कज = रोहे(सौत्रः)इदित् पर० अक० सेट्। कञ्जति अकञ्जीत् चकञ्ज रोहोऽत्र जन्म तेनास्याकर्म्मकता। कञ्जारः।

कज = न० के जले जायते जन–ड। पङ्कजे राजनि०।

कज्जल = न० कुत्सितं जलमस्मात् कोः कद्। अञ्जने (काजल) तस्य संयोगाच्छुभ्रमप्युदकमसितुं भवतीति तस्य तथात्वम् अञ्जनशब्दे ९४ पृ० विवृतिः। “सकज्जलं ताम्रघटे च घृष्टं सर्पिर्युतं तुत्थकमञ्जनञ्च” सुश्रु०। “गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः” काव्यप्र०। २ लेखनसाधने द्रव्ये च (कालि) “असितगिरिनिभं स्यात् कज्जलं सिन्धुपात्रम्” पुष्पदन्तस्तवः। मेघे पु० शब्दमा० मत्स्यभेदेपुंस्त्री स्त्रियां गौ० ङीष्। शब्दर०। कज्जलं जातमस्य इतच्। कज्जलित जातकज्जले त्रि०। वमध्योऽपि एकाक्षरकोषेऽयं पठितः कज्जलमिवाचरति कज्जल + क्विप् ततः अच् गौरा० ङीष् ५ भिश्रितरसगन्धके स्त्री। स्वार्थे कन् तत्रार्थे “शुद्धं सृतं तथा गन्धं खल्ले तावद् विमर्दयेत्। यावत् सूतं न दृश्येत किन्तु कज्जलवत् भवेत्। एषा कज्जलिका ख्याता वृंहणी वीर्य्यवर्द्धिनी। माभानुपानयोगेन सर्वव्याधिविनाशिनी” वैद्यकम्।

कज्जलध्वज = पु० कज्जलं ध्वज इवास्य। दीपे त्रि का०।

कज्जलरोचक = पु न० कज्जलं रोचयति चि–णिचि–अच्। (पिलसुच)। वङ्गभाषायां प्रसिद्धे। दीपाधारे जटाध०

कञ्चट = न० कचि–अटच्। (काचंडादाम) जलतण्डुली ये जलजशाकभेदे “पानीयतण्डुलीयोयस्तत्कञ्चटमुदाहृतम्। कञ्चटं तिक्तकं रक्तपित्तानिलहरं लघु। (चकराइ) (हिन्दिभाषा) भावप्र०।

कञ्चटादि = न० चक्रदत्तोक्ते अतीसारवेगरोधके औषधभेदे “कञ्चटजम्बुदाडिम्शृङ्गाटकपत्रविल्वह्रीवेरम्। जल ध्वनिगतसहितं गङ्गावेगमपि रुन्ध्यात्”।

कञ्चड = पु० कचि–बा० अडन्। चक्रमर्द्दनवृक्षे शब्दचन्द्रिका

कञ्चार = पु० कचि–भावे घञ् कञ्चं प्रकाशमृच्छति ऋ–अण् कं जलं चारयति किरणेन चर–णिच् अण् वा। सूय्यं जटाधरः। २ अर्कवृक्षे च।

कञ्चिका = स्त्री कचि–ण्वुल्। १ वंशशाखायाम् (कञ्ची) शब्दच० २ क्षुद्रस्य्फोटे वैद्यकम्।

कञ्चुक = पु० कचि–प्रीतिबन्धयोः वा० उकन्। १ वारवाणे २ योधादेश्चोलाकृतिसन्नाहे ३ लौहमये कवचे ४ सर्पनिर्म्मोके (खोलस) अमरः ४ चोलके (काचुलि) ५ वस्त्रमात्रे उणा० को० ६ वर्द्धापकगृहीताङ्गस्थितवस्त्रे (पुत्रादेर्जन्मोत्सवे भृत्यादिभिः स्वामिनोऽङ्गात् यल त्कारेण गृहीते वस्त्रे) हेमच०। ७ ओषधीभेदे स्त्री गौरा० ङीष् मेदि०। ८ क्षीरीशवृक्षे रत्नमा० “बलानि शूराश्च घनाश्च कञ्चुकाः “घनसंवृतकञ्चुकः” क्वचिदिवेन्द्रगजाजिनकञ्चुकः” माघः “अन्तःकञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः” रत्ना०। “सख्यं किं करवाणियान्ति शतधा यत् कञ्चुके सन्धयः” अमरुश०। “सुभाषि तरसास्वादजातरोमाञ्चकञ्चुकाः” पञ्चतन्त्रम्। “कञ्चुकं तूलगर्भञ्चतूलिकां सूपवीतिकाम् काशी०। सोऽस्य जातः तारका० इतच्। कञ्चुकित जातकञ्चुके त्रि०।

कञ्चुकालु = पु० कञ्चुकोऽस्त्यस्य आलुच्। सर्पे शब्दच०।

कञ्चुकिन् = पु० कञ्चुक + अस्त्यर्थे इनि। “अन्तःपुरचरोवृद्धो विप्रो गुणगणान्वितः। सर्वकार्य्यार्थकुशलः कञ्चुकीत्यभिधीयते” इत्युक्तलक्षणे १ राज्ञामन्तःपुराधिकारिणि “अन्तःकञ्चकिकञ्चुकस्य” रत्ना०। २ द्वारपाले, ३ सर्पे ४ जारे, ५ यवे, ६ चणके च राजनि०। तुषरूपकञ्चुकावृतत्वात्तयोस्त्रथात्वम्। ७ आवद्धकवचे त्रि०

कञ्चुलिका = स्त्री कचि–उलच् गौरा० ङीष् स्वार्थेकन् ह्रस्वे टाप्। स्त्रीणां कूर्पासवस्त्रे (का~चली)हेम० “त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीम् लक्ष्मीमित्यभिधायिनि प्रियतमे” सा० द०। कनभावे। कञ्चुलीत्यप्यत्र।

कञ्चूल = न० कचि–दीप्तौ ऊलच्। स्त्रीगात्राभरणे उज्ज्व०

कञ्ज = पु० कम् जले जायवे। चतुरामने हिरण्यगर्भे “अप एव ससर्ज्जादौ तासु वीजमवासृजत्” “तस्मिन् जज्ञे स्वयं ब्रह्मा” मनूक्तेस्तस्य जलेजातत्वात्तथात्वम्। २ पद्मे “चतुर्भुजं कञ्जरथाङ्गशङ्खगदाधरम्” भाग० ३, २, ९। २ अमृते च न० भेदिनिः। तत्र पद्मस्य जलजातत्वात् अमृतस्य समुद्रोत्पन्नत्वात्तथात्वम् अमृतशब्दे विवृतिः। कम् शिरसि जायते जन कर्त्तरि–ड। ४ केशे पु० मेदितिः।

कञ्जक = पुं स्त्री कजि–सौत्रधातुः ण्वुल्। (मयना) पक्षिभेदे शब्दच०। स्त्रियां जातित्वात् ङीष्।

कञ्जज = पु० कञ्जात् विष्णुनाभिपद्मात् जायते जन–ड। हिरगर्भे चतुमुखे ब्रह्मणि शब्द रत्ना०। यथा च ब्रह्मणोविष्णुनाभिजातकमलादुद्भवस्तथा वर्णितं भाग० ३, ३, १९, अ० “सोऽन्तःशरीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिसुदीरयाणः। उवास तस्मिन् सलिले पदे स्वे यथानलो दारुनिरुद्धवीर्य्यः। चतुर्युगानाञ्च सहस्रमप्सु स्वपन् स्वयोदीरितया स्वशक्त्या। कालाख्ययासादित कर्मतन्त्रो लोकानपीतान् ददृशे स्वदेहे। तस्यार्थसूक्ष्माभिनिविष्टदृष्टेरन्तर्गतोऽर्थो रजसा तनीयान्। गुणेन कालानुगतेन विद्धः सृष्टुस्तदाभिद्यत नाभिदेशात्। स पद्मकोषः सहसोदतिष्ठत् कालेन कर्मप्रतिबोधितेन। स्वरोचिषा तत् सलिलं विशालं विद्योतयन्नर्क इवात्मयोनिः। तल्लोकपद्मं सौ एव विष्णुः प्रावीविशत् सर्व्वगुणावभासम्। तस्मिन् स्वयं वेदमयो विधाता स्वयम्भुवं यं प्रवदन्ति सोऽभूत्। तस्यां सचाम्भोरुहकर्णिकायामवस्थितोलोकमपश्यमानः। परिक्रमन् व्योम्नि विवृत्तनेत्रश्चत्वारि लेभेऽनुदिशं सुखानि। तस्मात् युगान्तश्वसनावघूर्णजलोर्मिचक्रात् सालिलाद्विरूढम्। अपाश्रितः कञ्जमु लोकतत्त्वं नात्मानमद्धाविददादिदेवः”।

कञ्जन = पु० कं सुखं जनयति जन–णिच्–अण्। १ कन्दर्पेत्रिका० (मयना) २ पक्षिंभेदे शब्दच०।

कञ्जनाभ = पु० कञ्जं पद्मं नाभावस्य संज्ञायाम् अच् समा०। विष्णौ। “व्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरोदधे” भाग० ३, ९, ४४।

कञ्जर = पु० कजि–अरन् कं जलं जृणाति वा जृ–अच् वा। १ सूर्य्ये २ अर्कवृक्षे ३ हस्तिनि ४ चतुर्मुखे ५ उदरे च उणा०

कञ्जल = पु० कजि–कलच्। (मयना) पक्षिभेदे शब्दचन्द्रिका। स्त्रियां जातित्वात् ङीष्।

कञ्जार = पु० कजि आरन् कं जलं जारयति वा जृ–णिचण्। १ सूर्य्ये २ अर्कवृक्षे ३ चतुर्मुखे ४ गजे ५ उदरे ६ मुनिभेदे च मेदि०।

कञ्जिका = स्त्री कजि–ण्वल् टाप् अ (वामनहाटी)। ब्रह्मयष्टिकायाम् शब्दर०।

कट = गतौ भ्वादि० पर० सक० मेट्। कटति अकटीत् अकाटीत् चकाट। प्रनिकटति न णत्वम्।

कट = गतौ भ्वादि० इदित् पर० सक० सेट्। कण्टति अकण्टीत्। चकण्ट कण्टकः। प्रनिकण्टति न णत्वम्।

कट = गतौ भ्वादि० पर० सक० सेट्। कटति अकटीत् अका- टीत् चकाट ईदित् तेन नेट् कट्टः। प्रनिकटति न णत्वम्।

कट = वृतौ वर्षणे च भ्वादि० पर० सक० सेट्। कटति एदित् अकटीत् चकाट। कटः कटुः प्र + प्रकाशे अक० प्रकटिव प्रकटः। णिच्–प्र + प्रकाशने सक०। घटादि० पकटयति प्रकटितः प्रकटयन्। युच् प्रकटना। नामधातुरित्यन्ये

कट = पु० कट–कर्म्मणि ध कर्त्तरि अच् वा। १ हस्तिगण्डे मदवर्षणात् तथात्वम् “यद्दन्तिनः कटकटाहतदं मिमङ्क्षो” माघः “कण्डूयमानेन कटं कदाचित् वन्यद्विपेनोन्मथिता त्वगस्य” “कटप्रभेदेन करीव पार्थिवः” २ गण्डमात्रे स्वेदवर्षणात् तथात्वम् “तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः” रघुः। नलाख्ये ३ तृणभेदे अमरः। येन (मादुर दडमा) प्रभृतिद्रव्यं विरच्यते तस्य च गृहादेरावरणसाधनत्वेन कटत्वम् ४ तन्निर्मिते आसनभेदे च अमर “गोऽश्वोयानप्रसादस्रस्तरेषु कटेषु” मनुः। “वषासु क्लिन्नकटवत्तिष्ठन्नेवावसीदति” भा० स० १९ घ ३ अ०। “ददार करजैरूरामेरकां कटकृद्यथा” भा० १, ३१८, ३। ५ कुभूले (मराइ) भरतः तस्य तृणादिरज्जुभिरावृतत्वात्तथात्वम् ६ आवरणकारके त्रि० उरस्कटः। ७ अतिशथे उत्कटे। ८ शरे ९ समये आचारे मेदि०। १० उशीरादितृणमात्रे धर० कटाग्निः ११ शवे प्रेते कटपूतनः १२ शवरथे (शवहरणार्थरथे) १३ ओषधिभेदे १४ श्मशाने हेमच०। कटप्रूः १५ तष्टकाष्ठे (तक्ता) शब्दरत्ना०। १६ क्रियाकारकसात्रे त्रि० हेमच०। १७ द्यूतक्रीडासाधनद्रव्यभेदे च। “त्रेताहृतसर्वस्वः पावरपतनाच्च शोषितशरीरः। नर्द्दितदर्शितमार्गः कटेन विनिपातितो यामि” मृच्छक० उत्तकपदस्थे कटशब्दे परे पूर्वपदस्योदात्तता। दाक्षिकटः सि० कौ० १८ श्रोणौ पुंस्त्री मेदि० स्त्रोत्वे गौरा० ङीष्। ङीषन्तः १९ कटुक्याम् वैद्यकम्।

कटंवरा = स्त्री कटं वृणोति कट + वृ–खच् मुम् च। (कट्की) कटुक्याम् अमरः

कटक = अस्त्री कट-कृञादि० वुन् अर्द्धर्चादि। १ हस्तभूषणं वलये, “कटककुण्डलादिवत्” सा० द०। २ पर्वतमध्यभागे “प्रफुल्लवृक्षैः कटकैरिव खैः” कुमा०। “मार्गेषिणी सा कटकान्तरेसु” रघुः। “सद्रत्नचित्रकटकासु पृहन्नितम्बाः” माघः। ३ चक्रे च अमरः। ४ हस्तिदन्तमण्डले। ५ सामुद्रलवणे ६ राजधान्यञ्च” मेदि०। ७ नगर्व्याम् शब्दरत्ना ८ सेनासघे हेमच० “स च दिग्विजयक्रमेणागय चन्द्रभागातीरे समावेशितकटको वर्त्तते “अगाच्च कटक सर्वम” हितो० ९ पर्वतसमभूभागे सानौ पिश्वः “जलाकीर्ण्णोषु देशेषु कटकेषु परेषु च” भारते विराटपर्व्वणि ८७२ श्लोकः।

कटकट = त्रि० कटप्रकारः प्रकारे द्वित्वम्। १ अत्यन्तातिशयिते सर्व्वोत्कृष्टे २ महादेवेपु० “नमोनाभाव नाभ्याय नमः कटकटाय च” भा० शा० २८६ अ० शिवनामोक्तौ। अव्यक्तानुकरणे डाच् कटकटा तदनुकरणशब्दे अव्य०। “ततः कटकटाशब्दो बमूव सुमहात्मनोः” भा० व० १५७ अ०।

कटकार = त्रि० कटं करोति कृ–अण् उप० स०। १ कटकारिणि शिल्पिभेदे “शूद्रायां वैश्यत्रश्चौर्य्यात् कटकारः इति स्मृतः” उशनसोक्ते २ वर्ण्णसङ्करभेदे पुंस्त्री स्त्रियां ङीष्। “वशिष्ठशापतस्त्वेषां केचित् पारशवास्तथा। बैखानसेन केचित्तु केचिद्भागवतेन च। वेदशास्त्रावलम्बास्ते भविष्यन्ति कलौ युगे। कटकारास्ततः पश्चान्नारायणगणाः स्मृताः”। उशनसा तेषां कलौ वैखानसादिसंसर्गेण वेदधर्म्मनिष्ठत्वप्राप्तिः वैष्णत्व प्राप्तिश्चोक्ता। कृक्विप्। कटकृदप्यत्र “एरकां कटकद्यथा” भाग० १, ३, १९।

कटकिन् = पु० कटकोऽस्त्यस्य इनि। १ पर्वते त्रिका० २ कटकयुक्ते त्रि०

कटकीय = त्रि० कटकाय वलयाय हितः अपूपा० छ। वलयसांधने स्वर्ण्णादौ पक्षे यत्। कटक्य तत्रार्थे त्रि०।

कटकोल = पु० कटति वर्षति स्रवति कट–अच् कटस्यनिष्ठीवनरूपजलस्य कोलः घनीभावो यत्र कुल–संस्त्याने आधारे घञ् वा। पतद्ग्रहे(पिकदानी)त्रिका०।

