कफ = पु० केन जलेन फलति फल–ड। शरीरस्थे धातुभेदे श्लेष्मणि। “प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोघनबिधौ स्मरणं कुतस्ते” उद्भटः। कफस्य स्वरूपस्थानकर्मादिकं मावप्र० उक्तं यथा।

“श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छलः शीतलस्तथा। तमोगुणाऽधिकः स्वादुर्विदग्धो लवणं भवेत्। एकः श्लेष्मा नामस्थानकर्म्मभेदैः पञ्चविधः। अथ श्ल ष्मणां नामान्याह “कफस्यैतानि नामानि क्लेदनश्चावलम्बनः। रसनः स्नेहनश्चापि श्लेष्मणः स्थानभेदतः अथ क्लेदनादीवां स्थानान्याह। आमाशयेऽथ हृदये कण्ठे शिरसि सन्धिषु। स्थानेघ्वेषु मनुष्यणां श्लेष्मा तिष्ठत्यनुक्रमात्। दोषाणां सकलशरीरव्यापिनामपि पञ्च स्थानानीति बाहुल्याभिप्रायेणोक्तानि। तथाच वाग्भटः “इति प्रायेण दोषाणां स्थानान्येकीकृतात्मनाम्। व्यापिनामपि जानीयात् कर्माणि च पृथक् पृथक्”। इति चरकश्च “ते व्यापिनोऽपि हृन्नाभ्योरधोप्नध्योर्द्धसंश्रयाः” इति अथ तत्तत्स्थानगतस्य श्लेष्मणः कर्म्माण्याह। क्लेदनः क्लेदयत्यन्नमात्मशक्त्याऽपराण्यपि। अनुगृह्णति च श्लेष्मस्थानान्युदककर्म्मणा। अयमर्थः क्लेदनोऽन्नं क्लेदयति तेन संहतमन्नं भेदं प्राप्तोति। अपराण्यपि श्लेष्मस्थानानि हृदयादीनि मार्गेण गत्वा तत्र तत्रहृदयालम्बनसं धारणरसग्रहणसमस्तेन्द्रियतर्पणसन्धिसंश्लेषणाद्युदककर्मभिरनुगृह्लाति उपकरोति। तथात्त “रसयुक्तात्मवोर्येण हृदयस्थानलम्बनम्। त्रिकसन्धारणं चापि विदधात्यवलम्बनः। त्रिकं शिरोबाहुद्वय- सन्धिः। उभावपि यतः सौम्यौ तिष्ठतश्चान्तिके यतः। ततो रसान्विजानीतोरसनारसनौ समौ। रसना रसनेन्द्रियं रसनः कण्ठस्थकफः। स्नेहनः स्नेहदानेन समस्तेन्द्रियतर्पणः। श्लेष्मणः सर्वसन्धीनां संश्लेषं विदधात्यसौ”। अन्यत्र वैद्यकेऽन्यथानामाद्युक्तम्। “अवलम्वकैत्येकः क्लेदकः श्लेषकोऽपरः। बोधकस्तर्पकश्चेति श्लेष्मा पञ्चविधः स्मृतः। तल्लक्षणानि यथा “कफधाम्नां तु शेषाणां यत् करोत्यवलम्बनम्। ततोऽवलम्बकाख्यातिं श्लेष्मा प्राप्नोत्युरः स्थितः”। आमाशयाश्रितः सोऽन्नक्लेदनात् क्लेदकः स्मृतः। श्लेप्मकः श्लेषणात् सन्धेः स च सन्धौ व्यवस्थितः। रसनावस्थितः श्लेष्मा बोधको रसबोधनात्। शिरसि प्रस्थितश्चासौ तर्पको नेत्रतर्यणात्” कफस्थानानि “उरः कण्ठः शिरः क्लोमपर्वाण्यामाशयो रसः। मेदोघ्राणञ्च जिह्वा च कफस्थानमुरःपरम्”। अविकृतकफस्य कर्माणि यथा सुखबोधे “स्नेहोबन्धः स्थिरत्वञ्च गौरवं वृषता बलम्। क्षमा धृतिरलोभश्च कफकर्माविकारजम्” कफसामान्यलक्षणं यथा “माधुर्य्यलेहगौरवशैत्यपैच्छिल्य गुणलक्षणः श्लेष्मा तस्य समानयोनिर्मधुरो रसः सोऽस्य माधुर्य्यान्माधुर्य्यं वर्द्धयति स्नेहात् स्नेहं गौरवाद्गौरवं शैत्यात् शैत्यं पैच्छिल्यमिति तस्य पुनरन्ययोनिः कटुको रसः स श्लेष्मणः प्रत्यनीकत्वात् कटुकत्वान्माधुर्य्यमभिभवति रौक्ष्यात् स्नेहं लाघवाद्गौरवमौष्ण्यात् शैत्यं वैशद्यात्पैच्छिल्यमिति” सुश्रु०। विशेषतस्तन्निदानादिकमुक्तं सुश्रुते

“दिवास्वप्नव्यायाभालसमधुरास्ललवणशीतस्निग्धगुरुपिच्छिलाभिष्यन्दिहायनकयवकनैषधैत्कटमाषमहामाषगोधूमतिलपिष्टविकृतिदधिदुग्धकृशरापायसेक्षुविकारानूपोदकमां सवसाविसमृणालकशेरुकशृङ्गाटकमधुरवल्लीफलसमशनाध्यशनप्रमृतिभिः श्लेष्मा प्रकोपभापद्यते। शीतैः शीतकाले च वसन्ते च विशेषतः। पूर्व्वाह्णे च प्रदोषे च भुक्तमात्रे प्रकुप्यति”। सुश्रुते कफविकारे हेतुरुक्तो यथा “विपमोवातजान् रोगान् तीक्ष्णपित्तनिमित्तजान्। करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान्” वयोभेदे कफाद्याधिक्यमाह तत्रैव “बाले विवर्द्धते श्लष्मा मध्यमे पित्तमेव तु। भूयिष्ठं बर्द्धते वायु र्वृद्धे तान्वीक्ष्य योजयेत्। देशभेदोऽपि कफहेतुस्तत्रोक्तः “कफवातरोगगूयिष्ठश्चानूपः”। कफश्चाप्य एब तद्धर्माणां क्लेदनादेराप्यधर्मत्वात् यथोक्तम् सुश्रुते। “शीतस्तिमितस्निग्धमब्दगुरुसान्द्रमृदुपिच्छिलरसबहुलमी- षत्कषायास्ललवणं मधुररसप्रायमाप्यं तत् स्नेहनप्रह्लादनक्लेदनबन्धनविष्यन्दनकरमिति”। अधिकमाकरे दृश्यम्।

कफकर = त्रि० कफं तद्विकारं करोति कृ–अच्। कफविकारकारके द्रव्यभेदे स च द्रव्यभेदः सुश्रुते उक्तः “काकोलीक्षीरकाकोलीजीवकर्षभकमुद्गपर्णीमाषपर्णीमेदामहामेदाच्छिन्नरुहाकर्कटशृङ्गीतुगाक्षीरीपद्मकप्रपौण्डरीकर्द्धिवृद्धिमृद्वीकाजीवन्त्यो मधूकञ्चेति। काकोल्यादिरयं पित्तशोणितानिलनाशनः। जीवनो वृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा”। अन्यत्र “कफपित्तकरा मतस्याः कफपित्तकरं दधि”। सुश्रुतेऽपि। सामान्यत उक्तं यथा “कटुकं मूलकं श्लेष्माणं वर्द्धयति स्निग्धवीर्य्यत्वात्” “वसुधाजलजातार्भ्या बलासं परिवर्द्धते” बलासं कफः। कफकृत्कफवर्द्धनादयोऽप्यत्र। “प्रमेहकृत् स्यात् कफकृच्च सर्वम्” वैद्यकम्।

कफकूर्चिका = स्त्री कफं कूर्चति विकरोति कुर्च–विकारे ण्वुल्। लालायाम् आस्यासवे (लाल)। हेम०।

