वादपि कर्ण्णकत्वमित्यपि बोध्यम् वृक्षाणां दारस्फोटे ९ रोगे च। “प्रत्यृचमुत्तमा सकर्ण्णका” कात्या० १८, ४, ६। “कर्णकोदारुस्फोटीरोगस्तद्वती औदम्बरी” संग्र०। “कर्ण्णकामावे दधिद्रप्साक्ताः” कात्या० १८, ४, ७। ततः तारादि० इतच्। कर्ण्णकितजातपत्रादौ त्रि०

कर्ण्णकण्डू = स्त्री ७ त०। कर्णगतरोगभेदे कर्ण्णगतरोगशब्दे विवृतिः।

कर्णकीटी = स्त्री कर्ण्णयति भिनत्ति अच् स्वल्पः कीटः अल्पार्थे ङीप् काटी कर्म्म०। शतपद्याम् (काण्डाइ)। हेमच०।

कर्णकृमि = पु० कर्णगतरोगशब्दे सुश्रुतोक्ते कर्णरोगभेदे कृमिकर्णकोऽप्यत्र।

कर्ण्णक्ष्वेड = पु० ७ त० सुश्रुतोक्ते कर्ण्णगतरोगभेदे कर्ण्णगतरोगशब्दे विवृतिः।

कर्ण्णगतरोग = पु० कर्ण्णे गतीरोगः। सुश्रुतोक्ते कर्ण्णगते रोगभेदे तद्भेदनिदानादि तत्रैवोक्तं यथा। “अथातः कर्णगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः। १ कर्णशूलं २ प्रणादश्च ३ बाधिर्य्यं ४ क्ष्पेड एव च। कर्णस्रावः ५ कर्णकण्डूः ६ कर्णगूथ ७ स्तथैव च। कृमि ९ कर्णप्रतीनाहौ विद्रधि १० द्विविध ११ स्तथा। कर्णपाकः १२ पूतिकर्ण १३ स्तथैवार्शश्चतुर्व्विघम् १४, १५, १६, १७। तथार्व्वुदं सप्तवधं १८, २४, शोथश्चापि चतुर्विधः २५, २८। एते कर्णगतारोगा अष्टाविंशतिरीरिताः। समीरणः श्रोत्रगतोऽन्यथाचरः समन्ततः शूलमतीव कर्णयोः। करोति दोषैश्च यधास्वमावृतः स कर्णशूलः १ कथितो दुराचरः। यदा तु नाडीष् विमार्गमागतः स एव शब्दाभिवहासु तिष्ठति। शृणोति शब्दान् विविधांस्तदा नरः प्रणाद २ भेनं कथवन्ति चामवम्। स एव शब्दा भिवहा यदा सिराः कफानुयातोऽप्यनुसृव्य तिष्ठति। तदा नरस्याप्रतिकारसेविनो भवेत्तु बाधिर्य्यमसंशयं खलु। श्रमात्क्षताद्रूक्षकषायनोजनात् समीरणः शब्दपथे व्यवस्थितः। विरिक्तशीर्षस्य च शीतसेबिनः करोति हि क्ष्वेड ४ मतीव कर्णयोः। शिरोऽभिघातादय वा निमज्जतो जले प्रपाकादथवापि विद्रधेः। स्रवेत्तु पूयं श्रवणोऽनिलावृतः सकर्णसंस्राव ५ इति प्रकीर्त्तितः। कफेन कण्डूः प्रचितेऽथ कर्णयो र्भृशं भवेत् स्रोतसि कर्ण संज्ञिते। विशोषिते श्लेष्मणि पित्ततेजसा नृणां भवेत् स्रोतसि कर्णगूथकः ६। स कर्णगूथो द्रवतां यदागतो विलायितो घ्राणमुखं प्रपद्यते। तदा स कर्णप्रतिनाहसंज्ञितो ७ भवेद्विकारः शिरसोऽतितापनः। यदा तु मूर्च्छन्त्यथ वापि जन्तवः सृजन्त्य पत्यान्यथवापि मक्षिकाः। तदञ्जनत्वाच्छ्रवणो निरुच्यतेभिषग्निराद्यैः कृमिकर्णकस्तु ८ सः। क्षताभिषातप्रभवस्तु विद्रधि १० र्भवेत्तथा दोषकृतोऽथवा पुनः। स रक्तपीतारुणमस्रमास्वनेत्प्रतोदधूमायनदाहप्सोषवान। भवेत्पपाकः ११ खलु पित्तकोपतो विकोषविक्लदकरश्च कणैयोः। स्थिते कफे स्नोतसि पित्ततेजसा विलाप्यमाने भृशसम्प्रतापनात्। अवेदनो वाप्यथवा सवेदनो घनं स्रवेत्पूति सपूतिकर्णकः १३। प्रदिष्टलिङ्गान्यर्शांसि १४, १५, १६, १७ तत्त्वतस्तथैव शोथा १८–२४ र्ब्बुद २५–२८ लिङ्ग, मीरितम्। मया पुरस्तात्प्रसमीक्ष्य योजयेदिहैव तानि प्रयतो भिषग्वरः”।

कर्णगूथ = न० ६ त०। १ कर्ण्णमले कर्णगतरोगशब्दे सुश्रुतोक्ते २ रोगभेदे च।

कर्णगोचर = पु० कर्ण्णस्य कर्णव्यापारजन्यबोधस्य गोचरः विषयः। श्रवणयोग्ये विषये।

कर्णग्राह = पु० कर्णमरित्रं गृह्णाति ग्रह–अण् उप० स०। कर्ण्णधारे नाविके। तस्यापत्यं रेवत्या० ठक। कार्ण्णग्राहिक तदपत्ये पुंस्त्री०।

कर्णच्छिद्र = न० ६ त०। कर्ण्णरन्ध्रे “कर्ण्णच्छिद्रैर्वर्त्तमानं कीटं क्लेदमलादि वा। शृङ्गेणापहरेद्धीमानथवापि शलाकया” सुश्रु०।

कर्ण(कर्णे)जप = त्रि० कर्ण्णे जपति वा सप्तम्या अलुक्। खले सूचके। “कर्ण्णेजपैराहितराज्यलोभा” भट्टिः। अण् कर्ण्णजापोऽप्यत्र।

कर्णजलूका = स्त्री कर्ण्णे जलूकेव। शतपद्याम् (काण्डाइ) कर्ण्णजलौकस् इत्यप्यत्र शब्दरत्रा०। कर्ण्णजलौकाऽप्यत्र अमरः। कर्ण्णजलौकस् इत्यपि तत्रार्थे भरतः।

कर्ण्णजाह = न० कर्ण्णस्य सूलम् कर्ण्ण + जाह। कर्ण्णमूले “कर्ण्णजाहविलोचनेति” भट्टिः।

कर्णजित् = पु० कर्ण्णं जितवान् जि–भूते क्विप्। अर्ज्जुने तस्य तज्जयकथा भा० क० ९१ अ०। तयोर्युद्धमुक्त्वा “ततोऽर्ज्जुनस्तस्य शिरोजहार, वृत्रस्य वज्रेण यथा महेन्द्रः। शरोत्तमेनाञ्जलिकेन राजन्! तदा महास्त्रप्रतिमन्त्रितेन”। कर्ण्णहाप्यदयोऽप्यत्र!