कटखादक = त्रि० कटमपि खादति–खाद–ण्वुल्। १ सर्वभक्षके शवखादके २ जम्बुके पुंस्त्री कटस्यावरणस्य खं मध्यस्थितच्छिद्रमत्ति अद–ण्वुल्। काचनिर्म्मितकलसे तस्य छिद्राभावात् तथात्वम्” मेदि०।

कटघोष = पु० कटप्रधानोधोषः आभीरपल्ली। प्राग्देशभवे ग्रामभेदे ततः “प्राचां कटादेः” पा० जातादौ छ। कटघोषीय तज्जातादौत्रि०। एवं कटपल्वल कटनगरी कटपल्लीइत्यादयः प्राग्देशस्थितग्रामभेदेषु। ततः जातादौ छकटपल्वलीय कटनगरीय कटपल्लीय इत्यादयः तत्तद्ग्रामजातादौ त्रि०

कटङ्कट = पु० कटं शवं कटति ज्वालया आवृणोति कट–बा० स्वच्। १ वह्नौ “कटङ्कटाय भावाय नमः पञ्चपलाय च” अग्निपु० “खली कालकटङ्कटः” भा० अनु० १७ अ०। शिवनामसु कालाग्निरूपतया तस्य कालकटङ्कटनामता। उपचरात् वह्निजे २ स्वर्ण्णे ३ चित्रकवृक्षे तस्य तन्नामनामत्वात् ४ मणेशे च। गणपतिकल्पे याज्ञ० स्मृतौ “मितश्च संमितश्चैव तथा शालकटङ्कटौ। कुष्माण्डो राजपुत्रश्चेत्यन्ते खाहासमान्वितैः” “मितसम्मितादिभिर्विनायकस्य ना- मभिः स्वाहान्तैर्जुहुयादितिः” मिताक्षरायामुक्तेः।

कटङ्कटेरी = स्त्री कटङ्कटं वह्निजं सुवर्ण्णन्तत्कान्तिमीरयति ईर–गतौ अण् उप० स० अणन्तत्वात् ङीप् गौ० ङीष् वा। १ हरिद्रायां त्रिका० तस्याः स्वर्ण्णतुल्यपीतवर्ण्णत्वात् तथात्वम्। २ दारुहरिद्रायां रत्नमाला “नीलोत्पलोशीरकटङ्कटेरी” सुश्रु०

कटदानम् = न० कट देहावर्त्तनं दीयतेऽत्र दा–ल्युट्। भगवतः पार्श्ववर्त्ताख्ये (करोटदेओया) कर्म्मणि। तन्निमित्तोत्सवादि भाद्रशुक्लैकादश्यादौ सन्ध्यायां श्रवणनक्षत्रमध्यपादयोगेन कार्य्यम्। “प्राप्ते भाद्रपदे मासि एकादश्यां सितेऽहनि। कटदानं भवेद्विष्णोर्महापूजा प्रवर्त्तते” एका० त० वराहपु०। “कटदानं पार्श्वपरिवर्त्तः” रघु०। अत्र कालव्यवस्था उत्थानैकादशीशब्दे ११०७ पृ० उक्ता।

कटपूतन = पु० कटस्य शवस्य पूतं पवित्रतां तनोति तन + अच्। प्रेतभेदे। “वान्ताश्युल्कामुखः प्रेतोविप्रोधर्म्मात् स्वकाच्छ्युतः। अमेध्यकुणपाशीस्यात् क्षत्रियः कटपूतनः” मनुः अमेध्यकुणपभक्षकत्वं तस्य धर्म्मोऽप्यनेन दर्शितः।

कटप्रू = पु० कटे श्मशाने प्रवते प्रुङ् गतौ क्विप् नि० दीर्घश्च। २ महादेवे तस्य श्मशानवासित्वात् तथात्वम्। कटं श्मशानं प्रवते कटेन शवेन प्रवते वा। २ राक्षसे ३ विद्याधरे च मेदि० तयोः यथाक्रमं श्मशानवासित्वात् प्रेतवाहनत्वाच्च तथात्वम्। कटेन देवनसाधनद्रव्येण प्रवते। ४ अक्षदेवके त्रि० मेदि०। कटात् समयात् आचारात् तमतिक्रम्य प्रवते। ५ कामचारिणि त्रि०। कटं नलतृणं प्रवते। ६ कीटभेदे च उज्ज्वलदत्तः

कट(टि)प्रोथ = पुं न० कटस्य कट्याः कटेर्वा प्रोथोमांसपिण्डः। १ स्किचि कटिदेशस्थे मांसपिण्डे, अमरः।

कटभङ्ग = पु० कटस्य सैन्यसंघस्य भङ्गो यस्मात्। १ सैन्यमंघभङ्गहेतौ नृपमृत्यौ। कटानामोषधीनां भङ्गः छेदनम्। २ शस्यानां हस्तादिना च्छेदने च मेदि०।

कटभी = स्त्री कट इव भाति भा–कगौरा० ङीष्। १ ज्योतिष्मतीलतायाम् राजनि० २ लताभेदे भावप्र०। सा च “कठभी स्वादुपुष्पा च मधुरेणुः कटम्भरः। कटभी तु प्रमेहार्शोनाडीव्रणविषक्रमीन्। हन्त्युष्णा कफकुष्ठघ्नी कटूरूक्षा च कीर्त्तिता। तत्फलं तुवरं ज्ञेयं विशेपात् कफशुक्रहृत्। भा० वप्र० उक्तपर्य्यायगुणा। ३ अपराजितायाञ्च अत्रापपाजिता (का~टाशिरीष) वृक्षभेदः रत्नमाला।

कटमालिनी = स्त्री कटानां किण्वाद्योषधीनां माला साधनत्वे- नास्त्यस्याः इनि ङीप्। मदिरायां तस्याः किण्वाद्योषधिगणप्रभवत्वात्तथात्वम्।

कटम्ब = पु० कट–धातूनामनकार्थत्वात् वादने अम्बच्। १ वादित्रे उज्ज० कट्यते आव्रियते शत्रुपुरमनेन करणे अम्बच्। २ वाणे उणादिकोषः।

कटम्भर = पु० कटं गुणातिशयं बिभर्त्तिभृ–खच् मुम्। १ कटभीवृक्षे भावप्र०। २ श्योनाकवृक्षे राजनि०। ३ नागवलायां स्त्री अमरः (गन्धभादाल) ४ प्रसारिण्याम्। (कट्की) ५ रोहिण्याम्। ६ हस्तिन्याम्। ७ कलम्बिकायां गोलायाम्। ८ वर्षाभ्वि। (पुनर्नवा) ९ मूर्व्वायाञ्च स्त्री मेदि०।

कटव्रण = पु० कट उत्कटो व्रणोयुद्धकण्डुरस्य। भीमसेने त्रिका०।

कटशर्करा = स्त्री कटः नलः शर्करेव मिष्टरसत्वात् यस्याः। (नाटा) गाङ्गेष्ठीलायाम् हारा०।

कटा(ठा)कु = पु० कट(ठ)–कृच्छजीवने काकु। १ विहगे कणशीनानास्यानतआहाराहरणेन कृच्छ्रजीवनात्तयातथात्वम् उज्ज्वलदत्तेन तु कठ कृच्छ्रजीवने इत्युक्तेरयं ठान्तमध्य एव कटेस्तु तदर्थवाभावात् कठेः तङ्कनरूपतदर्थत्वाच्च।

कटाक्ष = पु० कटं गण्डम् अक्षति व्याप्नोति अच्। अपाङ्गदृष्टौ। अमरः “हरिणाक्षि! कटाक्षेण आत्मानमवलोकय” उद्भटः। “आमोक्ष्यन्ते त्वयि मधुकरश्रेणयस्ते कटाक्षाः” मेघ० “तत्रान्तरे जघ्नुरमुं कटाक्षैः” माघः। “भ्रमयति मयि भूयस्ते कृपार्द्रः कटाक्षः” शङ्कराचार्य्यः।

कटाग्नि = पु० कटेन वीरणादिवेष्टनेन जातोऽग्निः। वीरणादिना वेष्टनेन जाते अग्नौ “क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः। राजपत्ग्यभिगामी च दग्धव्यास्ते कटाग्निना” या० “कटैर्वीरणमयैर्वेष्टयित्वा दहेत्” मिता०। “उभावपि तु तावेव ब्राह्मण्या गुप्तया सह। विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना” मनुः।

कटायन = न० कटस्य तन्नामासनस्यायनमुत्पत्तिसाधनम्। वीरणमूले शब्दर०

कटार = पु० कट–बा० आरन्। १ नागरे २ कामिनि च शब्दमा०

कटाल = त्रि० दुष्टः कटः अस्त्यस्य सिघ्मादि० लच् “जटाघटा कटाकलाःक्षेपे” पा० ग० निर्द्देशात् आत्वम्। दुष्टगण्डयुक्ते।

कटाह = पु० कटमाहन्वि आ + हन–ड। १ तैलादिपाकपात्रभेदे (कडाइ) २ कूर्म्मपृष्ठे ३ द्वीपभेदे। ४ जायमानशृङ्गाग्रमहिषशिशौ च मेदि०। ५ नरकभेदे हारा०। ६ खर्परे शब्दरत्रा०। ७ सृर्पे ८ स्तूपे ९ कच्छे च इति केचित्। “यद्दन्तिनः कटकटाहतटं मिमङ्क्षोः” माघः। “अ- स्मिन् महामोहमये कटाहे सूर्य्याग्निना रात्रिदिनेन्धनेन। मासर्त्तुदर्व्वीपरिघट्टनेन भूतानि कालः पचतीति वार्त्ता” भा० व० ३१३ अ०।

कटि(टी) = स्त्री कट-इन्। १ श्रोणिदेशे(काकांल)। कृदिकारा न्तत्वात् वा ङीप्। “सहासनमभिप्रेप्सुरुत्कृष्टस्पाप्यपकृष्टजः। अट्यां कृताङ्कोनिर्वास्यः” मनुः। “कटिश्च तस्यातिकृतप्रमाणा” भा० व० १०५४। “सव्येन च कटीदेशे गृह्य वाससि पाण्डवः” भा० आ० १६३ “कटिस्तु हरते मनः” सा० द०। तत्र तच्छब्दस्य ग्राम्यत्वमुक्तम्। ङीबन्तः २ पिप्पल्पां स्त्री मेदि०

कटित्र = न० कटिं त्रायते त्रै–क। १ काञ्च्याम्, २ कटिवस्त्रे, ३ कटिवर्म्मणि च मेदि०। “स्फुरत् किरीटकेयूरकटित्रकङ्कणम्” भाग० ६, १६, १७।

कटिन् = पु० कटोऽस्त्यस्य प्राशस्त्वेन इनि। १ प्रशस्तगण्डे गजे। कट + चतुरर्थ्यां प्रेक्षा० इनि। २ कटनिर्वृत्तादौ त्रि० स्त्रियामुभयतो ङीप्

कटिप = त्रि० कटिं पाति पा–क। कटिरक्षके। ततः सङ्कशा० चतुरर्थ्यां ण्य। काटिप्य कटिपनिर्वृत्तादौ त्रि०

कटिमालिका = स्त्री कटौ मालेव कन्। (चन्द्रहार)(गोट) कटिभूषणे। हेमक०

कटिरोहक = पु० कट्या हस्तिकट्या तं रोहति रुह–ण्वुल् ३ त०। हस्तिपश्चाद्भागेन हस्त्यारोहके शब्दमा०।

