कर = पु० कीर्य्यते विक्षिम्यतेऽनेन कॄ–करणे अप्। १ हस्ते हस्तिशुण्डे च तयोर्जलादिक्षेपसाधनत्वात् तथात्वम् २ कर्म्मणि अप्। ३ किरणे मेदिनिः। तत्र हस्तकिरणयोः “प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता। अवलम्बनाय दिनभर्त्तुरभूपन्न पतिष्यतः करसहस्रमपि” “स्थितः कराग्रैरसमग्रपातिभिः” माघः। हस्ते “केशान्नीवीमधः कायं संस्पृशेत् धरणीमपि। यदि स्पृशति चैतानि भूयःप्रक्षलयेत् करम्” आ० त० देवलः नेत्यनु- वृत्तिः “वामः काञ्चनपिञ्जरे नृपकराग्भोजैन्तनूमार्ज नम्” उद्भटः। “तथा वामकरे दश” मनुः। कंसुखं राठि रा क। ४ राजग्राह्ये राजस्ये तत्र राजग्राह्यहस्तयोः “असम्भवद्घनरसा शतालिपरिषेविता। करं न सहते राजन्! भूभिर्नवबधूरिव”। “तन्वि तव कुचावेतौ नियतं चक्रवर्त्तिनौ। आसमुद्रक्षितीशोऽपि भवान् यत्र करप्रदः” उद्भटः। यथा च राज्ञा करनिवेशनं राष्ट्रे करणीयं तथा मनुनोक्तम् यथा “क्रयविक्रयभध्वानं भक्तञ्च सपरिव्ययम्। योगक्षेमञ्च सम्प्रेक्ष्य बणिजो दापयेत् करान्। याथा फलेन युज्येत राजा कर्त्ता च कर्म्मणाम्। तथावेक्ष्य नृपो राष्ट्रे कल्पयेत् सततं करान्। यथाल्पाल्पमदन्त्याद्यं वार्य्योकोवत्सषट्पदाः। तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाव्दिकः करः। पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ड्ययोः। धान्यानामष्टमो भागः षष्ठो द्वादश एव वा। आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम्। गन्धौषधिरसानाञ्च पुष्पमूलफलस्य च। पत्रशाकतृणानाञ्च वैदलस्य च चर्म्मणाम्। मृण्मयानाञ्च भाण्डानां सर्व्वस्याश्ममयस्य च। म्रियमाणोऽप्याददीत नराजा श्रोत्रियात् करम्। न च क्षुधाऽस्य संसीदेच्छ्रोत्रियो विषये वसन्। यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा। तस्यापि तत्क्षुधा राष्ट्रमचिरेणैव सीदति। श्रुतवृत्ते विदत्वाऽस्य वृत्तिं धर्म्म्यां प्रकल्पयेत्। संरक्षेत् सर्व्वतश्चैनं पिता पुत्त्रामिवौरसम्। संरक्ष्यमाणो राज्ञा यं कुरुते धर्म्ममन्वहम्। तेनायुर्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च। यत्किञ्चिदपि वर्षस्य दापयेत् करसंज्ञितम्। व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम्। कारुकान् शिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः। एकैकं कारयेत् कर्म्म मासि मासि महीपतिः। नोच्छिन्द्यादात्मनोमूलं परेषाञ्चातितृष्णया। उच्छिन्दन् ह्यात्मनो मूलमा त्मानं तांश्च प्रीडयेत्” व्याख्यातञ्चेदं कुल्लूकभट्टेन “क्रयविक्रयमित्यादि। कियता मूल्येन क्रीतमिदं वस्त्रलवणादि द्रव्यं विक्रीयमाणञ्चात्र कियल्लभ्यते कियद्दूरादानीतं किमस्य बणिजो भक्तव्ययेन शाकसूपादिना परिव्ययेन लग्नं किमस्यारण्य दौ चौरादिभ्योरक्षयः रूपेण क्षेमप्रतिविधानेन गतं, कोऽस्य इदानीं लाभयोगैत्येतदवेक्ष्य बणिजः करान् दापयेत्। यथेति। यथा राजाऽवेक्षणादिकर्म्मणः फलेन, यथा च कार्षिकबणिगादा- कृषिबाणिज्यादिकर्म्मणां फलेन सम्वध्यते। तथा निरूप्य राजा सर्व्वदा राष्ट्रात् करान् गृह्णीयात्। अत्र दृष्टान्तमाह यथेथादि। यथा जलौकोवत्सभ्रमराः स्तोकस्तोकानि रक्ततीरलधूनि अदन्त्येवं राजा मूलधनमनुच्छिन्दताऽल्पोऽल्पोराष्ट्रादाव्दिकः करो ग्राह्यः। तमाह पञ्चाशद्भागो राज्ञा ग्रहीतव्यः। एव धान्यानां षष्ठोऽष्टमो द्वादशो वा भागी ग्राह्यः भूम्यु त्कर्षापकर्षापेक्षया कर्षणादि क्लेशलाघवगौरवापेक्षोऽयं बह्वल्पग्रहणविकल्पः। आददीतेत्यादि। पत्रशाकतृणानामित्यादि। द्रुशब्दोऽत्र वृक्षवाचकः वृक्षादीनां अश्ममयान्तानां षष्ठोभागो लाभाद्ग्रहीतव्यः। म्रियासाणैति। क्षीणधनोऽपि राजा श्रोत्रियब्राह्मणात् करं न गृह्णीयात् न च तदीयदेशे वसन् श्रोत्रियः बुभुक्षया अवसादं गच्छेत्। यस्मात् यस्येत्यादि। यस्य राज्ञो देशे श्रोत्रियः क्षुधाऽवसन्नो भवति तस्यराष्ट्रमपि दुर्भिक्षादिभिः क्षुधा शीघ्रमवमादं गच्छति। यत एवमतः श्रुतेति। शास्तज्ञानानुष्ठाने ज्ञात्वा अस्य तदनुरूपां धर्म्मादनपेतां जीविकामुपकल्पयेत् चौरादिभ्यश्चैनम् औरसं पुत्त्रमिव पिता रक्षेत्। यस्मात् संरक्ष्यमाणैत्यादि। स च श्रोत्रियो राज्ञा सम्यग्रक्ष्यमाणो यं धर्म्मं प्रत्यहं करोति तेन राज्ञ आयुर्द्धनराष्ट्राणि वर्द्धन्ते। यदिति। राजा स्वदेशशाकपर्णादिस्वल्पमूल्यवस्तुक्रयविक्रयादिना जीवन्तं निकृष्टजनं स्वल्पमपि कराख्यं वर्षेण दापयेत्। कारुकानिति। कारुकान् सूपकारादीन् शिल्पिभ्य ईषदुत्कृष्टान् शिल्पिनश्च लोहकारादीन् शूद्रांश्च देहक्लेशोपजीविनो भारिकादीन् मासि मास्येकं दिनं कर्म्म कारयेत्। नोच्छिन्द्यादिति। प्रजास्नेहात् करशुल्कादेरग्रहणमात्मनो मूलोच्छेदः अतिलोभेन प्रचुरकरादिग्रहणे परेषां सूलोच्छेदः एतदुभयं न कुर्य्यात् यस्मात् आत्मनो मूलमुच्छिद्य कोषक्षयादात्मानं पीडयेत्। पूर्ब्बार्द्धात् परेषाञ्चेत्यपि संबध्यते परेषां मूलमुच्छिद्य तांश्च पीडयेत्”। भार० शा० ८७ अ० विस्तरेणोक्तं यथा “विक्रयं क्रयमध्वानं भक्तञ्च सपरिच्छदम्। योगक्षेमञ्च सम्प्रेक्ष्य बणिजां कारयेत करान्। उत्पत्तिं दानवृत्तिञ्च शिल्पं संप्रेक्ष्य चासकृत्। शिल्पं प्रति करानेवं शिल्पिनः प्रति कारयेत्। उच्चावचकरा दाप्याः महाराज्ञा युधिष्ठिर। यथा यथा न सीदेरंस्तथा कुर्य्यान्महीपतिः। फलं कर्म्म च सम्प्रेक्ष्य ततः सर्व्वं प्रकल्पयेत्। फलं कर्म्म च निर्हेतु न कश्चित् संप्रवर्त्तते। यथा राजा च कर्त्ता च स्यातां कर्म्मणि भागिनौ। समवेक्ष्य तथा राज्ञा प्रणेयाः सततं कराः। नोच्छिद्यादात्मनो मूलं परेषाञ्चापि तृष्णया। ईहाद्वाराणि संरुध्य राजा सम्प्रतिदर्शनः। प्रद्विषन्ति परिख्यातं राजानमतिखादिनम्। प्रद्विष्टस्य कुतः श्रेयो नाप्रियो लभते फलम्। वत्सौपम्येन दीग्धब्यं राष्ट्रमक्षीणबुज्द्धिना। भूतो वत्सोजातबलः पीडां सहति भारत!। निकायं कुरुते वत्सो भृशं दुग्धो युधिष्ठिर!। राष्ट्रमप्यतिदुग्धं हि न कर्म्म कुरुते महत्। यो राष्ट्रमनुगृह्णाति परिरक्षन् स्वयं नृपः। सञ्जातमुपजीवन् स लभते न महत् फलम्। आपदर्थञ्च निर्यातं राजा न इह विन्दते। राष्ट्रञ्च कोषभूतं स्यात् कोषो बेश्मगतस्तथा। पौरजानपदान् सर्व्वान् संश्रितोपाश्रितांस्तथा। यथाशक्त्यनुकम्पेत सर्व्वान् स्वल्पधनानपि। बाह्यं जनं भेदयित्वा भोक्तव्यो भध्यमः सुखम्। एवं नास्य प्रकुप्यन्ति जनाः सुखितदुःखिताः। प्रागेव तु धनादानमनुभाष्य ततः पुनः। सन्निपत्य स विषये भयं राष्ट्रेषु दर्शयेत्। इयमापत् समुत्पन्ना परचक्रभयं महत्। अपि चान्ताय कल्पन्ते वेणोरिव फलागमः। अरयो मे समुत्याय बहुभिर्दस्युभिः सह। इदमात्मबघायैव राष्ट्रमिच्छन्ति बाधितुम्। अस्यामापदि घोरायां सम्पाप्ते दारुणे भये। परित्राणाय भवतः प्रार्थयिष्ये धनानि वः। प्रतिदास्ये च भवतां सर्व्वञ्चाह भयक्षये। नारयः प्रतिदास्यन्ति यद्धरेयुर्ब्बलादितः। कलत्रमादितः कृत्वा सर्व्वं वो विनशेदिति। अपि चेत् पुत्त्रदारार्यमर्थसञ्चय इष्यते। नन्दामि वः प्रभावेण पु त्त्राणामिव चोदये। यथाशक्त्यु पगृह्णामि राष्ट्रस्यापीडय च वः। आपत्स्वेव हि वोढव्यं भवद्भिः पुङ्गवैरित। न प्रियं सततं कार्य्यं धनं कस्याञ्चिदापि। इति वाचा मधुरया श्लक्ष्णया सोपचारया। स्वरश्मीनभ्यवसृजेद्योग माधाय कालवित्। प्राकारं भृत्यभरणं व्ययं सङ्ग्रा मतो भयम्। योगक्षेमञ्च सम्प्रेक्ष्य गोमिनः कारयेत् क रम्। उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः। तस्मात्तेषु विशेषेण मृदुपूर्व्वं समाचरेत्। सान्त्वनं रक्षणं दानमवस्था चाप्यभीक्ष्णशः। गोमिनां पार्थ! कर्त्तव्यः संभागश्च प्रियाणि च। अजस्रमुपयोक्तव्यं फलं गोमिषु भारत!। प्रभावयन्ति राष्ट्रञ्च व्यवहारं कृषिन्तथा। तस्माद्गोमिषु यत्नेन प्रीतिं कुर्य्याद्विचक्षणः। दयावानप्रमत्तश्च करान् सम्प्रणयेन्मृदून्। सर्व्वत्र क्षेमचरणं सुलभं नाम गोमिषु। न ह्यतः सदृशं किञ्चिद्वरमस्ति युधिष्ठिर!”। “मधुदीहं दुहेद्राष्ट्रं भ्रमरा इव पादपम्। वत्सापेक्षो दुहेच्चैव स्तनांश्च न विकुट्टयेत्। जलौकावत् पिबेद्राष्ट्रं मृदुनैव नराधिपः। व्याघ्रीव च हरेत् पुत्त्रान् सन्दंशेन्न च पीडयेत्। यथा शल्यकवानाखुः पदं धूनयते सदा। अतीक्ष्णेनाप्यायेन तथा राष्ट्रं समापिबेत्। अल्पेनाल्पेन देयेन वर्द्वमानं प्रदापयेत्। ततो भूयस्ततो भूयः क्रयवृद्धिं समाचरेत्। दमयन्निव दम्यानि शश्वम्भारं विवर्द्धयेत्। पृदुपूर्व्वं प्रयत्नन पाशान्भ्यवहारयेत्। सकृत्पाशावकीर्णास्तेन भविष्यन्ति दुर्द्दमाः। उचितेनैव भोक्तव्या न भविष्यन्ति यत्नतः। तस्मात् सर्वसमारम्भो दुर्लभः पुरुषं प्रति। यथामुख्याम् सान्त्वयित्वा भोक्तव्य इतरो जनः। ततस्तान् भेदयित्वा तु परस्परविवक्षितान्। भुञ्जीत सान्त्वयंश्चैव यथासुखमयत्नतः। न चास्थाने न चाकाले करांस्तेभ्यो निपातयेत्। आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि” ९० अ०। प्रजाभ्यः करादानप्रकारः रक्षा शब्दवक्ष्यमाणप्रकारवत् मनूक्तोऽनुसन्धेयः। अतएव सा० कौ० “यथा हि ग्रामाध्यक्षाः कौटुम्बिकेभ्य करमादाय विषयाध्यक्षाय प्रमच्छन्ति विषयाध्याक्षश्च सर्व्वाध्यक्षाय स च भूपतये” इत्युक्तम्। ६ हस्ताकारे हस्तनक्षत्रे। हेत्वादौ कर्म्मोपपदे कृ–कर्त्तरि ट। तत्तत्कर्मकारके त्रि० यथा कर्म्मकरः श्रेयस्करः यशस्करः स्त्रियां ङीप् कर्म्मकरी दासी यशस्करी विद्येत्यादि। दिवाविभादिपूर्वात् अहेत्वादावपिट। तत्तदुपपदार्थकारके त्रि० तानि च “दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दीकिमलिपिलिबिलिभक्तिकर्त्तृचित्रनक्षत्रसंख्याजङ्घाबह्वहर्द्धनुररुषषु” पा० दर्शितानि दिवाकरः निशाकरः। अहेत्वादावितोऽन्यत्र अण्। कुम्भकार इत्यादि।