कफघ्नी = कफं तद्विकारं हन्ति टक् ङीप्। १ हवुसाभेदे राजनि०। २ कफहन्तृदृव्यभेदे त्रि० तानि द्रव्याणि सुश्रुते दर्शितानि यथा “आरग्वधमदनगोपधोण्टाकुटजपाठाकण्टकीपाटलामूर्व्वेन्द्रयवसप्तपर्णनिम्बकुरुण्टकदासीकुरुण्टकगुडूचीचित्रकशार्ङ्गष्टाकरञ्जद्वयपटोलकिराततिक्तकानि सुषवी चेति। आरग्बधादिरित्येष गणः श्लेष्मविषापहः”।

“वरुणार्त्तगलशिग्रौमधुशिग्रुतर्कारीमेषशृङ्गीपूतीकानक्तमालमोरटाग्निमन्थसैरीयकद्वयविम्बीवसुकवसिरचित्रकशतावरीविल्वाजशृङ्गीदर्भा वृहतीद्वयञ्चेति। वरुणादिर्गणोह्येष कफभेदोनिवारणः”।

“सालसागाजकर्णखदिरकदरकालस्कन्धक्रमुकभूर्जभेषशृङ्गीतिनिशचन्दनकुचन्दनशिंशपाशिरीषासनधवार्जुनतालशाकनक्तमालपूतीकाश्वकर्ण्णागुरूणि कालीयकञ्चेति। सालसारादिरित्येष गणः कुष्ठविमाशनः। मेहपाण्ड्वाभयहरः कफमेहविशोषणः”। “रोध्रसावररोध्रपलाशकुटन्नटाशोकफञ्जीफट्फलैलवालुकसल्लकीजिङ्गिनीकादम्बमालाः कदली चेति। एष रोघ्रादिरित्युक्तो मेदःकफहरो गणः”। “अर्कालर्ककरञ्जद्वयनागदन्तीमयूरकभार्गीरास्नेन्द्रपुष्पीक्षुद्रश्वेतागहाश्वेतावृश्चिकाल्यलवणास्तापसगृक्षश्चेति। अर्कादिको गणो ह्येष कफमेदोविषापहः”। “सुरासाश्वेतसुरसाफणिज्झकार्य्यकगन्धकभूस्तृणसुमुखकालमालकासमर्हक्षवकखरपुषपाविडङ्कट्फलसुर सानिर्गुण्डीकुहालोन्दुरुकर्णिकाफञ्जीप्राचीबलकाकमाच्यो विषमुष्टिकश्चेति। सुरसादिर्गणो ह्येष कफहृत्कृमिसूदनः”। “पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्पलीहरेणुकैलाजमोदेन्द्रयवपाठाजीरकसर्षपमहानिम्बफलहिङ्गुभार्गीमधुरसातिविषावचाविडङ्गानि कटुरोहिणी चेति। पिप्पल्यादिः कफहरः प्रतिश्यायानिलारुचीः। निहन्याद्दीपनो गुल्मशूलघ्नश्चामपाचनः”। “एलातगरकुष्ठमांसीध्यामकत्वक्पत्रनागपुष्पप्रियङ्गुहरेणुकाव्याघ्ननखशुक्तिचण्डास्थाणेयकश्रीवेष्टकचोचचोरकबालकगुग्गुलुसर्जरसतुरुष्ककुन्दुरुकाऽगुरुस्पृक्कोशीरभद्रदारुकुङ्कुमानि पुन्नागकेशरञ्चेति। एलादिको वातकफौ निहन्याद्विषमेव च”। “वृहतीकण्टकारिकाकुटजफलपाठा मधुकञ्चेति। पाचनीयो वृहत्यादिर्गणः पित्तानिलापहः। कफारोचकहृल्लासमूत्रकृच्छ्ररुजापहः”। “पटोलचन्दनकुचन्द नमूर्व्वागुडूचीपाठाः कटुरोहिणी चेति। पटोलादिर्गणः पित्तकफारोचकनाशनः”। “ऊषकसैन्धवशिलाजतुकासीसद्वयहिङ्गूनि तुत्थकञ्चेति ऊषकादिः कफं हन्ति गणो मेदोविशोवणः। “मुचास्ताहरिद्रादारुहरिद्राहरीतक्यामलकविभीतककुष्ठहैमवतीवपाठाकटुरोहिणीशर्ङ्गष्टाऽतिविषाद्राविडोभल्लातकानि चित्रकश्चेति। एष मुस्तादिको नाम्ना गणः श्लेष्मनिषूदनः”। “हरितक्यामलकविभीतकानि त्रिफला। त्रिफला कफपित्तघ्नी मेहकुष्ठविनाशनी”। “पिप्पलीमरीचशृङ्गवेराणि त्रिकटुकम्। “त्र्यूषणं कफमेदोघ्नं मेहकुष्ठत्वगामयान्। निहन्याद्दीपनं शूलपिनसाग्न्यल्पतामपि”। “आमलकीहरीतकीपिप्पल्यश्चित्रकश्चेति। आमलक्यादिरित्येष गणः सर्वज्वरापहः। चक्षुष्यो दीपनो वृष्यः कफारोचकनाशनः”। “लाक्षारेवतकुटजाऽश्वमारकट्फलहरिद्राद्वयनिम्बसप्तच्छदमालत्यस्त्रायमाणा चेति। कषायस्तिक्तमधुरः कृफपित्तार्त्तिनाशनः”। “विल्वाग्निमन्थटुण्टुकपाटलाकाश्मर्य्यश्चेति महत्। सतिक्तं कफवातघ्नं पाके लघ्वग्निदीपनम्। मधुरानुरसञ्चैव पञ्चमूलं महत् स्मृतम्”। “कुशकाशनलदर्भकाण्डेक्षुका इति तृणणंज्ञकः। मूत्रदोषबिकारञ्च रक्तपित्तं तथैव च। अन्त्यः प्रयुक्तः क्षीरेण शीघ्रमेव विनाशयेत्। एषां वातहरावाद्यावन्त्यः पित्तविनाशनः। पञ्चकौ म्लेष्मशमनावितरौ परिकीत्तैतौ” इति विशेषव उक्तम्। सामान्यतस्तु तत्रैवोक्तम् “अम्लंकपित्यं श्लेष्माणं शम- यति रूक्षवीर्य्यत्वात् मधुरं क्षौद्रञ्च”। रसभेदस्य तद्धेतुता तत्रोक्ता। “ये रसा श्लेष्मशमनाभवन्ति यदि तेषु वै। स्नेहगौरवशैत्यानि बलासं बर्द्धयन्ति ते” (बलास कफम्) तत्पाकपरिपाटी तत्रैवोक्ता। “श्लेष्मा विदग्धीलवणतामुपैति” खतेजोनिलजैः श्लेष्मा शमं याति शरीरिणाम्। “तत्र यैमे गुणा वीर्य्यसंज्ञकाः शीतोष्णस्निग्धरूक्षमृदुतीक्ष्णपिच्छिलविशदास्तेषां तीक्ष्णोष्णावाग्नेयौ। शीतपिच्छिलावम्बुगुणभूयिष्ठौ। पृथिव्यम्बुगुणभूयिष्ठः स्नेहः। तोयाकाशगुणभूयिष्ठं मृदुत्वं। वायुगुणभूयिष्ठं रौक्ष्यम्। क्षितिसभीरणगुणभूयिष्ठं वैशद्यम्। गुरुलघुविकावक्तगुणौ। तत्रोष्णस्निग्धौ वातघौ। शीतमृदुपिच्छिलाः पित्तघ्नाः। तीक्ष्णरूक्षविशदाः श्लेष्मध्नाः गुरुपाको वातपित्तघ्नः। लघुपाकः श्लेष्मघ्नः। तेषां मृदुशीतोष्णाः स्पर्शग्राह्याः। पिच्छिलविशदौ चक्षुःस्पर्शाभ्याम्। स्निग्धरूक्षौ चाक्षुषौ। शीतोष्णौ सुखदुःखोत्पादनेन। गुरुपाकं सृष्टविण्मूत्रतया कफोत्क्लेशेन च। लघुर्ब्बद्धवि ण्मूत्रतया मारुतकोपेन च”। “तीक्ष्णोष्णं भूत्रलं हृद्यं कफघ्नं कटुपाकि च” सुश्रु०। तन्नाशकद्रव्यगुणभेदाः संक्षिप्यान्यत्रोक्ताः। “गुरुशीतमुदुस्निग्धमधुरस्थिरपिच्छिलाः। श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः”। तन्निवारणोपाया अन्यत्रोक्तायथा “रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवन स्त्रीसेवाध्वनियुद्धजागररतिक्रीडापदाघातनम्। धूमात्युष्णशिरोविरेकवमनस्वेदोपनाहादिकं पानाहारविहारभेषजमिदं श्लेष्माणमुग्रं जयेत्”। कफहन्तृ कफहादयःश्लेष्महन्तृश्लेष्महादयोप्यत्र त्रि०।