कर्ण्णताल(ड) = पु० ६ त० तस्व ल वा। कर्ण्णताडने। “अनृत्यत स्फुटकृतकर्ण्णतालया” माघः।

कर्ण्णदर्पण = पु० कर्ण्णेदर्पण इव। कर्ण्णभूषणभेदे (कानतड्का) त्रिका०।

कर्ण्णदुन्दुभि = पु० कर्ण्णेदुन्दुभिरिव तत्तुल्यध्वनिहेतुत्वात्। शतपद्याम्। (काण्डाइ) शब्दमा० तस्याः कर्ण्णप्रवेशे हि दुन्दुभिवद्ध्वानजननात्तस्यास्तथात्वम्।

कर्ण्णधार = पु० कर्ण्णमरित्रं धारयति ऋ–अण् उप० स०। १ नाविके (माजी) अमरः। “अकर्ण्णधारा जलधौ विप्लवेतेह नौरिव” हितो०। “साहित्यार्ण्णवकर्ण्णधारेति” सा० द०। २ दुःस्वादिनिवारके त्रि०। “अकर्ण्णधारा” पृथिवी शून्येव प्रतिभाति मे। गते दशरथे स्वर्गं रामे च रण्यमाश्रिते” रामा०।

कर्ण्णनाद = पु० कर्ण्णे अङ्गुल्यापिहितकर्ण्णे नादः ध्वनिभेदः। अङ्गुल्यापिहितकर्ण्णे (भो~ भो~) इत्याकारे मध्यमाशब्दस्वरूपे ध्वनिभेदे। “मध्यमा श्रुतिगोचरा” इत्युक्तेस्तस्यास्तथात्वम्।

कर्ण्णपत्रक = पु० पत्रमिव कायति कै–क कर्ण्णेपत्रक इव। कर्ण्णपाल्याम्। “कनीनिके चाक्षिकूटे शष्कुली कर्ण्ण पत्रकौ। कर्ण्णौ शङ्कौ भ्रुवौ दन्तावेष्टावोष्ठौ ककुन्दरे” याज्ञ०। “कर्ण्णपत्रकौ कर्णपाल्यौ” मिता०।

कर्ण्णपथ = पु० कर्ण्ण एव पन्थाः अच् समा०। कर्ण्णरन्ध्ररूपे शब्दप्रवेशनयोग्ये मार्गे।

कर्ण्णपरम्परा = स्त्री ६ त०। श्रवणपरम्परायाम्। (काणाकाणि) “तेनैव च क्रमेणैष गतः कर्ण्णपरम्पराम्। प्रबादोबहुलीभावं सर्व्वत्रापि पुरे ययो” कथासरित्सा०। एकस्य सकाशादन्येन श्रुत्वाऽन्धस्मै कथने तेनापि पुनरन्यस्मै कथने एवं परम्परया श्रवणे अस्य वृत्तिः।

कर्ण्णपराक्रम = पु० अपभ्रं शयोग्यबहुच्छन्दोयुक्ते काव्यभेदे।

कर्ण्णपर्वन् = न० भारतान्तर्गते अष्टमे पर्व्वणि। तत्पर्व्वणि कथासंग्रहश्च भा० आ० १ अ० यथा

“अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम्। सारथ्येविनियोगश्च मद्रराजस्य धीमतः। आख्यानं यत्र पौराणां त्रिपुरस्य निपातनम्। प्रयाणे परुषश्चात्र संवादः कर्ण शल्ययोः। हंसकाकीयमाख्यानं तथैवाक्षेपसंभृतम्। बधः पाण्डस्य च तथा अश्वत्थाम्ना महात्मना। दण्डसेनस्य च ततो दण्डस्य च बधस्तथा। द्वैरथे यत्र कर्णेन धर्मराजो युधिष्ठिरः। संशयं गमितो युद्धे मिषतां सर्वधन्विनाम्। अन्योन्यं प्रति च क्रोधं युधिष्ठिरकिरीटिनोः। तत्रैवानुनयः प्रोक्तोमाधवेनार्ज्जुनस्य हि। प्रतिज्ञापूर्वकञ्चापि वक्षोदुःशासनस्य च। भित्त्वा वृकोदरो रक्तं पीतवानत्र संयुगे। द्वैरथे यत्र पार्थेन हतः कर्णो महारथः। अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः। एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि। चत्वार्य्येव सहस्राणि नवश्लोकशतानि च। चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन् प्रकीत्तिताः”। “कर्णपर्वण्यपि तथा भोजनं सार्व्वकामिकम्। विप्रेभ्यः संस्कृतं सम्यग्दद्यात् संयतमानसः” भा० स्वर्गा० ६ अ०।

कर्ण्णपाक = पु० सुश्रुतोक्ते कर्ण्णरोगभेदे कर्ण्णगतरोगशब्देविवृतिः

कर्ण्णपालि(ली) = स्त्री ६ त०। १ कर्ण्णपालके कर्णांशभेदे। (काणे- रपाता) तदवयवश्च मांसपेशीभेदः यथाह मावप्र० मांसपेशीसंख्याविभागे “यथार्थमूष्मणां युक्तोवायुः स्रोतांसि दारयेत्। अनुप्रविश्य पिशितं पेशीर्विभजते तथा। मांसपेश्यः समाख्यातानृणां पञ्च शतानि च “इत्युपक्रम्य “गण्डयोश्चतस्तः कर्ण्णयोर्द्वे” इत्युक्तम्। “कर्ण्णेशोथोभवेत् पाल्याम्” “कुर्व्वन्ति पीडिकां पाल्याम्” “लिह्यात् स शष्कुलीम् पालेः”। कर्ण्णरोगे भावप्र० “लिह्यात् निर्मांसीकुर्य्यात्” भावप्र०। कर्ण्णं पाल यति पाल + अण् उप० स० गौरा० ङीष्। (काणवाला) २ कर्णालङ्कारभेदे हारा०

कर्ण्णपाल्यामय = पु० ७ त०। कर्ण्णंव्यधदोषजे सुश्रुतोक्ते कर्णपालिरोगभेदे स च सुश्रुते सोपद्रवो दर्शितः यथा “कर्णपाल्यामयान्नॄणां पुनर्व्वक्ष्यामि सुश्रुत!। कर्णपा ल्यां प्रकुपिता वातपित्तकफास्त्रयः। द्विधा वाप्यथ सं सृष्टाः कुर्व्वन्ति विविधा रुजः। विस्फोटः स्तब्धता शोथः पाल्यां दोषे तु वातिके। दाहविस्फोटजननं शोथः पाकश्च पैत्तिके। कण्डूः सश्वयथुस्तम्भो गुरुत्वञ्च कफात्मके। यथादोषञ्च संशोध्य कुर्य्यात्तेषां चिकित्सितम्। स्वेदाभ्यङ्गपरीषेकैः प्रलेपासृग्विमोक्षणैः। मृद्वीं क्रियां वृंहणीयैर्यथास्वं भोजनैस्तथा। य एवं बेत्ति दोषाणां चिकित्सां कर्त्तुमर्हति। अत ऊर्द्ध्वं नामलिङ्गैर्व्वक्ष्ये पाल्यामुपद्रवान्। उत्पाटकश्चोत्पुटक श्यानः कण्डूयुतो भृशम्। अवमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथा। स्रावी च दाहवांश्चैव शृण्वषां क्रमशः क्रियाम्”।

कर्ण्णपिशाची = स्त्री देवीभेदे। तन्त्रसारे मूलं दृश्यम्।

कर्ण्णपुर = न० ६ त० अच् समा०। चम्पानगर्य्याम् हेमच०।

कर्ण्णपुष्प = पु० कर्ण इव पुष्पं यस्य। मोरटालतायाम् राजनि०।

कर्ण्णपूर = पु० कर्णं पूरयति पूर–अण्। १ कर्णाभरणे, २ नीलो त्पले, ३ शिरीषवृक्षे मेदिनिः। ४ अशोकवृक्षे राजनि०। एतेषां पुष्पैः स्त्रीकर्णस्य भूषा भवतीति तेषां तथात्वम्। “यस्याश्चौरश्चिकुरनिकुरः कर्ण्णपूरोमयूरः” प्रसन्नरा०। “प्रभ्लानवीजाङ्कुरकर्ण्णपूरः” “विलम्बिनीलोत्पलकर्ण्णपूरा” रघुः।

कर्ण्णपूरक = पु० कर्ण्णं पूरयति पूर–ण्वुल्। १ कदम्ववृक्षे राजनि०। स्वार्थे कन्। २ कर्ण्णाभरणे ३ नीलोत्पले, ४ शिरीषवृक्षे ५ अशोकवृक्षे च राजनि०। एतेषां पुष्पैः स्त्रीकर्ण्णस्य भूषा भवतीति तेषां तथात्वम्।

