कत = पु० कं जलं शुद्धं तनोति तन–ड। १ कतकवृक्षे २ ऋषिभेदे च। कतस्य गोत्रापत्यम् गर्गा० यञ्। कात्य तद्गोत्रापत्ये बहुत्वे तु तस्य लुक् कताः कतगोत्रापत्येषु ब० व०। यञन्तत्वात् यूनिफक्। कात्यायनः तद्गोत्रयुवापत्ये। तस्य छात्राः छण् फकोलुक्। कातीयाः तदीयच्छात्रेषु बहु० व०। कतर्षेश्च विश्वामित्रादुत्पत्तिः विश्वामित्रपुत्रकथने हरिवं० २७ अ०। “देवश्रवाः कतश्चैव यस्मात् कात्यायनाः स्मृताः। शालाबत्यां, हिरण्याक्षो रेणोर्जज्ञेऽथ रेणुमान्। साटातर्गालवश्चव मुद्गलश्चेति विश्रुताः। मधुच्छन्दोऽजयश्चैवदेवलश्च तथाऽष्टकः। कच्छपोहारितश्चैव विश्वामित्रस्य ते सुताः तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम्”

कतक = पु० तक–हासे बा० घ कस्य जलस्य तको हासः प्रकाशो यस्मात् ५ ब०। (निर्माल्ली) वृक्षभेदे राजनि०। तस्य हि फलसम्पर्कात् जलप्रसादः “फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम्। न नामग्रहणादेव तस्य वारि प्रसीदति” मनुः। “कतकम्य फलं नेत्र्यं जलनिर्म्मलताकरम्। वातश्लेष्महरं शीतं मधुरं तुवरं गुरु” भावप्र० तद्गुणाद्युक्तम्। तस्य फलम् अण् तस्य लुक् तत्फले न०। “जलप्रसादि कतकं तत्फलं कतकं स्मृतम्” भावप्र० उक्तेः वृक्षपरत्वेऽपि न० अयञ्च सुश्रुते काकोल्यादिरित्युपक्रम्य कतकगिलोड्येत्यादिना मधुरवर्गे उक्तः।

कतफल = पु० कं तनोति प्रसन्नम् तन–ड तादृशं फलमस्य। कतकवृक्षे राजनि०

कतम = त्रि० किम + डतम्। बहूनां मध्ये जात्यादिभिर्निर्द्धारणार्थप्रश्नविषये एकस्मिन् पदार्थे “कतमा कतर्मक्, कतमत् कतमत् साम, कतमः कतम उद्गीथः” छा० उ०। डतरा कतर द्वयोर्मध्ये जात्यादिभिर्निर्द्धारणार्थप्रश्नविषये त्रि० “थद्येनमुज्झसि तदा कतरोवरस्ते” नैष० “अथैतयोः पथा कतरेण चलितानामपि क्षूद्राण्यसकृदावर्त्तीनि भूतानि “छा० उ०। डररडतमान्तत्वादनयोः सर्व्वनामकार्य्यं कतमस्मै कतरस्मै क्लीवे स्वमोरद्ड् कतमत् कतरत् “कतरन्नो गरीयो यद्वा जयेम यदि वा नोजयेयुः” गीता। “कतमद्द्वैर थं युद्धं यत्राजैषीर्धनञ्जयम्” “तथैव कतमद्युद्धं यस्मिन् कृष्णाजिता पुरा” भा० वि० ५० अ०। “कतरकतमौ कर्म्मधारये” पा० उक्तेः कर्म० प्रकृतिस्वरः धारये।

कतमाल = पु० तम घञ् ह्रस्वः कस्य जलस्य तमाय शोषणायालति पर्य्याप्नोति अ–ल–अच्। वह्नौ शब्दमाला तस्य जलशोषणहेतुत्वात्तथात्वम् कचमालः खचमालः इत्यपि पाठान्तरे तत्रार्थे पु०।

कति = त्रि० ब० व० किं परिमाणमेषां किम् + डति। संख्या परिमाणविशेषविषयप्रश्नविषये पदार्थे। “कति देवाःत्री च दश च” छा० उ०। अस्य संख्यावत्कार्य्यभागित्वात् स्त्रियांन ङीप्। पूरणे डट् थुक्च। कतिथ कियत्संख्यापूरणे त्रि० स्त्रियां ङीप्। धाच्। कतिधा कियत्प्रकारे अव्य० “कत्यस्य विष्ठाः कत्यक्षराणि कति हीमासः कतिधा सगिन्न” यजु० २३, ५७। वीप्सार्थे कारकवृत्तेस्ततः शस। कतिशम कियद्वारादौ अव्य० कतिशो ददाति-

कतिपय = त्रि० त्रि० कति + अयच् पुक् च। कतिशब्दार्थे २ परिमिते च। “वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव” माघः “कतिपयैः परिमितेः” मल्लि०। “संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः” मेघ० “पोटायुवतिस्तोककतिपयेत्यादि० पा० सूत्रस्य प्रायिकत्वान्न उत्तरनिपातः” मल्लि०। अन्यत्र तु ब्राह्मण कतिपय इत्यादि। अस्य जसि वा शी कतिपये कतिपया वा “परिष्कुर्वन्त्यर्थान् सहृदय धुरीणाः कतिपये” रसगङ्गा०। “एवैवं समृद्धाः स्युः कतिपये वापरा” शत० ब्रा० ५, १, ३, १०। अद्रव्यवाचित्वे अस्मात् वा करणे पञ्चमी। कतिपयेन मुक्तः कतिपयान्सुमुक्तो वा समासे तत्र पञ्चम्या अलुक्। द्रव्यपरत्वे तु कतिपयेन विषेण मुक्त इत्येव “षट्कतिकतिपयचतुरामिति” पा० निर्देशात् तस्याऽसं ख्यावाचकत्वेऽपि पूरण डट् थुक् च। कतिपयथ कतिपयपूरणार्थेत्रि० स्त्रियां ङीप्।

कत्तृण = कुत्सितं तृणं प्रा० स० कोः कदादेशः। १ पृश्नौ (चाकुलिया) मेदिनिः। २ कुम्भिकायां (पान–) रत्नमाला ३ सुगन्धितृणे अमरः। अस्य गुणादि भावप्र० उक्तम् “कत्तृणं रौहिषं देवजग्धं सौगन्धिकं तथा। भूतिकं व्यामपौरञ्च श्यामकं धूमगन्धिकम्। रौहिषं तुवरं तिक्तं कठुपाकं व्यपोहति। हृत्कण्ठव्याधिपित्तास्रशूलकासकफज्वरान्” (सौग~धिया हिन्दिभाषा)।

कत्तोय = न० कुत्सितं तोयम् ईषद्वा तोयं यत्र। मद्ये त्रिका०

कत्त्रि = त्रि० ब० व० कुत्सितास्त्रयः प्रा० स० कोः कद्। कुत्सितेषु त्रिषु। ततो जातादौ ढकञ् कात्त्रेयक तज्जातादौ त्रि०।

कत्त्र्यादि = पु० पाणिन्युक्ते जाताद्यर्थे ढकञ्प्रत्ययनिमित्ते शब्द समूहे स च गणः कत्त्रि उम्भि पुष्कर पुष्कल मोदन कुम्भी कुण्डिन नगरी माहिष्मती वर्मती उख्या ग्राम। (कुडयाया यलोपश्च) गणसूत्रस्।

कत्थ = श्लाघायाम् (आत्मगुणाविष्करणे) गृहीतकर्मकत्वात् अक० भ्वा० आ० सेट्। कत्थते अकत्थिष्ट चकत्थे। कत्थमानः कत्थनम् कत्था कत्थितम्। “गर्जितेन वृथा किं ते कत्यितेन च मानुष!। कृत्वैतत् कर्म्मणा सर्वं कत्थेथा मा चिरं कृथाः” भा० आ० १, १५३ अ०। “परोक्षमिव मे राजन्! कत्थसे शत्रुकर्षण!” भा० व० ७२ अ० “कृत्वा कत्थिष्यते न कः” भट्टिः “जनस्य गोप्तास्मि विकत्थमानः” भाग० ५, १२, ७। आर्षप्रयोगे पदव्यत्ययात् यर०। “तथाऽभिगम्य वित्त नि को विकत्थेद्विचक्षणः” आ० वि० ५० अ०। प्रणापेऽपि सक०। कत्थन्त। उग्रपरुषं निरतं श्मशाने” भाग० ८, ७, २७। “कत्थन्ते प्रलपन्ति” श्रीधरः। वियेकेन कथने। “कोविकत्थितुमर्हति” आ० प० २५३३। कर्त्तरि युच् कत्थनः।

कत्पय = न० कं सुखमिवाचरति क + क्विप् शतृ कत् सुखकरं पयोऽस्य वेदे ग्नि० ड समा०। सुखकरजले। “त्वं चिदित्था कत्पयं शयानम्” ऋ० ५, ३२, ६। “कत्पयं सुखकरं पयो यस्य तम्” भा०। निरुक्ते ६, ३ इमानृचमधिकृत्योक्तम् “सुखपयसं सुखमस्य पयः” इति लोके तु कत्पथस् इत्ये ८।

कत्र = शैथिल्ये अद० चुरा० उभ० अक० सेट्। कत्रयति ते अचकत्रत् त। “तद्बलादन्त्यदोर्घश्च पुक् चेत्यङ्कापयत्यपि” इत्युक्तेःवा दीर्घः पुक् च। कत्रापयति ते इत्यपि। कत्राम् बभूव आस कचार चक्रे। एवं कत्थापयाम् बभूवेत्यादि।

कत्सवर = न० कद्–वैकल्ये स कत्सः विह्वलता व्रियते वृअप्। स्कन्धे शब्दच०।

कथ = बाक्यरचनायां अद० चुरा० उभ० सक० सेट्। कथयति ते अचीकथत् त अचकथत् त। कथयाम् अभूव आस चकार चक्रे। कथितः कथयित्वा कथयितुम्–कथनम्। कथा “तं जनाः कथयन्तीह यावत् भवति गौरियम्” भा० अनु० ३१६८ “हन्त ते कथयिष्येऽमुमितिहासंपुरातनम्” भा० ४, ४५, ९। “कथाच्छलेन बालानां नीतिस्तदिह कथ्यते” हितो० “यो मनुः कथ्यतेऽष्टमः” देवी० “प्रत्येकं कथिताह्येताः संक्षेपेण द्विसप्ततिः” मनुः।अनु + अनुवादे कथितस्यकथने अन्वादेशे अनुकथयति अनुवदति प्राद्युपसर्गे प्रकर्षादिना कथने अस्य ब्रुवर्थतया द्विकर्मकत्वम् तत्र गौणे कर्मणि लकारः।

कथक = त्रि० कथ–ण्वुल्। १ वाचके २ तत्त्वनिर्णयार्थं वादरूपकथाकर्त्तरि च कथकस्य कथायां नियमविशेषः खण्डने दर्शितः यथा।