कफणि = पुं स्त्री केन जलेन फणति स्फुरति इन्। भुजमध्यग्रन्थौ। कूर्परे (कुनुइ) हेमच० स्त्रीत्वे वा ङीष्।

कफल = त्रि० कफः साध्यत्वेनास्त्यस्य लच्। कफदायके “वेणोः करीराः कफलामधुरारसपाकतः” सुश्रु०।

कफवर्द्धन = पु० कफं तद्विकारं वर्द्धयति वृध–णिच्–ल्यु। १ पिण्डीतकवृक्षे त्रिकाण्ड०। २ कफवृद्धिकारके त्रि०।

कफविरोधिन् = पु० कफं विरुणद्धि वि + रुध–णिनि। १ मरिचे राजनि०। कफविरोधकारके २ कफविकारनाशके त्रि०।

कफान्तक = पु० कफमन्तयति अन्त + तत्करोतीति णिच्–ण्वुल्। १ वर्बुरवृक्षे, राजनि०। २ कफविकारनाशके त्रि०।

कफारि = पु० ६ त०। १ शुण्ठ्याम् राजनि० २ कफनाशके त्रि०।

कफिन् = त्रि० कफोऽस्त्यत्र कफ + इनि। १ श्लेष्मप्रधने जने। अमरः स्त्रियां ङीप्। कफिनी तस्य भावः तल्। कफिता स्त्री त्व। कफित्व न० कफयुक्तत्वे।

कफेलू = पु० कफ लाति ला–कू नि०। १ श्लेष्मातकतरी उज्ज्वल० रूपमञ्जरी। शब्दक० कफयुक्ते त्रि० सि० कौ० “प्रमाणतयोक्तं यदुक्तं तच्छिन्त्यं सि० कौ० “कफं लाति कफेलूः म्लेष्मातकः निपातनादेत्त्वम्” इत्युक्तेः तत्र तदर्थत्वादर्शनात्।

कफोणि = पुंस्त्री केन जलेन फणति इन् पृषो० ओत्त्वम्। भुजमध्यग्रन्थौ कूर्परे (कुनुइ) अमरः। स्त्रियां वा ङीप्।

कफौड = पु० कफोणि + वेदे पृषो०। (कुनुइ) कूर्परे। “कति स्तनौ व्यदधुः कः कफोडः” अथ० १०, ४, २,

कब = स्तुतौ वर्णेच भवा० सक० प० सेट्। कबति अकबिष्ट चकाब ऋदित् णिचि अचकावत्। प्रनिकवति।

कबन्ध = पु० कं जलं बध्नाति बन्ध–अण्, केन वायुना बध्यते, बन्ध–कर्म्मणि घञ्, कोवायुः प्राणकयुर्बध्यते संबध्यतेऽत्रा धारे घञ् वा यथायथं वाक्यम्। १ उदरे तस्य पीतजलनिरोधनात् तथात्वम्। २ धूमकेतौ, प्रवहवायुना निचीयमानत्वात्तस्य तथात्वम् ३ राहौ, तस्य च्छिन्नमस्तकत्वेऽपि अमृतपानात् जीवनसत्त्वेन क्रियावत्त्वात् तथात्वम् ४ राक्षसभेदे च मेदि० ५ जले अमरः तस्य प्राणवायुधारकत्वात् तथात्वम् “आपोमयः प्राणः” इति छा० उ० श्रुतेस्तस्य प्राणधारण करत्वम् “पञ्चदशाहानि माऽशीः काममपः पिबापोमयः प्राणो न पिबतस्ते विच्छेत्स्यते” छा० उ० जनपानं विना प्राणविच्छेदस्योक्तेस्तथात्वम्। “मनुष्याणां सहस्रेषुंहतेषु हृतमूर्द्धसु। तदावेशात् कबन्धः स्यादेकोऽमूर्द्धाक्रियान्वितः” इत्युक्तलक्षणे शिरःशून्ये ६ क्रियायुक्तदेहे अस्त्री अमरः। “कबन्धाश्छिन्नशिरसः खड्गशक्त्तृष्टिपाणयः” देवीमा०। “नागानामयुतं तुरङ्गनियुतं सार्द्धं रथानां शतं पत्तीनां दश कोटयो निपतिता एकः कबन्धोरणे। तादृक्कोटि कबन्धनर्त्तनविधौ खेलच्चलत् खे शिरस्तेषां कोटिनिपातने रघुपतेः कीदण्डघण्टारवः” प्राचीनगाथा। “यस्य नेष्यति वपुः कबन्धताम्” चलितोर्द्धकबन्धसस्पदः” माघः। “कश्चित् द्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य। वामाङ्गसं सक्तसुराङ्गनः स्वं नृत्यत् कबन्धं समरे ददर्श”। “उत्थितं ददृशेऽन्यच्च कबन्धेभ्यो न किञ्चन” रघुः। तद्देहस्य शिरःशून्यत्वेऽपि वायोः सम्यग्निःसरणाभावेन वायुना सम्बन्धसत्त्वात् क्रियासम्भव इति बोध्यम ७ मेघे निरुक्ते ५, ४ “निचीनवारं वरुणंकबन्धम्” इत्यृचमधिकृत्योक्तम् “कबन्धं मेघम् कमुदकं भवति तदस्मिन् धीयते, उदकमपि कबन्धमुच्यते बन्धिरनिभृतत्वे कमनिभृतञ्च इति” तत्रोक्तेः तत्र पृषो० साधुत्वम्। कबन्धराक्षसकथा च भा० य० २३७ अ० यथा। “दुःखशोकसमाविष्टौ वैदेहीहरणार्द्दितौ। जम्मतुर्दण्डकारण्यं दक्षिणेन परन्तपौ। वने महति तस्मिंस्तु रामः सौमित्रिणा सह। ददर्श मृगयूथानि द्रवमाणानि सर्व्वशः। शब्दञ्च घोरं सत्वानां दावाग्नेरिव वर्द्धतः। अपश्यतां मुहूर्त्ताच्च कबन्धं घोरदर्शनम्। मेघपर्व्वतसङ्काशं सालस्कन्धं महाभुजम्। उरोगतविशालाक्षं महोदरमहामुखम्। यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम्। विषादमगमत् सद्यः सौमित्रिरथ भारत!। स राममभिसंप्रेक्ष्य कृष्यते येन तन्मुखम्। विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम। हरणञ्चैव वैदेह्या मम चायमुपप्लवः। राज्यम्रंशश्च भवतस्तातस्य मरणं तथा। नाहं त्वां सह वैदेह्या समेतं कोशलागतम्। द्रक्ष्याभि पृथिवीराज्ये पितृपैतामहे स्थितम्। द्रक्ष्यन्त्यार्य्यस्य धन्या ये कुशलाजशमीजलैः। अभिषिक्तस्य वदनं सोमं शान्तघनं यथा। एवं बहुविधं धीमान् विललाप स लक्ष्मणः। तमवाचाथ काकुत्स्थः सम्भ्रमेष्वप्यसम्भ्रमः। मा विषीद नरव्याघ्र! नैष कश्चिन्मयि स्थिते। छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः। इत्येवं वदता नस्य भुजो रामेण पातितः। खड्गेन भृशतीक्ष्णेन नित्तिस्तिलकाण्डवत्। ततोऽस्य दक्षिणं बाहुं खड्गेन नघ्निबान् बली। सौमित्रिरपि संप्रेक्ष्य म्रातरं राघवं स्थितम्। पुनर्जघान पार्श्वेवै तद्रक्षो लक्षणो भृशम्। गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः। तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः। ददृशे दिवमास्थाय दिवि सूर्य्य इव ज्वलन्। पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रव्रूपि पृच्छतः। का माया किमिदं चित्रमाश्चर्य्यं प्रतिभाति मे तस्याचचक्षे गन्धर्व्वोविश्वावसुरहं नृप!। प्राप्तो ब्राह्मणशापेन योनिं राक्षससेविताम्। रावणेन हृता सीता राम। लङ्काधिवासिना। सुग्रीवमभिगच्छ त्वं स ते सह्यं करिष्यति। एषा पम्पा शिवजला हंसकारण्डवैर्युता। ऋष्यमूकस्य शैलस्य सन्निकर्षे तडागिनी। वसते तत्र सुग्रीवश्चतुर्भिः सचिवैः सह। भ्राता वानरराजस्य वालिनो हेममालिनः। तेन त्वं सह सङ्गम्य दुःखमूलं निवेदय। समानशीलो भवतः साहाय्यस करिष्यति। एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम्। ध्रुवं वानरराजस्य विदितो रावणालयः। इत्युक्त्वान्तर्हितो दिव्यः पुरुषः स महाप्रभः। विस्मितं जग्मतुश्चोभौ प्रवीरौ रामलक्ष्मणौ”। “बधनिर्धूतशापस्य कबन्धस्योपदेशतः” रघुः