कर्ण्णपूरण = न० ६ त०। सुश्रुतोक्तेः तैलादिना कर्ण्णस्य पूरण “स्नेहसारोऽयं पुरुषः प्राणाश्च स्नेहभूयिष्ठाः स्नेहसाध्याश्चभवन्ति स्नेहोहि पानानुवासनमस्तिष्कशिरोवस्त्यूत्तरवस्तिनस्यकर्णपूरणगात्राभ्यङ्गभोजने षूपयोज्यः” सुश्रु०।

कर्णप्रणाद = पु० कर्ण्णगतरोगशब्दे सुश्रुतोक्ते कर्ण्णरोगभेदे।

कर्ण्णप्रतिनाह = कर्ण्णरीगभेदे कर्ण्णगतरोगशब्दे विवृतिः

कर्ण्णप्राय = पु० देशभेदे स च वृ० सं० नैरृत्यामुक्तः। “नेरृत्यां दिशि देशाः” इत्युपक्रम्य “कर्ण्णंप्रायपारशवशूद्राः” १४, १८।

कर्ण्णफल = कर्ण्णः फलमिवास्य। मत्स्यभेदे (काणलिमाछ) राजनि०।

कर्ण्णभूषण = न० कर्ण्णं भूषयति भूष–ल्यु। कर्ण्णाभरणे अमरः।

कर्ण्णमल = न० ६ त०। कर्ण्णस्थे मलाकारे पदार्थे (काणेर खल) हारा० कर्णमलोत्पत्तिप्रकारः भावप्र० उक्तो यथा। “ततो मांसाग्निना पुनः पच्यमानः पञ्चाहोरात्रात् सार्द्धदण्डांश्च यावन्मांसेष्वेव तिष्ठति ततः पच्यमानात्तस्मान् मलं निर्गच्छति तद्व्यानवायुना क्षिप्रं कर्णावागत्य कर्णविड्भवति”। कर्ण्णविठादयोऽप्यत्र।

कर्ण्णमो(टि)टी = स्त्री कर्ण्णं मोटयति इन् वा ङीप्। दुर्गाभेदे हेम०।

कर्ण्णयोनि = त्रि० कर्ण्णः योनिः स्थानमस्य। कर्ण्णग्राह्ये विषये। “नृचक्षसो दृशये कर्ण्णयोनयः” ऋ० २, २४, ८। “कर्ण्णयोनयः श्रोत्रेन्द्रियग्राह्याः” भा०।

कर्ण्णल = त्रि० कर्ण्णः कर्ण्णशक्तिरस्त्यस्य सिध्मा० णच्। प्रशस्तश्रवणशक्तियुक्ते।

कर्ण्णलता = स्त्री कर्ण्णस्य लतेव। कर्ण्णपाल्याम् (काणेरपाता) स्वार्थे कन् अत इत्त्वम्। कर्णलतिकापि तथार्थे हेम०।

कर्ण्णवंश = पु० कर्ण्णः कर्ण्णाकारोवंशोयत्र। मञ्चे हारा०। तस्य पादेषु बंशाकारत्वात्तथात्वम्।

कर्ण्णवर्ज्जित = त्रि० ३ त०। १ बधिरे (काला) श्रोत्रशून्ये। २ सर्पे पु० स्त्री शब्दच०। स्त्रियां जातौ ङीष्। तस्य चक्षुःश्रवस्त्वात्तथात्वम्। बाधिर्यञ्च श्रवणशक्तिशून्यत्वम्।

कर्ण्णविष् = स्त्री कर्ण्णस्य विट्। कर्ण्णमले (काणेरखल) “वसाशुक्रमसृङ्मज्जामूत्रविड्ध्राणकर्ण्णविट्। श्लेष्माश्रुदूषिकास्वेदो द्वादर्शते नृणां मलाः” मनुः। “शोधयेत् कर्ण्णविट्कन्तु भिषक् सम्यक् शलाकया” सुश्रु०।

कर्ण्णवेध = पु० विध–घञ् ६ त०। शास्त्रोक्तविधानेन कर्ण्णयोर्वेधने। तत्प्रकारमुहूर्त्तादिकं मुहूर्त्तचिन्तामणिपीयूषधारयोरुक्त यथा।

“हित्व तांश्चैत्रपौषावथ हरिशयनं जन्ममासंच रिक्तां युगमावदं जन्मतारामृतुमुनिवसुभिः संसिते मास्यथो वा। जन्माहात्सूयंभूपैः परिमितदिवसे ज्ञेज्यशुक्रेन्दुवारेऽ थोजाब्दे विष्णुयुग्मादितिमृदुलघुभैः कर्णवेधः प्रशस्तः। संशुद्धे मृतिभवने त्रिकोणकेन्द्रत्र्यायस्थैः शुभखचरैः कवीज्यलग्न। पापाख्यैररिसहजायगेहसंस्थैर्लग्नस्थे त्रिदशगुरौ शुभावहः स्यात्” चिन्ता०।

