कपि = पु० कपि–इन् नलोपश्च। १ वानरे अमरः। “नश्यन्ति ददर्श वृन्दानि कपीन्द्रः” भट्टिः। “कुपितकपिकपोलक्रोडताम्रस्तमांसि” उद्भटः। “विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः। प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत्” भनुः “रामायणमिव कपिकथासमाकुलम्” काद०। २ सिह्लके (शिलारस)। गन्धद्रव्यभेदे तस्य कपिजातत्वात्” भाव० प्र० कपिनामतोक्तेश्च तथात्वम्। ३ नारायणे च। मेदि०। “कपिलः कपिरप्ययः” विष्णुस०। कं जलं रश्मिभिः पिबतीति कपिर्वराहो वा “कपिर्वराहः इति वचनात्” भा०। कादुदकात् भूमिं पाति उद्धरति पाक। ४ वराहे। ५ धात्रिकायां (आमला) शब्दमा०। ६ करञ्जभेदे शब्दच०। कपिक्रीडवर्ण्णत्वात् ७ रक्तचन्दने। तदर्ण्णे ८ पिङ्गले च पु०। तद्वर्ण्णवति त्रि०। कपेः शास्वामृगत्वम् मांसगुणाश्च सुश्रुते दर्शिताः। “मद्गुमूषिकवृक्षशायिकावकुशपूतिघासवानरप्रभृतयः पर्णमृगाः” “मधुरा गुरवो वृष्याश्चक्षुष्याः शोषिणे हिताः। सृष्टमूत्रपुरीषाश्च कासार्शःश्वासनाशना।

कपिकच्छू = स्त्री कपीनामपि कच्छूः यस्याः ५ ब०। (आल्कुशी) कपिकण्डूहेतौ शूकशिम्ब्याम् अमरः। तद्गुणा भावप्र० उक्तायथा “कपिकच्छूर्भृशं वृष्या मधुरा ष्टंहणो गुरुः। तिक्ता वातहरी वल्या कफपित्तास्रनाशिनी। तद्वीजं वातशमनं स्मृतं वाजीकरं परम्”।

कपिकच्छूफलोपमा = स्त्री कपिकच्छूफलस्य उपमा यत्र तुल्य फलत्वात्। जतुकालतयां राजनि० तस्यास्तत्तुल्यफलत्वात्तथात्वम्।

कपिकच्छूरा = स्त्री कपिभ्यः कच्छूं राति ददाति रा–क। (आल्कुशी) शूकशिम्ब्याम् भरतः

कपिकन्दुक = न० अपि + कदि–उक अतोलोपः कस्य शिरसः पिकन्दुकम्। शिरोस्थ्नि शब्दच०।

कपिका = स्त्री कपिर्वराह इव कायति प्रकाशते कृष्णत्वात् कैक। नीलसिन्धुवारवृक्षे राजनि०।

कपिकेतन = पु० कपिर्हनूमान् केतने यस्य। अर्ज्जुने कपिध्वजे “स्वान्तपूर्वमिदं वाक्यमब्रवीत् कपिकेतनः” भा० आश्व० ८२। यथा च तस्य कपिकेतनता तथावर्ण्णितं” भा० व० १५१ अ०। “एवमुक्तस्तु हनुमान् भीमसेनमभाषत। भ्रातृत्वात् सौहृदाच्चैव करिष्यामि प्रियं तव। चमूं विगाह्य शत्रूणां परिशक्तिमदाकुलाम्। यदा सिंहरवं वीर! करिष्यसि महाबल!। तदाहं वृंहयिष्यामि स्वरवेण रवं तव। विजयस्य ध्वजस्थश्च नादान् मोक्ष्यामि दारुणान्। शत्रूणां ये प्राणहराः सुखं येन हनिष्यथ”। कपिध्वजादयोऽप्यत्र।

कपिकोलि = पु० कपीनां प्रियः कोलिः। (शेओआकुल) कोलिभेदे रत्नमा०।

कपिचूडा = स्त्री कपीनां चूडेव। आम्रातकवृक्षे राजनि०। वन्मुकुलस्य कपिचूडातुल्यतया तथात्वम्।

कपिचूत = पु० कपीनां चूत इव प्रियत्वात्। आम्रातकवृक्षे त्रिका०

कपिज = पु० कपितोजायते जन–ड। कपितैले तुरष्के (शिलारस) राजनि०।

कपिजङ्घिका = स्त्री कपेर्जङ्घेव जङ्घा यस्याः संज्ञायां कन्। वैलपिपीलिक्लायां (तेलोपोका) राजनि० तस्याः कपितुत्यदीघजङ्घत्वात्तथात्वम्।

कपिञ्जल = पुं स्त्री “कपिरिब जवते ईषत् पिङ्गलो वा कमनीयं शब्दं पिञ्जयतीति वा” निरुक्तोक्ता व्युत्पत्तिः पृषो०। १ पक्षिभेदे चातके राजवल्ल० जलयाचनाय तस्य रम्यशब्दकरणात् तथात्वम्। २ तित्तिरौ त्रिका०। तित्तिरिरिह श्वेत एव ग्राह्यः। “वर्त्तिकालावबर्तीर कपिञ्जलकत्रित्तिराः। कलिङ्गाः कुक्कुष्टाद्याश्च विस्किराः समुदाहङ्गाः। विकीर्य्य भक्ष्ययन्त्येते यस्मात्तस्माद्धि विस्किराः। कपिञ्जल इति प्राज्ञैः कथितो गौरतित्तिरिः” भावप्र० उक्तेः अर्तएव “वसस्ताय कपिञ्जलानालभेत ग्रीष्माय कलविङ्गान् पर्वाभ्यस्त्रित्तिरीन्” यजु० ४, २०। कपिञ्जलतित्तिरीणां नेदेन निदेशः “कपिञ्जलः कपोत ललूकः शशस्ते निरृखै” यजु० २४, ३८ तस्य चारण्यत्वात् तत्तदेवतोद्दे- शेन उत्सर्ग एवात्रालभनम्। “कपिञ्जलादीनुत्सृजति पर्य्यग्निकृतान्” कात्या० ४०, ६, ९ उक्तेः। कपिञ्जलमासगुणाश्च भावप्र० उक्ताः कपिञ्जलादीन् विषिकरानुक्त्वा “विषिकराः मधुरा शीताः कषायाः कष्टुपाकिनः। बल्यावृष्यास्त्रिदोषघ्ना पथ्यास्ते लघवः स्मृताः”। कपिञ्जलशब्दस्यावर्ण्णान्तत्वेन द्व्यच्त्र्यज्भिन्नत्वेन च अर्स्मशब्देन समासे न आद्युदात्तत्वम्। “अर्म्मे चावर्ण्णं द्व्यच्त्र्यच्” पा० सूत्रात्

कपिञ्जलन्याय = पु० बहुत्वस्य त्रित्वपर्य्यवसायिताख्यापके न्यायभेदे स च न्यायो यथा “सवन्ताय कपिञ्जलानालभेतेति” श्रुत्या कपिञ्जलगतं बहुत्वं बोधितं तच्च विवक्षितं विधेयसंख्यात्वात् कपिञ्जलस्यान्यतोऽप्राप्तत्वात् विधेयत्वं बहुत्वं च त्रित्वमारभ्य परार्द्धपर्य्यन्तपय्यवसन्नमित्यनव्यवसायेनाप्रवृत्त्या वेदाप्रामाण्यापत्तिरिति प्राप्तेराह “प्रथसोपस्थितेस्तन्त्रत्वात्” जै० सू०। त्रित्वोत्पत्त्यनन्तरं त्रित्वसहितैकत्वबुद्ध्या चतुष्ट्वं जन्यते तत्र त्रित्वस्य प्रथमोपस्थितत्वात् वेदबोध्यवहुत्वस्य तत्रैव पर्य्यवसान्नानध्यवसोयः संख्यायाम् एकत्वस्येव बहुत्वसंख्यायायां त्रित्वस्यैव प्रथमोपस्थितत्वात्तत्रैव वेदतात्पर्य्यात्। अपेक्षबुद्धिसहकृत्रैकत्वत्रयेण त्रित्वम् एवं तथाविधैकत्व चतुष्केण चतुष्ट्वं ञ्चन्यते इति मते तु कारणीभूतापेक्षाबुद्धिलाघवेन प्रथमोषस्थितत्रित्वस्यैव वेदबोध्यता नातोऽप्रवृत्तिः अतएव वैया० भू० संख्यायाम् एकत्वसंख्याया एव ग्रहणे कपिञ्जलालम्भवाक्ये त्रित्वग्रहणं दृष्टान्तीकृतं यथा “अभेदैकत्वसंख्याया वृत्तौ भानमिति स्थितिः। कपिञ्जलालम्भवाक्ये त्रित्वं न्यायाद्यथोच्यते”। “बहुत्वगणनायां त्रित्वस्यैव प्रथभोपस्थितत्वात् तद्रूपेणैव भानवदेकत्वस्य सर्वतः प्रथमोपस्थितत्वमस्तीति भावः”।

कपितैल = न० कपिभिः शिलायादारणेन निष्पादितं तैलम्। सिह्लके तुरष्के नन्धद्रव्यभेदे (शिलारस)। “सिह्लकस्तु तुरष्कः स्याद्यतोयवनदेशगः। कपितैलञ्च संख्यातं तथा च कपिनामकः” भावप्र०। तेन तुरष्करूपयवनदेशीद्भवशिलादलनेन कपिभिरुद्भावनात्तस्य तथात्वम्।

कपित्थ = पु० कपिस्तिष्ठत्तत्र तत्फलप्रियत्वात् स्था–क पृषो०। (कएतवेल) वृक्षभेदे “त्रिरात्रान्ते त्रिरात्रान्ते कपित्यवदराशनः” भाग० ४, ८, ६०। अस्य गुणपर्य्यायादि भावप्र० उक्तं यथा। “कपित्थस्त दाथत्थः त्याततथा पुष्पफलः स्मृतः। कपिप्रियोद्रधिफलस्तथा द्रन्तशठोऽपि च। कपित्थमामं सङ्ग्राहि कषायं लघु लेखनम्। पक्वं गुरु तृषाहिक्काशमनं वातपित्तजित्। स्यादल्पन्तुवरङ्कण्ठशोधनं ग्राहि दुर्जरम्”। अपिच “कपित्यमामं कण्डूघ्नं विशदं ग्राहि वातलम्। मधुराम्लकषायत्वात् सौगन्ध्याच्च रुचिप्रदम्” सुश्रुते अम्लवर्गेऽयं पठितः अम्लशब्दे तद्वाक्यं दर्शितम्। हारीतेनास्य भक्षणं सर्वदा निषिद्धं यथा “न वटप्लक्षोदुम्बरनीपदधित्थमातुलाङ्गानि भक्षयेत्। कपित्थोस्त्यत्र देशे पुष्करा० इनि कपित्थिनी स्त्री कपित्थयुक्तदेशे। तस्य सन्निकृष्टदेशादि काशा० इनि। कपित्थिन् तत्सन्निकृष्टदेशादौ त्रि०।

कपित्थत्वक् = पु० कपित्थस्य त्वगिव त्वक् वल्कलमस्य। एलवालुकवृक्षे राजनि०

कपित्थपर्णी = स्त्री कृपित्थस्य पर्ण्णमिव पर्णमस्याः गौ० ङीष्। कपित्थतुल्यपत्रिकायां चित्रपत्रिकायां वृक्षभेदे रत्ना०।

कपित्थाष्टक = न० चक्रदत्तोक्ते चूर्ण्णभेदे। यथा “यमानी पिप्पलीमूलचतुर्जातकनागरैः। रीचनाग्निजलाजाजी धान्यसौवर्चलैः समैः। वृक्षाम्लधातकी कृष्णा विल्वदाडिमतिन्दुकैः। त्रिगुणैः षड्गुणसितैः कपित्थाष्टगुणैः कृतः। चूर्णोऽतिसारग्रहणीक्षयगुल्मगलामयान्। कासं श्वासारुचिं हिक्कां कपित्याष्टमिकमाजयेत्” चक्रद०।

कपित्थास्य = पुं स्त्री कपित्थमिवास्यं यस्य। गोलाङ्गूलाख्ये वानरभेदे त्रिका०। तस्य कपित्थाकारमुखत्वात्तथात्वम् जातित्वेऽपि संयोगोपधत्वात् स्त्रियां टाप्।

कपिनामन् = पु० कपेर्नाम नाम यस्य। सिह्लके भावप्र०। कपितैलशब्दे तद्वाक्यं दृश्यम्।

कपिपिप्पली = स्त्री कपिः कपिवर्ण्णा रक्ता पिप्पलीव। १ रक्तापामार्गेवैद्य०। २ सूर्य्यावर्त्तवृक्षेरत्नमा०।

कपिप्रभा = स्त्री कपावपि प्रभा स्वगुणप्रसारोऽस्याः।(आलकुशी) कपिकच्छ्वाम् शब्दरत्ना०।

कपिप्रभु = पु० ६ त०। १ रवुनाये रामचन्द्रे शब्दरन्ता०। २ सुग्रीवे च

कपिप्रिय = पु० ६ त०। १ आम्रातकवृक्षे राजनि०। २ कपित्थे भावप्र०। कपितैलशब्दे तद्वाक्यमुक्तम्।

कपिरय = पु० कपिर्हनुमान्रथ इव वाहनमस्य। १ श्रीरामे शब्दरत्ना०। कपिर्हनुमान्रथेऽस्य। २ अर्ज्जुने कपिकेतन शब्दे तन्नामताकारणं दर्शितम्।