कटिल्ल = पु० कट–बा० इल्ल। कारवेल्ले (करेला)। ततः स्वार्थे कन् तत्रैव अमरः।

कटिशीर्षक = पु० कटिः शीर्षमिव संज्ञायां कन्। कटिदेशे हला०

कटिशूल = पु० कटिस्थं शूलम्। कटिदेशस्थे कफवातिके शूलरोगभेदे। शूलप्रसङ्गात् तद्भेदनिदानादि भावप्र० दर्शितमुच्यते यथा “दोषैः पृथक्समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत्। सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः। प्रभुः कर्त्ता। अथ वातिकस्य विप्रकृष्टं निदानसम्प्राप्तिपर्ब्बकं लक्षणमाह। व्यायामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात्। कलायमुद्गाढककोरदूषादत्यर्थरूक्षाध्यशनाभिघातात्। कषायतिक्तातिविरूढजान्नविरुद्धवल्लूरकशुष्कशाकैः विट्शुक्रमूत्रानिलसन्निरोधाच्छोकोपवासादतिहास्यभावात्। वायुः प्रवृद्धो जनयेद्धि शूलं हृत्पृष्ठपार्श्वत्रिकवस्तिदेशे। (त्रिकं पृष्ठवंशाधरसन्निकृष्टकट्यादि)जीर्णे प्रदोषे च वनागमे च शीते च कोपं समुपैति गाढम्। सुहुसुंहुश्चोपशमप्रकापौ विण्सूत्रसंस्तम्भनतोदभेदैः। संस्वेद- नाभ्यञ्जनमर्द्दनाद्यैः स्निग्धोष्णभोज्यैश्च समं प्रयाति। व्यायामो मल्लयुद्धादिः यानं तुरगरथादि। मैथुनं स्त्रीसेवा। प्रजागरः रात्रौ, एषामतियोगात्, शीतलजलप्रभूतपानात् कलायस्त्रिपुटः (मटर) आढकी तुवरी कोरदूषः कोरद्रवः अतिरूक्षद्रव्यसेवा अध्यशनं भुक्तस्योपरि भोजनम् अभिघातो लोष्टादिभिः, कषायतिक्तरससेवा। विरूढजान्नम् विरूढ मङ्कुरितमन्नम् कलायचणकादि तज्जमन्नरूपभक्ष्यम्। बल्लूरकं शुष्कमांसम्। तस्य शूलस्य देशमाह। हृदादीति तत्र हृच्छूलस्य पृथगपि लक्षणं पठन्ति। “कफपित्तावरुद्धस्तु मारुतो रसवर्द्धितः। हृदयस्थः प्रकुरुते शूल मुच्छ्वासरोधकम्। स हृच्छूल इति ख्यातो रसमारुतकोपजः”। अथ पार्श्वशूलस्यापि लक्षणमाह। “कफं निगृह्य पवनः सूचीभिरिव निस्तुदन्। पार्श्वस्थः पार्श्वयोः शूलं कुर्य्यादाध्मानसंयुतम्। तेनोच्छ्वसिति वक्त्रेण नरोऽन्नञ्च न काङ्खति। निद्राञ्च नाप्नुयादेव पार्श्वशूलः प्रकीर्त्तितः”। वस्तिशूलस्यापि लक्षणमाह। “संरोधात् कुपितो वायुर्वस्तिं संश्रित्य तिष्ठति। वस्तेरध्वनि नाडीषु ततः शूलोऽस्य जायते। विण्मूत्र वातसंरोधी वस्तिशूलः स उच्यते”। प्रकृतमनुसरति जीर्णे भुक्ते। प्रदोषे रात्र्यागमे रात्रिभवशीतेन। वातप्रकोपात्। घनागमे वर्षासु मेधोदये च। तथैव पैत्तिकमाह। क्षारातितीक्ष्णोष्णविदाहितैलनिष्पावपिण्याककुलत्थयूषैः। कट्वम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः। ग्राभ्यातियोगादशनैर्विदग्धैः पित्तं प्रकुप्याथ करोति शूलम्। तृण्मोहदाहार्त्तिकरं हि नाभ्यां सस्वेदमूर्च्छाभ्रमशोष युक्तम्। मध्यंदिने कुप्यति चार्द्धरात्रे निदाघकाले जलदात्यये च। शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरतिभोजनैश्च। निष्पावो राजमाषः। सौवीरं सन्धानभेदः। सुराविकारैः “परिपक्वान्नसन्धानसमुत्पन्ना सुरा मता”। तस्याः विकारैः। रविप्रतापः आतपः। ग्राम्यातियोगो मैथुनाधिक्यम्। विदाहीत्युक्त्वापि अशनैर्विदग्धै रिंति बोधयति अविदाहिवखनोऽपि पित्तवशाद्विदाहित्वं भवतीति। जलदात्यये शरदि। शीतैर्वातादिभिः। श्लैष्मिकमाह। आनूपबारिजकिलाटपयोविकारै र्मांसेक्षुपिष्ट कृशरैस्तिलशष्कुलीभिः अन्यैर्बलासजनकैरपि हेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोति शूलम्। हृल्लासकाससदनारुचिसं प्रसेकैरामा शयैस्तिमितकोष्ठशिरोगुरुत्वैः। भुक्ते सदैव हि रुजं कुरुतेऽतिमात्रम् सूर्य्योदयेऽथ शि- शिरे कुसुमागमे च। आनूपं बहुलजलदेशजं भक्ष्यम्। वारिजं शालूकादि। “पक्वं दध्ना समं क्षीरं विज्ञेया दधिकूर्चिका। तक्रेण तत्कूर्चकं स्यात्तयोः पिण्डः किलाटकः”। पयोविकारः पायसादिः पिष्टं माषादिः। अन्यैः गुर्वादिभिः। स्तिमितमार्द्रपटावगुण्ठितमिव यत्कोष्ठं शिरश्च तयो र्गुरुत्वैः सह। सूर्य्योदय इति त्रिधा विभक्तदिवसप्रथमभागस्योपलक्षणम्। शिशिरे तत्र कफस्यातिसञ्चयात् कुसुमागमे वसन्ते। द्वन्द्वजमाह। द्विदोषलक्षणैरेतैर्विद्याच्छ्वूलं द्विदोषजम्। (तस्य भेदा स्त्रयो वक्ष्यन्ते) त्रिदोषजमाह। सर्वेषु देशेषुच सर्वलिङ्गं विद्याद्भिषक् सर्व भवंहि शूलम्। सुकष्टमेनं विषवज्रकल्पं विवर्ज्जनीयं प्रवदन्ति तज्ज्ञाः। सर्तेषु देशेषु हृत्पृष्ठपाश्वेत्रिकवस्तिनाभ्यामाशयेषु सर्व भवं त्रिदोषजम्। अथामजमाह। आटोपहृल्लासवमीगुरुत्वस्तैमित्यमानाहकफप्रसेकैः। कफस्यलिङ्गैश्च समानलिङ्गमामोद्भवं शूलमुदाहरन्ति। कफस्य कफशूलस्य। आमोद्भवं आमादुद्भवो यस्य तम्। अत्रामशूले जाते पश्चाद् दोषसम्बन्धः अतएवास्य शूलस्याष्टमत्वमुक्तम्। सच प्रथममामाशये भवति पश्चात् सम्बन्धिभिर्द्दोषैर्वस्तिनाभि हृत्पार्श्वकुक्षिषु भवति यथादोषसम्बन्धम्। आमशूलस्य दोषविशेषेण देशविशेषमाह। वातात्मकं वस्तिगतं वदन्ति पित्तात्मकञ्चापि वदन्ति नाभ्याम्। हृत्पार्श्वकुक्षौ कफसन्निविष्ट सर्वेषुदेशेषुच सन्निपातात्। हृत्पार्श्वकुक्षौ हृत्पार्श्वाभ्यां सहिते कुक्षौ। कफसन्निविष्टं कफेनाविष्टम्। “वस्तौ हृत्कटिपार्श्वेषुस शूलः कफवातिकः। कुक्षौ हृन्नाभिमध्ये तु स शूलः कफपैत्तिकः। दाहज्वरकरो घोरो विज्ञेयो वातपैत्तिकः। तन्त्रान्तरोक्तमामशूलमाह। “अतिमात्रं यदा भुक्त्वं पावके मृदुताङ्गते। स्थिरीकृतन्तु तत्कोष्ठे वायुरावृत्य तिष्ठति। यदान्नं न गतं पाकं तच्छूलं कुरुते भृशम्। मूर्च्छाध्मानं विदाहांश्च हृत्क्लेशम विलम्बितम्। कम्पं वान्तिमतीसारं प्रमेहं जनयेदपि। अविपाकोद्भवं शूलमेतमाहुर्म्मनीषिणः”। अविपाकोद्भवं आमोद्भवमित्यर्थः। अथ शूलस्योपद्रवानाह बेदनाति तृषा मूर्च्छा आनाहो गीरवारुची। कासःश्वासो वमिर्हिक्वा शूलस्योपद्रवा स्मृताः। अथास्य साध्यत्वादिकमाह। एकदोषानुगः साध्यः कृच्छ्रसाध्यो द्विदोषजः। सर्वदोषान्वितो घोरस्त्व साध्योभूर्य्युपद्रवः। अथारिष्टमाह। वेदनाति तृषा मूर्च्छा आनाहो गौरवं ज्वरः। भ्रमीऽरुचिः कृशत्वञ्च बलहानिस्तथैव च। उपद्रवा दशैवेते यस्य शूलेषु नास्ति सः। अथ शूलस्यैव भेदं परिणाममाह। स्वैर्निदानैः प्रकुपितो वातः सन्निहितो यदा। कफपित्ते समावृत्य शूलकारी भवेद्बली। भुक्ते जीर्य्यति यच्छ्वूलं तदेव परिणामजम्। स्वैर्निदानैरित्यादिना निदानपूर्ब्बिका संप्राप्तिरुक्ता भुक्ते जीर्य्यतीत्यादिना लक्षणमुक्तम्। सनावृत्य व्याप्य तस्य लक्षणमप्येतत् समासेनाभिधीयते। आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः। स्निग्धीष्णोपशमप्रायं वातिकं तद्वदेत् भिषक्। तृष्णा दाहा रतिस्वेदकट्वम्ललवणोत्तरम्। शूलं शीतशमप्रायं पैत्तिकं लक्षयेत् बुधः। छर्द्दिहृल्लाससंमोहस्वल्परुक् दीर्घसन्ततिः। कटुतिक्तोपशान्तौ च विज्ञेयञ्च कफात्मकम्। संदृष्टलक्षणं बुद्ध्वा द्विदोषं परिकल्पयेत्। त्रिदोषजमसाध्यं स्यात् क्षीणमांसबलानलम्। अथान्नद्रवनामानं शूलविशेषमाह। जीर्णे जीर्य्यति चाप्यन्ने यच्छूलमुपजायते। पथ्यापथ्यप्रयोगेण भोजनाभीजनेन वा। न समं याति नियमात्सोऽन्नद्रव उदाहृतः। नेदं शूलमसाध्यं चिकित्साभिधानात्”। उभयथा प्रयोगात् क्लीवत्वमप्यस्य।

कटिशृङ्खला = स्त्री ६ त०। कटिधार्य्यक्षुद्रघण्टिकायाम् हारा०

कटिसूत्र = न० कटौ धार्य्यं सूत्रं शाक०। कटिधार्य्येकार्पासरचिते धातुमयेवासूत्रे (घुनसी गोट) हला०। “प्रवरमणिमय मुकुटकुण्डलकटकहारकटिसूत्रकेयूरनूपूराद्यङ्गभूषणविभूषितम्” भाग० ५, ३, ४। अत्र सर्वत्र मणिमयेति विशेषणम् प्राचुर्य्ये मयट्। तेन “कटिसूत्रं न धारयेत्” इति न स्मृतिविरोधः केवलसूत्रस्यैव कटौ धारणनिषेधात्। सूत्रञ्च कार्पासमेव उर्ण्णामयादेस्तु न धारणनिषेधः।

कटीतल = पु० कट्यां तलमास्पदमस्य। १ वक्रखड्गे त्रिका० यतोऽसौ कटिदेशे धार्य्यते। ६ त०। कट्यास्तले २ नितम्बे न०।

कटीर = पु० कट–ईरन्। १ कन्दरे २ जघनदेशे च उज्ज्व० ३ नितम्बे ४ कट्यांजटाधरः। ततःस्वार्थेकन्। कटीरक नितम्बेत्रिका०

कटु = न० कटति सदाचारमावृणोति रसनामावृणोति वर्षति स्रावयति नासादितो जलम्, कट–उन्। १ अकार्य्येअमरः २ दूषणेविश्वः ३ रसभेदे (ज्झाल) ४ तद्वति अमरः त्रि०। स्त्रियां वा ङीष्। तद्रसगुणाः भावप्र० उक्ताः “कटुरुष्णश्च तीक्ष्णश्च विशदो वातपित्तकृत्। श्लेष्महृल्लघुराग्नेयः क्रिमिकण्डूविषापहः। रूक्षस्तन्यहरश्चापि मेदःस्थौल्यापकर्षणः। अश्रुदो नासिकास्याक्षिजिह्वाग्रोद्वेजको मतः। दीपनः पाचनोरु च्योनासिकाशोषणो भृशम्। क्लेदमेदोवसामज्जाशकृन्मूत्रोपशोषणः। स्रोतःप्रकाशको रूक्षो मेध्यो वर्च्चोविबन्धकृत्। आग्नेयः अधिकाग्न्यंशः। मेध्यो मेधायै हितः। वर्च्चोविबन्धकृत् मलबन्धं करोति। अतियुक्तस्य कटुरसस्य गुणाः। सोऽतियुक्तो भ्रान्तिदाहमुखताल्वोष्ठशोषकृत्। कण्ठादि पीडामूर्च्छान्तर्दाहदो बलकान्तिहृत्”। कटुरसस्याग्निजन्यपित्तकार्य्यत्वं सुश्रुते उक्तं यथा “कट्वम्नलवणा आग्नेया” इत्युपक्रम्य “औष्ण्यतैक्ष्ण्यरौक्ष्यलाघव वैशद्यगुणलक्षणं पित्तं तस्य समानयोनिः कटुको रसः सोऽस्यौष्ण्यादौष्ण्यं वर्द्धयति तैक्ष्ण्यात्तैक्ष्ण्यं रौक्ष्याद्रौक्ष्यं लाघवाल्लाघवं वैशद्याद्वैशद्यमिति”। श्लेष्मोपक्रमे चीक्तं तत्रैव “पुनरन्ययोनिः कटुको रसः स श्लेष्मणः प्र त्यनीकत्वात् कटुकत्वात् माधुर्य्यमभिभवति रौक्ष्यात् स्नेहम्, लाघवात् गौरवम् औष्ण्यात् शैत्यम्, वैशद्यात् पैच्छिल्यम्”। ५ परुषे च। “श्रवणकटु निनादमेकवाक्यं विवव्रुः” रघुः “कण्ठमाकुण्ठयिष्यामि कटूक्तिवचने पटुम्” नैषधम्।

वाक्यस्य कटुत्वञ्च दुष्टार्थवाचकत्वम् रसविपरीतवर्ण्णयुक्तत्वञ्च। तत्र रसभेदे वर्णभेदानां कटुत्वमकटुत्वञ्च सा० द० दर्शितम्। शृङ्गारकरुणशान्तेषु “सूर्द्ध्निवर्गान्त्यवर्णेन युक्ताः टठडढान् विना। रणौ लघू च तद्व्यक्तौ वर्णाः कारणतां गताः”। वीरबीभत्सरौद्रेषु तु “वर्गस्याद्यतृतीयाभ्यां युक्तौ वर्ण्णौ तदन्तिमौ। उपर्य्यधो द्वयो र्वा सरेफः टठडढैः सह। शकारश्च षकारश्च तस्य व्यञ्जकतां गताः”। ६ मत्सरिणि ७ सुगन्धौ त्रि० मेदि० “सप्तच्छदक्षीरकटुप्रवाहम्” रघुः। कटुः सुरभिः “कटुतिक्तकषायास्तु सौरभ्येऽपि प्रकीर्त्तिताः” यादवोक्तेः। ८ अप्रिये त्रिका०। ९ दुर्गन्धौ शब्दमा०। (कट्की) १० कटुक्याम् स्त्री अमरः गुणवचनत्वात् वा ङीष् कट्वा।

कटुक = पु० कटु–स्वार्थे कन्। कटुरसे “योजिह्वाग्रं याधत्रे उद्वेगं जनयति शिरो गृह्णीते नासिकां च स्रावयति स कटुकः” सुश्रु० २ तद्वति त्रि० “उपर्य्यविश्रान्तकटुकवर्त्तिप्रयोग वर्द्धिततिमिरेण” काद०। ३ परुषे च त्रि०। “परुषं ये न भाषन्ते कटुकं निष्ठुरं तथा” भा० अनु० ६४५ अ०। ४ उग्रे त्रि० “ततः प्रावर्त्तत पुनः संग्रामः कटुकोदयः” भा० व० २८६ अ०। ५ पटोले पु० राजनि०। ६ सुगन्धितृणे शब्दरत्ना० ७ कुटजवृक्षे (कुड्चि) ८ अर्कवृक्षे (आकन्द) शब्दच० ९ राजसर्षपे च पु० हारा०। १० शुण्ठीपिप्पलीमरिचरूपे त्रिकटुके न० मेदि०।

कटुकत्रय = न० कटुकानां कटुरसानां त्रयम्। शुण्ठीपिपपली मरिचरूपे त्रिकटुनि। “कुक्कुटाण्डकपालानि लशुनं कटुकत्रयम्” सुश्रु०। कटुकत्रिकमप्यत्र न०।

कटुकन्द = पु० कटुः कन्दो मूलं यस्य। १ शिग्रुवृक्षे (सजिना) २ आर्द्रके, च (आदा) मेदिनिः।

कटुकफल = पु० कटुकं फलमस्य। कक्कोले राजान०।

कटुका = स्त्री कटु + संज्ञायां कन्। (कट्की) १ कटुरोहिण्याम्, राजनि० २ ताम्बूल्यां, (पान) शब्दच० ३ राजिकायां, (राइसरिसा) ४ तिक्तालाबुके (तितलाउ) च रत्नमा०। ५ कटुरसयुक्तस्त्रियाञ्च। तत्र (कट्की) वृक्षस्य पर्य्यायगुणादि भावप्र० उक्तं यथा। “कट्वी तु कटुका तिक्ता कृष्णमेदा कटुम्भरा। अशोका मत्स्यशकला चक्राङ्गी शकुलादनी। मत्स्यपित्ता काण्डरुहा रोहिणी कटुरोहिणी। कड्गी तु कटुका पाके तिक्ता रूक्षा हिमा लघुः। भेदिनी दीपिनी हृद्या कफपित्तज्वरापहा। प्रमेहश्वासकासास्रदाहकुष्ठकृमिप्रणुत्”

कटुकालाबु(बू) = स्त्री विपाके कटुका अलाबु(बूः)कर्म्म०। (तितलाउ) अलाबूभेदे रत्रमाला। कटुतुम्बी शब्दे विवृतिः “प्रत्यहं कटुकालाबुस्वेदप्रारब्धदन्तुरताप्रतीकारेण” काद० “कटुकालाबुकृतबेधनसर्षपसर्पनिर्म्मोकैः” सुश्रु०।

कटुकी = स्त्री कटु + स्वार्थेकन् गौरा० ङीष्। (कट्की) १ कटुकायाम्। कटुकाशब्दे गुणपर्य्यायादि।

कटुकीटक = पु० कटुः दंशेन दुःखदत्वात् कीटः स्वार्थे कन्। मशके जटा०।

कटुक्वाण = पु० कटुस्तीक्ष्णः क्वाणो यस्य। (तितिर) टिट्टिभपक्षिणि हेमच०।

कटुग्रन्थि = पुंन० कटुर्ग्रन्थिरस्य। १ पिप्पलीमूले, २ शुण्ठीमूले च राजनि०।

कटुङ्कता = स्त्री कटु दूषितं करोति कृ–ड पृषो० मुम् तस्य भावः तल्। “नित्यकर्म्मममाचारनिष्ठुरत्वे कटुङ्कता” हारा० उक्तार्थे।

कटुचातुर्जातक = न० चतुर्भ्योजातकं ततः स्वार्थे अण् कर्म०। एलात्वक्पत्रकमरिचात्मकद्रव्यचतुष्के राजनि०।

कटुच्छद = पु० कटुश्छदः पत्रं यस्य। तगरवृक्षे (टगर) शब्दरत्ना०।

कटुतिक्तक = पु० कटुश्चासौ तिक्तश्चेति अल्पार्थे कन्। १ भूनिम्बे, वैद्य० २ शणवृक्षे राजनि०।

कटुतिक्ता = स्त्री विपाके कटुः स्वादे तिक्ता। कटुतुम्ब्याम्। स्वार्थे कन् अतैत्त्वं कटुतिक्तिका तत्रैव राजनि०।

कटुतुण्डी = स्त्री कटु तुण्डमस्याः। (कट्तराइ) लताभेदे राजनि० स्वार्थेकन् अतैत्त्वं कटुतुण्डिकापि तत्रैव। “कटुतुण्डी कटः पाके रसे तिक्ता च सा मता। कफवान्तिविषघ्नी- चारुच्यास्रकफपित्तनुत् सदा पथ्या च सा ज्ञेया राजनि० उक्तगुणा

