कन्त = त्रि० कमित्यव्ययं कं सुखमस्त्यस्य कम् + त। सुखयुक्ते एवम् “शङ्कम्भ्यां वंभयुस्तितुतयसः” पा० कम + ति कन्ति कम् + तु। कन्तु तत्रार्थे त्रि०।

कन्तु = पु० कम–तुन्। १ कामदेवे २ हृदये न० उणा० कम् + तु सुखान्विते त्रि०।

कन्थक = पु० ऋषिभेदे ततोगोत्रे गर्गा० यञ्। कान्थक्य तद्गोत्रापत्ये पुंस्त्री।

कन्थरी = स्त्री कम–अरन् पृषो० थुक् च गौरा० ङीष्। दुष्प्रवेशायां तीक्ष्णकण्टकयुक्ते वृक्षभेदे राजनि०। आरन् थुक्। कन्थारीत्यप्यत्र राजनि०।

कन्था = स्त्री कम–थन्। मृण्मयभित्तौ(कांथ)सूत्रग्रथितजीर्णवस्त्रखण्डे। (कांथा) “भिक्षा प्राणस्य रक्षार्थं कन्थाशीतनिवारिणी। अचला केशवे भक्तिः विभवैः किं प्रयोजनमिति” पुरा०। “कन्थां वहसि दुर्बुद्धे! गर्द्दभेनापि दुर्वहाम्” शङ्करदि० अस्य तत्पुरुषे “संज्ञायां कन्थोशीनरेषु” पा० क्लावता सौशमिकन्थम्। संज्ञाभावे ओशोनरभेदे च न। दाक्षिकन्था सि० कौ०।

कन्द = पुं न० कन्दति कन्दयति कन्द्यते वा कदि–अच्–णिच्–अच् घञ् बा। १ शूरण (ओल) २ शस्यमात्रमूले, ३ गृञ्जने च (गा~जर) ४ मेधे पु० मेदि०। मेघनामनामके ५ कर्पूरे च पु० “कन्दमूलफलाशिनः” चातुर्मास्यव्रतविधिः “कन्दोद्भेदा वैद्रुमा वारिणीव” माघः “वने निवसतां तेषां कन्दमूलफलाशिनाम्” भा० अनु० ४१ अ०। कन्द भेदास्तेषां विशेषगुणाश्च सुश्रु० दर्शिताः यथा “कन्दानत ऊर्द्ध्वं वक्ष्यामः। विदारीकन्दशतावरीविसमृणालशृङ्गाटककशेरुकपिण्डालुकमध्वालुकहस्त्यालुककाष्ठालुकशङ्खालुकरक्तालुकेन्दीवरोत्पलकन्दप्रभृतीनि। रक्तपित्तहराण्याहुः शीतानि मधुराणि च। गुरूणि बहुशुक्राणि स्तन्यवृद्धिकराणि च। मधुरी वृंहणो वृष्यः शीतः स्वर्य्योऽतिमूत्रलः। विदारीकन्दो बल्यस्तु पित्तवातहरस्तु सः। वातपित्तहरी वृष्या स्वादुतिक्ता शतावरी। महती चैव हृद्या च मेधाग्निबलवर्द्धिनी। ग्रहण्यर्शोविकारघ्नी वृष्या श्वेता रसायनी। कफपित्तहरास्तिक्तास्तस्या एवाङ्कुराः स्मृताः। अविदाहि विसम्प्रोक्तं रक्तपित्तप्रसादनम्। विष्टम्भि दुर्ज्जरं रूक्षं विरसं मारुतावहम्। गुरुविष्टम्भिशीतौ च शृङ्गाटककशेरुकौ। पिण्डालुकं कफकरं गुरु वातप्रकोपणम्। सुरेन्द्रकन्दः श्लेष्मघ्नो विपाके कटुपित्तकृत्। वेणोः करीरा गुरवः कफमारुतकोपनाः। स्थूलशूरणमाणकप्रभृतयः कन्दा ईषत्कषायाः कटुका रूक्षा विष्टम्भिनो गुरवः कफवातलाः पित्तहराश्च। माणकं स्वादु शोतञ्च गुरु चापि प्रकीर्त्तितम्। स्थूलकन्दस्तु नात्युष्णः शूरणो गुदकीलहा। कुमुदोत्पलपद्मानां कन्दा मारुतकोपनाः। कषायाः पित्तशमना विपाके मधुरा हिमाः। वाराहकन्दः श्लेष्मघ्नः कटुको रसपाकतः। मेहकुष्ठकृमिहरो बल्यो वृषो रसायनः”। भावप्र० उक्तगुणादि तत्तच्छब्दे दृश्यम्। माधवनिदानोक्ते ६ योनिरोगभेदे पु०। “दिवास्नप्नादति क्रोधाद्व्यायामादतिमैथुनात्। क्षताच्च नखदन्ताद्यैर्वाताद्याः कुपितायदा। पूयशोणितसङ्काशोलकुचाकृति, सन्निभः। उत्पद्यते यदा योनौ नाम्ना कन्दस्तु योनिजः” स चतुर्विधः वातापत्तकफसन्निपातजभेदैः। “रूक्षं विवर्णं स्फुटितं वातिकं तम् विनिर्द्दिशेत्। दाहरोगज्वरयुतं बिद्यात् पित्तात्मकन्तु तम्। नीलपुष्पप्रतोकाशं कण्डूमन्तं कफात्मकम्। सर्व्वलिङ्गसमायुक्तं सन्निपातात्मकं विदुः। सन्निपातात्मकोऽसाध्यः शेषाः कृच्छ्रप्रसाधनाः”।

कन्दगुडुची = स्त्री कन्दोद्भवा गुडुची शाक०। १ गुडुचीभदे, राजनि० (सुथ्नी) इति ख्याते २ कन्दे च शब्दच०

कन्दट = न० कदि–अटन्। श्वेतोत्पले (सादासु~दि) शब्दरत्ना०

कन्दफला = स्त्री कन्दात् फलं यस्याः। क्षुद्रकारवेल्वायाम्। (छोटौच्छा) राजनि०

कन्दबहुला = स्त्री कन्दैर्बहुला। त्रिपर्ण्णिकावृक्षे राजनि०

कन्दमूल = न० कन्दरूपं मूलमस्य। भूलके (मूलो) राजनि०

कन्दर = न० कम् जलेन दीर्य्यते दृ–कर्म्मणि अप्। १ आर्द्रके २ अङ्गुरेच राजनि० ३ गुहाकारे पर्वतनितम्बस्थाने पुंस्त्री अमरः। स्त्रीत्वे गौरा० ङीष् स्वामी। ४ गुहायां स्त्री ठाट् अमरटीकान्तरम् “निर्ह्रादस्ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात्” मेघ०। “विदूरगं प्रतिभयमस्यकन्दरम्” माघः “नानामलप्रस्रवणैर्नानाकन्दरसानुभिः” भाग० ४, ६, १०, “अग्न्यर्थमेव शरणमुटजंवाद्रिकन्दरम्” भाग० ७, १२, १९, कन्दस्य सन्निकृष्टदेशादि अश्मादि० चतुरर्थ्यां र। कन्दर ५ कन्दसन्निकृष्टदेशादौ त्रि०। कं गजशिरीदीर्य्यतेऽनेन करणे अप्। ६ अङ्गशे मेदि०

कन्दराकर = पु० ६ त०। पर्व्वते मेदिनिः।

कन्दराल = पु० कन्दरायाङ्कुरायालति–अल–अच्।। १ गर्द्दभाण्डवृक्षे २ प्लक्षवृक्षे (पाकुड) ३ आखोटवृक्षे च राजनि० संज्ञायां कन्। ४ प्लक्षवृक्षे पु० शब्दरत्ना०।

कन्दरोद्भवा = स्त्री कन्दरे उद्भवति उद् + भू–अच्। १ क्षुद्रपाषणभेदीवृक्षे राजनि० २ कन्दरोडवमात्रे त्रि०। ३ गुडुचीभेदे स्त्री राजनि०

कन्दरोहिणी = स्त्री कन्दात् रोहति रुह–णिनि। गुडुचीभेदे राजनि०

कन्दर्प = पु० कम् सुखं तस्मै तत्र वा दृप्यति कम् + दृप + अच्, कम् कुत्सितो दर्पोऽस्मात् वा। १ कामदेवे अमरः। “तत्र निश्चित्य कन्दर्पगगमत् पाकशासनः” कुमा०। २ सङ्गीतोक्ते ध्रुवभेदे। “त्रयोविंशतिवर्ण्णाङ्घ्रिर्ध्रुवःकन्दर्पसंज्ञकः। वीरे वा करुणे वा स्यात् खण्डताले विधीयते” संङ्गी० दा०

कन्दर्पकूप = पु० कन्दर्पस्य कूप इव। स्त्रीचिह्नभेदे जटाधरः।

कन्दर्पकेलि = पु० कन्दर्पेण केलिः। कामहेतुके केलौ तमधिकृत्य कृतोग्रन्थः अण् आख्यायिकायां तस्य लुक्। प्रहसनभेदे।

कन्दर्पजीव = पु० कन्दर्पं जीवयति वर्द्धयति जीव–णिच्–अण्। कामवृद्धिकारफलके पनमवृक्षे राजनि०।

कन्दर्पमयन = पु० कन्दर्पं मथ्नाति मथ–ल्यु। १ महादेवे कन्दर्पशत्रुकामहादयोऽप्यत्र पु०।

कन्दर्पमूषल = पु० कन्दर्प मूषल इव। पुरुषचिह्नभेदे। त्रिका०।

कन्दर्पशृङ्खल = पु० “नारीपदद्वयं न्यस्य कान्तस्योरुद्वयोपरि। कटिञ्चेद्दोलयेदाशु बन्धः कन्दर्पशृङ्खलः” रतिमञ्जर्द्युक्ते रतिबन्धभेदे।

कन्दल = त्रि० कदि–अलच्। १ कलापे २ उपरागे ३ नवाङ्कुरे ४ कलध्वनौ च मेदि० ५ अपवादे शब्दर०। ७ कलहभेदे (वाग्युद्धे) ७ कपाले च पु० धरणिः। गौरा० ङीष् कन्दली ८ मृगभेदे ९ गुल्मप्रभेदे च स्त्री मेदि० सा च भूमिकदली, “द्रोणपर्णी स्निग्धकन्दा कन्दली मूकदल्य पीति” शब्दार्ण्णवोक्तेः “ध्वजांशुकैस्तर्जितकन्दलीवनः” माघः। “आविर्भूतप्रथममुकुला कन्दली चानुकच्छम्” मेघ० पुष्पे न०। “विडम्ब्यमाना नवकन्दलैस्ते” रघुः। “द्विदलकन्दलकम्पनलालितः” माघः “निष्पीडितेन्दुकरकन्दलजोऽनुसेकः” उत्तरराम०। १० ओले पु० भावप्र०।

