—क—

= व्यञ्जनवर्ण्णभेदः ककारः कण्ठ्यः अर्द्धमात्रः। तस्य तन्त्रे वाचकाः शब्दा वर्ण्णाभिधाने उक्ता यथा। “कः क्रो धीशो महाकाली कामदेवःप्रकाशकः। कपाली तेजसः शान्तिर्वासुदेवोजयानलः। चक्री प्रजापतिः सृष्टिर्दक्षस्कन्धो विशार्म्पातः। अनन्तः पार्थिवोविन्दुस्तापिनी परमात्मकः। वर्गाद्यश्च मुखी ब्रह्मा वर्णाद्योऽम्भःशिवोजलम्। माहेश्वरो तुला पुष्पं मङ्गलश्चरणं करः। निव्याकामेश्वरी मुख्यः कामरूपो गजेन्द्रकः। श्रीपुरंरमणोरङ्ग कुसुमा परमार्थकः”।

= पु० कै–शब्दे कच–दीप्तौ वा ङ १ ब्रह्मणि २ विष्णौ ३ कामदेवे ४ अग्नौ ५ वायौ ६ यमे ७ सूर्य्ये ८ आत्मनि ९ दक्षेप्रजापतौ १० राजनि ११ कामग्रन्थौ १२ मयूरे” मेदि०। १३ विहगे शब्दचि०। १४ चित्ते १५ देहे १६ काले १७ घने मेघे १८ शब्दे अनकार्थकोषः १९ प्रकाशे च एकाक्षरकोषः। २० शिरसि न० “द्वाभ्यामीष्ठौ द्विरुन्मृज्य चैकेन क्षालयेत् करम्। मुखघ्राणनेत्रश्रोत्रनाभ्युरस्कं भुजौ क्रमात्” तन्त्रसारः कं शिरः २१ जले २२ सुखे च न० मेदि० २३ केशे पु० धरणी। तत्र ब्रह्मणि “दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रीपेन्द्रमित्रकाः” शा० ति०। कः ब्रह्मा। तट्टीका “कस्मै त्वा काय त्वा” यजु० २०, ४। काय सुखाय प्रजापतये इत्येके। “कस्यासि कोनामासीति प्रजापतिर्वै कोनाम” शत० ४, ५, ६, ४। “कवत्योयाज्यानुबाक्या कोहि प्रजापतिः” ६, २, २, ५, प्रजापतिर्वै कस्तस्मा एवैतदिमां वषट्करोति” ६, ४, ३, ४। दक्षप्रजापतौ “ततः प्राचेतसोऽसिक्न्यामनुनोतः खयम्भुवा। षष्टिं स जनयामास दुहितॄःपितृवत्सलाः। दश धर्म्माय कायेन्दोर्द्विषट् त्रिनव दत्तवान्” भाग० ६, ३, २०, काय दक्षप्रजापतये द्विषट्द्वादश। “खेभ्यस्तु छन्दांस्यृषयो मेढ्रतः कः” भाग० ८, ५, २८। कः प्रजापतिः। “यस्मात्पितामहोभूतः प्रभुरेकः प्रजापतिः। ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ” भा० आ० १ अ०। “मारीचमाशु विशिखेन यथा कमुग्रः” ९, ९, १० कं दक्षम्। सुखे “प्राणो ब्रह्म क~ ब्रह्म खं ब्रह्मेतिसहोवाच जानाम्यहं यत्प्राणो ब्रह्म कञ्च तु खञ्च न जानामीति तेऽहोचुः यद्वाव कं तदेव खं यदेव खं तदेव कमिति” छा० उप०। अत्र सुखस्वरूपतया ब्रह्मरूपत्वम्। यथाह तद्भाष्ये “तमेवमुक्तवन्तं ब्रह्मचारिणं ते ह्यग्नयः ऊचुः यद्वाव यदेव वयं कमवोचाम तदेव खमाकाश इत्येवं खेन विशेष्यमाणं कं विषयेन्द्रियसंयोभजातसुखान्निवर्त्तितं स्यान्नीलेतेव विशेष्यमाणमुत्पलं रक्तादिभ्यः। यदेव खमाकाशमवोचाम तदेव च कं सुखमिति जानीहि एवञ्च सुखेन विशेष्यमाणं खं भौतिकादचेतनात् खान्निवर्त्तितं स्यान्नीलोत्पलवदेव”। अत्र कंशब्दएव मान्ताव्ययम् इत्यन्ये। जले “के शवं पतितं दृष्ट्वा द्रोणोहर्षमुपागतः” विदग्धमु०। “के यूयं स्थल एव सम्प्रति वयम्” सा० त०। कः देवताऽस्य अण्। “कस्येत्” पा० इत् वृद्धिः। काय प्रजापतिदैवते विवाहभेदे। “स्त्रींस्त्रीन् कायोढजासुतः” मनुः।

कंय = त्रि० कमित्यव्ययम् सुखार्थकं तदस्तयस्य य। सुखान्विते यु। कंयु व–कंव इत्यप्यत्र त्रि० सर्व्वत्र वा ययि पर यवर्ण्णे अनुनासिकौ य~कारव~कारौ

कंवूल = न० नालकण्ठोक्ते बर्षलग्नकालिकग्रहयोगभेदेकवूलं कव्वू~लमप्यत्र। तत्स्वरूपादिनिरूपणं तत्रैव यथा “कार्य्यणग्नेशयोरित्यशालादिन्द्वित्यशालतः। कंवूलं श्रेष्ठ- मध्यादिभेदैर्नानाविधं स्मृतम्। यदीन्दुः स्वगृहोच्चस्थस्तादृशौ लग्नकार्य्यपौ। इत्थाशाली कवूलं तदुत्तमोत्तममुच्यते। स्वीयहद्दादृकाणाङ्क भागस्थेनेत्यशालतः। मध्यमोत्तमकंवूलं हीनाधिकृतिनोत्तमम्। उत्तमाधमता नीच रिपुगेहस्थितेन चेत्। स्वहद्दादिगतश्चन्द्रः स्वभोच्चस्थेत्थशालकृत्। मध्यमोत्तममेतच्च पूर्वस्मात्तु विशिष्यते। खहद्दादिपदस्थेन कंवूलं मध्यमध्यमम्। मध्यमाधम कंवूलं हीनाधिकृतिखेटजम्। अधमाधमकंवूलं नीचारिभगखेटजम्। इन्दुःपदोनःस्वर्क्षोच्चस्थितेनाप्युत्तमं तु तत्। स्वहद्दादिगतेनापि पूर्बवन्मध्यमुच्यते। पदोनेनापि मध्यं स्यादिति युक्तं प्रतीयते! नीचारिस्थेनेत्थशालेऽधमं कंवूलमुच्यते। नीचशत्रुभगश्चन्द्रः स्वभोच्चस्थेत्थशाल कृत्। अधमोत्तमकंवूलं स्वहद्दादिगतेन चेत्। इत्यशाले कंवूलं तदुच्यतेऽधममध्यमम्। पदोनेनेत्थशाली चेत् कंवूलं मध्यमं स्मृतम्। नीचारिभस्थखेटेन नीचारिभगतः शशी। इत्थशाली कवूलं तदधमाधममुच्यते। मेषे रविः कुजोवापि वृषे कर्केऽथ वा शशी। तत्रेत्थशाले कवूलमुत्तमोत्तममेव तत्। वृश्चिकस्थः शशी भौमःकर्के तत्रेत्थशालतः। अधमाधमकंवूलं कार्य्यविध्वंसदुःखदम्। एवं पूर्वोक्तभेदानामुदाहरणयोजना। उक्तलक्षणसम्बन्धादूहनीया विचक्षणैः”।