कटुतुम्बी = स्त्री विपाके कटुस्तुम्बी। (तितलाउ) अलाबुभेदे भावप्र० तद्गुणादि उक्तं यथा “इक्ष्वाकुः कटुतुम्बी स्यात् सा तुम्बी च महाफला। कटुतुम्बी हिमा हृद्या पित्तकासविषापहा। तिक्ता कटुर्विपाके च वातपित्तज्वरान्तकृत्”।

कटुत्रय = न० शुण्ठीपिप् पलीमरिचरूपे त्रिकटुनि राजनि०। कटुत्रिकमप्यत्र।

कटुदला = स्त्री कटुदलं यस्याः। (कांकुड) कर्कट्याम् राजनि०

कटुनिष्पाब = पु० कर्म्म०। नदीसन्निकृष्टदेशजाते निष्पाबधान्यभेदे राजनि०।

कटुपत्र = पु० कटु पत्रमस्य। पर्पटे सितार्ज्जके राजनि०।

कटुपत्रिका = स्त्री कटु पत्रमस्याः बहु० कप अत इत्त्वम्। कण्टकारीवृक्षे राजनि०।

कटुपाक = त्रि० कटुः पाकोऽस्य। यस्य पाककाले कटुत्वं १ तादृशद्रव्ये “कटुपाकः सरो हृद्यो गुग्गुलुः स्निग्धपिच्छिलः”। “क्षौमं तैलं बलवहम् कटुपाकमचाक्षुषम्” सुश्रु०। इत्यादिनानास्थाने दर्शितम्। कर्म०। २ कटुरसरूपेण पाके। तथा पाकश्च भावप्र० दर्शितः “जाठरेणाग्निना योगाद्यदुदेति रसान्तरम्। रसानां परिणामान्ते स विपाक इति स्मृतः। मिष्टः पटुश्च मधुरमम्लोऽम्लं पच्यते रसः। (पटुरत्र लवण रसः) “कटुतिक्तकषायाणां पाकः स्यात् प्रायशः कटुः” वाग्भटः “त्रिधा रसानां पाकः स्यात् स्वाद्वम्लकटुकात्मकः” तत्फलमुक्तं भावप्र० “श्लेष्मकृण्म धुरः पाको वातपित्तहरो मतः। अम्लस्तु कुरुते पित्तं वातश्लेष्मगदापहम्। कटुः करोति पवनं कफं वातन्तु नाशयेत्। विशेष एष रसतो विपाकानां निदर्शितः” तथा च षण्णामपि रसानां पाके त्रैविध्यमेव मधुराम्लकटुभेदात्। सुश्रुते तु पाकत्रैविध्यं निराकृत्य द्विधैव पाकः समर्थितः यथा “तस्माद्वीर्य्यं प्रधानमिति। नेत्याहुरन्ये। विपाकः प्रधानमिति कस्मात्? सम्यङ्मिथ्याविपाकादिह सर्व्वद्रव्याण्यभ्यवहृतानि सम्यक् मिथ्या विपक्वानि गुणं दोषं वा जनयन्ति। तत्राहुरन्ये प्रतिरसं पाक इति। केचित्त्रिविधमिच्छन्ति मधुरमम्लं कटुकं चेति तत्तु न सम्यक् भूतगुणादागमाच्चाम्ली विपाको नास्ति पित्तं हि विदग्ध मम्लतामुपेत्यग्नेर्मन्दत्वात्। यद्येवं लवणोऽप्यन्यः पाको भविष्यति श्लेष्मा हि विदग्धो लवणतामुपैति मघुरो मधुरस्याम्लोऽम्लस्यैवं सर्व्वेषामिति केचिदाहुदृष्टान्तं चो- पददिशन्ति यथा तावत् क्षीरं स्थालीगतमभिपच्यमानं मघुरमेव स्यात्तथा शालियवमुद्गादयः प्रकीर्ण्णाः स्वभावमुत्तरकालेऽपि परित्यजन्ति तद्वदिति। केचिद्वदन्त्यबलवन्तोबलवतां वशमायान्तीत्येवमनवस्थितिस्तस्मादसिद्धान्तएष। आगमे हि द्विविध एव पाकी मधुरः कटुकश्च तयीर्म्मधुराख्यी गुरुः कटुकाख्यो लघुरिति तत्र पृथिव्यप्तेजोवाय्वाकाशानां द्वैविध्यं भवति गुणसाधर्म्याद्गुरुता लघुता च पृथिव्यापश्च गुर्व्यः शेषाणि लघूनि तस्माद्दिविघ एव पाक इति। भवन्ति चात्र। द्रव्येषु पच्यमानेषु नेष्वम्बुपृथिवीगुणाः निर्व्वर्त्तन्तेऽधिकास्तत्र पाको मधुर उच्यते। तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु। निर्व्वर्त्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते”। कटुपाकोऽस्त्यस्य इनि। कटुपाकिन् कटुपाकयुक्ते त्रि० स्त्रियां ङीप्। “औद्दालकं रुचिकरम्” इत्युपक्रम्य “पित्तकृत् कटुपाकि च” सुश्रुतः कटुविपाकादयोऽप्यत्र।

कटुफला = स्त्री कटु फलं यस्य। पटोले तस्य पत्रतिक्तत्वेऽपि फले कटुपाकत्वेन तथात्वम् २ श्रीवल्लीवृक्षे च राजनि०।

कटुभङ्ग = पु० कटुः भङ्ग एककदेशो यस्य। शुण्ठ्याम् त्रिका०।

कटुभद्र = पु० कटुरपि भद्रः हितकारी कर्म०। शुण्ठ्याम् राजनि०

कटुमञ्जरिका = स्त्री कटुस्तीक्ष्णा मञ्जरी अस्त्यस्याः अच् गौरा० ङीष्। अपामार्गे। राजनि०।

कटुमोद = न० कटुर्मोदोऽस्य। जवादिनामसुगन्धिद्रव्ये राजनि०

कटुर = न० कटति वर्षति रसान्तरं मन्थनेन कठ–उरन्। तक्रे जटाधरः।

कटुरव = पुं स्त्री कटुः परुषः रवोऽस्य। १ मण्डूके राजनि० स्त्रियां जातित्वात् ङीष्। २ कठोररवयुक्ते त्रि० कर्म्म० ३ परुषशब्दे पु०

कटुरीहिणी = स्त्री कटुः सती रोहति रुह–णिनि। कटुकायाम् (कट्की) अमरः।

कटुवर्ग = पु० कटूनां वर्गः समुदायः। सुश्रुतोक्ते कटुरसानां द्रव्यीणां वर्गे स च वर्गो यथा “पिप्पल्यादिः सुरसादिः शिग्रुमधुशिग्रुमूलकलशुनसुमुखशीतशिवकुष्ठदेवदारुहरेणुकावल्गुजफलचण्डागुग्गुलुमुस्तलाङ्गलकोंशुकनासापीलुप्रभृतीनि सालसारादिश्च प्रायशः कटुकोवर्गः”। तत्र पिप्पल्यादिः सुरसादिः सालसारादिश्च तत्रैवोक्तो यथा १ पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचहस्तिपिप्पलीहरेणुकैलाजमोदेन्द्रयवपाठा जीरकसर्षपमहानिम्बफलहिङ्गुभार्गीमधुरसातिविषावचाविडङ्गानि कटुरोहिणी चेति” पिप्पल्यादिः। “२ सुरसाश्वेतसुरसाफणिज्झकार्जक- भूस्तृणसुगन्धकसुमुखकालमाल कासमर्द्दक्षवकखरपुष्पाविडङ्गकट्फलसुरसीनिर्गुण्डीकूलाहलोन्दुरुकर्णिकाफञ्जीप्राचीनामलकाकमाच्यो विषमुष्टिकश्चेति”। २ सुरसादि “३ सालसाराजकर्णखदिरकदरकालस्कन्धक्रमुभूर्जमेषशृङ्गीतिनिशचन्दनकुचन्दनशिंशपाशिरीषासनधवार्जनतालशाकनक्तमालपूतीकाश्वकर्णागुरूणि कालीयकञ्चेति” ३ सालसारादि।

कटुवार्त्ताकी = स्त्री कर्म्म०। श्वेतकण्टकारिकायाम् राजनि०

कटुवीजा = स्त्री कटु वीजं यस्याः। पिप्पल्याम् राजनि०।

कटुशृङ्गाल = न० कदूनां शृङ्गाय प्राधान्यायालति पर्य्याप्नीति अल–अण्। सुवर्ण्णशाके राजनि०।

कटुस्नेह = पु० कटुःस्नेहोऽस्य। गौरषर्षपे राजनि०।

कटूत्कट = न० कटुषु उत्कटम्। १ आर्द्रके रत्नमाला। संज्ञायां कन्। कटूत्कटक २ शुण्ठ्यां न० राजनि०।

कटोदक = न० कटाय प्रेताय देयमुदकम् शा० त०। प्रेतायतर्पणार्थं देये जले। “हिरण्यकशिपुर्भ्रातुः मम्परेतस्य दुःखितः। कृत्वा कटोदकादीनि” भाग० ७, २, १६। “कटोदकं प्रेताय देयमुदकम्” श्रीधरः।

कटोर = न० कट्यते वृष्यते निषिच्यते भक्ष्यद्रव्यमत्र कट–आघारे ओलच् लस्य रः। भक्ष्यद्रव्यदानार्थे मृदादिपात्रभेदे। “रस्यान्नं देवकीदत्तं पात्रे काञ्चननिर्म्मिते। कटोराणां चतुःषष्टिः पात्रस्योभयतः स्थिता” जैमिनिभा० आश्व० ९ अ०। स्वार्थेकन् तत्रिवार्थे भ०। “मृवकर्पटसंयुतकाचकूप्यां दत्त्वा मुखं मोहनलोहसूत्रैः। निष्कासितो धूमरसस्तु तस्य सौगन्धिकैः काचकटोरके यः”। मेरुत०। अतिक्षुद्रे तथाभूतपात्रे स्त्री कटोरा

कटोल = पु० कटति आवृणोत्यन्यरसम् कट–ओलच्। १ कटुरसे २ कटुरसयुक्ते त्रि० सि० कौ०। चण्डाले पुंस्त्री उणादिको० स्त्रियां ङीष्। स्वार्थेकन्। तत्रार्थे। कटोलकस्य चण्डालस्येव पादावस्य उपमानपूर्व्वकत्वेऽपि हस्त्यादि० नान्त्यलोपः। कटोलकपादः इत्येव।

कटोलवीणा = स्त्री ६ त०। चण्डालस्य वाछभेदे (केन्दुडा) शब्दर०

कट्फल = पु० कटति आवृणोत्यन्यरसं कट–क्विप् कट्फलमस्य। कटुरसतयाऽन्यरसावरकफलके (कायफल) इति ख्याते श्रीपर्ण्णीवृक्षे अमरः। तत्पर्य्यायगुणादि भावप्र० उक्त यथा “कट्फलः सोमवल्कश्च कैटर्य्यः कुम्मिकाऽपि च। श्रीपर्ण्णिका कुमुदिका भद्रा भद्रवतीति च। कट्फलस्तुवरस्तिक्तः कटुर्वातकफज्वरान्। हन्ति श्वास प्रमेहार्शःकासकण्ठामयारुचीः”। २ गाम्मार्य्यां स्त्री रत्नमा० ३ वृहत्यां ४ काकमाच्यां ५ देवदाल्यां ६ वार्त्ताक्यां ७ मृगेर्व्वारौ च स्त्री राजनि०।

कट्फलादिचूर्ण्ण = चक्रद० कामरोगाधिकारोक्ते चूर्ण्णभेदे यथा “कट्फलं कत्तृणं भार्गी मुस्तधान्यं वचाभया। शृङ्गी पर्पटकं शुण्ठी सुराह्वा च जले शृतम्। मधुहिङ्गुयुतं पेयं कासे वातकफात्मके। कण्ठरोगे क्षये शूले श्वासहिकाज्वरेषु च”।

कट्वङ्ग = पु० कटु अङ्गमस्य। श्योनाकवृक्षे (शोना) अमरः। कटूनि उग्राणि अङ्गानि यस्य। २ सूर्य्यबंश्ये दिलीपनृपे पु० त्रिका०।

कट्वर = न० कट–वर्षादौ ष्वरच्। १ व्यञ्जने उज्ज्व०। २ दधिसरे रत्नमा० “दध्नस्तु ससरस्यात्र तक्रं कट्वरमुच्यते” वैद्यकोक्ते ३ तक्रभेदे च

कट्वी = स्त्री कटु स्त्रियां ङीष्। १ कटुरसान्वितायां स्त्रियां (कटकी) २ कटुकायाञ्च मावप्र०।

कठ = आध्याने (उत्कण्ठापूर्ब्बकस्मरणे) वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदिंत्। कण्ठयति ते कण्ठति। अचकण्ठत् त अकण्ठीत्। कण्ठयां बमूव आस चकार चक्रे चकण्ठ–कण्ठितः कण्ठा।

कठ = कृच्छ्रजीवने भ्वादि० पर० अक० सेट्। कठति अकठीतकाठीत्। चकाठ। कठरः कठेरः कठिनः कठोरः।

कठ = आध्याने (उत्कण्ठापूर्ब्बकस्मृतौ) इदित् भ्वा० कात्म० सक० मेट्। प्रायेणोत्पूर्वः उत्कण्ठते उदकण्ठिष्ट। उच्चकण्ठे। उत्कण्ठितः उत्कण्ठा “उत्कण्ठायां हृदि न कुरुते कारणानां सहस्रम्”। “रेवाबोधसि वेतसीतरुतले चेतः समुत्कण्ठते” काव्य० प्र०।

कठ = पु० कठ–अच्। १ मुनिविशेषे कठेन प्रोक्तमधीयते वैशान्वयानान्तेवासित्वात् णिनि तस्य “कठचरकात् लुक्” पा० लुक्। २ तद्दृष्टशाखाध्यायिषु पु० ब० व०। स्त्रियां तु वेदशाखा वाचित्वेन जातित्वात् ङीष् कठी इत्येव। ३ ऋग्भेदे ४ स्वरभेदे च” हेम०। “बैशम्पायनान्तेवासिनश्च आलम्बुलङ्ग कमल ऋचमाऽऽरुणि ताण्ड्य श्यामायन कठकलापिन्” इति नव। कठशाखा च यजुर्व्वेद ऋग्वेदे चास्ति सैव ऋग्भेदः। “देवसुम्नयोर्यजुषि काठके” इत्यस्य बा० सूत्रस्य व्याख्यायां सि० कौ० “यजुःशब्दोऽत्र न मन्त्रमात्रपरः किन्तु वेदोपलक्षकः तेन ऋगात्मकेऽपि मन्त्रे यजुर्वेदस्थे भवति किञ्च ऋग्वेदेऽपि भवति स चेन्मन्त्रो यजुषिकठशाखायां दृष्टः यजुषिति किम् “देवान् जिगाति सुम्नुयुः”। बहॄचानामम्यस्ति कठशाखा ततोमवति प्रत्युदा हरणमिति हरदत्तः”। ३ मन्त्रेतरवेदभागरूपब्राह्मणे “ई शाकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः इति उपनिषच्छब्दे दर्शितसुक्तिकोपनिषद्वाक्ये कठेति निर्द्दोशात्। तच्च कठवल्लीत्वेन प्रसिद्धम्। सा च कृष्णयजुर्ब्राह्मणरूपा “उशन् ह वै वाजश्रवसः” इत्याद्या। शब्दकल्पद्रुमे त्रिकाण्डशेषप्रमाणेन ब्राह्मण इति पुंलिङ्गनिर्द्देशेन विप्रपरतोक्तिश्चिन्त्या त्रिकाण्डशेषे व्राह्मणपर्य्याये ठान्त नानार्थे च कठशब्दस्यादर्शनात्।

कठमर्द्द = पु० कठं कष्टजीवनं मृद्गाति मृद–अण्। शिवे त्रिका०

कठर = त्रि० कठ–अरन्। कठिने जटा०।

कठशाठ = पु० ऋषिभेदे ततः तेन प्रोक्तमधीयते णिनि। काठशाठिन् तत्प्रोक्तछन्दोध्यायिषु पु० ब० व०।