कन्दलता = कन्दप्रधाना लता। माणके राजनि०।

कन्दलीकुसुम = न० कन्दल्या शव कुसुममस्य। शुलीनध्रे। ६ त०। १ सूमिकदलीपुष्पे च।

कन्दवर्द्धन = पु० कन्देन बर्द्धते वृध–ल्यु। शूरणे (ओल) राजनि०

कन्दवल्ली = स्त्री कन्दाकारा वल्ली। बन्ध्याकर्कट्याम् राजनि०।

कन्दशाक = न० कन्दप्रधानः शाकः। कन्दप्रधाने शाके कन्दशब्दे दर्शितकन्दवर्गशाके शूरणादौ। “सर्वेषां कन्दशाकानां शूरणः श्रेष्ठ उच्यते” मावप्र०।

कन्दशूरण = पु० कन्देषु शूरणः श्रेष्ठः। (ओल) शूरणेराजनि०

कन्दसार = न० कन्दानां सारोऽत्र। १ नन्दनवने त्रिका०। क न्दः सारोऽस्य। कन्दप्रधाने औलादौ त्रि०। ३ कन्दशब्दे दर्शितकन्दवर्गेत्रि०।

कन्दाढ्य = पु० कन्दे नाढ्यः। भूमिकन्दै राजनि०।

कन्दामृता = स्त्री कन्दप्रधानाऽमृता। कन्दप्रधाने गुडुचीभेदे राजनि०।

कन्दार्ह = पु० कन्देषु अर्ह पूज्यः। शूरणे राजनि०। “सर्वेषां कब्दशाकानां शूरणःश्रेष्ठ उच्यते इत्युक्तेस्तस्य कन्देषु प्रधानत्वात्तथात्वम्।

कन्दालु = पु० कन्देनालुरिव। १ कासालौ २ भूमिकन्दे ३ त्रिपर्ण्णिकायाञ्च राजनि०।

कन्दिन् = त्रि० कन्दोऽस्त्यस्य इनि। १ कन्दयुक्ते। २ ओले पु० राजनि०।

कन्दिरी = स्त्री कन्द–इरच् गौरा० ङीष्। लज्जालुवृक्षे वेद्य०

कन्दी = स्त्री कन्दोऽस्त्यस्य अच् गौरा० ङीष्। मांसकन्द्याम्।

कन्दु = पुंस्त्री स्कन्द उ सलोपश्च। (ताओया) १ खेदनीपात्रे “कन्दुपक्वं तैलपक्वमिति” स्मृतिः २ तण्डुलादेः भर्जनपात्रमात्रे च (भोजना खाला) “गोकुले कन्दुशालायां तैलयन्त्रेक्षुयन्त्रयोः” स्मृतिः। “कन्दुपक्वानि तलन पायसं दधि सक्तवः। द्विजैरेतानि भोज्यानि शूद्रगेह कृतान्यपि” ति० त० कूर्म्मपु०।

कन्दुक = पु० कं सुखं ददाति दा–मितद्र् वा० डु संज्ञायां कन् कन्दु + यावादि० कुमारीक्रीडनकत्वेन कन् वा। १ वस्त्रादि निर्म्मिते उत्पातनावपातनक्रीडासाधनद्रव्यभेदे (गे दो)। “स्तनाङ्गरागारुणिताच्च कन्दुकात्”। “क्लमं ययौ कन्दुकलीलयापि या” “सा कन्दुकैः कृत्रिमपुत्रकैश्च” कुमा०। “कराभिघातोत्थितकन्दुकेयम्” रघुः “तटभुवि कन्दकविभ्रमं बभार” माघः। “इदं कन्दुकं यत्र येभ्यश्चतुर्भ्योगः” वृ० र० टीकोक्ते २ त्रयोदशाक्षरपादके छन्दोभेदे न०।

कन्दुकेश्वर = न० काशीस्थे ज्येष्टस्थानस्थे शिवलिङ्गभेदे कन्दुक खेलनप्रकारः तदाविर्भावकथा च काशी० ६५ अ० दर्शिता “स्वैरं विहरतस्तस्य ज्येष्ठस्थाने महेशितुः। कौतुकेनैव विक्रीड शिवा कन्दुकलीलया। उदञ्चन्न्यञ्चदङ्गानां लाघवं परितन्वती। निश्वासामोदमिलितभ्रमराकुलितेक्षणा। भ्रश्यद्ध्वम्मिल्लसम्माल्यसुपुटीकृतभूमिका। स्विद्यत्कपोल पत्रालीस्रवदम्बुकणोज्वला। स्फुटच्चेलांशुकपथनिर्यदङ्ग प्रभाविता। उल्लसत्कन्दुकास्फालातिशोणितकराम्बुजा। कन्दुकानुगसंदृष्टिनर्त्तितभ्रूलताञ्चला। मृडानी किलखे लन्ती ददृशेजगदम्बिका। अन्तरीक्षचराभ्यां च दितिजाभ्यां मनीहरा। कटाक्षिताभ्यामिव वै समुपस्थितमृत्युना। विदलोत्पलसंज्ञाभ्यां दृप्ताभ्यां वरतोविधेः। तृणीकृतत्रिजगतीपुरुषाभ्यां स्वदोर्बलात्। देवों परिजिहीर्षू तौ विषमेषुप्रपीडितौ। दिवोऽवतेरतुः क्षिप्रं मायां स्वीकृत्यशाम्बरीम्। धृत्वा पारिषदीं मूर्त्तिभायातावम्बिकान्तिकम्। तावत्यन्तं सुदुर्वृत्तावतिचञ्चलमानसौ। सर्व्वज्ञेन परिज्ञातौ चाञ्चल्याल्लोचनोद्भबात्। कटाक्षिताथ देवेन दुर्गा दुर्गविघातिनी। विज्ञातनेत्रसंज्ञान्तु सर्वज्ञार्द्धशरीरिणी। तेनैव कन्दुकेनाथ युगपन्निजघान तौ। महाबलौ महादेव्या कन्दकेन समाहतौ। परिभ्रम्यपरिभ्रम्य तौ दुष्टौ विनिषेततुः। वृन्तादिव फले पक्वेतालादनिललोलिते। दम्भोलिना परिहते शृङ्गेइव महागिरेः। तौ निपात्य महादैत्यावकार्य्य करणोद्यतौ। ततः परिणतिं यातोलिङ्गरूपेण कन्दुकः। कन्दुकेश्वरसंज्ञंच तल्लिङ्गमभबत्तदा। ज्येष्ठेश्वरसमीपे तु सर्वदुष्टनिवारणम्। कन्दुकेशसमुत्प्रत्तिं यः श्रोष्यति मुदान्वितः। पूजयिष्यति योभक्तस्तस्य दुःखभवं कुतः। कन्दुकेश्वरभक्तानां मानवानां निरेनसाम्। योगक्षेमं सदा कुर्य्याद्भवानी भयनाशिनी। मृडानी तस्य लिङ्गस्य पूजां कुर्य्यात् सदैव हि। तत्रैव देव्याः सान्निध्यं पार्व्वत्या भक्तसिद्धिदम्। सर्व्वोपसर्ग संघातविघातकरणं परम्। कन्दुकेशं महालिङ्गं काश्यां यैर्न समर्च्चितम्। कथं तेषां भवानीशौ स्यातां सर्वेप्सितप्रदौ। द्रष्टव्यं च प्रयत्नेन तल्लिङ्गं कन्दुकेश्वरम्। कन्दुकेश्वरनामाऽपि श्रुत्वा वृजिनसन्ततिः। क्षिप्रं क्षयमवाप्नोति तमः प्राप्योष्णगुं यथा”। कन्दुकेशमप्यत्र।

कन्दुपक्व = त्रि० जलोपसेकं विना कन्दुपात्रे पक्वं तण्डुलादि। शुषकतया भ्रष्टतण्डुलादौ। “कन्दुपक्वानि तैलेनेत्यादि ति० त० कूर्मपु०। कन्दुशब्दे उदा०।

कन्दुशाला = स्त्री कन्दुपाकार्था शाला शा० त० (कानशाला) कन्दुपाकार्थं शालायाम् “गोकुले कन्दशालायां तैलयन्त्रेक्षु यन्त्रयोः। अमीमांस्यानि शौचानि स्त्रोषु बालातुरेषु च” स्मृतिः।

कन्दोट = पु० कदि–ओटन्। १ श्वेतोत्पले २ नीलोत्पले न०। शब्दरत्ना०।

कन्दोत = पु० कन्दे मूले ऊतः वेञ्–क्त। कुमुदे। त्रिका०।

कन्दोद्भवा = स्त्री कन्दादुभवोऽस्याः। गुडुचीभेदे।

कन्ध = पु० कं जलं दधाति धा–क। १ मेघे शब्दत्ना०। तन्ना मनामके २ मुक्ते च।

कन्धर = पु० कं जलं शिरो व धारयति धृ–अच्। १ मेघे मेदि०। तन्नामनाषके २ मुस्ते च। ३ मारिषशाके (नटियाशाक) राजनि०। ४ ग्रीवायाञ्च सारसुन्दरी। ग्रोवायां स्त्री अमरः। “कन्धराबाहुसक्थ्नाञ्चभङ्गे मध्यमसाहसम्” याज्ञ० “उत्कन्धरं दारुक इत्युवाच” माघः “कवाटवक्षाः परिणद्धकन्धरः” रघुः।

कन्धि = स्त्री कं शिरोजलं वा धीयतेऽत्र आधारे कि। १ ग्रीवायां २ समुद्रे पु० राजनि०।

कन्न = न० कन्यते प्राप्यते दुःखमनेन कन–गतौ बा करणे क्त। १ पापे २ मूर्च्छायाञ्च शब्दमाला।