कबन्धिन् = पु० १ ऋषिभेदे “अथ कबन्धी कात्यायन उपेत्य पप्रच्छ” प्रश्नोप०। अस्त्यर्थे इनि। २ उदकयुक्ते त्रि० “अर्य्यम्णोन मरुतः कबन्धिनः” ऋ० ५, ५४, ८। “कवन्धिनः उदकवन्तः” भा०। स्त्रियां ङीप्।

कबित्थ = पु० कपयस्तिष्ठन्त्यत्र तत्फलप्रियत्वात् स्था–क पृषो० पस्य बः। कपित्थवृक्षे अमरटीका।

कबिल = पु० कबृ–वर्ण्णे इलच्! १ कपिलवर्ण्णे २ तद्वति त्रि०। द्विरूपकोषः।

कम् = अव्य० कम–णिङभावपक्षे विच् चादि। १ पादपूरणे, २ जले, कञ्जम्। ३ मस्तके ४ सुखे, शब्दर० कन्तिः कन्तुः ५ मङ्गले, ६ निन्दायाम् शब्दचिन्ता०। “अथ ये प्रवृत्तेऽर्थेऽमिताक्षरेषु ग्रन्थेषु वाक्यपूरणा आगच्छन्ति पादपूरणास्तेऽमिताक्षरेष्वनर्थकाः कप्तीमिद्विति” यथा “यत्रोत मर्त्त्याय कमरिणा” ऋ० ४, ३०, ६, “कमिति पादपूरणम्” निरु० १, ९, उक्तेः पादपूरणर्थता “तन्वं कृणुषे दृशे कम्” ऋ० १, १२३, ११, “अत्र कमिति पादपूरणे अथवा कमिति सुखवचनम् सुखं यथा भवतीति” भा० “एवेदेषा पुरुतमा दृशे कम् १, १२४, ६, “कम् सुखेन” भा० “अरमयः सरपसस्तराय कमलम्” ऋ० २, १३, १२, “कं सुखेन” भा०। ७ जलधारके मेधे “पिन्वसि त्वचं कं चित्” ऋ०, १, १२९, ३, “कं चित् जलधारिणं मेघम्” भा०। ८ सुखकरे “पक्षिणं तौग्र्याय कम्” ऋ० १, १८२, ५, “कम् सुखकरम्” भा० ताः अस्त्यर्ये “कंशम्भ्यां वभयुस्तितुतयसः” पा० वादयः सप्त प्रत्ययाः। कंव कम्भ कंयु कन्ति कन्तु कन्त कंय एते सुखान्विते त्रि०।

कम = वाञ्छायां भ्वा० आ० सक० सेट्। अतः स्वार्थे णिङ् आर्द्धधातुके वा। कामयते कामयीत कामयताम् अकामयत। अचीकमत। णिङभावपक्षेऽपि चञ् अचकमत। कामयाम् बभूव आस चके चकमे। कामयिता–कमिता कामयिषीष्टकमिषोष्ट। कामयिष्यते–कमिष्यते। कामनीयः कमनीयः काम्यः। कामयितव्यः–कमितव्यः। कामी। कामयिताकमिता कानितः कान्तः। कान्तिः। कर्त्तरि अच् कमः कर्मण्युपपदे अण्। स्वर्गकामः। उदित् कामयित्वा कामत्वा कान्त्वा। कामुकः कम्रः कमनः कामयमानः नि० कामयानः। काम्यते काम्यमानः। घञ् कामः मुच का- मना। “नरपतिश्चकमे मृगयारतिम्” “निष्क्रष्टेमर्थं चकमे कुवेरात्” “भीमकान्तैर्नृपगुणैः” “नवं वयः कान्तमिदं वपुश्च” रघुः। “सोऽकामत बहु स्यां प्रजायेय” श्रुतिः “रमणीकमनीयकपीलतले” सा० द० टी०। “स चेत् कामयते दातुं तव मामरिसूदन!” भा० आ० १७२। “सर्वान् कामयते यस्मात्” कत्याशब्दे उक्तम्। “प्रीत्या युक्तः कामितं सर्वशस्ते” भा० आ० ५८ “कामयाञ्चक्रिरे कान्तास्ततस्तुष्टानिशाचराः” “अकम्पनस्ततो योद्धु चकमे रावणाज्ञया” भाट्टः। आर्वे क्वचिन् पर०। “एवं रूप नलं यो वै कामयेच्छपितुं कले।” भा० व० ५८ अ०। “न च सीता दशग्रीवं मनसापि हि कामयेत्” “अकामोऽपि बलात् कामं दर्शनादेव कामयेत्” रामा०।अनु + कामनानुरूपकामनायाम्। अनुकामयते।षभि + आप्रिमुख्येम कामनायाम्। “दासीं कन्यासहस्रेण शर्म्मिष्ठामभिकामये” भा० आ० १८।नि + निःशेषकामनायाम्। “या तस्य ते पादसरोरुहार्हणं निकामयेत् साऽखिलकामलम्पटा” भाग० ५ स्क० १८, २२। अतिशये च “निकामतप्ता द्विधेन बह्निना” कुमा०प्र + प्रकर्षेण कामनायां अतिशये। प्रकामः।

कम = वाञ्छायां चुरा० आ० सक० सेट् उदित् कविकल्पद्रुमः। णिङन्तकमवत् सर्वंम्। किन्तु तत्र उदित्प्रयोजनं चिन्त्यम।

कमक = त्रि० कम–णिङभावे अच् स्वार्थे क। १ कामुके २ गोत्रप्रवर्त्तके २ ऋषिभेदे पु०। ततः गोत्रापत्ये इञ्। कामकि तद्गोत्रापत्ये पुंस्त्री वहुषु उपका० तस्य लुक्। कमकाः कामकयः।

कमठ = पुं स्त्री कम–अठन्। १ कूर्मे कच्छपशब्देविवृतिः स्त्रियां जातित्वात् ङीष्। “कमठपृष्ठकटोरमिदं धनुः” महाना०। २ विष्णोरेकादशे अवतारभेदे। “सुरासुराणामुदधिं मथ्नतां मन्दराचलम्। दध्रे कमठरूपेण पृष्ठे एकादशे विभुः” भाग० १, ३, १७। ३ मुनीनां जलपात्रभेदे न० विश्वः। ४ वंशे पु० शब्दर०। ५ दैत्यभेदे पु० हेमच०। ६ शल्लकीवृक्षे पु० धरणिः।

कमण्डलु = पुंन० मण्डनं मण्डः कस्य जलस्य मण्डं लातिला–कु अर्द्धर्चादि। करङ्के संन्यासिनां ब्रह्मचारिणाञ्च १ जलपात्रभेदे, अमरः। “मेखलामजिनं दण्डमुपवीतं कमण्डलुम्”। “वैणवीं धारयेद्यष्टिं सोदकञ्च कमण्डलुम्” मनुः। “अशेषतीर्थोपहृताः कमण्डलोः” माघः। “कमण्डलु कपालेन शिरसा च मृजावता” भट्टिः। २ प्लक्षवृक्षे, मेदिनिः। ३ चतुष्पाज्जातौ च पुंस्त्री “कमण्डलुशब्दश्चतुष्पादज्जातिभेदः” सि० कौ०। तस्यापत्यम् चतुष्पाद्भ्यो ढञ्” पा० ढञ् “लोपोऽकद्र्वाः” पा० उलोपः। कामण्डलेय तदपत्ये पुंस्त्री। तस्य कर्म भावो वा युवादि० अण्। कामण्डलव तद्भावेतत्कमणि च न०।