कंस = पु० कम–स। तैजसद्रव्ये, कांस्ये, १ ताम्ररङ्गमिश्रणजनितधातुद्रव्ये। (कांसा) २ स्वर्णरजतादिनिर्म्मितपानपात्रे आढक इति प्रसिद्धे ३ परिमाणे च अस्त्री। वर्त्तुलाकारे यज्ञिये ४ पात्रभेदे। “औदुम्बरे कसे चमसे वा सर्व्वौषधं समानीय सम्भृत्य” शत० १४, ९, ३, १, “कंसे कंसाकारे वर्त्तलाकरे” भाष्यम्। पृषो० तालव्यान्त इति केचित्। कंसपरिमाणञ्च “शरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः। शरावाभ्यां भवेत् प्रस्थश्चतुःप्रस्थैस्तथाढकः। भाजनं कांस्यपात्रञ्च चतुःषष्टिपलश्च सः” भावप्र० उक्तेः चतुषष्टिपलात्मकाढकरूपम्। उग्रसेनसुतभेदे कृष्णाद्वेष्ये ५ नृपभेदे पु०। कंसोत्पत्तिकथा तन्नामनिर्वचनञ्च हरिवं० ८५ अ० उक्तं यथा कंसं प्रति नारद उवाच “हन्त ते कथयिष्यामि शृण राजन्! यथार्थतः। द्रुमिलस्य च मात्रा ते संवादञ्च समागमम्। सुयामुनं नाम गिरिं तव माता रजस्वला। प्रेक्षितुं सहिता र्वाभिर्गता वनकुतूहलात्” इत्युपक्रम्य यदृच्छयात्रागतस्य तौभपतेद्रु मिलस्य तां दृष्ट्वा कामयमानस्य तां प्रति उग्न- सेनमूर्त्त्या गत्वा तस्याःसङ्गमे कंसोत्पत्तिर्रित तत्रोक्तम्। “एवमुक्ता दानवेन्द्रो गमनाय मनो दघे। हृच्छयाविष्टहृदयो दृष्ट्वा तामसितेक्षणाम्। वार्य्युपस्पृश्य बलवान् ध्यानमेवान्वचिन्तयत्। मुहूर्त्तं ध्यातमात्रे तु दृष्टं ज्ञानबलात्ततः। उग्रसेनस्य पत्नीति ज्ञात्वा हर्षमवाप सः। उग्रसेनस्य वै रूपं कृत्वा स्वं परिवर्त्त्य च। उपासर्पन्महाबाहुः प्रसभं दानवेश्वरः। स्मयमानश्च शनकैर्ज्जग्राहामितवीर्य्यवान्। उग्रसेनस्य रूपेण मातरं ते व्यधर्षयत्। सा पतिस्निग्धहृदया भावेनोपससर्प तम्। शङ्किता चाभवत् पश्चात्तस्य गौरवदर्शनात्। सा तमाहोत्थिता मीता न त्वं मम पतिर्ध्रुवम्। कस्य त्वं विकृताचारो येनास्मि मलिनीकृता। एकपत्नीव्रतमिदं मम संदूषितं त्वया। पत्युर्म्मे रूपमास्थाय नीचनीचेन कर्म्मणा। किं मां वक्ष्यन्ति रुषिता बान्धवाः कुलपांसुलाम्। जुगुप्सिता च वर्त्स्यामि पतिपक्षैर्निराकृता। धिक् त्वामीदृशमक्षान्तं दुष्कुलं व्युत्थितेन्द्रियम्। अविश्वास्यमनार्य्यञ्च परदाराभिमर्षणम्। स तामाह प्रसज्जन्तीं क्षिप्तः क्रोधेन दानवः। अहं वै द्रुमिलो नाम सौभस्य पतिरूर्ज्जितः। किं मां क्षिपसि रोषेण मुढे! पण्डितमानिनि!। मानुषं पतिमाश्रित्य नीचं मृत्युवशे स्थितम्। व्यभिचारान्न दुष्यन्ति स्त्रियः स्त्रीमानगर्व्विते।। न ह्यासां नियता बुद्धिर्म्मानुषीणां विशेषतः। श्रूयन्ते हि स्त्रियो बह्व्यो व्यभिचारव्यतिक्रमैः। प्रसूता देवसदृशान् पुत्त्रानमितविक्रमान्। अतीव हि त्वं स्त्रीलोके पतिधर्म्मवती सती। शुद्धा केशान् विधुन्वन्ती भाषसे यद्यदिच्छसि। कस्य त्वमिति यच्चाहं त्वयोक्तो मत्तकाशिनि!। कंसस्तस्माद्रिपुध्वं सी तव पुत्त्रो भविष्यति। सा सरोषा पुनर्भूत्वां निन्दन्ती तस्य तं वरम्। उवाच व्यथिता देवी दानवं धृष्टवादिनम्। धिक् ते वृत्तं सुदुर्वृत्त! यः सर्व्वा निन्दसि स्त्रियः। सन्ति स्त्रियो नीचवृत्ताः सन्ति चैव पतिव्रताः। यास्त्वेकपत्न्यः श्रूयन्तेऽरुन्धतीप्रमुखाः स्त्रियः। याभिर्धृताः प्रजाः सर्व्वा लोकाश्चैव कुलाधभ!। यस्त्वया मम पुत्त्रोवै दत्तो वृत्तविनाशनः। न मे बहुमतस्त्वेष शृणु चापि यदुच्यसे। उत्पत्स्यति पुमान्नीच! पतिवंशेममाव्ययः। भविष्यति स ते मृत्युर्यश्च दत्तस्त्रया सुतः। द्रुनिलस्त्वेवमुक्तस्तु जगामाकाशमेव तु”। कांस्यसाधनद्रव्यं कंसकशब्दे वक्ष्यते कांस्यशोधनमारणविधानगुणाः भावप्र० उक्ता यथा “अथ कांस्यस्य रीतेश्च शोधनन्त्वभिधीयते। पत्तलीकृतपत्राणिकांस्यस्याग्नौ प्रतापयेत्। निषिञ्चेत्तप्ततप्तानि तैले तक्रेच काञ्जिके। गोमूत्रे च कुलत्यानां कषायेऽत्र त्रिधा त्रिधा। एवं कांस्यस्य रीतेश्च विशुद्धिः संप्रजायते”। अथ मारणविधिः “अर्कक्षीरेण संपिष्टो गन्धकस्तेनलेपयेत्। समेन कांस्यपत्राणि शुद्धान्यम्लद्रवैर्मुहुः। ततोमूषापुटे धृत्वा पचेत् गजपुटेन च। एवं पुटद्वयात् कांस्यं रीतिश्च म्रियते ध्रुवम्” एवं मारितयोः कांस्यस्य रीतेश्च गुणाः “कांस्यं कषायं तीक्ष्णोष्णं लेखनं विशदं सरम्। गुरु नेत्रहितं रूक्षं कफपित्तहरं परम्”। “कंसभन्थशूर्पपाय्यकाण्डान्तं द्विगौ” पा० द्विगुसमासे आद्युदात्तता। द्विकंसः। द्वौ कंसौ परिमाणमस्येति तद्धितार्थद्विगुः। कंसशब्दोऽर्द्धर्चादि। “का काली का मधुरा का शीतलवाहिनी गङ्गा। कं सं जघान कृष्णः कम्बलवन्तं न बाधते शीतम्” विदग्धमुखमण्डने समानप्रश्नोत्तरदर्शनात् दन्त्यमध्य एव। ६ उग्रसेनकन्याभेदे स्त्री सा च देवभागभार्य्या “कंसा कंसवती कङ्का सुतनूराष्ट्रपालिका। उग्रसेनदुहितरी वसुदेवानुजस्त्रियः”। “देवभागस्य कंसायां चित्रकेतुवृहद्बलौ” भाग० ९, २४, २३,