कन्यका = स्त्रो अज्ञाता कन्या + अज्ञातार्थे कन् क्षिपकादित्वात् नेत्त्वम्। “अष्टबर्षा भवेद्गौरी नववर्षा च रोहिणी। दशमे कन्यका प्रोक्ता अतऊर्द्ध्वं रजस्वला” स्मृत्युक्तायांसशमवर्षायां स्त्रियां तस्यादशमवर्षादर्वाक् रजोयुक्ततया अज्ञातत्वात्तथात्वम्। स्वार्थे कन्। २ कन्याशब्दार्थे “राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् “सुवासिनीबालवृद्धगर्भिण्यातुरकन्यकाः। संभोज्यातिथिभृत्यांश्च दम्पत्योः शेषभोजनम्” याज्ञ०। “कन्यकातनयकौतुकक्रियाम्”। “संबद्धवैखानस कन्यकानि” रघुः। ३ नायिकाभेदे रसमञ्जर्य्याम् स्वकी- परकीयासामान्यवनितेति प्रथमं त्रिधा विभज्य अप्रकटितपरपुरुषानुरागा परकीयेति लक्षयित्वा सा च द्विविधा परोढा कन्यका चेति विभज्य कन्यायाः पित्राद्यधीनत्वात् परकोयत्वमिति समर्थ्य अस्या गुप्ता एव सर्वाश्चेष्टा इत्युक्त्वा उदाहृतम् यथा “किञ्चित् कुञ्चितहारयष्टिसरलभ्रुवल्लिसाचिस्मितम्प्रान्तभ्रान्तविलोचनद्युतिभुजापर्य्यन्तकर्णोत्पलम्। अङ्गुल्याङ्कुरदङ्गुलीयकरुचा गण्डस्यकण्डूयनं कुर्वाणा नृपकन्यका सुकृतिनं सव्याजमालोकते”

कन्यकाजात = पु० ५ त०। कानीने व्यासकर्णप्रभृतौ “कानीनः कन्यकाजातोमातामहसुतोमतः” स्मृतेस्तस्य मातामहपुत्रता

कन्यकापति = पु० ६ त०। जामातरि शब्दरत्ना०।

कन्यना = स्त्री कन्यामाचष्टे कन्या + णिच्–भावे युच्। कन्या ख्याने कन्याह्वाने। “स्तोमं जुषेथां युवशेव कन्यनाम्” ऋ० ८, ३५, ५, “कन्यनां कन्याह्वानम्” भा०।

कन्यला = स्त्री कनयतेर्भावे यत् कन्यं कमनोयतां लाति गृह्णाति ला–क। कन्यायाम्। “वृषण्यन्तीव कन्यला” ऋ० ५, ५, ३, मुद्रितपुस्तके एषा ऋक् न दृश्यते पुस्तकान्तरेऽस्ति।

कन्यस = पु० कन–अघ्न्यादि० नि० कन्यः कन्यत्वेन काम्यत्वेन सीय ते अवसीयते सो–घञ्र्थे क। १ कनिष्ठे भ्रातरि सारसुन्दरी “रामस्य कन्यसोभ्राता” रामा०। २ कन्यसी कनिष्ठायां भगिन्यां स्त्री। वयोवाचैत्यात् ङीष्। “अभिजित्स्पर्द्धमानांतु रोहिण्याः कन्यसीस्वसा। इच्छन्ती ज्येष्ठतां देवीं तपस्तप्तुं वनं गता” भा० व० २३९ अ०। ३ अधमे त्रि० “कन्यसं षडभिरुद्दिष्टम्” अङ्गुलिपरिमाणे कालि० पुरा०।

कन्या = स्त्री कन–यत् अघ्र्या० नि०। “कन्यायाः कनीन् चेति निर्देशात् “वयसि प्रथम” पा० न ङीष्। १ अनूढायां स्त्रियां २ अनूढदुहितरि “अकृतोपयमा कन्या” सा० द०। ३ मेषादितः षष्ठे राशौ च। निरुक्तौ ४, १५। अन्यैव निरुक्तिरुक्ता। “कन्या कमनीया भवति क्वेयं नेतव्येति कमनेनानीयते इति वा कनतेर्वा स्यात् कान्तिकर्मणः” तत्र सत्र पृषो० साधु। भा० व० ३०६ अ० अन्यैव निरुक्तिर्दर्शिता

“सर्वान् कामयते यस्मात् कमेर्धातोश्च भाविनि!। तस्मात् कन्येह सुश्रोणि! स्वतन्त्रा वरवर्ण्णिनि!” ३ योषिन्मात्रे। “अहल्या द्रौपदी कुन्ती तारा मन्दोदरी तथा। पञ्च कन्याः स्मरेन्नित्यं महापातक नाशनम्” पुरा०। “आचारलाजैरिव पौरकन्याः” रघुः ४ दुहितृमात्रे “नरेन्द्रकन्यास्तमवाप्य सत्पतिम्” रघुः। “ब्राह्मणाद्वैश्यकन्यायामम्बष्ठोनाम जायते” “निषादः शूद्रकन्यायां यः पारशव उच्यते”। “क्षत्रियाच्छूद्रकत्यायां क्रूरा चारविहारवान्। क्षत्रशूद्रवपुर्जन्तुरुग्रोनास प्रजायते” मनुः तत्र अनूढदुहितरि “कन्यायां दत्तशुल्कायां श्रोयांश्चेत् वर आव्रजेत्” कात्या० स्मृतिः “पितृवेश्मनि या कन्या रजः पश्यत्यसंस्मृता। सा कन्या वृषली ज्ञेया हरंस्तां न विदुष्यति, विष्णुः। ऋतुत्रयमुपास्यैव कन्या कुर्यात् स्वयंवरम्। ऋतुत्रये व्यतीते तु प्रभवत्यात्मनः सदा” विष्णुः। ५ अनूढस्त्रीमात्रे “प्रसह्य कन्याहरणं राक्षसोविधिरुच्यते”। “योऽकन्यां दूषयेत् कन्याम्”। “अभिषह्य तु यः कन्यां कुर्य्यात् दर्पेण मानवः” इति च याज्ञ०। “कन्यैव कन्यां या कुर्य्यात् तस्याः स्याद्द्विशतो दमः”। “या तु कन्यां प्रकुर्य्यात् सा सद्योवै मौण्ड्यमर्हति” मनुः “कन्यैवाक्षतयोनिर्या” स्मृतिः। “सह चान्यया स्थविरराजकन्यया” माघः। “सेकान्ते पुनःकन्याभिस्तत्क्षणोज्झतवृक्षकम्” रघुः। कन्याया भावः। कन्यात्व संज्ञात्वान्न पुंवद्भावः। पुरुषसङ्गरहितावस्थायां “कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम!” भा० आ० ६०। विवाहयोग्यावस्थाययाञ्च। “प्रादाच्च तस्यै कन्यात्वं पुनः स परमद्युतिः” भा० आ० १११ अ०। कन्यादावविक्रयवोर्गुणदीषौ यथा। “कन्यां ये तु प्रयच्छन्ति यथाशक्ति स्वलङ्कृताम्। विवाहकाले संप्राप्ते यथोक्तसदृशे वरे! क्रमात् क्रमं क्रतुशतमनुपूर्वं लभन्ति ते। श्रुत्वा कन्याप्रदानन्तु पितरः प्रपितामहाः। विमुक्ताः सर्वपापेभ्यो ब्रह्मलोकं व्रजन्ति ते। ब्राह्मेण तु विवाहेन यस्तु कन्यां प्रयच्छति। ब्रह्मलोकं व्रजेच्छीघ्रं ब्रह्माद्यैः पूजितः सुरैः। दिव्येन तु विवाहेन यस्तु कन्यां प्रयच्छति। भित्त्वा द्वारन्तु सूर्य्यस्य स्वर्गलोकञ्च गच्छति। गान्धर्व्वेण विवाहेन यस्तु कन्यां प्रयच्छति। गन्धर्वलोक मासाद्य क्रीडते देववच्चिरम्। शुल्केन दत्त्वा यो कन्यां तां पश्चात् सम्यगर्च्चयेत्। स किन्नरैश्च गन्धर्वैः क्रीडते काल मक्षंयम्। (शुल्केन गोमिथुनरूपशुल्कोपलक्षितेनार्षेण) न मत्युं कारयेत्तासां पूज्याश्च सततं गृहे। ब्रहुदेया विशेषेण ब्राह्मी भोज्या सदा भवेत्। कन्यायां ब्रह्मदेयायामभुञ्जन् सुखमश्नुते। अथ भुञ्जीत यो मोहात् भूक्त्वा स नरकं व्रजेत्। अप्रजायाञ्च कन्यायां न भुञ्जीयात् कदाचन। दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचसि”। यः कत्यापालनं कृत्वा करोति यदि विक्रयम्। विक्रेता धनलो- भन कुम्भीपाकं स गच्छति। कन्यामूत्रपुरीषञ्च तत्र भक्षति पातकी। कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्द्दश। मृतश्च व्याधयोनौ च स लभेज्जन्म निश्चितम्। विक्रीणीते मांसभार वहत्येव दिवानिशमिति” ब्रह्मवैवर्त्तपुराणम्। विवाह्यकन्यालक्षमुपयमशब्दे उक्तम्। उद्वहशब्देऽधिकं दृश्यम्। “स्वपितृभ्यः पिता दद्यात् सुतसंस्कारकर्म्मसु” इत्युक्तेः सुतपदस्य पुंस्त्वाविवक्षया कन्यापुत्रसंस्कारेषु वृद्धिश्राद्धे प्राप्ते “स्त्रीणामप्येवमेव स्यात्” मनूक्तेश्च सर्वसंस्कारेषु च प्राप्तेषु च निष्क्रमभिन्नकन्यासंस्काराणाममन्त्रककतया कर्त्तव्यता तत्रापि वृद्धिश्राद्धनिषेधमाह महानि० त० ९५ प०। “कन्याया निष्क्रमो नास्ति वृद्धिश्राद्धं न विद्यते”। वृद्धिश्राद्धनिषेधेऽपि विवाहे वृद्धिश्राद्धमिष्यत एव “कन्यापुत्रविवाहेषु वृद्धिश्राद्धं विधीयते इति” स्मृतेः। “नामान्नप्राशनं चूडां कुर्य्यात् स्त्रीणाममन्त्रकम्”। इति “जातकर्मादि चूडान्तं कुमार्य्याश्चाप्यमन्त्रकम्। कर्त्तव्यं पञ्चभिर्वर्ण्णैरेकं निष्क्रमणं विनेति” च। तेन निष्क्रमण भिन्नाः संस्काराः अमन्त्रकाः कार्य्याः। विवाहस्य चोपयनस्थानीयत्वात् न तदाचरणम् इति भेदः ६ धृतकुमार्य्याम् मेदि० ७ स्थूलैलावायां ८ वाराहीकन्दे ९ कन्ध्याकर्कट्याञ्च राजनि०। “ग्मौ चेत् कन्या” इत्युक्तलक्षणे चतुक्षरपादके १० छन्दोभेदे च। कन्याराशिश्च उत्तरफाल्गुन्याःशेषपादत्रयहस्तचित्रार्द्धनक्षत्रघटितः राशिचक्रे घष्ठः १५० सार्द्धशतांशोत्तराशीत्युत्तर शतांशपर्य्यन्तस्त्रिंशदंशात्मकः। तदधिष्ठातृदेवतास्वरूपञ्च। “कन्या प्लवस्था स्मृताः। कन्या शस्यहुताशयुक्” इति जातकप०। उक्तम् तस्य राशेश्च वर्ण्णादिकमुक्तम् नील० ता० यथा। “पाण्डुर्द्विपात् स्त्री द्वितनुर्यमाशा निशा मरुत् शीतसमोदयः क्ष्मा। कन्यार्द्धशब्दा शुभभूमिवैश्यरूक्षाल्पसङ्ग प्रसवा शुमा च”। ततश्चास्य राशेः पाण्डवर्णः द्विपदराशिता स्त्रीराशिता द्विस्वभावात्मकता दक्षिणदिगभिमुखता रात्रिरूपता वातप्रकृतित्वं शीतवीर्य्यं समराशित्वम्। मूमिरूपता। अर्द्धशब्दः शुभस्वामिकत्वम् वैश्यवर्ण्णः रूक्षत्वम् अल्पसङ्गोऽल्पप्रसवः अकूररूपत्वञ्च। तच्च जन्मप्रश्नलग्नफलाद्युपयोगार्थमुक्तम् अस्य स्वामी बुधः। अन्यत्रास्य शीर्षोदयत्वमुकम् “कन्यां गते पूषणि” “अप्राप्ते भास्करे कन्याम” इति च ज्यो०