कठाहक = पुंस्त्री कठं कठिनमाहन्ति–आ + हन ड तादृशं कं शिरोऽस्य। दात्यूहे शब्दर०।

कठिका = स्त्री कठ–बा० वुन्। (खडी) कठिन्याम्।

कठिञ्जर = पु० कठ–इन् कठिं कठिनं जरयति जृ–णिच् बा० खच् मुम् च्। तुलस्याम् अमरः।

कठिन = त्रि० कठ–इनन्। १ क्रूरे, २ निष्टुरे, ३ कठोरे, ४ स्तब्धे च मेदि० ५ स्थाल्याम् स्त्री हारा० न० च ६ गुडस्य शर्कायां विश्वः। “नवजलधरश्यामाः पश्यन् दिशो भवतीं बिना कठिनह्वदये! जीवत्येष प्रिये! स तव प्रियः “न विदीर्य्ये कठिनाः खलु स्त्रियः” कुमा० “परामृशत् कठिनकठोरकामिनीत्यादि” माघः। “नितान्तकठिनां रुजं मम न वेद सा मानसीम्” विक्रमो०। “गण्डाभोगात् कठिनविषमामेकवेणीं करेण” मेघ० तस्य भावः त्व। कठिनत्व कठिनभावे न०। तल। कठिनता तद्भावे स्त्री। ष्यञ्। काठिन्य तद्भाबे न०। काठिन्यञ्च द्रव्यस्य आरम्भकसंयोगविशेषात्स्पर्शविशेष!। शब्दादेस्तु दुर्बोधत्वम्।

कठिनपृष्ठ = पु० कठिनं पृष्ठमस्थ। १ कच्छपे राजनि० स्त्रियां जातित्वात् ङीष्।

कठिनी = स्त्री कठिन + गौरा० ङीष्। मूमौ लेखनसाधने द्रव्ये। खठिकायाम्। “कठिनोः क्षिणोतीति” नैषधम् “गुणिजनगणनारम्भे न पतति कठिनी ससम्भमा यस्य। तेनाम्बा यदि सुतिनी वत बन्ध्या कीदृशी भवति” नीतिसारः। स्वार्थे कन् कठिनिकाषि तत्रार्थे।

कठेर = त्रि० कठ–कृच्छ्रजीवने एरक्। कृच्छ्रजीविनि ऊज्ज्व०।

कठेरणि = पु० ऋषिभेदे ततो गोत्रापत्ये अणो बहुत्वे वा लुक्। काठेरणाः कठेरणयः तद्गोत्रापत्येषु पुंस्त्री ब० ब०

कठेरु = पु० कठ–एरु। चामरवाते। शब्दचि०।

कठोर = त्रि० कठ + ओरन्। १ कठिने, २ पूर्णे, च शब्दचि०। “कठोरतारापतिलाञ्छनच्छविरिति” माघः। “परामृशत् कठिनकठोरकामिनीत्यादि” माघः “सूक्ष्मार्थग्राहके च। “कलाकलापानोचनकठोरमतिभिः” काद०।

कठोल = त्रि० कठ ओलच्। कठिने कठोरे अमरः।

कड = भक्षणे सक० मदे अक० तुदा० सेट् पर०। कडति अकडीत् अकाडीत् चकाड। कडारः कडम्बः। प्रणिकडति

कड = दर्पे भ्वा० इदित् ञित्त्रात्, उभ० ङित्त्वात् अफलवत्कर्त्तर्य्यपि आत्म० अक० सेट्। कण्डति ते। अकण्डीत् अकण्डिष्ठ चकण्ड चकण्डे। अयं वितुषोकारणार्थे व्यापारभेदे च। (का~डान) कण्डति तुण्डुलम् इति केचित्।

कड = रक्षणे भेदे (वितुषीकरणार्थव्यापारे) च (का~डान) चुरादि० इदित् उभ० सक० सेट्। कण्डयति ते अचकण्डत् त। कण्डयाम् बभूव आस चकार चक्रे। कण्डनम् कण्डितः कण्डयन् कण्ठयितुम्। कण्डयित्वा कण्डना।

कड = त्रि० कड–मदे अच्। मूर्खेहला०। घञर्थेक। २ भक्षणीये च कडङ्गरम्।

कडक = न० कड–अच् संज्ञायाम् कन्। (करकच्) लवणभेदे रत्नमा०।

कडङ्गर = न० कडं भक्षणीयं शस्यादि गिरति अभ्यन्तरे निवेशयति गॄ–अच् नि० मुम्। वुसे मुद्गादेः फलशून्यनाडिकाकाष्टे अमरः।

कडङ्गरीय = त्रि० कडङ्गरमर्हति। वुसभक्षणयोग्ये गवादौ। “नीवारपाकादिकडङ्गरीयैः” रघुः।

कड(ल)त्र = न० गड–सेचने अत्रन् “गडेरादेश्च कः” उणा० गस्य कः डलयोरेकत्वात् वा लः १ श्रोणौ २ भार्य्यायाञ्च उज्ज्वलदत्तः। कलत्रशब्दे उदा०।

कडम्ब = पु० कड–अम्बच्। १ शाकनाडिकायाम्(ड~टा)अमरः। २ कोणे प्रान्तभागे च उणादिवृत्तिः।

कडम्वी = स्त्री कडम्बी भूयसा विद्यतेऽस्याः अर्श आद्यचि गौरा० ङीष्। (कलमी) शाकमेदे शब्दरत्ना० तस्याः कडम्बभूयस्त्वात् तथात्वम् कलम्बीशब्दे उदा०।

कडवक = पु० “अपभ्रं शनिबन्धेऽस्मिन् सर्गाः कडवकाभिधाः” सा० द० उक्ते अपभ्रंशनिबन्धानामध्यायविरामसूचके सर्गे।

कडार = पु० गड–सेचने आरन् गस्य कादेशः। १ पिङ्गलवर्णे। २ तद्वति त्रि०। “करभकण्ठकडारमाशाः” माघः। ३ दासे पु० मेदि०। तस्य सेचनकर्तृत्वात् तथात्वम्। कड–दर्पे आरन्। ४ दृप्ते त्रि० कडारशब्दस्य कर्म्मधारये वा पूर्वनिपातः। कडारजैमिनिः जैमिनि- कडारः वहुव्रीहौ तु न। “कडारपुरुषोत्तमः” सि० कौ०। “कडाराः कर्मधारये” पा० बहुत्वात्तद्गणोऽत्र विवक्ष्यते स च गणः। कडार, गडुल, खञ्ज, खोड, काण, कुण्ठ, खलति, गौर, वृद्ध, भिक्षुक, पिङ्ग, पिङ्गल, तनु, जरठ, बधिर, मठर, कब्ज, वर्वर”।

कडितुल = पु० कट्या तुलाऽत्र पृषो० टस्य ड। खड्गे शब्दर० कटिव्यासस्य त्रिंशदङ्गुलाधिकतया खड्गस्य च निस्त्रिंशत्वेन त्रिंशदधिकाङ्गुलतया च तयोः साम्येन तथात्वम्। कड भक्षणे इन् तस्य तुलाऽत्र। हिंसकतुल्यत्वाद्वा खड्गस्य तथात्वम्।

कड्ड = कार्कश्ये भ्वा० पर० अक० सेट्। कड्डति अकड्डीत्। चकड्ड–प्रनिकड्डति डोपधत्वात् क्विपि डट् कड्।

कण = आर्त्तस्वरे भ्वा० पर० अक० सेट्। कणति अकाणीत् अकणीत्। ऋदित्। णिचि अचीकणत् त अचकणत् त। चकाण प्रनिकणति।

कण = गतौ भ्वा० पर० सक० सेट्। कणति अका(क)णीत्। घटादि०। णिचि कणयति ते

कण = निमीलने वा चुरा० पर० अक० सेट्। काणयति ते। अचीकणत् त। काणयीम् यभूव आस चकार चक्रे काणः पक्षे पर० भ्वा० कणति अक(का)णीत् चकाण। निमीलनयत्र नेत्रादेः पक्ष्मावरणं सावयवस्याङ्गसङ्कोचनञ्च।

कण = पु० कण–निमीलने अच्। १ धान्यादेरतिसूक्ष्मांशे, राजनि० २ लेशे च वयवाल्पत्वेन तयोरवयवसङ्कोचवत्त्वात्तथात्वम् “तिलातसीसर्षपकणांश्चात्र प्रकिरेत्” सुश्रु०। “द्वादशाहं कणान्नता” याज्ञ० “नयनयुगलं कङ्कणभरम्” उद्भटः। “उद्यानानां नवजलकणैर्यूथिकाजालकानि” मेघ०। कणभक्षः कणादः। ३ वनजीरके स्त्री गौरा० ङीष्। अल्पार्थे टाप्। ४ क्षुद्रांशे ५ जीरके “शुण्ठीपादमिता कणार्ण्णवमिता दीप्तायवान्योः क्रमात्” वैद्यकम्। “द्राक्षावल्लीनागवल्ली कणावल्लीशतावृतम्” काशी०। ६ पिप्पल्याम्, ७ श्वेतजीरके च राजनि०। “कणान् वा भक्षयेदब्दं पिण्याकं बा सकृन्निशि” मनुः अल्पांशे स्त्रीत्वमपि “कदलीफलमध्यस्थं कणामात्रमपक्वकम्” तिथित०। (कुमेरापोका)। ७ कुम्भरीमक्षिकायां स्त्री मेदि०। ८ महिषाख्यगुग्गुलौ न० “रुहिकाख्यं कणं दारु सिह्लकं सागुरुं सितम्। शङ्खं जातीफलं श्रीशे धूपानि स्युः प्रियाणि वै” ति० त० वामपु०। “कणं महिषाख्य गुग्गुलुः” रघु० भीमसेनो भीमवत् कणगुम्- गुलुः कण इत्युत्तरपदलोपात्तथेति चिन्तनीयम्।

कणगुग्गुलु = पु० कण–निमीलने अच् कर्म्मधा०। महिषाख्यगुग्गुलौ राजनि०। प्रसङ्गात् गुग्गुलुभेदगुणादिकं भावप्र० दर्शितमुच्यते। “महिषाख्यो महानीलः कुमुदः पद्म इत्यपि। हिरण्यः पञ्चमो ज्ञेयो गुग्गुलोः पञ्च जातयः। भृङ्गाञ्जन सवर्णस्तु महिषाख्य इति स्मृतः। महानीलस्तु विज्ञेयः स्वनामसमलक्षणः। कुमुदः कुमुदाभः स्यात् पद्मो माणिक्यसन्निभः। हिरण्याख्यस्तु हेमाभः पञ्चानां लिङ्ग मीरितम्। महिषाख्यो महानीलो गजेन्द्राणां हिता वुभौ। हयानां कुमुदः पद्मः स्वस्त्यारोग्यकरौ परौ। विशेषेण मनुष्याणां कनकः परिकीर्त्तितः। कदाचिन्महिषाख्यश्च ख्यातः कैश्चिन्नृणामपि। गुग्गुलुर्विशदस्तिक्तो वीर्य्योष्णः पित्तलः सरः। कषायः कटुकः पाके कटू रूक्षो लघुः परः। भग्नसन्धानकृद् वृष्यः सूक्ष्मः स्वर्यो रसायनः। दीपनः पिच्छिलो बल्यः कफवातव्रणापहः। मेदोमेहाश्मवातांश्च क्लेदकुष्ठाममारुतान्! पिडका ग्रन्थिशोफार्शोगण्डमालाः कृमीन् जयेत्! माधुर्य्याच्छमयेद्वातं कषायत्वाच्च पित्तहा। तिक्तत्वात् कफजित्तेन गुग्गुलुः सर्वदोषहा! स नवो वृंहणो वृष्यः पुराणस्त्वतिलेखनः। स्निग्धः काञ्चनसङ्काशः पक्वजम्बूफलोपमः। नूतनो गुग्भुलुः प्रोक्तः सुगन्धिर्यस्तु पिच्छिलः। शुष्को दुर्गन्धकश्चैव त्यक्तप्रकृतिवर्णकः। पुराणः स तु विज्ञेयो गुग्गुलुर्वीर्य्य वर्ज्जितः। अम्लं तीक्ष्णामजीर्णञ्च व्यवायं श्रममातपम्। मद्यं रोषन्त्यजेत् सम्यग्गुणार्थी पुरसेवकः”।

कणजीर = पु० कर्म्मधा०। श्वेतजीरके राजनि०।

कणजीरक = पु० कर्म्म० अल्पार्थे कन्। क्षुद्रजीरके रत्नमा० जीरकपर्य्यायभेदगुणादि भावप्र० दर्शितं यथा “जीरको जरणो जाजी कणा स्याद्दीर्घजीरकः। कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः। कालाजाजी तु सुषवी कालिका चोपकालिका। पृथ्वीका कारवी पृथ्वी पृथुकृष्णोपकुञ्चिका। उपकुञ्ची च कुञ्ची च वृहज्जीरक इत्यपि। जीरकत्रितयं रूक्षं कटुध्नं दीपनं लघु। संग्राहि पित्तलं मेध्यं गर्भाशय विशुद्धिकृत्। ज्वरघ्नं पाचनं वृष्यं बल्यं रुच्यं कफापहम्। चक्षुष्यं पवनाध्मानगुल्मच्छर्द्यतिसारहृत्”।

कणप = पु० कणान् लोहगुलिकाः पिबति पा–क। यन्त्रभेदे (वन्दुक)येन यन्त्रेण आग्नेयद्रव्ययोगेन गर्भसंभृता लौहगुलिकास्तारका इव विकीर्य्यन्ते तादृशे यन्त्रे “अयः कणपचक्राश्मभूशुण्ड्युद्यतबाहवः” मा० आ० ८२५७ श्लो० नीलकण्ठ व्याख्यायां अयःकणपम् लौहमयमिति क्लीवतया प्रयोगश्चिन्त्यः अमरे “आतपः क्षत्रिये नाभिः कणपः क्षुरकेदरः” इति पुंस्त्वनिर्द्देशात् तत्र कुणप इति पाठान्तरम्। “चापचक्रकणप कर्पण प्रासपट्टिश मुषलतोमरादिप्रहरणजालम्” दशकुमा० पा–णिनि। कणपायिन् इत्यपि तत्र। “परिघान् भिन्दिपालांश्च भुशुण्डी कणपायिनः” भा० कर्ण्ण० ७४४ श्लो०। कणपानपि इति पाठः

कणभ = पु० कण इव भाति भा–क। अग्निप्रकृतिके सुश्रुतोक्ते कीटभेदे। “त्रिकण्टकः कुणी चापि हस्तिकक्षोऽपराजितः। चत्वार एते कणभाव्याख्यातास्तीव्रवेदनाः” सुश्रुः। स्वार्थे कन् तत्रार्थे। “कौण्डिल्यकः कणभकः” इत्युपक्रम्य “एते ह्यग्निप्रकृतयश्चतुर्विंशतिरेव च। वैर्भवन्तीह दष्टानां रोगाः पित्तनिमित्तजाः” सुश्रु०।

कणलाभ = पु० कणानां लाभोयस्मात्। १ पेषणसाधनयन्त्रभेदे (या~ता) स सादृश्येनास्त्यस्य अर्श० अच्। २ आवर्त्ते त्रिका० (जलेरघूर्णा) तस्य पेषणयन्त्रवत् आवर्त्तनात् तथात्वम्

कणशस् = अव्य० कणशब्दात् अल्पार्थात् कारकार्थवृत्तेः वीप्सार्थे शस्। कारकार्थवृत्तेः कणशब्दस्य वीप्सान्वितेऽर्थे “तदिदं कणशोविकीर्य्यते पवनैर्भस्म कपीतकर्वुरम्” कुमा०।

कणाटीन = पुंस्त्री कणायाटति अट्–ईनन्। खञ्जनपक्षिणि शब्दर० स्त्रियां ङीष्।

कणाटीर = पुंस्त्री कणायाटति अट–ईरन्। खञ्जनखगे शब्दरत्ना०। स्त्रियां ङीष्। स्वार्थेकन्। कणाटीरकोऽप्यत्र

कणाद = पु० कणमत्ति अद–अण् उप० स०। १ वैशेषिकसूत्रकारे काश्यपगोत्रे ऋषिभेदे तन्मतमौलूक्यशब्दे दर्शितम्। २ कलादे स्वर्णकारे च सारसुन्दरी।

कणिक = पु० कणोविद्यतेऽस्य अस्त्यर्थे ठन्। १ गोधूमचूर्णे, (मयदा) राजनि० २ अतिसूक्ष्मांशे, ३ अग्निमन्थवृक्षे च स्त्री मेदि०। स्वार्थेठन् ४ अल्पार्थे “नाभेरभूत् स्वकणिकाद्वटवन्महाब्जम्” भाग० ७, ९, ३३, कणैव स्वार्थे कन्। कणिका ५ जीरके। मेदि०। ६ अल्पांशे ७ तण्डुलभदे च रायमुकुटः। “तामुथाप्य स्वजलकणिकाशीतलेनानिलेन” मेघ०