कपिल = पु० कबृ वर्णे इलच् बस्य पश्च, अपि + सिध्मा० लच् वा। सांख्यशास्त्रप्रवर्त्तके १ मुनिभेदे कर्द्दमप्रजापतेर्देवहूतिगर्भजपुत्ररूपे २ भगवदवतारभेदे। ३ वह्नौ ४ कुक्कुरे च हेम०। (शिलारभ) ५ लिह्लके रत्नमा०। ६ पिङ्गलवर्णे। ७ त- द्वति त्रि० अमरः। स च वर्णः नीलपीतमिश्रितवर्ण्ण इति रभसः रोचनाच्छविरित्याथे। साङ्ख्यमतञ्च द्विविधं सेश्वरनिरीश्वरभेदात् तत्र सेश्वरसांख्यशास्त्रं भगवदवतारः कपिलः प्रणीतवान्। निरीश्वरसांख्यन्तु अग्न्यवतारः कपिलः” “अग्निः स कपिलो नाम सांख्यशास्त्रप्रवर्त्तकः” इति स्मृतेः। तत्र निरीश्वरसांख्यप्रवृत्त्यादि यथा सां० का० उक्तं यथा “पुरुषार्थ ज्ञानमिदं गुह्यम्परमर्षिणा समाख्यातम्। स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम्। एतत्पवित्रभग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ। आसुरिरपि पञ्चशिखाय तेन बहुधा कृतन्तन्त्रम्। शिष्यपरम्परायातमीश्वरकृष्णेन चैतदार्य्याभिः। संक्षिप्तमार्य्य मतिना सम्यग्विज्ञाय सिद्धान्तम्। सप्तत्या किल येऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य। आख्यायिकाविरहिताः परवादविवर्ज्जिताश्चापि” विवृतञ्चैतदस्माभिः सा० त० कौ० व्याख्योपक्रमे यथा “अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः” इत्यादिकसूत्रजातात्मकं षडध्यायीरूपं शास्त्रम् कपिलमुनिः आसुरिनामानं मुनिमुपलक्ष्यीकृत्य प्रणिनाय तेनापि ततः श्रुत्वा तदर्थानुगुणं संक्षिप्तमपरं शास्त्रं स्वशिष्याय पञ्चशिखायो प्रदिष्टमेवं लोके प्रचारमुपगतेऽस्मिन् शास्त्रे ईश्वरकृष्णेन विद्वद्वर्य्येणाख्यायिकापरवादनिराकणवर्जं षष्टिपदार्थीप्रतिपादनाय द्धासप्ततिरार्य्याः निर्म्मिताः। एतच्छास्त्रस्य तु “सङ्क्यां प्रकुर्व्वते यस्मात् प्रकृतिं च प्रचक्षते। तत्त्वानि च चतुर्व्विंशत् तेन साङ्क्यं प्रकीर्त्तितम्” इति महाभारतवाक्यानुसारेण प्रकृतिपुरुषसम्यग्विवेकज्ञानरूप्रसङ्क्यायाः, प्रकृत्यादिचतुर्विंशतितत्त्वसङ्ख्यायाश्च प्रतिपादनात् साङ्ख्याशब्दाभिधेयता। तदिदं शास्त्रं चिकित्साशास्त्रमिव चतुर्व्यूहम् यथा रोगः रोगनिदानं रोगनिवृत्त्यु पायः रोगनिवृत्तिरित्येते पदार्थाः चिकित्साशास्त्रगताः एवं हेयं दुखं, तन्निदानं चित्तादि, तन्निवृत्त्युपायो विवे कसाक्षाल्कारः, दुःखनिवृत्तिश्चेत्येते पदार्थाः अत्र शास्त्रे प्राध्यान्येनोपदिष्टाः प्रसङ्गागताश्चान्ये। प्रछप्तेः साम्याबस्थापन्नगुणतयात्मि कायाः सर्गभेदेऽप्येकत्वं, खर्गामवर्गरूपप्रयोजनवत्त्वम्, परार्थतया प्रष्टत्तिमत्त्वञ्च, असङ्गस्य चेतनस्य पुरुषस्य प्रकृतिकार्य्योभ्यो भेदः, अकर्तृखं जन्ममरणादिव्यवस्यान्यथानुपपत्तेर्बहुत्वञ्च, प्रकृतेः पुरुषस्य चोभयोः अस्तित्वं, संयोगः, वियोगश्च स्थूलसूक्ष्मभूतानां स्थितिरिव्येते दश प्रदार्थाः मौलिकाः। तथा अविद्या-ऽस्मितारागद्वेषाभिनिवेशात्मकाः पञ्च विपर्य्ययाः इन्द्रियादीनां स्वस्वव्यापारेऽसामार्थ्यम् “बाधिर्य्यं कुष्ठितान्धत्वं जडताऽजिघ्रता तथा। मूकता कौण्यपङ्गुत्वं क्लैव्योदावर्त्तमन्दता”। इत्येकादशविधम्, नवधा तुष्टयोऽष्टधा सिद्धयः तासां विपर्य्ययः सप्तदशधा इत्येवमष्टाविंशतिः नवधा तुष्टयोऽष्टौ सिद्धयैत्येवं षष्टिः पदार्थाः “प्रधानास्तित्वमेकत्वमर्थवत्त्वमथान्यता। पारार्थ्यञ्च तथानैक्यं वियोगो योग एव च। शेषवृत्तिरकर्तृत्वं मौलि कार्थाः स्मृता दश। विपर्य्ययः प्रञ्चविधस्तथोक्ता नवतुष्टयः। करणानामसामर्थ्यमष्टाविंशतिधा मतम्। इति षष्टिः पदार्थानामष्टाभिः सिद्धिभिः सह”। इति राजवार्त्तिकोक्ता उपदिष्टाः। प्रकृतिपुरुषविवेकोपदेशायप्रवृत्त शास्त्रं प्रथमं चेतनाचेतनत्वेन पदार्थद्वैविध्यं सूचायाम्बभूब। तत्र चेतनाः पुरुषा जन्मादिव्यवस्थान्यथानुपपत्तेर्बहवः। प्रकृत्यादयः चतुर्विंशतिः पदार्थाः संहतपरार्थाः अचेतनाश्च। अचेतनाअपि प्रकृत्यादयः पुरुषस्य भोगापवर्गार्थं वत्सवृद्ध्यर्थं क्षीरमिव प्रवर्त्तन्ते। तत्प्रवृत्तौ च अनाद्यविद्या मिथ्याज्ञानजन्यवासनासहकृता पुरुषेण संयोगं सम्पादयन्ती हेतुः। पुरुषसंयुक्ता च साम्यावस्थापन्नगुणत्रयात्मिका प्रकृतिः महत्तत्त्वाकारेण परिणमते इदभित्थमेवेतिनिश्चयात्मकवृत्तिविशिष्टमन्तःकरणमेव महत्तत्त्वसंज्ञकम्। तच्च पुनः इदं मम अनेनाहं कार्य्यं निष्पादयामीत्येवमहङ्कारात्मकवृत्तिविशिष्टान्तःकरणरूपाऽहङ्काराकारेणपरिणमते। सोऽपि सूक्ष्मभूत् रूषशब्द तन्मात्रस्पर्शतन्मात्र रूपतन्मात्ररसतन्मात्रगन्धतन्मात्राकारेण परिणमते। तानि च श्रोत्रत्वङ्नयनरसनाजिह्वाख्य–पञ्चज्ञानेन्द्रिय–वाक्पाणिपादपायूपस्थाख्य–पञ्चकर्म्मेन्द्रिय–सङ्कल्पबिकल्पात्मकवृत्तिकमनोरूपेण, आकाशवायुज्वलनजलभूमिरूपमहाभूताकारेण च परिणमन्ते। तएते चतुर्विंशतिः पदार्थाः “प्रकृते र्महान्, महतोऽहङ्कारः, अहङ्कारात् पञ्च तन्मात्राणि, तन्मात्रेभ्य एकादशेन्द्रियाणि पञ्च भूतानि चेति” सूत्रो पदिष्टाः। तेभ्य एव च भौतिकब्रह्माण्डचतुर्विधप्राणिदेहादीनामुत्पैः। प्रकृतिश्चैवं भूयोभूयः स्वव्यापारान् पुरुषाय दर्शथित्वा भूयोभूयो भुज्यमानेषु तेषु क्रमशः पुरुषस्य वैराग्यमुत्पाद्य आत्मात्मकार्य्येभ्यः पुरुषस्य विवेकज्ञानं साधयित्वा च दृष्टात्मविवेकं पुरुषं प्रति स्वव्यापारदर्शवेन कृतकृत्यतया निवर्त्तते। तन्निवृत्तौ च तत्कार्य्यसकलपदार्थव्यापारनिवृत्तिरित्यतः सकार्य्यप्रकृति वृत्ति- निवारणाय प्रयत्नः कार्य्यः। तन्निवृत्तिश्च विवेकज्ञानसाध्या इत्येवं विवेकसाधनायेदं शास्त्रं प्रवृत्तम्। विवेकश्च यत् वस्तु यथास्थितम् तत्तथारूपेण ज्ञानम् तत्र पुरुषस्य निःसङ्गतया क्रियाशून्यतया चापरिणामित्वेन कर्तृत्वाभावात् प्रकृतिकार्य्यबुद्धिरेव कर्त्री कृतिसमानाधिकरण्येनैव तत्फलस्य सुखदुःखादेः तन्निष्ठतैव। पुरुषेतु प्रवानकार्य्यबुद्धेश्चिदात्मनि प्रतिविम्बात् दुःखादेरपि पुरुषे प्रतिम्बनं तेन च पुरुष उपतप्यते, बुद्धेर्दुःखनिवृत्तौ च नैव तस्योपताप इत्यतः प्रतिविम्बरूपदुःखभोक्तृत्वेन आत्मानं जानन् पुरुष उपतप्यमान इव भवति। ततश्च प्रकृतेर्भिन्नतया तत्कार्य्यसुखादिशून्यतया ज्ञातः पुरुषः प्रतिविम्बाकारैः दुःखैर्न संवध्यते इत्येवं प्रकृत्यादीनां चतुर्विंशतितत्त्वानां पुरुषस्य च असाधारणधर्म्मविशेषकथनद्वारा तयोर्विवेकज्ञानोपयोग्युपदेशायैवेदम् शास्त्रं प्रवृत्तम् यथा च तयोर्विवेकस्तथा शास्त्रे तन्मूलके द्वासप्ततिकारिकात्मके प्रबन्धे च आख्यायिकापरवादनिराकरणवर्जसीश्वरकृष्णेन दर्शितम्”। तत्र सांख्यमतं सर्वदर्शसंग्रहे इत्यं समग्राहि

“सङ्क्षेपेण हि साङ्ख्यशास्त्रे चतस्रो विधाः सम्भाव्यन्ते कश्चिदर्थः प्रकृतिरेव, कश्चिद्विकृतिरेव, कश्चिद्विकृतिः प्रकृतिश्च, कश्चिदनुभय इति। तत्र केवला प्रकृतिः प्रघान पदेन वेदनीया मूलप्रकृतिः नासावन्यस्य कस्यचिद्विकृतिः, प्रकरोतीति प्रकृतिरितिव्युत्पत्त्या मत्त्वरजस्तमोयुणानां साम्यावस्थाया अभिधानात् तदुक्तं “मूलप्रकृतिरविकृतिरिति”। मूलञ्चासौ प्रकृतिश्च मूलप्रकृतिः महदादेः कार्य्यकलापस्यासौ मूलं न त्वस्य प्रधानस्य मूलान्तरमस्ति अनवस्थापातात्। न च वीजाङ्कुरवदनवस्थादोषो न भवतीति वाच्यं प्रमाणाभावादिति भावः। विकृतयश्च प्रकृतयश्च महदहङ्का रतन्मात्राणि। तदप्युकं “महदाद्याः प्रकृतिविकृतयः सप्तेति” अस्यार्थः प्रकृतयश्च ताः विकृतयश्चेति प्रकृतिविकृतयः सप्त महादादीनि तत्त्वानि तत्रान्तःकरणादिपदवेदनीयं महत्तत्त्वमहङ्कारस्य प्रकृतिः मूलप्रकृतेस्तु विकृतिः। एवमहङ्कारतत्त्वमभिमानापरनामधेयं महतो विकृतिः प्रकृतिश्च पञ्चतन्मात्रादीनाम् तत्राहङ्कारतत्त्वं तामसं सत् पञ्चतन्मात्राणां सूक्ष्माभिधानां प्रकृतिः, तदेव सात्विकं सत्प्रकृतिरेकादशेन्द्रियाणां बुद्धीन्द्रियाणां चक्षुःश्रोत्रव्राणरसनात्वगाख्यानां, कर्म्मेन्द्रयाणां बाक्पाणिपादपायूपस्थाख्यानामुभयात्मकस्य ममसश्च। रजसस्तूमयत्र क्रियोत्पादनद्वारेण कारणत्वमस्तीति न वैयर्थ्यम्। तदुक्तमीश्वरकृष्णेन “अभिमानोऽ- हङ्कारस्तस्माद्द्विविधः प्रवर्त्तते सर्गः। एकादशकश्च गणस्तन्मात्रपञ्चकञ्चैव। सात्विकएकादशकः प्रवर्त्तते वैकृतादहङ्कारात्। भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम्। बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि। वाक्पाणिपादपायूपस्थानि कर्म्मोन्द्रियाण्याहुः। उभयात्मकमत्र मनः सङ्कल्पविकल्पात्मकमिन्द्रियञ्च साधर्म्म्यादिति”।

विवृतञ्च तत्त्वकौमुद्यामाचार्य्यवाचस्पतिभिः। केवला विकृतिस्तु वियदादीनि पञ्च भूतानि एकादशेन्द्रियाणि च तदुक्तं “षोडशकस्तु विकारः” इति षोडशसङ्ख्यावच्छिन्नो गणः षोडशको विकार एव न प्रकृतिरित्यर्थः यद्यपि पृथिव्यादथो गोघटादीनां प्रकृतिस्तथापि न ते पृथिव्यादिभ्यस्तत्त्वान्तरमिति न प्रकृतिः तत्त्वान्तरोपादानत्वं चेह प्रकृतित्वमभिमतं गोघटादीनां स्थूलत्वेन्द्रियग्राह्यत्वयोः समानत्वेन तत्त्वान्तरत्वाभावात्। तत्र शब्दस्पर्शरूपरसगन्धतन्मात्रेम्यः पूर्व्वपूर्व्वसूक्ष्मभूतसहितेभ्याः पञ्च भूतानि वियदादीनि क्रमेणैकद्वित्रिचतुःपञ्चगुणानि जायन्ते। इन्द्रियसृष्टिस्तु प्रागेवोक्ता। तदुक्तम् “प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः। तस्मादपि षोडशकात् पञ्चभ्यः पञ्चभूतानीति”। अनुभयात्मकः पुरुषः तदुक्तं “न प्रकृतिर्न विकृतिः पुरुष” इति। पुरुषस्तु कूटस्थनित्योऽपरिणामी न कस्यचित् प्रकृतिर्नापि विकृतिः कस्यचिदित्यर्थः। एतत्पञ्चविंशतितत्त्वसाधकत्वेन प्रमाणत्रयमभिमतं तदप्युक्तं “दृष्टमनुमानमाप्तवचनञ्च सर्व्वप्रमाणसिद्धत्वात्। त्रिविथं घ्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धीति”। इह कार्य्यकारणभावे चतुर्द्धा विप्रतिपत्तिः प्रसरति। असतः सज्जायत इति सौगताः सङ्गिरन्ति। नैयायिकादयः सतोऽसज्जायत इति। वेदान्विनः सतो विवर्त्तः कार्य्यजातं न वस्तुसदिति। सांख्याः पुनः सतः सज्जायत इति। तत्रासतः सज्जायत इति न प्रामाणिकः पक्षः असतो निरुपाख्यस्य शशविषाणवत्कारणत्वानुपपत्तेः तुच्छातुच्छयास्तादात्म्यानुपपत्तेश्च। नापि सतोऽसज्जायते कारकव्यापारात् प्रागसतः शशविषाणवत्सत्तासम्बन्धलक्षणोत्पत्त्यनुपपत्तेः नहि नीलं निपुणतमेनापि पीतं कर्त्तुं पार्य्यते। ननु सत्त्वासत्त्वें घटस्य धर्म्माविति चेत्तदचारु असति, धर्म्मिणि तद्धर्म्म इति व्यपदेशानुपपत्त्या धर्म्मिणः सत्त्वापत्तेः। तस्मात् कारकव्यापारात् प्रागपि कार्य्यं सदेव, सतश्चाभिव्यक्तिरुपपद्यते यथा पीडनेन तिलेषु तैलस्य दोहेन सौरभेयीषु पयसः। असतः करणे किमपि निदर्शनं न दृश्यते। किञ्च कार्य्येण सम्बद्धं कारणं तज्जनकम् असम्बद्धं वा प्रथमे कार्य्यस्य सत्त्वमायातं सतोरेव सम्बन्ध इति नियमात् चरमे सर्वं कार्य्यजातं सर्वस्माज्जायेत असम्बद्धत्वाविशेषात्। तदप्यख्यायि साङ्ख्याचार्य्यैः “असत्त्वान्नास्ति सम्बन्धः कारणैः सत्त्वसङ्गिभिः। असम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिरिति”। अथैवं मन्येथा असम्बद्धमपि तत् तदेव जनयति यत्र यच्छक्तं शक्तिश्च कार्य्यदर्शनोन्नेयेति तन्न सङ्गच्छते तिलेषु तैल जननशक्तिरित्यत्र तैलस्यासत्त्वे सम्बद्धत्वासम्बद्धत्वविकल्पेन तच्छक्तिरिति निरूपणायोगात्। कार्य्यंकारणयोरभेदाच्च कार्य्यस्य सत्त्वं कारणात् पृथक् न भवति पटस्तन्तुभ्यो न भिद्यते तद्धर्म्मत्वान्न यदेवं न तदेवं यथा गोरश्वः, तद्धर्मश्च पटस्तस्मान्नार्थान्तरम्। तर्हि प्रत्येकं त एव प्रावरणकार्य्यं कुर्य्युरिति चेत् संस्थानभेदेनाविर्भूतपटभावानां प्रावरणार्थक्रियाकारित्वोपपत्तेः यथा हि कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानि तिरोभवन्ति निःसरन्ति चाविर्भबन्ति एवं कारणस्य तन्त्वादेः पटादथो विशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते निविशमानास्तिरोभवन्तो विनश्यन्तीत्युच्यन्ते न पुनरसतामुत्प्रत्तिः सतां बा विनाशः। यथोक्तं भगवद्गीतायाम् “नासतो विद्यते भावो नाभावो विद्यते सतः” इति। ततश्च कार्य्यानुमानात् तत्प्रधानसिद्धिः। तदुक्तम् “असदकरणादुपादानग्रहणात् सर्व्वंसम्भवाभावात्। शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्य्यमिति”। नापि सतो ब्रह्मतत्त्वस्य विवर्त्तः प्रपञ्चः बाधानुपलम्भात् अधिष्ठामारीप्ययीश्चिज्जडयोः कलधौतरूप्यादिवत् सारूप्याभावेनारोपासम्भवाच्च। तस्मात्सुखदुःस्नमोहात्मकस्य तथाविधकारणमवधारणीयं तथा च प्रयोगः विमतं भावजातं सुखदुःखमोहात्मककारणकं तदन्वितत्वात् यद्येनान्वीयते तत्तत्कारणकं यथा रुचकादिकं सुवर्णान्वितं सुवर्णकारणकं तथाचेदं तस्मात्तथेति। तत्र जगत्कारणे येयं सुखात्मकता तत्सत्वं, या दुःखात्मकता तद्रजः, या च मोहात्मकता तत्तम इति त्रिगुणात्मककारणसिद्धिः तथा हि प्रत्येकं भावास्त्रैगुण्यवन्तोऽनुभूयन्ते यथा मैत्रदारेषु सत्यवत्यां मैत्रस्य सुखमाविरस्ति त्रं प्रति सत्वगुणप्रादुर्भावात् तत्सपत्नीनां दुःखम् ताः प्रति रजोगुणप्रादुर्भावात्। तामलभमानस्य चैत्रस्य मोहो भवति तं प्रति तमोगुणसमुद्भवात्। एवमन्यदपि घटादिकं लभ्यमानं सुखाकरोति परैरपि ह्रियमाणं दुःखाकरोति उदासीनस्योपेक्षाविषयत्वेनोपतिष्टते उपेक्षानिषयत्वं नाम मोहः मुह–वैचित्त्ये इत्यु- स्माद्धातोर्मोहशब्दनिष्पत्तेः उपेक्षणीयेषु चित्त्वृत्त्यनुदयात्। तस्मात्सर्बं भावजातं सुखदुः खमोहात्मकं त्रिगुणप्रधानकारकणकमवगम्यते। तथाच श्वेताश्वतरोपनिषदि श्रूयते “अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजा जनयन्तीं सरूपाः। अजोह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः” इति। अत्र लीहितशुक्लकृष्णशब्दा रञ्जकत्वप्रकाशकत्वावरकत्वसाधर्म्यात् रजस्मत्वतमोगुणत्वप्रतिपादनपराः।