कंसक = न० कंसमेव स्वार्थे कन्। १ कांस्ये तदुत्पत्तिगुणादि भावप्र० उक्तं यथा “ताम्रत्रपुजमाख्यातं कांस्यं घोषश्च कंसकम्। उपधातुर्भवेत् कांस्यं द्वयोस्तरणिरङ्गयोः। कांस्यस्य तु गुणाज्ञेयाः स्वयोनिसदृशा जनैः। संयोगजप्रभावेण तस्यान्येऽपि गुणाः स्मृताः”। “कांस्यं कषायं तिक्तोष्णं लेखनं विशदं सरम्। गुरु नेत्रहितं रूक्षं कफपित्तहरं परम्”। कंसमिव “इवे प्रतिकृतौ” पा० कन्। २ कांस्यजाते काशीशे उपधातुभेदे। “काशीशं धातुकाशीशं पांशुकाशीशमित्यपि। तदेव किञ्चित् पीतन्तु पुष्पकाशीशमुच्यते। काशीशमम्लमुष्णञ्च तिक्तञ्च तुवरं तथा। वातश्लेष्महरां केश्यं नेत्रकण्डूविषप्रणुत्। मूत्रकृच्छ्राश्मरीश्वित्रनाशनं परिकीर्त्तितम्” भावप्र० तद्गुणादि।

कंसकार = पु० कंसं तन्मयपात्रं करोति कृ–अण् उप० स०। (कांसारि) वर्णसङ्करजातिभेदे “वैश्यायां ब्राह्मणाज्जातो ह्यम्बष्ठो गान्धिकोबणिक्। कंसकारशङ्खकारौ ब्राह्मणात् संबभूवतुः” दृह० पु०। तेनैतस्याम्बष्ठवत् द्विजसंस्कार इति किन्तु सा जातिर्देशान्तरे प्रसिद्धा। गौडदेशवासिनस्तु शूद्राः। “विश्वकर्म्मा च शूद्रायां वीर्य्याधानं चकार सः। ततो बभूवुः पुत्राश्च षडेते शिल्पकारिणः। मालाकारः कर्म्म कारः शङ्खकारः कुविन्दकः। कुम्भकारः कंसकारः षडेते शिल्पिनोवराः” ब्रह्मवै० पु० तेनास्य शूद्राजातत्वात् “मातृवद्वर्णसंङ्कराः” इत्युक्तेः शूद्रत्वम्। उशनसा तु तस्य प्रतिलोमवर्ण्णसङ्करत्वमुक्तम्। “नृपायां वैश्यसंसर्गात् आयोगव इति स्मृतः। तन्तुवायो भवन्त्येते वस्त्रकांस्योपजीविनः। शिल्पिकाः केचिदत्रैव जीवनं वस्त्रनिर्म्मितम्। आयोगवेन विप्रायां जातास्ताम्रोपजीविनः”।

कंसकृष् = पु० कंसं कृष्टवान् कृष–क्विप् ६ त०! वासुदेवे तेन हि तस्य सभामध्ये कर्षणेन नाशनात्तथात्वं यथाह हरि० ८९ अ०। “क्षिप्ते पितरि चुक्रोध नन्दगोपे च केशवः। ज्ञातीयाञ्च व्यथां दृष्ट्वा विसंज्ञाञ्चैव देवकीम्। ससिंह इव वेगेन केगवी जातविक्रमः। आरुरुक्षुर्महाबाहुः कंसनाशार्थमच्युनः। रङ्गमध्यादुत्पपात कृष्णः कंसासनान्तिके। असजद्वायुना क्षिप्तो यथाखस्थो घनाघनः। ददृशुर्नहि तं सर्वे रङ्गमध्यादवप्लुतम्। केवलं कंसपार्श्वस्थं ददृशुः पुरवासिनः। सोऽपि कंसस्तदायस्तः परीतः कालधर्म्मणा। आकाशादिव गोविन्दं मेने तत्रागतं विभुम्। स कृष्णेनायतं कृत्वा बाहुं परिघसन्निभम्। सूर्द्धजेषु परामृष्टः कंसोवैरङ्गसंसदि। मुकुटश्चापतत्तस्य काञ्चनो वज्रभूषितः। शिरसस्तत्र कृष्णेन परामृष्टस्य पाणिना। हस्तेन ग्रस्तकेशश्च कंसोनिर्य्यन्त्रतां गतः। तथैव च विसंमूढो विह्वलः समपद्यत। निगृहीतश्च केशेषु गतासुरिव निश्वसन्। न शशाक मुखं द्रष्टुं कंसः कृष्णस्य वै तदा। विकुण्डलाभ्यां कर्ण्णाभ्यां च्छिन्नहारेण वक्षसा। विलम्बाभ्याञ्च बाहुभ्यां गात्रावसृत भूषणैः। भ्रंशितेनोत्तरीयेण सहसा चलिताननः। चेष्टमानः समाक्षिप्तः कंसः कृष्णेन तेजसा। चकर्षच महारङ्गे मञ्चान्निष्क्रम्य केशवः। केशेषु तं बलाद्गृह्य कंसं क्लेशार्हतां गतम्। कृष्यमाणः स कृष्णेन भोजराजो महाद्युतिः। समाजवाटे परिखां देहकृटां चकार ह। समाजवाटे विक्रीड्य विकृष्य च गतायुषम्। कृष्णो विसर्ज्जयामास कंसदेहमदूरतः”। “निषेदिवान् कंसकृषः स विष्टरे” माघः। कंसजित्कसारातिकंसहादयोऽप्यत्र

कंसवती = स्त्री उग्रसेनदुहितृभेदे देबश्रवणः पत्न्याम् कंसशब्दे उदा०। “कंसवत्यां देवश्रवसः सुवीरैषुमांस्तथा” भाग० ९, ३४, ३।

कंसार = न० कंसं तदाकारम् ऋच्छति ऋ–अण उप० स०। अस्थ्नि तस्य च कंसवच्छुभ्रत्वात् तथात्वम् “यत्किञ्चित् कंसार तदस्थि” ऐत० ब्रा०।

कंसास्थि = न० कंसमस्थीव कठिनत्वात् व्याघ्रा० उपमितस० १ कांस्यधातौ त्रिका

कंसिक = त्रि० कंसेन चतुःषष्टिपलमानेन क्रातः “कंसाटिठन् पा० टिठन् इकार उच्चारणार्थः। १ कंसेन क्रीते स्त्रिया टित्त्वात् ङीप्। अध्यर्द्धपूर्वद्विगोस्तु तस्य लुक्। अध्यर्द्धकंस सार्द्धकंसेन क्रीते त्रि०। द्विकंस द्वाभ्यां कंसाभ्यांक्रीते त्रि०।

कंसोद्भवा = स्त्री कंस इव शुभ्रत्वादुद्भवति उद् + भू–अच्। सौराष्ट्र्यां भृत्तिकायां तस्याः शुभ्रत्वात् कंसतुल्यत्वम्।

कक = इच्छायाम् सक० गर्व्वेचापले च अक० भ्वा० आत्म० सेट्। ककते अककिष्ट चकके

कक = गतौ भ्वा० इदित् आत्म० सक० सेट्। कङ्कते। अकङ्किष्ट चकङ्के प्रनिकङ्कते न णत्वम्।