कमण्डलुतरु = पु० कमण्डलुस्तदाकृतिस्तरुः कर्म्म०। १ प्लक्षवृक्षे रत्नमा०। कमण्डलुद्रुमादयोऽप्यत्र।

कमन = त्रि० कम–णिङभावे ताच्छील्ये युच्। १ कमनीये अभिरूपे २ कामुके च मेदि०। “कम्रा कमना युवतिः” सि० कौ०। कमनच्छदः। “त्रिभुवनकमनं तमालवर्ण्णं रविकरगौरवराम्बरं दधानम्” (वपुः) भाग० १, ९, ३१। करणे युच्। ३ कन्दर्पे। ४ अशोकवृक्षे च पु० मेदि०। ५ ब्राह्मणे पु० हेमच०।

कमनच्छद = पुं स्त्री कमनः सुन्दरः छदोऽस्य। १ कङ्कपक्षिणि। हेमच०। स्त्रियां ङीष्।

कमनीय = त्रि० कम–णिङमावे कर्मणि अनीयर्। १ सुन्दरे, “रमणीकमनीयकपोलतले परिपीतपटीररसैरलसः” सा० द० टी०। “रुचिरं कमनीयतरा गमिता” माघः। २ कामनायोग्ये वाञ्छनीये च। “अनन्यनारीकमनीयमङ्कम्” कुमा०। कमनीयस्य भावः “योपधात्गुरूपोत्तमाद्वुञ्” पा० वुञ्। कामनीयक तद्भावे न०।

कमन्तक = पु० कम–बा० झ स्वार्थे क। ऋषिभेदे तस्य गोत्रापत्यम् इञ्। कामन्तकि तद्गोत्रापत्ये पुं स्त्री बहुत्वे उपका० इञोलुक्। कामन्तकयः कमन्तकाः।

कमन्ध = न० जले रायमुकुटेपरमतेनोक्तम्। तत्र हि कबन्धमिति स्वयं व्याख्याय कमन्धम् इति ममध्यपाठे कम् अन्धम् इति नामद्वयमेकीयमतेनोक्त्वा कमन्धमित्येक नाम परमतत्वेनोक्तम्।

कमर = त्रि० कम–णिङभावे अरच्। कामुके ऊज्ज्वल०

कमल = न० कम–वृषादि० कलच्। १ पद्मे तद्भेदस्त्य तदवयवभेदस्य च गुणादि भावप्र० उक्तं यथा

“कमलं शीतलं वर्ण्यं मधुरं कफपित्तजित्। तृष्णादाहास्रविस्फोटविषवीसपनाशनम्। विशेषतः सितं पद्मं पुण्डरीकमिति स्मृतम्। रक्तं कोकनदं ज्ञेयं नीलमिन्दीवरं स्मृतम्। धवलं कमलं शीतं मधुरं कफपित्तजित्। तस्मादल्पगुणं किञ्चिदन्यद् रक्तोत्पलादिकम्। भूलनालदलोत्फुल्लफलैः समुदिता पुनः। पद्मिनी प्रोच्यते प्राज्ञैर्विसिन्यादिश्च सा स्मृता। आदिशब्दान्नलिनी कमलिनीत्यादि। पद्मिनी शीतला गुर्व्वी मधुरा लवणा च सा। पित्ता सृक्वफनुद्रूक्षा वातविष्टम्भकारिणी। अथ नवपत्रादि। संवर्त्तिका नवदलं वीजकोषस्तु कर्णिका। किञ्जल्कः केशरः प्रोक्तः मकरन्दो रसः स्मृतः। मृणालं पद्मनालं स्यात्तथा विसमिति स्मृतम्। संवर्त्तिकाहिमा तिक्ता कवाया दाहतृट्प्रणुत्। मूत्रकृच्छ्रगुदव्याधिरक्तपित्त विनाशिनी। पद्मस्य कर्णिका तिक्ता कषाया मधुरा हिमा। मुखवैशद्य कृल्लव्वी तृष्णास्रकफपित्तनुत्। किञ्जल्क शोतलो वृष्यः कषायो ग्राहकोऽपि सः। कफपित्ततृषादाहरक्तार्शोविषशोथजित्। मृणालं वृष्यमधुरं पित्तदाहास्रजिद्गुरु। दुर्ज्जरं स्वदुपाकञ्च स्तन्यानिलकफप्रदम्। संग्राहि मधुरं रूक्षं शालूकमपि तद्गुणम्”। “नवावतारं कमलादिवोत्पलम्” रघुः। “प्रत्यूषेषु स्फटितकमलामोदमैत्रीकषायः” “धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि” मेघ० “अमलकमलराशेः” लीला० “न कमलं कमलम्भयदम्भसि” माघः। कमलयोनिः कमलासनः। २ क्लोम्नि ३ भेषजे ४ सलिले ५ ताम्रे हेम० ६ मृगभेदे पुंस्त्री स्त्रियां ङीष् ७ लक्ष्म्यां ८ वरनाय्यां स्त्री मेदि०। ९ सारसपक्षिणि अमरः कमलनामनामत्वात्तस्य स्त्रियां ङीष्। १० स्वनामख्याते जग्वीरभेदे स्त्री “रम्भाफलं तिन्तिडीकं कमलानागरङ्गकम्। फलान्येतानि भोज्यानि एभ्योऽन्यानि विवर्जयेत्” तन्त्रसा० पुरश्चरणनियमे। तद्गुणाश्च भावप्र० उक्ता यथा। “मिष्टनिम्बूफलं स्वादु गुरु मारुतपित्तनुत्। गररोगविषध्वंसि कफोत्क्लेशि च रक्तहृत्। शोषारुचितृषाच्छर्द्दिहरं बल्यञ्च वृंहणम्” ११ मिथिलास्थे नदीभेदेस्त्री। १२ छन्दोभेदे स्त्री। तल्लक्षणं वृत्तरत्नावल्यां द्विधोक्तम् यथा “द्विगुणनगणसहितः सगणैह हि विहितः। फणिपतिमतिविमला क्षितिप! भवति कमलेति” “वमुभिः प्रमिता सगणाविहिताः पुनरेकमितोनिहितोगुरुरन्ते। यदि सत्कवयोविलसन्मतयोऽभिधया कमलेति तदाकलयन्ते” (गोलापी) १३ पाटलवर्णे १४ तद्वति त्रि०। “शवलाय स्वाहा कमलाय स्वाहा पृश्नवे स्वाहा तैत्ति० ७, ३, १८, १। अस्य गुणवचनत्वात् स्त्रियां बह्वादि० वा ङीष्। कमली कमलानां संघः खण्ड। कमण्डलखण्ड पद्मसंघे न० तस्य देशः पुस्क० इनि। कमलिनी भावप्र० उक्ते वीजकोषादौ स्त्री “कमलिनीमलिना दिवसात्यये” उद्भटः। “उक्तोमलयतालेन लघुमध्ये स्फुरेद्गुरुः। सप्तदशाक्षरै- र्युक्तः कमलोऽयं भयानके” सङ्गीतशास्त्रोक्ते १५ घ्रुबभेदे पु०

कमलकीट = पु० कमलवर्णः कीटः। कीटभेदे तत्र भवादौ पलद्या० अण्। कामलकीट तद्भवे त्रि०।

कमलकीरक = पु० कमलवर्णः कीर इव कायति कै–क। कीटभेदे तत्र भवादौ पलद्या० अण्। कामलकीरक तद्भवे त्रि०।

कमलज = पु० कमलात् विष्णोर्नाभिकमलाज्जायते जनड। १ ब्रह्मणि चतुर्मुखे कञ्जजशब्दे विवृतिः। “अश्वियमदहनकमलजशशिशूलभूदिति” वृहत्सं०। तदभेदात् २ रोहिणीनक्षत्रे च तस्य तदधिष्ठितत्वात्तथात्वम्। ३ पद्मजातमात्रे मध्वादौ त्रि०। कमलजातपद्मजातादयोऽप्यत्र।