कन्याका = स्त्री कन्यैव कन् अनुक्तपुंस्कत्वात् न ह्रस्वः। कन्यायां शब्दर०।

कन्याकाल = पु० कन्यात्वोपलक्षितः कालः शा० त०। अविवा- होपलक्षिते काले विवाहकालश्च उपयमशब्दे उक्तः।

कन्याकुब्ज = पु० कन्याः कुब्जाः यत्र। कान्यकुब्जदेशे हेम० “कन्याकुब्जेऽपिबत् सोममिन्द्रेण सह कौशिकः” भा० व० २७ अ०। कन्यानां संघः अण् कान्यं तत् कुब्जं यत्र का न्यकुब्जोऽप्यत्र। यथा च तद्देशे कन्यानां वायुना कुब्जत्वं कृतं यथा वर्णितम् रामा० आ० काण्डे। “कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम्। जनयामास धर्म्मात्मा घृताच्यां रघुनन्दन!। तास्तु यौवनशालिन्यो रूपवत्यः स्वलङ्कृताः। उद्यानभूमिमागम्य प्रादृषीव शतह्रदाः। गायन्त्यो नृत्यमानाश्च वादयन्त्यस्तु राघव!। आमोदं परमं जग्मुर्वराभरणभूषिताः। अथ ताश्चारुसर्व्वाङ्ग्यो रूपेणाप्रतिभा भुवि। उद्यानभूमिमागम्य तारा इव घनान्तरे। ताः सर्व्वा गुणसम्पग्रा रूपयौवनसंयुताः। दृष्ट्वा सर्व्वात्मको वायुरिदं वचनमब्रवीत्। अहं वः कामये सर्व्वा भार्य्या मम भविष्यथ। मानुपस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथः चलं हि यौवनं नित्यं मानुषेषु विशेषतः। अक्षयं यौवनं प्राप्ता अमर्य्यश्च भविष्यथ। तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्म्मणः। अपहस्य ततो वाक्यं कन्याशतमथाब्रवीत्। अन्तश्चरसि भूतानां सर्व्वेषां मुरसत्तम!। प्रभावज्ञाश्च ते सर्व्वाः किमर्थमवमन्यसे। कुशनाभसुतादेव! समस्ताः सुरसत्तम!। स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम्। मा मूत् स कालो दुर्म्मेधः! पितरं सत्यवादिनम्। अवमन्य स्वधर्भोण खयं वरमुपास्महे। पिता हि प्रभुरस्माकं दैवतं परमञ्च सः। यस्य नो दास्यति पिता स नो भर्त्ता भविष्यति। तासां तु वचनं श्रुत्वा हरिः परमकोपनः। प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः। ताः कन्या वायुना भम्बा विविशुर्नृपतेर्गृहम्। प्रविश्य च सुसम्भ्रान्ताः सलज्जाः साश्रुलोचनाः। स च ता दयिता भग्नाः कन्याः परमशोभनाः। दृष्ट्वा दीवस्तदा राजा सम्भ्रान्त इमदब्रवीत्। किमिदं कथ्यतां पुत्त्र्यः! को धर्ममवमन्यते। कुब्जाः केन कृताः सर्व्वाश्चेष्टन्त्यो नाभिभाषत”।

कन्याकूप = पु० तीर्यभेदे। “कन्याकूपे उपल्पृश्य बलाकायां कृतोदकः” भा० अनु० २५ अ०।

कन्याट = पु० कन्या अटायत्र आधारे घञ्। वासभवने त्रिका० स्त्रीणां वासगृहे एव गतिविधानात् अन्यत्रगतिनिषेधाज्व तस्य तथात्वम्।

कन्यातीर्थ = न० १ कुरुक्षत्रस्थे कुञ्जरसमीपस्थतीर्थभेदे कुञ्जर- तीथमुपक्रम्य “ततो गच्छेत धर्मज्ञः कन्यातीर्थमनुत्तमम्। कन्यातीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्” भा० व० ८ ३ अ०। समुद्रकावेरीसङ्गमनिकटस्थे २ तीर्थभेदे च। “ततो गच्छेत कावेरीं वृतामप्सरसां गणैः। तत्र स्नात्वा नरोराजन्! गोसहस्रफलं लभेत्। ततस्तीरे समुद्रस्व कन्यातीथ मुपस्पृशेत्। तत्रोपस्तृश्य राजेन्द्र! सर्वपापैः प्रमुच्यते” ८५ अ०। अप्सरोरूपकन्यावृतत्वेन तस्य कन्यातीर्थत्वभ्।

कन्याधन = न० कन्याकाले लब्धं धनम्। स्त्रीधनभेदे शुल्कादौ। अनूढायास्तस्यामरणे तादृग्धने भ्रातुरधिकारः “भगिनी शुल्कं सोदर्य्याणाम्” गौतमोक्तेः।

कन्यापति = पु० ६ त०। जामातरि जटाधरः।

कन्यापाल = पु० कन्याप्रधानः पालः। १ पालाख्ये वणिग्जातिभेदे त्रिका० स्त्रियां ङीप्। उप० स०। ३ कन्यायाः पालके त्रि०।

कन्याभर्त्तृ = पु० कन्याभिः प्रार्थनीयः भर्त्ता। १ कार्त्तिकेये तस्य सौन्दर्य्यातिशयात् सर्वमामिनीभिभर्तृत्वेन प्रार्थनात् तथात्वम्। “आग्नेयश्चैव स्कन्दश्च” इत्युपक्रम्य “कन्याभर्त्ता विभक्तश्च स्वाहेयो रेवतीसुतः” भा० व० २३१ कार्त्तिकेयनामसु तन्नाम पठितम्। ६ त०। २ जामातरि पु०।

कन्यामय = न० कन्या + प्राचुर्य्येमयट्। कन्याप्रचुरे अन्यःपुरे

कन्याराम = पु० बुद्धभेदे त्रिका०।

कन्यावेदिन् = पु० कन्यां दहितरमावृइन्दति आ + विदणिनि। जामातरि। “कन्यां कन्यावेदिनश्च पशूबृ मुख्यान् सुतानपि” या० द्वितीयाश्राद्धस्य प्रश पजामातृलाभरूपं फलमुक्तम्।

कन्याश्रम = म० तीर्थभेदे। “ततः कन्याश्रमं गच्छेत् नियतो ब्रह्मचर्य्यवान्। त्रिरात्रोप्रोषितो राजन्! नियतोनियताशनः। लभेत् कन्याशतं दिव्यं स्वर्गलोकञ्च नच्छति” भा० व० ८३।

कन्यासंवेद्य = न० तीर्थभेदे। “कन्यासंवेद्यमामाद्य नियतोनियताशनः। मनोः प्रजापतेर्लोकानाप्तोति पुरुषर्षभ!। कन्यार्यं यत् प्रयच्छन्ति दानमण्वपि भारत!। तदक्षयमिति प्राहुरृषयः संशितव्रताः” भा० व० ८४।

कन्याहुद = पु० तीर्थगेदे। “यस्य कन्याह्रदे वासा देवलोकं स गच्छति” भा० अनु० २५ अ०।

कन्यिका = स्त्री कन्यैव कन् काम्यत्वेनोक्तपुंस्कत्वात् वा ध्व इत्त्वम्। कन्यायां शब्दरत्ना०।

कन्युष = न० कन–इन् कन्या दीप्त्या ओषति उष–क। हस्तपुच्छे हारा०।

कप = चलने (सौत्रः) पर० अक० सेट्। कपति अका (क) पोत् चकाप प्रनिकपति न णत्वम् कप्रोलः।