“अथ कथायां वादिनोनियममेतादृशं मन्यन्ते प्रमाणादयः सर्व्वतन्त्रसिद्धान्ततया सिद्धाः पदार्थाः सन्तीति कथकाभ्यामभ्युपेयम् इति। तदपरे न क्षमन्ते। तथाहि प्रमाष्णादीनां सत्त्वं यदभ्युपेयं कथकेन, तत् कस्य हेतोः,? कि तदनभ्युपगच्छद्धां वादिप्रतिवादिभ्यां तदभ्युपगमसाहित्यनियतस्य तस्य प्रवर्त्तयितुमशक्यत्वात् १, उत कथकाभ्यां प्रवर्त्तनीयवाग्व्यवहारं प्रति हेतुभावात् २, उतलोकसिद्धत्वात् ३ अथ वा तदनभ्युपगमस्य तत्त्वनिर्णयविजयातिप्रसञ्जकत्वात् ४। न त्तावदाद्यः वदनभ्युपगच्छतोऽपि चार्व्वाकमा- यमिकादेर्वाग्व्यवहाराणां सविस्तराणां प्रतीयमानत्वात् तस्यैव वा अनिष्पत्तौ भवतस्तन्निरासप्रयासानुपपत्तेः। सोयमपूर्व्वः प्रमाणादिसत्त्वाभ्युपगमात्मा वाक्स्तम्भनमन्त्रो भवताभ्यूहितो नूनं यस्य प्रभावाद्भगवता सुरगुरुणा लोकायतसूत्राणि न प्रणीतानि, तथागतेन वा मध्यमागमा नोपदिष्टाः, भगवत्पादेन वा बादरायणीयेषु सूत्रेषु भाष्यं नाभाषि। प्रमाणाद्यनभ्युपगमेऽपि प्रवर्त्तन्तां तन्मते वाचोप्तङ्ग्यः तास्तु साधनबाधनक्षमा न भवन्ति तावतेति ब्रूमैति चेन्न प्रमाणाद्यनभ्युपगमप्रवर्त्तितत्वं तदीयसाधनबाधनाक्षमतायां न नियामकं किन्तु सद्वचनाभासलक्षणयोगित्वमित्यवश्याभ्युपेयं भवता येनाभ्युपगम्यापि प्रमाणादीनि प्रवर्त्तिताः मतान्तरानुसारिभिर्व्यवहारा अभ्युपगतप्रमाणादिसत्त्वैर्म्मतान्तरव्यवहारानुसारिभिरपरंस्तथाभूताइति कथ्यन्ते। यदि त्वस्मद्वचसि सद्वचनाभासलक्षणं न भवान् दर्शयितुमीष्टे तदा अनभ्युपगम्य प्रमाणादि भवता प्रवर्त्तितोऽयं व्यवहारैति शतकृत्वस्त्वयोच्यमानेऽपि नास्माकमादरः अन्यथाभ्युपगम्य प्रमाणादीनि भवता प्रवर्त्तितोऽयं व्यवहारैत्येतावता भवदीयो व्यवहाराभास इत्यस्माभिरपि वक्तुं शक्यतएव। ननु यदि प्रमाणादीनि न सन्ति व्यवहारएव धर्म्मी कथं सिद्ध्येत् दूषणादिव्यवस्था वा कथं स्यात् सर्व्वविधिनिषेधानां प्रमाणाधीनत्वात्। मैवम्। न ब्रूमोवयं न सन्ति प्रमाणादीनीति स्वीकृत्य कथारभ्येति किन्नाम सन्ति न सन्ति वा प्रमाणादीनीत्यस्यां चिन्तायामुदासीनौ। यथा स्वीकृत्य तानि भवता व्यवह्रियते तथा व्यवहारिभिरेव कथा प्रवर्त्त्यतामिति। अन्यथा न सन्ति प्रमाणादीनीति मतसस्माकमारोप्य यदिदम्भवता दूषणमुक्तं तदपि न वक्तुं शक्यं कीदृशीं मर्य्यादामालम्ब्य प्रवर्त्तितायां कथायां दूषणमुक्तं किं प्रमाणादीनां सत्त्वमभ्युपगम्योभाभ्यां प्रवर्त्तितायां कथायां उतासत्त्वमभ्युवेत्यु अथैकेन सत्त्वमपरेण चासत्त्वमङ्गीकृत्य। न तावदाद्यः अभ्युपगतप्रमाणादिसत्त्वं प्रति तादृक्पर्य्यनुयोगानवकाशात् द्वितीये तु स्वतोऽप्यापत्तेः न तृतीयः तथैव कथान्तरस्य प्रसक्तः उभयाभ्यपगमानुरोधित्वाच्च कथानियमस्य। अन्यथा स्वाभिप्रायमालम्ब्य तेनापि तद्वचसि यात्कञ्चिद्वागात्मनि दूषणेऽभिहिते कस्य जयो व्यवतिष्टताम् प्रमाणाद्यभ्युपगन्तुरेव यावन्नियमभरयन्त्रणा महती स्यात्। तस्मात् प्रमाणादिसत्त्वासत्त्वाभ्युपगमौदासीन्येन व्यवहारनियमे समयं बद्ध्वा कथायां प्रवर्त्तितायां भवतेदं दूषण- मुक्तं युक्तमेव तथा सति स्यात्। योऽयं भवान् स्वाभिप्राय मपि नावधारयितुं शक्तोऽतिदूरतस्तस्मिन् पराभिसन्धा नावधारणप्रत्याशा। अथ वादीकृत्य दुर्वैतण्डिकं तस्मिन् बोधोऽभिधीयतैत्येव नेष्यते शिष्यादयस्तु तस्य कथानधिकारं ज्ञाप्यन्ते अतएव भाष्यकारः “स पयोजनमनुयुक्तो यदि प्रतिपद्यत” इत्याह स्मनतु प्रतिपद्यसैति। मैवम् शिष्यादीन् प्रत्यपि चार्व्वाकादेर्दोषोऽयमित्येवाभिधातव्यम्। कथञ्च तथास्यात् तस्य कथाप्रवेशाप्रवेशयोस्तद्बाधाक्षमत्वात्कथायामेव हि निग्रहः। नापि द्वितीयः तथाहि स्यादप्येवं यदि कथकप्रवर्त्तनीयवाग्व्यवहारं प्रति प्रमाणादीर्ना हेतुता तत्सत्त्वानभ्युपगमे निवर्त्तेत नचैवं सम्भवति तथासति तत्सत्त्वानभ्युपगन्तॄणां वाग्व्यवहारस्वरूपमेव न निष्पद्येत हेत्वनुपपत्तेः। उक्तश्चायमर्थो यन्माध्यमिकादिवाग्व्यवहाराणां स्वरूपापलापो न शक्यत इति। अथ मन्यसे कथकवाग्व्यवहारं प्रति हेतुत्वात् प्रमाणादीना सत्त्वं सत्त्वाच्चाभ्युपगमः यत्सत्तदभ्युपगम्यतैतिस्थितेरिति। मैवम् कयापि नियमस्थित्या प्रवृत्तायां कथायां कथकवाग्व्यवहारं प्रति हेतुत्वात् प्रामाणादीनां सत्त्वं सत्त्वाच्चाभ्युपगम भवता प्रसाध्यः कथनात्पूर्व्वं तत्तत्त्वावधारणं वा परपराजयं वा अभिलषद्भ्यां कथकाम्यां यावता विना तदभिलषितं न पर्य्यवस्यति तावदनुरोद्धव्यम् तच्च व्यवहारनियमस्यानुबन्धादेव द्वाभ्यामपि ताभ्यां सम्भाव्यतैति। व्यवहारनियमसमयमेव बध्नीतः सच प्रमाणेन तर्केण च व्यवहर्त्तव्योवादिना प्रतिवादिनापि कथाङ्गतत्त्वज्ञानविपर्य्ययलिङ्गप्रतिज्ञाहान्याद्यन्यतमं निग्रहस्थानं तस्य दर्शनीयम् तद्व्युत्पादने प्रथमस्य भङ्गोव्यवहर्त्तव्योऽन्यथा द्वितीयस्यैव तादृशेतरौ च जेतृतया व्यवहर्त्तव्यौ, प्रामाणिकः पक्षस्तात्त्विकतया व्यवहर्त्तव्यैतादिरूपः। अत एव वाग्व्यवहारनियमबन्धेऽपि हेतुर्वक्तव्यः तथा च सोऽपि हेतुः कथायां प्रवृत्तायामभिधातुं युक्त इति प्रमाणसत्त्वाभ्युपगमहेत्वभिधानवत् प्रत्यवस्थानमनवकाशं द्वाभ्यामपि वादिभ्यां विचारप्रवृत्त्याभिलष्यमाणतत्त्वव्यवस्थाजयसूलत्वेन व्यवहारनिममस्य स्वेच्छयैव परिगृहीतत्वात्। नचैवं प्रमाणानुपज्ञस्वेच्छामात्रगृहीतमूलत्वान्मूलापरिशुद्धिसम्भवेन सर्व्वविचारविचार्य्यतत्फलविप्लवापत्तिः स्यात्। आविद्यविद्यभानानादिपारम्पर्य्यायातस्य लोकव्युत्पत्तिगृहीतसंवादस्य च तस्यान्यथाभावासम्भाव्यतालक्षणस्वतःसिद्धशुडत्वात्। न व प्रमा- आदीनां सत्तापीत्थमेव ताभ्यामङ्गीकर्त्तुमुचिता तादृशव्यवहारनियममात्रेणैव कथाप्रवृत्त्युपपत्तेः प्रमाणादिसत्तामभ्युपेत्यापि तथा व्यवहारनियमव्यतिरके कथाप्रवृत्तिं विना तर्त्त्वानर्णयस्य जयस्य वाऽभिलषितस्य कथकयोरपर्य्यवसानान्। नापि तृतीयः लोकव्यवहारो हि प्रमाणव्यवहारो वा स्यात् पामरादिसाघारणव्यवहारो बा। नाद्यः। विचारप्रवृत्तिमन्तरेण तस्य दुर्न्निरूपत्वात् तदर्थमेव च पूर्व्वं नियमम्य गवेषणात्। नापि द्वितीयः शरीरात्मतादीनामपि तथा सति भवता स्वीकर्त्तव्यताऽऽपातात्। पश्चात्तद्विचारबाध्यतया नाभ्युपेयतैति चेत् तर्हि प्रमाणादयोऽपि यदि विचारबाध्या भविष्यन्ति तदा नाभ्युपेया एव अन्यथा तूपगन्तव्या इति लोकव्यवहारसिद्धतया सत्त्वमभ्युपगम्यतैति तावन्न भवति। नापि चतुर्थः यादृशोभवता प्रमाणादीन्यभ्युपगम्य व्यवहारनियमः कथायामालम्ब्यते तस्यैव प्रमाणादिसत्त्वासत्त्वानुसरणीदासीनैरस्माभिरप्यवलम्बनात्। तस्य यदि मां प्रति फलातिप्रसञ्जकत्वं तदा त्वां प्रत्यपि समानः प्रसङ्गः”।

“वाद्युक्तसाध्यनियमच्युतोऽपि कथकैरुपाधिरुद्भाव्य” अनु० चि०। ३ कथोपजीविनि नाटकाचार्य्ये कथाप्राणे। शब्दरत्ना०।

कथङ्कथिक = त्रि० कथङ्कथमिति, प्रष्टृत्वेनास्त्यस्य कथम् कथम् + बा० ठन् टिलोषः। कथं कथमिति प्रश्रकारके। तस्यभावः तल्। कथङ्कथिकता पृच्छायां स्त्री हेमच०।

कथङ्कारम् = अव्य० कथम् + णमुल्। १ कथंकृत्वेत्यर्थे “कथङ्कारमनालम्बा कीर्त्तिर्द्यामधिरोहति” माघः “अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्” पा० सिद्धाप्रयोगः व्यथत्वात् प्रयोगानर्हः” सि० कौ० उक्तेः अनर्थकात् कृञः णमुल्। २ कथमित्यर्थे च।

कथञ्चन = अव्य० कथम् + चन मुग्वबोधः “असाकल्येतु चिच्चन” इत्यमरीक्तेः पा० तादृशप्रत्ययाभावात् चन शब्दे–अच्। कथम् चनअसकलमिति पदद्वयमिति भेदः। चनशब्दे विवृतिः। १ अमकले २ कथमित्यर्थे एकांशेनेत्यर्थे च। “न विभागः कथञ्चन” स्मृतिः। “न वै जनोजातु कथञ्चन व्रजेत्” भाग० १, ५, २०। “अनतिक्रमणीयो हि विधी राजन् कथञ्चन” भा० स्त्री० ८ अ०। “पदार्थः पदृशान्वेति विभागे न कथञ्चन” हरिकारिका।

कथञ्चित् = अव्य०। कथम + चित् भुव्वबो० पा० न चित् प्रत्ययः “किन्तु चिदव्यय” असाकल्ये चिच्चनैत्यमरोक्तेः। “किंवृत्तं चिदुत्तरम्” पा० उक्तेश्च पदद्वयमिदम्। १ असाकल्यान्विते कथमित्यर्थे २ कष्टेनेत्यर्थे च “अधःकथञ्चिद्धृतभूमिभागः” कुमा०। “कथञ्चित् फणिनां गणैरधः” भाघः। ततः स्वार्थे विनया० ठक् तान्तत्वात् क। कथञ्चित्कः। कष्टभवे त्रि०।