ककन्द = पु० कक–अन्दच्। १ स्वर्ण्णे उणादिकोषः २ नृपे उज्व०

ककर = पु० कक–अरच्। पक्षिभेदे। “हेमन्ताय ककरांञ्छिशिराय विककरान्” यजु० २४, २०। ककरः पक्षिविशेषः

ककरघा(हा)ट = पु० कं विषं करहाटेऽस्य हस्य पृ० वा घः। मूलविषे वृक्षभेदे। “तत्र क्लीतकाश्वमारगुञ्जासुगन्ध गर्गरककरघ(हा)टविद्युच्छिखाविजयानीत्यष्टौ सूलविषाणि” सुश्रु०। घमध्यस्तु “अन्त्रपाचक कर्त्तरीयसौरीय ककरधाट करम्भनन्दनवराटकानि सप्त त्वक्सारनिर्य्यासविषाणि” सुश्रुतीक्ते त्वक्सारनिर्यासविषे २ वृक्षभेदे।

ककर्द्दु = पु० कस्य कर्द्दनं हिंसनम् कर्द्द–भावे उन् ६ त०। सुखनाशने। “ककर्द्दवे वृषभोयुक्त आसीत्” ऋ० १०, १०२, ६ ककर्द्दवे हिंसनाय” भा०।

ककाटिका = स्त्री कृकाटिका पृषो०। १ घाटायाम् २ ललाटा स्थिभेदे च “मस्तिष्कमस्य कतमोललाटं ककाटिकां प्रथमोयः कषालम्” अथ० १०, २, ८।

ककुञ्जल = पुंस्त्री कं जलं कूजयति कूज–अलच् पृषो० नुम् ह्रस्वश्च। चातकपक्षिणि राजवल्लभः स्त्रियां ङीष्।

ककुत्सल = न० ककुत्स्थलं वेदे पृषो०। ककुद्रूपे स्थले “असै वा इह ते मनः ककुत्सलमिव जामयः। अभ्येनं भ्म ऊर्णुहि” अथ० १९, ४, ६६, जामयो नवोढाः ककुत्स्थलं वस्त्रेण यथा ऊर्ण्णुवन्ति तथैव मन आच्छादय इत्यर्थः। लोके तु ककुत्स्थलमित्येव।

ककुत्स्थ = पु० वृषरूपधरस्य शक्रस्य ककुदि तिष्ठति स्था क। घुरञ्जया–ख्थे इक्ष्वाकुपुत्रशशादषुत्रे नृपभेदे। तन्नामनिरुक्तिचरिते यथा “इक्ष्वाकौ संस्थिते ताते शशादस्तामथावसत्। शशादस्य तु दायादः ककुत्स्थोनाम थीर्य्यवान। इन्द्रस्य वृषभूतस्य् ककुत्स्थोऽजयतासुरान्। पूर्वमाडीवके युद्वे कक- त्स्थस्तेन सः स्मृतः “हरिवं० १० अ०। “शासदीजे हरिं यज्ञैः शशाद इति विश्रुतः। पुरञ्जयस्तस्य सुत इन्द्रवाह्य इतीरितः। ककुत्स्थ इति चाप्युक्तः शृणु नामानि कर्मभिः। कृतान्त आसीत् समरोदेवान सह दानवैः। पार्ष्णिग्राहेवृतो वीरो देवैर्दैत्यपराजितैः। वचनाद्देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः। वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः। नमन्नथो धनुर्दिव्यमादाय विशिखान् शितान्। स्तूयमानस्तमारुह्य युयुत्सुः ककुदि स्थितः। तेजसाप्यायितो विष्णोः पुरुषस्य परात्मनः। प्रतीच्यां दिशि दैत्यानां न्यरुणत्त्रिदशैः पुरम्। तैस्तस्य चाभूत् प्रधनं तुमुलं लोमहर्षणम्। यमाय भल्लैरनयद्दैत्यान् येऽभिययुर्मृधे। तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्वणम्। विसृज्य दुद्रुवुर्दैत्याहन्यमानाःस्वमालयम्। जित्वा पुरं धनं सर्व्वमयच्छद्मज्रपाणये। प्रत्ययछत् स राजर्षिरिति नामभिराहुतः” भाग० ९, ६, ११ “इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत्” रघुः। तस्यापत्यं शिवा० अण। काकुत्स्थ तदपत्ये। “काकुत्स्थ ईषत् स्मयमान आस्त” भट्टिः।

ककुद् = स्त्री कं सुखं कौति कु–शब्दे क्विप् तुक् च पृषो० तस्यदः। वृषस्कन्धपृष्ठमांसपिण्डाकारे, (झुंड) इति ख्याते १ वृषाङ्गभेदे २ श्वेतच्छत्रादौ नृपचिह्नै, ३ प्रधाने, ४ पर्व्वताग्रभागे च। “आस्यं विवृत्य ककुदि पाणिना प्राक्षिपच्छनैः” भा० अनु० २९१ अ०। ककुदिस्थितः ककुत्स्थशब्दे उदा०।

ककुद = पु० न० कस्य देहस्य सुखस्य वा कुं भूमिं ददाति दा क। (झु~ट) इति ख्याते १ वृषाङ्गभेदे, २ प्रधाने, ३ नृपचिह्ने, छ त्रादौ, ४ पर्व्वताग्रभागे च। “इक्षाकुवंश्यः ककुदं नृपाणाम्” रघुः। “नृपतिककुदं दत्त्वा यूने सितातपवारणम्” रघुः। “स राजककुदव्यग्रपाणिभिः पार्श्ववर्त्तिभिः” रघुः। बहु० अवस्थायामन्त्यसोपः समा०। अजातककुत् अल्पवयाः वृषः। पूर्ण्णककुत् तरुणः। पर्व्वतभेदे चान्त्यलोपःत्रिककुत् त्रिकूटगिरिः।

ककुदाक्ष = त्रि० ककुदं राजचिह्नमक्ष्णिति धारकत्वेन व्याप्रोति अक्ष–अण् उप० स०। राजचिह्नधारके। तस्यापत्यम् रेवत्या० ठक्। काकुदिक तदपत्ये पु० स्त्री

ककुदावर्त्त = पु० ककुदि आवर्त्तः। ककुदिस्थेदुष्टरोमावर्त्तभेदे। तस्य प्राणिस्थत्वात् निन्द्यत्वाच्च मत्वर्थे इनि। ककुदावर्त्तिन् तच्छिह्नयुक्ते निन्द्ये वृषे।

ककुद्मत् = पु० ककुदस्त्यस्य मतुप् यवादि० न मस्य वः। १ वृषे। “दर्पकलः ककुद्मान्” कुमा०। “अशोभतोच्चैर्नदितं ककुद्मताम्” माघः। “मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः” “दृप्तः ककुद्मानिव चित्रकूटः” रघुः। ककुद् सादृश्येनास्त्यस्य मतुप्। २ ककुत्सदृशे बहुलोदकसंघातयुक्ते। “ऊर्म्मिः प्रतूर्त्तिः ककुद्मान्” यजु० ९, ६, ककुद्मान् ककुच्छब्देन वृषस्कन्धे उन्नतप्रदेश उच्यते सादृश्ये मयुप् तत्सामान्यादुदकनिचयैर्युक्तः” वेददो०। ३ ऋषभोषधौ” राजनि० ४ पर्व्वते स्यामी

ककुद्मती = स्त्री ककुदिव मांसपिण्डोऽस्त्यस्याः मतुप् यवा० न मस्य वः ङीप्। कट्याम् अमरः