करक = पु न० किरति विक्षिपति करोति वा जलमत्र कॄ–कृ–वा कृञादि० संज्ञायां बुन्। कमण्डलौ “उपवीतमलङ्कारं स्रजं करकमेव च” मनुः २ दाडिमदृक्षे ३ पक्षिभेदे पुंस्त्री स्त्रियां जतित्वात् ङीष्। ४ मेघोपले (शिला) पुंस्त्री। करकोद्भवाकारणं तज्जलगुणाश्च भावप्र० दर्शिताः यथा। “दिव्यवाय्वग्नि योगात् संहताः स्वात् पतन्ति याः। पाषाणखण्डवच्चापस्ताः कारिक्योऽमृतोपमाः। करकाजं जलं रूक्षं विशदं गुरु सुस्थिरम्। दारुणं शी- तलं सान्द्रं पित्तहृत् कफवातकृत्”। (लाटा) ५ करञ्जभेदे रत्नमा० स्वार्थेकन्। ६ राजकरे ७ हस्ते च। ८ पलाशवृक्षे हारा०। ९ कोविदारवृक्षे १० बकुलवृक्षे ११ करीरे १२ नाकेलास्थ्नि च(माला) पु० राजनि०।

करकङ्कणन्याय = पु० कङ्कणशब्दस्य करभूषणार्थकत्वेऽपि यथा करशव्दप्रयोगस्तत्काले तत्संलग्नताद्योतनार्थः तद्रूपदृष्टान्तसूचक न्याये।

करकच = पु० “शनिभार्गवजोवज्ञकुजसोमार्कवासरे। षष्ठ्यादिति थयः सप्त क्रमात् करकचाः स्मृताः” ज्यो० उक्ते योगभेदे। तथा च शनौ षष्ठी, शुक्रे सप्तमी, गुरौ अष्टमी, बुधं नवमी, कुजे दशमी, सीमे एकादशी, रवौ द्वादशी तिथिः करकच इत्यर्थः।

करकच्छपिका = स्त्री कच्छपस्तदाकारोऽस्त्यस्याः ठन् करे हस्ते स्थिता कच्छपिका। अङ्गुलिसन्निवेशभेदरूपायां कूर्म्ममुद्रायाम्। “करकच्छपिकां कुर्य्यात् कूर्म्ममन्त्रेण साधकः। तत्र संस्कृतपुष्पेण पूजयेदात्मनो वपुः” कालि कापु० ५६ अ०।

करकण्टक = पुंन० करस्य कण्टक इव। नखे त्रिका०।

करकपात्रिका = स्त्री करकः कनण्डु रूपा पात्रिका। कमण्डलुरूपपात्रे।

करकाज = न० करकातो जायते जन–ड। करकाभवे जलेकरकशब्दे भावप्र० वाक्यमुक्तम्।

करकाम्भस् = पु० करकाया इव शीतलमम्भोऽस्य। नारिकेले त्रिका०। तज्जलस्यातिशीतत्वात्तथात्वम्। ६ त० तदीयजले न०।

करकायु = पु० धृतराष्ट्रपुत्रभेदे। “उग्रायुघोवलाकी च करकायुर्विरोचनः” भा० आ० ३९ अ०।

करकासार = पु० ६ त०। शिलावृष्टौ

करकुद्मल = न० करः कुद्मलमिव। मुकुलिताङ्गुलौ करे कर मुकुलकवकलशकरकोषादयोऽप्यत्र।

करग्रह = पु० करो गृह्यतेऽत्र ग्रह–आधारे अप्। विवाहे तत्र करग्रहणेनैव हि संस्कारो विधीयते इति तस्य तथात्वम्। ६ त०। २ हस्तधारणे ३ प्रजाभ्यः करादाने च पाणिग्रहकरग्रहणादयोऽप्युभयत्र।

करग्रहारम्भ = पु० करग्रहस्य प्रजाभ्यः करादानस्यारम्भः। (पुण्या) वार्षिककरग्रहणारम्भे। करग्रहारम्भदिकनक्षत्रादिकं प्रसङ्गादुच्यते “तीक्ष्णोग्रवह्नीतरभेषु लग्ने शीर्षोदये भानुदिने शुभाहे। कुर्यादनुक्तानि समीहितान करग्रहारम्भमपि प्रजाभ्यः” ज्यो० तुत्र तीक्ष्णगणाः ६, ९ १८, १९ आर्द्रादयः, उग्रगणाः पूव्वात्रयमघाःवह्निः कृत्तिका तदितरेषु नक्षत्रेषु। शीर्षोदयाः मिथुनसिंहकन्यातुलावृश्चिककुम्भमीना तादृशे लग्ने।

करग्राह = पु० करं गृह्णाति ग्रह–अण्। १ पत्यौ भर्त्तरि २ हस्तग्राहकमात्रे ३ राजस्वादायके च त्रि०। णिनि। करग्राहीत्यप्युभयत्र स्त्रियां ङीप् पाणिग्राहादयोऽप्यत्र

करघर्षण = पु० कराभ्यां घृष्यते घृष–कर्मणि ल्युट्। दधिमन्थनदण्डे हारा०। मावे ल्युट् ३ त०। करेण घर्षणे न०।

करङ्क = पु० कीर्य्यते जलमत्र कॄ–अप् करोऽङ्को गर्भोऽस्य शक०। १ नारिकेलास्थ्नि (खोल्), २ कमण्डलौ ३ पात्रभेदे च “ताम्बुलकरङ्कवाहिनी” काद०। कस्य शिरसः रङ्कैव (माथारखुली), ४ मस्तकखर्परे मेदिनिः। ५ इक्षुभेदे राज०।

करङ्कशालि = पु० करङ्कैव शालते शाल–इन्। इक्षुभेदे। राजनि०।

करच्छद = पु० कर इवावरकश्छदोऽस्य। १ शाखोटवृक्षे (सिहडा) २ सिन्दूरपुष्पीवृक्षे च राजनि०।

करज = पु० करे जायते जम–ड। १ नखे “न च्छिन्द्यात् करजैस्तृणम्” मनुः। तन्नामनामके २ व्याघ्रनखाख्यगन्धद्रव्ये च (नखो)। मेदिनिः। ३ हस्तजातमात्रे त्रि०। कं शिरः जलं वा रञ्जयति रन्ज–णिच्–अण् नि०। (करमचा) ४ करञ्जवृक्षे। अमरः।

करजाख्य = न० करजस्यनखस्याख्या आख्या यस्य। नखीनामगन्दद्रव्ये रत्नमा०।

करजोडि = पु० कुटा० जुड–बन्धे इन् बा० गुणः। (हातजोडा) वृक्षभेदे राजनि०।

करञ्ज = पु० कं शिरः जलं वा रञ्जयति अण्। (करकचा) इति ख्याते वृक्षे। करञ्जपर्य्यायगुणादि भावप्र० उक्तं यथा। “करञ्जो नक्तमालश्च करजश्चिरविल्वकः। घृतपूर्णकरञ्जोऽन्यः प्रकीर्यः पूतिकोऽपि च। स चोक्तः पूतिकरजः सोमवल्कश्च स स्मृतः। करञ्जःकटुकस्तीक्ष्णो वीर्य्योष्णोयोनिदोषहृत्। कुष्ठोदावर्त्तगुल्मार्शो व्रणकृमिकफापहः। तत्पत्र कफवातार्शःकृमिशोथहरं परम्। भेदनं कटुकं पाके वीर्य्योष्णं पित्तलं लघु। तत्फलं कफवातघ्नं मेहार्शःकफकृमिकुष्ठजित्। घृतपूतिकरञ्जोऽपि करञ्जसदृशो गुणैः”। उदकीर्य्यपर्य्याये तु स्त्रीत्वमपि गौरा० ङीष्। प्रावप्र० “उदकीर्य्यस्तृतीयोऽन्यः षड्ग्रन्थाहस्तिवारुणो। मर्क्कटो वायसी चापि करञ्जी करभञ्जिका”। तद्गुणाश्च तत्रैवोक्ताः “करञ्जी स्तम्भनी तिक्ता तुवरा कटुकाशिनी। वीर्य्योष्णा वमिपित्तार्शःकृमिकुष्ठप्रमेहजित्”। तत्तैलगुणाश्च। “करञ्जतैलं सुस्निग्धं वातहृत् स्थिरदीप्तिकृत्। नेत्रामयवातरोगकुष्ठकण्डूविसूचिकाः। नाशयेत्तीक्ष्णमु- ष्णञ्च लेपनाच्चर्मदोषहृत्” राजनि०। स्वार्थे कन् करञ्जकोऽप्यत्र पु० “यस्तु प्तंवत्सरं पूर्णं दीपं दद्यात् करञ्जके। सुवर्चलामृलहस्तः प्रजा तस्य विवर्द्धते” मा० आनु० १२७ अ०। अन्यमते करञ्जभेदाश्चत्वारः। (डहरकरमचा) (लाटाकरजा) (का~टाकरमचा)” (अम्रकरमचा) इति भाषाप्रसिद्धनामभेदात् “यत् पर्ण्णपघ्न उत वा कवञ्जहे” ऋ० १०१ ०४८, ८।

करञ्जफल = पु० करञ्जस्य फलमिवाम्लं फलं यस्य। कपित्थे (कण्तबेल) राजनि०।

करट = पु० किरति मदम्–कॄ–अट्न्। १ गजगण्डे “कथं प्रभिन्नकरटं हस्तिनं वनगोचरम्। उपस्थाय महाभागं करेणुः शूकर स्पृशेत्” भा० व० १७७। हस्तिगण्डे स्त्रीत्वमपि। “ईषादण्डं महानागं प्रमिन्नकरटामुस्वम्। शशकीह्रयसे युद्धे कर्ण! पार्थं धनञ्जयम्” भा० क० ३९ अ० स्त्रीत्वप्रमोगात्। २ काके पुंस्त्री अमरः। स्त्रियां ङीष्। “वरमिह गङ्गातीरे शरटः करटः कृशः शुनीतनयः” गच्छास्त० ३ कुसुम्भवृक्षे पु० ४ निन्द्यजीविनि त्रि०। स्त्रियां करटा। ५ नवश्राद्धे एकादशादिकर्त्तव्ये श्राद्धे ६ दुर्दुरूढे दुरुच्छेद्यसतके वादिनि नास्तिकभेदे दुर्दम्ये च ७ वाद्यभेदे च पु० मेदि०। दुर्दूरूढक्षत्रियभेदाभिप्रायेण “मालवाः माल्लवाश्चैव तथैवापरमल्लवाः। कुलिन्दाः कालकाश्चैव कुण्डकाः करटास्तथा” भा० भी० ९ अ०। आहर करट इत्युच्यतेऽत्र कर्मणि आहरशब्देनास्य। मयू० स०। आहरकरट तथा विधे कर्मणि। ८ दुःखेन दोह्यायां गवि हेमच०। स्वार्थेकन्। काके पुंस्त्री शब्दर० स्त्रियां ङीष्। ९ स्तेयशास्त्रप्रवर्त्तके कर्ण्णीसुते पु० “कर्ण्णीसुतः करटकः स्तेयशास्त्रप्रवर्त्तकः। तस्याख्यातौतखायौ द्वौ विपुलाचलसंज्ञकौ” काद०टीका।