कथन्ता = स्त्री कथम् + भावे तल्। किंप्रकारतायाम्।

कथम् = अव्य० किम् + प्रकारार्थे थमु कादेशश्च। कस्मिन् प्रकारेइत्यर्थे। “सानुबन्धाः कथं न स्युः सम्पदोऽपि निरापदः” रघुः “अवाप्यते वा कथमन्यथा द्वयं नथाविघं प्रेम पतिश्चतादृशः” कुमा० “कथं नु शक्योऽनुनयो महर्षेः” रघुः “सा प्रक्रिया या कथमित्यपेक्षा” मीमा० तत्र “कथमितीतिकर्त्तव्याकाङ्क्षा” कात्या० १, २, १८ सू० भा० कर्कः। प्रसङ्गात् तत्र कुत्र कर्मणि कथमाकाङ्क्षोत्थाप्येतिकर्त्तव्यरूपाङ्गस्य्यपेक्षास्ति कुत्र वा नास्ति तदेतत् कात्यायनसूत्रभाष्ययोर्दर्शितमत्र प्रदर्श्यते। “अथेदंविचार्यते द्विप्रकारं कर्म नित्यं काम्यं च तत्र नित्यं प्रकृत्येदं विचार्यते किं सर्वाङ्गोपेतं कर्त्तव्यम्? उत यावन्त्यङ्गानि कर्त्तुं शक्रोति तावद्भिरङ्गैरुपेतमिति? किं तावत् प्राप्तम्? सर्वाङ्गोपेतमेव कर्त्तव्यमिति कुतः? भावनांशस्य कथम्भावस्य सर्वैरङ्गैः परिपूरणेन सर्वाङ्गोपेतस्यैव प्रधानस्य फलवत्त्वात् अन्यथा अङ्गाम्नानस्य वैयर्थ्यापत्तेः तस्मात् सर्वाङ्गोपेतमेव कर्त्तव्यमित्येवं प्राप्तआह। “विगुणे फलनिर्वृत्तिरङ्गप्रधानभेदात्” कात्या० १, २, १८, सू० “नित्यकर्मणि अग्निहोत्रदर्शपूर्णमासादिके विगुणेऽपि अङ्गहोनेऽपि कृते फलनिर्वृत्तिः प्रत्यवायपरिहाररूपस्य फलस्य निष्पत्तिर्भवत्येव अङ्गप्रधानभेदात् यतोऽङ्गानि च प्रधानानि च भिन्नानि नित्येषु चेतिकर्त्तव्यता नास्ति। कुत इतिकर्त्तव्यता नास्ति? अपूर्वाभावात् अपूर्वप्रयुक्ता हीति कर्त्तव्यता, सा च तस्मिन्नसति न भवितुमर्हति कथम अपूर्वाभावः? फलाभावात् कालान्तरभाविफलसिद्ध्यर्थं ह्यपूर्वं कल्य्यम् तच्चासति फले कल्पयितुं न शक्यते तस्मात् नित्येषु यागस्यैव भाव्यत्वम् न फलस्य। तस्मात् पौर्ण्णमास्याममावास्यायां वाग्निमुद्दिश्य पुरोडाशस्त्यक्तव्य इत्येतवदुपदिश्यते तेन दृष्टार्थानि यान्यङ्गानि संनिपत्योपकारकाणि यैर्विना प्रधानभूतयागनिष्पत्तिर्न भवति, अन्यथानुपपत्त्या, तावद्भिरुपेतं प्रधानं कर्त्तव्यम् नाङ्गानि। अङ्गाम्लानि तु काम्यप्रयोगार्थम्। अतोऽग्निकालपुरोडाशमात्रमादरणीयम् अन्यदङ्गजातमदृष्टार्थं नादरणीयमिति। कथं तर्हीदृशे निस्फले पुरुषस्यप्रवृत्तिः? इति चेत् उच्यते प्रत्य- वायानुत्पत्त्यर्था प्रवृत्तिर्न तु फलार्था, विहिताकरणाद्धि घ्रत्यवायः स्मर्यते। (मनुना) “अकुर्वन्विहितं कर्म प्रायश्चित्तीयते नरः” इति अतोनित्यकर्मणी निष्फलत्वादपूर्वा भावादितिकर्त्तव्यता नास्तीति हीनाङ्गस्यैव घ्रयोगैति केचित् सिद्धान्तमाहुः। तदेतन्नोपपद्यते कथम्? भावनातो हि तिस्र आकाङ्क्षा जायन्ते किं केन कथमिति, तत्र कथ मितीतिकर्त्तव्यताकाङ्क्षा नित्येऽप्यस्ति तस्मादत्राप्यस्तीति कर्त्तव्यता। सत्यम्? अस्त्येवेहाप्याकाङ्क्षात्रयम् तथापि किम् आकाङ्क्षायाः समानपदोपात्तेन यागेनैव पूरणात्तन्निर्वृत्त्युपयोगिन्येवेतिकर्त्तव्यता कथमाकाङ्क्षया गृह्यते न त्वदृष्टोपयोगिप्रयाजाद्यङ्गम् अदृष्टस्य साध्यस्याभावादिति चेत् न यागस्य स्वतोऽपुरुबार्थत्वेन प्रवृत्त्यन्यथानुपवत्त्या समानपदोपात्तं यागमुत्सृज्य सर्वेषामभिमतस्य प्रत्यवायपरिहारस्येह भाव्यतया कल्पनात् ननु सर्वेषामभिमतः स्वर्गः किमिति न कल्प्यते? इति चेत् तस्य शरीरारम्भहेतुतया मोक्षविरोधित्वेन मुमुक्षूणामनभिप्रेतत्वात् प्रत्यवायपरिहारस्तु तैरपीष्यत एव। कथम्? तस्मिन् पापे एतज्जन्मोपार्जिते भवान्तरोपार्जिते वा स्थिते सति तदुपभोगहेतुभूतशरीरारम्भावश्यंभावेन मोक्षाभाबात्। अमोक्षार्थिनाप्यवश्यं पापक्षय एषितव्य एव समीहित फलाय, इतरथाऽप्रक्षीणे पापे फलाप्राप्तेः। तस्मान्नित्यानि कर्माणि पापक्षयस्योषायत्वेन नोद्यमानानीतिकर्त्तव्यतामपेक्षन्त एव। धर्मशास्त्रेषु च यथैवाकरणे प्रत्यवायः स्मृतः तथैव करणादपि पापक्षयः स्मर्थते (मनुना) “पूर्वां सन्ध्यां जपंस्तिष्ठन् नैशमेनोव्यपोहति” इत्यादिभिः “नित्यनैमित्तिकैरेव कुर्वाणीदुरितक्षयमिति” च। तस्मान्नित्येऽप्यस्त्येव प्रत्यवायपरिहाररूपं फलम्। तस्मान् नित्यान्यपि कर्माणि सर्वाभिमतस्य पापक्षयस्योपायत्वेन नोद्यमानानीतिकर्त्तव्यतामपेक्षन्त एव। ततश्च सर्व्वाङ्क्षोपेतानामनुष्ठान कश्चिदपि सर्व्वदा कर्तुं न शक्नोति। जीवनादिनिमित्ते च तानि विवीयन्ते निमित्तस्य चैतदेव रूपं यत् तस्मिन् सति नैमित्तकमवश्यं कर्त्तव्यम् तेन यावज्जीवं कर्त्तव्यम् सर्वाङ्गोपेतं च कर्त्तव्यमिति दुःशकमेव तेन यथा शक्नुयादित्युपपद्यते तत्रावश्यमन्यतरस्मिन्नहातव्ये निमित्ते सति नैमित्ति कस्य कर्त्तव्यत्वं प्रधानवाक्ये श्रूयते तद्यदि कस्य चिदङ्गस्यानुरोधेन सति निमित्ते नैमिसिकं न क्रियेत ततः पबानवाक्यविरोधः स्यात् प्रधानमात्रं श्रुत्या निमित्ते सति विधीयते अङ्गानि तु तदर्थतया प्रकरणेन गृह्यन्ते अतस्तानि प्रधानवाक्यगतावश्यकत्वानुरोधेन यथाशक्त्युपसंहर्तव्यानि इतरथा प्रधानस्यावश्य कर्त्तव्यत्वं श्रुतं हीयेत तस्मात् प्रधानाविरोधेनाङ्गानि यथा शक्त्युपसंहर्त्तव्यानि। नन्वेवं हीनाङ्गादपि प्रधानात् फलसिद्धे रभ्युपनमात् समर्थोऽप्यङ्गानि परित्यक्ष्यतीति मैवम् शक्तस्व कामतोऽङ्गे त्यज्यमाने र्बगुण्यं स्यादेव। अङ्गोपदेशं निमित्तं वालोच्योभयानुरोधेन यावन्त्यङ्गानि कर्तुं शक्नोति तावद्भिरुपेतं प्रधानमेनः क्षपयतीति शास्त्रार्थोऽवधार्य्यते तावतैव शास्त्रवशात् फलनिष्पत्तिः इति साधूक्तम् “विगुणे फलनिर्वृत्तिरङ्गप्रधानभेदादिति”। एतच्च प्रयोगविध्यनुत्थाप्येष्वङ्गेषूच्यते यद्धि कुर्य्यादित्युच्यते तत् यथाशक्तीत्युपबध्यते। यानि तु खभावसिद्धानि विध्यन्तरसिद्धानि वोपजीव्यन्ते यथा लोके धनार्जनादि, वेदेऽपि कालो विद्याग्नयश्च तेषां स्वरूपेणैवाधिकारि विशेषणत्वं द्रव्यवान् विद्यावानग्निमानिति। एतदुक्तं भवति अङ्गं हि विधिबलादुषादीयते निमित्तानुरोधाद्वा त्यज्यते उभयानुग्रहार्थं वा शक्तं प्रत्युपादीयते अशक्तं प्रति त्यज्यते इति ना न्या गतिरस्ति तत्रोभयानुग्रहोयुक्तो यदि सम्भवति, सम्भवश्चोपादेयेष्वङ्गेषु यथाशक्ति व्रीहीन् सम्पादयेत् यथाशक्त्यवहन्यादिति आहवनीयादि स्वरूपं तु नानेन विधिनोपादीयते तस्मादग्निमान् विद्यावान् द्रववान् जीवंश्च यजेतेत्येवमाश्रीयते अतो विद्याग्निकालाद्यपरित्यागेनान्येषामङ्गानां यथाशक्त्यनुष्ठानं सिद्धम्। तथा चोक्तम तन्त्ररत्ने “यानि प्रयोनविधिना कर्त्तरुपादेयत्वेनाङ्गानि नोद्यन्ते तेषामेव शक्तिपरिमितत्वम् यावन्ति शक्नुयात् तावन्ति कुर्य्यादिति यानि तु विध्यन्तरप्रयुक्तानि स्वयंसिद्ध्वानि वाङ्गत्वेन गृह्यन्ते तानि स्वरूपत एवाधि कारिविशेषणम् यथाग्न्यादीनि तेषामुपादानस्य प्रयोन विधिनानुपादनान्न यावदुक्तीत्युपबन्धः सम्भवति। किन्तु तदपेक्षोविधिस्तद्वन्तमेवाधिकरोति तेन सपस्त्रीकस्यार्वेयस्य व्याख्यातोपात्तसं ख्याविशिष्टस्याग्निमतो विद्यावतः पदोषादिकालस योगिनोऽधिकारोनान्यस्येति। एवं चाप्रतिसमाधेयाङ्गवैकल्येऽप्यग्न्यादिमानधिक्रियेतैव आधान तु न कुर्य्यात्तस्य नैमितिकत्वादिति” प्रायसित्तविधानाच्च” सू० प्रायश्चित्तविधानादप्येवं ज्ञाप्यते यद्विगुणेऽपि फलनिर्वृत्तिर्भवतीति। यदि च विगुणात् फलं न स्यात्तर्हि प्रायश्चित्तं न विदधीत न हि निष्लस्याङ्गैः कृत्य- मस्ति अस्ति च विधानम् तस्माद्विगुणादपि फलं भवतीति। येषां मते नित्येषु फलाभावेनापूर्व्वाभावात् तदर्थेतिकर्त्तव्यता नास्ति तेषां प्रायश्चित्तविधानमत्यन्तानुपपन्नम्। सेतिकर्त्तव्यताके तु निमित्ते भेदने जाते वैगुण्यात्तत्परिहारायापरं होमाख्यामङ्गं भिन्ने जुहोतीत्यादिकमुत्पन्नं सत् क्रियत एव पक्षान्तरे त्वसत्यामिति कर्त्तव्यतायां भेदने जातेऽपि नास्ति वैगुण्यम् गुणहानि र्हिवैगुण्यम् असति गुणे कस्य हानिः स्यात् ततश्चास्मत्पक्ष एव प्रायश्चित्तविधानमुपपन्नमिति। “तथा च दृष्टम्” सू०। नित्यं कर्म यथा कथञ्चित् श्रुताङ्गपरित्यागेनापि यथाशक्त्य ङ्गोपेतमनुष्ठातव्यत्वेन श्रुतौ दृष्टम्। तथा हि “यत् पयो न स्यात् केन जुहुयात्” इति ब्रीहियवाभ्यामित्यादि “न वाइह तर्हि किञ्चचनासीदथैतदहूयतसत्यं श्रद्धया” इत्यन्तेन ग्रन्थेन तथा “तदैव यादृक्कीदृक् च होतव्यमिति” शाखान्तराच्च। तस्माद्विगुणेऽपि नित्य प्रत्यवायपरिहाररूपं फलं भवति अत एवोक्तं कर्काचार्य्यैः “उपात्तदुरितक्षयो वा उत्पत्स्यमानदुरितप्रतिबन्धो वा भवत्येवेति”। अथ काम्ये कर्मणि चिन्त्यते। काम्येऽपि विगुणे फलाभि निष्पत्तिर्भवत्येव। यतस्तत्राप्यङ्गानि प्रधानानि च भिन्नानि। अश्वमेधे च काम्ये प्रायश्चित्तविधानमप्यस्ति अश्वं प्रकृत्य “अथातः प्रायश्चित्तीनां यद्यश्वोबडवां स्कन्देद्वायव्यं पयोऽनु निर्वपेदथ यदि स्रामो विन्देदित्यादि तथा पञ्चशारदीयेऽपि “उत्सृष्टान् पशून् प्रकृत्य ताण्ड्ये प्रायश्चित्तविधानं दृश्यते “अपोनप्त्रियोऽप्सुमृते” इत्यादिकं यदि च विगुणादपि काम्यात् फलं न स्यात् प्रायश्चित्त विधानं व्यर्थमेव स्यात् तथा च दृष्टं विगुणमपि काम्यं फलोत्पादकं वेदे दृष्टम्। कारीरीमिष्टिं प्रकृत्य श्रूयत “यदि वर्षेत्तावत्येव जुहुयादिति” अत्रासमाप्तायाम् एव कारीर्यां तत्फलं वृष्टिरूपं वेदे दृष्टम् अतो विगुणेऽपि काम्ये फलं सिध्यतीति पूर्ब्बपक्षिते सिद्धान्तमाह। “न श्रुतिलक्षणत्वात्” सू०। यदुक्तम् विगुणेऽपि काम्येफलं सिध्यतीति तन्न कुतः श्रुतिलक्षणत्वात् काम्यस्य, यतः काम्य सगुणमेव सर्व्वाङ्गोपेतमेव श्रुत्यालक्षितम् फलसाधनत्वेन विहितम् तत्राङ्गलोपे काम्यमानफलस्यानुत्पत्तेः तत्र प्रधानस्य त्यागे यथा फलं नास्ति एवमङ्गत्यागेऽप्रि, फलसाधनत्वं हि शास्त्रैकसमधिगसंततो यदङ्गं प्रधानं धा यावच्छब्दोपात्तम्तस्य लोपे गाधनत्वं नास्ति अतो यदा सर्वाङ्गोपेतं कर्तुं शक्रोति तदेव तत्र प्रवर्त्तेत न तु यथाशक्ति। न हि तत्राङ्गत्यागे प्रमाणमस्ति प्रधानवाक्यम्, अत्यागेऽप्यविरोधात् न हि तस्यावश्यकत्वं केनचिदुक्तं यतः औदासीन्यं न लभ्येत। कामश्रुतिस्तु समर्थेऽपि वर्त्तमाना श्रुत्यर्थतां न जहातीति नाङ्गत्यागे प्रभवति। निमित्तश्रुतिस्तु निमित्ते सत्याक्रिय माणे नैमित्तिके प्रोड्येतेति वैषम्यम्। अतोनिमित्ते सति नित्यस्यावश्यकर्त्तव्यत्वबलात् सर्व्वदा सर्व्वाङ्गोपेतस्य केनापि कर्तुमशक्यत्वाद्यथा शक्नुयात्तथा कुर्य्यादित्येवं कल्यते काम्ये त्ववश्यकर्त्तव्यत्वाभावादेवं कल्पयितुं न शक्यते अतः काम्यं विगुणं फलं न साधयत्ये वेति सिद्धम्” कथमा योगे गर्हायां “विभाषा कथमि लिङ् च” पा०। लिङ् चात् लट्। “त्वंधर्मं त्यजेस्त्यजसि वा पक्षे कालत्रयलकाराः। तत्र भविष्यति नित्यं ऌङ् भूते वेति भेदः। कथं नाम तत्र भवान् धर्ममत्यक्ष्यत्” सि० कौ०। गर्हायामित्यनुर्त्तनाभावे अगर्हायामपीति प्राञ्चः। तेन “मनस्तुयं नोज्झति जातु यातु मनोरथः कण्ठपथं कथं सः” इत्यादौ अगर्हायामपि लिङ्।