“आरभ्य जन्मदिवसंयावत्रिंशद्दिनं भवेत्। जन्ममासः स विज्ञेयो गर्हितः सर्वकर्मसु” इतिलक्षणलक्षितम् जन्ममासम्। रिक्तान्तिथिम् ४, ९, १४। युग्माव्दं समवर्षं द्वितीयचतुर्थादिकम्। जन्मतारां प्रथमदशमैकोनविंशतिकात्मिकां हित्वा। उक्तं च व्यवहारोच्चये। “न जन्ममासे न च चैत्रपौषे न जन्मतारासु हरौ प्रसुप्ते। तिथाव रिक्ते न च विष्टिदुष्टे कर्णस्य वेधोन समानवर्षे” इति। अत्र चैत्रस्य निषेधोमीनार्कविषयः पौषनिषेधोऽपि धनुरर्क विषयः अन्यथा “कार्त्तिके पौषमासे वा चत्रे वा फाल्गुनेऽपि वा। कर्णवेध प्रशंसन्ति शुक्ले पक्षे शुभेऽहनीति” व्यासबवनमसङ्गतं स्यात्। अत्र कार्त्तिकशुक्लपक्षैकादशीतः परः कार्त्तिकः प्रशस्तः पूर्वत्र देवशयनसत्त्वान्निषेधः। अत्र जन्ममासे वर्ज्यान्तराण्यप्याह प्रयोगपारिजाते व्यासः। “योजन्ममासे क्षुरकर्मयात्रा कर्णस्य वेधं कुरुते विमोहात्। मूढः स रोगी धनपुत्रनाशं प्राप्तोति गूढंनिधनं तदाश्विति”। विहितकालमाह ऋत्विति ऋतवः षट्मुनयः सप्त वसवो ष्टौ एतैः संभिते गणिते मासि षष्ठमासे सप्तममासेऽष्टममासे वा। अथोवा जन्माहात्सूर्य भूपैर्द्वादशभिः षोडषमिर्वा परिमिते गणिते दिवसे सौरसावने कर्णवेधः प्रशस्तौक्तः यदाह जग न्माहने वसिष्ठः “मासे षष्ठे सप्तमे वाष्टमे वा वेध्यौ कर्णौ द्वादशे षोडशेऽह्नि। मध्ये चाह्नः पूर्वभागे न रात्राविति” यदा तु षष्ठमासादौ कर्णवेधश्चिकीर्षितः तदा तिथीनाह जगन्मोहने वशिष्ठः “द्वितीया दशमी षष्ठी सप्तमी च त्रयोदशी। द्वादशी पञ्चमी शस्ता तृतीया कर्णवेधने” इति। ज्ञेज्य शुक्रेन्दुवारे इति बुधबृहस्पतिशुक्रचन्द्रवारेषु प्रशस्तः कणवेधः यदाह जगन्मोहने वसिष्ठः “भूमिजार्कात्मजार्काणां बारान् संवर्जये त्सुधीः। जीवेन्दुजेन्दुशुक्राणां दिवसाः परिपूजिताः” इति। अथेति ओजाव्दे विषमवर्षे वा कर्णवेधः प्रशस्तः। सूर्यबले सतीत्यपि ध्येयं यदाह राजुमार्त्तण्डः “अर्केऽनुकूले शशिनि प्रशस्तेताराबले चन्द्रविवृद्धिपक्षे। अयुग्मवर्षे शुभदं शिशूनां कर्णस्य वेधं मुनयो वदन्ति” अत्र कर्णस्येत्येकवचनं ग्रहैकत्वाधिकरणन्यायेनाविवक्षितं तेन द्वयोरपि कर्णयोर्वेधः। विष्ण्विति श्रवणा धनिष्ठा- पुनर्वसुचित्रानुरा धामृगरेवत्यश्विनीपुष्यहस्तनक्षत्रैर्दशभिरुषलक्षिते काले कर्णवेधः प्रशस्तः। उक्तं हि श्रीपतिना “पौष्णवैष्णवकराश्विनचित्रापुष्यवासवपुनर्वसुप्तैत्रेः। सैन्देवैः श्रवणवेधविधानं निर्दिशन्ति मुनयो हि शिशूनाम्”। नारदेनापि “चित्रादित्याश्विविष्ण्वन्त्यरविमित्रवसूडष। समृगेज्येषु बालानां कर्ण्णवेधक्रिया हितेति” गर्गेणोत्तरात्रयमप्युक्तम्। “पुष्ये धनिष्ठास्वदितौ हरीन्दुत्वाष्ट्रे करेऽन्त्ये तिसृषूत्तरासु। दस्रे समैत्रेऽप्यथ कर्णवेधो नेष्टाश्च सर्वेऽष्टमराशिसंस्थाः” इति। अत्रैच्छिकोविकल्पः। अत्र जन्मनक्षत्रनिषेधः सर्ववादिसिद्धः। तदुक्तं दीपिकायाम् “जन्मनक्षत्रगश्चन्द्रः प्रशस्तः सर्वकर्मसु। क्षौरभेषजवादाध्वकर्त्तनेषु विवर्जयेत्” कृती च्छेदनैति धात्वर्थानुसारात् कर्त्तनशब्देन कर्णवेधो विवक्षितः। तया च स्मर्यते। “जन्मनि माति विवाहः शुभदो जन्मर्क्षजन्मराश्योश्च। अशुभं वदन्ति गर्गाः श्रुतिवेध क्षौरयात्रास्विति”। “मृतिभवनेऽष्टमस्थाने संशुद्धे सर्वग्रहवर्जिते सति। यदाह जगन्मोहने वसिष्ठः “न कश्चिदिष्टोऽष्टमराशिसंस्थस्तिथिद्वयञ्चावमसंज्ञकं चेति” अत्र विहितलग्नानि प्रयोगपारिजाते नारदेनोक्तानि। “वृषभे मिथुने मीने कुलीरे कन्यकसु च। तुलाचापे च कुर्वीत कर्णवेधं शुभावहम्। मेषश्च मकरश्चैव मध्यमा गुरुणोदितौ। सिंहवृश्चिककुम्भाश्च अधमत्वाद्विवर्जिताः” इति। अतएवोक्त वराहसंहितायाम् “लाभे तृतीये च शुभैः समेते क्रूरैर्विहीने शुभराशिलग्ने। वेध्यौ तु कर्णौ त्रिदशेज्यलग्न” इति शुभाश्चन्द्रबुधगुरुशुक्राः तेषां राशयः कर्कमिथुनकन्यावृषतुलाधनुर्मीनास्तेषामन्यतमे लग्ने क्रूरैर्विहीने सतीत्यर्थः। ग्रन्थकृद्दीपिकाकारमतमाश्रित्याह कवीति। कवीज्ययोर्लग्ने वृषतुलाधनुर्मीनानामन्यतमे लग्ने सति त्रिकोणे ५, ९, केन्द्रे १, ४, ७, १० त्र्याय ३, ११, स्थितैः शुभग्रहैस्तथा पापाख्यैर्ग्रहैररिसहजायगेहसंस्थैः षष्ठतृतीयैकादशस्थानस्थितैरुपलक्षिते तथा लग्नस्थे त्रिदशगुरौ सति कर्णवेधः शुभावहः शुभकारकः स्यात् उक्तञ्च दीपिकायाम् “सौम्यैस्त्र्यायत्रिकोणकण्टकगतैः पापैस्त्रिलाभारिगैरोजाव्दे श्रुतिवेध ईज्यसतयोर्लग्नेऽनुकूले शुभे” इति गुरु “कर्णवेधादिकार्थेषु नेष्टाः सर्तेऽष्टमस्थिताः। कर्ण्णवेधो विनिर्देश्योलग्नस्थे च वृहस्पतौ। तदभावेऽन्यकेन्द्रस्थे तदभावे त्रिकोण्णगे” इति अत्र कर्ण्णवेधप्रकारो रत्नमालायाम् “शिशीरजातदन्तस्य मातुरुत्सङ्गसर्पिणः। सौचिकोवेधयेत् कर्णौ सूच्या द्विगुणसूत्रया” कर्ण्णरन्ध्रे विशेषमाह देवलः “कर्ण्णरन्ध्रे रवेच्छाया न विशेदग्रजन्मनः। तं दृष्ट्वा विलयं यान्ति पुण्यौघाश्च पुरातनाः” शालङ्कायनः “अविद्धकर्ण्णैर्यद्भुक्तं लम्बकर्ण्णैस्तथैव च। दग्धकर्णैश्च यद्भुक्तं तद्वै रक्षांसि गच्छतीति”। कर्ण्णवेधप्रकारः कर्णव्यधविधिशब्दे वक्ष्यमाणसुश्रुतोक्तावनुसन्धेयः। विघा० पा०। श्रीधरः “हरिहरकरचित्रासौम्य पौष्णौत्तरार्य्यादितिवसुषु घटालीसिंहवर्ज्ये सुलग्ने। शशिबुधगुरुकाव्यानां दिने पर्वरिक्तारहिततिथिषु शुद्धे नैधने कर्णवेधः। सुनक्षत्रे शुभे चन्द्रे सुस्थे शीर्षोदये शुभे। दिनच्छिद्रव्यतीपातविष्टिवैधृतिवर्जिते। शिशोरजातदन्तस्य मातुरुत्सङ्गसर्पिणः। सौचिकोवेधयेत् कर्णौ सूच्य द्विगुणसूत्रया। शातकुम्भमयी सूचिर्वेधने तु शुभप्रदा। राजती वायसी वापि यथा विभवतः शुभा। सुभूमौ प्राङ्गणे रम्ये शुचो देशेऽम्वरे रवेः। सन्निधौ वेधयेत् कर्ण्णौ स्त्रीपुं सोर्वामदक्षिणौ। क्रमेण पूर्वं वेध्यौ द्वौ शिशोरायुष्यवर्द्धनौ”। अर्ण्णवेऽप्युक्तम् “शुक्लसूत्रसमायुक्तताम्रसूच्याथ वेधयेत्। वेधात् तृतीये नक्षत्रे क्षालयेदुष्णवारिणा। रोपणार्थसुशुध्यर्थं बालसंपत्तिमाप्नुयात्। एवं छिन्ने च भिन्ने च हित्वा योज्यानि योजयेत्” विष्णु धर्मोत्तरे पुष्करः “शिशोरेवाथ कर्तव्यं कर्णवेधं यथा शृणु। पूर्वाह्णे पूजनं कृत्वा केशवस्य हरस्य च। ब्रह्मणश्चन्द्रसूर्याभ्यां दिगीशानान्तथैव च। नासत्ययोः सरस्वत्या ब्राह्मणानां गवां तया। गुरूणां, मण्डलं कृत्वा तत्र दत्त्वा वरासनम्। तथोपवेशयेत्तत्र धात्री शुक्लाम्बरां तथा। अलङ्कृतं तदुत्सङ्गे बालन्धृत्वा तु सान्त्वनैः। धृतस्य निश्चलः सम्यक् कर्णयुग्मं रसाङ्कितम्। विध्येदलङ्कृते छिद्रे सकृदेवात्र लाघवात्। प्राग्दक्षिणे कुमारस्य भिषग्वामे तु योषितः। शिशोर्विवर्धनं कार्यं यावदाभरणक्षमम्। कर्णवेधदिने विप्राः सांवत्सरचिकित्सकौ। पुज्याश्च विविधा नार्य्यः सुहृदश्च तथा द्विजेति”। अत्र पुरुषकर्णरन्ध्रवृद्धिविषये पिशेषमाह हेमाद्रौ देवलः “कर्णरन्ध्रे रवेश्छाया न विशेदग्रजन्मनः। तं दृष्ट्वा विलयं यान्ति पुण्यौघाश्व पुरातनाः”। तत्प्रमाणं प्रसङ्गान्तरेणाह शङ्ख। “अङ्गुष्ठमानशुषिरौ कर्णौ न भवतोयदि। तस्मै श्राद्धं न दातव्य यदि चेद मुर भवेत् तस्य श्राद्धेऽपात्रतामाह शालङ्कायनः। “अविद्वकर्णै र्यद्भुक्तं लम्बवर्णेस्तथा च यत्। दग्धकर्णैश्च यद्भुक्त तद्वै रक्षांसि गच्छति”। विधा० पा०। तथा च कर्णबेधः संस्कारः किन्तु श्राद्धादौ पात्रतासम्पादकोऽदृष्टविशेषजनकः क्रियाभेदः इत्याकरे स्थितम्। शलाकामानं कर्णवेधनीशब्दे वक्ष्यते। अत्र कालादिप्रतिप्रसवः ज्यो० त० माण्डव्यवृहद्राजमार्त्तण्डकृत्यचिन्तामणिषु “यदापत्यद्वयं तिष्ठेत् सम्भवोऽप्यपरस्य च। षट्कर्णं तं विजानीयात् गर्हितञ्चत्रयस्य च। इत्याशङ्क्य द्वयोर्मध्ये शुद्धिर्यस्याथ वत्सरे। कर्णवेधो हितस्तस्य नात्र ज्येष्ठविचारणा। षटकर्णोत्पत्तिमाशङ्क्य भानोः शुद्ध्या समेऽपि च। कर्णौ वेध्यौ न दोषः स्यादन्यथा मरणं भवेत्”