करटिन् = पु० करटोऽस्त्यस्य प्राशस्त्येन करट + इनि। गजे “दिगन्ते श्रूयन्ते मदमनिलगण्डाः करटिनः” रसगङ्गा०

करटु = पु० कृ–कटु। (करकटिया) इति नामके विहगे। हेम०

करण = न० क्रियतेऽनेन कृ–करणे ल्युट्। १ व्याकरणोक्ते साधकतमे कारकभेदे “क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम्। विवक्ष्यतेयदा यत्र करणं तत् तदा स्मृतम्” हरिका०। विवक्ष्यते इत्यनेनान्यस्यापि विवक्षायां करणत्वम् भवतीति सूचितम्। अतएवाह “स्थाल्या पच्यते इत्येष प्रयोगो दृश्यते यतः” “साधकतमं करणम् पा०। तमब्ग्रहणेनाव्यवहितव्यापारवत्त्वं सूचितम्। सत्यपि हेतुकरणयोःर्जनकत्वसाम्ये क्रियामात्रविषयत्वं व्यापारवत्त्वं च करणस्य विशेषः तदुक्तं “द्रव्यादिविषयोहेतुः करणं चरितक्रियम्”। चरितक्रियं व्यापारद्वारा क्रियामात्रविषयम इत्यर्यः। “स्वराणामूष्मणाञ्चैव विवृतं करणं स्मृतम्” शिक्षा। “भिषक् कर्त्ताथ करणं रसादोषाश्च कारणम्” सुश्रु०। “न तस्य कार्य्यं करणञ्च विद्यते” श्रुतिः २ इन्द्रिये अमरः तस्य ज्ञानक्रियायाम् साधनत्वात्तथात्वम्। यथा च इन्द्रियाणां ज्ञानक्रियायां साधनत्वं तथा इन्द्रियशव्दे उक्तेम्। तच्च सांख्ये त्रयोदशविधमित्युक्त्वा तेषां मध्ये अन्तःकरणानां द्वारित्वमितरेषां द्वारत्वमुक्तं यथा सां० का० कौ० “करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम्। कार्यञ्च तस्य दशधाहार्यं धार्यं प्रकाश्यञ्च” का० “करणं त्रयोदशविधमिन्द्रयाण्येकादश बुद्धिरहङ्कारचेति त्रयोदशप्रकारं करणं कारकविशेषः करणम्। न च व्यापारावेशं विना कारकत्वमिति व्यापारमाह तदाहरणधारणप्रकाशकरम् यथायथं तत्र कर्मोन्द्रियाणि वागादीन्याहरन्ति यथास्वमुपाददते स्वव्यापरेण प्राप्नुवन्तीति यावत् बुद्ध्यहङ्कारमनांसि तु स्ववृत्त्या प्राणादिलक्षणया धारयन्ति, बुद्धीन्द्रियाणि प्रकाशयन्ति। आहरणधारणादिक्रियाणां सकर्मकतया किं कर्म, कतिविधं? चेत्यत आह कार्य्यञ्च तस्येति तस्य त्रयोदशविधस्य करणस्य दशधा आहार्य्यं धार्य्यं प्रकाश्यञ्च कार्य्यम्। आहार्य्यं व्याप्यं कर्म्मोन्द्रियाणां वचनादानविहरणोतसर्गानन्दा यथा यथं व्याप्याः ते च यथायथं दिव्यादिव्यतया दश इत्याहार्य्यं दशधा। एवं धार्थ्यम् अप्यन्तः करणादि लक्षणया वृत्त्या शरीरं, तच्च पार्थिवादि पाञ्चभौतिकं शब्दादीनां पञ्चानां समूहः पृथिवीति, ते च पञ्च दिव्यादिव्यतया दशेति धार्य्यभपि दशधा। एवं बुद्धीन्द्रियाणां शब्दस्पर्शरूपरसगन्धा यथायथं व्याप्याः ते च यथायथं दिव्यादिव्यतया दशेति प्रकाशामपि दशधेति” कौ० “अन्तःकरणं त्रिबिधं दशधा बाह्यं त्रयस्य विषयाख्यम्। साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम्” का० “कन्तःकरणं त्रिविधं बुद्धिरहङ्कारोमन इति शरीराभ्यन्तरवृत्तित्वादन्तःकरणम्। दशधा बाह्यमिन्द्रियं त्रयस्यान्तःकरणस्य विषयाख्यं विषयमाख्याति विषयसङ्कल्पांभमानाध्यवसा येषुकर्त्तव्येषु द्वारीभवति तत्र बुद्धीन्द्रियाण्यालोचनेन, कर्मेन्द्रियाणि तु यथास्वं व्यापारेण। बाह्यान्तरयोः करणयोर्विशेषान्तरमाह साम्प्रतकालं बाह्यं त्रिकालमाभ्य- न्तरं करणम्, साम्प्रतकालं वर्त्तमानकालं बाह्यमिन्द्रियं वर्त्तमानसमीपमनागतमतीतमपि वर्त्तमानम् अतो वागपि वर्त्तमानकालविषया भवति। त्रिकालमाभ्यन्तरं करणं तद्यथा नदीपूरभेदादभूद्वृष्टिः अस्ति धूमादग्निरिह नगनिकुञ्जे, असत्युपघातके पिपीलिकाण्डसञ्चरणाद्भविष्यति वृष्टिरिति, तदनुरूपाश्च सङ्कल्पाभिमानाध्यवसाया भवन्ति। कालश्च वैशेषिकाभिमत एको न अनागतादिव्यवहारभेदं प्रबर्त्तयितुमर्हतीति तस्मादयं यैरुपाधिभेदैरनागतादिभेदं प्रपद्यते सन्तु तएबोपाधयोऽनागतादिव्यबहारहेतवः, कृतमत्रान्तर्गडुनाकालेनेति सांख्याचार्य्याः। तस्मान्न कालरूपतत्त्वान्तराभ्युपगम इति” कौ० साम्प्रतकालानां बाह्येन्द्रियाणां विषयं विवेचयति। “बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि। वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि” का० “बुद्धीन्द्रियाणि तेषां दशानामिन्द्रियाणां मध्ये पञ्च विशेषाविशेषविषयाणि विशेषाः स्थूलाः शब्दादयः शान्तघोरमूढाः पृथिव्यादिरूपाः, अविशेषास्तन्मात्राणि सूक्ष्माः शब्दादयः विषयग्रहणेन भूतभाविनावपाकरोति विशेषाश्चाविशेषाश्च विशेषाविशेषास्तएव विषया येषां बुद्धीन्द्रियाणां तानि तथोक्तानि। तत्रोर्द्ध्वस्रोतसां योगिनाञ्च श्रोत्रं स्थूलशब्दत्रन्मात्रविषयं, स्थूलशब्दविषयमेव नः। एवं तेषां त्वक् स्थूलसूक्ष्मस्पर्शविषया, अस्मदादीनान्तु स्थूलस्पर्शविषयैव। एवं चक्षुरादयोऽपि तेषामस्मदादीनाञ्च रूपादिषु द्रष्टघ्याः। एवं कर्मेन्द्रियेषु मध्ये वाग्मवति शब्दविषया स्थूलशब्दविषया तद्धेतुत्वात् न तु शब्दतन्मात्रस्य हेतुः तस्याहङ्कारिकत्वेन वागिन्द्रियेण सहैककारणकत्वात्। शेषाणि तु चत्वारि पायूपस्थपाणिपादाख्यानि पञ्चविषयाणि पाण्याद्याहार्याणां घटादीनां पञ्चशव्दार्थत्वादिति” कौ०। साम्प्रतं त्रयोदशसु करणेषु केषाञ्चित् प्रथानभावं सहेतुकमाह। “सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात्। तस्मात्त्रिविधं करणं द्वारि द्वाराणि शेषाणि” का०। “द्वारि प्रधानं शेषाणि करणानि वाह्येन्द्रियाणि द्वाराणि तैरुपनीतं सर्वं विषप्यं समनोहङ्कारा बुद्धिर्यस्मादवगाहतेऽध्ववस्यति तस्माद्बाह्येन्द्रियाणि द्वाराणि द्वारवती च सान्तःकरणा बुद्धिरिति” कौ०। “न केवलं बाह्यानीन्द्रियाण्यपेक्ष्य प्रधानं बुद्धिरपि तु ये अप्यहङ्कारमनसी द्वारिणी ते अप्यपेक्ष्य बुद्धिः प्रधानमित्याह। “एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः। कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति” का०। “यथा हि ग्रामाध्यक्षाः कौटुम्बिकेभ्यः करमादाय विषयाध्यक्षाय प्रयच्छंन्ति विशयाध्यक्षश्च सर्व्वाध्यक्षाय, स च भूपतये, तथा वाह्येन्द्रियाण्यालोच्य मनसे समर्पयन्ति मनश्च सङ्कल्प्याहङ्काराय, अहङ्कारश्चाभिमत्य बुद्धौ सर्वाध्यक्षभूतायाम्, तदिदमुक्तं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्तीति। बाह्येन्द्रियमनोहङ्काराश्च गुणविशेषाः गुणानां सत्वरजस्तमसां विकाराः। ते तु परस्परविरोधशीला अपि पुरुषार्थेन भोगापवर्गरूपेण एकवाक्यतां नीताः यथा वर्त्तितैलवह्नयः सन्तमसापनयरूपप्रकाशाय मिकिताः प्रदीपाः एवमेते गुणविशेषा इति योजना”। न्यायादिकते इन्द्रियाणामेकादशविधता वेदान्तपरिभाषामते दशविधतेति भेदः इन्द्रियशब्दे उक्तः। “वपुषा करणोज्झितेन सा” “करणापायविभिन्नवर्णया” रघुः “करणैरन्वितस्यापि पूर्वज्ञानं कथञ्चन” याज्ञ०। “आत्मन्यात्मानमेव व्यपगतकरण पश्यतस्तत्त्वदृष्ट्या” वेणी० अत्र करणं बाह्येन्द्रियम्। आधारे ल्युय्। ३ क्षेत्ररूपे देहे अमरः करणाश्रयत्वात् तस्य तथात्वम्। “उपमानमभूत् विलासिनां करणं यत्तव कान्तिमत्तया” कृमा०। भावे ल्युट्। ४ क्रियायाम्। “प्र ते पूर्व्वाणि करणानि” ऋ० ४, १९, १०। “आवाहनाग्नौकरणरहिउतमपसव्यवत्” याज्ञ०। “हलस्य करणे चापि व्यादिष्टाः सर्व्वशिल्पिनः” भा० व० २५४ अ० “कृतस्य करणं नास्तातीति” प्राचीनगाथा। ५ सेतिकर्त्तगाके अनुष्ठाने ६ व्यापारमात्रे च। ७ ज्योतिषोक्तेषु तिथ्यर्द्धात्मकेषु बवादिषु तेषामानयनप्रकारः सूर्य्यसि० रङ्गना० उक्तो यथा। “ध्रुबाणि शकुनिर्नागं तृतीयं तु चतुष्पदम्। किन्तुघ्नं तु चतर्दश्याः कृष्णायाश्चापरार्घतः” सू० सि०। “कृष्णपक्षीयायाश्चतुर्दश्यास्तिथेर्द्वितीयार्धाद्द्वितीयार्धसारभ्येत्यर्थः। चकार एवार्थे। तेनान्यातिथेरेतत्तिथिपूर्वार्धस्य च निरासः। ध्रुवाणि स्थिराणि करणानि। तान्याह। शकुनिरिति। चपुरष्पदं तृतीयमित्यनेन शकुनिनागयोः क्रमेणाद्यद्वितीयत्वं सूचितम्। तुकारात् क्रमेण तिथ्यर्धेषु भवन्ति। किन्तुघ्नं चतुर्थम्। तुरन्तावधिद्योतकः तेनोक्तातिरिकं स्थिरकरणं नास्तीति सूचितम् हि अथ चरकरणान्याह” रङ्ग०। “बवादीनि ततः सप्त चराख्यकरणायि च। मासेऽष्टकृत्व एवौकं करणानां प्रवर्तते” सू० सि०। “ततः स्पिरकरणपूर्त्त्यनन्तरं बवादीनि चरसञ्ज्ञककरणानि सप्त भद्रानानि शुक्लपतिपद्द्वितीयार्धतसुतुर्थ्यन्तं भवन्तीति चार्थः। ननु पञ्चम्यादितः कानि करणानि भवन्तीत्यत आह मास इति। चरकरणानां बवादीनां सप्तानां मध्य एकैकमेकमेकं करणं सासे स्थिरकरणकालोनितत्रिंशत्तिभ्यात्मकमासे स्वल्पान्तरत्वान्मासग्रहणम्। अष्टकृत्वोऽष्टवारः प्रवर्तते प्रकर्पेण तिष्ठति भवतीत्यर्थः। तथा च पञ्चम्याद्यर्धादेतानि पुनः पुनः परिभ्रमन्ति। कृष्णचतुर्दश्याद्यार्धपर्यन्तमिति भावः। ननु स्थिरकरणोक्तावपरार्धत इत्युक्त्या तेषां चतुर्णां तिथ्यर्धभोगेन शुक्लप्रतिपदाद्यर्धपर्षन्तं क्रमेणावस्थान युक्तं चरकरणानां तु केवलोक्त्या तदनन्तरं कृष्णचतुर्दश्याद्यार्धपर्थन्तमेक एव परिभ्रमोऽस्त्वित्यतस्तदुत्तरं कथयन्नन्यदप्याह” रङ्ग०। “तिथ्यर्द्धभोगं सर्वेषां करणानां प्रकल्पयेत्। एषा स्फुटमतिः प्रोक्ता सूर्यादीनां खचारिणाम्” सू० सि०! “सप्तानां चरकरणानां प्रत्येकं तिथ्यर्द्वश्चासौ भोगश्च तं तिथ्यर्धकालमितावस्थानं प्रकल्पयेत्। “एकत्र निर्णीतः शास्त्रार्थोऽपरत्र भवतीति” न्यायात् करणत्वेनैषामप्यवस्थानं तत्तुल्यं कुर्यादित्यर्थः। अत एव “तिथ्यर्घं करणं स्मृतम् इत्युक्त्या चान्द्रमासे त्रिंशत्तिथ्यात्मके षष्टिकरणानां सन्निवेशाच्चरकरणानामेव परिभ्रमणे प्रतिमासमनियततिथिभोगकं करणं भवतीति तद्वारकप्रतिमासनियततिथिभोगककरणकसिद्ध्यर्यं चरकरणानामष्टवारपरिभ्रमणोत्तरमवशिष्टतिथ्योश्चतुर्ष्वर्धेषु स्थिरकरणान्युक्ताष्नीति तात्पर्यम्। तत्रापि कृष्णचतुर्दश्यपरार्धतस्तत्कल्पनं तदिच्छानियामकं स्वतन्त्रेच्छस्य नियोगानर्हत्वात्” रङ्ग० करणानि च वववालवकौलवतैतिलगरबणिग्विष्टिभद्राख्यानि सप्त चरकरणानि। स्थिरकरणानि शकुन्यादीनीति ८ दशसं ख्यानि। ८ जातिभेदे पुंस्त्री अभरः स्त्रियां जातित्वात् ङीष्। तज्जातिश्चव्रात्यात् क्षत्रियात् सवर्णायामुत्पन्नः जातिभेदः “झल्लोमल्लश्च राजन्यात् व्रात्यान्निच्छिविरेव च। नटश्च करणश्चैव खसो द्रविड एव च” मनुः। करणरूपवर्णसङ्करस्यैव कायस्थनामता तस्या कर्भविशेषपरिपाकेण तज्जातिप्राप्तिस्तस्य वृत्तिभेदश्च ब्रह्मवै० पु० जन्मखण्डे ८५ उक्ते यथा। “तैलचौरस्तैलकीटो मूर्द्ध्निकीटस्त्रिजन्मकम्। ततो भवेत् स्वर्णकारो जन्मैकं दुष्टमानसः। तमःकुण्डे वर्षशतं स्थित्वा स्वर्णबणिग् भवेत्। जन्मैकञ्च दुसाचारो जन्मैकं करणो भवेत्। विश्वैकलिपिकर्त्ता च भक्ष्यदातुर्धनं हरेत्। कायस्थेनोदरस्थेन मातुर्मांस म नखादितम्। मत्र नास्ति कृपा तस्यदन्ताभावेक केवलम्। स्वर्णकारः स्वर्ण्णबणिक् कायस्थश्च व्रजेश्वरः!। मरेषु मध्ये ते धूर्त्ताः कृपाहीना महीतले। हृदयं क्षुरधाराभं तेषाञ्च नास्ति सादरम्। शतेषु सज्जनः कोऽपि कायस्थो नेतरौ च तौ। सुबुद्धिः शिवभक्तश्च शास्त्रज्ञो धर्ममानसः”। ९ वर्णसङ्करजातिभेदे पुंस्त्री “शूद्राविशोस्तु करणोऽम्बष्टौ वैश्याद्विजन्भनोः” ब्रह्मवै० पु०। कायस्थश्च चतुर्विधः व्रात्यक्षत्रियः शूद्रावैश्वयोर्जातः करणनाम्ना प्रसिद्धः अम्यष्ठः चित्रगुप्तजातश्रीवास्तवश्च। कामस्थशब्दे विवृतिः। तस्य वृत्तिमाह पराशरः। “धनधान्याध्यक्षता च राजसेवा तथैव च। द्विजातेः परिचर्य्या च दुर्गान्तःपुररक्षणम्। एषा पारशवस्योक्ता उग्रस्य करणस्य च प्रोक्ता उगनसा वृत्तिरुभयत्र शुभप्रदा”। “नृत्यवादित्रगोतानां प्रयोगवशभेदिनाम्। संस्थानं ताडनं रोधः करणानि प्रचक्षते” राजकन्दर्पोक्ते तालव्यपस्थापके १० ताडनाविशेषे न० “शिखरासक्तमेघानाम् व्यज्यन्ते यत्र वेश्मानाम्। अनुगर्ज्जितसन्दिग्धाः करणैर्मुरजस्वनाः” कुमा० सर्वकरणप्रयोक्तृत्वात् ११ परमेश्वरे न० “करणं कारणं कर्त्ता विकर्त्ता च मतो गुरुः” विष्णु० सं०। भवाद्यर्थे ततः काशा० ठञ् ञिठ च इकार उच्चारणार्थः। कारणिक तद्भवे स्त्रियां ष्ठञि ङीष् ञिठि टाप्। १२ क्रिसाधनस्त्रियां स्त्री ङीप्। क्रियते क्रियाविशेषोऽस्याम् आधारे ल्युट् ङीप्। वीजगणितोक्ते यस्य वर्गमूलादिकं स्यष्टं न प्रतीयते तत्रक्रिया विशेषद्वारा तत्करणविषये राशिभेदे स्त्री। सा च षड्विधा सङ्कलनव्यवकलनगुणभागवर्गवर्गमूल रूपभेदात्। तत्रक्रियाविशेषोवीजगणिते दर्शितो यथा। “अथ करणी षड्विधा। तत्र सङ्कलनव्यवकलनयोः करणसूत्रं वृत्तद्वयम्। योगं करण्योर्महतीं प्रकल्प बधस्य मूलं द्विगुणं लघुञ्च। योगान्तरे रूपवदेतयोः स्तोवर्ग्गेण वर्ग्गं गणंयेद्भजेच्च। लव्व्याहृतायास्तु पदं महत्याः सैकं निरेकं स्वहतं लघुघ्नम्। योगान्तरे स्तः क्रमशस्त योर्ब्बा पृथक् स्थितिः स्याद्यदि नास्ति मूलम्। उदाहरणम्। द्विकाष्टमित्योस्त्रिभसङ्ख्ययोश्च योमान्तरे ब्रूहि पृथक्करण्योः। त्रिसप्तमित्योश्च चिरं विचि त्य चेत् षद्धिधांथेत्सि सखे! करण्याः। न्यासः क २। क ८ योगे जातम् क १८ अन्तरे च क २ न्यासः क ३। क २७ योगे जातम् क ४८ अन्तरे च क १२ न्यासः क ३। क ७ अनयोर्घातेमूलाभावात्पृथक् स्थितिरेव योगे जातम् क ३ क ७ अन्तरे च क ३ क ७ इति करणीसङ्कलनव्यवकलने। गुणनोदाहरणम्। द्वित्र्यष्टसङ्ख्यागुणकः करण्या गुण्यस्त्रिसङ्ख्या च सपञ्चरूपा। वधं प्रचक्ष्वाशु विपञ्चरूपे गुणेऽथ वा त्र्यर्क्कमिते करण्याः। न्यासः गुणकः क २ क ३ क ८ गुण्यः क ३ रू ५ अत्र गुण्येगुणके वा भाज्ये भाजके करणीनां करण्योर्वा यथासम्भवं लाघवार्थं योगं कृत्वा गुणनभजने कार्य्येतथा कृते जातो गुणकः क १८ क ३ गुण्यः क २५ क ३ गुणिते जातम् रू ३ क ४५० क ७५ क ५४।