कमलभिदा = स्त्री ६ त०। कमलपाटने तयो भवादौ पलद्या० अण्। कामलभिद तद्भवे त्रि०।

कमलयोनि = पु० कमलं विष्णुनाभिकमलं योनिरुत्पत्तिस्थानमस्य। १ चतुर्मुखे ब्रह्मणि। कञ्जजशब्दे विवृतिः। पद्मयोन्यादयोप्यत्र। ६ त०। ३ कमलानामुत्पत्तिस्थाने स्त्री।

कमलवीज = न० ६ त०। (कमलगट्टा) पद्माक्षे भावप्र० तद्गुणा उक्ता यथा “पद्मवीजं हिमं स्वादु कषायं तिक्तकं गुरु। विष्टम्भि वृष्यं रूक्षञ्च गर्भसंस्थापकं परम्। कफवातहरं बल्यं ग्राहि पित्तास्रदाहनुत्”।

कमलाकर = पु० कमलानामाकरः उत्पत्तिस्थानम्। १ पद्माकरे तडाके। २ पद्मानां समूहे च। “हरिदश्वःकमलाकरानि व” रघुः। कमलाकरभट्टनिर्मिते ३ स्मृतिनिबन्धभेदे।

कमलादि = त्रि० वार्त्तिकोक्ते संघार्थे खण्डप्रत्ययनिमित्ते शब्दगणे स च गणः “कमल अम्भोज पद्मिनी नलिनी कुमुद सरोजपद्म नलिन कैरविणी” आकृतिगणः तेन कदलीखण्डमित्यादि सिद्धिः।

कमलापति = पु० ६ त०। नारायणे समुद्रात् लक्ष्म्या आविर्मूतिमुपवर्ण्य तया विवेचनापूर्वकं नारायणस्य पतित्वेन वरणं भाग० ८, ८ अ० वर्णितं यथा “ततस्ततोनूपुरवल्गुशिञ्जितै र्विसर्पती हेमलतेव साबभौ। विलोकयन्ती निरवद्यमात्मनः पदं ध्रुवं चाव्याभिचारिसद्गुणम्। गन्धर्व्वसिद्धासुरयक्षचारणत्रैपिष्टपेयादिषु नान्वविन्दत। नूनं तपो यस्य न मन्युनिर्जयोज्ञानं क्वचित्तत्र न सङ्गवर्ज्जितम्। कश्चिन्महांस्तस्य न कामनिर्जयः स ईश्वरः किं परतोव्यपाश्रयः। धर्म्मः कवचित्तत्र न भूतसौहृदं त्यागः क्वचित्तत्र न मुक्तिकारणम्। वीर्य्यं न पुंसोऽस्त्यजवेगनिष्कृतं न हि द्वितीयो गुणसङ्गवर्ज्जितः। क्वचिच्चिरायुर्न हि शोलमङ्गलं क्वचित्तदप्यस्ति न वेद्यमायुषः। यत्रोभयं कुत्र च सोऽप्यमङ्गलः सुमङ्गलः कश्चन काङ्क्षते हि माम्। एवंविमृश्याव्यभिचारिसद्गुणैर्वरं निजैकाश्रयतागुणाश्रयम्। वव्रे वरं सर्व्वगुणैरपेक्षितं रभा मुकुन्दं निरपेक्षमीप्सितम्। तस्यां स देश उशतीं नवकञ्जमालां माद्यन्मधुव्रतवरूथगिरोपघुष्टाम्। तस्थौ निधाय निकटे तदुरः स्वधाम सव्रीडहासविकसन्नयनेन याता। तस्या! श्रियस्त्रिजतोजनको जनन्या वक्षोनिवासमकरोत् परमं विभूतेः। श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेब यत्र स्थितैधयत साधिपतींस्त्रिलोकान्। शङ्गतूर्य्यमृदङ्गान। वादित्राणां पृथक् स्वनः। देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत्। व्रह्मरुद्राङ्गिरोमुख्याः सर्वे विश्वसृजो विभुम्। ईडिरेऽवितथैर्म्मन्त्रैस्तल्लिङ्गः पुष्पवर्षिणः। श्रिया विलोकिता देवाः सप्रजापतयः प्रजाः। शीलादिगुणसम्पन्ना लेभिरे निर्वृतिं पराम्। निः सत्वा लोलुपा राजन्निरुद्योगा गतत्रपाः। यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवाः”। पद्मापतिकमलाकान्तादयोल्प्यत्र।

कमलालया = स्त्री कमलमालयो यस्याः। लक्ष्म्याम्।

कमलासख = पु० ६ त०! नारायणे “सान्यमाप कम लासखविष्ठक्सेनेनेत्यादि” माघः।

कमलासन = पु० कमलमासनं यस्य। चतुरानने ब्रह्मणि। “क्रान्तानि पूर्ब्बं कमलासनेनेन” कुमा०

कमलासनस्थ = पु० कमलं विष्णोर्नाभिकमलरूपमासनम्। तत्र तिष्ठति स्था–क। विधातरि यथा च तस्य विष्णुनाभिकमलोस्थितिस्तथा कञ्जजशब्दे उक्तम्।

कमलिनी = स्त्री कमलानां देशः “पुष्करादिभ्योदेशे” पा० पुष्क० इनि। १ कमलाधारदेशे पद्माकरे शब्दर० २ कमल समुदायरूपपद्मलतायाञ्च। “पुष्पिताः कमलिनीरिव द्विपः” रघुः

कमलोत्तर = न० कमलमिवोत्तरमुत्कृष्टम्। कुसुम्भपुष्पे अमरः

कमा = स्त्रो कम–णिङ्भावे बा० स्त्रियां भावे अ। शोभायाम् राजनि०।

कमितृ = त्रि० कम–णिङभावपक्षे तृच्। कामुके स्त्रियां ङीष्। कमित्री “अनुकाभिकाभीकाः कमिता” पा०। अतिशयेन कमिता ईयसुन् तृणोलोपः। कमीयस् कान्ततरे त्रि० स्त्रियां ङीप्। इष्ठन् कमिष्ठ कान्ततमे त्रि०

कम्प = पु० कपि–चलने घञ्। गात्रादिकम्पे १ वेपथौ। “यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः” भाग० ३, ७, ११ कम्पश्चलनं स च वातादिना प्रेरणात् स्थावरस्य भूम्यादेर्भवति देहादेस्तु मनसोविकारभेदेन वातादिधातुना च चालनात् भवति। स च रसविशेषे निर्वेदादिव्यभिचारि भावविशेषजन्यः यथोक्तं सा० द० निर्वेदादिव्यभिचारिभावान् विभज्य तेषां लक्षणामिधाने “आवेगः सम्भ्रमस्तत्र इत्युपक्रम्य “गजादेः स्तम्भकम्पादिः”। “शौर्य्यापराधादिभवं भवेच्चण्डत्वमुग्रता। तत्र स्वेदःशिरः कम्पतर्ज्जमाताडनादयः”। मनःक्षेपस्त्वपस्मारी ग्रहाद्यावेशनादिजः। भूपातकम्पप्रस्तेदफेनलालादिकारकः”। “निन्दाक्षेपापमानादेरमर्षोऽभिविनिष्टता। नेत्ररागशिरःकम्पभ्रूभङ्गोत्तर्ज्जनादि कृत्”। “परकीयात्मदोषाद्यैः शङ्कानर्थस्य तर्कणम्। वैवर्ण्यकम्पवैस्वर्य्यैर्भूमीच्छोत्कम्पनादिकृत्”। “निर्घात विद्युदुल्काद्यैस्त्रासः कम्पादिकारकः”। “रत्यायासमनस्तापक्षुत्पिपासादिसम्भवा। ग्नानिर्निष्प्राणता कम्पकार्श्यानुत्साहतादिकृत्”। कम्पश्च भयानकरसस्यानुभावः यथाह तत्रैव भयानकं प्रकृत्य “अनुभावोऽत्र वैवर्ण्ण्यगद्गदस्वरभाषणम्। प्रलयस्वेदरोमाञ्चकम्पदिक्प्रेक्षणादयः”। रौद्ररसस्य व्यभिचारिभावश्च ययाह तत्रैव रीद्रं प्रकृत्य “उग्रतावेगरोमाञ्च स्वेदवेपथवोमदः। मोहामर्षादयश्चात्र भावाः स्युर्व्यभिचारिणः”। शृङ्गारादौ तु तदीयव्यभिचारिभावभेदेनैव कम्पादि जन्यते इति भेदः। ज्वरादिकृतकम्पस्तु वैद्यके प्रसिद्धः। तद्विवृतिर्ज्वरशब्दे दृश्या। दिङ्मात्रमुक्तं भावप्र० “व्यथावेपथुनिद्रानाशविष्टम्भादयो वातजाः”। शीतानिलेन च देहस्य कम्पो जायते। अतएव “सहसा सहसा कृतवेपथुः” माधे वर्ण्णितम्।