कणित = न० कण–आर्त्तस्वरे भावे क्त। १ पोडितानां शब्दे। कर्त्तरि क्त। २ तत्कर्त्तरि त्रि०।

कणिश = न० कणो विद्यतेऽस्य इनि कणी तं श्यति शी–क। शस्यमञ्जर्य्यां षान्यादिशीर्षे अमरः।

कणीक = त्रि० कण–ईकन्। १ अल्पे उणादिकोषः।

कणीचि = पु० कण–“मृवणिभ्यामीचिः” उणा० ईचि। १ पल्लव्यां २ निवासे च रभसः। ३ पुष्पिताया लतायां ४ गुञ्जायां शकटे च स्त्री मेदि० वा ङीप्।

कणीयस् = त्रि० कण + ईयसु। अत्यन्ताल्पे स्त्रियां ङीप्।

कणे = अव्य० क ण–ए। श्रद्धाप्रतिघाते अस्य “कणेमनसी श्रद्धा प्रतिघाते” पा० गतित्वम्। तेन कणेहत्य पयः पिबतीत्या दौ गतित्वात् समासे ल्यप्। श्रद्धापतिघातं कृत्वेत्यर्थः।

कणेर = पु० कण एर-। १ कर्ण्णिकारवृक्षे २ वेश्यायां ३ हस्तिन्यां च स्त्री उणादिकोषः।

कणेरु = स्त्री कण–एरु। १ वेश्यायां २ करिण्याञ्च ३ कर्ण्णिकारवृक्षे पु० मेदि०।

कण्ट = त्रि० कटि–अच्। कण्टके। कण्टफलः

कण्टक = पु० न० कटि–ण्वुल्। १ सूच्यग्रे, २ क्षुद्रशत्रौ, ३ रोमाञ्चे, अम० ४ मत्स्याद्यस्थ्नि ५ द्रुमाङ्गे (कांटा) मेदि० ६ केन्द्रे दीपिका “लग्नाम्बुद्यूनकर्माणि केन्द्रमुक्तञ्च कण्टकम्” इति ज्योतिषोक्तेः लग्न तच्चतुर्थसप्तमदशमस्थानरूपं केन्द्रम्। “चेत् कण्टके पनफरे तु ग्रहाः समस्ताः स्यादिक्कवाल इति राज्यसुखाप्तिहेतुः” नील०। “अष्टमस्थे निशानाथे कण्टके पापवर्जिते” षट् प०। तत्र क्षुद्रशत्रौ “सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः” “कण्टकानाञ्च शोधनम्” “एवमादोन् विजानीयात् प्रकाशान् लोककण्टकान्” “कण्टकोद्धरणे नित्यमात्तिष्ठेत् यत्नमुत्तमम्” मनुः। रोमाञ्चे “प्रीतिकण्टकितत्वचः” कुमा०। उपचारात् वादे ७ दोषभेदे। “एवं क्षुद्रकण्टका उद्धर्त्तव्याः” सर्व्वद०।

कण्टकद्रुम = पु० कण्टकप्रधानोद्रुमः शा० त०। वर्वुरप्रभृतौ कण्टकाचिते वृक्षे। “किं कुलेनोपदिष्टेन शीलमेवात्र कारणम्। भवन्ति नितरां स्फीताः सुक्षेत्रे कण्टकद्रुमाः” मृच्छ०। “दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः” भाग० ७, ५, १७,। २ शाल्मल्मलिवृक्षे(शिमुलगाच्छ)राजनि० कण्टकोऽस्त्यस्य वाहुल्येन इनि कर्म्मधा०। काण्टकिद्रुमोऽप्युभयत्र। एवं कण्टकवृक्षकण्टकि वृक्षादयोऽप्युभयत्र

कण्टकप्रावृता = स्त्री ३ त०। घृतकुमार्य्याम् राजनि०।

कण्टकफल = पु० कण्ठकाचिनं फलं यस्य। पनसवृक्षे (काटाल) कण्टकिफलोऽप्यत्र अमरः। २ गोक्षुरवृक्षे (गोखुरी) रत्नमाला

कण्टकवृन्ताकी = स्त्री कण्टकाचिता वृन्ताकी शा० त०। वार्त्ताक्याम् (वेगुण) राजनि०। तस्यावृन्ते कण्टकाचितत्वात् तथात्वम्

कण्टकश्रेणि = स्त्री कण्टकानां श्रेणिर्यत्र। कण्टकार्य्याम् शव्दच०

कण्टकस्थल = पु० वृह० सं० कूर्म्मविभागे आग्नेय्यामुक्तदेश भेदे। स च देशः “आग्नेय्यां दिशि कीसलेत्युपक्रमे “किष्किन्ध्याकण्टकस्थलनिषादराष्ट्राणि पुरिकदाशार्ण्णाः” इत्युक्तः।

कण्टकागार = पुं स्त्री कण्टकमागिरति आ + गृ–अण्। (सरट्) जन्तुभेदे राजनि० स्त्रियां ङीष्।

कण्टकाढ्य = पु० कण्टकैराट्यः। कुब्जके कण्टकयुक्तपुष्पप्रधाने वृक्षेभेदे राजनि०।

कण्टकार = पु० कण्टकमृच्छति ऋ–अण्। १ शाल्मलिवृक्षं (शिमुल) राजनि०। २ विकङ्कते (व~इची) शब्दरत्रा०। ३ स्वनामख्यातवृक्षे स्त्री भावप्र० “किट्टाणञ्” सूत्रेतद्धिताणन्तस्यैव ग्रहणमते गौरा० ङीष्। अन्यमते अणन्तत्वात् ङीप् इति भेदः। कण्टकारा(री)णां समूहः रजता० अञ्। काण्टकार तत्समूहे। तत्र गणे कण्टकारशब्दस्य पाठेऽपि लिङ्गविशिष्टपरिभाषया कण्टकारीशब्दस्यापि ग्रहणात्।

कण्टकारिका = स्त्री कण्टकान् ऋच्छति कण्टक + ऋ–ण्वुल्। १ स्वनामख्याते वृक्षे। फलेऽणि हरितक्यादित्वात् लुक् तत् फलेऽपि स्त्री। “कण्ठकारी तु दुःस्पर्शा क्षुद्रा व्याध्री निदिग्धिका। कण्ठलिका कण्ठकिनी धावनी वृहती तथा। उभे च वृहत्यौ। यत आह शाश्वतः

“क्षुद्रायां क्षुद्रभण्टाक्यां वृहतीति निगद्यते”। श्वेता क्षुद्रा चन्द्रहासा लक्ष्मणा क्षेत्रदूतिका। गर्भदा चन्द्रभा चन्द्रा चन्द्रपुष्पा प्रियङ्करी। कण्टकारी सरा तिक्ता कटुका दीपनी लघुः। रूक्षोष्णा पाचनी कासश्वासजृरकफानिलान्। निहन्ति पीनसं पार्श्वपीडार्छामहृदामयान्। तयोः फलं कटु रसे पाके च कटुकं भवेत्। शुक्रस्य रेचनं भेदि तिक्तं पित्ताग्निकृल्लघु। हन्यात् कफमरुत् कण्डूकासमेदकृमिज्वरान्। तद्वत्प्रोक्ता सिता क्षुद्रा तिशेषाद् गर्भकारिणी” भावप्र० पर्य्यायभेदगुणा उक्ताः कण्टकारीफलं तिक्तं कटुकं दीपनं लघु। रूक्षोष्णं श्वासकासध्नं ज्वरानिलकक्रापहम्” भावप्र०

कण्टकारीघृत = न० चक्रद० उक्ते घृतभेदे “कण्टकारीगुडूचीभ्यां पृथकात्रंशत्पलाद्रसे। प्रस्थः सिद्धोधृताद्वातकासनुद्वह्निदीपनः”

कण्टकार्य्यादिपाचन = न० चक्रद० उक्ते पाचनभेदे “कण्टकार्य्यमृता भागीं नागरेन्द्रयवासनम्। मूनिम्बञ्चन्दनं मुस्तं पटोलं कटुरोहिणी। कषायं पाययेदेतत्पित्तश्लेष्मज्वरापहम्। दाहतृष्णारुचिच्छर्दिकासहवपाश्वशूलनुत्”

कण्टकाल = पु० कण्टं कण्टकाकारं फले कालयति चुरा० कल–अण्। पनसवृक्षे शब्दच०।

कण्टकालुक = पु० कण्टकायालति पर्य्याप्रोति अल–उकञ्। यवासवृक्षे राजनि०

कण्टकाशन = पु स्त्री कण्टकमश्नाति अश–युच्। उष्ट्रे त्रिका० स्त्रियां ङीष्। एवं कण्टकभक्षकादयोऽप्यत्र।

कण्टकाष्ठील = पुं स्त्री कण्ठकमष्ठीलमिवास्य। मत्स्यभेदे त्रिका० स्त्रियां ङीष्।

कण्टकित = त्रि० कण्टको रोभाञ्चो जातोऽस्यतार० इतच्। जा पुलके “प्रोतिकण्टकितत्वचः” कुमारः। “आसीद वरः कण्टकितप्रकोष्ठः” रघुः।

कण्टकिन् = पुं स्त्री कण्टकोऽस्त्यस्य कण्टक + इनि। मत्स्ये शब्दर० स्त्रियां ङीप्। २ खदिरवृक्षे पु० शब्दमाला ३ मदलवृक्षे (मयना) रत्रमा०। ४ गोक्षुरे ५ वंशे ६ वदरवृक्षे च राजनि०। ७ कण्टकयुक्तमात्रे त्रि०।

कण्टकिफल = पु० कण्टकि कण्टकयुक्तं फलमस्य। पनसे स्त्रियां ङीप् सा च १ वार्त्ताक्यां ६ शोणझिण्ट्यां ३ मधुखर्ज्जूर्य्याञ्च राजनि० तस्य पर्य्यायगुणादि भाव० उक्तं यथा “पनशः कण्टकिफलः पनसोऽतिवृहत्फलः “पनशं शीतलं पक्वं स्निग्धं पित्तानिलापहम्। तर्पणं वृंहणं स्वादुमांसलं श्लेष्मलं भृशम्। बल्यं शुक्रप्रदं हन्ति रक्तपित्तक्षतव्रणान्। आमन्तदेव विष्टम्भि वातलन्तुवर गुरु। दाहकृत् मधुरं बल्यं कफमेदोविवर्द्धनम्। पनसोद्भूतवी जानि वृष्याणि मधुराणि च। गुरूणि बद्धविट्कानि सृष्ट मूत्राणि संवदेत्”। अन्यच्च। “मज्जा पनसजोवृष्यो वातपित्तकफापहः। विशेषात् पनसोवर्ज्यः गुल्मिभिर्मन्द बह्निभिः”।

कण्टकिल = पु० कण्टक + अस्त्यर्थेइलच्। (वेडवा~श)। वंशभेदे शब्दच०।

कण्टकिलता = स्त्री कण्टकिनी लता कर्म्म०। (शशा) त्रपुषीलतायाम् राजनि०

कण्टकी = स्त्री कण्टक + अर्शआदित्वादच् गौरा० ङीष्। वार्त्ताकीभेदे। (का~टावेकुण) राजवल्लभः! “कण्टकी कटुतिक्ता च रक्तपित्तप्रकोपिनी। कण्डूकच्छूहरा नित्यं दोपनी परिकीर्त्तिता” इत्युक्तगुणा। २ कर्म्मणि च “यातुधानेभ्यः कण्टकीकारीम्” यजु० ३०८। “कण्टकी कर्म्म तत्रिणीम्” वेददीपः।

कण्टकीद्रुम = पु० कण्टकी द्रुमः पृषो० दीर्घः खदिरवृक्षे रत्नमा०

कण्टकीफल = पु० कण्टकि फलमस्य पृषो० दीर्घः। पनसे भरतः

कण्टकुरण्ट = पु० कण्टप्रधानः कुरण्टः। झिगट्याम् (झ~ष्टि, राजनि०)

कण्टतनु = स्त्री कणटा कण्टकान्विता तनुर्यस्याः। वृहत्याम् राजनि०।

कण्टदला = स्त्री कण्टं कण्टकाचितं दलं यस्याः। केतक्याम्। राजनि०

कण्टपत्र = पु० कण्टं कण्टकान्वितं पत्रं यस्य। विकङ्कतवृक्षे। (व~इची)शब्दमाला

कण्टपत्रफला = स्त्री कण्टं कण्टकान्वितं पत्रं फलञ्चयस्याः। ब्रह्मदण्ड्याम् राजनि०।

कण्टपाद = पु० कण्ठः कण्टकान्वितः पादी मूलं यस्य। विकङ्कतवृक्षे। (व~इची) राजनि०।

कण्टफल = पु० कण्टं कण्टकान्वितं फलं यस्य। १ गोक्षुरे, २ पनसे, ३ धूस्तूरे, ४ लताकरञ्जे, ५ एरण्डभेदे च राजनि०। (देवताड) ६ देवतालीलतायाम् स्त्री राजनि०।

कण्टल = पु० कण्ट + मत्वर्थीयो लच्। वर्वुरे(वावला)शब्दच०।

कण्टवल्ली = स्त्री कण्टा कण्कान्विता वल्ली। श्रीवल्लीवृक्षे राजनि०

कण्टवृक्ष = पु० कण्टप्रधानोवृक्षः। तेजःफलबृक्षे राजनि०।

कण्टाफल = पु० कटि–भावे अ कण्टा वेष्टनम् तया तदुपलक्षितं फलमस्य। पनशे (काटाल) शब्दमाला।

कण्टार्त्तगला = स्त्री कण्टातद्युक्ता आर्त्तगलाकर्म०। नीलझिण्ट्याम्। (नीलझा~टि) राजनि०।

कण्टालु = स्त्री कण्टाय कण्टकाय अलति पर्य्याप्नोति अल उण्। १ वार्त्तक्यां २ वंशे ३ वृहय्यां ४ वर्वुरे च राजनि०।

कण्टाह्व = न० कण्टं कण्टकमाह्वयते स्पर्द्वते आ + ह्वे–क। कटुकन्दे राजनि०।

कण्टिन् = त्रि० कण्ट + अस्त्यर्थे इनि। १ खदिरे २ अपामार्गे (आपाङ) ३ गोक्षुरे (गोक्षुरी) ४ कलायभेदे च राजनि०। ५ कण्टकयुक्ते त्रि० स्त्रियां ङीप्। सा च कण्टकार्य्यां भावप्र-

कण्ठ = पु० कण–ठ ठस्य नेत्त्वम् कठि–अच् वा। १ ग्रीवापुरोभागे गले “मनोरथः कण्ठपथं कथं सः” नैष०। नीलकण्ठः शितिकण्ठः कालकण्ठः। “सबाष्पकण्ठस्खलितैः पदैरियम्”। “असत्यकण्ठार्पितबाहुबन्धना” कुमा०। “कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे” मेघ०। “कण्ठं ते कुण्ठयिष्यामि” नैष० कण्ठदेशे च सुषुम्णानाडीमध्यस्थ षट्चक्रान्तर्गतं विशुद्धाख्यं चक्रमस्ति। “तदूर्द्धन्तु विशुद्धाख्यं दलषोडशपद्मकम्। स्वरैः षोडशभिर्युक्तं धूमवर्णेर्महाप्रभम्। विशुद्धतखमाख्यातमाकाशाख्यं महाद्भुतम्” गौत० त०। विशुद्धचक्रे विवृतिः। २ मदनवृक्षे, ३ समीपे ४ होमकुण्डाद्बाह्येऽङ्गुलिमितस्थाने च “खातबाह्येऽङ्गुल कण्ठः सर्कुण्डेष्वयं क्रमः” ति० पु० त०। ५ कण्ठध्वनौ ६ ध्वनि मात्रे च हेमच०। “सा मुक्तकण्ठं, व्यसनातिभारात्” रघुः मुक्तकण्ठध्यनि यथा तथेत्यर्थः। अस्य स्वाङ्गत्वेन उपसर्ज्जनत्वे संयोगोपधत्वेऽपि ङीष्। किमिदं किन्नरकण्ठि! सुप्यते” रवुः। स्वरद्वारा किन्नरकण्ठसाम्यम्। “ऊर्द्ध्वविस्तृतदोः पाणिनृमाने पौरुषं त्रिषु। कण्ठोगलोऽथऽइत्यमरे त्रिष्विति पदस्य उत्तरान्वयभ्रमेण शब्दकल्पद्रुमादौ कण्ठशब्दस्य त्रिलिङ्गित्वोक्तिः प्रामादिको। “पौरुषं पुरुषस्याथ भावे कर्मणि तेजसि। ऊर्द्ध्वविस्तृतदोःपाणिमाने स्यादभिधेयवत्” मेदिन्यां मानभेदे पौरुषशब्दस्यैव वाच्यलिङ्गत्वोक्तेस्तदेकवाक्यतया पौरुषशब्दस्यैव त्रिलिङ्गत्वं युक्तं न तु तस्य कण्ठान्वयित्वम्। युक्तञ्चैतत् पुरुषः प्रमाणमस्येत्यर्थेपुरुषहस्तिभ्यामण् चेति” पा० सूत्रे विहिताणन्ततया अस्येति वाक्यबोधित लिङ्गत्वमिति।