ककुद्मिन् = पु० ककुद् + अस्त्यर्थे मिनि। १ वृषे २ पर्व्वते च। “अष्टौ सहस्राणि ककुद्मिनामहम्” भा० आश्व० १० ३ अ०। ४ रैवते नृपे पु०। “आनर्त्तस्य तु दायादो रेवोनाम महाद्युतिः। आनर्त्तविषयश्चासीत्ंपुरी चास्य कुशस्थली। रेवस्य रैवतःपुत्रः ककुद्मो नाम धार्म्मिकः” हरिवं० ३० अ०।

ककुद्मिसुता = स्त्री ६ त०। बलरामभार्य्यायां रेवत्याम्। ककुद्मिकन्यादयोऽप्यत्र “ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासया” माघः।

तस्याः पूर्ब्बकालिकायाअपि बलदेवपरिणयकथा यथा “रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्म्मिकः। ज्येष्टः पुत्र शतस्यासीद्राज्यं प्राप्य कुशस्थलीम्। स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणीऽन्तिके। मुहुर्त्तभूतं देवस्य गतं बहुयुगं प्रभो। आजगाम युवैवाथ स्वां पुरीं यादवैर्वृताम्। कृतां द्वारवतीं नाम्रा बहुद्वारां मनोरमाम्। भोजवृष्ण्यन्धकैर्गुप्तां वासुदेवपुरोगमैः। ततस्तद्रैवतोज्ञात्वा यथातत्त्वमरिन्दम!। कन्यां तां बलदेवाय सुव्रातां नाम रेवतीम्। दत्त्वा जगाम शिखरं मेरोस्तपसि संशितः। रेमे रामोऽपि धर्म्मात्मा रेवत्या सहितः सुखी” १० अ०। युधिष्ठिरौवाच “कथं बहुयुगे काले समतीते द्विजोत्तम!। न जरा रेवतीं प्राप्ता रैवतं वा ककुद्मिनम्। मेरुं गतस्य वा तस्य शर्य्यातेः सन्ततिः कथम्। स्थिता पृथिव्यामद्यापि श्रोतुमिच्छामि तत्त्वतः। नारद उवाच। न जरा क्षत्पिपासा वा न मृत्युर्भरतर्षभ!। ऋतुचक्रं न भवति ब्रह्मलोके सदाऽनघ। कवुस्मिनस्तु तं लोकं रेवतस्य गतस्य ह। हृता पुण्यजनैस्तात राक्षसैः सा कुशस्थली” भा० हरि० ११ अ०।

ककुन्दर = न० कस्य शरीरस्य पृष्ठदेशस्य कुं भूमिं दृणाति दृ–था० स्वच्। पृष्ठतशाधःस्थे गर्त्ताकारे कूपके “सकृ- द्विभक्तचतरस्रक(कु)कुन्दरविभागः रथाङ्गाकारसंस्थितश्च नितम्बविभागः” दशकुमा०। “कर्ण्णौ शङ्खौ भ्रुवौ दन्तवेष्टावोष्ठौ ककुन्दरे” याज्ञ० “ककुन्दरे जघनकूपकौ” मिता०। पृषो० कुकुन्दरमपि तत्रार्थे।

ककुभ् = स्त्री कं प्रकाशं स्कु भ्नाति स्कुन्भ–क्विप् पृषो०। १ दिशि, २ शोभायाम्, ३ चम्पकमालायाम्, ४, शास्त्रे, ५ रागिणीभेदे च। “अष्टौ व्यख्यत् ककुभः पृथिव्याः” ऋ० १, ५८, १। “दाधर्य्य प्राचीं ककुभं पृथिव्याः” ७, ९, २। ६ प्राणे। “ककुपछन्दः” यजु० १५, ४। “कं सुखं शरीरे स्कुभ्राति धारयतीति ककुप्, कं सुखं कोपयतिदीपयतीति कुपदीप्तौ चुरादि क्विप्। पूर्वत्रपक्षे सलोपश्छान्दसः ककुप् प्राणः “प्राणो वै ककुप् छन्दः इति श्रुतेः” वेददी०। द्वितीयपक्षे पान्तमिति भेदः। वैदिके ७ छन्दोभेदे। “उक्षा वयः ककुप्छन्दः” यजु० १४, ९ “आद्यन्तावष्टाक्षरौ पादौ मध्यमौ द्वादशाक्षरौ ककुप्” वेददी०। कात्या० सर्व्वा० ५ अ०। “द्वितीयमुष्णिक् त्रिपदान्त्यो द्वादशकः आद्यश्चेत् पुर उष्णिक् मध्य मश्चेत् ककुप्” इति तल्लक्षण मुक्तम्। “सर्वाः ककुभः” आश्व० श्रौ० ६, १, २। ककुबरागिणीरूपमुक्तम् संगीतदामो “पीतं वसाना वसनं सकेशी वने रुदन्ती पिकनाददूना। विलोकयन्ती ककभोऽतिभीता मूर्त्तिः प्रदिष्ठा ककुभस्तथेयम्”।

ककुभ = पु० कं वातं स्कुभ्नाति स्कुन्भ–क पृषो०। वीणाङ्गे, तस्याः स्वरगाम्भीर्य्यसम्पादनार्थमधोबद्धालाबूमयभाण्डे। कस्य वातस्य कुः पूमिः भात्यस्मात् ककु + भा–क। विस्तीर्ण्णशाखाभिः वातभूमिप्रकाशकेऽर्ज्जनवृक्षे, च तद्गुणादि भावप्रका० उक्तं यथा “ककुभः शीतलोभग्नक्षतक्षयावषास्रजित्। मेदोमेहव्रणान् हन्ति तुवरः कफपित्तहृत्। “भध्येसमुद्रं ककुभः पिशङ्गी” माघः तांस्तण्डुलोन्नतिनिम्नोत्तानविस्तीर्ण्णकुक्षौ ककुभोलूखले” दशकु० कालक्षेपं ककुभमुरभौ पर्व्वते पर्वते ते” मेघदू०। ३ रागभेदे च ४ रागिणीभेदे स्त्री। ककुभ इवाचरति ककुभ + क्विप्–अच्। ५ मच्चति त्रि० निघ० “ककुभं रूपं वृषभस्य रोचते” यजु० ८, ४९। ककुभं महत्” वेददी०

ककुभादनी = स्त्री ककुभ इवाद्यते तुल्यरसत्वात् अद–ल्युट् ङीप्। नलीनामगन्धद्रव्ये शब्दच०

ककुम्मती = स्त्री वैदिकेछन्दोभेदे “एकस्मिन्पञ्चकेछन्दः शङ्कुमती षट्के ककुम्मतीति” कात्या० सर्व्वानु० तल्लक्षणमुक्तम्।

ककुह = त्रि० कस्य सूर्य्यस्य कुं भूमिंजिहीते उच्छ्रितत्वात् गच्छति हा–क ६ त०। १ उच्छ्रिते २ महति निघण्टुः। “ककुहं चित्त्वा कवे! मन्दन्तु धृष्णविन्दवः” ऋ० ८, ४५, १४। “ककुहःसौम्योरस इन्दुरिन्द्राय” ९, ६७, ८। ककुहः ककुहस्तीति निघण्टौ पाठान्तरम् तदर्थे।

कक्क = हासे भ्वा० पर० अक० सेट्। कक्कति। अकक्कीत्। चकक्क। कक्कटः। प्रनिकक्कति कादित्वान्न णत्वम्।

कक्कट = पुंस्त्री कक्क–अटन्। मृगविशेषे स च अश्वमेधे अनुमतिदेवताकः पशुः। “न्यङ्कुः कक्कटस्तेऽनुमत्यै” यज० २४, ३२। पेद्वी मृगभेदः न्यङ्कुरपि, कक्कटः सएव, ते त्रयोऽनुमत्यै” वेददी०। स्त्रियां जातित्वात् ङीष्।