कप = चलने भ्वादि० इदित् आत्म० अक० सेट्। कम्पते अकम्पिष्ट चकम्पे। कम्पा कम्पनम् कम्पितः कमामानः कम्पितुम् कम्पनः कम्पित्वा। “समुद्राश्च चकम्पिरे” देवीमा० “चकम्पे तीर्ण्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः” रघुः। “महाकटितटश्रोण्यः कम्पमानाः पयोधरैः” भा० व० ४३। णिचि कम्पयति अचिकम्पत्। अत्र फलवत्कर्त्तर्य्यपि पर० “क्ष्मां कम्पयन्त्योनिपतन्ति चोल्काः”। आर्षे कचित् न पर० “अकम्पयत मेदिनीम्” रामा०।अनु + दयायामनुग्रहे सक० “प्रकम्पेनेनानुचकम्पिरे सुराः” माघः स्वार्थेणिच् तत्रार्थे “प्रथमा वृष्टिविवानुकम्पयत” कुमा०। कर्म्मणि अनुकम्प्यते “अनुकम्प्यतामयं जनः पुनर्दर्शनेन शकु०।आ + ईषच्चलने। “अनोकहाकम्पितपुष्पगन्धिः” रघुः। सम्यक्कम्पने च “शतं विज्ञानवतामेको धनवानाकम्पयते” छा० उप०। उद् + ऊर्द्धतश्चालने। “हुत्वोर्द्धमुत्कम्पयति” शत०ब्रा० १४, २, २, १७।प्रति + प्रतिरूपकम्पने यथा स्वस्य कम्पनं तत्तुल्यमन्यस्य कम्पनं प्रतिरूपकम्पनम्। “गतेन भूमिं प्रतिकम्पयंस्तदम्” भा० बि० २०।वि + विशेषेण चलने। “खधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि” गीता।सम् + सम्यक् चलने। “यस्य ज्यातलनिर्घोषात् समकम्पन्त शत्रवः” भा० विरा० १९ अ०।

कप = पु० कानि जलानि पाति पा–रक्षणे–क। १ वरुणे जलपतित्वात् तस्य तथात्वम् पा–पाने क। २ जलपायिनि त्रि०। ३ असुरविशेषेषु तेषां धर्म्मविशेषप्रतिपादनं ब्राह्मणकर्तृकबधकथा च यथा। “देवाऊचुः मदास्यव्यतिषिक्तानामस्माकं लोकपूजित!। वनेन हृवा भूमिः कपैश्च त्रिदिवं प्रमो!। ब्रह्मोवाच। नच्छध्वं शरणं विप्रानाशु सेन्द्रादिवौकसः। प्रसाद्य तानुभौ लोकाववाप्स्यथ यथा पुरा। ते ययुः शरणं विप्रानूचुस्ते कान् जयासहे। इत्युक्तास्ते द्विजान् प्राहुर्ज्जयतेह कपानिति। भूगतान् हि विजेतारो वयमित्यब्रुवन् द्विजान्। ततः कर्म्म समारब्धं ब्राह्मणैः कपनाशनम्। वच्छुत्वा प्रेषितोदूतो ब्राह्मणेभ्यो धनी कपैः (धनी तन्नामा दतः) भगतान् ब्राह्मणानाह घनी कषवचो यथा। भवद्भिः सदृशाः सर्व्वे कपाः किमिह वर्त्तते। सर्व्वेवेदविदः प्राज्ञाः सर्व्वे च क्रतुयाजिनः। सर्व्वे सत्यव्रताश्चैव सर्वे तुल्यामहर्षिभिः। श्रीश्चैव रमते तेषु धारयन्ति श्रियञ्च ते। वृथा दारान्न गच्छन्ति वृथा मांसं न भुञ्जते। दीप्तमग्निं जुह्वते च गुरूणां वचनेस्थिताः। सर्व्वेच नियतात्मानोयलानां संविभागिनः। उपेत्य शनकैर्यान्ति न सेवन्ति रजस्वलाम्। स्वर्गतिञ्चैव गच्छन्तितथैव शुभकर्मिणः। अभुक्त वत्सु नाश्नन्ति गर्भिणीदृद्धकादिषु। रमन्तेन च दीव्यन्तिदिवा चैव न शेरते। एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान् कथं कपान्। विजेष्यथ? निवर्त्तध्वं निवृत्तानां शुभं हि वः। ब्राह्मणा ऊचुः। कपान् वयं विजेष्यामोये देवास्ते वयं स्मृताः। तस्माद् वध्याः कपास्माकं धनिन्! याहि यथागतम्। धनी गत्वा कपानाह न वोविप्राः प्रियङ्कराः गृहीत्वाऽस्त्राण्यतोविप्रान् कपाः सर्व्वे समाद्रवन् समुदग्रायुधान् दृष्ट्वा कपान् सर्वे द्विजातयः। व्यसृजन् ज्वलितान्ग्नीन् कपानां प्राणनाशनान्। ब्रह्मसृष्टाहव्यभुजः कुपान् हत्ता सनातनाः। नभसीव यथाऽभ्राणि व्यवर्द्धन्त नराध्प!। हत्वा वै दानवान् देवाः सर्व्वे संभूय संयुगे। तेनाभ्यजानन् हि तदा ब्राह्मणैर्निहतान् कपान्। अथागम्य महातेजा नारदोऽकथयद्विभो। यथा हता महाभागैस्तेजसा ब्राह्मणैः कपाः। नारदस्य वचः श्रुत्वा प्रीता सर्व्वे दिवौकसः। प्रशशंसुर्द्विजांश्चापि ब्राह्मणांश्च यशस्विनः। तेषां तेजस्तघा वीर्य्यं देवानां ववृधे ततः। अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम्”। भा० अनु० १५७ अ०।

कपट = स्त्री कप–अटत्, कं ब्रह्माणमपि पटति आच्छादयति पट–अच् ६ त० वा अर्द्धर्चादि। यथास्थितवस्तुनोऽन्यथा प्रकाशनरूपे हृदयस्थाभावनिगूहनरूपे च छले अमरः। “मयि सकपटं किञ्चित् क्वापि प्रणीतविलोनने” सा० द०। “नरे न्द्रसिंह! कपटं न वोढुं त्वमिहार्हसि” भा० आ० ७४। कपटस्य भावः ष्यञ्। कापट्य न० तल् कपटता स्त्री त्व कपटत्व न० कपटभावे। कापट्यञ्च अन्यथास्थितवस्तुनीऽन्यथाप्रकाशनरूपव्यापारभेदः हृद्गतभावस्य प्रच्छादनञ्च। कपटमस्त्यस्व ठन्। कपटिक कपटयुक्ते शब्दर०। इनि कपटिन् कपटयुक्ते त्रि० स्त्रियां ङीष्। साच (चिडा) नामगन्धद्रव्ये राजनि०। कप–अटन्। गौरा० ङीष् कपटी। परिमाणभेदे (एक आका~ड) शब्दर०।

कपटधारिन् = त्रि० कपटं धारयति ष्ट–णिनि। कपटयुक्ते शब्दर० स्त्रियां ङीप्।

कपटपटु = त्रि० कपटे पटुः ७ त०। १ छद्मव्यवहारदक्षे २ ऐन्द्रजाणिकप्रभृतौ च। “छलयन् प्रजास्त्वममृतेन कपटपटुरैन्द्रजालिकः” माघः

कपटेखरी = स्त्री कमिव शुभ्रः पटस्तत्तुल्यं फलमीष्टे ईशषुरच्। श्वेतकण्टकरीवृक्षे राजनि०। तस्या श्वेतफलस्यजलवच्छुद्धपटाकारत्वात् तथात्वम्।

कपन = पु० कप(सौ०)–ल्यु। कम्पने घुणादौ कृमौ “कपनाः कम्पनाः कृमयो भवन्ति” निरु० ६, ४, “वृक्षं कपनेव वेधसः” ऋ० ५, ५ ४, ६, कपनाः कम्पनाः कृमयः वृक्षं घुणादयः” भा०। “सैष दाशरहथीरामः” इत्यादिवत् पाद पूरणार्थः कपनेवेत्यत्र सन्धिः।

कपर्द्द = पु० पर्व्व पूरणे क्किप् रात् वलोपे पर् पूर्त्तिः कस्य गङ्गाजलस्य परा पूर्त्त्या दायति शुध्यति क + पर् + दै–क। १ हरजटायाम्। केन सुखेन परा पूर्त्त्या दीयते दाघञर्थेक। २ वराटके अल्पर्थेकन् अत्नार्थे पुंस्त्री०। स्त्रीत्वे टाप् अत इत्त्वम्। कपर्द्दिकाप्यत्र! दपर्दकभेदाश्च राजनि० दर्शिता यथा। १ सुवर्णवर्णा सिंही २ धूम्रवर्णा व्याघ्री, ३ पीतपृष्ठा सितोदरा मृगी, ४ श्वेतवर्णा हंसी ५ नातिदीर्घिका विदन्ता”। कपर्द्दश्च उपर सभेदः भावप्र० उक्तः तद्वाक्यञ्च कनकरसशब्दे दर्शि तम्। तस्य गुणाश्च ततोक्ता यथा “कपर्दो दाहपित्तासृशोथहः शीतलः सरः”। राजनि० तु “कपर्दः कटुतिक्तोष्णः कर्णशूलव्रणापहः। गुल्मशूलनेत्रदोषनाशनः परिकीर्त्तितः”। “पञ्चाङ्कान् सौवर्ण्णान् कपर्द्दान्” यजु०। “यद्यहमिमं सक्तुशरावं विक्राय दश कपर्द्दकान् प्राप्नोमि” हितो०

कपर्द्दिन् = पु० कपर्द्दः अस्त्यस्य इनि। १ महादेवे। “इमारुद्राय तवसे कपद्दिने” यजु० १६, ४७, २ जटायुक्तमात्रे त्रि० स्त्रियां ङीप्। “मृणालव्यालवलया वेणीबन्धकपर्द्दिनी। हरानुकारिणी पातु लीलया पार्व्वती जगत” सा० द०

कपर्द्दीश = पु० काशोस्थे शिवलिङ्गभेदे। “कालेश्वरकपर्द्दीशौ चरणावतिनिर्म्मलौ” काशीख० ३३ अ०।

कपाट = अस्त्री० कं वातं पाटयति तद्गतिं रुणद्धि पट–णिचण्। द्वारावरणन वातरोधके स्वनामख्याते काष्ठमयेद्रव्ये। “मोक्षद्वारकपाटपाटनकरी मातान्नपूर्णेश्वरी” अन्नपूर्ण्णास्तवः। अर्द्धचाद अमरः। अणन्तत्वात् स्त्रियां ङीप्। कपाटीत्यप्यन्ये। “कपाटविस्तीणमनोरमोरः–” माघः कपा टवक्षाः परिणद्धकन्धरः” रघुः। “कपाटयुक्तमज्ञातं समं भूम्याश्च भारत!” भा० आ० १४७ अ०। “कपाटयन्त्रदुर्द्धर्षा बभूवुः सहुडोपलाः” भा० व० २८३ अ०। अल्पार्थे कन्। कपाटिका स्वल्पकपाटे (खिडकीर कवाट) कपा” टिका + स्वार्थे शर्करा० अण्। कापाटिक तत्रार्थे न० स्वार्थिकप्रत्ययाः प्रकृतलिङ्गान्यतिवर्त्तन्ते इत्युक्तेः लिङ्गातिक्रमः