कथमपि = अव्य० कथम् च अपि च द्व०। १ अतिकष्टेनेत्यर्थे २ अतिगौरवेणेत्यर्थे च। “विसृज्य कथमप्युमाम्” कुमा० “कथमपि चरणोपलैश्चलद्भिः” माघः “तिष्ठद्भिः कथमपि” किरा०। “कथमपि गुरुशोका मा रुदन् माङ्गलिक्यः” भट्टिः। पदद्वयमित्येके।

कथम्भाव = पु० कमित्यस्य भावः। १ किं प्रकारतायाम् भूप्राप्तौ घञ् ६ त०। २ कस्यचित् प्रकारस्य प्राप्तौ ३ कथमित्यपेक्षायाञ्च। कथमित्याकाङ्क्षया प्राप्तिर्यस्य। इतिकर्त्तव्यारूपे अङ्गे त्रि० कथं शब्दे कर्कव्याख्यायाम् उदा०।

कथम्भूत = त्रि० कथं किंप्रकारं भूतःप्राप्तः भू–प्राप्तौ क्त २ त०। १ किप्रकारप्राप्ते २ कीदृशे च।

कथा = स्त्री कथ–नि० अ। १ कथने, “अभितप्तमयोऽपा मादेव भजते कैव कथा शरीरिणाम्” “आप्तागमानुमानाभ्यां साध्यं त्वां प्रति का कथा” रघुः। “का कथा वाणसन्धाने ज्याशब्देनैव दूरतः” शकु०। “सत्त्वासत्त्वकथा वृथा” खण्डनखा०। “कथाप्रसङ्गेन मिथः सखीमुखात्” नैष०। “कथाप्रसङ्गेन जनैरुदाहृतात्” किरा०। “प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां विदुः। परम्पराश्रया या स्यात् सा मताख्यायिका गुधेः” इत्युक्तलक्षणे २ स्तोकसत्यप्रबन्धरूपे वाक्ये। प्रबन्धरूपवाक्यसमुदायत्मकत्वाच्च कादम्बर्य्यादीनां कथात्वं तत्र शूद्रकनृपवृत्तान्तस्य सत्यत्वात् अन्यस्य सर्वस्य मिथ्या मूतस्यैव कविना कल्पनेन प्रबन्धनात्। पक्षप्रतिपक्षोपन्धसेन विचाररूपे ३ वाक्ये च। विचाराङ्गकथा हि त्रिविधा वादजल्पवितण्डाभेदात् तत्र “प्रमाणतर्कसाधनोपलम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो यादः”। “यथोक्तोपपन्नच्छलजातिनिग्रहस्थानसाधनोपलम्भोजल्पः” “स्वपक्षस्थापनाहीनो वितण्डा” गौ० सूत्रैः वादादयो लक्षिता विशेषस्तत्तच्छब्दे वक्ष्यते। कथायां साधुकथादि० ठक्। काथिक कथासाघौ त्रि०।

कथादि = पु० पाणिन्युक्ते तत्र साधावित्यर्थे ठक्प्रत्ययनिमित्ते शब्दगणे स च गणः “कथा विकथा विश्वकथा सङ्कथा वितण्डा कुष्ठविद् जनवाद जनेवाद जनोवाद वृत्ति संग्रह गुण गण आयुर्वेद”।

कथानक = न० कथयत्यत्र कथ–बा० आनक्। (कहानि) (गल्प) ख्याते कथाविशेषे यथा वेतालपञ्चविंशादि तत्र उपाख्यानबाहुल्येन कथानकतया व्यवहारः।

कथान्तर = न० कथाया अन्तरम् अवकाशः। “कथावसरे “स्मर्त्तव्योऽस्मि कथान्तरेषु भवता” मृच्छक० “स्मर्त्तव्योऽस्मिकथान्तरे” भा० व० १५१ अ०। अन्या कथा मयूर० नञा स० अस्वपदविग्रह। २ अन्यस्यां कथायाम् वादान्तरे।

कथापीठ = स्त्री कथायाः पीठमिव। कथाप्रस्तावसूचके ग्रन्थमुखे।

कथाप्रसङ्ग = पु० कथायाः प्रसङ्गः। १ कथायामासक्तौ “कथाप्रसङ्गेन मिथः सखीमुखात्” मैष०। २ बिषबैद्ये त्रि० विश्वः “कथाप्रसङ्गेनजनैरुदाहृतात्” किरा०। कथाप्रसङ्गानां विषवैद्यानामिनैः प्रभुर्जनैरित्यर्थः। कथायां प्रसङ्गो यस्य। ३ जल्पाके अनवतं गल्पकारके त्रि० शब्दरत्ना०। ४ वातुले” त्रि० मेदिनिः।

कथाप्राण = पु० कथया प्राणिति जीवति प्र + अन–अच्। कथोपजीविनि नाटकाचार्य्येशब्दर०।

कथामुख = न० कथाया आमुखम्। कथाप्रस्तावाख्ये ग्रन्थप्रारम्भांशवेदे।

कथाशेष = त्रि० कथा कथनमात्रं शेषोऽस्य। १ मृते मरुणाद्धि जनस्य कथामात्रमवशिष्यते। एवं शब्दशेषनामशेष कथावशेषादयोऽप्यत्र। अतएव नैषधे “कथासु शिष्यध्वमिति प्रमील्य सः” मरणपरतया कथासु शिष्यध्वमिति प्रयुक्तम्। ६ त०। २ कथासमाप्तौ पु०

कथित = त्रि० कथ–गौणकर्म्मासमभिव्याहारे मुख्ये कर्म्मणिक्त। १ उक्ते २ आख्यातादिना वाच्येऽर्थे च “अकथितञ्च” पा०। ३ किञ्चिद्रूपेण प्रतिपादिते त्रि० ४ परमेश्वरे पु० सर्व्वेभ्यः परत्वेन तस्य कथितत्वात्तथात्वम्। “इन्द्रियंश्यः पराह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः। महतः परमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः” इत्यनेनेश्वरस्यैव सर्व्वेभ्यः परत्वेन कथितत्वम्। अतएव “संसारमूतः कथितः” विष्णुसं० तस्य सहस्रनामसु ४ कथित इत्येकं नाम व्याख्यातं च भाष्येउक्तरूपेणैव, गौणे कर्म्मणि क्त। यस्यावबोधाय कश्चिदर्थः प्रतिपाद्यते ५ तस्मिन्नर्थेत्रि० भावे क्त। ६ कथने न०। “पूर्ब्बवृत्तकथितैः पुराविदः” रघः।

कथितपदता = स्त्री कथितं पूर्ब्बमुक्तं पदं यत्र वाक्ये तस्य भावः तल्। अलङ्कारोक्ते पुनरुक्ततारूपे वाक्यदोषभेदे “अधिकन्थूनकथितपदता हतवृत्तता” सा० द० वाक्यमात्रगतदोषगणनायामुक्तम् “रतिलीलाश्रमं भिन्ते सलीलमनिलो वहन्” अत्र लीलाशब्दस्य द्विःप्रयोगात् कथितपदत्वं वाक्ये दीषः उद्देश्यप्रतिनिर्द्देश्ये तु नायं दोषः। यथा “उदेति सविता ताम्रस्ताम्र एवास्तमेति च” इत्यादौ ताम्रशब्दस्योद्देश्यप्रतिनिर्द्देश्यतया नोक्तदोषः।

कथीकृत = त्रि० अकथा कथा सम्पद्यमाना क्रियते स्त्व कथा + च्वि–कृ–क्त। कथामात्रावशेषिते “अवगम्य कथी कृतं वपुः” कुमा०

कद = रोदने, वैक्लव्ये अक० आह्वाने मक० भ्वा० इदित् पर० सट्। कन्दति अकन्दीत्। चकन्द कन्दनम् प्रनिकन्दति

कद = विह्वलीभावे दिवा० आत्म० अक० सेट्। कदयते अकदिष्ट। चकदे। घटादि णिच्–कदयति ते। कदनम् णिच्–ल्युट्। कदनम् कद्यतेः कृदयतेर्वा क्विप् कद्।

कद् = अव्य०। कद–क्विप। किंशब्दार्थे। “कदु ब्रव आहनो वीच्या नॄन्” ऋ० १०, १०, ६, न यत् पुरा चकृमा कद्ध” ऋ० १०, ४, “कद्ध कदा खलु” भा०। कदू च स्या कृतम्। “कदू महीरधृष्टा” ऋ० ८, ६६, ९, १०। “कदू “कदा खलु” भा०।

कद = पु० कं ददाति दा–क। १ मेघे शब्दर० २ जलदायके ३ सुखदायके च त्रि०।

कदक = न० कदः मेघ इव कायति प्रकाशते उपारभागं अम्बराच्छादकत्वात् कै–क। १ विताने (चा~दोया) हेम०।

कदक्षर = न० कुत्सितमक्षरम् कोः कद्। कुतसितवर्णे।

कदग्नि = पु० कुत्सितोऽग्निः कोः कद्। मन्दाग्नौ। बहु०। मन्दाग्नियुक्ते त्रि०।

कदध्वन् = कुत्सितोऽध्वा कोः कद् न समा०। दुष्टपथे

कदन = न० कद–णिच्–घटादि० करणे ल्युट्। १ पापे, माये ल्युट्। २ मर्दने, ३ मारणे च। आधारे ल्युट्। ४ युद्वे। “तथा प्रजानां कदनं विदधुः कदनप्रियाः” भाग० ७, २, ११। “संसारचक्रकदनात् ग्रसता प्रणीतः” भाग० ७, ९, १६। कद–भावे ल्युट्। ५ विह्वलतायाम्।