नन्वचेतनं प्रधानं चेतनानधिष्ठितं महदादिकार्य्येन व्याप्रियते अतः चेनचिच्चेतनेनाधिष्ठात्रा भवितव्यं तथाच सर्व्वार्थदर्शी परमेश्वरः स्वीकर्त्तव्यः स्यादिति चेत् तदसङ्गतम् अचेतनस्यापि प्रधानस्य प्रयोजनवशेन प्रवृत्त्युपपत्तेः दृष्टञ्च अचेतनं चेतनानधिष्ठितं पुरुषार्थाय प्रवर्चमानं यथा वत्सविवृद्ध्यर्थमचेतनं क्षीरं प्रवर्त्तते यथा जलमचेतनं लोकोपकाराय प्रवर्त्तते तथा प्रकृतिरचेतनापि पुरुषविमोक्षाय प्रवर्त्तति। तदुक्तम् “वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य। पुरुषविमोक्षनिमित्तं तथा प्रघृत्तिः प्रधानस्येति”। यस्तु परमेश्वरः करुणया प्रवर्त्तक इति परमेश्वरास्तित्ववादिनां डिण्डिमः स प्रायेण गतः विकल्पानुपपत्तेः स किं सृष्टेः प्राक् प्रवर्त्तते सृष्ट्युत्तरकालं वा आद्ये शरीराद्यभावेन दुःखानुत्पत्तौ जीवानां दुःखप्रहाणेच्छानुपपत्तिः, द्वितीये परस्पराश्रयप्रसङ्गः करुणया सृष्टिः सृष्ट्या च कारुण्यमिति। तस्मादचेतनस्यापि चेतनानधिष्ठितस्य प्रधानस्य महदादिरूपेण परिणामः पुरुषार्थप्रयुक्तः प्रधानपुरुषसंयोगनिमित्तः। यथा निर्व्यापारस्याप्ययस्कान्तस्य सन्निधानेन लोहस्य व्यापारः तथा निर्वापारस्य पुरुषस्य सन्निधानेन प्रधानव्यापारो युज्यते। प्रकृतिषुरुषसम्बन्धश्च पङ्ग्वन्धवत्परस्परापेक्षानिवन्धनः। प्रकृतिर्हि भोग्यतया भोक्तार पुरुषमपेक्षते पुरुषोऽपि भेदाग्रहाद्बुद्धिच्छायापत्त्या तद्गतं दुखत्रयं वारयमाणः कैवल्यमपेक्षते। तत्प्रकृतिपुरुषविवेकनिबन्धबनम्। न च तदन्तरेण युक्तयिति कैवल्यार्थं पुरुषः प्रधानमपेक्षते। यथा खलु कौचित् पङ्ग्वन्धौ पथि सार्थेन गच्छन्तौ दैवकृतादुपप्लवात् परित्यक्तसार्थौ मन्दमन्दमितस्ततः परिभ्रसन्तौ भयाकुलौ दैववशात् संयोगमुपगच्छेतां तत्र चान्धेन पङ्गुः स्कन्धनारोपितः ततः पङ्गुदर्शितेन मार्गेणान्धः समीहितं स्थानं प्राशोति पङ्गुरपि स्कन्धाधिरूढः। तथा परस्फरापेक्षप्रधानपुरुषनिबन्धनःसर्गः। यथोक्तम् “पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य। पङ्ग्वन्धवदुभयो- रपि सम्बन्धस्तत्कृतः सर्गः” इति। ननु पुरुषार्थनिबन्धना भवतु प्रकृतेः प्रवृत्तिः निवृत्तिस्तु कथमुपपद्यते? इति चेदुच्यते यथा भर्त्रा दृष्टदोषा स्वैरिणी भर्त्तारं पुनर्नोपैति यथा वा कृतप्रयोजना नर्त्तकी निवर्त्तते तथा प्रकृतिरपि। यथोक्तम् “रङ्गस्य दर्शयित्वा निवर्त्तते नर्त्तकी यथा नृत्यात्। पुरुषस्य तथात्मानं प्रकाश्य विनिवर्त्तते प्रकृतिरिति”। एतदर्थं निरीश्वरसाङ्ख्यशास्त्रप्रवर्त्तककपिलानुसारिणां मतसुपन्यस्तम्”। तत्र मूलीमूतमादिमं तत्त्वसमासाख्यसूत्रं तदुक्तार्थप्रवचनात् षडध्याय्याः सांख्यप्रवचनसंज्ञेति यथोक्तं तद्भाष्ये “नन्वेवमपि तत्त्वसमासाख्यसूत्रैः साहास्याः षडध्याय्याः पौनरूक्त्यमिति चेत् मैवम् संक्षेपविस्तररूपेणोभयोरप्यपौनरुक्तात् अतएवाऽस्याः षडध्याय्याः योगदर्शनस्येव साङ्ख्यप्रवचनसंज्ञा युक्ता। तत्त्वसमासाख्यं हि यत् सङ्क्षिप्तं साङ्ख्यदर्शनं तस्यैव प्रकर्षेणास्यां निर्वचनमिति, विशेषस्त्वयं यत् षडध्यायां तत्त्वससमासाख्योक्तार्थविस्तरमात्रं योगदर्शने त्वभ्युपगमवादप्रतिषिद्धस्यैवेश्वरस्य निरूपणेन न्यू नतापरिहारोऽपीति” षडध्याय्यां च क्रमेणैतेऽर्था यथा “हेयहाने तयोर्हेत व्यूहा एते यथाक्रमम्। चत्वारःशास्त्रमुख्यार्थाः आद्या ध्याये प्रपञ्चिताः। संक्षिप्तसांख्यसूत्राणामर्थस्यात्र प्रप ञ्चनात्। शास्त्रं योगवदेवैतत् सांख्यप्रवचनाभिधम्” १ लिङ्गदेहस्य धटकं यत् प्रप्तदशसंख्यकम्। प्रधानकार्य्यं तत्सूक्ष्मं द्वितीयाध्यायगामि च २। अत्यन्तल यपर्य्यन्तः कार्य्योऽव्यक्तस्य नात्मनः। तृतीयोक्तोविवेकोऽत्र परवैराग्यसाधनम् ३। अध्यायत्रितयोक्तस्यः विवेकस्यान्तरङ्गकम्। आख्यायिकाभिः संप्रोक्तं तुर्य्येऽध्याये समासतः ४। स्वसिद्धान्तविरुद्धार्थवादिनो ये कुवादिनः। पञ्चमे तान् निराकत्य स्वसिद्धान्तो दृढीकृतः ५। शास्त्रमुख्यार्थविस्तारस्तन्त्राख्येऽनुक्तपूरणैः। षष्ठाध्याये कृतः पश्चाद्वाक्यार्यश्चोपसंसहृतः।