कपा(वा)टघ्न = त्रि० कपा(वा)टं हन्ति शक्तौ हन–टक्। कपाटघातशक्तियुक्ते चौरभेदे। (ढाकाइत)।

कपाटसन्धि = पु० कपाटं सन्धीयतेऽत्र सम् + धा आधारे कि। द्वारकाष्ठेन कपाटयोजनसन्धिभेदे।

कपाटसन्धिक = पु० सुश्रुतोक्ते कर्णबन्धरूपकर्णरोगभेदे तत्र हि “एवं विबर्द्धितः कर्णच्छिद्यते तु द्विधा नृणाम्। दोषतो वाभिघाताद्वा सन्धानं तस्य मे शृणु। तत्र समासेन पञ्चदश कर्णबन्धनाकृतयः” इत्युद्दिश्य“नेमिसन्धान इत्युपक्रम्य “कपाटसन्धिकोऽर्द्धकपाटसन्धिकः” इत्यादिना विभज्य। “अभ्यन्तरदीर्धकपालिरितराल्पपालिः कपाटसन्धिक” इति लक्षितः। उत्पलभेद्यकशब्दे ११२२ पृ० विवृतिः।

कपाल = अस्त्रीकं जलं शिरोवा पालयति पाल–अण् कप–सौ० आलन् वा। १ घटादेरवयवे “कपालतरुसंयोगात् संयोग स्तरुकुम्भयोः” भाषा०। २ समूहे च मेदि०। ४ शिरोऽस्थ्नि (माथारखुलि) नरशिरः कपालं शुचिप्राण्यङ्गत्वाच्छङ्खवदित्यनुमानाप्रामाण्यमिति मथुरानाथः “कपालनेत्रान्तरलब्धमार्गैः” कुमा०। “कपालि वा स्यादथ चन्द्रशेखरम्” “कपालमेवामलशेखरश्रीः” कुमा०। ५ यत्यादेभिक्षापात्रे “कपालं वृक्षमूलानि कुचेलमसहयता। समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम्” मनुः। “नग्नो मुण्डः कपालेन भिक्षार्थी क्षुत्पिपासितः” मनुः “कपालपाणिः पृथिवीमटतां चीरमंवृतः” रामा०। ६ अण्डादीमामवयव वा। “द्राक् पर्य्याप्तकपालसंपुटमिलवद्ब्रह्माण्डभाण्डोदरेत्यादि” वीरच० “कुक्कुटाण्डकपालानि सुमनोमुकुलानि च”। कुक्कुटाण्ड्कपालानि कतकं मधुक समम्” सुश्रु०। ७ भर्ज्जनपात्रभेदे (खोला)। “कपालम्नष्टाम् संक्तून् कारयित्वा” सुश्रु०। ८ यज्ञियपुरोडाशादिसंस्काराधारे मृस्मयपात्रभेदे। “अष्टनः कपालाद्धविषि” पा०। अष्टाकपालः पुरोडाशः एवमेकादशकपाल इत्यादि। “कपालानि वोपदधाति पुरोडाशं चाधिश्रपयाति” तैत्ति० १, ६, ९, ३। “अग्नयेगायत्राय त्रिवृते राथन्तरायाष्टाकपाल, इन्द्राय त्रैष्टुभाय पञ्चदशाय बार्हतायैकादशकपालो, विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्योद्वादशकपालो, मित्राव- रुणाभ्यामानुष्टुभाभ्यामेकविंशाभ्यां वैराजाभ्यां पयस्या वृहस्पतये, पाङ्क्ताय त्रिणवाय शाक्वराय चरुः सवित्र औष्णिहाय त्रयस्त्रिंशाय रैवताय द्वादशकपालः प्राजापत्यश्चरुरदित्यै विष्णपत्न्यै चरुरग्नये वैश्वानराय द्वादशकपालोऽनुमत्या अष्टाकपालः” यजु० २९, ६०। कुष्ठरोगभेदे न० हेमच० तल्लक्षणम् यथा। “कृष्णारुणरकपालाभः यद्रूक्षं परुषं तनु। कपालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम्” माधवनि०। सुश्रुते महाकुष्ठान्यरुणौडुम्बरर्ष्य जह्वकपाल काकलकपुण्डरीकदद्रुकुष्ठानीति विभज्य कृष्णकपालिकाप्रकाशानि कपालकुष्ठानीति लक्षितम्।

कपालनालिका = स्त्री कपालस्य सूत्रससूहस्य नालिकेव निःसरणहेतुत्वात्। सूत्रसं घनिःसारणहेतौ तक्नौ (टोको) त्रिका०।

कपालभृत् = पु० कपालं ब्रह्मणः शिरोस्थिमयं पात्रं विभर्त्ति भृ–क्विप्। १ शिवे महादेवे अमरः। तस्य यथा ब्रह्मशिरः कपालभृत्ता तथा कपालमोचनशब्दे वक्ष्यते २ कपालधारके भिक्षुके च त्रि०। कपालधारकादयोऽप्यत्र।

कपालमालिन् = पु० कपालानां माला विद्यतेऽस्य इनि। १ शिवे कपालमोचनशब्दे विवृतिः “कपालमालिने नित्यं सुवर्ण्णमुकुटाय च” भा० आश्व० ८ अ० १ दुर्गायां स्त्री ङीप्।