कम्पन = त्रि० कपि–युच्। १ कम्पयुक्ते। भावे ल्युट्। २ चलने न० मेदि०। णिच्–युच्। ३ कम्पयितरि त्रि० “दुन्दुभेत्वं सपत्नानां घोषाद्धृदयकम्पनः”। दुन्दभिपूजामन्त्रः। “प्रकम्पनेनानुचकम्पिरेसुराः” माघः “एवमुक्ता जरुत्कारुर्भर्त्त्राहृदयकम्पनम्” भा० आ० ४७ अ०। ४ शिशिरे ऋतौ पु०। ५ अस्त्रभेदे च। “प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा” “जडता गद्गदा बाणी रात्रै निद्रा भवत्यपि। प्रस्तब्धे नयने चेव मुखमाधुर्य्यमेव च। कफोल्वणस्य लिङ्गानि सन्निपातस्य लक्षयेत्। मुनिभिः सन्निपातोऽयमुक्तः कम्पनसंज्ञकः” भावप्र० उक्ते ६ सान्निपातिकज्वरभेदे पु०।

कम्पलक्ष्मन् = पु० कम्पःलक्ष्म यस्य। वायौ त्रिका० तस्य स्थावराणां चलनहेतुत्वात् तथात्वम्।

कम्पा = स्त्री कपि–भावे अ। चलने हेमच०

कम्पाक = पु० कम्पया चलनेन कायति प्रकाशते कै–क। वायौहेमच ०।

कम्पित = न० कपि–भावे क्त। १ कम्पे शब्दच० कपि–णिच् भावे क्त। २ चालने “अनोकहाकम्पितपुष्पगन्धिः” रघुः कर्त्तरि क्त। २ कम्पयुक्ते त्रि०। णिच्–कर्म्मणि क्त। ३ चालिते त्रि० “अतिचपलकपिकुलकम्पितकम्पिल्लच्यूतपल्लवफलशवलैः” काद० “आद्यकोलतुलितां प्रकम्पनैः कम्पिताम्” माघः।

कम्पिन् = त्रि० कम्प–णिनि। १ कम्पयुक्ते णिच् णिनि। २ कम्पयितरि “गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः। अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः” ति० त० पु०।

कम्पिल = पु० कम्प–इलच्। रोचन्याम् (कमलागुडि) अमरः। पृषो० कम्पीलकम्पिल्यशब्दौ तत्रार्थे रासमुकुटादयः।

कम्पिल्ल = पु० कपि–इल्ल। रोचने वृक्षभेदे। “कम्पिल्लः कर्कः शचन्द्रो रक्ताङ्गोरोचनोऽपिच। कम्पिल्लः कफपित्तास्रकृमि गुल्मोदरव्रणान्। हन्ति रेची कटूष्णश्च मेहानाहविषास्रनुत्” भावप्र०। २ नगरभेदे “देवीं कम्पिल्लवासिनीम्” यजु० २३, १८, काम्पीलेति पाठान्तरम्। काम्पीले नगरे वासिनीम्” वेददी० कम्पिल्ल वृक्षश्चकरञ्जभेदः (लाटाकरमजा) इत्येके “अतिचपलकपिकुलकम्पिकम्पिल्लच्यूतपल्लवफलशवलैः” काद० स्वार्थे कन् कम्पिल्लकोऽप्युक्तार्थे।

कम्प्य = त्रि० कपि–णिच् कर्म्मणियत्। चालनीये “सत्यधर्म्म इवाकम्प्यः” रामा०।

कम्प्र = त्रि० कपि–र। कम्पशीले “विधाय कम्प्राणि मुस्वानि कम्प्रति” नैष०।

कम्ब = गतौ भ्वा० पर० सक० सेट्। कम्बति अकम्बीत् चकम्ब प्रनिकम्बति

कम्बर = पु० कम्ब–अरन्। १ चित्रवर्ण्णे २ तद्वति त्रि० शन्दर०।

कम्बल = पु० कम्ब–कलच् कं, कुत्सितं शिरोऽम्बु वा बलति बल संबरे अच् बा। १ सर्पभेदे २ गवादेर्गलस्थरोमरूपसास्नायां, ३ प्रावारे, ४ कृमौ च। ५ स्वनामख्याते मषलोमनिर्म्मिते वस्त्रासनादौ, ६ जले न० ७ उत्तरासङ्गे च मेदि०। ८ मृगभेदे पुं स्त्री० जटा० स्त्रियां ङीष्। “त तथा सुखयत्यग्निर्न प्रावारान कम्बलाः” रामा०। “कम्बलवन्तं न बाधते शीतम्”। विदग्धमु०। कम्बलनागश्च नागलोकपतिः “ततोऽधस्तात् पाताले नागलोकपतयो वासुकिप्रमुखाः शङ्खकलिकमहाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्चतदत्तादयो महाभोगिनो महामर्षानिवसन्ति” भाग० ५, २४, ४२। “कम्बलाश्वतरौ चापि नागः कालीयकस्तथा” भा० आ० ३५, नागनामकीर्त्तने। अयञ्च वरुणसभास्थः “कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ” भा० स० ९ अ० वरुणसभ्यकथने। तदधिष्ठिते प्रयागस्थे ९ तीर्थभेदे च। “प्रयागं सुप्रतिष्ठानं कम्बलाश्वतरौ तथा। तीर्थं भोगवती चैव वेदिरेषा प्रजापतेः” भा० व० ८५ अ०। प्रयागस्थतीर्थकथने।

कम्बलबर्हिष = पु० अन्धकनृपस्य पुत्रभेदे “कुकुरोभजमानश्च शुचिः कम्बलबर्हिषः” माग० ९, २४, ११। अन्धकस्येति शेषः। “कुकुरभजमानशचिकम्बलवर्हिषाख्यास्तथान्धकस्य पुत्राः” तट्टीकायां, श्रीधरधृतपराशरवाक्यम्

कम्बलहार = त्रि० कम्बलं हरति हृ–अण् उप० स०। १ कम्बलहारके। २ ऋषिभेदे पु० तस्य गीत्रापत्यम् इञ्। कम्बलहारि तदपत्ये पुं स्त्री बहुत्वेऽस्त्रियां तस्य लुक्। कम्बलाःतद्गोत्रपुमपत्येषु।

कम्बलार्ण्ण = न० कम्बरूपमृणम् वृद्ध्विः। १ कम्बलरूपे ऋणे बहु०। २ तथणेयुक्ते त्रि०।

कम्बलिका = स्त्री क्षुद्रः कम्बलः ई–स्वार्थे कन् ह्रस्वः। १ क्षुद्रकम्बले। २ कम्बलमृगजातिस्त्रियाञ्च। ततः चतुरर्थ्यां पक्षा०फक्। काम्बलकायन तत्सन्निकृष्टदेशादौ त्रि०।

कम्बलिन् = त्रि० कम्बलः गलकम्बलः प्रशस्तोऽस्त्यस्य कम्बल + प्राशस्त्ये इनि। वृषे “गन्त्री कम्बलिवाह्यकम्” अमर०।

कम्बलिवाह्यक = न० कम्बलिना वृषेण वाह्यम् बह–कर्मणि ण्यत् संज्ञायां कन्। वृषवाह्ये शकटे गन्त्र्याम् अमरः।

कम्बलीय = त्रि० कम्बलाय हितं छ। कम्बलसाधने उर्णायाम्। संज्ञायान्तु “कम्बलाच्च संज्ञायाम्” पा० यत् कम्बल्य उर्ण्णापलशते न०।

कम्बि = स्त्री कम्बति अन्नाद्यनया कम्ब–गतौ करणे इन्। दर्व्याम् कमरः (हाता) वा ङीप् कम्बीत्यप्यत्र