सेश्वरसांख्यमतन्तु पातञ्जलमतत्वेन प्रसिद्धम् तन्मतञ्च पतञ्जलिशब्दे दर्शयिष्यते। तदेव मतं कर्दमप्रजापतेर्देवहूतावाविर्मूय भगवदतारकपिलःमातरमुपदिदेश तच्च भाग० ३, २५, २९ अध्यायेष वर्ण्णितम यथा। “अथ ते संप्रवक्ष्यामि तत्त्वानां लक्षणं पृथक्। यद्विदित्वा विमुच्यैत पुरुषः प्राकृतैर्गुणैः। ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्मदर्शनम्। यदाहुर्व्वार्णये तत्ते हृदत ग्रन्थिभेदनम्। अनादिरात्मा पुरुपो निर्गुणः प्रकृतेः परः। प्रत्यग्धाम स्वयं ज्योतिर्विश्वं येन समन्वितम्। स एष प्रकृतिं सूक्ष्मां देवीं गुणमयीं विभुः। यदृच्छयै वोपगतामभ्यपद्यत लीलया। गुणैर्विचित्राः सृजतिं सरूपाः प्रकृतिं प्रजाः। विलोक्य मुहुह सद्यः स इहज्ञानगूहया। एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान्। कर्म्मसु क्रियभाणेषु गुणैरात्मनि मन्यते। तदस्य संसृतिर्व्वन्धः पारतन्त्र्यञ्च तत्कृतम्। भवत्यकर्त्तुरी शस्य साक्षिणो निर्व्वृतात्मनः। कार्य्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः। भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम्। देवहूतिरुवाच। प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम!। ब्रूहि कारणयोरस्य सदसच्च यदात्मकम्। भगवान् उवाच। यत्तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम्। प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत्। पञ्चमिः पञ्चभिः ब्रह्म चर्भिर्दशमिस्तथा। एतच्चतुर्व्विंशतिकं गणं प्राधानिकं विदुः। महाभूतानि पञ्चैवभूरापोऽग्निर्म्मरुन्नभः। तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे। इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसननासिकाः। वाक्करौ चरणौ मेद्रं पायुर्दशम उच्यते। मनोबुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम्। चतुर्द्धा लक्ष्यते भेदोवृत्त्या लक्षणरूपया। एतावानेव संख्यातो ब्रह्मणः सगुणस्य च। सन्निवेशोमया प्रोक्तोयः कालः पञ्चविंशकः। प्रमावं पौरुषं प्राहुः कालमेके यतोभयम्। अहङ्कारविनूढस्य कर्त्तुः प्रकृतिमीथुषः। प्रकृतेर्गुणसाम्यस्य निर्व्विशेषस्य भानवि!। चेष्टा यतः स भगवान् काल इत्युपलक्षितः। अन्तः पुरुषरूपेण कालरूपेण योबहिः। समन्वेत्येष सत्वानां भगवानात्ममायया। दैवात् क्षुभित धर्म्मिण्यां स्वस्यां योनौ परः पुमान्। आधत्त वीर्य्यं माऽसूत महत्तत्वं हिरण्मयम्। विश्वमात्मगतं व्यञ्जन् कूटस्थोजगदङ्कुरः। स्वतेजसाऽपिबत्तीवमात्मप्रस्वापनं तमः। यत्तत् सत्वगुणं स्वच्छं शान्तं भगवतः पदम्। तदाहुर्व्वासुदेवाख्यं चित्तं तन्महदात्मकम्। स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतसः। वृत्तिभिर्लक्षणं प्रोक्तं यथा मां प्रकृतिः परा। महत्तत्वाद्विकुर्व्वाणाद्भगवद्वीर्य्यसम्भवात्। क्रियाशक्निरहङ्कारस्त्रिविधः समपद्यत। वैकारिकस्तैजसश्च तामसश्च यतोभयः। मनसश्चेन्द्रियाणाञ्च भूतानां महतामपि। सहस्वशिरसं साक्षात् यमनन्तं प्रचक्षते। सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम्। कर्तृत्वं करणत्वञ्च कार्य्यत्वञ्चेति लक्षणम्। शान्तघोरविमढत्व- मिति वा स्यादहङ्कृतेः। वैकारिकाद्विकुर्व्वाणान्मनस्तत्त्वमजायत। यत्संकल्पविकल्पाभ्यां वर्त्तते कामसम्भवः। यद्विदुर्ह्यनिरुद्धाख्यं हृषीकाणामधीश्वरम्। शारदेन्दीवरश्यामं संराध्यं योगिमिः शनैः। तैजसात्तु विकुर्व्वाणाद्बुद्धितत्त्वमभूत् सति!। द्रव्यस्फुरणविज्ञानमिन्द्रियाणा मनुग्रहः। संशयोऽथ विपर्य्यासोनिश्चयः स्मृतिरेव च। स्वाप इत्युच्यते बुङ्केर्लक्षणं वृत्तितः पृथक्। तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः। प्राणस्य हि क्रिया शक्तिर्बुद्धेर्व्विज्ञानशक्तिता। तामसाच्च विकुर्व्वाणाद्भगवद्वीर्य्यनोदितात्। शब्दमात्रमभूत्तस्मान्नमः श्रोत्रन्तु शब्दगम। अर्थाश्रयत्वं शब्दस्य द्रष्टुलैङ्गत्वमेव च। तन्मात्रञ्चैव नभसोलक्षणं कवयोविदुः। भूतानां छिद्रदातृत्वं बहिरन्तरमेव च। प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो वृत्तिलक्षणम्। नभसः शब्दतन्मात्रात् कालगत्या विकुर्व्वतः। स्पर्शोऽभवत्ततोवायुस्त्वक् च स्पर्शस्य संग्रहः। मृदुत्वं कठिनत्वञ्च शैत्यमुष्णत्वमेव च। एतत् स्पर्शस्य स्पर्शत्वं तन्मात्रञ्च नभस्वतः। चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः। सर्व्वेन्द्रियाणामात्मत्वं वायोः कर्म्माभिलक्षणम्। वायोश्च स्पर्शतन्मात्रात् रूप दैवेरिताद भूत्। समुत्थितं ततस्तेजश्चक्षूरूपोपलम्भनम्। द्रव्याकृतित्वं गुणता व्यक्तिसंस्थत्वमेव च। तेजस्त्वं तेजसः साध्वि! रूपमात्रस्य वृत्तयः। द्योतनं पचनं पानमदनं हिममर्द्दनम्। तेजसोवृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च। रूपमात्राद्विकर्व्वाणात्तेजसो दैवनोदितात्। रसमात्रमभूत्तस्मादम्भोजिह्वा रसग्रहः। कषायोमधुरस्तिक्तः कष्ट्वम्लाइति नैकधा। मौतिकानां विकारेण रसएकोविभिद्यते। क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोदनम्। तापापनोदो मूयस्त्वगम्भसो वृत्तयोस्त्विमाः। रसमात्राद्विकुर्व्वाणादम्भसो देवनोदितात्। गन्धमात्रमभूत्तस्मात् पृथ्वी घ्राणस्तु गन्धगः। करम्भपूतिसौरभ्यशान्तोदग्रादिभिः पृथक्। द्रव्यावयववैषम्याद्गन्ध एकोविभिद्यते। भावनं ब्रह्मणःसानं धारणं सद्विशेषणम्। सर्व्वसत्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम्। नभोगुणविशेधोऽर्थो यस्य तत् श्रोत्रमुच्यते। वायोर्गुणविशेषोऽर्थो यस्य तत् स्पर्शनं विदुः। तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते। अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः। भूमेर्गुण विशेषोऽर्थो यस्य घ्राणः स उच्यते। परस्य दृश्यते धर्म्मोह्यपरस्विन् समन्वयात्। अतोविशेषो भावानां मूमा- वेथोपलभ्यते। एतान्यसंहत्य यदा महदादीनि सप्तवै। कालकर्म्मगुणोपेतो जगदादिरुपाविशत्। ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम्। उत्थितं पुरुषो यस्मात् उदतिष्ठदसौ विराट्। एतदण्डं विशेषाख्यं क्रमवृद्धैर्यथोत्तरैः। तोयादिभिः परिवृतं प्रधानेनावृतं बहिः। यत्र लोकवितानोऽयं रूपं भगवतोहरेः। हिरण्मयादण्डकोषादुत्थाय सलिलेशयात्। तमाविश्य महादेवो बहुधा निर्बिभेद खम्। निरमिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत्। वाण्यावह्निरथोनासे प्राणतो घ्राण एतयोः। घ्राणाद्वायुरभिद्येतामक्षिणी चक्षुरेतयोः। तस्मात् सूर्य्योऽन्वभिद्येतां कर्णौ श्रोत्रं ततोदिशः। निर्बिभेद विराजस्त्वग्रोमश्मश्र्वाद्रयस्ततः। ततओषधयश्चासन् शिश्नं निर्बिभेदे ततः। रेतस्तस्मादाप आसन्निरभिद्यत वै गुदम्। गुदादपानोऽ पानाच्च मृत्युर्लोकभयङ्करः। हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट्। पादौ च निरभिद्यतां गतिस्ताभ्यां ततोहरिः। नाड्योऽस्य निरमिद्यन्त ताभ्यो लोहितमाभृतम्। नद्यस्ततः समभवन्नुदरं समभिद्यत। क्षुत्पिपासे ततः स्यातां समुद्रस्त्वेतयोरभूत्। अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम्। मनसश्चन्द्रमाजातो बुद्धिर्ब्बुद्धेर्गिरां पतिः। अहङ्कारस्ततोरुद्रः चित्तञ्चैत्तस्ततोऽभवत्। एते ह्यभ्युत्थिता देवा नैवास्योत्यापनेऽशकन्। पुनराविविशुः स्वानि तमुत्थापयितुं क्रमात्। वह्निर्वाचा मुखं भेजे नोदतिष्ठत्ततोविराट्। घ्राणेन नासिके वायुर्नोदतिष्ठत्ततोविराट्। अक्षिणो चक्षुरादित्योनोदतिष्ठत्ततोविराट्। हस्ताविन्द्रो बलेनैव नोदतिष्ठत्ततोविराट्। विष्णुर्गत्येव चरणौ नोदतिष्ठत्ततोविराट्। नाडीर्नद्यो लोहितेन नोदतिष्ठत्ततोबिराट्। क्षुत्तृड्भ्यामुदरं सिन्धुर्नोदतिष्ठत्ततोविराट्। बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत्ततोविराट्। श्रोत्रेण कर्णौ च दिशोनोदतिष्ठत्ततोविराट्। त्वचं रोमभिरोधध्यो नोदतिष्ठत्ततोविराट्। रेतसा शिश्नमापस्तु नोदतिष्ठत्ततोविराट्। गुदं मृत्युरपानेन नोदतिष्ठत्ततोविराट। रुद्रोऽभिमत्या हृदयं नोदतिष्ठत्ततोविराट्। चित्तेन हृदयं चैत्तः क्षेत्रज्ञः प्राविशद्यदा। विराट् तदैव पुरुषः सलिलादुदतिष्ठत। यथा प्रसुप्तं हृदयं प्राणेन्द्रियमनोधियः। प्रभवन्ति विना येन नोत्थापयितुमोजसा। तमस्मिन् प्रत्यगात्मानन्धिया योगविवृत्तया। भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत्” इति भागवते तृतीयस्कन्धे षड्विंशाध्याये कपिनवचः। “प्रकृतिस्थोपि पुरुषोनाज्यते प्राकृतैगुर्णैः। अविकारादकर्तृत्वान्निर्गुणत्वाज्जलार्कवत्। सएष यर्हि प्रकृतेर्गुणेष्वपि विसज्जते। अहङ्क्रियाविमूढात्मा कर्त्तास्मीत्यभिमन्यते। तेन संसारपदवीमवशोऽभ्येत्य निर्व्वृतः। प्रासङ्गिकैः कर्म्मदोषैः सदसन्मिश्रयोनिषु। अर्थेह्यविद्यमानेऽपि संसृतिर्न निवर्त्तते। ध्यायतो विषयानस्य स्वप्नोनार्थागभोयथा। अतएव शनैश्चित्तं प्रसक्तमसतां पथि। भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम्। यमादिभिर्योगपथैरभ्यसन् श्रद्धयान्वितः। मयि भावेन सत्येन मत्कथाश्रवणेन च। सर्व्वभूतसमत्वेन निर्वेरेणाऽप्रसङ्गतः। ब्रह्मचर्य्येण मौनेन स्वधर्म्मेण महीयसा। यदृच्छयोपलब्धेन सन्तुष्टोमितभुङ्मुनिः। विविक्तशरणः शान्तोमैत्रः करुण आत्मवान्। सानुबन्धे च देहेऽस्मित् न कुर्व्वन्नसदाग्रहम्। ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च। निवृत्तबुद्ध्यवस्थानोदूरीभूतान्यदर्शनः। उपलभ्यात्मनात्मानं चक्षुरेकाग्रमात्मदृक्। मुक्तलिङ्गं सदाभासमसति प्रतिपद्यते। सतो बन्धुमसच्चक्षुः सर्वानुष्यूवमद्वयम्। यथा जलस्थ आभासः स्थलस्थेनावदृश्यते। स्वाभासेन तथा सूर्य्यो जलस्थेन दिविस्थितः। एवं त्रिवृद हङ्कारो मूतेन्द्रियमनोमयैः। स्वाभासैर्लक्षितोऽनेन सदा भासेन सत्यदृक्। भूतसूक्ष्मेन्द्रियमनीबुद्ध्यादिष्विह निद्रया। लीनेष्वसति यस्तत्र विनिद्रो निरहङ्क्रियः। मन्य मानस्तदात्मानमनष्टो नष्टवन्मृषा। नष्टेऽहङ्करणे द्रष्टावित्त इवातुरः। एवं प्रत्यवदृश्यासावात्मानं प्रतिपद्यते साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः। देवहूतिरुवाच। पुरुषं प्रकृतिर्ब्रह्मन्! न विमुञ्चति कर्हिचित्। अन्योन्योपाश्रयत्वाच्च नित्यत्वाच्चानयीः प्रमी! यथा गन्धस्य मूमेश्चन भावो व्यतिरेकतः। अपां रसस्य च यथा तथा बुद्धेः परस्य च। अकर्त्तुः कर्म्मबन्धोऽयं पुरुषस्य यदाश्रयः। गुणेषु सत्सुप्रकृतेः कैवल्यं तेष्वतः कथम्?। कच्चित्तत्त्वावमर्शेन निवृत्तं भयभुल्वणम्। अनिवृत्तनिमित्तत्वात् पुनः प्रत्यवतिष्ठते। श्रोभगवानुवाच। अनिमित्तनिमित्तेन स्वधर्मेणामला त्मना। तीव्रया मयि भक्त्या च श्रुतसंभृतयाचिरम्। ज्ञानेन दृष्टतत्त्वेम वैराग्येण बलीयसा। तपोयु क्तेन योगेन तीव्रेणात्मसमाधिना। प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्न्निशम्। तिरोभवित्री शनकैरग्नेर्योनि रिवारणिः। भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः। नेश्वरस्याशुभं धत्ते स्वे महिम्रि स्थितस्य च। यथा ह्यप्रतिबुद्धस्य प्रस्वापोबह्वनर्थकृत्। स एव प्रतिबुद्धस्य न विमोहाय कल्पते। एवं विदितत्त्वस्य प्रकृतिर्मयि मानसम्। युञ्जतोनापकुरुते आत्मारामस्य कर्हिचित्। यदैवमध्यात्मरतः कालेन बहुजन्मना। सर्व्वत्र जातवैराग्य आ ब्रह्मभवनान् मुनिः। मद्भक्तः प्रतिबुद्धार्थोमत्प्रसादेन भूयसा। निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम्। प्राप्नोतीहाञ्जसा धीरः स्वदृशा च्छिन्नसंशयः। यत् गत्वा न निवर्त्तेत योगी लिङ्गविनिर्गमे। यदा न योगोपचितासुचेतो मायासु सिद्धस्य विसज्जतेऽम्ब!। अनन्यहेतुष्वथ मे गतिः स्यादात्यन्तिकी यत्र न मृत्युहासः” भाग० ३ स्क० २७ अ० “योगस्य लक्षणं वक्ष्ये सवीजस्य नृपात्मजे!। मनो येनैव विधिना प्रसन्नं याति सत्पथम्। स्वधर्माचरणं शक्त्या वि धर्माच्च निवर्त्तनम्। दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्च्च नम्। ग्राम्यधर्म्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा। मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम् अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः। ब्रह्मचर्य्यं तपः शौचं स्वाध्यायः पुरुषार्चनम्। मौनं सदासनजयः सथिर्य्यं प्राणजयः शनैः। प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि। स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणा। वैकुण्टलीलामिध्यानं समाधानं तथात्मनः। एतैरन्यैश्च पथिभिर्म्मनोदुष्टमसत्पथम्। बुद्ध्या युञ्जीत शनकैर्जितप्राणोह्यतान्त्रितः। शुचौ देश प्रतिष्ठाम्प विजितासनआसनम्। तस्मिन् स्वस्तिकमासीन ऋजुकायः समभ्यसेत्। प्राणस्य शोधयेन्मागं पूरकुम्भकरेचकैः। प्रतिकूलेन वा चित्तं यथास्थिरमचञ्चलम्। मनोऽचिरात् स्याद्विरजं जितश्वासस्य योगिनः। वाय्वग्निभ्यां यथा लोहं ष्मातं त्यजति वै मलम्। प्राणायामैर्द हेद्दोषान् धारणाभिश्च किल्विषान्। प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान्। यदा मनः सुविरजं योगेन सु समाहितम्। काष्ठां भगवतो ध्यायेत् स्वनासाग्रावलोकनः। प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम्। नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम्। लमत्पङ्कजकिञ्जल्कपीतकौशेयवाससम्। श्रीवत्सवक्षसं भ्राजत्कौस्तुभासुक्तकन्धरम्। मत्तद्विरेफकलया परीतं वनमालया। परार्द्धहारवलयाकिरीटाङ्गदनूपुरम्। काञ्चीगुणोल्लसोच्छ्रोणिं हृदयाम्भोज विष्टरम्। दर्शनीयतमं शान्तं मनीनयनवर्द्धनम्। अपाच्यदर्शनं शश्वत् सर्वलोकगमस्कृतम्। सन्तं वपसि कैशोरेभृत्यानुग्रहकातरम्। कार्त्तन्यतीर्थयशसं पुण्यश्लोकयशस्क- रम्। ध्यायेदेवं समग्राङ्गं यावन्न च्यवते मनः। स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम्। प्रेक्षणीये हितं ध्यायेत् शुद्धभावेन चेतसा। तस्मिन् लब्धपदं चित्तं सर्वावयवसंस्थितम्। विलक्ष्यैकत्र संयुञ्ज्यादङ्गे भगवतो मुनिः!। सञ्चिन्तयेद्भगवतश्चरणारविन्दं वज्राङ्कुशध्वजसरोरुहलाञ्चनाढ्यम्। उत्तुङ्गरक्तविलसन्नखचक्रवालज्योत्स्नाभिराहतमहद्धृदयान्धकारम्। यच्छौचनिःसृतसरित्प्रवरीदकेन तीर्थेन मूर्द्ध्न्यधिकृतेन शिवः शिवोऽभूत्। ध्यातुर्म्मनःशमनशैलनिसृष्टवज्रं ध्यायेच्चिरं भगवत श्चरणारविन्दम्। जानुद्वयं जलजलोचनया जनन्या लक्ष्म्याखिलस्य सुरवन्दितया विधातुः। ऊर्वोर्निधाय करपल्लवरोचिषा यत् संलालितं हृदि विभोरभवस्य कुर्य्यात्। ऊरू सुपर्णभुजयोरधिशोभमानावोजो निधी अतसिकाकुसुमावभासौ। व्यालम्बिपीतवरवाससि वर्त्तमानकाञ्चीकलापपरिरम्भिनितम्बविम्बम्। नाभीहदं भुवनकीषगुहोदरस्थं यत्रात्मयोनिधिषणाखिललोकपद्मम्। व्यूढं हरिन्मणिवृषस्तनयोरमुष्य ध्यायेत् द्वयं विशदहारममूढगौरम्। वक्षोधिवासमृषभस्य महाविभूतेः पुंसां मनोनयननिर्व्वृतिमादधानम्। कण्ठञ्च कौस्तुभमणेरधिभूषणार्थं कुर्य्यान्मनस्यखिललोकनमस्कृतस्य। बाहूंश्च मन्दरगिरेः परिवर्त्तनेन निर्णिक्तबाहुवलयानधिलोकपालान्। संचिन्तयेद्दशशतारमसह्यतेजः शङ्खञ्च तत् करसरोरुहराजहंसम्। कौमोदकीं भगवतो दयितां स्मरेत दिग्धामरातिभटशोणितकर्द्दभेन। मालां मधुव्रतवरूथगिरोपघुष्टां चैत्यस्य तत्त्वममलंमणिमस्य कण्ठे। भृत्यानुकम्पितधियेह गृहीतमूर्त्तेः सञ्चिन्तयेद्भगवतोवदनारविन्दम्। यद्विस्फुरन्मकरकुण्डलवल्गितेन विद्योतितामलकपोलमुदारलासम्। यत् श्रीनिकेतमणिभिः परिषेच्यमानम् भृत्या स्वया कुटिलकुण्डलवृन्दजुष्टम्। मीनद्वया श्रयमधिक्षिपदब्जनेत्रम् ध्यायेन्मनोमयमतन्त्रितौल्लसद्भ्रु। तस्यावलीकमधिकं कृपयाऽतिघोरतापत्रयोपशमनायनिसृष्टमक्ष्णोः। स्निग्धुस्मितानुगुणितं विपुलप्रसादम् ध्यायेजिरं विततभावनया गुहायाम्। हासं हरेरवनताखिललोकतीव्रशोकाश्रुसागरविशोषणमित्युदारम्। संमोहनाय रचितं निजमाययास्य भूमण्डलं मुनिकृते मकरध्वजस्य। ध्यानायनं प्रहसितं बहुलाधरोष्ठभासारुणायिततनुद्विजकुन्दपंक्ति। ध्यायेत् स्वदद्रुकुहरेव सितस्य विष्णोर्भक्त्यार्द्रयार्पितमना न पृथक् दिवृक्षेत्। एवं हरौ भगवति प्रतिलब्धभावोभक्त्याद्रवद्धृदय उत्पुलकप्रमोदात्। औत्कण्ठ्यवाष्पकलया मुहुरर्द्यमानस्तच्चापि चित्तवडिशं शनकैर्व्वियुङ्क्ते। मुक्ताश्रयं यदि तु निर्व्विषयं विरक्तं निर्व्वाण मृच्छति मनःसहसा यथार्च्चेः। आत्मानमत्र पुरुषेऽव्यवधानमेकमन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः। सोऽद्येतया चर मयामनसोनिवृत्त्या तस्मिन्महिम्न्यवसितः सुखदुःखबाह्ये। हेतुत्वमप्यसति कर्त्तरि दुःखयोर्यत्स्वात्मन्! विधत्त उपलब्धपरात्मकाष्ठः। देहञ्च तन्न चरमः स्थितमुत्थितं वा सिद्धो विपश्यति यतोऽध्यगमत् स्वरूपम्। दैवादपेतमुत दैववशादुपेतं वासोयथा परिहृतं मदिरामदान्धः। देहोऽपि दैववशगः खलु कर्म्म यावत् स्वारम्भकं प्रतिसमीक्षत एव सासुः। तं सप्रपञ्चमधिरूढसमाधियोगः स्वाप्नं पुनर्न भजते प्रविबुद्धवस्तु। यथा पुत्राच्च वित्ताच्च पृथङ्मर्त्यः प्रतीयते। अप्यात्मत्वेनाभिमताद्देहादेः पुरुषस्तथा। यथोल्मुकाद्विस्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात्। अप्यात्मत्वेनाभिमताद्यथाग्निः पृथगुल्मुकात्। भूतेन्द्रियान्तः करणात् प्रधानाज्जीवसंज्ञितात्। आत्मा तथा पृथग्द्रष्टा भगवान् ब्रह्मसंज्ञितः। सर्व्वभूतेषु चात्मानं सर्वभूतानि चत्मनि। ईक्षेतानन्यभावेन भूतेष्वपि तदात्मताम्। स्वयोनिषु तथा ज्योतिरेकं नाना प्रतीयते। योनीनां गुणवैषम्यात् तथात्मा प्रकृतिस्थितः। तस्मादिसां स्वां प्रकृतं देवीं सदसदा त्मिकाम्। दुविभाव्यां पराभाव्य स्वरूपेणावतिष्ठते” इति भा० ३ स्क० २८ अ०। “देवहूतिरुवाच। लक्षणं महदादीनां प्रकृतेः पुरुषस्य च। स्वरूपं लक्ष्यतेऽभीषां येन तत् पारमार्थिकम्। यथा सांख्येषु कथितं यन्मूलं तत् प्रचक्षते। भक्तियोगस्य मे मार्गं ब्रूहि विस्तरतः प्रभो!। विरागी येन पुरुषो भगवन्! सर्वतोभवेत्। आचक्ष्व जीवलोकस्य विविधा मम संसृतीः। कालस्येश्चररूपस्य परेषाञ्च परण्य ते। स्वरूपं वत कुर्बन्ति यद्धेतोः कुशलञ्जनाः। लोकस्य मि थ्याभिमतेरचक्षुषश्चिरं प्रसुप्तस्य तमस्यानाश्रये। श्रान्तस्यं कर्म्मस्वनुवद्ध्या धिया त्वमाविरासीः सिल योगभास्करः। श्रीमैत्रेय उवाच। इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः। आनमाषे कुरुश्रेष्ठ! प्रीतस्तां करुणार्द्रितः। श्रीभगवानुवाच। भक्तियोगो बहुबिधोमार्गै र्भवति! भाव्यते। स्वभावगुणमार्गेण पुंसां भावोविमिद्यते। अभिसन्धाय यद्धिंसां दम्भं मात्सर्य्यमेव वा। संरम्भी भिद्भद्वग्भावं मयि कुर्य्यात् स तामसः। वि- षयानभिसन्धाय यश ऐश्वर्य्यमेव वा। अर्च्चादावर्च्चयेद्योमां पृथग्भावः स राजसः। कर्म्म निर्हारमुद्दिश्य परस्मिन् वा तदर्पणम्। यजेत् यष्टव्यमिति वा पृथग्भावः ससात्विकः। मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये। मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ। लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम्। अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे। सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत। दीयमानं न गृह्णन्ति विना मत्सेवनञ्जनाः। सएव भक्तियोगाख्य आत्यन्तिक उदाहृतः। येनातिव्रज्य त्रिगुणां मद्भावायोपपद्यते। निषेविता निमित्तेन स्वधर्म्मेण महीयसा। क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः। मद्धिष्ण्यदर्शनस्पर्शपूजास्तुतिनिबन्धनैः। भूतेषु मद्भावनया सत्वेनासङ्गमेन च। महतां बहुमानेन दीनानामनुकम्पया। मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च। आध्यात्मिकानुश्रवणान्नामसंकीर्त्तनाच्च मे। आर्जवेनार्य्यसङ्गेन निरहङ्क्रियया तथा। मद्धर्म्मणो गुणैरेतैः परिसंशुद्धआशयः। पुरुषस्याञ्जसाभ्येति श्रुतिमात्रगुणं हि माम्। यथा वातरथोघ्राणमावृङ्क्ते गन्धआशयात्। एवं योगरतं चेत आत्मानमविकारि तत्। अहं सर्वेषु मूतेषु भूतात्मावस्थितः सदा। तमवज्ञाय मां मत्युः कुरुतेऽर्च्चाविडम्बनम्। यो मां सर्वेषु भूतेषु सन्तमात्पानमीश्वरम्। हित्वार्च्चां भजते मौढ्यात् भस्मन्येव जुहोति सः। द्विषतः परकाये मां मानिनो भिन्नदर्शिनः। भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति। अहमुच्चावचैद्रव्यैः क्रिययोत् पश्नयाऽनधे!। नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः। अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत्। यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम्। आत्मनश्च परस्यापि यः करोत्यन्तरोदरम्। तस्य भिन्नदृशोमृत्युर्विदधे भयमुल्वणम्। अथ मां सर्वभूतेषु भूतात्मानं कृतालयम्। अर्हथेद्दानमानाभ्यां मैत्र्यभित्रेन चक्षुषा। जीवाः श्रेष्ठाह्यजीवानां ततः प्राणभृतः शुभे। ततः सचित्ताः प्रवराः ततश्चेन्द्रियवृत्तयः। तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः। तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविढोवराः। रूपभेदविदस्तत्र ततश्चोभयतोदतः। तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततोद्विपात्। ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः। ब्राह्मणेप्यपि वेदज्ञोह्यर्थज्ञोऽभ्यधिकस्ततः। अर्थज्ञात् संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत्। मुक्तसङ्गस्ततोभूयान् दोग्धान धर्ममात्मनः तस्मिन्मय्यर्पिताशेषक्रियार्थात्मा निरन्तरः। मय्यर्षितात्मनः पुंसोमयि संन्यस्तकर्मणः। न पश्यामि परं भूतमकर्त्तुः समदर्शनात्। मनसैतानि भूतानि प्रणमेद्बहु मानयन्। ईश्वरो जीवकलया प्रविष्टो भगवानिति। भक्तियोगश्च योगश्च मया मानव्युदीरितः। ययोरेकतरेणैव पुरुषः पूरुषं ब्रजेत्। एतद्भगवतोरूपं व्रह्मणः परमात्मनः। परं प्रधामं पुरुषं दैवं कर्म विचेष्टितम्। रूपभेदास्पदं दिव्यं काल इत्यभिधीयते। भूतानां महदादीनां यतोभिन्नदृशां भयम्। योऽन्तः प्रविश्य भूतानि मूतैरत्त्यखिलाश्रयः। सविष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः। नचास्यकश्चिद्दयितो न द्वेष्यो न च बान्धवः। आविशत्यप्रमत्तोऽसौ प्रमत्तजनमन्तकृत्। यद्भयाद्वाति वातोऽयं सूर्य्यस्तपति यद्भयात्। यद्भयाद्वर्षते देवो भगणो भाति यद्भयात्। यद्वनखतयोभीता लताश्चोषधिभिः सह। स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च। स्रवन्ति सरितो भीतानोत्सर्पत्युदधिर्यतः। अग्निरिन्धे सगिरिभिर्भूर्न मज्जति यद्भयात्। अदोददाति श्वसतां पदं यन्नियमान्नमः। लोकं स्वदेहं तनुते महान् सप्तभिरावृतम्। गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्भयात्। वर्त्तन्तेऽनुयुगं येषां वश एतच्चरारम्। सोऽमन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः। जनञ्जनेन जनयन् मारयन् मृत्युनान्तकम्” भाग० २९ अ०।