कदन्न = न० कुत्सितमन्नं कोः कद्। कुत्सितान्ने। शास्त्रेऽभक्ष्यत्वेन वैद्यकेऽपथ्यत्वेन च कीर्त्तितमन्नञ्च कदन्नम्।

कदपत्य = न० कुत्सितमपत्यं कोः कद्। मूर्खादिरूपे कदाचारयुते चापत्ये। “कदपत्यभृतं दुःखं येन विन्दन्ति दुर्भरम्” भाग० ४, १३, ३७। “कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात्” भा० ४, १३, ४३।

कदम्ब = पु० कद–करणे अम्वच्। दर्शनेन विरहिवैक्लव्यसाधने (कदम) वृक्षे अमरः। “एकद्वारे चतुश्चक्रं वनमालाविमूषितम्। कदम्बकुसुमाकारं लक्ष्मीनारायणं विदुः” शालग्रामलक्षणे पुरा०। “कदम्वमुकुलस्थूलैरभिवृष्टां प्रजाश्रुभिः” रघुः “कदम्बमुकले द्वष्टिः समारोपिता” उद्भटः। “कदम्बोमधुरः शीतः कषायो लवणो गुरुः। सरोविष्टम्भकृद्रूक्षः कफस्तन्यानिलप्रदः” मावप्र० तद्गुणा उक्ताः। तस्यभेदास्तत्रैव। “नीपोमहाकदम्बः स्यात् धारा कदम्ब इत्यपि। द्वितीयोऽल्पप्रसारश्च वृत्तपुष्पः कदम्बकः”। हारिद्रस्तुरजोवलः। धूलीकदम्बकोंधाराकदम्बः षट्पदप्रियः। वृत्तपुष्पः केशराढ्यः प्रावृषेण्यः कदम्बकः। नीपो महाकदम्बोऽपि तथा बहुफलोमतः” इति भरतः। अत्र प्रावृषेण्य इत्युक्तिर्गौडादिदेशाभिष्रायेण मथुरादौचैत्रेऽपि तत्पुष्पाणादामस्माभिःप्रत्यक्षती बहुशो दृष्टत्वात् अत एव “यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिला” काव्यप्र० चैत्रमासे तत्पुष्पवर्णनमुपपद्यते। एतेन कदम्बपदं केलिकदम्बपरमिति” सा० द० रामचरणव्याख्यानं मथुरादिदेशानभिगमनसूचकम्। तेन देशभेदात्तस्य वसन्तप्रावृडुभयभवत्वमिति ज्यायः। कविभिस्तु वर्घाकाले एव तद्वर्णनं क्रियते यथा माघे रैवतकपर्व्वतवर्णने। वर्षर्तुवर्ण्णनमधिकृत्य “विहगाः कदम्बसुरभाविह गाः कलथन्त्यनुक्षणमनेकलयम्”। भ्रमयन्नुपैति मुहुरब्भ्रमयं पवनश्च धूतनवनीपवनः”। वर्षावर्ण्णने च तत्नैब “अनवनी नवनीपवनीरभिः” तस्य च प्रावृण्यात्वादेवः” कदम्ब शूरणं तथैत्यादिना हरिशयने भोजननिषेधः। इति” त्वत्सम्पर्कात् पुलकितमि० प्रौढपुष्पैः कदम्बैः” मेघद्र० आषाढ मधिकृत्यैव तद्ग्रन्थप्रणयनात्। इति तस्य प्रावेण्यत्वमपि। कदम्बवृक्षश्च मेरुविष्कम्भपर्वतरूपमन्दरम्य विशेषचिह्नवृक्ष“विष्कम्भशैलाः खलु मन्दरोऽस्य सुगन्धशैलो विपुलः सुपार्श्वः। तेषु क्रमात् सन्ति च केतुवृक्षाः कदम्बजम्बूवटपिप्पलकाख्याः। सि० शि०। अस्य सुमेरोः।

कदम्बक = पु० स्वार्थे कन्। १ कदम्बवृक्षे। संज्ञायां कन् संघर्षेण विह्वलीकरणसाधने २ समूहे न० अमरः। “गजकदम्बकमेचकमुच्चकैः” माघः। “पृथुकदम्बकदम्बकराजितम्” किरा०। “कदम्बकं वातमजं मृनाणाम्” भट्टिः कदम्ब इव कायति कै–क। ४ हरिद्रौ ३ सर्षपे च राजनि० कदम्बकोरकोपरिस्थसूक्ष्मांशतुल्यफलत्वात्तस्य तथात्वम्। ५ देवताडतृणे न० रत्नमा०।

कदम्बकीरकन्याय = पु कदम्बपुष्पस्य यथा सर्व्वावयवेषु युगपत्कोरकाणामुत्पत्तिस्तादृशे एकदोत्पत्तौ दृष्टान्तभेदे शब्दानामुत्पत्तिर्हि द्विविधा। “वीचितरङ्गन्यायेन तदुत्पत्तिस्तुकीर्त्तिता। कदम्बकोरकन्यायादुत्पत्तिः कस्यचिन्मते” भाषा० उक्ता। दशदिक्षु दश शब्दा उत्पद्यन्ते ततश्चान्ये दश शब्दा इत्येवं कदम्बकोरकोत्पत्तिवत् सर्व्वासु दिक्षूपर्य्युपरि शब्दानामुत्पत्तिरिति कस्य चिन्मतस् न्यायमते तु वीचितरङ्गन्यायेनैव तदुत्पत्तिरिति भेदः।

कदम्बद = पु० कदम्बः तदुपरिस्थः सूक्ष्मांश इव दीयते खण्ड्यते दो–खण्डने कर्म्मणि घञर्थे क। सर्षपे शब्दचन्द्रिका तस्य कदम्वकोरकोपरिस्थितसूक्ष्मांशतुल्यफल्त्वात्तथात्वम्।

कदम्बपुष्पा = स्त्री कदम्बस्येव पुष्पमस्यास्ति अशे० अच्। मुण्डिका वृक्षे (मुण्डेरी) रत्नमाला तस्य पुष्पमिव पुष्पमस्याः विग्रहे तु ङीप्। कदम्बपुश्री तत्रैवार्थे राजनि०।

कदम्बभ्रमवृत्त = न० कदम्बवत् भ्रमस्य वृत्तं गोलक्षेत्रम्। सि० शि० उक्ते गोलवृत्तभेदे। तद्बन्धप्रकारस्तत्रैव

“तत्रापसण्डलप्राच्या याम्या सौम्या च दिक् सदा। कदम्बभ्रमवृत्तं च बध्नीयात् परितो ध्रुवात्। लोले तुजिनतुल्यां शैस्तत्र ज्या क्रान्तिशिञ्जिसी। सर्व्वतः समवृत्ताच्च याम्योदक कुजसंगमे। तत्तिर्य्यग्गतसूत्राणां योगः स समसंज्ञकः। समध्रुवः कदम्बानामुपरि द्युचरान्नयेत्। सूत्राणि वृत्तरूपाणि वलनानि तदन्तरे। अक्षजं कलनं मध्ये स्यात् समध्रुवसूत्रयोः। कदम्बध्रुवसूत्रान्तरायनं च त्रिभेग्रहात्। कदम्बसमसूत्रान्तः स्फुटं सर्वदिशां च तत्”।

कदम्बवादिन् = पु० कदम्ब इति वादः संज्ञा अस्त्यस्य णिनि। कदम्बसंज्ञायुक्ते नीपे। “कदम्बवादिनो नीपान् दृष्ट्वा कण्टकितैरिव। समन्ततो भ्राजमानं कदम्बककदम्बकैः” काशी०। कदम्बककदम्बकैः कदम्बसमुदायैः स्वतुल्यकदम्बशब्दवाच्यान् नीपान् महाकदम्बान् दृष्ट्वा कण्टकितेर्जातपुलकैरिवेत्युत्प्रेक्षा।

कदम्बी = स्त्री कद–करणे अम्बच् गौरा० ङीष्। देवदालीलयायाम् राजनि०।

कदर = पु० कं जलं दृणातिदृ–अच्। १ श्वेतखदिरे तस्य सेवनात् मुखस्थितस्यश्लेष्मणा संहतरूपजलस्य दारणात् “कदरो विशदोवर्ण्योमुखरोगकफास्रजित्” इति भावप्र० तद्गुणमध्ये सुखकफनाशित्वोक्तेस्तथात्वम्। २ पायसभेदे (छेडापायस) न० शब्दमाला। तस्य अम्लादियोगात् दुग्धान्तर्गतजलदारणात् तथात्वम्। कदः विह्वलकारिका अरा अस्य। ३ क्रकचे(करात)मेदि० सुश्रुतोक्ते ४ क्षुद्ररोगभेदे स च रोगः “समासेन चत्वारिंशत् क्षुद्ररोगा भवन्तीत्युद्दिश्य” “कदरम् अजगल्लिक इत्यादिना विभज्य “शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः। मेदोरक्तानुगैश्चैव दोषैर्वेधादथापि वा। कोलमात्रः सरुक्स्रावो जायते कदरस्तु सः” लक्षितः (पाएरजासुडा) तत्र बिभागे कदरमित्युक्तेर्नपुंसकताप्यस्य।

कदर्थ = पु० कुत्सितोऽर्थः कोः कद्। कुत्सितपदार्थे। ततः तत्करोतीति” णिच्। कदर्थयति कुत्सितमर्थं करोतीत्यर्थः। ततः क्त कदर्थितः। कुत्सितार्थीकृते। “भ्रष्टभूषणकदर्थितमाल्यः” माघः। ल्युट्। कदर्थनम् कुतसिताथकरणे। युच्। कदर्थना तत्रैव स्त्री। अकदर्थं कदर्थं करोति च्वि कदर्थीकृ–क्त। कदर्थीकृत अभूतकदर्थे कदर्थतया कृते त्रि०। “केशैः कदर्थीकृतवीर्य्यसारः” किरा०।

कदर्य्य = त्रि० कुत्सितोऽर्य्यः स्वामी कुगतिस० कोः कद्। सति विभवे १ अदातरि, क्षुद्रे। “आत्मानं धर्मकृत्यञ्च पुत्रदारांश्च पातयन्। यो लोभात् सञ्चिनोत्यर्थान् स कदर्य्य इति स्मृतः” इत्युक्तलणे २ अर्थसञ्चयकारके च। “दीक्षितस्य कदर्य्यस्य बद्धस्य निगडस्य च” “आत्रेयस्य कदर्य्यस्य वदान्यस्य च बार्द्धुर्षेः” मनुः “उवाच न मे जनपदे कदर्य्यो न मद्यपोनानाहिताग्निर्नाविद्वान् न खेरी” छा० उ०।

कदल = पु० कद–वृषा० कलच्। १ रम्भावृक्षे मेदि०। २ पृश्नौ (चाकुलिया) ३ डिम्बिकायाम् (डिमि) शाल्मलिवृक्षे च स्त्री मेदि०। अजादेराकृतिगणत्वात् टाप्।

कदली = स्त्री काय जलाय दल्यते त्वगादौ जलबाहुल्यात् गौरा० ङीष्। १ रम्भावृक्षे, अमरः। कदली गुणादि भावप्र० उक्ता यथा। “कदली वारणा मोचाम्बुसारांशुमनीफला। मोचाफलं स्वादु शीतं विष्टम्भि कफनुद्- गुरु। स्निग्धं पित्तास्रतृड्दाहक्षतक्षयसमीरजित्। पक्वं स्वादु हिमं पाके स्वादु वृष्यञ्च वृंहणम्। क्षुत्तृष्णा नेत्रगदहृन्मेहध्नं रुचिमांसकृत्। माणिक्यमूर्त्त्यामृतचम्पकाद्या भेदाः कदल्याबहवोऽपि सन्ति। उक्ता गुणास्तेष्वधिका भवन्ति निर्दोषता स्याल्लघुता च तेषाम्”। रम्भायाश्च स्तम्भे जलाधिकयुक्तत्वात् शैत्याधिक्ययुक्तपत्रत्वाच्चतथात्वम् “कदलो कदली करभः करमः करिराजकरः करिराजकरः” प्रसन्नरा०। अत्र द्वितीय कदलीपदम् शैत्यादिगुणयोगात् गौणमिति सा० द० समर्थितम् “ऐकान्तशैत्यात्कदलीविशेषाः” कुमा०। २ वैजयन्त्याम्कदल्याकारपत्ररूपवस्त्रवत्त्वात् तथात्वम् अतएव माघे कदल्याः कामवैजयन्तीत्वेनौत्प्रेक्षणम् तदीयाकारसाम्यात् यथा। “जगद्वशीकर्त्तुमिमाः स्मरस्य प्रभावनीके तमवै जयन्तीः। इत्यस्य तेने कदलीर्मधश्रीः प्रवनी केतनवैजयन्ती” माघः। “क्रीडाशैलः कनककदलावष्टन प्रेक्षणीयः” “यास्यत्यूरुःसरसकदलीस्तम्भगौरश्चलत्वम्” मेघ०। स्वार्थेकन् रम्भावृक्षादौ। “अभ्युल्लसत्कदलिकावनराजिरुच्चैः” माघः। ३ हस्तिपताकायां हारा०। “कदलिका कामकारिणः” काद०। ४ मृगभेदे “कदलीमृगमोकानि कृष्णश्यामारुणानि च। काम्बोजः प्राहिणोत्तस्मैः” भा० स० ४७ अ० “मोकानि अजिनानि” नीलक०। तेन तस्य कम्बोजदेशस्थत्वं गम्यते तस्य च कदलीस्तम्भवदभङ्गुरपादकत्वात्तथात्वम्। कदल्याः फलं पुष्पं वा अण् तस्य लुप् लुपि स्त्रीपरत्ययस्यापि लुक्। कदल तत्फले न०। “पनसे कदलं कदले च घृतं घृते च लवण लवणे च दधि” वैद्यकम्। “कदली लवनी धात्री” इत्यादौ तु उपचारात् तत्फलपरता। संघे खण्ड च। कदलीखण्डतत्संघे न०।