क्षयवर्गादौ विशेषसूत्रं वृत्तम्। क्षयोभवेच्च क्षय रूपवर्गश्चेत्साध्यतेऽसौ करणीत्वहेतोः। ऋणात्सिकायाश्च तथा करण्यामूलं क्षयोरूपविधानहेतोः। न्यासः गुणकः क २५ क ३ क १२ गुण्यः क २५ क २ अत्र गुणके करण्योर्योगे कृते गुणकः क २५ं क २३ गुणिते जातम् क ६२ं५ क ३७५ क ७५ क ८१ एतास्वनयोः क ६२५ क ८१ मूले रू २५ रू ९ अनयोर्योगे जातम् रू १६ अनयोः क ३७५ क ७५ अन्तरे योगैति जातोयोगः क ३०० यथाक्रमं न्यासः रू १६ क ३०० इति करणीगुणनम्। पूर्ब्बगुणनफलस्य खगुणच्छेदस्य भागार्थं न्यासः भाज्यः क ९ क ४५० क ७५ क ५४ भाजकः क २ क ३ क ८ अत्र क २ क ८ एतयोः करण्योर्योगे कृते जातम् क १८ क ३ “भाज्याच्छेदः शुध्यति प्रच्युतः सन्” इत्यादिकरणेन लब्धोगुण्यः रू ५ क ३ न्यासः भाज्यः क २५ ६ क ३०० भाजकः क २ं५ क ३ क १२ करण्योर्योगे कृते जातम् क २५ं क २७ अत्रादौ त्रिभिर्गुणयित्वा धनकरण्योः ऋणकरण्योश्च योगं विधाय पश्चात्पञ्चविंशत्या गुणयित्वा शोधिते लब्धं रू ५ क ३ अत्रापि पूर्ब्धवल्लव्धो गुण्यः रू ५ क ३ अथ वान्थथोच्यते। धनर्णत्राव्यत्ययमीप्सितायाश्छिदे करण्याअसकृद्विधाय। तादृक्छिदा भाज्यहरौ निहन्यादेकैव यावत्करणी हरः स्यात्। भाज्यास्तया भाज्यगताः करण्योलब्धाः करण्यो थदि योगजाः स्युः। विश्लेषसूत्रेण पृथक् च कार्य्यास्थथायथा प्रष्टुरभीप्सिताः स्युः। तथा च विश्लेषसृत्रं वृत्तम्। यर्गेण योगकरणी विहृता विशुध्येत् स्वण्डानि तत्कृतिपदस्य यथेप्सितानि। कृत्वा तदीयकृतयः खलु पूर्व्वलब्ध्या क्षुण्णा भवन्ति पृथगेवमिमाः करण्यः। न्यासः भाज्यः क ९ क ५४० क ७५ क ५४ माजकः क १८ क ३ अत्र भाजके त्रिमितकरण्याः ऋणत्वं प्रकल्प्य क १८ क ३ अनेन भाज्ये गुणिते योगे च कृते जातम् क २६२५ क ६७५ भाजके च क २२५ अनया भाजये हृते लब्धम् क २५ क ३ न्यासः भाज्यः क २५६ क ३०० भाजकः क २५ं क २७ अत्र भाजके पञ्चविंशतिकरण्याधनत्वं प्रकल्प्य क २५ क २७ भाज्ये गुणिते धनर्ण्णकरणीनामन्तरे च कृते जातम् क १०० क १२ भाजके च क ४ अनया भाज्ये हृते लब्धमृ क २५ क ३ इदानीं पूर्व्वीदाहरणे गुण्ये भाज्ये कृते न्यासः भाज्यः क ९ क ४५० क ७५ क ५४ भाजकः क २५ क ३। अत्रापि त्रिकरण्याः ऋणत्वं प्रकल्प्य भाज्ये गुणिते युते च जातम् क ८०१२ क १४५२ भाजके च क ४८४ अनया हृते भाज्ये लब्धो गुणकः क १८ क ३। पूर्ब्बं गुणके स्यण्डत्रयमासीदिति योगकरणीयम् १८ विश्लेष्या तत्र वर्गेण योगकरणी विहृता विशुद्ध्येदिति नवात्मकवर्गेण ९ विहृता सती शुध्यतीति लव्धं २ नवानां मूलम् ३ अस्य खण्डे, १, ४, पूर्ब्बलब्ध्या २ गुणिते, २, ८, एवं जातोगुणकः क २ क ३ क ८ इति करणीभजनम्।