कर्णवेधनी = स्त्री कर्ण्णोविध्यते अनया विध–करणे ल्युट् ङीप्। कर्ण्णवेधसाधने शलाकायां तन्मानादिः मदनरत्ने वृह० प०। “सौवर्णी राजपुत्रस्य, राजती विप्रवैश्ययोः। शूद्रस्य चायसो सूची मध्यमाष्टाङ्गुलात्मिका”। अस्य त्रिकाण्डप्रमाणतया शब्दकल्पद्रुमे हस्तिकर्ण्णवेधन्यर्थकतोक्तिःनालीकर्ण्णारेतिपर्य्यायोक्तिश्च प्रामादिकी। त्रिकाण्डशेषे हि “न ना गात्रावरे नाली कर्ण्णरोकन्तु वेधनीत्येव पाठस्यैव दर्शनात् कर्ण्णच्छिद्रस्य वेधनीपर्य्यायताया नालीशब्दस्य गात्रावस्पर्य्यायतायाश्च ततः प्रतीतेः हस्त्यवयवार्थकशब्दकथनप्रकरणे तत्कर्ण्णेवधन्यस्त्रपर्य्यायकथनानौचित्यात्।

कर्ण्णवेष्ट = पु० कर्णी वेष्ट्येते अनेन। १ कुण्डले। क्रोधवशासुरांशे २ द्वापरयुगीयनृपभेदे च। “गणः क्रोधवशोनाम यस्ते राजन्। प्रकीर्त्तितः। ततः संजज्ञिरे वीराःक्षिताविह नराधिपाः। मर्दकः कर्ण्णवेष्टश्च सिद्धार्थः कीचकस्तथा” भा० आ० ६७ अ०। ण्वुल्, कर्णवेष्टकोऽत्रैव। कर्ण्णवेष्टकाय हितम् छ यत् वा। कर्ण्णवेष्टकीयकर्ण्णवेष्टक्य तद्धिते सुवर्ण्णादौ त्रि०। भावे ल्युष्ट्। कर्णवेष्टन कर्णभूषणे न०। करणे ल्युट्। कुण्डले अमरः। ततः ताभ्यां सम्पादी ठक्। कार्ण्णवेष्टकिक कार्ण्णवेष्टनिक कर्णवष्टन(के)न शोभमाने त्रि० “कार्णवेष्टनिकं मुखम्” भट्टिः।