कदलोकन्द = पु० ६ त०। रम्भामूले तद्गुणाश्च भावप्र० उक्ता यथा “शीतलः कदलीकन्दो बल्यः केश्योऽम्लपित्तजित्। वह्निकृद्दाहहारी च मधुरो रुचिकारकः”। “कन्दः कदल्यादलितोनितान्तं संस्वेदितो हिङ्गुघृतेन राद्धः। उद्धूलितः सैन्धवरेणुनाथ मरीचसंम्पर्कत एष रुच्यः”

कन्दलीकुसुम = न० ६ त०। (मोचा) कदलीपुष्पे। “कदल्याः कुसुमं स्निग्धं मधुरं तुवरं गुरु। वातपित्तहरं शीतं रक्तपित्तक्षयप्रणुत्” भावप्र० तद्गुणा उक्ताः। कदलोपुष्परम्भापुष्पादयोप्यत्र न०

कदलीदण्ड = पु० ६ त०। (थोड) ख्याते कदलीस्तस्तमध्यस्थे पदार्थे “कृत्तः खिन्नः सलिलविधृतः कृत्ततन्तुः प्रभिन्नः कम्बोर्भृत्या जलविरहितः क्षारजम्बीरपुष्टः। मध्ये मध्ये तनुशकलितेनार्द्रकेणातिपूर्णः स्वादुस्तूर्णं भवति सुतरां गर्भदण्डः कदल्याः। योनिदोषहरोदण्ड कादल्योऽसृक्दरं जयेत्। रक्तपित्तहरः शीतः सुरुच्योऽग्निप्रवर्द्धनः” भावप्र० तद्गुणाद्युक्तम्।

कदा = अव्य० कस्मिन् काले किम् + दा–कादेशः। कस्मिनंकाले इत्यर्थेअनद्यतने काले तु तत्रार्थेवा र्हिल् कर्हि कदा वा। “कदा काश्यां गमिष्यामि कदा द्रक्ष्यामि शङ्करम्। इति ब्रुवाणः सततं काशीवासफलं लभेत्” काशीख०। “न पादौ धावयेवत् कांस्ये कदा चिदपि भाजने” मनुः “कदा वाराणस्यामिह सुरधुनीरीधसि वसन्” “कदा वृन्दारण्ये विमलयमुनातीरपुलिने” “कदायोध्यामध्येविमलसरयूतीरपुलिने। “विभाषा कदाकर्ह्योः” पा० एतद्योगे भव्ये लट्। “कदा कर्हि भुङ्क्ते भोक्ष्यते भोक्ता वा” सि० कौ०। अव्ययत्वात् ततो भवार्थे ट्युल् तुट् च। कदातन कस्मिन् काले भवे त्रि० स्त्रियां ङीप्

कदाकार = त्रि० कुत्सिताकारोऽस्य कोः कद्। १ कुत्सिताकारे कुगति स०। २ कुत्सिताकारे पु०।

कदाख्य = पु० कुत्सिता आख्या यस्य कदादेशः। (कुड) १ वृक्षे कुष्ठौषधौ शब्दच०। २ कुत्सिताख्ये त्रि०। कुगतिस०। ३ कुत्सिताख्यायां स्त्री।

कदाचन = अव्य० कदा + चन मुग्ध०। अनिर्द्धारिते कस्मिंश्चित् काले इत्यर्थे “कदाचन स्तरीरसि” श्रुतिः। “पञ्चाननगते भानौ पक्षयोरुभयोरपि। चतुर्थ्यामुदितश्चन्द्रो नेक्षितव्यः कदाचन” ति० त० पु०। कदा + चित् मुग्ध०।

कदाचित् कदापीत्यर्थे अव्य०। “ततः कदाचिदुर्व्वश्यां भैरवो मैथुनं ययौ” कालिका० “कण्डूयमानेन कटं कदाचित्” रघुः। पा० चिच्चनप्रत्ययाभावात् “असाकल्ये तु चिच्चनेत्यमरोक्तेश्च पदद्वयमिति विवेक्तव्यम्।

कदामत्त = पु० कदाचिन्मत्तः। ऋषिभेदे ततः गोत्रापत्ये इञ्। कादामत्ति तदपत्ये पुं स्त्री तस्य बहुत्वे उपका० वां इञो लुक्। कादामत्तयः कदामत्ताः।

कदुष्ण = न० ईषत् उष्णम् ईषदर्थककोः कद्। १ ईषदुष्णे स्पर्शे २ तद्वति त्रि०। “श्वसन् कदुष्णं पुरमाविवेश” भट्टिः। “कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणः” “कदुष्णं कर्णयोर्देयमेतद्वा वेदनापहम्” सुश्रु०। पक्षे कादेशः कोष्ण तदर्थयोः “भुवं कोष्णेन कुण्डोध्नी” रघुः। पक्षे कवादेशः कबोष्ण उक्तार्थयो।

कद्ड = कार्कश्ये अक० कड्डवत् दोपधत्वात् क्विप् कद् इति भेदः

कद्रथ = पु० कुत्सितोरथः कोः कद्। कुत्सिते रथे “युधि कद्रथवद्भीमं बभञ्च ध्वजशालिनम्” भट्टिः।

कद्रु = पु० कद–रु। १ पिङ्गलवर्णे। २ तद्वति त्रि० “प्राजापत्यं कद्रुभालभेत” तैत्ति० २, १, ४, २, ३ कर्वुरवर्णे पु० ४ तद्वति त्रि० “वासः कृष्णशं कद्रु” कात्या० २२, ४, १२, “कद्रुकर्वुरं वासः” संग्रहव्या०। संज्ञायामूञ्। कद्रू ६ नागमातरि दक्षप्रजापतेः कन्याभेदरूपे कश्यपपत्रीभेदे स्त्री “कद्रूस्तु सुषुवे नागान्” भा० आ०। काद्रवेयशब्दे विवृतिः। “प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश। अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा। क्रोधा प्रधा च विश्वा च विनता कपिला मुनिः। कद्रूश्च सनुजव्याघ्र! दक्षकन्यैव भारत” भा० आ० ६५ अ०। “लोका भारतशार्दूल! कश्यपस्य निबोध मे। अदितिर्दितिर्द्दनुश्चैव अरिष्टा सुरसा खशा। सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा। कद्रुर्मुनिश्च राजेन्द्र! ताखपत्यानि मे शृणु भा० हरि० ३ अ०

कद्रुण = त्रि० कद्रुरस्त्यस्य पाभा० न। पिङ्गलवर्ण्णन्विते।

कद्रु(द्रू)पुत्र = पु० ६ त० पृषो० वा ह्रस्वः। १ सर्पे। कद्रु (द्रू)सुतादयोऽप्यत्रार्थे। तस्य कद्रूतनयत्वं काद्रवेयशब्दे वक्ष्यते।

कद्र्यञ्च् = त्रि० कस्मिन्नञ्चति किम् + अनृचु–क्विप् अद्र्यादेशः किमः कः। अनिश्चित देशगन्तरि कस्मिन् गन्तरि अनिश्चितदेशगमने। शसादावचि अल्लोपदीर्धौ। कद्रीचः कद्रीचा इत्यादि। स्त्रियां ङीप् अल्लोपदीर्घौ। कद्रीची। “सा कद्रीची कं स्विदर्द्धं परागात्” ऋ० १, १६४, १ उ। “कद्रीची कगतेत्यनिश्चितगमनादित्थं प्राप्तवती” भा०।

कद्वत् = त्रि० कः कशब्दोऽस्त्यस्य मतुप् मस्य वः पृषो०। कशब्दयुक्ते मन्त्रादौ स्त्रियां ङीप्। “कद्वत्यो याज्यानुवाक्याः कोहि प्रजापतिः” शत० ब्रा० ६, २, २, ५।

कद्वद = त्रि० कुत्सितं वदति वद–अच् कोः कदादेशः। गर्हितवाक्यवादिनि अमरः “येन जातं प्रियापाये कद्वदं हंसकोकिलम्” भट्टिः। २ दुःश्रवशब्दयुक्ते च “वाग्विदां वरमकद्वदो नृपः” माघः।

कद्वर = त्रि० कं जलमिवाचरति क + क्विप् शतृ कता व्रियते घृ–कर्म्मणि अप्। दधिस्नेहे तक्रभेदे कद्वरे त्रिकाण्ड०।

कधप्रिय = पु० स्कन्धं प्रीणाति प्री–क वेदे पृषो। स्कन्धप्रिये। “कस्त ऊषः कधप्रिये भुजे” ऋ० १, ३० २। स्कन्धं प्रीणाति प्री–क्विप् वेदे पृषो०। कधप्री तत्रैवार्थे। “कन्न नूनं कधप्रियः पिता पुत्रं न हस्तयोः दघिध्वे वृक्तबर्हिषः” ऋ० १, ३८, १।

कन = प्रीतौ अक० गतौ सक० भ्वा० पर० सेट्। कनति अकनीतकानीत् चकान। प्रनिकनति। ईदित्। कान्तः। ञीदित् वर्त्तमाने क्त। कान्तोवर्त्तते। कान्तिः। कननम्। “अविक्रीतो अकानिषं पुनर्यन्” ऋ० ४, २४, ९,

कनक = न० कनी दीप्तौ कृञादि० वुन्। १ स्वर्ण्णे अमरः। २ पलाशवृक्षे ३ नागकेषरे ४ धस्तूरे ५ काञ्चनालवृक्षे ६ कालीयवृक्षे ७ चम्पकवृक्षे च पु० मेदि०। ८ कासमर्द्दवृक्षे पु० राजनि० ९ लाक्षातरौ शब्दमा०। “सुप्तः सन् कनकपलाशकर्ण्णिकारान्” सुश्रु०। “सौदामन्या कनकनिकषस्निग्धया दर्शयोर्व्वीम्” “नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः”। अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढै” मेध० “कनककुण्डलवान् किरिटी” विष्णुध्यानम् “कनकचषकमेतद्रोचनालोहितेन” माघः। “अद्यापि तां कनकचम्पकदामगौरीम्” चोरप०। कूर्मविभागे बृह० सं० “अपरस्याम् मणिसान्वित्युक्रम्य तारक्षितिबृद्ध्ववैश्यकनकशकाः” इत्युक्ते १० पश्चिमदेशस्थदेशभेदे पु०। कनकस्येम् परिमाणम् अण्। कानक तत्परिमाणे निष्कादौ त्रि०। काञ्चनोत्पत्तिकथा च अग्निरेतःशब्दे ५९ पृष्ठे उक्ता। भावप्र० तदुत्पत्तिगुणादिकमुक्तं यथा “पुरा निजाश्रमस्थानां सप्तर्षीणां जितात्मनाम्। मरीचिरङ्गिराअत्रिः पुलस्त्यः पुलहः क्रतुः। वशिष्टश्चेति सप्तैते कीर्त्तिताः परमर्षयः। पत्नीर्बिलोक्य लावण्यलक्ष्मीसम्पन्नयौवनाः। कन्दर्पदर्पविध्वस्तचेतसो जातवेदसः। पतितं यद्धरापृष्ठे रेतस्तद्धेमतामगात्। कृत्रिमञ्चापि भवति तद्रसेन्द्रस्य येधतः। तारं शुल्वोत्थितं स्निग्धं कोमलं गुरु हेम सत्। (सत् उत्तमम्) तच्छेतं कठिनं रूक्षं विवर्णं समलं दलम्। दाहे च्छेदे सितं स्वेतं कषे त्याज्यं लघु स्फुटम्। सुवर्णं शीतलं वृष्यं वल्यं गुरु रसायनम्। स्वादुतिक्तञ्च तुवरं पाके च स्वादु पिच्छिलम्। पवित्रं वृंहणं नेत्र्यं मेधास्मृतिमति प्रदम्। हद्यम्धयुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत्। विषद्वयक्षयोन्मादत्रिदोषज्वरशोषजित्। बल्यं सवीर्य्यं हरते नराणां रोगव्रजान् शोषयतीह काये। असौख्यकृच्चापि सदा सुवर्णमशुद्धमेतन्मरणञ्च कुर्य्यात्। असम्यग्मारितं स्वर्णं वलं वीर्य्यञ्च नाशयेत्। करोति रोगान् मृत्युञ्च तद्धन्याद्यत्नतस्ततः”।