करणीवर्गादेरुदाहरणम्। द्विकत्रिपञ्चप्रसिताः करण्यस्तासां कृतिं त्रिद्विकसङ्ख्ययोश्च। षट्पञ्चकत्रिद्विकसम्मितानां पृथक् पृथङ्मे कथयाशु विद्वन्!। अष्टादशाष्टद्विकसम्मितानां कृतीकृतानां च सखे! पदानि। न्यासः प्रथमः क २ क ३ क ५। द्वितोयः क ३ क २। तृतीयः क ६ क ५ क ३ क २। चतुर्थः क १८ क ८ क २ स्थप्योऽन्त्यवर्गश्च चतुर्गुणान्त्यनिघ्न इत्यनेन गुण्यः पृथग्गुणकखण्डसमैत्यनेन वा जाताः क्रमेण वर्गाः प्रथमः रू १० क २४ क ४० क ६०। द्वितीयः रू २ क २४। तृतीयः रू १६ क १२० क ७२ क ६० क ४८ क ४० क २४ अत्रापि करणीनां यथासम्भवं योगं कृत्वा वर्गवर्गमूले कार्य्ये तद्यया क १८ क ८ क २ आसां वोगः क ७२ अस्यावर्गः क ५१८४ अस्यामूलं रू ७२। इति करणीवर्गः। करणीमूले सूत्रं वृत्तद्वयम्। वर्गे करण्यायदि वा क- रण्योस्तुल्यानि रूपाण्यथ वा बहूनाम्। विशोधयेद्रूपकृतेः पदेन शेषस्य रूपाणि युतोनितानि। पृथक्तदद्धे करणीद्वयं स्यान्मूलेऽबह्वी करणी तयोर्य्या। रूपाणि तान्येव कृतानि भूयः शेषाः करण्योयदि सन्ति वर्गे। उदाहरणम्। द्बितीयवर्गस्य सूलार्थं न्यासः रू ५ क २४ रूपकृतेः २५ करणोतुल्यानि रूपाणि २४ अपास्य शेषम् १ अस्य मूलेन १ ऊनाधिकरूपाणामर्द्धे जाते भूलकरण्यौ क २ व ३ प्रथमवर्गस्य न्यासः रू १० क २४ क ४० क ६० रूपकृतेः १०० चतुर्विंशतिचत्वारिंशत्करण्योस्तुल्यानि रूपाण्य पास्य शेषम् ३६ अस्यमूलेन ६ ऊ नाधिकरूपाणामर्द्धे जाते, २, ८, तत्रापीमां २ मूलकरणीं द्वितीयां रूपाण्येव प्रकल्प्य पुनः शषकरणीभिः सः एव विधिः कार्य्यस्तत्रेयं रूपकृतिः ६४ अस्याः षष्टिरूपाण्यपास्य शेषम् ४ अस्य मूलम् २ अनेनोनाधिकरूपाणामर्द्धे, ३, ५, जाते मूलकरण्यौ क ३ क ५ मूलकरणीनां यथाक्रमं न्यासः क २ क ३ क ५ तृगीयवर्गस्य न्यासः रू १६ क १२ ० क ७२ क ६० क ४८ क ४० क २४ रूपकृतेः २५६ करणीत्रितयस्यास्य क ४८ क ४० क २४ तुल्यानि रूपाण्यपास्योक्तवज्जाते खण्डे, २, १४, महती रूपाणीत्यस्याः १४ कृतिः १९६ अस्याः करणीद्वयस्यास्य क ७२ क १२० तुल्यरूपाण्यपास्योक्तवज्जाते खण्डे, ६, ८, पुनारूपकृतेः ६४ षष्टिरूपाण्यपास्योक्तवत्खण्डे, ३, ५, एवं मूलकरणीनां यथाक्रमं न्यासः क ६ क ५ क ३ क २ चतुर्थस्य न्यासः रू ७२ क० इयमेव लब्धा मूलकरणी ७२ पूर्व्वं खण्डत्रयमासीदिति वर्गेण योगकरणी विहृता शुध्यतीति षट्त्रिंशतोमूलम् ६ एतस्य खण्डानां, १, २, ३, कृतयः, १, ४, ९, पूर्ब्बलब्ध्यानया २ क्षुण्णाः, २, ८, १८, एवं पृथक्करण्योजाताः क २ व ८ क १८। अथ वर्गगतर्ण्णकरण्यामूलानयनार्थं सूत्रं वृत्तम् ऋणा त्मिका चेत्करणी कृतौ स्याद्धनात्मिकां तां परिकल्प्य साध्ये। म्ले करण्यावनयोरभीष्टा क्षयात्मिकैका सुधियावगम्या। उदाहरणम्। त्रिसप्तमित्योर्वद मे करण्योर्विश्लेषवर्गं कृतितः पदं च। न्यासः क ३ क ७ यद्वा क ३ क ७ अनयोर्वर्गः समएव रू १० क ८४ अत्र वर्गे ऋणकरण्याधनत्वं प्रकल्प्य प्राग्वल्लब्धकरण्योरेकाभीष्टा ऋणगता स्यादिति जातम् क ३ क ७ वा क ३ क ७ं उदाहरणम्। द्विकत्रिपञ्चप्रमिताः करण्यः स्वस्वर्णगास्वस्वधनर्ण्णगावा। तासां कृतिं ब्रूहि कृतेः पदं च चेत् षद्धिधा बेत्सि सखे! करण्याः। न्यासः क २ क ३ क ५ं वा क २ं क ३ं क ५ आसां वगः समएव जाताः रू १० क २४ क ४०ं क ६०। अत्र ऋणकरण्योस्तुल्यानि धनरूपाणि १०० रूपकृतेः १०० अपास्य शेषस्य मूलम्० अनेगोनाधिकरूपाणामर्द्वे क ५ का अत्रैका ऋणम् क ५ं अन्या रूपाणीति न्यासः रू ५ क २४ पूर्व्ववज्जाते करण्यौ धने एव। क ३ क २ यथाक्रमं न्यासः क २ क ३ क ५ं अथ वानयोः क क २४ क ६० तुल्यानि धनरूपाणि ८४ रूपकृते १०० रपास्योक्तवज्जाते मूलकरण्यौ क ७ क ३ अनयोर्म्महती ऋणं क ७ं तान्येव रूपाणि प्रकल्प्य रू ७ं क ४० अतः प्राग्वत्करण्यौ क ५ क २ अनयोरपि महती ऋणमिति यथाक्रमं न्यासः क ३ क २ क ५ं

अथ द्वितीयोदाहरणे प्राग्वत्प्रथमपक्षे मूलकरण्यौ क ५ क ५ अनयोरेका ऋणं क ५ं तान्येव रूपाणीति ऋणोत्पन्ने करणीखण्डे ऋणे एवेति यथाक्रमं न्यासः क ३ं क २ं क ५ं द्वितीयपक्षेणापि यथोक्ताएव मूलकरण्यः क ३ं क २ं क ५ं एवं बुद्धिमतानुक्तमपि ज्ञायते इति पूर्व्वैर्नायमर्थो विस्तीर्योक्तः बालावोधार्थं तु मयोच्यते। एकादिसङ्कलितमितकरणीखण्डानि वर्गराशौ स्युः। वर्गे करणीत्रितये करणीद्वितयस्य तुल्यरूपाणि। करणीषटके तिसृणां दशचतसृणां तिथिषु च पञ्चानाम् रूपकृतेः प्रोह्य पदं ग्राह्यं चेदन्यथा नसत् क्वापि। उत्पत्स्यमानयैवं मूलकरण्याल्पया चतुर्गुणया। यासामपवर्त्तः स्याद्रूपकृतेस्ताविशोध्याः स्युः। अपवर्त्तादपि लब्धामूलकरण्योभवन्ति ताश्चापि। शेषविधिना न यदि ताभवन्ति मूलं तदा तदसत्। करणीवर्गराशौ रूपैरवश्यं भवितव्यम् एककर ण्यावर्गे रूपाण्येव। द्वयोः स्वरूपैका करणी। तिसृणां तिस्रः। चतसृणां षट्। पञ्चाना दश। षण्णां पञ्चदश इत्यादि। अतोद्व्यादीनां वर्गेषु एकादिसङ्कलितमितानि कतणीनां खण्डानि रूपाणि यथाक्रमं स्युः। अथ यदि उदाहरणे तावन्ति न भवन्ति तदासौ योगकरणी विश्लेष्या वा भवतीति कृत्वा मूलं ग्राह्यमित्थर्थः। वर्गे करणीत्रितये करणीद्वितयस्य तुल्यरूपाणीति स्पष्टा- र्थम्। उदाहरणम्। वर्गेयत्र करण्योदन्तैःसिद्धैर्गजैर्म्मिताविद्वन्!। रूपैर्द्दशभिरुपेताः किम्मूलंब्रूहि तस्य स्यात्। न्यासः रू १० क ३२ क २४ क ८ अत्र वर्ग करणीत्रितये करणीद्वितयस्यैव तुल्यानि रूपाणि प्रथमं रूपकृतेरपास्य मूलं ग्राह्यं पुनरेकस्याएवं क्रियमाणेऽत्र पदं नास्तीत्यतोऽस्य करणीगतमूलाभावः। अथानियमेन सर्व्वकरणीतुल्यानि रूपाण्यपास्य मूलमानीयते तदिदम् क २ क ८ ममागच्छति इदमसत् यतोऽस्य वर्गोयम् रू १८ अथ वा दन्तगजमितयोर्योगं कृत्वा रू १० क ७२ क २४ आनीयते तदिदमप्यसत् रू २ क ६। उदाहरणम्। वर्गे यत्र करण्यस्तिथिबिश्वहुताशनैश्चतुर्गुणितैः। तुल्यादशरूपाढ्याः किम्मूलं ब्रूहि तस्य स्यात्। क ६० क ५२ क १२ अत्र किल वर्ग करणीत्रयमस्तीति न्यासः रू १० तत्करणीद्वयस्य द्विपञ्चाशद्द्वादशमितस्य क ५२ क १२ तुल्यरूपाण्यपास्य ये मूलकरण्य वुत्पद्येते क ८ क २ तयोरल्पयानया २ चतुर्गुणया ८ द्विपञ्चाशद्वादशमितयोरपवर्त्तोन स्यादतस्ते न शोध्ये यतौक्तमुत्पत्स्यमानयैवमित्यादि। अत्राल्पयैकयेत्युपलज्ञणम् तेन क्वचिन्महत्यापि तढा मूलकरणीरूपाणि प्रकल्प्यान्ये करणीखण्डे साध्ये सा महती प्रकल्प्येत्यर्थः उदाहरणम्। अष्टौ षट्पञ्चाशत् षष्टिः करणी त्रयं कृतौ यत्र। रूपैर्दशभिरुपेतं किम्मूलं ब्रूहि तस्य स्यात्। न्यासः रू १० क ८ क ५ ६ क ६० अत्राद्यखण्डद्वये क ८ क ५६ शोधते उत्पन्नयाल्पया चतुर्गुणया ८ तयोः खण्डयोरपबर्त्तेनलव्धेखण्डे। १। ७। परं शेषविधिना मूलकरण्यौ नीत्पद्येते अतस्ते खण्डे न शोध्ये अन्यथा तु शोधने कृते मूलं नायातीत्यतस्तदसत्। उदाहरणम्। चतुर्गुणात् सूय्यतिथीषुरुद्रनागर्त्तवोयत्र कृतौ करण्यः। सबिश्वरूपावद तत्पदं ते यद्यस्ति वीजेपटूताभिमानः। न्यासः रू १३ क ४८ क ६० क २० क ४४ क ३२ क २४ अत्र करणीषट्के तिसूणां करणीनां तुल्यानि रूपाणि प्रथमं रूपकृतेरपास्य भूलं ग्राह्यं प्रश्चाद्द्वयोस्ततएकस्याएवं कृतेऽत्र मूलाभावः। अथान्यथा तु प्रथममाद्यकरण्यास्तुल्यानि रूपाण्यपास्य पश्चाद्द्वितीयतृतीयोस्ततः शेषाणां रूपकृतेर्विशोध्यानि तम्बूलम् क १ क ३ क ५ क ५ तदिदमप्यसत् यतोऽस्य वर्ग्गोयम् रू २३ क ८ क ८० क १६०। यैरस्य मूलानयनस्य निममोन कृतस्तेषामिदं दूषणम् एवं व्दिघवर्गे करणीनामासन्नमूलकरणेन मूलान्या- नीय रूपेषु प्रक्षिप्य मूलं वाच्यम्। अथ महतीरूपाणोत्युपलक्षणम्। यतः क्वचिदल्पापि।

तत्रोदाहरणम्। चत्वारिंशदशीतिर्द्विशतीतुल्याः क रण्यश्चेत्। सप्तदशरूपयुक्तास्तत्र कृतौ किम्पदं ब्रूहि।

न्यासः रू १७ क ४० क ८० २०० गोधिते जाते खण्डे क १० क ७ पुनः लघ्वीं करणीं रूपाणि कृत्वा लब्धे करण्यौ क ५ क २। एवं मूलकरणीनां न्यासः क १० क ५ क २। इति करण्याः षड्विधाः।