भगवदवतार एव कपिलः सगरसन्ततीर्हुङ्कारेण भस्मीचकार यथोक्तं रामा० आ० ४० अ० “यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः। महिषी माधवस्यैषा स एष भगवान् प्रभुः। कापिलं रूपमास्थाय धारयत्यनिशं धराम्। तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः। पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः। सगरस्य च पुत्राणां विनाशोऽदीर्घदर्शिनाम्” इति ब्रह्मवाक्यमुपवर्ण्य रामं प्रति विश्वामित्रेणोक्तम्। “ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम्। रोषादत्यखनन् सर्वे पृथिवीं सगरात्मजाः। ते तु सर्वे महात्म नो भीमवेगाः महावलाः। ददृशुः कपिलं तत्र वासुदेवं सनातनम्। हयञ्च तस्य देवस्य चरन्त सविदूरतः। प्रहर्षमतुलं प्राप्ताः सर्वेते रघुनन्दन!। ते तं यज्ञहनं ज्ञात्वा क्रोधपर्य्याकुलेक्षणाः। खनित्रलाङ्गलधरा नानावृक्षशिलाधराः। अभ्यधावन्त संक्रुद्धास्तिष्ठतिष्ठेति चाव्रुपन्। अन्माकं त्वं हि तुरगं यज्ञियं हृतवानांस। दुर्नेधस्त्रं हि संपाप्तान् धिद्धि नः सगरात्मजान्। श्रुत्वा तद्वचनं तेषां कपिलो रधुनन्दन!। रोषेण महताविष्टो हुङ्कारमकरोम्भुनिः। ततस्तेनाप्रमेयेण कपिलेन महात्मना। भस्मराशीकृताः सर्वे काकुत्स्थ! सगरात्मजाः”। अत्र प्रागुत्तरामिति भूमध्यस्थलङ्कापेक्षया तत्स्थानस्य तथात्वात्। वस्तुतः सिद्धेशः कपिलोऽपि भगवदवतारसवः। “पञ्चमे कपिलो नाम सिद्धेशः कालविप्लुतम्। प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्ण्णयम्” भा० १, ३, ११ उक्तेः “सिद्धानां कपिलो मुनिः” गीतोक्तेश्च अग्न्यवतारकथनन्तु कल्पभेदाभिप्रायमित्यविरोधः। स च प्रत्यहं तपेणियर्षिभेदः “सनकश्च सनन्दश्च तृतीयश्च सनातनः। कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा” ब्रह्मपु० तर्पणमन्त्रलिङ्गात्। “कपिलः पिङ्गलः पिङ्गः” इत्यमरे पिङ्गलकपिलयोः पर्य्यायत्वेऽपि तयोरीषद्भेदोऽस्त्येव अतएव सुश्रुते “अत ऊर्द्ध्वं व्रणवर्णान् वक्ष्याम् इत्युपक्रम्य नीलः पीतः हरितः श्यामः कर्वुरः कृष्णः रक्तः कपिलः पिङ्गलः इति कपिलपिङ्गलयोर्भेदेन निर्देशः। “वाताय कपिला विद्युत्” सि० कौ०। ८ सुश्रुतोक्ते भूषिकभेदे “पूर्व्वमुक्ताः शुक्रविषा मूषिका ये समासतः। नामलक्षणभैषज्यैरष्टादश निबोध मे। लालनः पुत्रक इत्यादिना “श्वेतेन महता सार्धं कपिलेनाखुना तथेति विभज्य! तद्दंशोपद्रवचिकित्सा तत्रोक्ता यथा “कपिलेन व्रणकोथो ज्वरो ग्रन्थ्युद्गमस्तथा। क्षौद्रेण लिह्यात्त्रिफलां श्वेतां चापि पुनर्णवाम्” सुश्रुतोक्ते ९ लूताभेदे स्त्री यथा। “विश्वामित्रो नृपवरः कदाविदृषिसत्तमम्। वशिष्ठं कोपयामास गत्वाश्रमपदं किल। कुपितस्य मुनेस्तस्य ललाटात्स्वेदविन्दवः। अपतन्दर्शनादेवमधस्तात्तीत्त्स्णवर्च्चसः। लूने तृणे महर्षीणां धेन्वर्थं सम्भृतेऽपि च। ततो जातास्त्विमा घोरा नानारूपा महाविषाः। अपकाराय वर्त्तन्ते नृपसाधनवाहने। यस्माल्लूनंतृणं प्राप्ता मुनेः प्रस्वेदविन्दवः। तस्नाल्लूतेति भाव्यन्ते सङ्ख्यया ताश्च षोडश। कृच्छ्रसाध्यास्तथाऽसाध्या लूताश्च द्विविधाः स्मृताः। तासामष्टौ कृच्छ्रसाध्या वर्ज्यास्तावत्य एव तु। त्रिमण्डला तथा श्वेता कपिला पीतिका तथा। आलमूत्रविषा रक्ता कसना चाष्टमी स्मृता। ताभिर्दष्टे शिरोदुः खं कण्डूर्दंशे च वेदना। भवन्ति च विशेषेण गदाः श्लैष्मिकयातिकाः। सौवर्णिका स्वाजावर्णा जालिन्येणीपदी तथा। कृष्णाग्निवर्णा काकाण्डा मालागुणाष्टमो स्मृता। ताभिर्दष्टे दंशकोथः प्रवृत्तिः क्षतजस्य च। ज्वरो- दाहोऽतिसारश्च गदाःस्युश्च त्रिदोषजाः। पिडका विविधाकारा मण्डलानि महान्ति च। शोफा महान्तो मृदवो रक्ताःश्यावाश्चलास्तथा। सामान्यं सर्वलूतानामेतदादंशलक्षणम्। विशेषणक्षणं तासां वक्ष्यामि सचिकित्सितम्” इत्युपक्रम्य “आदंशे पिडका ताम्रा कपिलायाः स्थिरा भवेत्। शिरसो गौरवं दाहस्तिमिरं भयमेव च” १० गोविशेषे स्त्री कपिलादानशब्दे विवृतिः। कपिलानां नरश्रेष्ठ। शतस्य फलमश्नुते” भा० व० ८३ अ०। “क्षत्रियश्चैव वृत्तस्थो वैश्यः शूद्रोऽथ वा पुनः। यः पिबेत् कपिलाक्षीरं न ततोऽन्योऽस्त्यपुण्यकृत्” प्रा० वि० आप०। “कापिलं यः पिबेच्छूद्रो नरकेण विपच्यते” प्रा० वि० भवि० पु० तत्र शूद्रस्य कपिलाक्षीरपाणं महापातकं तत्पाननिषेधस्तु क्षत्रियवैश्ययोपीति भेदः। ११ नदीभेदे स्त्रो “कज्जलाचलशैलात्तु पूर्वस्मिन् शुभपर्वतः। शच्या सह पुरा रेमे यत्र शक्रः सुरेश्वरः। तत्पूर्वस्यां महादेवि! नदी कपिलसंज्ञिता। तां च स्नात्वा नरोगङ्गास्नानजं फलमाप्नुयात्” कालिपु० ८१ अ० १२ कपिलपुष्मायां शिंशपायां स्त्री राजनि०। १३ रेणुकाणामगन्धद्रव्ये १४ पुण्डरीकदिग्गजस्त्रियाञ्च हारा० १५ गृहकन्यायां १६ शिंशपामात्रे १७ राजनीतो च स्त्री राजनि०। कपिलवर्ण्णायां स्त्रियां तु टाबेव वर्ण्णवाचित्वेऽपि अनुदात्तत्वाभावात् “नोद्वहेत कपिलां कन्याम्” मनुः कुक्कुरजातिस्त्रियान्तु जातित्वात् ङीष्। कूर्म्मविभागे नैरृतदिक्स्थे १८ देशभेदे पु० “नैरृत्यां दिशि देशाः” इत्युपक्रन्य “कपिलनारेमुखानर्त्ताः” इति वृह० सं०। अत्र कपिलनारीमुख इत्येकं नाम इत्यन्ये।

कपिलक = त्रि० सौ० कप–इरन् स्वार्थे करस्य लः। कम्पान्विते।

कपिलकादि = पु० पाणिन्युक्ते रकारस्थाने लकारादेशनिमित्ते शब्दगणै स च गणः कपिलक निर्वीलक लो मानि पांशुल काल शुक्त कपिलिका तर्पिलिका तर्पिलि”। यथा कपिरक + कपिलक एवं निर्वीरक + निर्वीलक इत्यादि।

कपिलद्युति = पु० कपिला द्युतिरस्य। १ सूर्य्येशब्दच०। कर्म्म० २ कपिलायां द्युती स्त्री।