कर्णव्यधविधि = पु० कर्ण्णव्यधस्य कर्ण्णवेधस्य विधिः। सुश्रुतोक्ते कर्ण्णवेधप्रक रभेदे स च प्रकारः सुश्रुते दर्शितोयथा “अथातः कर्णव्यधबन्धविधिमध्यायं व्याख्यास्यामः। रक्षाभूषणनिमित्तं बालस्य कर्णौ विध्येते षष्ठे मासि सप्तमे वा शुक्लपक्षे प्रशस्तेषु तिथिकरणमुहूर्त्तनक्षत्रेषु कृतमङ्गलस्वस्तिवाचनं धात्र्यङ्के कुमारमुपवेश्य वालक्राडनकैः प्रलोभ्याभिसान्त्वयन् भिषग्वामहस्तेनाकृष्य कर्णं दैवकृते छिद्रे आदित्यकरावभासिते शनैः शनैर्द- क्षिणहस्तेन ऋजु विध्येत् प्रतनुकं सूच्या बहुलभारया पूर्वं दक्षिणं कुमारस्य, वामं कन्यायास्ततः पिचुवर्त्तिं प्रवेश्य सम्यक् विद्धमामतैलेन परिषेचयेत्। शोणितवहुत्वेन वेदनया वान्यदेशविद्धमिति जानीयान्निरुपद्रवतया तद्देशविद्धमिति। तत्राज्ञेन यदृच्छया विद्धासु सिरासु कालिकामर्मरिकालोहितिकासूपद्रवा भवन्ति। तत्र कालिकायां ज्वरो दाहः श्वपथुर्वेदना च भवति। मर्मरिकायां वेदना ज्वरो ग्रन्थयश्च। लोहितिकायां मन्यास्तम्भावतानकशिरोग्रहकर्णशूलानि भवन्ति। तेषु यथास्वं प्रतिकुर्वीत। क्लिष्टजिह्माप्रशस्तसूचीव्यधाद्गाढतरवर्त्तित्वाद्दोषप्रकोपादप्रशस्तव्यधाद्वा यत्र संरम्भो वेदना वा भवति तत्र वर्त्तिमुपहृत्याशु मधुकैरण्डमूलमञ्जिष्ठायवतिलकल्कैर्मधुघृतप्रगाढैरालेपयेत्तावद्यावत्सुरूढ इति सुरूढं चैनं पुनर्विध्येत् विधानन्तु पूर्वोक्तमेव। त्र्यहात्त्र्यहाच्च वर्त्तिञ्च स्थूलतरां दद्यात्परिषेकं तमेव। अथ व्यपगतदोषोपद्रवे कर्णे वर्द्धनार्थं लघुवर्द्धनकं कुर्य्यात्। भवति चात्र। एवं विवर्द्धितः कर्णश्किद्यते तु द्विधा नृणाम्। दोषतो वाभिघाताद्वा सन्धानं तस्य मे शृणु। तत्र समासेन पञ्चदशकर्ण्णबन्धनाकृतयः। तद्यथानेमिसन्धानक उत्पलभेद्यको वल्लूरक आसङ्गिमो गण्डकर्ण आहार्य्यो निर्व्वेधिमो व्यायोजिमः कपाटस न्धिकोऽर्द्धकपाटसन्धिकः संक्षिप्तो हीनकर्ण्णो वल्लीकर्ण्णो यष्टिकर्ण्णः काकौष्ठक इति। तेषु पृथुलायतसमोभय पालिर्णेमिसन्धानकः। वृत्तायतसमोभयपालिरुत्पलभेद्यकः। ह्रस्ववृत्तसमोभयपालिर्व्वल्लूरकः। अभ्यन्तरदार्घैकपालिरासङ्गिमः। बाह्यदीर्घकपालिर्गण्डकर्णः। अपालिरुभयतोऽप्याहार्य्यः। पीठोपमपालिरुभयतः क्षीणपुत्रिकाश्रितो निर्व्वेधिमः। स्थूलाणुसमविषमपालिर्व्यायोजिमः। अभ्यन्तरदीर्घैकपालिरितराल्पपालिः कपाटसन्धिकः। बाह्यदीर्घैकपालिरितराल्पपालिरर्द्धकपाटसन्धिकः। तत्र दशैते कर्णबन्धविकल्पाः साध्यास्त्रेषां स्वनामभिरेवाकृतयः प्रायेण व्याख्याताः। संक्षिप्तादयः पञ्चासाध्यास्तत्न शुष्कशष्कुलिरुत्सन्नपालिरितराल्पपालिः संक्षिप्तः। अनधिष्ठानपालिः पर्य्यन्तयोः क्षीणमांसोहीनकर्णः। तनुविषमाल्पपालिर्व्वल्लीकर्ण्णः, ग्रथितमांसस्तब्धसिराततः सूक्ष्मपालियष्टिकर्णः। निर्म्मांससंक्षिप्ताग्राल्पशोणितपालिः काकौष्ठकपालिरिति। बन्धेष्वपि तु शोथदाहरागपाकपिद्ध- कास्रवयुक्ता न सिद्धिमुपयान्ति। भवन्ति चात्र। यस्य पालिद्वयमपि कर्ण्णस्य न भवेदिह। कर्ण्णपीठं समे मध्ये तस्य विद्ध्वा विवद्धेयेत्। बाह्यायामिह दीर्घायां सन्धिराभ्यन्तरो मवेत्। आभ्यान्तरायां दीर्घायां बाह्यसन्धिरुदाहृतः। एकैवतु भवेत्पालिः स्थूला पृथ्वी स्थिरा च या। तां द्विधा पाटयित्वा तु छित्त्वा चोपरि सन्धयेत्। गण्डादुत्पाट्य मांसेन सानुबन्धेन जीवता। कर्णपालिमपालेस्तु कुर्य्यान्निर्लिख्य शास्त्रवित्। अतोऽन्यतमं बन्धं चिकीर्षुरग्रोपहरणीयोक्तोपसंभृतसम्भारं विशेषतश्चात्रोपहरेत् सुरां मण्डं क्षीरमुदकं धान्याम्लं कपालचूर्णञ्चेति। ततोऽङ्गनां पुरुषं वा ग्रथितकेशान्तं लघु भुक्तवन्तमाप्तैः सुपरिगृहीतञ्च कृत्वा बन्धमुपधार्य्य छेद्यभेद्यलेख्यव्यधनैरुपपन्नैरुपपाद्य कर्णंशोणितमवेक्षेत तद्दुष्टमदुष्टंवेति। तत्र वातदुष्टे धान्याम्लो ष्णोदकाभ्यां, पित्तदुष्टे शीतोदकपयोभ्यां, श्लेष्मदुष्टे सुरामण्डोष्णोदकाभ्यां प्रक्षाल्य कर्णौ पुनरवलिख्यानुन्नतमहीनमविषमञ्च कर्णसन्धिं सन्निवेश्य स्थितरक्तं सन्दध्यात्। ततो मधुघृतेनाभ्यज्य पिचुप्लोतयोरन्यतरेणावगुण्ठ्य सूत्रेणानपगाढमशिथिलञ्च बद्ध्वा कपालचूर्णेनावकीर्य्याचारिकमुपदिशेद्द्विव्रणीयोक्तेन विधानेनावचरेत्। भवतश्चात्र। विघदृनं दिवास्वप्नं व्यायाममतिभोजनम्। व्यवायमभग्निसन्तापं वाक्श्रमञ्च विवर्ज्ज येत्। आमतैलपरोषेकं त्रिरात्रमवचारयेत्। ततस्तैलेन संसृष्टं त्र्यहादपनयेत् पिचुम्। न चासंशुद्धरक्तमतिप्रवृत्तरक्तं वा सन्दध्यात्। स हि वातदुष्टे रक्ते रूढोऽपि परिपुटनवान्, पित्तदुष्टे दाहपाकरागवे दनावान्, श्लेष्मदुष्टे स्तब्धः कण्डूमान्, अतिप्रवृद्धरक्ते श्यावशोफवान्। क्षीणोऽल्पमांसो न वृद्धिमुपैति। स यदा सुरूढो निरुपद्रवः सवर्णो भवति तदैनं शनैःशनैरभिवर्द्धयेत्। अतोऽन्यथा संरम्भदाहपाकरागवेदनावान् पुनश्छिद्यते वा। अथास्याप्यदुष्टस्याभिवर्द्धनार्थमभ्यङ्गः। तद्यथा गोधाप्रतुदविष्किरानूपौदकवसाम ज्जानौ पयःसर्पिस्तैलं गौरसर्षपजञ्च यथालाभं सम्भृत्यार्कालर्कबलातिबलानन्तापामार्गाश्वगन्धाविदारिगन्धाक्षीरशुक्लजलशूकमधुरवर्गप्रतिवापं तैलं वा पाचयित्वा स्वनुगुप्तं निदध्यात्। स्वेदितोन्मर्दितं कर्ण्णं स्नेहेनानेन योजयेत्। अथानुपद्रवः सम्यक् बलवांश्च विवर्द्धते। यवाश्वगन्धायष्ट्याह्वैस्तिलैश्चोद्वर्त्तनं हितम्। श- तावर्य्यश्वगन्धाभ्यां पयस्यैरण्डजीवनैः। तैलं विपक्वं सक्षीरमभ्यङ्गात् पालिवर्द्धनम्। ये तु कर्णा न वर्द्धन्ते विधिनानेन योजिताः। तेषामपाङ्गदेशेषु कुर्य्यात् प्रच्छानमेव तु। बाह्यच्छेदं न कुर्व्वीत व्यापदस्तु ततो ध्रुवाः। बद्धमात्रन्तु यः कर्णं सहसैवाभिवर्द्धयेत्। आमकोशीसमाध्मातः क्षिप्रमेव विमुच्यते। जातरोमा सुवर्त्मा च श्लिष्टसन्धिः समः स्थिरः। सुरूढोऽवेदनो यस्तु तं कर्णं वर्द्धयेच्छनैः। अमिताः कर्णबन्धास्तु विज्ञेयाः कुशलैरिह। यो यथा सुनिविष्टः स्यात्तं तथा विनियोजयेत्”। एवं वेधप्रकाराभिज्ञेनैव भिषजा कर्णवेधः कारयितव्यः

कर्ण्णशष्कुली = स्त्री कर्णस्य शष्कुलीव। १ कर्णगोलके, “अवलम्बितकर्णशष्कुलीकलसीकं रचयन्नवोचत” नैष०। “कर्ण्णशष्कत्यवच्छिन्नं नभः श्रोत्रम्” मुक्ता० २ तन्मध्याकाशे च।

कर्ण्णशूल = न० ६ त०। कर्ण्णरोगभेदे। कर्ण्णगतरोगशब्दे विवृतिः

कर्ण्णशोभन = त्रि० कर्ण्णं शोभयति शुभ–णिच्–ल्यु। कर्ण्णाभरणे “उत नः कर्ण्णशोभना पुरूणि” ऋ० ८, ७८, ३,