कम्बु = पुंन० कम–उन् बुक् च, कम्ब–गतौ मृगय्वा० उन् वा। १ शङ्खे अमरः। “कम्बोः सपत्नीकृतः” मुरारिः। “महात्मा चारुसर्व्वाङ्गः कम्बुग्रीवोमहाभुजः” भा० व० १६० अ०। २ गले ३ शम्बूके ४ वलये च मेदि०। ५ कर्वुर यर्ण्णेपु० ६ तद्वति त्रि०। ७ ग्रीबायाम् ८ नलके च (फा~पाहाड) स्त्री हेम० स्त्रीत्वे अप्राणिजातित्वात् वा ऊङ्। वलयश्चात्र शङ्खमयः सधवाधार्य्यालङ्कारभेदः। “शतं दासीसहस्राणि तरुण्यो हेमवल्लिकाः। कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः” भा० स०५९ अ० ११ “पिनद्धकम्बुः पाणिभ्यां तृतीयां प्रकृतिं गतः” भा० वि० २ अ० ग्रीवार्थे “प्रतिमुच्य कुण्डले दीर्घ च कग्बूपरि हाटके शुभे” भा० वि० ११ अ०।

कम्बुकण्ठी = स्त्री कम्बुरिव कण्ठोऽस्याः स्वाङ्गत्वात् ङीष्। १ कम्बु ग्रीवायाम्। स्वार्थेकन् कम्बुकण्ठिकाप्यत्र। बहु० २ तथाकण्ठयुक्तेत्रि० स्त्रियां स्वाङ्गत्वात् वा ङीष्।

कम्बुका = स्त्री कम्बुरिव काष्ठेन कायति कै–क। १ अश्वमन्घा याम् रत्नमा०। स्वार्थेकन्। कम्बुशव्दार्थे ३ ग्रीवायाम् स्त्री

कम्बुकाष्ठा = स्त्री कम्बु चित्रवर्ण्ण काष्ठमस्याः। अश्वगन्धायाम्। राजनि०।

कम्बुग्रीवा = स्त्री कम्बुरिव रेखात्रययुता ग्रीवा। शङ्खतुल्यरेखात्रययुक्तायां १ ग्रीवायाम्। कम्बुरिव ग्रीवास्य। ३ तथा भूतग्रीवायुक्ते त्रि०।

कम्बुग्रीवादि = पु० कम्बुग्रीवा आदि र्यस्य। घटत्वजातिव्यञ्जके आकृतिभेदे कम्बुग्रीवापृथुवुध्नोदरप्रभृतयोहिघटत्वजातिव्यञ्जकाः। कम्बुग्रीवादेश्च गुरुत्वात् नावच्छेदकत्वं तेन कम्बुग्रीवादिमान्नास्तीत्यादौ कन्बुग्रीवादेर्नाभाल्ग्रप्रतियोगितावच्छेदकत्वम् किन्तु “सम्भवति लघौ गुरौ तदभावादिति” न्यायात् समनियतं अनतिरिक्तवृत्ति घटत्वमेवतत्रावच्छेदकम्। इतरत्र गुरुधर्म्मस्यावच्छेदकत्वानङ्कीकारेऽपि शक्यताया अवच्छेदकत्वं स्वीक्रियतएवातः कम्बुग्रीवादिमानिति पदस्य कम्बुग्रीवादिमत्त्वमेव शक्यतावच्छेदकं नघटत्वमिति भेदः इत्याकरे स्थितम्।

कम्बुपुष्पी = स्त्री कम्बुः शङ्ख इव पुष्पमस्याः। शङ्खपुष्प्याम् राजनि०।

कम्बुमालिनी = स्त्री कम्बूनां तत्समपुष्पाणां मालास्त्यस्याः इनि ङीप्। शङ्कपुष्प्याम् राजनि०।

कम्बू = त्रि० कम्ब–गतौ कू अम्मूदृन्भूजम्बूकम्बूइत्यादि० नि०। १ परद्रव्यागहारके उज्ज्वल०। कम्बुशब्दात् स्त्रीत्वे ऊङ्। २ कम्बु शब्दार्थे स्त्री।

कम्बोज = पु० कम्ब–ओज। १ हस्तिभेदे, २ शङ्खभेदे मेदि० “पञ्चनदं समारभ्य म्लेच्छाद्दक्षिणपूर्व्वतः। कम्बोजदेशः इत्युक्तः” इयुक्ते ३ देशेच। कम्बोजेजातादि कच्छा० अण्। काम्बोज तज्जातादौ त्रि० मनुष्यतत्स्थयोस्तु वुञ्। काम्बोजको मनुष्यः काम्बोजकं हसितमित्यादीति भेदः। बहुत्वे तु तस्य लुक् कम्बोजाः कम्बोजजातेषु। काम्बोजस्य राजानः “कम्बोजाल्लुक्” पा० लुक्। कम्बोजास्तद्राजेषु। “कम्बोजाः समरेसोढुं तस्यवीर्य्यभनीश्वराः” रघुः। अत्र काम्बोजा इत्यपपाठः राजनि “कम्बोजाल्लुक्” पा० लुग्विधानात्। कम्बोजाभिजनपरत्वे दीर्घपाठः समर्थनीयः इत्येके। कम्बोजीऽभिजनोऽस्य सिन्ध्वा० अण्। काम्वोज कम्बोजदेशाभिजने त्रि०। अयञ्च देशः वृह० स० कूर्म्मविभागे नैरृत्यां दिशि कथितः यथा “नैरृत्यां दिशि देशाः पह्नव कम्बोजसिन्धुसोवीराः मुण्डशब्देन समासे भयूरव्य० पूर्वनिपांतः कम्बोजमुण्ड इत्येव। कम्बोजदेशस्थक्षत्रियास्तु शनकैः क्रियालोपात् शूद्रत्वमाप्ताः यथाह मनुः। “शनकैस्तु क्रियालीपादिमाः क्षत्रियजातयः। वृषलत्वं गता लोके ब्राह्मणादर्शनेन च। षौण्ड्रकाश्चैड्रद्रविडाः कम्बोक्षाः यवनाः शकाः। पारेदाः पह्नवाश्चीनाः किराता दरदाः खसाः”

कम्बोजादि = वार्त्तिकोक्ते तद्राजप्रत्ययस्य लुग्निमित्ते शव्दगणे स च गणः “कम्बोज चोल केरल शक यवन”

कम्ब्वातायिन् = पु० कम्बुरिवातायी। शङ्खतुल्यश्वेतपूर्व्वकाये शङ्खचिल्ले।

कम्भ = त्रि० कम् + मत्वर्थे भ। १ जलयुक्ते २ सुखयुक्ते च।

कम्भारी = स्त्री कं जलं बिभर्ति कम् + भृ–अण् उप० स०। गाम्भार्य्याम् (गाम्भार)। राजनि०। भुग्ध० मते षण् तस्य षित्त्वात् ईप्। सि० कौ० मते तु गौरा० ङीष् इति भेदः। तस्याः शीतवीर्य्यत्वात्तथात्वम्।

कम्भु = न० कं जलं तद्वच्छैत्यं बिभर्त्ति–भृ–डु। उशीरे राजनि० तस्य शीतवीर्य्यत्वात् तथात्वम्।

कम्र = त्रि० कम–णिङ्भावे र। मैथुनेच्छायुक्ते। कामुके अमरः। २ मनोहरे च। “कम्रा कमनाः युवतिः” सि० कौ०

कय = त्रि० किम् + पृषो० वेदे कयादेशः। किंशब्दार्थे “न किं सहन्त्य पर्य्येता कयस्य चित्” ऋ० १, २७, ८। “नि षू न मातिमतिं कयस्य चित्तिजिष्ठाभिः” १२९, ५ “नरोऽभिमातिं कयस्य चित्” ८, २५, १५।

कयस्था = स्त्री कं जलं याति या–ड तथा सती तिष्ठति स्था क। काकोल्याम् क्षीरस्वामी

कयाधू = स्त्री जम्भासुरकन्यायां हिरण्य शिपुभार्य्याथाम् “हिरण्यकशिपोर्भार्य्या कयाधूर्नाम दानवी। जम्भस्य तनया दत्ता सुषुबे चतुरः सुतान्। संह्रादं प्रागनुह्रादं प्रह्लादं ह्रादमेव च” भा० ६, १८, ९।

***