कक्कुल = पु० कक्क–उलच्। बकुलवृक्षे नलितविस्तारः।

कक्कोल = पु० ककते गच्छति क्विप् कक्, कोलति संस्त्यायति कुल–अच् कोलः कक् चासौ कोलश्चेति कर्म्म०। गन्धद्रव्यसाधने वृक्षे (कांकोल) इति वङ्गभाषाख्याते (वनकपूर,) इति पाश्चात्त्यख्याते। “आकम्पितकक्कोलैः नमेरुकुसुमपांशुपातिभिः” काद०। “कक्कोलं लघु तीक्ष्णोष्णं तिक्तं हृद्यं रुचिप्रदम्। आस्यदुर्गन्धिहृद्रोगकफवातामयान्ध्यहृत्” भावप्र० तद्गुणाः “जातीफललवङ्गकक्कोलमेषाञ्च षट्पलम्। प्रोक्तमाचमनमिति” तन्त्रसारः।

कक्कोलक = पु० इदमर्थे कन्। १ कक्कोलवृक्षजाते गन्धद्रव्ये (वनकर्पूर) इति ख्याते। तस्य कोषे फलवत्त्वात् कोषफल इति प्रसिद्धिः २ स्थूलमरिचे राजनि०।

कक्ख = हासे भ्वादि० पर० अक० सेट्। कक्खति अकक्खेत्। चकक्ख।

कक्खट = त्रि० कक्ख–अटन्। १ कठिने अमरः। २ हासान्विते त्रि०

कक्खटपत्रक = पु० कक्खटं प्रकाशान्वितं पत्रमस्य। (पाट) वृक्षभेदे शब्दमा०

कक्खटी = स्त्री कक्ख–अटन् गौ० ङीष्। कठिन्थाम् (खडी) भूमौ वर्ण्णलेखनसाधने द्रव्यभेदे त्रिका०।

कक्ष = पु० कष हिंसादौ स। १ उत्तरीयवस्त्रस्य पश्चाद्भागस्थे अञ्चले (आंचल) २ लतायाम्, ३ शुष्कतृणे, ४ शुष्कवने च मेदि०। ५ पार्श्वभागे, ६ राजान्तः पुरे, ७ बाह्वोर्भूले ८ पृष्ठप्रदेशनिहिताधोऽशुं कस्यैकदेशे (काछा) ९ हस्तिबन्धनरज्वां, १० काञ्च्याम्, ११ पकोष्ठके, १२ गृहभित्तौ, १३ साम्ये १४ स्पर्द्धास्पदे मेदि० १५ कक्षरोगभेदे च (कांकविराली) स्त्री। १६ पापे न० हेम०। “प्रक्षिप्योदर्च्चिषं कक्षे” माघः०। “क्रोष्टा वराहं निरतक्त कक्षात्” ऋ० १०, २८, ४। “रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा” भा० व० १८२ “कक्षान्तरगतोवायुर्जीमूत इव गर्जति” रामा० “यथोद्धरति निर्द्दाता कक्षं धान्यं च रक्षति” मनुः। “कक्षघ्नः शिशिरघ्नश्च” “महाकक्षे बिलौकसः। न दघे दिति चात्मानं यो रक्षति स जीवति” भा० आ० १४५ अ०। “अयमग्निर्दहन् कक्षमितआयाति भीषणः” भा० आ० ८३६६ अरुण्ये “अग्निर्महाकक्षमिवान्तकाले” भा० व० १२० अ०। १७ बाहुमात्रे स्त्रीत्वमपि “कक्षैः कक्षां विधुन्वानावास्फोटं तत्र चक्रतुः” भा० स० २२ अ०। वस्त्राञ्चले तु पुं स्त्री “चित्रहस्तादिकं कृत्वा कक्षाबन्धञ्च चक्रतुः” भा० ९०२। “वामे पृष्ठे तथा नाभौ कक्षत्रयमुदाहृतम्। एभिः कक्षैः परीधत्ते योविप्रः स शुचिः स्मृतः” स्मृतिः “परिधानात् वहिःकक्षा निबद्धा ह्यासुरी भवेत्” योगिया०। १८ नौकाङ्गे हेम०। बाहुमूले (वगल) “वैदूर्य्यरूपान् प्रतिमुच्य काञ्चनानक्षान् स कक्षे परिगृह्य वाससा” भा० वि० २५ श्लो०। प्रकोष्ठे “आ पञ्चम्यास्तु कक्षाया नैनं कश्चिदवारयत्” रामा०। “क्रान्तानि पूर्ब्बं कमलासनेन कक्षान्तराण्यद्रिपतेर्विबेश” कुमा० “करेणुकाभिरशून्यकक्षान्तरम्” काद० १९ परिकरे “आबद्धनिविडकक्षैः” काद०। कक्षारोगस्तु “बाहुपार्श्वांसकक्षासु कृष्णस्फोटां सवेदनाम्। पित्तप्रकोपात् संभूतां कक्षामिति विनिर्द्दिशेत्”। कक्षाभागेषु ये स्फोटाः जायन्ते मांसदारुणाः। अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः। सप्ताहात् द्वादशाद्वा पक्षाद्वा घ्नन्ति मानवम्” सुश्रुते उक्तलक्षणः। “इरिविल्लां गन्धनाम्नीं कक्षां विस्फोटकांस्तथा। पित्तजस्य विसर्पस्य क्रियया साधयेत् भिषक्” सुश्रु० २० कच्छे जलप्राये विश्वः।

कक्षक = पु० जनमेजयसर्पसत्रहते वासुकिकुलजसर्पभेदे। “हिरण्यबाहुः शरणः कक्षकः कालदन्तकः। एते वासु जकिजानागाः प्रविष्टा हव्यवाहनम्” भा० आ० ५८ अ०।

कक्षतु = द० कक्ष इव तन्यते विटपं तन–वा० डु। वृक्षभेदे तस्य फलम् अञ् प्लक्षा० न लुक्। काक्षतव तत्फले न० चतुरर्थ्याम् उवर्णान्तत्वात् अण्। काक्षतव तत्सन्निकृष्टदेशादौ त्रि०।

कक्षधर् = न० कक्षां धारयति धृ–अच् नि० ह्रस्वः। सुश्रुतोक्ते वक्षःकक्षयोरन्तरालस्थानस्थिते मर्म्मस्थानभेदे। “विशेषतस्तु यानि सक्थिगुल्मजानुविटपानि तानि बाह्वोर्मणिबन्धकर्परकक्षधराणि। वङ्क्षणवृषणयोरन्तरे विटपम् एवं वक्षःकक्षयोःर्मध्ये कक्षधरमिति” लक्षित्वा कक्षधरे पक्षाघातः” सुश्रुते तद्वेधे पक्षाघात उक्तः।

कक्षप = पुं स्त्री कक्षे जलप्राये पिबति पा–क० ७ त०। कूर्म्मे स्त्रियां ङीप्।

कक्षरुहा = स्त्री कक्षे जलप्राये रोहति रुह–क। (नागरमुथा) नागरमुस्तायाम् राजनि० तस्याजलप्रायभवत्वात्तथात्वम्।

कक्षशाय = पुं स्त्री कक्षे शुष्क्तृणे शेते शी–ण। कुक्कुरे शब्दमाला। स्त्रियां ङीप्।