कनकक्षार = पु० कनकस्य द्रावणाय क्षारः। (सोहागा) टङ्गे राजनि०। तत्सम्पर्कात् हि झटिति कनकं द्रवति।

कनकदण्ड = न० कनकस्य दण्डोयत्र। राजच्छत्रे त्रिका० कनकच्छत्रादयोऽप्यत्र।

कनकध्वज = पु० धृतराष्ट्रपुत्रभेदे। “दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः” भा० आ० ११७ अ०। तत्पुत्रकीर्त्तने।

कनकपल = पुं स्त्री कनकमिव पलं मांसमस्य। मत्स्यभेदे हारा० स्त्रियां ङीष्। तत्राद्यन्तयोर्मत्स्यपर्य्यायकथनात् मध्ये सुवर्ण्णपलरूपपरिमाणार्थकताकल्पनं शब्द कल्पद्रुमादौ प्रमादिकमेव। ६ त०। कनकस्य कर्षचतुष्टय रूपपलपरिमाणे न०।

कनकपत्र = न० कनकनिर्म्मितम् पत्रं पत्राकारं भूषणम्। (कानपात) १ कनकमयकर्ण्णाभरणभेदे। “अद्यापि तन्मनसि सम्परिवर्त्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या। जीवेति मङ्गलवचः परिहृत्य कोपात् कर्ण्णेकृतं कनकपत्रमनालपन्त्या” चोरप०। “कनकपत्रालङ्कृतया” काद०।

कनकप्रभा = स्त्री कनकस्य प्रभेव प्रभा यस्याः। महाज्योति ष्मतीलतायाम् राजनि०

कनकप्रसवा = स्त्री कनकमिव प्रसवः पुष्पं यस्याः। स्वर्णकेतक्याम् राजनि०।

कनकमय = त्रि० कनकस्य विकारः मयट्। स्वर्ण्णविकारे “आधत्ते कनकमयस्य यत्र लक्ष्मीम्” किरा०।

कनकरम्भा = स्त्री कनकवर्ण्णफलिका रम्भा शा० त०। स्वर्णकदल्याम् राजनि०

कनकरस = पु० कनकवर्ण्णोरस उपरसः। १ हरिताले राजनि० तस्य स्वर्ण्णवर्ण्णत्वात् पारदतुत्यगुणतयोपरसत्वाच्च तथात्वम्। उपरसाश्च भाबप्र० दर्शिताः यथा। “गन्धोहिङ्गुलमभ्रतालकशिलाः स्नोतोऽञ्जनं टङ्कनम्। राजावर्त्तकचुम्बकौ स्फटिकया शङ्गी खटी गौरिकम्। काशीसं रसकं कपर्द्दसिकता वोलाश्च कङ्कुष्ठकम् सौराष्ट्री च मता अमी उपरसाः सूतस्य किञ्चिद्गुणैः। (सूतस्य पारदस्य) “खर्ण्णवर्ण्णं गुरु स्निग्धम् इत्यनेन तस्य गुणादिकमुक्तम् तत्रैव। ततश्च स्वर्ण्णवर्णत्वात् पारदात् किञ्चिदूनगुणकत्वा च्चास्यतथात्वम्। ६ त०। स्वर्ण्णस्य द्रवीभूते २ रसे च।

कनकलोद्भव = पु० कनतीति कना दीप्ता कला अवयवः तया उद्भवति उद् + भू–अच्। (धूना) सालनिर्य्यासे। राजनि

कनकसूत्र = न० कनकनिर्म्मितं सूत्रम्। (सोनारतार) स्वर्ण्णसूत्रे

कनकाङ्गद = न० कनकमयमङ्गदम्। स्वर्ण्णमये केयूरे। “कनकाङ्गदद्युतिरस्य” माघः। तदस्त्यस्य मतुप् मस्य वः। कनका- ङ्गदवत् इनि। कनकाङ्गदिन् तद्युक्ते त्रि० विष्णौ पु० “महावराहोगोविन्दः सुषेणः कनकाङ्गदी” विष्णुस०।

कनकाचल = पु० कनकमयोऽचलः। १ सुमेरुपर्व्वते, धान्याचलादिषु दशसु दानीयपर्व्वतेषु मध्ये दानीये स्वर्ण्णपर्व्वते च। हेमशैलस्वर्ण्णशैलादयोऽप्यत्र। तद्दानकालपरिमाणादि मत्स्यपु० उक्तं यथा “प्रथमोधान्यशैलः स्याद्द्वितीयो लवणाचलः। गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्व्यतः। पञ्चमस्तिलशैलः स्यात् षष्ठः कार्पासपर्वतः। सप्तमो घृतशैलश्च रत्नशैलस्तथाष्टमः। राजतो नवमस्तद्वद्दशमः शर्कराचलः। वक्ष्ये विधानमेतेषां यथाबदनुपूर्ब्बशः। अयने विषुवे पुण्ये व्यतीपाते दिनक्षये। शुक्लपक्षे तृतीयायामुपरागे शशिक्षये। विवाहोत्सवयज्ञेषु द्वादश्यामथवा पुनः। शुक्लायां पञ्चदश्यां वा पुण्यर्क्षेवा विधानतः। धान्यशैलादयो देयाः यथा शास्त्रविधानतः। तीर्थे चायतने वापि गोष्ठे वा भवनाङ्गने। मण्डपं कारद्भक्त्या चतुरस्रमुदङ्मुखम्। प्रागुदक्प्लवनं तद्वत् प्राङ्मुखं वा विधानतः! गोमयेनानुलिप्तायां मूमावास्तीर्य्यवै कुशान्। तन्मध्ये पर्वतं कुर्य्याद्विष्कम्भपर्व्वतान्वितम्”। विधानयुक्तविष्कम्भपर्ब्धतनिर्म्माणप्रकारादि धान्यपर्व्वत हेमाब्दे वक्ष्यते। अस्य परिमाणमुक्तं ब्रह्माण्ड पु०। “अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम्। यस्य प्रसादाद्भवनं विरिञ्चेर्याति मानवः। उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः। तदर्द्धेनाधरस्तद्वत् अल्प वित्तोऽपि शक्तितः। दद्यादेकपलादूर्द्धं यथा शक्त्या विमत्सरः। धान्यपर्व्वतवत् सर्व्वं विदध्यात् विधिमुत्तमम्। विष्कम्भशैलास्तद्वच्च ऋत्विग्भ्यः प्रतीपादयेत्”।

कनकाध्यक्ष = पु० ७ त०। सुवर्ण्णरक्षणादावधिकृते अमरः।

कनकायु = पु० धृष्टराष्ट्रपुत्रभेदे तत्पुत्रगणने भा० आ० ६७ अ० “उग्रायुधोभीमरेताः कनकायुर्दृढायुधः”।

कनकार = पु० कनकं दीप्तं यथा ऋच्छति सर्व्वतो व्याप्नोति ऋ–अण्। कोविदारवृक्षे। राजनि०।

कनकालुका = स्त्री कनकनिर्म्मिता आलुः संज्ञायां कन्। भृङ्गारे (झारी) सौवर्णकलसभेदे अमरः।

कनकावतीमाधव = कनकावतीं माधवञ्चाधिकृत्य कृतोग्रन्थः अण् आख्याधिकायाम् तस्य लुक्। कनकावतीमाधववृत्तान्ताख्यापके शिल्पकरूपनाटकभेदे तल्लक्षणं शिल्पकशब्दे वक्ष्यते।

कनकाह्व = पु० कतकस्याह्वा आह्वा यस्य। १ सुवर्ण्णनामनामके नागकेशरे न०। २ धूस्तूरेपु०! अमरः कनकाह्वयीऽप्यत्र राजनि०। पुष्पे न०।

कनखल = पु०। १ तीर्थभेदे तच्च तीर्थं गङ्गाद्वारसनीपस्थम् यथोक्तं भा० व० ९१ अ० “बिभेद तरसा गङ्गां गङ्गाद्वारं युधिष्ठिर पुण्यं तद्ध्यायतं राजन्! ब्रह्मर्षिगणसेवितम्। सनत्कुमारः कौरव्य! पुण्यं कनखलं तथा। पर्व्वतस्य पुरुर्नाम यत्र जातः पुरूरवाः”। तस्य माहात्म्यमुक्तम् “गङ्काद्वारे कुशावर्त्ते विल्वके नीलपर्व्वते। तथा कनखले स्रात्वा धूतपाष्मा दिवं व्रजेत्” भा० अनु० २५। “विशेषो वै कनखले प्रयागे परमं महत्। यत्राकार्य्यशतं कृत्वा कृतं गङ्गावसेचनम्। सर्व्व तत्तस्य गङ्गापोदहत्यग्निरिवेन्धनम्” भा० व० ८५ अ०। “ततो गच्छेत धर्म्मज्ञ नमस्कृत्य महागिरिम्। स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः” इत्यु पक्रम्य “ततः कनस्यले स्नात्वा त्रिरात्रोपोषितोनरः। अश्वमेधमवाप्नोति स्वर्गलोकञ्च विन्दति” भा० व० ८४। तत्तीर्थस्थ २ समीपस्थपर्ब्बते च “एते कनखला राजन्नृषीणां दयितानृप!। एषा प्रकाशते गङ्गा युधिष्ठिर! महानदी” भा० व० १३५ अ० “तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णाम्” मेघ० “तीर्थं कनखलं नाम गङ्गाद्वारेऽस्ति पावनम्। यत्र काञ्चनपातेन जाह्नवी देवदन्तिना उशीनरगिरिप्रस्थाद्भित्त्वात्मवतारिता” कथासरित्सागरः।

कनन = त्रि० कन–युच्। काणे एकनेत्रे हेमच०

कनल = त्रि० कन–अलच्। दीप्ते। तेन निर्वृत्तादि अरीहणा० चतुरर्थ्याम् वुञ्। कानलक तन्निर्वृत्तादौ त्रि०

कनवक = पु० यदुवंम्ये वसुदेवम्रातरि शूरस्य पुत्रभेदे। शूरात् वसुदेवोत्पत्तिमुक्त्वा। “देवभागस्ततोजज्ञे तथा देवश्रवाः पुनः। अनाधृष्टिः कनवको वत्सवानथ गृञ्जिमः” हरि० ३५। तत्रैव “तन्द्रिजस्तन्द्रिपालश्च सुतौ कनवकस्य तु”

कना = स्त्रो कनि नामधातु–अच्। कनिष्ठायाम्। “पुनस्तदा वहति यत् कनाया दुहितुः” ऋ० १०, ६१, ५।

कनि = नामधातु युवानं अल्पं वा करोति णिच्–कनादेशः उभय० सक० सेट्। कनयति ते। “कीर्त्तने कनयन्ति च” भट्टिः

कनिक्रद = त्रि० क्रन्द–यङ् लुक् अच्–चुत्वाभावः निगागमश्च। अत्यन्तक्रन्दितरि। “इमं मा हिंसारेकशफं पशुं कनिक्रदम्” यजु० ३, ४८। दाधर्तीत्यादि पा० सू० कनिक्रददिति प्रकृतिभागमात्रनिपातः तेनान्यप्रत्ययेऽपि रूपं भवत्येव।