करणत्राण = न० करणैर्हस्तादिभिस्त्रायते त्रै–कर्मणि ल्युट्। मस्तके।

करणव्यापार = पु० ६ त०। करणजन्यजनकत्वबिशिष्टे करण जन्ये त्यापारभेदे। यथा छेदनादिक्रियायां छेद्यदा त्रादिसंयोगः तस्य हि दात्रजन्यत्वात् दात्रजन्यच्छेदनजनकत्वाच्च तथात्वम्। एवमिन्द्रियाणां विष्यसंयोगः तस्य हि इन्द्रियजन्यत्वात् इन्द्रियजन्यप्रत्यक्षज्ञानजनकत्वाच्चतथात्वम् न्यायप्तते अनुमितौ परामर्शः शाब्दबोधे पदार्थस्मृतिः। उपमितौ उपदेशवाक्यार्थस्मृतिः। यथायथमुह्यम्। सांख्यमतसिद्धकरणव्यापारभेदस्तु करण्शब्दे उक्ताः।

करणाधिप = पु० ६ त०। १ जीबे तदाधष्ठानेनैव करणानां स्वस्वकार्य्येषु प्रवृत्तेस्तस्य तदधिपत्वम् २ इन्द्रियाधिष्ठातृदेवभेदे च। तत्र बाह्येन्द्रियाघिष्ठातारश्च शा० ति० उक्ता यथा “दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः। श्रोत्रादीनां दशानां तु”। तथा च श्रोत्रस्य दिक्। त्वचो वायुः। नेत्रस्य अर्कः। रसनायाः प्रचेताः नासिकायाः अश्विसुतौ। वाचः वह्निः, पाणेरिन्द्रः पादस्य उपेन्द्रोविष्णुमूर्त्तिमेदः। पायोः मित्रः सूर्य्यमूर्त्तिभेदः। उपस्थस्य कः प्रजापतिः। अन्तःकरानान्तु मनसश्चन्द्रः, बुद्धेश्चतुर्मुखः अहङ्कारस्य रुद्रचित्तस्याच्युतोविष्णुमूर्त्तिभेदः। करणाधिपानाञ्च सर्वेषामधिपः परमेश्वरः। करणाधिपाधिप्रः परमेश्वरः।

करण्ड = पु० कृ–कर्मणि अण्डन्। १ मधुकोषे (मौवाकं) तस्यमक्षिकाभिश्चिरमधुसञ्चयनेन क्रियमाणत्वात् तथात्वम् वा० कॄ–अण्डच्। २ खडगे शत्रुविक्षेपहेतुत्वात् तस्य तथात्वम् करण्डस्तदाकारोऽस्त्यस्य अर्श० अच्। ३ कारण्डवखगे पुंस्त्री स्त्रियां जातित्वेऽपि संयोगपधत्वात् न ङीष् किन्तु टाप्। ४ दलाढके च मेदि०। ५ वंशादिरचितपुष्पादिपात्रभेदे (साजि) “शुष्कवनलतानिर्मितं महाकुसुमकरण्डकेन” काद०। सभुद्गे (कौटा) अमरः। “दीपभाजनभ्रमरकरण्डप्रभृव्यनेकोपकरणयुक्तः” दशकुभा०। ७ यकृति कालखण्डे शब्दचि०। ८ पुष्पभाण्डे स्त्री टाप् अत इत्त्वम् करण्डिका। उज्ज्वलदत्तः।

करण्डिन् = पु० करण्डस्तदाकारोऽस्त्यस्य इनि। मत्स्ये त्रिका ०।

करतल = ७ त०। ६ त० १ हस्तस्य तले (हातेरतेलो)। “नखानि विधुशङ्कया करतलेन तण्व्यावृणोत्” उद्भटः “करतलधृतमपि नश्यति” हितो०। करस्तलमिव। २ हस्ते च।

करताल = (क) न० करेण ताले यत्र वा कप्। झल्लके वाद्ये (खरताल) “शिवागारे झल्लकञ्च सूर्य्यागारे च शङ्खकम्। दुर्गागारे वंशिवाद्यं मधुरीञ्च न वादयेत्” ति० त० पु० तत्र झल्लकं कांस्यनिर्म्मितकरतालकमिति” रघु०।

करताली = स्त्रौ करेण दीयमानस्तालो यत्र गौरा० ङीष्। १ वाद्यभेदे (खरतल) त्रिका०। ६ त०। २ करतङ्शब्दे (हातताली)। पु० क्वचित् स्त्रीत्वमपि “यया न स्यादालीकपटकरतालीपटुरवः” उद्भटः स्वार्थे कन् अत इत्त्वम्। करतालिकापि करतलशब्दे “उच्चाटनीयः करतालिकानां दानादिदानीं भवतीभिरेषः” नैष०।

करतोया = स्त्री करतोयं हरपार्ब्बतीविवाहच्युतजलत् अस्त्यस्या हेतुत्वेन अच्। नदीभेदे सदानीरायाम् अमरः। गौराविवाहे शङ्करकरच्युतजलभवत्वात् तस्यास्तथात्वम्। तस्याश्च यथा सदानीरत्वं तथोक्तं स्मृतौ “प्रथमं कर्कटे देवी त्र्यहं गङ्गा रजस्वला। सर्व्वा रक्तवहानद्यः करतोयाऽम्बवाहिनीति” तेनान्यनदीनामिवास्याः उक्तकाले रक्तवहत्वाभावात् सदानीरवाहित्वात्तथात्वम्। “करतोषां समासाद्य त्रिरात्रोपोषितोनरः। अश्वमेधमवाप्नोति प्रजापतिकृतोविधिः” भा० व० ८५। “करतोयां कुरङ्गे च त्रिरात्रोपोषितो नरः। अश्वमेधमवाप्नोति विगाह्यप्रयतः शुचिः” भा० अनु० २३ अ०। अस्त्यर्थे इनि करतोयिन्यप्यत्र। “प्रभासं मानसं तीर्थं पुष्कराणि महत् सरः। पुण्यञ्च नैमिषं तीर्थं वाहुदां क तोयिनीम्” अनु० प०।

करद = त्रि० करं राजस्वं ददाति ना–क। १ राखदायके। “कच्चिन्न शूद्रेण न हीनजेन वैश्येन वा करदेनोपपन्ना” भा० आ० १९२ अ०। “य इमे पृथिवीपालाः करदास्तव पार्थिव!” भा० व० २५४ अ० “भ्रातृभिर्जित्वरैर्द्विषाम्” माघः। २ त्राणार्थं हस्तदायके त्रि०।

करद्रुम = पु० किरति समन्तात् शाखाः कॄ–अच् नित्यस०। कारस्करवृक्षे राजनि०।

करद्विष् = पु० १ गोत्रभेदे २ वेदशाखिभेदे च। “तामेताः कर- द्विष उपासते तस्मात्ते सर्व्वमायुर्यन्ति” ता० २, १५, ४, “करद्विषोनाम गोत्रभेदाः शाखिभेदा वा” भा०।

करन्धम = पु० करं धमति ध्मा–खश् मुम् च। १ इक्ष्वाकुवंश्ये खनीनेत्रपुत्रे मुवर्चीनृपे तस्य तन्नामनिरुक्तिः भा० आश्व० ४ अ०। “खनीनेत्रस्यदुर्वृत्ततामुक्त्वा “तमपास्य च तद्राज्ये तस्य पुत्रं सुवर्चसम्। अभ्यषिञ्चन्त राजेन्द्र! मुदिताह्यभव स्तदा। स पितुविक्रियां दृष्ट्वा राज्यान्निरसनं तथा। नियतोवर्त्तयामास प्रजाहितचिकीर्षया। ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः। प्रजास्तञ्चान्वरज्यन्त धर्मनित्यं मनीषिणम्। तस्य धर्म्मप्रवृत्तस्य व्यशीर्य्यत् कोषवाहनम्। तं क्षीणकोषं सामन्ताः समन्तात् पर्य्यपीडयन्। स पीड्यमानो बहुभिः क्षीणकोषाश्ववाहनः। आर्त्तिमार्च्छत् परां राजा सह भृत्यैः पुरेण च। नचैनमभिहन्तुं ते शक्नुवन्ति बलक्षये। स प्रवृत्तो हि राजा स धर्मनित्यो युधिष्ठिर!। यदा च परमामार्त्तिं गतोऽसौ सपुरो नृपः। ततः प्रदध्मौ स करं प्रादुरासीत्ततोवरम्। ततस्तानजयत् सर्वान् प्रत्यमित्रान्नराधिपान्। एतस्मात् कारणाद्राजन्! यिश्रुतः स करन्धमः। तस्य कारन्धमः पुत्रस्त्रेतायुगमुखेऽभवत्” २ पाणिन्धमे मुखमारुतप्रशेनेन हस्ताध्मायकमात्रे त्रि०।

करन्धय = त्रि० करं धयति धे–खश् मुम् च। हस्तलेहके।

करन्यास = पु० करे करावयवे न्यासः। तन्त्रोक्तमन्त्रभेदेन अङ्गुष्ठतर्ज्जनीमध्यमानामाकनिष्ठकतरतलपृष्ठेषु न्यासभेदे “अङ्गन्यासः करन्यासो वीजन्यासस्तथैव च” वटुकस्त०।

करपत्त्र = न० करात् पतति–पत–ष्ट्रन्। (करात) १ क्रकचे दारुभेदके अस्त्रभेदे अमरः। “स्फुटञ्च पत्रैः करपत्रमूर्त्तिभिर्वियोगहृद्दारुणि दारुणायसे” नेष० केतकवर्ण्णने। तच्च सुश्रुतोक्तशस्त्रभेदः। तत्र हि “विंशतिः शस्त्राणि” इत्युद्दिश्य “मण्डलाग्रकरपत्रेत्यादिना” विभज्य “तत्र मण्डलाग्रकरपत्रे स्यातां छेदने भेदने चेति” तस्योपयोग उक्तः। करावेव पत्रं वाहनं यत्र। २ जलक्रीडायाम जटाधरः। तत्र हि हस्ताभ्यां जलमुत्तोल्य परस्परं क्रोड्यते।

करपत्रवत् = पु० करपत्त्रं तदाकारः पत्रवृन्तेऽस्त्यस्य मतुप् मस्य वः। तालवृक्षे शब्दच०।

करपत्रिका = स्त्री करौ पत्रमिव वाहनमस्याः कप् अत इत्त्वम्। जलक्रीडायां जटा०। हस्ताभ्यां जलोत्तोलनेन अन्योन्यं तत्क्रीडारचनात्तस्यास्तथात्वम्।

करपर्ण्ण = पु० करः हस्त इव पर्ण्णं यस्य। (भ्येट) १ भिण्डातक- वृक्षे २ रक्तैरण्डे च (लालभेरण्डा) राजनिघण्टुः।

करपल्लव = पु० करस्य पल्लव इव। १ अङ्गुलौ। करः पल्लव इव रक्तत्वात्। २ करकिलये। “करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः” देवोमा०।

करपात्र = न० करः पात्रभिव यत्र। १ जलक्रोडाभद हारा० कररूपेणैव पात्रेण जलोत्तोलननेन तत्क्रीडाकरणात्तस्यास्तथात्वम्। कर एव पात्रम्। २ हस्तरूपे पात्रे च। “करपात्रे स्थिते तोये कृत्वा मूत्रपुरीषके। आसुरं तत् भवेत्तोयं पीत्वा चान्द्रायणं चरेत्” आ० त० स्मृतिः।

करपाल = पु० करं पालयचि पाल–अण् उप० स०। १ खड्गे अमरटीका। गौरा० ङीष्। २ हस्तयष्टौ (सींटा) स्त्री जटा०। ण्वुल् टाप् अतैत्त्वम्। करपालिकाऽप्यत्र स्त्री। सा च एकधारास्त्रभेदे क्षीरस्वामी।

करपीडन = पु० करस्य बधूकरस्य पोडनं ग्रहणं वरेण यत्र। १ विबाहे “सुतपरिष्णयात् षण्मासान्तः सुताकरपीडनम्” मु० चि०। पाणिपीडनादयोऽप्यत्र।

करबाल = पु० करस्य बालः शिशुरिव। १ नखे शब्दमा०। करं बलति संवृणोति बल–संवणे अण् उप० स०। २ खड्गे (तरवाल) भरतः “शक्तीश्च विविधास्तीक्ष्णाः करबालांश्च निर्मलान्” भा० आ० ३ ७। ण्वुल् अत इत्त्वम्। करबालिका अस्त्रभेदे स्त्री।

करभ = पु० कॄ–अभच् करे भाति भा–क घा। मणिबन्धात् कनिष्ठापर्य्यन्ते करस्य १ बाह्यदेशे, अमरः। २ करिशावके, “कदली कदली करभः करभः” प्रसन्नरा० “करभोरु रतिप्रज्ञे द्वितीये पञ्चमेऽप्यहम्” विद्यासु० ३ उष्ट्रशिशौ (नखी) नाम ४ ग्रन्धद्रव्ये, ५ उष्ट्रमात्रे पुंस्त्री मेदि०। स्त्रियां ङीष् “करभकण्ठकडारमाशाः” माघः “स तु बृत्तस्य परिघं करञ्च करभोपमम्” भाग० ६, १२, २१। “व्यजायन्त खरा गीषु करभाऽश्वतरीषु च” भा० मौस० २ अ०। करोबभेत्यस्याः क्विप् भी बा० ड गौरा० ङीष् या। ६ करभी वृश्चिकाल्याम् स्त्री (विछाति) स्वार्थे कन् करभक। उष्ट्राद्यर्थे पुं स्त्री। स्त्रियां करभिका।