कक्षशायु = पुंस्त्री कक्षे शेते शी–उण्। कुककुरे राजनि०।

कक्षसेन = पु० “परीक्षितोऽभवन् पुत्राः सर्व्वे धर्म्मार्थकोविदा। कक्षसेनोग्रसेनौ तु चित्रसेनश्च वीर्य्यवान्” भा० आ० ९४ अ० उक्ते परिक्षिन्नृपपुत्रभेदे। अयञ्च परिक्षित् आविक्षतःपुत्रः “आविक्षतः परिक्षित्तू” इत्युपक्रमात्। “अलर्कः कक्षसेनश्च गयो गौराश्व एव चेति” यमसभासद्वर्ण्णने उक्तम्। तस्याश्रमश्च अवन्तिदेशस्थासितगिरिस्थः। “अवन्तिषु प्रतीच्यां वै” इत्युपक्रम्य “बहुमूलफलोपेतो ह्यसितोनाम पर्व्वतः। आश्रमं कक्षसेनस्य पण्यस्तत्र युधिष्ठिर!” भा० व० ८९ अ०। तस्य च संन्यासकथा। “कक्षसेनस्तु राजर्षिर्वसिष्ठाय महात्मने। न्यासं यथावत् संन्यस्य जगामाशु महायशाः” भा० अनु० १०७ अ०। तस्य प्रातःस्मर्य्यतामाह भा० अन० १६७ अ०। “कक्षसेनश्च राजर्षिर्येचान्ये नानुकीर्त्तिताः। कल्यमुत्थाय योनित्यं सन्ध्येऽह्यस्तमयोदये। पठेच्छुचिरनावृत्तः सधर्म्मफलभाग्भवेत्”। “कक्षसेनार्ष्णिसेनौ च सिन्धुद्वीपश्च पार्थिवः। एते चान्ये च बहवः सिद्धिं परमिकां गताः” भा० अश्व० ९१ अ०। २ ऋषिभेदे च। यस्यापत्यमभिप्रतारी। “अथ शौनकञ्च कापेयमभिप्रतारिणं काक्षसेनिं परिबेष्यमाणौ ब्रह्मचारी विभिक्षे” छा० उ० कक्षसेनस्यापत्यम् इञ्” भा०।

कक्षा = स्त्री कष–स। १ उत्तरीयवस्त्रे २ काञ्च्याम् ३ मध्यबन्धने ४ हस्तिबन्धने च विश्वः ५ मध्ये ६ संशयकोटौ ७ तुल्यतायाञ्च। समकक्षः। कक्षीकृतः क्रोडीकृतः। ८ राजान्तःपुरे च तत्र मध्यबन्धने “युधे परैःसह दृढबद्धकक्षया” माघः “कक्षा मध्यबन्धनम्” मल्लि० कक्षशब्दे उक्तार्थेषु च

कक्षापट = पु० कक्षाकारः पटः। कौपिने हला०।

कक्षाय = नामधातुः पापचिकीर्षायाम्। “सत्रकक्षकष्टकृच्छ्रहनेभ्यः कण्वचिकीर्षायाम्” वार्त्ति० क्यङ्। कक्षायते कक्षं (पापम्) चिकीर्षति। अकक्षायिष्ट कक्षायांबभूव आस चक्रे।

कक्षावेक्षक = पु० कक्षं वनमुपवनं साम्यं स्त्रीबाहुमूलं वा कक्षां राजशुद्धान्तःपुरीं वाऽवेक्षते अव + ईक्ष–ण्वुल्। १ शुद्धान्तपालके, २ उद्यानपालके, ३ रङ्गाजीवे, ४ जारे करौ ६ द्वाः स्थे च मेदि०।

कक्षिन् = त्रि० कक्षं पापमस्त्यस्य सुखा० इनि। पापयुक्ते

कक्षीवत् = पु० कक्ष्या अस्त्यस्य मतुप् नि० संज्ञायां संप्रसारणं दीर्घश्च। स्फोटायने ऋषिभेदे हेमच०। अन्यत्र कक्ष्यावत् कक्ष्यायुक्ते। “सोमानं स्वरणं कुणुहि ब्रह्मणस्पते। कक्षीवन्तं यओशिजः” निरु० श्रुतिः कक्षीवान् कक्ष्यावान् निरु०। मनुष्यकक्ष एवाभिप्रेतः इति निरु०। “शतं कक्षीवा~ असुरस्य” ऋ० १, १२६, २, “अहं मनुररभवं सूर्य्यश्चाहं कक्षीवा~ ऋषिरस्मि विप्रः” ऋ० ४, २६, १ “कक्षीवान् दीर्घतमसः पुत्रस्तत्संज्ञकः” भा०। अयञ्चाङ्गिरोगोत्रोत्पन्नः। “यवक्रीतश्च रैभ्यश्च अमावसु परावसू। औशिजश्चैव कक्षीवान् बलश्चाङ्गिरसः सुताः” भा० अनु० १५० अ०। “यवक्रीतोऽथ रौभ्यश्च कक्षीवानौशिजस्तथा” भा० अनु० १६५ अ०। अयञ्च गोत्रप्रवर्त्तकः “कक्षीवतामाङ्गिरसौचथ्यगौतमौशिजकाक्षीवतेति। आश्व० श्रौ० १२, ११, ३, कक्षीवतोऽपत्यम् अण्। काक्षीवत तत्पुत्रे प्रवरर्षिभेदे। “कक्षीवन्तं यओशिजः इति श्रुतिमधिकृत्य उशिजः पुत्रः उशिग् वष्टेः कान्तिकर्म्मणः” निरुक्तोक्तेः औशिजशब्द तालव्यमध्यएव साधुः भारते मूर्द्धन्यमध्यपाठः लिपिकरप्रमादकृत एव। एवं श्रुतिसूत्र भारतादौ पा० सूत्रे च ईकारमध्यपाठदर्शनात् हेम० कक्षीवच्छब्द एव। शब्दकल्पद्रुमे कक्षावच्छब्दकल्पनं निर्मूलम्।

कक्षेयु = पु० “रौद्राश्वस्य घृताचीसम्भूते पुत्रभेदे। “रौद्राश्वस्य महेश्वासा दशाप्सरसि सूनवः” इत्युपक्रम्य “ऋचेयुरथ कक्षेयुः कृकणेयुश्च वोर्य्यवान्” इत्यादिना तस्य दश पुत्रा दर्शिताः भा० आ० ९० अ० “आयुःक्षुपश्च राजर्षिः कक्षे युश्च नराधिपः” भा० अनु० १ ६५ अ०। “रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः। ऋचेयुः प्रथमस्तेषां कृकणे युस्तथैव च। कक्षेयुः स्थण्डिलेयुश्च” हरिवं० ३१

कक्षोत्था = त्रि० कक्षात् जलप्रायदेशादुत्तिष्ठति उद् + स्था–क ५ त०। भद्रमुस्तायां राजनि०। (नागरमुथा) तस्याजलप्रायदेशजत्वात्तथात्वम्। कक्षोद्भवादयोऽप्यत्र।