कपालमोचन = न० कपालं मुच्यतेऽत्र मुच–आधारे ल्युटु। काशीस्थे तीर्थभेदे। आमूलं तत्कथा काशीख० ३१ अ० यथा “पुरा पितामहं विप्र! मेरुशृङ्गे महर्षयः। प्रोचुः प्रणम्य लोकेशं किमेकं तत्त्वमव्ययम्। स मायया महेशस्य मोहितो लोकसम्भवः। अविज्ञाय परं भावमात्मान प्राह वर्ष्मिणम्। जगद्योनिरहं धाता स्वयम्भूरेक ईश्वरः। अनादिमदहं ब्रह्म मामनर्च्य न मुच्यते। प्रवर्त्तको हि जगतामहमेव निवर्त्तकः। नान्यो मदधिकः सत्यं कश्चित् क्वापि सुरोत्तमः। तस्यैवं ब्रुवतोधातुः क्रतुर्नारायणांशजः। प्रोवाच प्रहसन्वाक्यं रोसताम्रविलोचनः। अविज्ञाय परन्तत्त्वं किमेतत् प्रतिपाद्यते। अज्ञानं योगयुक्तस्य नचैतदुचितन्तव। अहं कर्त्ता हि लोकानां यज्ञो नारायणः परः। न मामनादृत्य विधे! जीवनं जगतामज!। अहमेव परं ज्योतिरहमेव परागतिः। मत्प्रेपितेन भवता सृष्टिरेषा विधीयते। एवं विप्रकृतौ मोहात् परस्परजयैषिणौ। पप्रच्छतुः प्रमाणज्ञानाम्नायांश्चतुरोऽपि तौ। विधिक्रतू ऊचतुः। वेदाः प्र- माणं सर्व्वत्र प्रतिष्ठां परमाश्रिता!। यूयमेव न सन्देहः किन्तत्त्वं प्रतितिष्टत। श्रुतयऊचुः। यदि मान्यावयन्देवौ! सृष्टस्थितिकरौ! विभू!। तदा प्रमाणं वक्ष्यामोभवत्सन्देहभेदकम्। इत्युक्तमिदमाकर्ण्य प्रोचतुस्तौ श्रुतीः प्रति। युष्मदुक्तं प्रमाणं नौ तत्त्वं तत्सम्यगुच्यताम्। ऋगुवाच। यदन्तःस्थानि भूतानि यतः सर्वं प्रवर्त्तते। यदाहुस्तत् परं तत्त्वं म रुद्रस्त्वेक इव हि। यजुरुवाच। योयज्ञैग्खिलै रीज्वो यो योगेन समीक्ष्यते। चेत् प्रमाणं वयं वां हि स एकः सर्वदृक् शिवः। सामोवाच। येनेदं भ्राम्यते विश्वं योगिभिर्यो विचिन्त्यते। यद्भासा भासते विश्वं स एकस्त्र्यम्बकः षरः। अथर्वोवाच। यं प्रपश्यन्ति सर्व्वेशं भक्त्यानुग्राहिणोजनाः। तमाहुरेकं कैवल्यं शङ्करं दुःखतस्करम्। श्रुतीरितं निशम्येत्थंतावतीव विमोहितौ। स्मित्वाहतुः क्रतुविधी महामर्षयुतौ मुने!। कथं प्रमथनाथोऽसौ रममाणो निरन्तरम्। दिगम्बरः पितृवने शिव या धूलिधूसरः। विटङ्गवेशो जटिलो वृषगोव्यालभूषणः। परं ब्रह्मत्वमापन्नःक्व तत्सङ्गविवर्जितम्। तदुदीरितमाकर्ण्य प्रणवात्मा सनातनः। अमूर्त्तोमूर्त्तिमान् मूत्वा हसमान उवाच तौ। प्रणव उवाच। नह्येष भगवान् शक्त्या आत्मनो व्यातरिक्तया। कदाचिद्रज्यते रुद्रो लीलारूपधरोहरः। असौ हि भगवानीशः स्वयं ज्योतिः सनातनः। आनन्दरूपा तस्यैषा शक्तिर्नागन्तुका शिया। इत्येवमुक्तेऽपि तदामखमूर्त्तेरजस्य हि। नाज्ञानमगमन्नाशं श्रीकण्ठस्यैव मायया। प्रादुरासीत्त तोज्योतिरुभयोरन्तरे महत्। पूरयन्निजया भासा द्यावाभूम्योर्यदन्तरम्। ज्योतिर्मण्डलमध्यस्थोददृशेपुरुषाकृतिः। प्रजज्वालाथ कोपेन ब्रह्मणः पञ्चमं शिरः। आवयोरन्तरं कोऽसौ यिभृयात् पुरुषाकृतिम्। विघिः संभावये द्यावत्तावत् सहि विलोकितः। स्रष्ट्रा क्षणेन च महान् पुरुषो नीलंलोहितः। त्रिशूलपाणिर्भालाक्षो नागोडुपविभूषणः। हिरण्यगर्भस्तं प्राह जाने त्वां चन्द्रशेखरम्। भालस्थलान्मम पुरा रुद्रः प्रादुरभूद्धवान्। रीदआद्रुद्रनामासि योजितोऽति मया पुरा। मामेव शरणं याहि पुत्र रक्षां करोमिते। कथेश्वरः पद्मयोनेः श्रुत्वा गर्ववतीं गिरम्। स कोपतःसमुत्पाद्य पुरुषं भैरवाकृतिम्। प्राह पङ्कजजन्माऽसौ शास्यस्ते कालभैरव। कालवद्राजसे यस्मात् कालराजस्ततो भवान्। विश्वं भर्त्तुं समर्थोऽमि भरणाद्भैरवः स्मृतः। त्वत्तोभेष्यति कालोऽपि ततस्त्वं कालभैरवः। आमर्दयिष्यति भवान् रुष्टो दुष्टात्मनोयतः। आमर्दक इकि ख्यातिं ततः सर्वत्र यास्यति। यतः पापानि भक्तानां भक्षयिष्यति तत्क्षणात्। पापभक्षण इत्येतत्तव नाम भविष्यति। या मे मुक्तिपुरी काशी सर्वेभ्याऽपि गरीयसी। आधिपत्यञ्च तस्यान्ते कालराज! सदैव हि। तत्र ये पापकर्त्तारस्तेषां शास्ता त्वमेब हि। शुभाशुभं न तत् कर्म चित्रगुप्तो लिखिष्यति। एतान् वरान् प्रगृह्याथ तत्क्षणात् कालभैरवः। वामाङ्गुलिनखाग्रेण चकर्त्त च शिरोविधेः। यदङ्गमपराध्नोति कार्य्यन्तस्यैव शासनम्। अतो येन कृता निन्दा तच्छिन्नं पञ्चमं शिरः। यज्ञमूर्त्तिधरो विष्णुस्ततस्तुष्टाव शङ्करम्। भोतो हिरण्यगर्भोऽपि जजाष शतरुद्रियम्। आश्वास्य तौ महादेवः प्रीतः प्रणतवत्सलः। प्राह स्वभूर्त्तिमपरां भैरवं तं कपर्दिनम्। मान्योऽध्वरेशोभवता तथा शतधृतिस्त्वयम्। कपालं वैधसञ्चापि नीललोहित! धारय। ब्रह्महत्याप्रनोदाष धृतिं लोकाय दर्शयन्। चर त्वं सततं भिक्षां कपालिव्रतमास्थितः। इत्युक्त्वान्तर्हितो देवः प्रीतः प्रणतवत्सलः। उत्पाद्य कन्यामेकान्तुब्रह्महत्येति विश्रुताम्। रक्ताम्बरधरां रक्तां रक्तस्रगनुलेपनाम्। दंष्ट्राकरालवदनां ललज्जिह्वातिभीषणाम्। अन्तरीक्षैकपादाग्रां पिबन्तीं रुधिरं बहु। कर्त्तृकर्पर हस्ताङ्कां स्फुटं पिङ्गोग्रतारकाम्। जनयन्तीं महोद्वेगं भैरवस्यापि भीषणाम्। यावद्वाराणसीन्दिव्यां पुरी मेष गमिष्यति। तावत्त्वं भीषणे। कालमनुगच्छोग्ररूपिणि!। सर्वत्र ते प्रवेशोऽस्ति मुक्त्वाताराणसीं पुरीम्। नियोज्य तामिति शिवोऽप्यन्तर्घानं गतस्ततः। तत्सान्निध्याद्भैरवोऽपि कालोऽभूत् कालकालनः। स देवदेववाक्ये न बिभ्रत् कापालिकं व्रतम्। कपालपाणिर्विश्वात्मा चचार भुवनत्रयम्। नात्याक्षीच्चापि तं देवं ब्रह्महत्यातिदारुणा। सत्यलोकेऽपि वैकुण्ठे महेन्द्रादिपुरीष्वपि। त्रिजगत्पती रुद्रोऽपि व्रतीति जगतीश्चरन्। प्रतितीर्थं भ्रमन्नापि विमुक्तो व्रह्महत्यया। अनेनैवानुमानेन महिमा त्ववगम्यताम्। ब्रह्महत्यापनोदिन्याः काश्याः कलस सम्भव!। सन्ति तीर्थान्यनेकानि बहून्यायतनानि च। अधित्रिलोकि नो काश्याः कलामर्हन्ति पोडशीम्। तावद्गर्जति पापानि ब्रह्महत्यादिकान्यलम्। यावन्नाम न शृण्वन्ति काश्याः पापाचलाशनेः। प्रमथैः सेव्यमानोऽपि त्रिलोकीं विचरन् हरः। कापालिको ययौ देवो नारायण निकेतनम्। अथायान्तं महाकालं त्रिनेत्रं धृतकुण्डलम्। महादेवांशसंमूतं मैरवं भीषणाकृतिम्। पपात दण्डवद्भूमौ दृष्ट्वा तं गरुडध्वजः। देवाश्च मुनयश्चापि देवनार्य्यः समन्ततः। निपेतुः प्रणिपत्यैनं प्रणतः कमलापतिः। शिरस्यञ्जलिमारीप्य स्तुत्वा बहुविधैः स्तवैः। क्षोरोदमथनोद्भूतां प्राह पद्मालयां हरिः। प्रिये! पश्याज्बनयते! धन्याऽसि शुभगेऽनघे!। धन्योऽहं देवि। सुश्रोणि! यत् पश्यावीजगत्पतिम्। अयं धाता विधाता च लोकाना प्रभुरीश्वरः। अनादिशरणं दान्तः परः षड्विंशसम्मितः। सर्वज्ञः सर्वयोगीशः मर्वभूतैकनायकः। सर्व्वभूतान्तरात्मायं सर्व्वगः सर्व्वदः सदा। यं विनिद्राविनिःश्वासाः शान्ता ध्यानपरायणाः। धिया पश्यन्ति हृदये सोऽयमद्य निरीक्ष्यताम्। यं विदुर्वेदतत्त्वज्ञा योगिनोजितमानसाः। अरूपोरूपवान् भूत्वा सोऽयमायाति सर्व्वगः। अहोविचित्रं देवस्य चेष्टितं परमेष्ठिनः। यस्याख्यां ब्रुवतोनित्यं न देहः सोपि देहभृत्। यं दृष्ट्वा न पुनर्जन्म लभ्यते मानवैर्भुवि। सोऽयमायाति भगवान् त्र्यम्बकः शशिभूषणः। पुण्डरीकदलायामे धन्ये मेऽद्य विलोचने। ययोरतिथितां नीतो लोलारूपधरोहरः। धिक्धिक् पदन्तु देवानां परं दृष्ट्वा तु शङ्करम्। लभ्यते यन्न निर्व्वाणं सर्व्वदुःखान्तकृच्छिवः। देवत्वादशुभं किञ्चिद्देवि! लोके न विद्यते। दृष्ट्वापि सर्व्वदेवेशं यन्मुक्तिं न लभामहे। एवमुक्त्वा हृषीकेशः संप्रहृष्टतनूरुहः। प्रणिपत्य महादेवमिदमाह वृषध्वजम्। किमिदं देवदेवेन सर्व्वज्ञेन त्वया विभो!। क्रियते जगतां धात्रा सर्वपापहराव्यय!। क्रीडेयन्तव देवेश! त्रिलोचन! महाद्युते! किंकारणं विरूपाक्ष! चेष्टितं ते खरार्द्दन। किमर्थं भगवन् शम्भोः! भिक्षाञ्चरसि शक्तिप!। संशयोमे जगन्नाथ! नतत्रैलोक्यराज्यद!। एवमुक्तस्ततः शम्भुर्विष्णुमेततदुदाहरत्। ब्रह्मणस्तु शिरश्छिन्नमङ्गुल्यग्रनखेन ह। तदाप्रभृत्यहं विष्णो! चराम्येतद्व्रतं शुभम्। एवमुक्तोमहेशेन पुण्डरीकविलोचनः। स्मित्वा किञ्चिन्नतशिराः पुनरेवं व्यजिज्ञपत्। यथेच्छसि तथा क्रीड सर्व्वपिष्टपनायक!। मायया मां महादेव! न छादयितुमहसि। नाभीकमलकोषात्तु कोटिशः कमलासनान्। कल्पे कल्पेसृजामीश त्वन्नियोगबलाद्विभो!। त्यज मायामिमां देव। दुस्तरामछतात्माभः। मदादयो महादेव! मायया तव भीहिताः। यथावन्नावगच्छामश्चेष्टितन्ते शिवापते!। संहारकाले संप्रप्ते सदेवानखिलान् मुनीन्। लोकान् वर्ण्णाश्रमवतो हरिष्पसि यदा हर!। तदा क्व ते महादेव! पापं ब्रह्मबधादिकम्। पारतन्त्र्यं न ते शम्भो! स्वैरं त्रीडेस्ततोभवान्। व्यतीतब्रह्मणामस्थ्नां स्रक्कण्ठे तेऽवभासते। यदा तदा क्वानुगता त्वां हत्या ब्रह्मणोऽनघ। कृत्वापि सुमहत् पापं त्वां यः स्मरति भावतः। आधारं जगतामीश! तस्य पापं विलीयते। यथा तमोन तिष्ठेत सन्निधावं शुमालिनः। तथा च तव भक्तस्य पापं नश्यति तत्क्षणम्। यश्चिन्तयति पुण्यात्मा तव पादाम्बुजद्वयम्। ब्रह्महत्याभवमापि पापन्तस्य व्रजेत् क्षयम्। तव नामानुरक्ता वाग्यस्य पुंसोजगत्पते!। अप्यद्रिकूटतु लितं नैनस्तमनुधावति। रजसा तमसा विवर्द्धितंक्वनु पापं परितापदायकम्। क्व च ते शिवनाम मङ्गलं जनजीवातु जगद्रुजापहम्। यदि जातु चिदन्धकद्विषस्तव नामौष्ठपुटाद्विनिःसृतम्। शिव। शङ्कर! चन्द्रशेखरेत्य सकृन्नाम न संसृतिः पुनः। परमात्मन्! परं धाम स्वेच्छाविधृतविग्रह!। कुतूहलं तवेशेदं क्व पराधीनता शिवे। अद्य धन्योऽस्मि देवेश! यन्न पश्यन्ति योगिनः। पश्यामि त्वां जगन्मूलमक्षयं परमेश्वरम्। अद्य मे परमोलाभस्त्वद्य मे मङ्गलं परम्। त्वदॄष्ट्यमृततृप्तस्य तृणं स्वर्गापवर्गकम्। इत्थं वदति गोविन्दे विमला पद्मया तया। मनोरथवती नाम भिक्षा पात्रे समर्पिता। भिक्षाटनाय देवोऽपि निरगात् परया मुदा। दृष्ट्वानुयायिनीन्तान्तु समाहूय जनार्द्दनः। संप्राथयंद्व्रह्महत्यां विमुञ्चेति त्रिशूलिनम्। ब्रह्महत्योवाच। अमुनापि मिषेणाहं संसेव्यद्य वृषध्वजम्। आत्मानं पावयिष्यामि क्व पुनर्भवदर्शनम्। सा तत्याज न तत्पार्श्वं व्याहृतापि मुरारिणा। तमूचेऽथ हरिं शम्भुः स्मेरास्यो वचनं शुभम्। त्वद्द्याक्यामृतपानेन तुष्टोऽस्मि बहुमानद!। वरं वृणीष्व गोविन्द! वरदोऽस्मि तवानघ! न माद्यन्ति तथा भैक्षैर्भिक्षवोऽप्यतिसंस्कृतैः। यथा मान सुधापानैर्ननु भिक्षाटनज्वराः। विष्णुरुवाच। एष एव वरः श्लाघ्यो यदहन्देवताधिपम्। पश्यामि त्वां देव देवं मनोरथपथातिगम्। अनभ्रेयं सुधावृष्टिरनायासो महोत्सवः। अयत्नो निधिलाभोयं वीक्षणं हरते सताम्। अवियोगस्तु मे देव। त्वदङ्घियुगलेन वै। एष एव वरः शम्भो! नान्यं कञ्चिद्वरं वृणे। श्रीभैरवौवाच। एबं भवतु ते देव! यत्त्वयोक्तं महामते!। सर्व्वेषा- मेव देवानां वरदस्त्वं भविष्यसि। अनुगृह्येति दैत्यारिं सेन्द्रादिभुवने चरन्। भेजेविमुक्तिजननीं नाम्ना वाराणसीं पुरीम्। यत्र स्थितानां जन्तूनां कलां नार्हन्ति षोडशीम्। अपि ब्रह्माणि देवानां पदानि विपदाम्पदम्। वरं वाराणसीवासो जटामुण्डोदिगम्बरः। नान्यत्र छत्रसम्पन्नवसुधामण्डलेश्वरः। वरं वाराणसी भिक्षा न लक्षाधिपतान्यतः। लक्षाधीशोविशेद्गर्भं तद्भिक्षाशी न गर्भभाक्। भिक्षापि यत्र भिक्षुभ्योदत्ताऽमलक सम्मिता। सुमेरुणापि तुलिता वाराणस्यां गुरुर्भवेत्। वर्माशनं हि योदद्यात् काश्यां सीदत्कुटुम्बिने। यावन्त्यन्नानि तावन्ति युगानि स दिवीज्यते। वाराणस्यां वर्षभोज्यं योदद्यान्निरुपायिने। स कदाचित् तृट्क्षुधा नो दुःखं भुङ्क्ते नरर्षभ!। वाराणस्यां निवसतां यत्पुण्य मुपजायते। तदेव संवासयितुः फलं त्वविकलं भवेत्। ब्रह्महत्यादिपापानि यस्या नाम्नोऽपि कीर्त्तनात्। त्यजन्ति पापिनां काशी सा केनेहोपमीयते। क्षेत्रे प्रविष्टमात्रेऽथ भैरवे भीषणाकृतौ। हाहेत्युक्त्वा ब्रह्महत्या पातालतल माविशत्। कपालं ब्रह्मणोरुद्रः सर्व्वेषामेव पश्यताम्। हस्तात्पतितमालोक्य ननर्त्त परया मुदा। विधेः कपालं नामुञ्चत् करमत्यन्तदुस्त्यजम्। हरस्य भ्रमतः क्वापि तत् काश्यां क्षणतोऽपतत्। शूलिनो ब्रह्मणोहत्या नापैति स्मैव या क्वचित्। सा काश्यां क्षणतोनष्टा कथं काशी न दुर्लभा। वाराणसीति काशीति महामन्त्रमिमञ्जपन्। यावज्जीशं त्रिसन्ध्यन्तु जन्तुर्जातु न जायते। अविमुक्तं महाक्षेत्रं न्मरन् प्राणांस्तु यस्त्यजेत्। दूरदेशान्तरस्थोऽपि मोऽपि जातु न जायते। आनन्दकाननं यस्य विचित्रं स्मरते सदा। तत्क्षेत्रनामस्मरणान्न सभूयोऽभिजायते। रुद्रावासे यसेन्नित्यं नरोनियतमानसः एनसामपि सम्भारं कृत्वा तस्माद्विमुच्यते। महाश्मशानमासाद्य यदि दैवाद्विपद्यते। पुनः श्मशानशयनं न क्वापि लभते पुमान्। कपालनीचनं काश्यां ये स्मरिः ष्यन्ति मानवाः। तेषां विनङ्क्ष्यति क्षिप्रमिहान्यत्राषि पातकम्। आगत्य तीर्थमवरे स्नानं कृत्वा विधानतः। तर्पयित्वा पितॄन् देवान् मुच्यते ब्रह्महत्यया”। भैरवमहादेवयोरभेदात् नहादेवे कपालभृत्त्वादिव्यपदेशः। “कपालमोचनं तीर्थं सर्व्वपापप्रमोचनम्। तत्र स्नात्वा नरव्यघ्र! सर्व्वपापैः प्रमुच्यते” भा० व० ८२ अध्याये।