कण्ठकूणिका = स्त्री कण्ठ इव तद्ध्वनिरिव कूणयति कूणण्वुल्। वीणायां हेम०। वीणायाः कण्ठतुल्यस्पष्टध्वनिकत्वात्तथात्वम्।

कण्ठतलासिका = स्त्री कण्ठतले अश्वकण्ठ स्थाने आस्ते आस–ण्वुल्। अश्वग्रावावेष्टकचर्म्मादौ शब्दच०।

कण्ठदघ्न = त्रि० कण्ठः परिमाणमस्य दघ्नच्। गलपरिमाणे “यथोपपक्षदघ्नं वा कण्ठदघ्नं वा” शत० ब्रा० १२, २, १, ३।

कण्ठधान = पु० देशभेदे स च वृह० कूर्मविभागे “उत्तरतः कैलासः” इत्य पक्रम्य “तक्षशिलपुष्कलावतकैलावतकण्ठधानाश्च” उत्तरत उक्तः।

कण्ठनीडक = पु० कण्ठे निकटस्थे नीडे कायति शब्दायते कै–क (चिल)। पक्षिभेदे त्रिका०।

कण्ठनीलक = पु० कण्ठं नीलयति धारकम्य स्वशिखाकज्ज्वलेन। नील + णिच्–ण्वुल्। (समाल) महादीपे शब्दमाला।

कण्ठपाशक = पु० कण्ठे पाश इवं कायति प्रकाशते कै–क। गजगलावेष्टनरज्ज्वाम् शब्दमाला।

कण्ठबन्ध = पु० ७ त०। गले बन्धने। उद्बन्धने। (गलायदडिवा~धा)।

कण्ठभूषा = स्त्री ६ त०। गलाभरणे अमरः।

कण्ठमणि = पु० कण्ठे धार्य्योमणिः। गले धार्प्ये मणिभेदे।

कण्ठशालूक = न० सुश्रुतोक्ते गलगते सुखरोगभेदे “कण्टगतास्तु रोहिण्यः पञ्च, कण्ठशलूकमिति विभज्य “कोलास्थिमात्रः कफसम्भवो यो ग्रन्थिर्गले कण्ठकशूकभूतः। खरः स्थिरः शस्त्रनिपातसाध्यस्तंकण्ठशालूकमिति व्रुवन्ति” सुश्रु० लक्षितम् “विस्राव्य कण्ठशालूकं साधयेत् तुण्डकेरिवत्” सुश्रु०।

कण्ठशुण्ठी = स्त्री सुश्रुतोक्ते तालुगते मुखरोगभेदे स च रोगः “तालुगतास्तु गलशुण्ठिकेत्युपक्रम्य “श्लेष्मासृग्भ्यां तालुमूलात् प्रवृद्धो दीर्घः शोफाध्मानवस्तिप्रकाशः। तृष्णाश्वासकासकृत् संप्रदिष्टो व्याधिर्वैद्यैः कण्ठशुण्डीति नाम्ना” इति लक्षितः। गणशुण्ठीत्यप्यत्र स्त्री।

कण्ठसूत्र = न० “यं कुर्वते वक्षसि वल्लभस्य स्तनाभिघातं निविडोपघातात्। परिश्रमार्त्ताः शनकैर्विदग्धास्तत् कण्ठसूत्रं प्रवदन्ति तज्ज्ञाः” इत्युक्तलक्षणे सुरतबन्धभेदे। “तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रमपदिश्य योषितः” रघुः।

कण्ठाग्नि = पु० कण्ठे अग्निः पाकाग्निर्यस्य। विहगे, तस्य गलाधःकरणमात्रेणैवान्नादेः पाकाद्दीप्ताग्नित्वात् तथात्वम्

कण्ठाल = पु० कठि-आलच्। १ शूरणे (ओल) २ युद्धे, ३ नौकाङ्गे, ४ खनित्रे विश्वः। ५ गोणीभेदे ६ जालगणिकायां च मेदिनिः स्त्री।

कण्ठिका = स्त्री कण्ठ्योभूष्यतयाऽस्त्यस्याः ठन्। (एकनर) गलाभरणभेदे। हेमच०

कण्ठी = स्त्री क्षुद्रः कण्ठः अल्पार्थेङीप्। २ अश्ववेष्टनरज्ज्वाम्। शब्दमा०। २ गले अमरटीकायां भरतः कण्ठीरवः।

कण्ठीरव = पुंस्त्री कण्ठ्यां रवी यस्य। १ सिंहे२ मत्तगजे “कण्ठीरवमहाग्रहेण” दशकुमा०। ३ कपोते च राजनि० स्त्रियां ङीष्। वासकवृक्षे स्त्री गौ० ङीष्। राजनि०

कण्ठेकाल = पु० कण्टे कालः कण्ठे कालोऽस्यवा सप्तम्या अलुक्। महादेवे। हेमच०।

कण्ठ्य = त्रि० कण्ठे भवादि “शरीरावयवाद् यत्” पा० श्रत। १ गलभवे “कीर्त्तितं तालुजानान्तु कण्ठ्यानां कर्म्मचोच्यते” सुश्रु०। “भवस्य “कण्ठ्यं रुद्रस्यान्तःपार्श्व्यम्” यजु० ३, ९, कण्ठ्यं गलभवं मांसम्” वेददी०। २ अकुहविसर्जनीयवर्णेषु च। “अकुहविसर्ज्ज नीयानां कण्ठ” इत्युक्तवर्ण्णानां तथात्वम्। “अर्द्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत्” शिक्षा “कण्ठ्यमाहुरसंयुतम्” शिक्षा कण्ठाय कण्ठस्वराय हितं यत्। ३ कण्ठस्वरहितकारके “सर्व्वदोषहरा लघ्वी कण्ठ्या मूलकपत्रिका” सुश्रु०। “यवकोलकूलत्थानां यूषः कण्ठ्योऽनिलापहः” सुश्रु०। अस्य च यदन्तद्व्यचकतया आद्युदात्तस्वरः।

कण्डन = न० कडि–ल्युट्। मुसलादिना तण्डुलादेर्निस्तुषता सम्पादने १ व्यापारे (का~डान) “न हि व्रीह्यादिलवनकण्डनपेषणादौ च सविज्ञानानाम्” छा० उ० भा०। कण्ड्यते कर्म्मणि ल्युट्। तण्डलादेः कण्डनसाध्ये (कुडो) इति ख्याते ३ द्रव्यभेदे। “क्रियां कुर्य्यात् भिषक् पश्चाच्छालितण्डुलकण्डनैः” सुश्रु०। “अथ पतितां तण्डल कण्डन प्रदिग्धगात्रीम्” सुश्रु०।

कण्डनी = स्त्री कण्ड्यतेऽनेन कडि–करणे ल्युट्। १ मूसले २ उदूखले च “कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन्” मनुः

कण्डरा = स्त्री कडि–अरन्। १ महास्नायौ महानाड्यां हेमच० तासां विवृतिः भावप्रका० यथा “महत्यः स्नायवः प्रोक्ताः कण्डरास्तास्तु षोडश। प्रसारणाकुञ्चनयोर्द्दष्टं तासां प्रयोजनम्। चतस्रोहस्तयोस्तासां तावत्यः पादयोः स्मृताः। ग्रीवायामपि तावत्यस्तावत्यः पृष्ठसङ्गताः”। तत्र पादहस्त गतानां कण्डराणां नखाः प्ररोहाः ग्रीवानिबन्धनानामधोभागगतानां प्ररोहो मेढ्रः, पृष्ठनिबन्धानां प्ररोहो नितम्बमूर्द्धोरुवक्षस्तनपिण्डाः”। “पार्ष्णिप्रत्यङ्गुलीनां तु कण्डरा याऽनिलार्द्दिता” “तलं प्रत्यङ्गुलीनां तु कण्डरा बाहुपृष्ठतः” इति च सुश्रुतः।

कण्डरीक = पु० सप्तजातिस्मरमध्ये विप्रभेदे तेषां पूर्वजन्मवृत्तान्तसहिता कथा हरिवंशे दर्शिता यथा “मगालवस्य चरितं कण्डरीकस्य चैवहि” इत्युपक्रम्य। “वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च। खसृमः पितृवर्त्ती च नामभिः कर्म्मभिस्तथा। कौशिकस्य सुतास्तात शिष्या गर्गस्यभारत!। पितर्य्युपरते सर्व्वेव्रतवन्तस्तदाऽभवन्। नियोगात्ते गुरोस्तस्य गां दोग्ध्रीं समकालयन्। समानवत्सां कपिलां सर्व्वे न्यायागतां तदा। तेषां पथि क्षुधार्त्तानां बाल्यान्मोहाच्च भारत। क्रूरा बुद्धिः समभवत्तां गां वै हिंसितुं तदा। तान् कविः खसृमश्चैवा वोचतां नेति वै तदा। न चाशक्यन्त ताभ्यां ते तदा वारयितुं द्विजाः। पितृवर्त्ती तु यस्तेषां नित्यं श्रद्धान्वितो द्विजः। स सर्व्वानब्रवीद्भ्रातॄन् कोपाद्धर्म्मे समाहितः। यद्यवश्यं प्रहन्तव्यं पितॄनद्दिश्य साध्विमाम्। प्रकुर्व्वीमहि गां सम्यक् संर्व्व एव समाहिताः। एवमेषाऽपि गौर्द्वर्मं प्राप्स्यते नात्र संशयः। पितॄनम्यर्च्य धर्मेण नाधर्मो नो भविष्यति। तथेत्युक्त्वा तु ते सर्वे प्रोक्षयित्वा च गान्ततः। पितृभ्यः कल्पयित्वैनामुपायुञ्जन्त भारत!। उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन्। शार्द्दूलेन हता धेनुर्वत्सोऽयं प्रतिगृह्यताम्। आर्ज्जवात् स तु वत्सं तं प्रतिजग्राह वै द्विजः। मिथ्योपचर्य्य ते तन्तु गुरुमन्यायतो द्विजाः। कालेन समयुज्यन्त सर्व एवायुषः क्षये। ते वै क्रूरतया हिस्रा अनार्य्यत्वात्गुरौ तथा। उग्रा हिंसाविहाराश्च सप्ताजायन्त सोदराः। लुब्धकस्यात्मजास्तात। बलवन्तो मनीषिणः। पितॄनभ्यर्च्य धर्मेण प्रोक्षयित्वा च गान्तदा। स्मृतिप्रत्यवमर्षश्च तेषां जात्यन्तरेऽभवत्। जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः। स्वधर्मनिरताः सर्वे लोभानृतविबर्ज्जिताः। तावन्मात्रं प्रकुर्व्वन्ति यावता प्राणधारणम्। शेषं ध्यानपराः कालमनुध्यायन्ति कर्म तत्। नामधेयानि चाप्येषामिमान्यासन् विशाम्पते!। निर्वैरो निर्वृतिः क्षान्तो निर्मन्युः कृतिरेव च। वैघसो मातृवर्त्ती च व्याधाः परमधार्मिकाः। तैरेवमुषितैस्तात हिंसाधर्मपरैः सदा। माता च पूजिता वृद्धा पिता च परितोषितः। यदा माता पिता चैव संयुक्तौ कालधर्मणा। तदा धनूंषि ते त्यक्त्वा वने प्राणानवासृजन्। शुभेन वर्मणा तेन जाता जातिस्मरा मृगाः। त्रासानुत्पाद्य संविग्ना रम्ये कालञ्जरे गिरौ। उन्मुखो नित्यवित्रस्तः स्तब्धकर्णो विलोचनः। पण्डितो घस्मरो नादी नामतस्तेऽभवन्मृगाः। तमेवार्थमनुध्यान्तो जातिस्मरणसम्भवम्। आसन् वनेचरा दान्ता निर्द्वन्द्वा निष्परिग्रहाः। ते सर्वे शुभकर्माणः सधर्माणो वनेचराः। योगधर्ममनुध्यान्तो विहरन्ति स्म तत्र ह। मरुं साध्य जहुः प्राणान् लघ्वाहारास्तपस्विनः। तेषां मरुं साधयतां पदस्थानानि भारत!। तथैवाद्यापि दृश्यन्ते गिरौ कालञ्जरे नृप!। कर्मणा तेन ते तात! शुभेनाशुभवर्ज्जिताः। शुभाच्छुभतरां योनिं चक्रवाकत्वमागताः। शुभे देशे शरद्वीपे सप्तासन् वै जलौकसः। त्यक्त्वा सहचरीधर्मं मुनयो धर्मचारिणः। सुमनाः शुचिवाक् शुद्धः पाञ्चकश्छिद्रदर्शनः। सुनेत्रश्च स्वतन्त्रश्च शकुना नामतः स्मृताः। पञ्चमः पाञ्चिकस्तत्र सप्तजातिष्वजायत। षष्ठस्तु कण्डरीकोऽभूद्ब्रह्मदत्तस्तु स प्रमः। तेषान्तु तपसा तेन सप्तजातिकृतेन वै। योगस्य चाभिनिर्वृत्या प्रतिभानाच्च शोभनात्। पूर्ब्बजातिषु यध्म श्रुतं गुरुकुलेषुवै। तथैवावस्थिता बुद्धिः संसारेष्वपि र्त्तताम्। ते ब्रह्मचारिणः सर्वेविहङ्गाः ब्रह्मवादिनः। गोगधर्ममनुध्यान्तो विहरन्ति स्म तत्र ह। ते योगधर्मनिरताः सप्त मानसचारिणः। पद्मगर्भोऽरविन्दाक्षः क्षीरगर्भः सुलोचनः। उरुविन्दुः सुविन्दुश्च हेमगर्भस्तु सप्तमः। वाय्वम्बुभक्षाः सततं शरीराण्युपशोषयन्। तत्र ते शकुना राजंश्चत्वारो योगधर्मिणः। योगभ्रष्टास्त्रयश्चैव देहन्यासकृतोऽभवन्। काम्पिल्ये नगरे ते तु ब्रह्मदत्तपुरोगमाः। जाताः सप्त महात्मानः सर्वे विगतकलमषाः ज्ञानध्यानतपःपूता वेदवदाङ्गपारगाः। स्मृतिमन्तोऽत्र चत्वारस्त्रयस्तु परिमोहिताः। स्वतन्त्रस्त्वणुहाज्जज्ञे ब्रह्मदत्तो महायशाः। यथा ह्यासीत् पक्षिभावे सङ्कल्पः पूर्व्वचिन्तितः। छिद्रदर्शी सुनेत्रश्च तथा बाभ्रव्यवत्सयोः। जातौ श्रोत्रियदायादौ वेदवेदाङ्गपारगौ। सस्वायौ ब्रह्मदत्तस्य पूर्व्वजातिसहोषितौ। पाञ्चालः पाञ्चिकस्तत्र कण्डरीकस्तथाऽपरः। पाञ्चालो बह्वृचश्चासीदाचार्य्यत्वं चकार ह। द्विवेदः कण्डरीकस्तु च्छन्दोगोऽध्वर्य्युरेव च। सर्व्वसत्त्वरुतज्ञस्तु राजासीदणुहात्मजः। पाञ्चालकण्डरीकाभ्यां तस्य सख्यमभूत्तदा। ते ग्राम्यधर्म्मनिरताः कामस्य वशवर्त्तिनः। पूर्व्वजातिकृतेनासन् धर्मकामार्थकोविदाः” प्रसङ्गागतमन्यदुपवर्ण्ण्य तेषु चतुर्ण्णां वक्ष्यमाणश्लोकश्रावणाय ब्राह्मणनियोजनमुक्त्वा मुक्तिमुपवर्ण्ण्य अवशिष्टानां मुक्तिदर्शनायोक्तं यथा। “अथ राजा शिरःस्नातो लब्धा नारायणाद्वरम्। प्रविवेश पुरं प्रोतो रथमारुह्य काञ्चनम्। तस्य रश्मीन् प्रत्यगृह्णात् कण्डरीको द्विजर्षभः। चामरव्यजनञ्चापि बाभ्रव्यः समवाक्षिपत्। इदमन्तरमित्येवं ततः स ब्राह्मणस्तदा। श्रावयामास राजानं श्लोकं तं सचिवौ च तौ। [सप्त व्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ। चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे। तेऽभिजाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः। प्रस्थिता दूरमध्यानं थूयं तेभ्योऽवसीदथ]। तच्छुत्वा मोहमगमद्ध्रह्मदत्तो नराधिपः। सचिवश्चास्य पाञ्चाल्यः कण्डरीकस्तथैव च। स्रस्तरश्मिप्रतोदौ तौ पतितव्यजनावुभौ। दृष्ट्वा बभूवुरस्वस्थाः पौराश्च सुहृदस्तथा। मुहूर्त्तमेव राजा स सह ताभ्यां रथे स्थितः। प्रतिलभ्य ततः संज्ञां प्रत्यागच्छदरिन्दम!। ततस्ते तत् सरः स्मृत्वा योगन्तसुपलभ्य च। ब्राह्मणं विपुलैरर्थैर्भोगैश्च समयोजयन्। अभिषिच्य स्वराज्ये तु विष्वक्सेनमरिन्दमम्। जगाम ब्रह्मदत्तोऽथ सदारो वनमेव ह। कण्डरीकोऽपि धर्म्मात्मा साङ्ख्ययोगमनुत्तमम्। प्राप्य योगगति सिद्धो विशुद्धः स्वेन कर्म्मोणा” हरिवं २१, २२, २३, २४ अ०।