करभकाण्डिका = स्त्री करभप्रियं काण्डमस्याः कप् अत इत्त्वम्। उष्ट्रकाण्डीवृक्षे राजनि०।

करभञ्जिका = स्त्री भन्ज–ण्वुल् ६ त०। करमर्द्दभेदे भावप्र०

करभप्रिवा = स्त्री ६३०। १ क्षुद्रदुरालभायाम् राजनि० उष्ट्रप्रियत्वात्तस्यास्तथात्वम्। २ उष्ट्रयोषिति च।

करभवल्लभ = पु० ६ त०। १ उष्ट्रप्रिये रीलुवृक्षे, २ कपित्यवृक्षं च राजनि०। २ करभप्रियमात्रे त्रि०। स्त्रियां टाप्।

करभादनो = स्त्री करभैरद्यते अद–कर्म्मणि ल्युट् ङीप्। उष्ट्रप्रियायां दुरालभायाम् राजनि०

करभिन् = पुंस्त्री करभः करावयषभेदस्तदाकारः शुण्डेऽस्त्यस्य इनि। गजे राजनि० तस्य शुण्डे करभाकारत्वात् तथात्वम्। स्त्रियां ङीप्।

करभीर = पु० करभिणं गजमोरयति पलायनाय प्रेरयति ईरअण्। सिंहे शब्दर०।

करभूषण = न० करोभूष्यतेऽनेन भूष–करणे ल्युट्। १ कङ्कले (काङ्गनि) हस्तभूषणे अमरः। करं भूषयति भूष–णिचिस्यु। २ हस्तभूषणमात्रे त्रि०।

करभोरु = स्त्री करभ इव ऊरुर्यस्याः ऊङ्। प्रशस्त्रोरुकायां उत्तमस्त्रियाम्।

करमट्ट = पु० करं हस्तिशुण्डमट्टति अट्ट–अनादरे बा० ख मुम् च। १ गुवाकवृक्षे त्रिका० तस्य हस्तिशुण्डवत्काण्डत्वात्तथात्वम्। (पाणिया आमला) २ वृक्षे इत्येके।

करमरिन् = त्रि० किरत्यत्र दम्यान् कृ–आधारे अप् करोबन्धनागारः तत्र म्रियते बा० इनि। (कयेदी) बन्दिनि त्रिका० तस्य बन्धनागारे मरणात्तथात्वम्।

करमर्द्द = पु० करं मृद्नाति मृद–अणुप० स०। (पाणियाआमला) वृक्षे राजनि०। ण्वुल् करमदकोऽप्यत्र। तत्स्पर्शेहि करकण्डूरिति तस्य तथात्वम्। “लघुदीर्घफलाभ्यां तु करमर्द्द द्वयं मतम्। करमर्दद्वयं त्वाममम्लं गुरु तृषाहरम्। उष्ण रुचिकरं प्रोक्तं पित्तरक्तकफप्रदम्। तत् पक्कं मधुरं रुच्यं लघु पित्तसमीरजित्” भाबप्र० “करमर्द्दाल्लघुफला सा ज्ञेया करमर्द्दिका” इति तत्रोक्ते लघुफलकेऽत्र स्त्री

करमर्द्दिन् = पु० कर मृद्नाति णिनि ६ त०। करमर्द्दे (पाणिया आमला) वृक्षे रत्नमा०।

करमाल = पु० करः हस्तिशुण्डैव तदाकृतिर्मालाऽस्य। धूमे हेम० क्रमेण हस्तिशुण्डाकारेण प्रसरणात्तस्य तथात्वम्

करमाला = स्त्रो करः कराङ्गुलिपर्व मालेव जपसंख्याहेतुत्वात्। “आरभ्यानामिकामध्यं दक्षिणावर्त्तयोगतः। तर्जनीमूलपर्य्यन्तं करमाला प्रकीर्त्तिता” इत्युक्तलक्षणायां जपसंख्यार्थं कराङ्गुलिपर्वरूपायां मालायाम्। अत्र विशेषस्तन्त्रसा० उक्तः यथा सनत्कुमारसंहितायाम् “तर्ज्जनी मध्यमानामा कनिष्ठा चेति ताः क्रमात्। तिस्रोऽङ्गुल्यस्त्रिपर्वाणो मध्यमा चैकपर्विका। पर्वद्वयं सध्यमाया मेरुत्वेनोपकल्पयेत्”। क्रममाह तत्रैव “अनामामध्यमारभ्य कनिष्ठादित एव च। तर्जनीमूलपर्य्यन्तं दशपर्वसु सं जपेत्”। तत्रैव। “अनामामूलमारभ्य कनिष्ठादित एव च। तर्जनीमध्यपर्य्यन्तमष्टपर्वसु संजपेत्”। एतद्वचनन्तु अष्टोत्तरशतविषयम् विष्णुविषयञ्च। शक्तिविषये पुनः “अनामिकात्रयं पर्व कनिष्ठा च त्रिपर्विका। मध्यमायाश्च त्रितयं तर्ज्जनीमूलपर्वणि। तर्जन्यग्रे तथा मध्ये यो जपेत् स तु पापहृत्”। अन्यच्च “अवामामूलमारभ्य प्रादक्षिण्यक्रमेण च। मध्यमामूलपर्य्यन्तं संजपेदष्टपर्वसु”। इदमपि अष्टोत्तरशतविषयम्। हंसपारमेश्वरे “र्पवत्रयमनामायाः परिवर्त्तोन वै क्रमात्। पर्वत्रयं मध्यमायास्तर्जन्येकं समाहरेत। पर्वद्वयन्तु तर्ज्जन्याः मेरुंतद्विद्धि पार्वति!। शक्तिमाला समाख्याता सर्वतन्त्रप्रदीपिता। श्रीविद्यायामयं विशेषः। “अनामामूलमारभ्य प्रादक्षिण्यक्रमेण च। मध्यमामूलपर्य्यन्तं दशपर्वसु संजपेत्”। अन्यच्च “मध्यमाया अनामाया मूलाग्रञ्च द्वयं द्वयम्। कनिष्ठायाश्च तर्ज्जन्यास्त्रयं पर्व महेश्वरि!। अनामामध्यमयोश्च मेरुःस्यात् द्वितयं शुभम्। प्रादक्षिण्यक्रमाद्देवि। जपेत् त्रिपुरसुन्दरीमिति” यामलात् “कनिष्ठामूलमारभ्य प्रादक्षिण्यक्रमेण तु। तर्ज्जनीमूलपर्य्यन्तं जपदष्टसु पर्वसु” इति श्रीक्रमवचनाच्च। इदमपि तथैव। मुण्डमालातन्त्रे “अनामिकाद्वयं पर्व कनिष्ठादिक्रमेण तु। तर्जनीमूलपर्य्यत्तं करमाला प्रकीर्त्तिता। अङ्गलीं न वियुञ्जीत किञ्चिदाकुञ्चिते तले। अङ्गुलीनां वियोगाच्च छिद्राच्च स्रवते जपः”। अन्यत्रापि। “अङ्गुल्यग्रे च यज्जप्तं यज्जप्तं मेरुलङ्घने। पर्वसन्धिषु यज्जप्तं तत्सर्वं निष्फलं भवेत्। गणनाविधिमुल्लङ्घ्य यो जपेत् तज्जपं यतः। गृह्णन्ति राक्षसास्तेन गणयेत् सर्वथा बुधः। जपसंख्या तु कर्त्तव्या नासंख्यातं जपेत् सुधीः। असंख्याकारकस्यास्य सर्वं भवति निष्फलम्। हृदये हस्तमारोप्य तिर्य्यक् कृत्वा कराङ्गुलीः। आच्छाद्य वासमा हस्तौ दक्षिणेन सदा जपेत्”। गायत्रीजपे विशेषः विधानपा० गायत्रीहृदये “अनामिकामध्यरेखावध्यधः प्रक्रमेण च। तर्ज्जन्थादिगतान्ते च अक्षमाला करे स्थिता” अनामिकाया मध्यरेखामादिं कृत्वा तर्जन्या आदिरेखा अन्ते यस्याः सेयं करे स्थिता मालेत्यर्थः विघानपा०। तत्रैव यमः। “सहस्रपरमां देवीं शतमध्यां दशाबराम्। गायत्रीं तु जपेन्नित्थं सर्वकलमषनाशिनीम्। पर्वभिस्तु जपेद्देवीमन्यत्रानियमः स्मृतः। गायत्र्यावेदवीजत्वात् गदितं ब्रह्मणा स्वयम्। अङ्गष्ठाग्रेण यज्जप्तं बज्जप्तं मेरुलङ्घतात्। असंख्यातं तथा जप्तं तत्मर्वं निष्फलं भवेत्” मदनपारिजाते तु मध्यमाया द्वयं पर्वेतिपाठः। आ० त० शङ्खः। “तिस्रोऽङ्गुल्यस्त्रिपर्व्वाणो मध्यमा चैकपर्विका। अनामामध्यमारभ्य जप एवमुदाहृतः” काग्ये मालाऽभावे एवास्याग्राह्यता नित्ये तु सर्वथैव ग्राह्यता यथाह योगिनीत०। “नित्यं जपं करे कुर्य्यान्नकाम्यमवरोधनात्। काम्यमपि करे कुर्य्यात् मालाऽभावे प्रियंवदे!। तत्राङ्गुल्या जपं कुर्य्यात् साङ्गुष्ठाङ्गुलिभिर्जपेत्। अङ्गुष्ठेन विना कर्म कृतं तन्निष्फलं भवेत्” उत्पत्तितन्त्रे १ प० “नित्यं नैमित्तिकं काम्यं करे कुर्य्याद्विचक्षणः। करमाला महादेवि! सर्वदोषविवर्जिता। छिन्नभिन्नादिदोषोऽपि करे नास्ति कदाचन। अक्षया तु करे देवि! माला भवति तादृशी। ग्रन्थिः सा कुण्डलीशक्तिः पञ्चाशद्वर्ण्णरूगिणी। अतएव महेशानि! करमाला महाफला”। ततश्च दक्षिणेनेति प्रागुक्तेः दक्षहस्तपर्वमिरेव दशसंख्यजपः कार्य्यः। शतादिजपे तु दक्षिणहस्तेन कृतजपदशसंख्यायाः प्रत्येकं दशकसंख्यागणना वामहस्तस्थितनिर्द्दिष्टपर्व्वक्रमेण कार्य्या तथा च दशकस्य दशकेन गणने शतसंख्यापूर्त्तिः। अधिकाष्ट संख्या तु दक्षहस्तेर्नव प्रागुक्तरीत्य कार्य्योति तत्त्वम्।

करमुक्त = न० करे स्थापयित्वा मुच्यते शत्रुं प्रति क्षिप्यते मुच–क्त (वडशी) अस्त्रभेदे हेमच०।

करम्ब = त्रि० कृ–कर्मणि अम्बच्। १ मिश्रिते। भावे अम्बच्। २ मिश्रणे पु०। हेमच०। ३ करम्भे इत्यमरटीवायांनीलकण्ठः

करम्बित = त्रि० करम्बो मिश्रणं जातोऽस्य तार० इतच्। मिश्रिते “मधुकरनिकरकरम्बितेति” जयदेवः।

करम्भ = पु० केन जलेन रभ्यते सिच्यते रभ–घञ् मुम् च। १ दधिमिश्रितसक्तुषु अमरः “धानावन्तं करम्भिणमपूपवन्तम्” ऋ० ३, ५२, १,। “पूषण्वते ते चकृमा करम्भम्” ऋ० ३, ५२, ७, “अतषानिव यवान् कृत्वातानीषदिवोपतप्य करम्भपात्राणि तेषां कुर्व्वन्ति” शत० ब्रा० २, ५, २, ४, २ उदगन्थे “धानाः करम्भः सक्तवः परिवापः पयो दधि” यजु० ९, २१, “करम्भः उदमन्यः” वेददी०। “रूपं वदरमुपवाका करम्भस्य” २२। “करम्भादिति पूषणम्” ऋ० ६, ५६, १। ३ भ्रष्टयवमात्रे। “कामधियस्त्वयि रचिता न परमारोहन्ति यथा करम्भवीजानि” भाग० ३, २६, ३७, “करम्भवीजानि भर्जितयववीजानि” श्रीधरः। “करम्भबालुकातापान् कुम्भीपाकांश्च दारुणान” मनुः। करम्भपाकार्थं बालुकावदातापोयेषु इति। “करम्भबालुकां तप्तामायसीश्च शिलाः पृथक” भा० स्वर्गा० २ अ०। निरयवर्ण्णने। द्रव्यावयववैषम्पात् ४ मिश्रगन्धे। “करम्भपूतिसौरभ्यशान्तोग्राम्लादिभिः पृथक्” एकोविभिद्यते गन्धः” भाग० ३, २६, ४३, “करम्भोमिश्रगन्ध” श्रीधरः। ५ प्रियङ्गुवृक्षे ६ शतावर्य्याञ्च राजनि०। स्वार्थे कन् करम्भक तत्रार्थे