कपिलद्राक्षा = स्त्री कपिला द्राक्षा। द्राक्षाभेदे राजनि०

कपिलद्रुम = पु० कर्म्म०। काक्षीनामसुगन्धिहेतुवृक्षे शब्दच०।

कपिलधारा = स्त्री कपिलेव शुद्धा धारा यस्याः संज्ञात्वात् “ङापोरिति” पा० ह्रस्वः। १ गङ्गायां हेमच०। कपिलानां तदीयदग्धानां धारा संज्ञायां “ङ्यापोरिति” पा० ह्रस्वः। २ कपि- लादीनां दुग्धधारायां ३ तत्कृते काश्या उत्तरसौ मास्थे तीर्थभेदे च उपचारात् तयोरभेदात्। तदाविर्भावादि काशी० ६२ अ०। “एतस्मिन्नन्तरे प्राप्ता गोलोकात् पञ्च धेनवः। सुनन्दा सुमनाश्चापि सुशीला सुरभिस्तथा। पञ्चमी कपिला चापि सर्व्वाघौघविघट्टिनी। वात्सल्यदृष्ट्या गर्भस्य तासामूधांसि सुस्नुवुः। ववर्षुः पयसां पूरैस्तदूधांसि पयोधराः। धारासारैरविच्छिन्नस्तावद्यावध्रदोऽभयत्। पयःपयोधिरिव स द्वितीयः प्रैक्षि पार्श्वदैः। देवेशसमधिष्ठानात्तत्तीर्थमभवत् परम्। कपिलाहृद इत्याख्यां चक्रे तस्य महेश्वरः। ततो देवाज्ञया सर्व्वे स्नातास्तत्र दिवौकसः। आविरासुस्ततस्तीर्थादथ दिव्यपितामहाः। तान् दृष्ट्वा ते सुराः सर्व्वे तर्पयाञ्चक्रिरे मुदा। अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा। इत्याद्यादिव्यपितरस्तृप्ताः शम्भुं व्यजिज्ञपन्। देवदेव! जगन्नाथ! भक्तानामभयप्रद। अस्मिंस्तीर्थे त्वदभ्यासाज्जाता नस्तृप्तिरक्षया। तस्माच्छम्भो! वरं देहि प्रसन्नेनान्तरात्मना। इति दिव्यपितॄणां स श्रुत्वा वाक्यं वृषध्वजः। शृण्वतां सर्वदेवानामिदं वचनमब्रवीत्। सर्वः, सर्तपितॄणां वै परं तृप्तिकरं परम्। श्रीदेवदेवौवाच। शृणु विष्णो! महावाहो! शृणु त्वं च पितामह!। एतस्मिन् कापिले तीर्थे कापिलेयपयोभृते। ये पिण्डान् निर्वपिष्यन्ति श्रद्धया श्राद्धदा नराः। तेषां पितॄणां सन्तृप्तिर्भविष्यति म माज्ञया। अन्यं विशेषं वक्ष्यामि महातृप्तिकरं परम्। कूहूसोमसमायोगे दत्तं श्राद्धमिहाक्षयम्। संवर्त्तकालेसंप्राप्ते जलराशिजलान्यपि। क्षीयन्ते न क्षयं श्राद्धं याति सोमकूहूकृतम्। अमासोमसमायोगे श्राद्धं यद्यत्र लभ्यते। तीर्थेकापिलधारेऽस्मिन् मयया पुव्करेण किम्। गदाधृक् भगशन् यत्र यत्र त्वं चपितामह!। वृपध्वजोऽस्म्यहंयत्र फल्मुस्तत्र न संशयः। दिव्यान्तरीक्षभौमानि यानि तीर्थानि सर्व्वतः। तान्यत्र निवसिष्यन्ति दर्शे सोमदिनान्विते। कुरुक्षेत्रे नैमिधे च गङ्गासाभरसङ्गमे। ग्रहणे श्राद्धतोयत् स्यात्तत्तीर्थे वार्षभध्वजे। अस्य तीर्थस्य नामानि यानि दिव्य पितामहाः!। तान्यहं कथयिष्यानि भवतां तृप्तिदान्यलम्। मधुस्रवेति प्रघग्रमेषा पुष्करिणी मता। घृतकुल्या ततोज्ञेया ततोऽणी क्षीरनीरधिः। वृषभध्वजतीर्थञ्च तीर्थं पैतामहं ततः। ततो गदाधराख्यं च पितृतीर्थं ततः परम्। सतः कापिलधारं वै सुधाखनिरियं पुनः। ततः शिवगयाख्यं च ज्ञेयं तीर्थमिदं शुभम्। एतानि दश नामानि तीर्थस्यास्य पितामहा। भवतां तृप्तिकारीणि वि- नापि श्राद्धतर्पणैः। सूर्य्येन्दुसङ्गमे यत्र पितॄणां तृप्तिकारकाः। ब्राह्मणान् मोजयिष्यन्ति तेषां श्राद्धमनन्तकम्। श्राद्धे पितॄणां संतृप्त्यै दास्यन्ति कपिलां शुभाम्। येऽत्र, तेषां पितृगणोवसेत् क्षीरोदरोधसि। वृषोत्सर्गः कृतोयैस्तुतीर्थेऽस्मित् वृषभध्वजे। अश्वमेधपुरोडाशैः पितरस्तैस्तु तर्पिताः। गयातोऽष्टगुणं पुण्यं अस्मिंस्तीर्थे पितामहाः। अमायां सोमयुक्तायां श्राद्धैः कापिलधारिके। येषां गर्भेऽभवत् स्रावोये दन्तजननान्मृताः। तेषां तृप्तिर्भवेन्नूनं तीर्थे कापिलधारिके। अवृत्तमोञ्जीदामानो ये वाऽदार परिग्रहाः। तेभ्योनिर्वपितं पिण्डमिह ह्यक्षयतां व्रजेत्। अग्निदाहे मृताये वै नाग्निदाहश्च येषु वै। ते सर्वेतृप्तिमायान्ति तीर्थे कापिलधारिके। और्द्ध्वदेहिकहीनाये षोडशभ्राद्धवर्ज्जिताः। ते तृप्तिमधिगच्छन्ति घृतकुल्यां नि वापिताः। अपुत्राश्च मृताये वै येषां नास्त्युदकप्रदः। तेऽपि तृप्तिं परां यान्ति मधुस्रवसि तर्पिताः। अपमृत्युमृताये वै चौरविद्युज्जलादिभिः। तेषामिह कृतं श्राद्धं जायते सुगतिप्रदम्। आत्मघातेन निधनं येषामिह विकर्म्मिणाम्। तेऽपि तृप्तिं लभन्तेऽत्र पिण्डैः शिवगयाकृतैः। पितृगोत्रे मृता ये वै मातृपक्षे च ये मृताः। तेषामत्र कृतःपिण्डोभवेदक्षयतृप्तिदः। पत्नीवर्गे मृताये वै मित्रवर्गे च ये मृताः। ते सर्व्वे तृप्तिमायान्ति तर्पिता वार्षभध्वजे। ब्रह्मक्षेत्रविशां वंशे शूद्रबंशेऽन्त्यजेषु च। येषां नाम गृहीत्वा यद्दीयते ते समुद्धृताः। तिर्य्यग्योनिश्रिताये वै ये पिशाचत्वमागताः। तेऽप्यूर्द्धगतिमयान्ति तृप्ताः कापिलधारिके। ये तु मानुषलोकेऽस्मिन् पितरोमर्त्ययोनयः। ते दिव्ययोनयः स्युर्वै मधुस्रवसि तपिताः। ये दिव्यलोके पितरः पुण्यैर्देवत्वमागताः। ते ब्रह्मलोके गच्छन्ति तृप्तास्तीर्थे वृषध्वजे। कृते क्षीरमयं तीर्थं त्रेतायां मधुमत् पुनः। द्वापरे सर्पिषा पूर्ण्णं कलौ जलमयं भयेत्। सीमावहिर्गतमपि ज्ञेयं तीर्थमिदं शुभम्। मध्येवाराणसि श्रेष्ठं मम सान्निध्यतो नरैः। काशीख्यितैर्यतोऽदर्शि ध्यजोमे वृषलाञ्जनः। वृषध्वजेन नाम्नातः स्थास्यन्त्यत्र पितामहाः। पितामहेन सहितो गदाधरसमन्वितः। रविणा पार्षदैः सार्द्धं तिष्टामोऽत्र पितामहाः”!। कापिलधारिककापिलघारादयोऽप्यत्र।

कपिलफला = स्त्री कपिलं फलमस्याः। द्राक्षाभेदे राजनि०।

कपिलशिंशपा = स्त्री कर्म०। पीतपुष्पयुतायां शिंशपायाम् राजनि०। रक्तपीतमिश्रितवर्णस्य पिङ्गलतया पीता- धिक्यवर्ण मात्रपरतया पीतपुष्पायां वृत्तिरिति बोघ्यम्।

कपिलस्मृति = स्त्री कपिलप्रणीता स्मृतिः। “अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः” इत्यादिके षडध्यायीरूपे सांख्यशास्त्रे तस्य शास्त्रस्य च स्मृतित्वं वेदार्थानुभवपूर्ब्बकं मुनिप्रणीतत्वात् अतएव “स्मृत्यनवकाशदोषप्रसङ्ग इत्यादि शा० सू० भाष्ये कपिलस्मृतेरनवकाशदोषमाशङ्क्य मानवादिस्मृत्यन्तरानवकाशदोषात् साङ्ख्यमतं प्रत्याख्यातम् “असङ्गोऽयं पुरुष” इत्यादिष्वेव तस्य शास्त्रस्य साकाशत्वेन न निरवकाशत्वमिति व्यवस्थापितञ्च।

कपिलाक्षी = स्त्री कपिलमक्षि इव पुष्पमस्याः। १ पीतपुष्पायां शिंशपायाम् २ मुर्गेर्वारौ च राजनि०।

कपिलाचार्य्य = पु० कर्म०। विष्णौ। “महर्षिः कपिलाचार्य्य कृतज्ञोमेदिनीपतिः” वि० स०। “महर्षिः कपिलाचुर्य्य इति सविशेषणमेकं नाम। महांश्चासौ ऋषिश्चेति महर्षिः कृत्स्नस्य वेदस्य दर्शनात् कपिलश्चासौ आचार्य्यश्चेति सांख्यञ्च शुद्धात्मतत्त्वज्ञानम् “शुद्धात्म तत्त्वविज्ञानं साङ्ख्यम्” इत्यभिधीयते इति व्यामस्मृतेः। “ऋषिं प्रसूतं कपिलं महान्तमिति” श्रुतेः। “सिद्धानां कपिलोमुनिरिति” स्मृतेश्च तस्य तथात्वम्” भा०।

कपिलातीर्थ = न० कुरुक्षेत्रस्थे तीर्थमेदे। कुरुक्षेत्रमुपक्रम्य रामह्रदादिषु स्राननमुक्त्वा। “कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः। तत्र स्नात्वार्चयित्वा च पितॄन् स्वान् दैवतान्यपि। कपिलानां सहस्रस्य कलं विन्दति मानवः” भा० व० ८३।

कपिलाश्व = पु० कपिलरूपेणाश्वहरणात् कपिलवर्ण्णाश्वयोगाच्च इन्द्रे। त्रिका०।

कपिलादान = न० ६ त० वक्ष्यमाणविधिना कपिलायाः गीर्दाने तद्विधानादि हेमा० दा० आदित्यपु०। “कपिलां ये प्रयच्छन्ति चेलच्छन्नां स्वलङ्कृताम्। स्वर्णशृङ्गीं रौप्यखुरां मुक्ताताङ्गूल भूषिताम्। श्वेतवस्त्रपरिच्छन्नां घण्टास्वनरवैर्युताम्। (घण्टास्वनरवैर्घण्टाशब्दकोलाहलैः)। “सहस्रं योगवां दत्ते कपिलां चापि सुव्रतः। सममेव तयोः पुण्य प्राह ब्रह्मविदांवर!। यावन्ति रोमकूपाणि कपिलाङ्गे भवन्ति हि। तावत्कोटिसहस्राणि वर्षाणां दिवि मोदते। “रुक्मशृङ्गीं रौप्यस्व्वुरां मुक्तालाङ्गूलभूषिताम्। कांस्योपदोहनां धेनुं वस्त्रच्छन्नामलङ्कृताम्। दत्त्वाद्विजेन्द्राय नरः स्वर्गलोके महीयते। दशधेनुप्रदानेन तुल्यैका कपिला मता” याज्ञवल्क्यः “हेमशृङ्गी शफैरौप्यैः सुशीला वस्त्रसंथुता। सकांस्यपात्रा दातव्या क्षीरिणी गौः सद- क्षिणा। दातास्याः स्वर्गमाप्नोति वत्सरान् रोमसंमितान्। कपिला पुनस्तारयति भूयस्त्वासप्तमं कुलम्” व्यासः “रुक्मशृङ्गीं रौप्यखुरां वस्त्रकांस्योपदोहनाम्। सवत्सां कपिलां दत्त्वा वंशान् सप्तसमुद्धरेत्। यावन्ति तस्या रोमाणि सवत्साथा भवन्ति हि। मुरभीलोकमासाद्य रमते तावतीः समाः”। लोकोत्तरे “घण्टाचामरसंयुक्ता किंकिणीजालमण्डिता। दिव्यवस्त्रसमायुक्ता हेमदर्पणभूषिता। पयस्विनी सुशीला च तरुणी वत्सकान्विता। कपिलैवं प्रदातव्या शिवस्याग्रे विधानतः” दानमन्त्रस्तु मत्स्यपुराणे “कपिले! सर्वभूतानां पूजनीयाऽसि रोहिणी। तीर्थदेवमयो यस्मादतः शान्तिं प्रयच्छ मे” इति। रोहितवर्ण्णाधिक्यात् रोहिणी। स्वर्ण्णशृङ्गादिमानमुक्तम् हे० दा० कूर्म्मपु० “दशसौवर्ण्णिके शृङ्गे स्वुराः पञ्चपलान्विताः। पञ्चाशत्पलिकं ताम्रं कांस्य चैतावदेव तु। वस्त्रन्तु त्रिगुणं धेन्वा दक्षिणा च चतुर्गुणा। एतैरलङ्कृतां धेनुं घण्टाभरणभूषिताम्। कपिलां विप्रमुख्याय दत्त्वा मोक्षमबाप्नुयात्। द्विगुणोपस्करोपेता महती कपिला स्मृता। दत्ता सा विप्रमुख्याय स्वर्गमोक्षफलप्रदा। सप्तजन्मकृतात् पापान्मुच्यते दश संयुतः। यान् यान् प्रार्थयते कामांस्तांस्तान् प्राप्नोति मानवः। अन्ते स्वर्गापवर्गौच फलमाप्नोति संयतः”। २ समानवर्ण्णवत्ससहितकपिलधेनुदाने च “समान वत् सां कपिलां धेनुं दत्त्वा पयस्विनीम्। सुव्रतां वस्त्रसपन्नाम् ब्रह्मलोके महीयते” हेमाद्रिदा० भारतवाक्यम्

कपिलावट = पु० कपिलया गोलकस्थया कृतोऽवटः गर्त्तः। गङ्गाद्वारसमीपस्थे तीर्थभेदे। कनखलतीर्थमुक्त्वा “कपिलावटं ततोगच्छेत्” भा० व० अ०।

कपिलाह्रद = पु० कपिलाभिः कृतो ह्रदः। काश्या उत्तरसीमास्थे तीर्थभेदे कपिलधाराशब्दे विवृतिः। “ततोवारणसीं गत्वा अर्च्चयित्वा वृषध्वजम्। कपिलाह्रदे नरः स्नात्वा राजसूयमवाप्नुयात्” भा० व० ८४ अ०।

कपिलिका = स्त्री कपिला + संज्ञायां अत इत्त्वम्। शतपदीभेदे। (काण्डाइ) “शतपद्यस्तु वरुषा कृष्णा चित्रा कपिलिका पीतिका रक्ता श्वेता अग्निप्रभा इत्यष्टौ” सुश्रु०

कपिलेश = न० कपिलेन प्रतिष्ठापितमीशलिङ्गम् शा० त०। काशीस्थे शिवलिङ्गभेदे “कपिलेशं महालिङ्गं कपिलेन प्रतिष्ठितम्। मुच्यन्ते कपयोऽप्यस्य दर्शनात् किमुमानवाः” काशीख० प्रतिष्ठितं प्रतिष्ठापितमन्तर्भूतण्यर्थत्वात्।

कपिलोमन्(मा) = स्त्री कपेर्लोमेव खोम मञ्जरी अस्याममनन्त- त्वात् वा डाप्। रेणुकानामकगन्धद्रव्ये राजनि०।

कपिलोमफला = स्त्री कपिलोमन्यपि फलति कण्डूदानाय प्रभवति फल–अच्। (आल्कुशी) शूकशिम्ब्याम् राजनि०।

कपिलोह = न० कपिवर्ण्णं पिङ्गलं लोहं धातुः। पित्तले। हेमच०।

कपिल्लिका = स्त्री कपिः कपिवर्णा वल्लिका पृषो०। गजपिण्पल्याम् रत्नमा०।

कपिवक्त्र = पु० कपेर्वक्त्रमेव वक्त्रमस्य। नारदे त्रिका०। पर्वतषिशापाच्चास्य तथात्वम् यथाह भा० शा० ३० अ०। “नारदः पर्व्वतश्चैव द्वावृषी लोकसत्तमौ। मातुलो भागिनेयश्च देवलोकादिहागतौ। विहर्त्तुकामौ सम्प्रीत्या मानुषेषु पुस विभो!। हविःपवित्रभोज्येन देवभोज्येन चैव हि। नारदो मातुलश्चैव भागिनेयश्च पर्व्वतः। तावुभौ तपसोपेताववनीतलचारिणौ। भुञ्जानौ मानुषान् भोगान् यथावत्पर्य्यधावताम्। प्रीतिमन्तौ मुदा युक्तौ समयञ्चैव चक्रतुः। यो मवेद्धृदि सङ्कल्पः शुभो वा यदि वाऽशुभः। अन्योन्यस्य स आख्येयो मृषा शापोऽन्यथा भवेत्। तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ। सृञ्जयं श्वैत्यमभ्येत्य राजानमिदमूचतुः। आवां भवति वत्स्यावः कञ्चित्कालं हिताय ते। यथावत् पृथिवीपाल! आवयोः प्रगुणीभव। तथैव कृत्वा राजा तौ सत्कृत्योपचचार ह। ततः कदाचित्तौ राजा महात्मानौ तपोधनौ। अब्रवीत्परमप्रीतः सुतेयं वरवर्णिनी। एकैव मम कन्या या सा वां परिचरिष्यति। दर्शनीयाऽनवद्याङ्गी शीलवृत्तसमाहिता। सुकुमारी कुमारी च पद्मकिञ्जल्कसुप्रभा। परमं सौम्यमित्युक्त ताभ्यां राजा शशास ताम्। कन्ये! विप्रावुपचर देववत्पितृवच्च ह। सा तु कन्या तथेत्युक्त्वा पितरं धर्म्मचारिणी। तथा निदेशं राज्ञस्तौ सत्कृत्योपचचार ह। तस्यास्तेनोपचारेण रूपेणाप्रतिमेन च। नारदं हृच्छयस्तूणं सहसैवाभ्यपद्यत। ववृधेहि ततस्तस्य हृदि कामो महात्मनः। यथा शुक्लस्य पक्षस्य प्रवृत्तौ चद्रमाः शनैः। न च तम्भागिनेयाय पर्व्वताय महात्मने। शशंस हृदयन्तीव्रं व्रीडमानः स धर्मवित्। तपसा चेङ्गितैश्चैव पर्वतोऽथ बुबोध तम्। कामार्त्तन्नारदं क्रुद्धः शशापैनन्ततो भृशम्। कृत्वा समयमव्यग्रो भवान्वै सहितो मया। यो भवेद्धृदि सङ्कल्पः शुमो वा यदि वाऽशुभः। अन्योन्यस्य ल आख्येय इति तद्वै मृषा कृतम्। भवता वचनं ब्रह्मंस्तस्मादेष शपाम्यहम्। न हि कामं प्रवर्त्तन्तं भवानाचष्ट मे पुरा। सुकुमार्य्यां कुमार्य्यां ते तस्मादेष शपा- म्यहम्। ब्रह्मचारी गुरुर्य्यस्मात्तपखी ब्राह्मणश्च सन्। अकार्षीत्समयभ्रं शमावाभ्यां यः कृतो मिथः। शप्स्ये तस्मात्सुसंक्रुद्धो भवन्तं तं निबोध मे। सुकुमारी च तेर् भार्य्या भविष्यति न संशयः। वानरञ्चैब ते रूपं विवाहात्प्रभृति प्रभो!। संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाननम्। स तद्वाक्यन्तु विज्ञाय नारदः पर्ब्बतं तथा। अशपत्तमपि क्रोधाद्भागिनेयंस मातुलः। तपसाब्रह्मचर्य्येण सत्येन च दमेन च। युक्तोऽपि नित्यधर्म्मश्च न वै स्वर्गमवाप्स्यसि। तौ तु शत्या भृशं क्रुद्धो परस्परममर्षणौ। प्रतिजग्मतुरन्योन्यं क्रुद्धाविव गजोत्तमौ। पर्व्वतः पृथिवीं कृत्स्नां विचचार महामतिः। पूज्यमानो यथान्यायं तेजसा स्वेन भारत!। अथ तामलभत्कन्यां नारदः सृञ्जयात्मजाम्। धर्म्मेण विप्रप्रवरः सुकुमारोमनिन्दिताम्। सा तु कन्या यथाशापं नारदं तं ददर्श ह। पाणिग्रहणमन्त्राणां नियोगादेव नारदम्। सुकुमारी च देवर्षिं वानरप्रतिमाननम्। नैवावमन्यत तदा प्रीतिमत्येव चाभवत्। उपतस्थे च भर्त्तारं न चान्यं मनसाऽप्यगात्। देवं मुनिं वा यज्ञं वा पतित्वे पतिवत्सला। ततः कदाचिद्भगवान्पर्व्वतोऽनुचचार ह। वनं विरहितं किञ्चित्तत्रापश्यत्स नारदम्। ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा। भवान् प्रसादं कुरुतात् स्वर्गादेशाय मे प्रभो!। तमुवाच ततो दृष्ट्वा पर्बतं नारदस्तथा। कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम्। त्वयाऽहं प्रथमं शप्तो वानरस्त्वं भविष्यसि। इत्युक्तेन मया पश्चाच्छप्तस्त्वमपि मत्व्सरात्। अद्यप्रभृति वै वासं स्वर्गे नावास्यसीति ह। तव नैतद्धि सदृशं पुत्रख्याने हि मे भवान्। निवर्त्तयेतां तौ शापावन्योन्येन तदा मुनी। श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम्। सुकुमारी प्रदुद्राव परपत्यगिशङ्कया। तां पर्व्यतस्ततो दृष्ट्वा प्रद्रपन्तीमनिन्दिताम्। अव्रवीत्तव भर्त्तैष नात्र कार्य्या विचारणा। ऋषिः घरमधर्म्मात्मा नारदो भगवत्प्रभुः। तवैवाभेद्यहृदयो मा तेऽसूदत्र संशयः। साऽनुमीता बहुविधं पर्ब्बतेन महात्मना। शापदोषञ्च तं मर्त्तुः श्रुत्वा प्रकृतिमागता। पर्व्वतोऽथ ययौ स्वर्गम् नारदोऽध्यगमद्गृहान्”। कपिनुखकीशास्यादयोऽप्यत्र। ६ त० वानरमुखे न०।