कर्ण्णश्रव = त्रि० श्रूयते श्रवः शब्दः कर्ण्णेन श्रवः श्रवणयोम्यः शब्दोयत्र। श्रवणयोग्यशब्दधारे वय्वादौ “कर्ण्णश्रवेऽनिले रात्रौ दिवा पांशुसमूहने” मनुः।

कर्ण्णसंस्राव = पु० कर्ण्णरोगभेदे कर्ण्णगतरोगशब्दे विवृतिः।

कर्ण्णसू = स्त्री कर्ण्णं सूते सू–क्विप्। पृथायां कुन्त्याम् तत्प्रसवकथा कर्ण्णशब्दे उक्ता। कर्ण्णजनन्यादयोऽप्यत्र।

कर्ण्णस्फोटा = स्त्री कर्णे स्फोटो विदारणं यस्याः। (काणफाटा) लताभेदे राजनि०। “कर्ण्णस्फोटा कटुस्तिक्ता हिमा च परिकीर्त्तिता। सर्व्वग्रहभूतविषदोषव्याधि विनाशिनी” राजनि०

कर्ण्णस्रोतस् = न० कर्णस्य स्रोत इव। कर्म्ममले

कर्ण्णस्रोतोभव = पु० कर्णस्रोतसो विष्णुकर्णमलाद्भवति भूअच्, भवत्यस्मात् अपादाने अप् कर्णस्रोतो भवोयस्य वा। विष्णुकर्णमलोद्भूते मधुनामके कैटभनःमके चासुरे। “कर्णस्रोतो भवञ्चापि मधुं नाम महासुरम्। तमुग्रमुग्रकर्म्माणमुग्रां बुद्धिं समास्थितम्। ब्रह्मणोऽपचितिं कुर्व्वन् जघान पुरुषोत्तमः” भा० अनु० ६६ अ० यथाचास्य विष्णुकर्णादुद्भवः तथा कैटभशब्दे वक्ष्यते।

कर्ण्णहीन = त्रि० ३ त०। १ वधिरे बाधिर्य्यप्राप्तिश्च पापविशेषजन्या यथाह शाता० स०। “काकघाती कर्णहीनोदद्याद्गामसितप्रभाम्”। २ सर्पे च पुंस्त्री चक्षुःश्रवस्त्रात्तस्य तथात्वम्। स्त्रियां जातित्वात् ङीष्।

कर्णाकर्णि = पु० कर्णे कर्णेमृहीत्वा प्रवृत्तं कयनम् कर्म्मव्यतिहारे स० इच् समा०। (काणाकाणि) कर्णपरम्परया श्रवणयोग्येऽन्योन्यकथने “कर्णाकर्णि हि कपयः कथयन्ति च तत्कथाम्” रामा०।

कर्णाट = पु० “रामनाथं समारभ्य श्रीरङ्गान्तं किलेश्वरि!। कर्णाटदेश इत्युक्तो राज्यसाम्राज्यदायकः” शक्तिसङ्ग० उक्ते देशभेदे अयञ्च देशः कूर्म्मविभागे वृ० स० दक्षिणस्यामुक्तः। “अथ दक्षिणेन लङ्केत्युपक्रम्य “कर्णाटमहाटविचित्रकूटेत्वादि” “कोङ्कवेङ्कटकान् दक्षिणकर्णाटान् देशान् यदृच्छयोपगतः” भाग० ५, ६, ८, “तेषां मूर्द्ध्नि ददाति वामचरणं कर्णाटराजप्रिया” उद्भटः। कर्णाटजनपदे भवः अण्। कर्णाटभवे त्रि० स्त्रियां ङीप् “कार्णाटीचीनपीनस्तनवसनदशान्दोलनस्पन्दमन्दः” उद्भटः। बहुषु तस्य लुक्। कर्ण्णाटाः तद्देशवासिषु। तस्य राजन्थपि अण्। कार्ण्णाट तद्देशनृपे। तस्य बहुषु लुक्। एकत्वे न। “अरण्ये कार्ण्णाट त्वदरिवनितानां विधिवशात्” उद्भटः। ह्रस्वपाठे कर्ण्णाटशब्दस्य तन्नृपे लक्षणेति भेदः। २ हंसपदीलतायां स्त्री राजनि०। ३ रागिणीभेदे संगीतदामो०। सा तु मालवरागस्य भार्य्या। कर्णाटे प्रसिद्धा अण् ङीप् कार्णाटी। अनुप्रासाङ्गवृत्तिभेदे “कार्णाटी कवर्गेणानुप्रासवतीति सरस्व० तद्वाक्यञ्च अलङ्कारशब्दे ३८९ पृ० दर्शितम्।

कर्णाटक = पु० गोत्रप्रवर्त्तके ऋषिभेदे तस्य गोत्रापत्यम् इञ्। कार्णाटकि। यस्कादि० तस्यास्त्रियां बहुषु लुक्। कर्ण्णाटकास्तद्गोत्रापत्येषु। स्त्रियां तु कर्ण्णाटक्यि इत्येव

कर्णाट्ट् = न० कर्णः तिर्यग्रेखाकारवान् इवाट्टम्। गृहभेदे तन्निरुक्तिलक्षणम् “बिभिदुस्ते मणिस्तम्भान् कर्णाट्टशिखराणि च” भा० व० २६४ अ० ३० श्लोकव्याख्यायां नीलकण्ठेनोक्तं यथा। “कर्णस्तिर्यग्यानं तेन प्रकारेण यत्पाषाणादिविस्तरेण क्रियते तत्तद्गृहविशेषं कर्णाट्टमिति वदन्तितद्धि दिक्कोणस्य चतुरस्रस्योपरि विदिक्कोण चतुरस्रं तदुपरिदिक्कोणं तदुपरि पुनर्विदिक्वोणमित्येवं क्रमेणोत्तरोत्तरमल्पप्रमाणैश्चतुरस्रैः समाप्यम् इति प्रसिद्धम्”। तत्र कर्णाटेति पाठः प्रामादिकः नीलकण्ठेन कर्णाट्टपदस्यैव व्याख्यानात्।

कर्णादि = त्रि० पाणिन्युक्ते जाहच्प्रत्ययनिमित्ते १ शब्थगणे स च गणः। कर्णः अक्षि नख मुख केश पाद गुल्फ भ्रू शृङ्कदन्त ओष्ठ पृष्ठ, कर्णजाहम् अक्षिजाहमित्यादि। चतुरर्थ्यां फिञ्प्रत्ययनिमित्ते पाणिन्युक्ते २ शब्दगणे च स च गणः “कर्ण्णवसिष्ठ अर्क अर्कलूष द्रुपद आनडुह्य पाञ्चजन्य स्फिज् कुम्भी कुन्ती जित्वन् जीवन्त कुलिश आण्डीवत जव जैत्र आनक” कर्ण्णस्य सन्निकृष्टदेशादि। कार्णायनि तत्सन्निकृष्टदेशादौ त्रि०।

कर्णानुज = पु० ६ त०। युधिष्ठिरे त्रिका०।

कर्णान्द(न्दू) = पुंस्त्री कर्णस्यान्दुरिव। कर्णपालौ। हेम० (काणेरपाता)

कर्णाभरणक = पु० कर्णाभरणमिव कायति पुष् पद्वारा कै–क। आरग्बधे वृक्षे। (सोन्दाल) राजनि०

कर्णारा = स्त्री हस्तिकर्णवेधन्याम् शब्दकल्पद्रुमे त्रिकाण्डप्रामाण्येनोक्तं तच्च मूले न दृश्यते इत्युक्तं कर्णवेधनीशब्दे।

कर्णारि = पु० ६ त०। १ अर्ज्जुने कर्णजिच्छब्दे तत्कथा (आजन) २ नदीसर्ज्जवृक्षे राजनि०।