करम्भि = पु० यदुवंश्ये नृपभेदे। “करम्भिः शकुनेः पुत्रोदेव रातस्तदात्सजः” भाग० ९, २४, २,

कररुह = पु० करे रोहति रुह–क। १ नखे अमरः। वामश्चास्याः कररुहपदैर्मुच्यमानी मदीयै” मेघ०। २ कृपाणे च (तरवार)

करर्द्धि = स्त्री करेण ऋद्धिर्यत्र। १ करताल्याम्। त्रिका० ६ त०। २ हस्तसम्पत्तौ च।

करवी = स्त्री कस्य वायोः रवोऽत्र गौ० ङीष्। १ हिङ्गुपत्रे करेण वीयते वी–क्विप्। २ कवर्य्याञ्च त्रिका०

करवीर = पु० करं वोरयति चु० वीर विक्रान्तौ अण्। १ कृपाणे खड्गे, २ स्वनामख्याते ३ वृक्षे, ४ देशभेदे च मेदि०। ५ शमशाने, हेम०। ब्रह्मावर्त्ते ६ दृशद्वतीनदीतीरस्थचन्द्रशेखरराजपुरे च। करवीरवृक्षभेदगुणाश्च भाव० उक्ता यथा। “करवीरः श्वेतपुष्पः शतकुम्भोऽश्वमारकः। द्वितीयोरक्तपुष्यश्च चण्डद्रोणः शुभस्तथा। करवीरद्वयं तिक्तं कषायं कटुकञ्च तत्। व्रणलाघवकृन्नेत्रकोपकुष्टव्रणापहम्। वीर्य्योष्णं कृमिकण्डूघ्नं भक्षितं विषवन्मतम्!। ७ तीर्थभेदे। “करवीरपुरे स्नात्वा विशालायां कृतोदकः। देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते” भा० अनु० २५ अ०। करवीरपुरञ्च चेदिदेशसन्निकृष्टं गोमन्तपर्ब्बर्तात् त्रिदिन गम्यमार्गे स्थितम्। यथोक्तं हरिवं० १०० अ० “राज्ञां पराजयं युद्धे गोमन्तेऽचलसत्तमे। श्रवणाद्धारणाच्चास्य स्वर्गलोकं व्रजन्ति ते। तत्गच्छाम महाराज! करवीरं पुरोत्तमम् त्वयादिष्टेन मार्गेण चेदिराज! शिवाय च। ते स्यन्दनगताः सर्व्वे पवनोत्पातिभिर्हयैः। भेजिरे दीर्घमध्वानं मूर्त्तिमन्त इवाग्नयः। ते त्रिरात्रोषिताः प्राप्नाः करवीरं पुरोत्तमम्। शिवाय च शिवे देशे निविष्टास्त्रिदशोपमाः” तत्पुराधीशश्च शृगालनामा भृपतिस्तदप्याह तत्रैव १०१ अ० “तानागतान् विदित्वाऽथ शृगालो युद्धदुर्म्मदः। पुरस्य धर्षणं मत्वा निर्जगामेन्द्रविक्रमः”।

करवीरक = पु० करवीर इव कायति कै–क। १ अर्ज्जुनवृक्षे राजनि० स्वार्थे कन्। २ करवीरार्थे। करं वीरयति ण्वुल्। ३ खड्गे शब्दमा०। करवीरे भवः कन्। ४ करवीरभूलज- रूपे विषभेदे न० हेमच०

करवीरकन्दसंज्ञ = पु० करवीरकस्य संज्ञा संज्ञाऽस्य। तैल कन्दे राजनि०।

करवीरभुजा = स्त्री करवीरस्य भुजैव भुजोऽस्याः। आढक्याम् (अरहर) राजनि०

करवीरभूषा = स्त्री करवीरस्य भूषेव मूषा यस्याः। आढक्याम्। (अरहर) शब्दचि०

करवीराद्य = न० करवीरमाद्यं यत्र। “करवीरपुष्पं जात्यसनमल्लिकायाश्च। एतैः समन्तु तैलम् नामार्शोनाशनञ्च श्रेष्ठम्” इति चक्रदत्तोक्ते तैलभेदे।

करवीरी = स्त्री कृ–भावे अप् कराय विक्षेपाय वीरः पुत्रोऽस्याः। १ अदितौ तत्पुत्राणां सुरक्षेपकत्वात्तस्यास्तथात्वम्। कं सुखं राति रा–क करः सुखदः वीरः पुत्रोऽस्याः। २ पुत्रवत्यां स्त्रियाञ्च मेदि० सर्व्वतः गौरा० ङीष्।

करवीर्य्य = पु० करबीरे पुरे भवः यत्। धन्वन्तरिं प्रति आयुर्वेदज्ञानाय प्रश्नकारके ऋषिभेदे। “काशिराजं दिवोदासं धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावतकरवीर्य्यगोपुररक्षितसुश्रुतप्रभृतय ऊचुः” सुश्रु०।

करशाखा = स्त्री करस्य शाखेव। अङ्गुलौ अमरः। अङ्गुलशव्दस्य परिमाणविशेषे परिभाषिकत्वेऽपि अर्स्यतदर्थे पारिविभाषिकत्वकल्पनं शब्दकल्पद्रुमे निर्मूलमेव।

करशीकर = पु० करस्य हस्तिहस्तस्यशीकरः। हस्तिहस्तात् निर्गते जलकणे अमरः

करशुद्धि = स्त्री ६ त०। फडितिमन्त्रेण गन्धपुष्पाभ्यां हस्तयाः शोधने। “आदावृष्यादिकन्यासः करशुद्धिस्ततः परम्” तन्त्रसा०।

करशूक = पु० करस्य शूकः सूचीव। नखे। त्रिका०।

करस् = न० कृ–असुन्। कर्मणि। “प्र ते पूर्वाणि करणानि विप्रा विद्वा~ आह विदुर्षे करांसि” ऋ० ४, १९, २०। “करांसि कर्माणि” भा०।

करसुत्र = न० ६ त०। विवाहादौ हस्ते मङ्गलार्थं बध्यमाने रूत्रे।

करस्थालिन् = पु० करः स्थालीवास्त्यस्य ब्रीह्या० इनि। महादेवे “तलस्तालः करस्थाली ऊर्द्धसंहननो महान्” भा० अख०। ७ अ० शिवसहस्रनामकथने। तस्य कालरूपेण सर्वभूतानां कररूपस्थाल्यैव पचनात्तथात्वम्।

करस्न = पु० करणं करः कृ–बा० अप् तं स्राति करोति धातूनायनेकार्थत्वात् स्रा–क। कर्मकरे बाहौ निरु० “रेवत्सृप्रा करस्ना दधिषे वपूंषि” ऋ० ३, १८, ५। करस्ना कर्माणि प्रस्नातारौ बाहू” भा० “पृथूकरस्ना बहुला गभस्ती” ऋ० ६, १९, ३। एतामृवमधिकृत्य “करस्ना बाहू कर्मणां प्रस्नातारौ” निरु० ६, १६ निरुक्तिर्दशिता।

करहाट = पु० करैःसूर्य्यकिरणैः हाट्यते दीप्यते हट–दीप्तौ णिच् कर्म्मणि घञ। १ पद्मादिसमूहे, अमरः करं हाटयति हट–णिच् अण्। २ मदनद्रुमे, ३ देशभेदे च। मेदिनिः। ४ पिण्डीतकतरौ राजनि०।

करहाटक = पु० करं हाटयति हट–दीप्तौ णिच्–ण्वुल्। १ मदनवृक्षे। करहाटकार्जुनककुभेत्यादि सुश्रु०। ६ त०। २ हस्ताभरणे सुवर्ण्णे। अमरः।

कराङ्गण = न० करस्य राजस्वादानस्याङ्गणम्। राजस्वादानस्याने। हारा०।

कराघात = पु० ६ त०। करतलाघाते चपेटाघाते (चापडमारा)

कराट = त्रि० कराय विक्षेपायाटति अट + अच्। विकटे शब्दचि०

करामर्द्द = पु० करमामृदद्नाति आ + मृद–अण उप० स०। करमर्दे शब्दर०।

कराम्बुक = पु० कीर्य्यते वॄ–कर्मणि अप् करमम्बुयतः कप्। (पाणिया आमाला) करमर्द्दभेदे शब्दच०।

कराम्लक = पु० करं कीर्य्यमाणयम्लं यतः कप्। करमर्द्दवृक्षे राजनि०।

करायिका = स्त्री कर इवाचरति कर + आचारे क्यङ् ण्वु ल्। १ बलाकायाम् तस्याः सङ्कुचितहस्तवत् प्रकाशमानत्वात्तथात्वन्। २ कूटपूर्य्याम् शब्दचि०

करारोट = पु० करे आरोटते रुट–दीप्तौ अच्। अङ्गुरीयके त्रिका०।

कराल = पु० कराय विक्षेक्षायालति षर्य्याप्नोति करं लाति लाक वा। १ सर्जरसयुक्ततैले (तेलघृना) २ कृष्णकुठेरके (कालतुलसी) ३ तुङ्गे ४ दन्तुरे उन्नतदन्ते (दे~तो) ५ भयानके त्रि० मेदि०। “करालवदनां घोराम्” “घोरदंष्ट्रां करालास्याम्” श्यामाध्यानम्। “वपुर्महोरगस्येव करालफणमण्डलम्” रघुः “लम्बा कराला विनता तथैव बहुपुत्रिका” “दुर्द्दर्शना सुदुर्गन्धा कराला मेघकालिका” (पूतना) सुश्रु०। (अनन्तमूल) ६ शारिधोषधो स्त्री राजनि०। गौरा० ङीष्। ८ अग्नेर्जिह्वाभेदे जटाधरः। सा च तामसी यथाह शा० ति० “विश्वमूर्त्तिस्फुलिङ्गिन्यौ धूम्रकर्ण्णा मनोजवा। लोहितान्या करालो च कली तामस्य ईरिताः”। संज्ञायां कन् अत इत्त्वम्। करालिका राजसवह्निजिह्वायाम्। “पद्मरागा सुवर्ण्णान्या तृताया भद्रलोहिता। लोहितानन्तरं श्वता धूमिनी च करालिका। राजस्योरसना वह्नेर्विहिताः काम्यकर्ममु” अग्निजिह्वशब्दे दर्शितवाक्यन्तु सामान्यविषयम्। ९ दन्तरोगभेदे पु०। “शनैः शनैर्विकुरुते वायुदीन्तसमाश्रितः। करालान् विकृतान् दन्तान् कराली न स सिध्यात” भावप्र०। तादृशरोगयुक्तत्वात् दन्तुरस्य तथात्वम्। “तप्तस्नेहे पचेत् पूर्वं वेसवारकसंज्ञकम्। पाकप्रापिततसौ रभ्यं करालं सूदकैर्मतम्” पाकशास्त्रोक्ते स्नेहपक्वे १० वेसवारे न०। (कडि) ११ कस्तूरामृगे पुंस्त्री “एणहरिणर्ष्यकुरङ्गकरालकृतमालशरभश्वदंष्ट्रापृषतचारुष्कमृगमातृकाप्रभृततयो जङ्घलाः मृगाः कषया मधुरा लघवो वातपित्तहरास्तीक्ष्णा हृद्या वस्तिशोधनाश्च” सुश्रुते मृगभेदानुक्त्वा तद्गुणा उक्ताः। १२ दैत्यभेदे पु०। “ससृमः कालवदनः करालः कौशिकः शरः” हरितं ४२ असुरनामकथने। “ससृमःकालवदनः करालः केशिरेव च” हतिवं० २६३ अ०। स्वार्थे कन् करालकः उक्तार्थेकृष्णतुलस्याम् पु० रत्ना०।

करालत्रिपुटा = स्त्री करालानि त्रीणि पुटान्यस्याः। लङ्काधान्ये त्रिकाण्डिकायाम् राजनि०।

करालभैरव = न० तन्त्रभेदे। म० त० कूमपु० हिमालयं प्रति देवीवाक्यम्। “करालभैरवञ्चापि यामलं वाममाश्रितम्। एवंविधानि चान्यानि मोहनार्थानि यानि तु। मया सृष्टानि चान्यानि मोहायैषां भवार्ण्णवे”

करालिक = त्रि० कराणां करतुल्यशाखानामालिर्यत्र कप्। वृक्षे हेमच०।

करास्फोट = पु० करेण आस्फोटः शब्दो यत्र। वक्षःस्थले सङ्कुचितरूपेण स्थापिते एकबाहौ इतरकराघातेन ताडने (तालठीका)। ६ त०। २ कराघाते।

***