कपालशिरस = पु० कपालं शिरसि यस्य। महादेवे “ऋषय- स्तत्र बहवोविहृत्य शरदां शतम्। तपसा दिवमारूढाः कपालशिरसा सह”।

कपालस्फोट = पु० ६ त०। शिरःस्फोटने (माथाखोडा)

कपालाधिकरण = न० जैमिनिसूत्रोक्ते अधिकरणभेदे तच्चाधिकरणं ४, १, पादे यथ “अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्वादर्थो हि विधीयते” र्ज० सू०। दर्शपूर्णमासयोः श्रूयते “कपालेषु पुरोडाशं श्रपयति” इति तथा “पुरोडाशकपालेन तुषानुपवपति” इति तत्र संदेहः किम्? उभयं कपालानि प्रमोजयति? पुरोडाशश्रपणं तुषोपवापश्च उत श्रपणं प्रयोजकं न तुषोपवापः? इति किंप्राप्तम्? विनिगमनायां हेतोः अभावात् उभयम् इति प्राप्तोउच्यते अर्थाभिघानम् प्रयोजनसम्बद्धमभिधानं यस्य यथा पुरोडाशकपालम् इति पुरोडाशार्थकपालं पुरोडाशकपालम् कथम् एतदव गम्वते? पुरोडाशं तावत् तस्मिन् काले नास्ति येन वर्त्तमानः सम्बन्धः कपालेत स्यात् तेनैव हेतुना नभूतः सएव, कपालस्य पुरोडाशेन भविष्यता समन्धः भविष्यता सम्बन्धश्च तन्निमित्तस्य भवति तस्मात् पुरोडाशेन प्रयुक्तं यत् कपालं तेन तुषा उपवप्तव्याः इति कपालं स्यात् न चेत् न, तेन तुषा उपवप्तव्याभवन्ति तस्मत् न तुषोपवापः कपालानाम् प्रयोजकः प्रयोजकं तु श्रषणम्” एवञ्च सति चरौ पुरोडाशाभावे यदा तुषानुपवप्तुम् कपालमुपादीयते न तत्पुरोडाशम्” भा०।

कपालि = पु० कं ब्रह्मशिरः पालयति व्रतकाले पाल–इन्। महादेवे त्रि० “कपालिंत्रिपुरान्तकम्” भा० स० ४५ अ०।

कपालिका = स्त्री कपाल + अल्पार्थे कन् अत इत्त्वम्। १ भग्नमृण्मयखण्डे (खापरा)। कपालिकैव शर्करा० स्वार्थेऽण्। कापालिक तत्रार्थे न० स्वार्थिकत्वेऽपि क्वचित् लिङ्गातिक्रमनियमात्। नाधितिष्ठेत्तुषं जातु केशभस्मकपालिका” भा० अनु० १० ४ अ०। “अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः”। “अश्मनीऽस्थोनि गोवालांस्तुषान् भस्मकपालिकाः” मनुः। “कृष्णकपालिकाप्रकाशानि कपालकुष्ठानि” सुश्रुतः “सुश्रुतोक्ते २ दन्तरोगभेदे स च “दन्तगतास्तु दालनः कृमिदन्तको दन्तहर्षोभञ्जनकः शर्करा कपालिका श्यावदन्तकोऽनुमीक्षश्चेति” विभज्य “दलन्ति दन्तवल्कानि यदाशर्करया सह। ज्ञेया कपालिका सैव दणनानां विनाशिनी” सुश्रुते लक्षितः ३ कपालावयवे “कपालिकाभ्यां कपालं कपालाभ्यां च घटआरभ्यते” न्यायकन्दली।

कपालिन् = पु० कपालमस्त्यस्य इनि। १ महादेवे २ कपालयुक्ते त्रि० “कपालि वा स्यादथ चन्द्रशेखरम्” कुमा० स्त्रियां ङीप् सा च ३ दुर्गायाम्” हेम०। शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन्। ब्रह्महा द्वादशव्दानि मितभुक शुद्धिमाप्तुयान्” याज्ञ० “तन्माल्यभस्मनृकपाल्यवसत् पिशाचै” भाग० ४, ४, १७। ४ जातिभेदे पुंस्त्री पराशरः। जातिशब्दे तज्जातिविवृतिः। स्त्रियां ङीप् “नटी कपालिनी वेश्या कुलटा नापिताङ्गना” तन्त्रे कुलनारीकीर्त्तने। कपालमस्त्यस्य भोजपात्रत्वे न ठन् कपालिक। कपालाधारेभोजिनि जातिभेदे च। तस्येदमण्। कापालिक तत्सम्वन्धिनि त्रि० कपालमोचनशब्दे उदा० “कापालिकान्नभोक्तॄणां तन्नारीगामिनां तथा। ज्ञानात् कृच्छ्राव्दमुद्दिष्टमज्ञानादैन्दवद्वयम्” प्रा० वि० आपस्त०।

***