कपिवदान्य = पु० कपिषु वदान्यो बहुफलत्वेन तत्प्रदानात्। आम्रातकवृक्षे। शब्दच०।

कपिवल्ली = स्त्री कपिखि तल्लोमतुल्या वल्ली। गजपिप्पल्याम् अमरः।

कपिश = पु० कपिः कपिनामास्त्यस्य लोमा० श। १ सिह्लके (शिलारस) मेदि० कपिं कविवर्ण्णं श्यति शो–क। २ कृष्णपीतमिश्रितवर्ण्णे पु० ३ तद्युक्ते त्रि० अम०। “मधुकरविटपानमिता तरुपङ्क्तीर्बिभ्रतोऽस्य विटपानमिताः। विपाकपिशङ्गलता–रजसा रोधश्चकास्ति कपिशं गलता” माघः। अत्र तरुपङ्क्तेः कृष्णत्वात् पिशङ्गलतारजोयोगात् श्यावत्वम्। ४ रक्तकृष्णमिश्रवर्ण्णे पु० ५ तद्वति त्रि० “सन्ध्याभ्रकपिशस्तस्य विराधोनाम राक्षसः” रघुः। “ईषद्बत्तरजः कणाग्रकपिशा चूते नवा मञ्जरी” विक्र०। “नीपं दृष्ट्वा हरितकपिशं केशरैरर्द्धरूढैः” मेघ०। तत्तुल्य वर्ण्णत्वात् ६ मद्यभेदे न० हला०। “ग्रामानपश्यत् कपिशं पिपासतः” माघः ७ माधवीलतायां मेदि० स्त्री। ८ उत्कलदेशसमीपस्थे नदीभेदे। “स तीर्त्त्वा कपिशां सैन्यैर्वद्धद्विरदसेतुभिः। उत्कलादर्शितपथः कलिङ्गाभिमुखं ययौ” रघुः।

कपिशाञ्जन = पु० कपिशमञ्जनं यत्र। शिवे त्रिका० तस्य श्वेतत्वेनाञ्जनस्य कृष्णत्वात्तयोर्मिश्रणात् तथात्वम्।

कपिशापुत्र = पु० कपिशायाः पुत्रः। पिशाचे शब्दरत्ना०।

कपिशी = स्त्री कपिश + वर्णवाचित्वात् ङीष्। १ माधव्यां २ सुरायाञ्च शब्दकल्पद्रुमे मेदिनिजटाधरवाक्यं प्रमाणत्वे नीक्तम्। तच्चिन्त्यं “कपिशस्त्रिषुंश्यावे स्त्री माधव्यां सिह्लके पुमान्” इति मेदिन्यां स्त्रीमात्रोक्तेः ङीषन्ततानुक्तेश्च। “वर्णात्तोपधादनुदात्तात् तोनः” “अन्यतोङीष्” पा० सूत्रयोः तोपधभिन्नवर्णवाचिनोऽनुदात्तान्तप्रतिपादकात् स्त्रियां ङीष् स्यात् सि० कौ० व्याख्यानात् कपिशशब्दस्यानुदात्तत्वाभाबेन ङीषोऽप्रसक्तेः “लघावन्ते द्वयोश्च बह्वषो गुरुः” फिट्सूत्रेण तस्य पिशङ्गकल्माषयोरिव गुरुयुक्तत्वाभावेन अनुदात्तत्वामावात् अतएव “ईषद्वद्धरजःकणाग्रकपिशा चूते नबा मञ्जरीति” विक्रमोर्वश्याम् टावन्ततया प्रयोगः। तथा च स्त्रीखेऽपि कपिशा इत्येवंरूपेण भवितव्यं न ङीषन्तेनेति द्रष्टव्यम्। किञ्च उक्त० येदिनिवाक्ये तस्य सुरार्थताऽपि न दृश्यते प्रत्युत “कश्यं मद्यञ्च मैरेयं कपिशं कापिशायनम्” हलायुधोक्तेः मद्ये क्लीवत्वग्रेव। अतएव “ग्राम्यानपश्यत् कपिशं पिशासतः” इति माधे क्लीयतयैव प्रयुक्तम्।

कपिशीका = स्त्री कपिशैव स्वार्थेबा० ईक। मदिरिकायां त्रिका०

कपिशीर्ष = न० कपीनां प्रियं शीर्षमग्रम् शाक०। प्राकाराग्रे त्रिका०। कपीनां प्राकाराग्रवासित्वं हि लोकसिद्धम्।

कपिशीर्षक = न० कपेः शीर्षमिव कायति कै–क। हिङ्गुले। शव्दच०।

कपिष्ठल = पु० “कपिष्टलो गोत्रे” पा० नि० षत्वम्। गोत्रप्रवर्त्तके ऋषिभेदे तस्य गोत्रापत्यम् इञ्। कापिष्ठलि तद्गोत्रापत्ये बहुत्वे उपका० इञ्० वा लुक्। कापिष्टलयः कपिष्ठलाः। गोत्रादन्यत्र न षत्वम् ६ त०। कपिस्थल वानरस्थाने न०।

कपिस्कन्ध = पु० दानवभेदे “उद्योगं परमं चक्तुर्दानवायुद्धदुर्मदाः” इत्युप्रक्रम्य “काञ्चनाक्षः कपिस्कन्धोव्याघ्नाक्षः क्षितिकम्पनः” हरिवं० १४० अ०।

कपीकच्छू = स्त्री कपिकच्छू + संज्ञायां वा दीर्घः। शूकशिम्ब्याम् (आल्कुशी) शब्दर०।

कपीज्य = पु० कपिभिरिज्यते यज–क्यप् ३ त०। १ क्षीरिकावृक्षे। जटाध०। २ रामचन्द्रे। कपिषु श्रेष्ठः ७ त०। ३ सुग्रीवे च।

कपीत = पु० कं जलवर्णं श्वेततर्ण्णमपीतः अपेरतो लोपः। श्वेतवुह्नावृक्षे रत्नमा०।

कपीतन = पु० कपीनाम् ईं लक्ष्मीं तनोति तन–अच्। १ आम्रातकवृक्षे २ शिरीषवृक्षे ३ गर्द्दभाण्डवृक्षे च अमरः ४ अश्वत्यवृक्षे मेदि०। ५ गुवाकवृक्षे ६ विल्ववृक्षे च शब्दर०। एतेषां यथायथम् कपितुल्यलोमशमञ्जरीकत्वात् तत्प्रियफलकत्वाच्च तथात्वम्।

कपीन्द्र = पु० कपिरिन्द्र इव। १ हनुमति शब्दच०। “नश्यन्ति ददर्श वृन्दानि कपीन्द्रः” भट्टिः। ६ त०। कपीनामिन्द्रे स्वामिनि २ सुग्रीवे कपीनां यथेष्टं नियोक्तरि ३ रामे तदभेदात् ४ विष्णौ च। “शरीरभूतभृद्भोक्ता कपीन्द्रो सूरिदक्षिणः” भा० अनु० १३ अ० विष्णुनामकीर्त्तने।

कपीवत् = पु० वसिष्ठपुत्रभेदे। “और्वोवसिष्ठपुत्रश्च स्तम्बः कश्यप एव च। कपीवानकपीवांश्च दन्तोलिश्च्यवनस्तथा। वसिष्ठपुत्राः सप्तासन्” हरिवं० २६१ अ०।

कपीवह = न० वहति वह–अच् ६ त० “इकोवहे” पा० दीर्घः। सरोवरभेदे।

कपीष्ट = पु० कपीनामिष्टः। १ राजादनीवृक्षे २ कपित्थे च राजनि०

कपुच्छल = न० कस्य शिरसः पुच्छमिव लाति–ला–क। १ केशचूडायाम्। “अथातस्तृतीये बर्षे चूडाकरणं कपुष्टिका” गोभि०। “कपुच्छलाख्या केशचूडा तस्याः संस्कारःकपुष्टिका” सं० त० रघु०। कस्य जलस्य पुच्छमिव लाति ला–क। २ स्रुगग्रस्थाने। “इदमेव कपुच्छलमयं दण्डः द्वे भवतो द्वौ हीमौ–बाह” शत० त्रा० ७, ४, १, ३६। “इदमेव हस्ताग्रं सुष्टिरूपेण कपु- च्छलम् स्रुगग्रस्थानीयम्” मा०। अत्र सूले कपुच्छलमिति मुद्रितपु० पाठः भाष्ये तु कपृत्सलमिति पाठः तत्र कस्य जलस्य पृते पूरणाय सलति गच्छतीति व्युत्पत्तिः। वेदे परोक्षवचनत्वात् पृषो० साधुत्वम्। “इदमेव कपुच्छलमयं दण्डः खाहाकारः” शत० ब्रा० ९, ३, १, १०।

कपुष्टिका = स्त्री कस्य शिरसः पुष्ट्यै पोषणाय कायति कै–क कस्य पुष्ट्यै हितं वा कन्। केशचूडासंस्कारकर्मणि” कपुच्छलशब्दे गोभिलवाक्यमुदाहृतम्।

कपूय = त्रि० कुत्सितं पूयते पूयी–विसरणे अच् पृषो० उलोपः। कुत्सिते “अथ य इह कपूयचरणा अभ्यासोह ते कपूययोनिमापद्येरन्” छा० उ०। “मघवा यः कसखः यस्य कपूयाः सखायः” निरु० ६, १८।

कपृथ् = त्रि० कुत्सितं प्रथयति प्रथि–क्विप् वेदे नि० संप्र० कुत्सितप्रथयितरि। “सेदीशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्” ऋ० १०, ८६, १७, “कपृन्नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये” ऋ० १०, १०१, १२,

कपोत = पुंस्त्री कबृ–वर्ण्णे ओत बस्य पश्च, को वायुः पोत इव यस्य वा। पारावते (पायारा) अमरः “कपोतको गुरुस्निग्धो रक्तपित्तानिलापहः। संग्राही शुक्रलः शीतः सुखादू रुचिकारकः” भाव० तद्गुणा उक्ताः। (घुघु) इति ख्याते २ चित्रकण्टे धूसरवर्ण्णे वनकपोते मेदिनिः। कपोतजातिस्तु त्रिधा गृहकपोतवनकपोतचित्रकपोतश्चेति भेदात्। वृह० स० तेषां दिवासञ्चारित्वमुक्तम्।

“श्यामाश्येनशशघ्नवञ्जुलशिखिश्रीकर्णचक्राह्वयाश्चाषाण्डीरकखञ्जरीटकशुकध्वाङ्क्षाः कपोतास्त्रयः। भारद्वाज कुलालकुक्कुटखरा हारीतगृध्रौ कपिः फेण्टः कुक्कुट पूर्णकूटचटकाश्चोक्ता दिवासञ्चराः”। तत्र च कपोतविशेषाणाम् गृहप्रवेशादरिष्टमुक्तं “यानासनशय्यानिलयनं कपोतस्य सद्मनिवेशनं वा। अशुभप्रदं नराणां जातिविभेदेन कालोऽन्यः। आपाण्डुरस्य वर्षाच्चित्रकपोतस्य चैव षण्डासात्। कुङ्कुमधूम्रम्य फलं सद्यः पाकं कपोतस्य”। अपाण्डुरस्य ईषत्पाण्डोर्धूसरस्य “रक्तपादाः कपोताश्च” रामा० उ० ६ रिष्टिसूचने विधा० पा० भारते शान्तिसहितं तस्य गृहप्रबेशनेऽरिष्टमुक्तं यथा।