कर्णास्फाल = पु० आ + स्फुर–णिच्–स्फालादेशः ६ त०। करिणां कर्णचालने त्रिका०

कर्णि = पु० कर्ण–इन्। १ कर्णाकारफलके शरभेदे शब्दचि०। भावे इन्। २ भेदने च

कर्ण्णिका = स्त्री कर्ण–ण्वुल् कर्णे भवः अलङ्कारः इकन् अत इत्त्वम्। १ कर्णाभरणभेदे (काण्) २ करिशुण्डाग्रवर्त्तिन्यङ्गुलाकारे पदार्ये ३ पद्मवीजकोषे च अमरः। “यस्यामवस्थितः सर्व्वतः सौवर्णः कुलगिरिराजोमेरुर्द्वीपायामसमुन्नाहः कर्णिकाभूतः” भाग० ५, १६, ७, ४ क्रमुकादिवृन्तपरम्परायाम् (छडा) ५ करमध्याङ्गुलौ च मेदि०। ६ लेखन्यां हारा०। ७ अग्निमन्थवृक्षे ८ अजशृङ्गीवृक्षे च राजनि० कर्ण्णो वृद्धोऽस्त्यस्य ठन्। ९ वृद्धकर्णे त्रि०।

कर्ण्णिकाचल = पु० कर्णिकायां स्थितोऽचल। सुमेरुपर्वते हेमच०। यथा चास्य तयारूपेण स्थिति तथा कर्णिकाशब्दे” भाग० ५, १६, ७ श्लो० उक्तं तच्च कर्णिकाशब्दे उक्तम् कर्णिकापर्वतादयोऽन्यत्र।

कर्ण्णिकार = पु० कर्णिं भेदनं करोति कृ–अण् उप० स०। (गणियारी) १ वृक्षभेदे, २ आरग्बधवृक्षभेदे च (छोट सोन्दाल) शोधनरूपमलभेदकत्वात् तयोः तथात्वम्। “कर्णिकारः परिव्याधः षादपोत्पलः इत्यपि। “कर्णिकारः कटुस्तिक्तस्तुवरः शोधनो लघुः। रञ्जनः सुखदः शो थश्लेष्मास्रव्रणकुष्ठनुत्” भावप्र० गुणादि उक्तम् “षर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः” कुमा०। “अनन्तरञ्च कश्चित् कर्णिक रगौरः” दशकु०।

कर्णिकिन् = पु० कर्णिका हस्ताग्राङ्गुलिरस्त्यस्य इनि। ह- स्तिनि जटा० स्त्रियां ङीप्। २ वर्षपर्वतभेदे च शब्दचि०।

कर्णिन् = त्रि० कर्ण–अस्त्यर्थे तुन्दा० वृद्धौ वा इनि। वृद्धकर्णयुक्ते लम्बकर्णे लम्बकर्णमानन्तु विधानपारि० शङ्खलिखितावाहतुः। “हनुमूलादधः कर्णौ लम्बौ तु परिकीर्त्तितौ। कर्णौ तु द्व्यङ्गुलौ शस्ताविति शातातपोऽव्रव्रीत्”। “अर्द्धहारार्द्धकेयूरायार्द्धकुण्डलकर्णिने” भा० अनु० १४ अ०। स्त्रियां ङीप्। सा सुश्रुतोक्ते २ योनिरोगभेदे च सा च “विंशतिर्व्यापदोयोनेर्निर्दिष्टा रोगसङ्कुले” इत्युद्दिश्य “उदावर्त्ता तथा बन्ध्या–अत्यानन्दा तु या योनिः कर्णिनी चरणाद्धयम्। श्लैष्मिका सकफा ज्ञेया” इत्यादिना ता विभज्य “अर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यां तु जायते” इति लक्षिता। “वर्त्तिं प्रदद्यात् कर्णिन्यां शोधनद्रव्यसंभृताम्। प्रस्रंसिनीं घृताभ्यक्त्वां क्षीरस्विन्नां प्रवेशयेत्” सुश्रु०। ३ कुटिलावयवयुक्ते वाणभेदे पु०। “करोति कर्णिनो यस्तु यस्तु खड्गादिकृन्नरः। प्रयान्ति ते विशसने नरके भृशदारुणे” विष्णुपु० २ अं० ६ अ०। “कर्ण्णिनो वाणविशेषान्” श्रीधरः। अत्र पक्षे तुन्दा० वृद्धौ वा इलच् कर्णिलः, पक्षे ठन् कर्णिक, मतुप् मस्य वः, कर्णवत् द्व्यङ्गुलात् वृद्धकर्णे हनुभागादधोलम्बकर्णेत्रि०। मतुपि स्त्रियां ङीप्।

कर्णी = स्त्री कर्ण्ण–इन् वा ङीप्। कर्ण्णिशब्दार्थे याणभेदे तस्मिन्परे “अतः कृकमिकंसकुम्भपात्रकुशाकर्ण्णीषु” पा० अतःपर विसर्गस्य नित्यं सः। अयसा निर्मिता कर्णी अयस्कर्णीत्यादि। २ मूलदेवमातरि स्त्री कर्ण्णीसुतः।

कर्ण्णीमत् = पु० कर्णिर्वाणविशेषाकारः फलेऽस्त्यस्य मतुप्। संज्ञायां दीघः। आरग्यधे (सोदाल) शब्दचि०।

कर्ण्णीरथ = पु० कर्णः सामीप्येनास्त्यस्य कर्णी स्कन्धः तेन ई शोभा यस्य न समासान्तः कप् स चासौ रथो रथतल्यं वाहनं कर्म्म०। स्कन्धवाह्ये याने (पालकी) इत्यादौ। शब्दचि० तु अन्या व्युत्पत्तिर्दर्शिता यथा। कर्ण्णसाध्यक्रिया उपचारात् घर्णःकर्णोऽस्यास्ति इनि। कर्णी चासौ रथश्च। शब्दमात्रेण रथो न वस्तुतो रथः। यद्वा सामीप्यात् कर्णशब्देन स्कन्यो लक्ष्यते सोऽस्यास्ति वाहनत्वेन इनि कर्णी चासौ रथश्च। उभयत्र अन्येषामपीति पा० दीर्घः इति”। “कर्णीरथस्थां रघुवीरपत्नीम्” रघुः।

कर्ण्णीसुत = पु० ६ त०। मूलदेवे त्रिका० हारा० च। स च कंसासुरः इति शब्दकल्पद्रुमः तन्मूलं मृग्यं कंसस्य कर्णीमातृकत्वाभावात् काद० टीकायामुक्तस्तेयशास्त्रप्र- वर्त्तकमूलदेवस्यैव तन्नाम न तु उग्रसेनजस्य नाम। अतएव “कर्ण्णीसुतकथेव सन्निहितविपुलाचला” काद० व्या० “कर्णीसुतः करटकः स्तेयशास्त्रप्रवर्त्तक्वः। तस्य ख्याती सखायौ द्वौ विपुलाचलसंज्ञकौ” टी० उक्तम्। “कर्णीसुतप्रहिते च पथि मतिमकवरम्” दशकु०।

कर्ण्णेचुरचुरा = स्त्री पात्रेसमिता० समासः। (काण्फुसलान) कर्णेजपने। युक्तारोह्या० अस्याद्युदात्तता। एवं कर्णेटिरटिरा अपि तत्रार्थे तथा द्युदात्तता च।

कर्ण्णेन्दु = पु० कर्णे इन्दुरिव। अर्द्धचन्द्राकृतिकर्णालङ्कारभेदे शब्दर०।

कर्ण्णोपकर्ण्णिका = स्त्री कर्णादुपकर्णोऽस्त्यस्याः ठन् अत इत्त्वम्। (काणाकाणि) परस्यरश्रवणरूपे प्रवादे “प्रागेव कर्णोपकर्णिकया श्रुतापवादक्षुभितह्रदयः” पञ्चत०।

कर्ण्णोर्ण्ण = पु० कर्णे उर्णाधिकं लोम यस्य। मृगमेदे। “कर्णोर्णैकपदश्वास्यैर्निर्जुष्टं वृकनाभिभिः” भाग० ४, ६, १५,

कर्ण्य = त्रि० कर्णे भवः शरीरावयत्वात् यत्। १ कर्णभवे मलादौ। कर्ण–कर्मणि यत् २ भेद्ये च।

***