कण्डिका = स्त्री कडि–ण्वुल्। वेदैकदेशे। सा च अध्यायप्रपाठकाद्यन्तर्गतब्राह्मणवाक्यसंघरूपा। छान्दोगादौ उदा०।

कण्डु = स्त्री कडि–मृगय्वादि० उ। १ गात्रषर्षणे, २ तत्कारके रोगे च (चुलकानी)। “पामेत्युक्ता, पिडका कण्डुमत्यः” भावप्र०।

कण्डुर = पु० कण्डुं राति रा–क। १ कारवेल्ललतायाम् (करेला) राजनि० २ शूकशिम्ब्याम् (आलकुशी) ३ अत्यम्लपर्ण्याञ्च स्त्री राजनि०।

कण्डू = गात्रविघर्षणे गृहीतकर्मकत्वेन अक० घर्षणमात्रे प्राण्यङ्गघर्षणमत्रोपाधिः सक० उभ० सेट् स्वार्थे यक्। कण्डूयति ते अकण्डूयीत् अकण्डूयिष्ट कण्डूयाम्–बभूव–आस चकार चक्रे। कण्डूयनं कण्डूयितः कण्डूः कण्डूया कण्डूयन् कण्डूयमानः “कण्डूयमानेन कटं कदाचित्” रघुः “मृगीमकण्डूयत कृष्णसारः” कुमारः। “न संहताम्यां पाणिभ्याम् कण्डूयेदात्यनः शिरः” मनुः “शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम्” शकु०। कण्ड्वादिश्च धातुः प्रातिपदिकश्च “धातुप्रकरणाद्धातुः कस्य चासञ्जनादपि। आह घायमिमं दीर्घमन्यैतुर्विभाषितः” इत्युक्तेः। यकः कित्त्वकरणसामर्थ्यात् घातुत्वं प्रातिपदिकत्वे तत्करणं व्यर्थं स्यात् प्रातिपदिकस्य गुणाप्रसक्तेः दीर्घकरणाच्च प्रातिपदिकत्वम् आर्द्धधातुकयकारे धातोः दीर्घसम्भवेन दीर्घपाठो वृथा स्यात् अत उभयरूपत्वम्।

कण्डू = स्त्री कण्डूय–क्विप् अलोपयलोपौ सम्पदा० क्विप्। १ कण्डूयने गात्रघर्षणे (चुलकान) २ तत्साधनरोगे (चुल्कुनी) “कपोलकण्डूं करिभिर्विनेतुम्” कुमा०। “सकण्डूः पिडका श्यावा बहुस्वावा विचर्चिका” मावप्र०।

कण्डूकरी = स्त्री कण्डूंकरोति कृ–ट। शूकशिम्ब्यां (आलकुशी) शब्दर०

कण्डूघ्न = पु० कण्डूं हन्ति हन–ठक्। १ आरग्वधे (सोन्दाल) २ गौरसर्षपे च राजनि०।

कण्डूति = स्त्री कण्डूय–भावे क्तिन् अलोपलोपौ। कण्डूयने (चुलकान) हला०। “सुभग! त्वत्कथारम्मे कर्ण्णेकण्डूति लालसा” सा० द० “कण्डूतिवन्मनसिजं विषहेत धीरः” भाग० ७, ९, ४५।

कण्डूमका = स्त्री “कण्डूमकाभिर्दष्टे पीताङ्गश्छर्द्यतीसारज्वरादिभिरभिहन्यते” सुश्रुतोक्ते कीटभेदे। कीटशब्दे विवृतिः

कण्डूयन = न० कण्डूय–भावे ल्युट्। गात्रघर्षणभेदे (चुलकान) “कण्डूयनैर्दंशनिवारणैश्च” रघुः। “तद्भावभाविते चित्ते वल्लभस्य कथादिषु। मोद्वायितमिति प्राहुःकर्ण्णकण्डूयनादिकम्”। “नेशः कण्डूयनेऽङ्गानामाससनोत्थनचेष्टने” भाग० ३, ३१, २७। दीक्षितस्य तत्साधन द्रव्यम् “कृष्णविषाणां त्रिवलि पञ्चवलिं वोत्तानांदशायामाबध्नीते तया कण्डूयनम्” कात्या० ७, ३, २९, ३० उक्तम्। “यदा कण्डूरुत्पद्यते दीक्षितेन तया कण्डूयन कार्य्यम्” कर्कः। यजमानपत्न्यास्तु कण्डूयने। “पृथुमुखोयज्ञियवृक्षशङ्कुः कण्डूयने” कात्या० ७, ५, ८। “विपुलाग्रो यज्ञियवृक्षस्योदुम्बरपलादेः शङ्कुः पत्न्याः कण्डूयनकर्मणि भवति स च प्रादेशमात्रः” कर्कः। करणे ल्युट्। २ कण्डूयनसाधने स्त्रियां ङीप्। “कण्डूयन्यभिषेकेण प्रलिम्पते “प्रपर्वतस्येति” कात्या० १५, ६, ८। कण्डूयनी कृणविषाणा” कर्कः।

कण्डूया = स्त्री कण्डूय–अ–स्त्रात्वात् टाप्। कण्डूयने।

कण्डूरा = स्त्री कण्डूं राति रा–क। (आलकुशी) कपिकच्छ्वाम् अमरः।

कण्डूल = पु० कण्डू + अस्त्यर्थेलच्। १ कण्डूकारकेशूरणे। राजनि० २ कण्डूयुक्ते त्रि०।

कण्डोल = पु० कडि–ओलच्। १ नलादिनिर्मिते धान्यादिस्थापन पात्रे (डोल) अमरः। २ उष्ट्रेपुंस्त्री० उणा० स्त्रियां ङीष्। खार्थे कन् तत्रार्थे। कण्डीलकस्य पादाविवपादावस्य हस्त्या० नान्त्यलोपः। कण्डोलकपादः उष्ट्रपात्।

कण्डोलवीणा = स्त्री कण्डोल इव वीणा। (के~दडा) चण्डालवीणायाम् अमरः। क्वचित् कटोलवीणेति पाठः।

कण्डोली = स्त्री कण्डोलस्तदाकारोऽस्त्यस्याः अच् गौ० ङीष्। चण्डालवीणायां (के~दडा) शब्दच०।

कण्ड्वोघ = पु० कण्डूनामोघो यस्मात्। १ शुककीटे शब्दच० (शुओयापोका) तत्स्पर्शेहि देहे कण्डूसंघस्य जायमानत्वात्तस्य तथात्वम्।

कण्व = त्रि० कण–क्वन्। १ मेघाविनि निघ०। २ स्तोतरि त्रि० “प्रदक्षिणो दिव्यः कण्वहोतारः” ऋ० ५, ४१, ४। “कण्वाःस्तोतारः होतारः” भा०। “आतूर्षञ्च कण्वमन्तं नद्याविद्या” ऋ० ८, २, १२, “कण्वमन्तम् कणतिः शब्दकर्म्मा कण्वाः स्तोतारः कण्वगोत्रा वा तैर्युक्तम्” भा०। येदे मस्य न वः। लोके कण्ववत् इत्येव। कण्यते अपोद्यते क्वन्। ३ पापे न० “कण्वचिकोर्षायाम्” वार्त्ति०। पौरवे ३ नृपभेदे पु०। “ऋतेयोरन्तिनावोऽमूत्त्रयस्तस्यात्मजा नृपाः। सुमतिर्ध्रुवोऽप्रतिरथः कण्वोऽप्रतिरथात्मजः। तस्य मेधातिथिस्तस्मात् प्रस्कण्वाद्या द्विजातयः” भाग० ९, २०, २, ३। काश्यपगोत्रोतपन्ने ५ मुनिभेदे स च गोत्रप्रवर्त्तकः। “कण्वानामाङिरसाजमीढिकाण्वेति” आश्व० श्रौ० १२, १०१, “यामस्य कण्वोऽअदुहत् प्रपीणां सहधारां पयसा मही गाम्” बजु० १७, ७४, एतदधीतशाखायाः काण्वशाखात्वेन प्र- सिद्धिः। “यजुर्भिरकरोच्छाखा दशपञ्चशतैर्विभुः। जगृहु र्वाजसंन्यस्ताः काण्वमाध्यन्दिनादयः” भाग० १२, ६, ६७। तदपत्यस्य काण्वस्य शुक्लयजुर्वेदाध्येतृत्वमुक्तम् बहुषु अणो लुक्। “पिबतो अश्विना मधु कण्वानां सवने सुतम्” ऋ० ८, ८, ३ अयञ्च मुनिः काश्यपगोत्रः “महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम्” भा० आ० ६७। तस्य चाश्रसः। “मालिनीमभितो राजन्नदीं पुण्यजलां तथा” तत्रोक्तेः कण्वसुताशब्दे वक्ष्यमाणात् भा० वाक्याच्च हिमवत् प्रस्थे मालिनीनदीतीरेऽस्ति। तस्याश्रमयात्रादौ पुण्यविशेषो यथा। “कण्वाश्रमं ततो गच्छेत् श्रीजुष्टं लोकपूजितम्। धर्मारण्यं हि तत् पुण्यमाद्यञ्च भरतर्षभ!। यत्र प्रविष्टमात्रोवै सर्व्वपापैः प्रमुच्यते। अर्च्चयित्वा पितॄन् देवान् नियतोनियताशनः। सर्व्वकामसमृद्धस्य यज्ञस्य फलमश्नुते” भा० व० ८२ अ०। ६ स्तुत्ये त्रि० “स इदग्निः कण्वतमः कण्वसखार्य्यः” ऋ० १०, ११५, ५, “कण्वतमः स्तुत्यतमः” भा०

कण्वरथन्तर = न० कण्वेन गीतं रथन्तरम्। सामगानभेदे। वैश्यस्तोमे “कण्वरथन्तरं पृष्ठं भवति” श्रुतिः तच्च साम “पुनानः सोम” इत्यादिषु गीतम् उत्तरार्चि० ४ प्र क० ३० दृश्यम्।

कण्वसुता = स्त्री कण्वस्य ऋषेः प्रातपालिता सुता। शकन्तुलायाम् सा च विश्वामित्रात् मेनकायामुत्पन्ना जातमात्रा च तया परित्यक्ता शकुन्तैरक्षिता कण्वेन प्रतिपालिता दुष्मन्तेन गान्धर्व्वविधिना व्यूढा। कण्वदुहित्रादयोप्यत्र। तज्जन्मकथा भा० आ० ७१ अ० “तप्यमानः किल पुरा विश्वामित्रो महातपाः। भृशं वै तापयामास शक्रं सुरगणेश्वरम्। तपसा दोप्तवीर्य्योऽयं स्थानान्मां च्यावयेदिति। भीतः पुरन्दरस्तस्मान्मे नकामिदमब्रवीत्। गुणैरप्सरसां दिव्यैर्म्मोनके! त्वं विशि ष्यसे, श्रेयो मे कुरु कल्याणि! यत्त्वां वक्ष्यामि तच्छूणु असावादित्यसङ्काशो विश्वामित्रो महातपाः। तप्यमानस्तपो घोरं मम कम्पयते ममः। मेनके! तव भारोऽयं विश्वामित्रः सुमध्यमे!। संशितात्मा सुदुर्धर्ष उग्रे वपसि वर्त्तते। स मां न च्यावयेत् स्थानात्तं वै गत्वा प्रलोभय। चर तस्य तपोविध्नं कुरु मे पियमुत्तमम्। रूपयौवनमाधुर्चचेष्टितस्मिवभाषितैः। लोभयित्वा वरारीहे! तपसस्तं निवर्त्तय” तत्सहायतया वायुप्रेषणमुक्त्व “कण्व उवाच। एवमुक्तस्तया शक्रः सन्दिदेश सदागतिम् प्रातिष्ठत तदा काले मेनका व्रायुना सह। अथापश्य द्वरारोहा तपसा दग्धकिल्विषम्। विश्वामित्रं तप्यमानं मेनका भीरुराश्रमे। अभिवाद्य ततः सा तं प्राक्रीडदृषिसन्निधौ। अपोवाह च वासोऽस्या मारुतः शशिसन्निभम्। साऽगच्छत्त्वरिता भूमिं वासस्तदभिलिप्सती। स्मयमानेव सव्रीडं मरुता वरवर्णिनी। पश्यतस्तस्य तत्रर्षेरप्यग्निसमतेजसः। विश्वामित्रस्ततस्तान्तु विषमस्थामनिन्दिताम्। मृद्धीं वाससि संभ्रान्तां मेनकां मुनिसत्तमः। अनिर्द्देश्यवयोरूपामपश्यद्विवृतां तदा। तस्या रूपगुणं दृष्ट्वा स तु विप्रर्षभस्तदा। चकार भावसंसर्गां तया कामवशङ्गतः। न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता। तौ तत्र सुचिरं कालमुभौ व्याहरतां तदा। रममाणौ यथाकामं यथैकदिवसं तथा। जनयामास स मुनिर्म्मेनकायां शकुन्तलाम्। प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम्। जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु। कृतकार्य्या ततस्तूर्णमगच्छच्छक्रसंसदम्। तं वने विजने गर्भं सिंहव्याघ्रसमाकुले। दृष्ट्वा शयानं शकुनाः समन्तात् पर्य्यवारयन्। नेमां हिंस्युर्व्वने बालां क्रव्यादा मांसगृद्धिनः। पर्य्यरक्षन्त तां तत्र शकुन्त मेनकात्मजाम्। उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम्। निर्जने विपिने रम्ये शकुन्तैः परिवारिताम्। आनयित्वा ततश्चैनां दुहितृत्वे न्यवेशयम्। शरीरकृत् प्राणदाता यस्य चान्नानि भुञ्जते। क्रमेणैते त्रयोऽप्युक्ताः पितरो धर्म्मशासने। निर्ज्जने तु वने यस्मात् शकुन्तै परिवारिता। शकुन्तलेति नामास्याः कृतञ्चापि ततो मया। एवं दुहितरं विद्धि मम विप्र! शकुन्तलाम्। शकुन्तला च पितरं मत्यते मामनिन्दिता”। तस्याश्च दुष्मन्तेन गान्धर्वबिधिना परिणयकया तत्रैवोक्ता।

कण्वाय = नामधातुः कण्व + तत्करणे क्यङ् आत्म० अक० सेट्। कण्वं करोति कण्वायते अकण्वायिष्ट कण्वयाम्बभूव आस चक्रे। कण्वायितः कण्वाया।

***