“युधिष्ठिर उवाच। कपोतोयदि गाङ्गेय! निविशत्यालयं नृणाम्। कथं शान्तिर्मवेत् तस्य क्षिप्रमेतद्वदख मे। भीष्म उवाच। प्रविष्टे सदनं राजन्! कपोतेभयकारिणि। उत्सन्नं जायते सद्म नात्र कार्य्या विचार- णा। अथ वा सद्मनःस्वामी त्वरितं मृत्युमाप्नुयात्। गेहिनी वा सुती वापि राजा कुप्यति वा भृशम्। येन केन प्रकारेण प्रोत्सन्नं जायते गृहम्। न च संपद्यते राजन्! कपोते सदनं गते। निर्विशेत्सदन यस्तु कपोतो विघ्नकारकः। स हन्तव्योमृतस्यास्य मेदसा जुहुयात् सुधीः। जीवनेच्छा कपोते चेद्विधानान्तरभस्ति तत्। शालीनां पिष्टमादाय पयसालोड्य तत् पुनः। विदधीत कपोतस्य रूपं शास्त्रविचक्षणः। गुडेनोदरमापूर्य्य मुखं शर्करया पुनः। मधुना चरणौ तस्य पक्षौ धान्येन पक्षिणः। ततो वह्निमुखं कृत्वा हावयेत् प्रयतः सुधीः। “देवाः कपोताः” इत्येष यजने मन्त्र उत्तमः। खगं पिष्टमयन्तं तु जुहुयात् सर्पिषा युतम्। शतधा तं खगं कृत्वा भागशः परिकल्पयेत्। शिरसोऽप्यष्टभागांस्तु त्रिंशत्त्रिं शच्चपादयोः। सवितुष्ट्वेति शिरसा वसुभ्योयजनं स्मृतम्। मनोज्योतिर्जुष तेति पक्षौ चन्द्रमसे हुनेत्। यस्मैत्वं सुकृतेति च पादं दक्षिणमग्नये। चरणं वाममश्विभ्यां जुहुपादश्विमन्त्रतः। “श्येनस्य पक्षा” इति च बाहू रुद्राय वै हुनेत्। तिलव्रीहीन् व्याहृतिभिर्ग्रहानुद्दिश्य संहुनेत्। ग्रहांश्चैव पुनः पूज्य यजमानाभिषेचनम्। सालङ्कारां सवत्सां च कामदोहां पयस्विनीम्। धेनुं दद्यात्सुराणां च दक्षिणार्थे विशेषतः। आचार्याय सुशीलाय श्रोत्रियाय कुटुम्बिने। ब्राह्मणान् भोजयेत् पश्चाद्यथाशक्ति च दक्षिणाम्। एवं कृते विधाने तु कपोतः शान्तिकृद्भवेदिति”। ज्यो० त० अद्भुशान्तौ अरिष्टमुक्त्वा उक्तविषये कपोतं विशेष्य शान्त्यन्तरमुक्तम् यथा “गृध्रः कङ्कः कपोतश्च उलूकः श्येन एव च। चिल्लश्च चर्मचिल्लश्च भासः पाण्डर एव च। गृहे यस्य पतन्त्येते गेहं तस्यविपद्यते। पक्षान्भासात्तथा वर्षान्मृत्युः स्याद् गृहमेधिनः। पत्न्याः पुत्रस्य वा मृत्युर्द्रव्यञ्चापि विनश्यति। ब्राह्मणाय गृहं दत्त्वा दत्त्वा तन्मूल्यमेव वा। गृह्णीयाद् यदि रोचेत शान्तिञ्चेमां प्रयोजयेत्”। वैष्णवामृते व्यासः। “ग्रहयज्ञैः शान्तिकैश्च किं क्लिश्यन्ति नरा द्विज!। महाशान्तिकरः श्रीमांस्तुलस्या पूजितो हरिः। उत्पातान् दारुणान् पुंसां दुर्निमित्ताननेकशः। तुलस्य पूजितो भक्त्या सहाशान्तिकरोहरिः। अत्रब्रह्मपुराणीयोमन्त्रः। “नमस्ते बहुरूपाय विष्णबे परमात्मने स्वाहेति”। छन्दोगपरिशिष्टम्। “अथातोरजस्वलाभिगमने गोऽश्वभार्य्यासु गमने यमजजनने विजा- तीयजनने वा काककङ्कगृध्रवकश्येनभासचिल्यकपोतानां गृहप्रवेशे महिषस्योपरि विश्रामणे एषामेव क्रियमाणे गृहद्वारारोहणे वाद्भुतेषु कल्पदृष्टेन विधिनाऽग्निमुपसमाधाय प्रायश्चित्ताज्याहुतीर्जुहोति” अद्भुताय अग्नये स्वाहा, सोमाय, विष्णवे, रुद्राय, वायवे, सूर्य्याय, मृत्यवे, विश्वेभ्यो देवेभ्यः स्वाहेति”। कपोतं विशेषयति शौनकः “रक्तपादः कपोताख्य अरण्यौकाः शुकच्छविः। स चेच्छालां विशेच्छालासमीपञ्च व्रजेद् यदि। अन्येषु गृहमध्ये वा वल्कलस्योद्गमादिषु”। कल्पदृष्टेन विधिना गृह्योक्तेन प्रायश्चित्ताज्याहुतीः अद्भुतदोषप्रशमनार्थाः सप्ताज्याहुतीः अद्भुतायाग्नये खाहा इत्यादि मन्त्रैः। तत्र स्थालीपाकेतिकर्त्तव्यतायां पायसचरुभिरेतेभ्यो देवेभ्यो जुहुयात्” रघु०। छन्दोगप०। “पश्चात् घृतपायसेन ब्राह्मणान् भोजयित्वा गोवरं दत्त्वा शान्तिर्भवतीति”। वृहत्संहितोक्तत्रिविधकपोतभिन्नकपोतानाम् गृहस्थेन अवश्यपोष्यता यथाह ज्यो० त० भारतम्। “पारावतामयूराश्च शुका वैसारिकास्तथा। गृहस्थेन सदा पोष्या आत्मनः श्रेय इच्छता” अत्र प्रागुक्तकपोतत्रिकस्यैवारिष्टसूचकत्वं नान्यस्येति व्यवस्था अतएव प्रागुक्तभारते विघ्नकारक इति विशेषणम्। कपीतश्च प्रतुदः यथाह भावप्र०। “हारीतोधवलःपाण्डुश्चित्र पक्षो वृहच्छुकः। कपोतः खञ्जरीटस्तु पिकाद्याः प्रतुदाः स्मृताः। प्रतुद्य भक्षयन्त्येते तुण्डेन प्रतुदास्ततः” तेषां सामान्यमांसगुणाश्च तत्रैवोक्ताः “प्रतुदाः मधुराः पित्तकफघ्नास्तुवरा हिमाः। लघवो बहुवर्चस्का किञ्चिद्वातकराः स्मृताः”। “आवर्त्तिभिर्गृहकपोतशिरोधराभैः” माघः। कपोतोऽस्त्यस्य नडादि० छ कुक् च। कपोतकीय कपोतयुक्ते त्रि० तस्मिन् भवः अण् विल्वका० छमात्रस्य लुक्। कापोतक तत्र भवादौ त्रि०। ३ सुश्रुतोक्ते कपोताभे मूषिकभेदे च कपोताभशब्दे उदा०।

कपोतक = न० कपोत इव कायति प्रकाशते कै–क। सौवीराञ्जने राजनि०

कपोतचरणा = स्त्री कपोतस्य चरणश्चरणाकारोऽस्त्यस्याः अर्श० अच्। १ नलीनामगन्धद्रव्यसाधने वृक्षे जटाधरः। कपीताङ्घ्रिरप्यत्र अमरः। ६ त०। २ कपोतपादे पु०।

कपोतपाक = पुं स्त्री कपोतःपाको डिम्बः। कपोतशिशौ तेपां व्रातः ञ्य। कपोतपाक्यः तस्य स्त्रियां बहुषु लुक्। कपोतपाकाः स्त्रियां तु न लुक्–कपोतपाक्याः इत्येव।

कपोतपाद = त्रि० कपोतस्य पादाविव पादावस्य हस्त्यादि० पाठात् नान्त्यलोपः समासान्तः। कपोततुल्यचरणे। स्त्रियां वा ङीप्।

कपोतपालिका = स्त्री पालयति पाल + ण्वुल् ६ त०। गृह स्तम्भाग्रप्रसारितदारुभेदे सौधादिप्रान्ते काष्ठादिरचिते पक्षिवासस्थाने विटङ्के (पायराखोप)। अमरः।

कपोतपाली = स्त्री कपोतं पालयति अच् गौरा० ङीष् ६ त० टिट्टाणञित्यत्राद्यन्तयोः साहचर्य्यात् तद्धिताणन्तस्यैव सि० कौ० ग्रहणात् न ङीप् मुग्ध० तु ईप् उप० स० इति भेदः। कपोतपालिकार्थे विटङ्के हलायु०। “कपोतपालीषु निकेतनानाम्” माघः!

कपोतरोमन् = पु० कपोतरूपधारिवह्निवरात् प्राप्ते उशीनरपुत्रे राजभेदे। तत्कथा भा० व० १९६ अ०। “कपोत उवाच। “वैश्वानरोऽहं ज्वलनो धूमकेतुः” इत्युपक्रम्य “यामेतां पेशीं मम निष्क्रयाय प्रादाद्भवानसिनोत्कृत्य राजन्!। एतद्वो लक्ष्म शिवं करोमि हिरण्यवर्णं रुचिरं पुण्यगन्धम्। एतासां प्रजानां पालयिता यशस्वी सुरर्षीणामथ सम्मतो भृशम्। एतस्मात् पार्श्वात् पुरुषोजनयिष्यति कपोतरोमेति च तस्य नाम”। २ यदुवंश्ये कुकुरस्य नृपतेः पौत्रे नृपभेदे च “कुकुरस्य सुतो घुष्णुर्धृष्णोस्तु तनयस्तथा। कपोतरोमा तस्याथ तित्तिरिस्तनयोऽभवत्” हरिवं० ३८ अ०।

कपोतलुब्धकीय = न० कपोतं लुब्धकञ्चाधिकृत्य कृतो ग्रन्थः “द्वन्द्वाच्छः” पा० छ। भारतान्तर्गते गृहस्थस्य प्राणदानेनाप्यातिथ्यावश्यकर्त्तव्यतासूचके आख्यायिकाभेदे तत्कथा भा० शा० १४६ अ०।

“स पत्न्या वचनं श्रुत्वा धर्म्मं युक्तिसमन्वितम्। हर्षेण महता युक्तो बाक्यव्याकुललोचनः। तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा। स पक्षी पूजयामास यत्नात्तं पक्षिजीविनम्। उवाच स्वागतं तेऽद्य ब्रूहि किं करवाणि ते। सन्तापश्च न कर्त्तव्यः स्वगृहे वर्त्तते भवान्। तद्व्रतीतु भवान् क्षिप्रं किं करोमि किमिच्छसि। प्रण येन ब्रवीमि खां त्वं हि नः शरणागतः। अरावप्युचितं कार्य्यमातिथ्यं गृहमागते। छेत्तुमप्यागते छायां नोपसंहरते द्रुमः। शरणागतस्य कर्त्तव्यमातिथ्यं हि प्रयत्नतः। पञ्चयज्ञप्रवृत्तेन गृहस्येन विशेषतः। पञ्चयज्ञांस्तु यो मीहान्न करोति गृहाश्रये। तस्य नायं न च परो लोको भवति धर्म्मतः। तद्ब्रूहि मां सुविश्रब्धो थत्त्वं वाचा यदिष्यसि। तत् करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः। तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत्। बाधते खलु मे शीतं सन्त्राणं हि विधीयताम्। एवमुक्तस्ततः पक्षी पर्णान्यास्तीर्य्य भूतले। यथाशक्त्या हि पर्णेन ज्वलनार्थं द्रुतं ययौ। गत्वाऽङ्गारककर्मान्तं गृहीत्वाऽग्निमथागमत्। ततः शुष्केषु पर्णेषु पावकं सोऽप्यदीपयत्। स संदीप्तं महत् कृत्वा तमाह शरणागतम्। प्रतापय सुविश्रब्धः स्वगात्राण्यकुतो भयः। स तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत्। अग्निप्रत्यागतप्राणस्ततःप्राह विहङ्गमम्। हर्षेण महताऽऽ विष्टो वाक्यं व्याकुललोचनः। तथेमं शकुनिं दृष्ट्वा विधिदृष्टेन कर्म्मणा। दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम्। स तद्वचः प्रतिश्रुत्य वाक्यमाह विहङ्गमः। न मेऽस्ति विभवो येन नाशयेयं क्षुधान्तव। उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः। सञ्चयो नास्ति चास्माकं मुनीनामिव भोजने। इत्युक्त्वा तं तदा तत्र विवर्णवदनोऽभवत्। कथं नु खलु कर्त्तव्यमिति चिन्तापरस्तदा। वभूव भरतश्रेष्ठ गर्हयन् वृत्तिमात्मनः। मूहूर्त्ताल्लब्धसंज्ञस्तु स पक्षी पक्षिघातिनम्। उबाच तर्पयिष्ये त्वां मुहूर्त्तं प्रतिपालय। इत्युक्त्वा शुष्कपर्णैस्तु समुज्ज्वाल्य हुताशनम्। हर्षेण महताऽऽविष्टः स पक्षी वाक्यमब्रवीत्। ऋषीणां देवतानाञ्च पितॄणाञ्च महात्मनाम्। श्रुतः पूर्ब्बं मया धर्म्मो महानतिथिपूजने। कुरुष्वानुग्रहं सौम्य! सत्यमेतब्रद्वीमि ते। निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने। ततः कृतप्रतिज्ञो वै पक्षी प्रहसन्निव। तमग्निं त्रिः परिक्रम्य प्रविवेश महामतिः। अग्निमध्ये प्रविष्टन्तु लुब्धो दृष्ट्वा तु पक्षिणम्। चिन्तयामास मनसा किमिदं वै कृतं मया। अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा। अधर्म्मः सुमहान् धोरो भविष्यति न संशयः। एवं बहुविधं सूरि विललाप स लुव्धकः। गर्हयन् स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम्”।

कपोतवङ्का = स्त्री कपोतो वन्च्यते प्रतार्य्यतेऽनया वन्च–करणे घञ्। ब्राह्मीवृक्षे राजनि०। इमाञ्च सुश्रुते वोरतर्व्वादिगणे उक्त्वा तद्गुणा उक्ता यथा। “वीरतरुसहचरद्वयदर्भदृक्षादनीगुन्द्रानलकुशकाशाश्मभेदकाग्निभन्थमोरटावसुकवसिरभल्लूककुरण्टकेन्दीवरकषोतवङ्काः श्वदंष्ट्राचेति। वीरतर्व्वादिरित्येष गणोवातविकारनुत्। अश्मरीशर्करामूत्रकृच्छ्राधातरुजापहः”। “कपोतवङ्कामूलं हि पिबेदम्लसुरादिभिः” सुश्रु०। भावप्र० “ब्राह्मो कपोतवङ्का च सोमबल्ली सरस्वती” इत्येव पाठः तत्र कपोतवल्लीति पाठकल्पनं प्रामादिकं सुश्रुतैकबाक्यतया कपोतवङ्केति पाठस्यैव न्याय्यत्वात्।

कपोतवर्ण्णी = स्त्री कपोतस्य वर्ण्ण इव वर्ण्णोऽस्याः गौरा० ङीप्। सूक्ष्मैलायां राजनि० तत्फलस्य कपोततुल्यशुभ्रत्वात्तथात्वम्

कपोतवाणा = स्त्री कपोतस्तत्पाद इव वाणस्तत्तुल्याकारोऽस्याः। नलीकनामगन्धद्रव्ये राजनि० शरतुल्यरूपत्वात्तस्यास्तथात्वम्

कपोतवृत्ति = स्त्री कपोतानामिव सद्योहरणेनाकृतसञ्चयेन वृत्तिः। कपोततुल्यायां १ सञ्चयरहितजीविकायाम् तस्याञ्च सञ्चयराहित्यं कपोतलुब्धकीयशब्दे दर्शितवाक्ये स्फुटम्। कपोतानां वृत्तिरिव वृत्तिरस्य। २ तथावृत्तियुक्ते त्रि०। “कपोतवृत्तिर्मासनिचयः संवत्सरनिचयोवा। संवत्सरनिचये पूर्ब्बनिचितमाश्वयुज्यां जह्मात्” विष्णुस० वानप्रस्थधर्म्मकथने।

कपोतवेगा = स्त्री कपोतस्य वेगो यस्याः ५ ब०। ब्राह्मीवृक्षे। (वामनहाटी) राजनि

कपोतसार = न० कपोतः तद्वर्ण्णः इव सारोऽत्र कृष्णत्वात्। स्रोतोञ्जने राजनि०।

कपोताञ्जन = न० कपोतवर्ण्णमञ्जनम्। स्रोतोञ्जने अमरःकापोताञ्जनमिति पाठान्तरम्।

कपोताभ = पु० कपोतस्याभेवाभाऽस्य। १ कपोतवर्णे हेम० तस्य नानावर्ण्णत्वेऽपि कपोताञ्जनादौ कृष्णवर्ण्णो गृह्यते क्वचित् कर्व्वुरवर्ण्णोऽपि “तदिदं भस्म कपोतकर्व्वुरमिति” कुमारप्रयोगात् कर्व्वुरवर्ण्णस्य कृष्णाधिक्यात् कपातवर्ण्णत्वम्। सुश्रुतोक्ते २ मूषिकभेदे। “पूर्ब्बमुक्ताः शुक्रविषा मूषिका ये समासतः। नामलक्षणभैषज्यैरष्टादश निबोध तान्” इव्युपक्रम्य “लालन” इत्यादीन् “सूषिकश्च कपोतामस्तथैवाष्टादश स्मृताः” इति विभ्यज्य “अरुणेनानिलं क्रुद्धोवातजान् कुरुते गदान्। महाकृष्णेन् पित्तञ्च श्वेतेन कफमेव च। महता कपिलेनासृक् क्वपोतेन चतुष्टयम्। मवन्ति चैषा टंशेषु ग्रन्थिमण्डलकर्ण्णिकाः। पिडकोपचयाश्चोग्राः शोथश्च भृशदारुणः” इत्युक्तम्। रूपचतुष्टयं वातपित्तकफरक्तजविकाररूपम्”।

कपोतारि = पु० कपोतस्यारिः ६ त०। श्येनपक्षिणि शब्दर० तस्य तन्नाशकत्वात्तथात्वम्

कपोती = स्त्री कपोतजातिः स्त्री ङीष्। १ कपोतजातिस्त्रियाम्। २ यूपभेदे च। “अथ यस्येतद्वक्रस्य सतः शूलैवाग्रं भवति सह कपोती नाम यूपः योह तादृशं यूपं कुरुते बाह्ययुषोऽमुं लोकमेति तस्मात्तादृशमायुष्कामोयूपं न कुवींत” शत० ब्रा० ११, ७, ३, २। “वक्रः सन्तीक्ष्णाग्रश्च भवति स कपोती यूप कपोताख्य त्रीपक्षिसन्निवैशसाम्यात्” मा०। तेनात्र केनचित् कपोतिन् इति शब्दस्य कल्पनं भाष्वविरुद्धत्वादुपेक्ष्यम्।

कपोल = पु० सौ० कप–ओलच्। गण्डे गल्ले (गाल) अमरः। “कपोलकण्डू करिभिर्विनेतुम” कुमा०। “कपोलपाटलादेशि बभूव रघुचेष्टितम्” रघुः। “लीनालिः सुरकरिणां कपोलकाषः” किरा० “यस्याः कपौलैः कलधौतधामस्तम्भेषु”। “कपोलभित्तीरिव लोध्रगौरीः” माघः कपोलाभित्तय इव विस्तीर्णत्वात् उपमि० स०। एवं कपोलफलकादयः प्रस्तीर्णकपोले।

कप्यास = न० आस्यतेऽनेन आस करणे घञ् ६ त०। कपिपृष्ठान्तभागे “तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी” छा० उ०। “कपेर्मर्कटस्यास्यम् कप्यासं आसेरुपवेशनार्थस्य करणे घञ् कपिपृष्ठान्तो येनोपविशति” भा०।

***