कनिष्ठ = त्रि० अतिशयेन युवा अल्पो वा इष्ठन् कनादेशः। १ अतितरुणे २ अत्यल्पे। ३ अनुजे पु० स्त्री। ४ दुर्वलाङ्गलौ अल्पाङ्गुलौ (कडेआङ्गल) स्त्री मेदि०। ५ कनिष्ठस्य भार्य्यायां ६ अल्पवयस्कायां स्त्रियाम् स्त्री। तत्र पुंयोगलक्षणं ङीषं वयोवाचिलक्षणं ङीयं च बाधित्वा अजादिपाठात् टाप्। ७ नायिकाभेदे सा च रमसञ्जर्य्यां धीराऽधीराधीराधीराभेदेन त्रिविधेति विभज्य परिणीतत्वे सति भतृंन्यूनस्नेहा कनिष्ठेति लक्षयित्वा धीराधीरादिज्यष्ठकनिष्ठयोरुदाहरणमुक्तम् तत्र धीरे ज्येष्ठाकनिष्ठे यथा “एकस्मिन् शयने सरोरुहदृशोर्विज्ञाय निद्रार्त्तयोरेकां पल्ववितावगुण्ठनवतीमुत्कन्धरीं दृष्टवान्”। अन्यस्याः सविधं समेत्य निभृतं व्यालोलहस्ता ङ्गुलिव्यापारैर्वसनाञ्चलं चपलयन् स्वापच्युतिं कॢप्तवान्। अधीरे ज्येष्ठाकनिष्ठे यथा “अन्तः कोपकषायिते प्रियतम पश्यन् घने कानने पुष्पस्यावचयाय नम्रवदना मेकां समायोजयन्। अर्द्धोन्मीलितलोचनाञ्चलचमत्काराभिरामाननां स्मेराभाधरपल्लवां नवबधूमन्यां समालिङ्गति”। घीराधीरे ज्येष्ठाकनिष्ठे यथा “धैर्य्याधैर्य्यपरिग्रहग्रहिलयोरेणीदृशोः प्रीतये रत्नद्वन्द्वमनन्तकान्ति रुचिरं मुष्टिद्वये न्यस्तवान्। एकस्याः कलयन् करे प्रथमतोरत्नं परस्याःप्रियो हस्ताहस्तिमिषात् स्मृशन् कुचतटी मानन्दमाविन्दति”। ८ अत्यल्पपरिमिते त्रि०। “गायत्री छन्दसां कनिष्ठा “तैत्ति० ६, १, ६, ३। वैदिकछन्दसां गायत्र्याः प्रथमत्वेन उष्णिगादितीऽल्पाक्षरत्वात् कनिष्ठत्वम् “तद्वै कनिष्ठ छन्दः यद् गायत्री प्रथमा छन्दसां युज्यते” शत० १, ८, २, १०। ९ उत्तरकालजाते त्रि०। “गर्द्दभः कनिष्ठं पशूना प्रजायते” तैत्ति० ५, १, ५, ५। “अथ यदजाः कनिष्ठानि पात्राणि खलु प्रजायन्ते तस्मादेतास्त्रिः संवत्सरस्य विजायमाना द्वौ त्रोन् विजनयन्त्यः कनिष्ठाः कनिष्ठानि हि पात्राणि खलु प्रजायन्ते” शत० ब्रा० ४, ५, ५, ९। १० अधःपदे ११ अधरे च त्रि०। “छाययेवायं पुरुषः पाप्मनानुषक्तः सोऽस्य एव कनिष्टो भवत्यधःपदमिवेयस्यते तत्कनिष्ठमिति” शत० व्रा० २, २, ३, २। १२ परजातमात्रे। “अन्वञ्चोऽमात्या अधोनिवीताः प्रकृत्तशिखाः ज्योष्ठप्रथमाः कनिष्ठजघन्याः” आ० ४, २, ९। “यो यः कनिष्ठः स पृष्ठतो गच्छेत् नारा० “पुत्रः कनिष्ठः ज्येष्ठायां कनिष्ठायाञ्च पूर्वजः” मनुः। “सर्वं ज्येष्ठः कनिष्ठश्च संहरेतां यथोदितम्” “येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यात् सव्ययं धनमिति” मनुः “सरत्रिः स्यादरत्निस्तु निष्कनिष्टेन सुष्टिना” अमरः। कनिष्ठायाः अपत्यं ढकञ्–इनुक्। कानिष्ठिनेय कनिष्ठाया अपत्ये। “कृते कानिष्ठिनेयस्य भरतस्य विवासितम्” भट्टिः। १३ महादेवे पु० “नमो ज्येष्ठाय कनिष्ठाय च” यजु० १६, ३२। तस्य च “अणोरणीयान् महतोमहीयान्” इति श्रुत्या अणुतरत्वक्तोक्तेः कनिष्टत्वम्।

कनिष्ठपद = न० वीजगणितोक्ते ज्येष्ठापेक्षया न्यूनसख्यान्विते पदे वर्गमूले। वर्गप्रकृतौ तदानयनप्रकारः स प्रयोजनं तत्र दर्शितं यथा “इष्टं ह्रस्वंतस्य वर्ग्गः प्रकृत्या क्षण्णोयुक्तोवर्जितोवा स येन। मूलं दद्यात् क्षेपकं तं धनर्णं मूलं तच्च ज्येष्ठमूलं वदन्ति।। ह्रस्वज्येष्ठक्षेपकान्न्यस्य तेषां तानन्यान् वाधोनियेश्य क्रमेण। साध्यान्येभ्योभावनाभिर्ब्ब हूनि मूलान्येषां भावना प्रोच्यतेऽतः। वज्वाभ्यासो ज्येष्ठलघ्वोस्तदैक्यं ह्रस्वं लघ्वोराहतिश्च प्रकृत्यां क्षुण्णा ज्येष्ठाभ्यासयुग्ज्येष्ठसूलं तत्राभ्यासः क्षेपयोः क्षेपकः स्यात्।। ह्रखं वज्राभ्यासयोरन्तरं वा लघ्वोर्धातोयः प्रकृत्या विनिघ्नः। घातो यश्च ज्येष्ठयोस्तद्वियोगोज्येष्ठं क्षेपोऽत्रापि च क्षेपघातः।। इष्टवर्ग्गहृतः क्षेपः क्षेपः स्यादिष्टभाजितः। मूले ते स्तोऽथ वा क्षेपः क्षुण्णः क्षुण्णे तदा पदे।। इष्टवर्ग्गप्रकृत्योर्यद्विवरं तेन वा भजेत्। द्विघ्नमिष्टं कनिष्टं तत् पदं स्यादेकसंयुतौ।। ततोज्येष्ठमिहानन्त्यं भावनाभिस्तथेष्टतः”।। उदाहरणम्। “कोवर्ग्गोऽष्टहतः सैकः कृतिः स्याद्गणकोच्यताम्। एकादशगुणः कोवा वर्गः सैकः कृतिभर्वेत्।। प्रथमोदाहरणे

न्यासः प्र ८ क्षे १ अत्रैकमिष्टं ह्रस्वं प्रकल्प्य जाते मूले सक्षेपे क १ ज्ये ३ क्षे १। एषां भावनार्थं न्यासः

प्र ८ क १ ज्ये ३ क्षे १। क १ ज्ये १ क्षे १ वज्राभ्यासौ ज्येष्ठलघ्वोरित्यादि प्रथमकनिष्ठ द्वितीयज्येष्ठसूलाभ्यासः ३ द्वितीयकणिष्ठ १ प्रथमज्येष्ठमूलाभ्यास३ अनयोरैक्यं ६ कनिष्ठपदं स्यात् कनिष्ठयोराहतिः १ प्रकृतिगुणा ८ ज्येष्ठयोरभ्यासेन ९ अनेन युता १८ ज्येष्ठ पदं स्यात् क्षेपयोराहति क्षेपकः स्यात् १ प्राङ्मूलक्षपाणाम् एभिः सह भावलार्थं न्यासः

प्र ८ क १ ज्ये ३ क्षे १। क ६ ज्ये १७ क्षे १ भावनया लब्धे मूले क ३५ ज्ये ९९ क्षे १ एवं पदानामानन्त्यम् द्वितीयोदाहरणे रूपभिष्टं कनिष्ठम् प्रकल्प्र तद्वर्गात्प्रकृति- गुणात् ११ रूपद्वयमपास्य मूलं ज्येष्ठं ३ अत्र भावनार्थं न्यासः प्र ११ क १ ज्ये ३ क्षे २। क १ ज्ये ३ क्षे २ प्राग्वल्लब्धे चतुःक्षेपमूले क ६ ज्ये २० क्षे ४ इष्टवर्ग्गहृतः क्षेपैत्यादिना जाते रूपक्षेपमूलेक ३ ज्ये १० क्षे १

अतस्तुल्य भावनया वा कनिष्ठज्येष्ठमूले जाते क ६० ज्ये १९९ क्षे १ एवमनन्तमूलानि।

अथवा रूपं कनिष्ठं प्रकल्प्य जाते पञ्चक्षेपपदे क १ ज्ये ४ क्षे ५० अतस्तुल्यभावनया मूले क ८ ज्ये २७ क्षे २५। इष्टवर्ग्गहृत इत्यादिना पञ्चकभिष्टं प्रकल्प्य जाते रूपक्षेपपदे क (८/५) ज्ये (२७/५) क्षे १ अनयोः पूर्व्वमूलेभ्यः मूलभावनार्थं न्यासःप्र ११ क (८/५) ज्ये (२७/५) क्षे १। क ३ ज्ये १० क्षे १ भावनया लब्धे मूले क (१६१/५) ज्ये (५६४/५) क्षे १। अथ वा ह्रस्वं वज्राभ्यासयोरन्तर मित्यादिना कृतया भावनया जाते मूलेक १ ज्ये ४ क्षे ५”

चक्रवालेन तदानयनप्रकारः चक्रवालशब्दे वक्ष्यते। कनिष्ठसूलमप्यत्र न०।

कनिष्ठक = न० कनिष्ठमिव कायति कै–क। शूकतृणे राजनि० स्वार्थे कन्। २ कनिष्ठशब्दार्थेत्रि०।

कनिष्ठिका = स्त्री कनिष्ठैव स्वार्थेकन्। (कडे आङ्गुल) क्षुद्राङ्गुलौ “द्विः कनिष्ठिकया” कात्या० ७, ७, १८। पञ्चमे षष्ठेच माने अनामिकामुत्सृज्यौतया कनिष्ठिकया द्विर्वारम्” कर्कः। “परिवर्त्त्यपरिवर्त्त्याङ्गुलकनिष्ठिकाभ्यामादाय पलाशपूटे प्रास्यति” कात्या० १, ५, ७, १।

कनी = स्त्री कन–अच् गौरा० ङीष्। १ दुहितरि २ कन्यायाञ्च हेमच०।

कनीचि = स्त्री कन–बा० ईचि। १ गुञ्जायां (कु~च) शब्दर०। २ सपुष्पलतायाम् ३ शकटे च उणादि०। अयं मूर्द्धन्यमध्य एव न मध्यस्तु प्रामादिकः “मृकणिम्यामीचिः” उज्ज्वलदत्तेन णान्तकणेरेव ग्रहणात्

कनीन = त्रि० कन–प्रीतौ ईनन्। १ कमनीये। “सद्योहजोवो वृषभः कनीनः” ऋ० ३, ४८, २। “कनीनः कमनीयः” भा० “भिनत् कनीन ओदनं पच्यमानम्” ऋ० ८, ६९, १४। “जारः कनीन इव चक्षदानः” ऋ० १, ११७, १८।

कनीनका = स्त्री “कनीनका कन्या कमनीया भवति क्वेय नेतव्येति वा कमनेनानीयत इति या कमतेर्वा कान्ति कर्म्मणः” निरुक्तोक्ता व्युत्पत्तिः पृषो०। १ कन्यायाम् “कनीनकेव विद्रधे नवे द्रुपदे अर्भके” ऋ० ४, ३२, २३, इमामृचमधिकृत्य ४, १५, निरुक्ते प्रागुक्ता निरुक्तिर्दर्शिता। भाष्यकृता तु कनीनका कननीयशालभञ्जिकेति व्याख्यातम् तेन २ तदर्थेऽपि कनीनका कन्या काम्यत्वेनास्त्यस्याः कर्श० अच्। ३ कन्याकामे पु०। “जनिष्ट योषा पतयत् कनीनकः” ऋ० १०, ४०, ९,। कनीनकः कन्याकामः” इति भा०। कनीन इव कायति र्क–क। ४ कनीनिकायां न० सुश्रु० “ततः कनीनकगतम्” तत्रोक्तेः अक्षिशब्दे ४५ पृ० विवृतिः

कनीनिका = स्त्री कन–कनि–वा ईनन् संज्ञायां कन् टाप् अत इत्त्वम्। १ अक्षितारायां २ कनिष्ठाङ्गुलौ च मेदि०। अक्षिशब्दे ४५ पृ० विवृतिः

कनीनी = स्त्री कनि–नामधा० ईनन् ङीष्। कनिष्ठाङ्गुलौ अमरटीका

कनीयस् = त्रि० अयमनयोरतिशयेन युवा अल्पो वा ईयसुन् कनादेशः। द्वयोर्भध्ये १ अल्पतरे, “अन्नं कनीयो भविष्यति” छा० उप०। २ युवतरे, ३ अनुजे भ्रातरि पु०। “कथं कनीयानहमुत्सहेयम्?” भट्टिः “कनीयान् वृषमुत्सृजेत्” स्मृतिः “कलत्रवानहं बाले कनीयांसं भजस्व मे” रघुः। स्त्रियां ङीप्।

कनीयस = न० कन–दीप्तौ अच् कनः सूर्य्यस्तस्येदं छ कनीयं तथाभूततया सीयते अवसीयते सो–घञर्थेकर्मणि क। १ ताम्रे। हेमच० ताम्रस्य सूर्य्यदेवाकत्वात्तथात्वम्। कनीयस् + स्वार्थे बा० अच्। २ कनीयसि कनिष्ठे त्रि०। “अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम्” “ययातिर्नाहुषोराजा पूरुं पुत्रं कनीयसम्” भा० आ० ८६ अ०।

***