कक्ष्य = त्रि० कक्षे भवः यत्। “कक्षोवीरुधिदोर्मूले कच्छ शुष्क वने तृणे” इति विश्वोक्तलतादि १ भवे। २ रुद्रभेदे पु०। “नमो वन्याय च कक्ष्याय च” यजु० १६, ३३, रुद्राध्याये रुद्रभेदकथने। ३ कक्षपूरके त्रि०। “श्येन आसामदितिः कक्ष्योमदः” ऋ० ५, ४४, ११, “कक्ष्यः कक्षापूरकः मदः” भा०। कक्षे मध्ये भवः यत्। ४ उत्तरीयवस्त्रे ५ हर्म्यादिप्रकोष्ठे राजगृहादेर्वेष्टनावच्छिन्ने ६ देशे राज- गृहादेः ७ प्रारम्भकोष्ठके ८ सादृश्ये ९ कक्षवद्धरज्ज्वौ १० काञ्च्यां मेखलारज्वौ ११ वस्त्राञ्चले १२ गजमध्यबन्धनरज्ज्वौ च स्त्री। स्वार्थेयत्। १३ उद्योगे १४ परिकरबन्धने च स्त्री। “ते वतीत्य जनाकीर्ण्णा कक्ष्यास्तिस्रो नरर्षभाः” भा० स० २० कक्ष्यामपि विगृह्य च” १ मा०। अत्र क्लीवमपि “अन्येच०। “अभिगम्य गृहं भ्रातुः हरयोद्वास्था गृहकक्ष्यातास्तथा” रामा०। १५ गुञ्जायां शब्दरत्ना० १६ पार्श्वभ गे न०। “शोभितं हेमकक्ष्यैश्च हेमपट्टैर्विभूषितम्”। स्वामा० “परार्थे बद्धकक्ष्याणां तादृशां सम्भवः कुतः” पुरा०। १७ अङ्गुलौ स्त्री निघण्टुः।

कक्ष्यावत् = पुंस्त्री कक्ष्यास्त्यस्य मतुप् मस्य वः। ऋषिसंज्ञाभावात् न संप्र०। हस्तिनि हेमच० स्त्रियां ङीप्।

कक्ष्यावेक्षक = पु० कक्षावेक्षकार्थेषु।

कख = हासे भ्वा० पर० अक० सेट् एदित् घटादि वोपदेवः। कखति एदित्त्वात् अकखीत्। चकाख णिच् कखयति। पा० मते नास्य एदित्त्वं तेन अकखीत्–अकाखीत् इतिभेद न वा तन्मते घटादि। तेन काखयत्येव। कादित्वात् प्रनिकखति इत्यादौ न णत्वम्।

कख्या = स्त्री कख–यत्। हर्म्यादिप्रकोष्ठे कक्षार्थे शब्दर०।

कग = क्रियामात्रे भ्वादि० पर० सक० अक० च सेट् एदित् वोप०। कगति अकगीत्। पा० नेदित्त्वम् तेन अकगीत् अकागीत् कागयति। चकाग प्रनिकगति न णत्वम्।

कङ्क = पुंस्त्री ककि–अच्। १ पक्षिभेदे। (का~क)। “कङ्खपत्रः शिलीमुखः” इत्युक्तेस्तस्य पक्षेण शरपुङ्खः क्रियते। “शरास्तयोस्तुं बभूवुः कङ्कवर्हिणवाससः” भा० वि० ५८। सच पक्षी सुरमासुतकुलजः “अनलायाःशुकी पुत्री कङ्कस्तु सुरमासुतः” भा० आ० ६६ अ०। २ महाराजचूते राजनि०। ३ क्षत्रियमात्रे शब्दमाला। ४ यमे ५ छद्मना द्विजवेशधरे झेदि० “कङ्कोनाम द्विजोभूत्वा मताक्षः प्रियदेवनः” भा० व० २ अ०। युधिष्ठिरस्य छद्मना द्विजवेशतया तथात्वम्। ६ सुदेवानुजभेदे “देवमीढस्य शूरस्य मारिषा नाम पत्न्यभूत्। तस्यां स जनयामास दश पुत्रान् कमेण च। वसुदेवं देवभागं देवश्रवसमानकम्। सृञ्जयं श्यामकं कङ्कं शमीकं वत्सकं वृकम्” इत्युक्त्वा “कङ्कस्य कर्पिकायां वै ऋतधामाजयावपि” इति तत्पुत्रोत्पत्तिरुक्ता। “कृतवर्म्मा ह्यनाधृष्टिः शमीकः समितिञ्जयः। कङ्कः शङ्कुश्च कुन्तिश्च सप्तैते वै महारथाः” भा० स० १३। ७ उग्रमेनकन्याभेदे स्त्री। “तेषां (उग्रसेनसुतानाम्) स्वसारः पञ्चासन् कंसा कंसवती तथा। सुतनूराष्ट्रपाली च कङ्का चैव वराङ्गना” हरि० ३८।

कङ्कट = पु० कं देहं कटति क + कट–मुम् च्, ककि लौल्ये अटन् वा। १ कवचे। “सर्वायुधैः कङ्गटभेदिभिश्च” रघुः तेन निर्वृत्तादि कुमुदा० चतुरर्थ्याम् ठक्। कङ्कटिक तन्निर्वृत्तादौ त्रि०। चतुरर्थ्यां काशा० इल। कङ्कटिल तदर्थे। प्रेक्षा० चतुरर्थ्याम् इनि। कङ्कटिन् तदर्थे त्रि०। अस्त्यर्थे इनि। तद्युक्ते बद्धकवचे त्रि०। उभयत्र स्त्रियां ङीप्। स्वार्थे कन्। कङ्कटकोऽप्यत्र।

कङ्कण = न० कं शुभं कणति कम्–कण–अच्। १ करभूषण, २ भूषणमात्रे च ३ शेखरे ४ हस्तसूत्रे च विश्वः “सिन्दूरितानेकपकङ्कणङ्किताः” माघः “उत्क्षिप्तं करकङ्कणद्वयमिदम् बद्धा दृढं मेखला” सा० द०। कङ्कणशब्दस्य करभूषणार्थत्वेऽपि तत्काले करबृत्तित्वसूचनाय कर्ण्णावतंसे कर्णशब्दवत् करशब्दप्रयोगः। भूषणमात्रे “के द्रुमास्ते क्व वा ग्रामे सन्ति केन प्ररोपिताः। नाथ! मत्कङ्कणन्यस्तं येषां मुक्ता फलं फलम्” सा० द०। कमित्यव्ययम् जलार्थकं तस्य कणः। ५ जलकणे पु०। “नितम्बे पत्राली नयनयुगलं कङ्कणभरम् मुखे हारावाप्तिः सतिलकमभूत् पाणिकमलम्। अरण्ये कर्ण्णाट! त्वदरिवनितानां विधिवशादपूर्ब्बाऽयं भूषविधिरजनि” उद्भटः।

कङ्कणीका = स्त्री पुनः पुनः कणति कण–यङ्–लुक्–इकन् “चङ्कणः कङ्कण च” उणा० कङ्कणादेशश्च। क्षुद्रघण्टिकायाम्” उज्ज्वल० वा० चङ्कणः–अच् कङ्कणादेशश्च गौरा० ङीष्। कङ्कणीत्यपि तत्रैव भरतः। अत्र मूलं मृग्यम्।

कङ्कत = पु० ककि–अतच्। १ नागवलावृक्षे। तक + गतौ अतच् पृषो०। २ अल्पविषे डुण्डभे सर्पे पुंस्त्री जातित्वात् स्त्रियां ङीष्। “कङ्कतो ग कङ्कतोऽथ सतीनकङ्कतः” ऋ० १, १९१, १। “कङ्कतोऽल्पविषः सतीनं जलम् तत्र कङ्कतः जलडुण्डुभः” भा०। ३ केशप्रसाधन्याम् न० (का~कुइ)। “शिरसीव कङ्कतमपेतमूर्द्धजे” माघः पुंस्त्वमपि “कृत्रिमः कङ्कतः शतदन्य एषः। अपास्याः केश्यंमलमप शीर्षण्यं लिखात्” अथ० १४, २, ६८ प्रसाधनीगुणाश्च सुश्रुते उक्ताः “केशप्रसाधनी केश्या रजोजन्तुमलापहा” अस्य स्त्रीत्वमपि तत्र गौ० ङीष्। कङ्कती तत्रार्थे विश्वामरौ। स्वार्थे कन्। कङ्कतिका तत्र कङ्कतं तद्संस्कारः प्रयोजनमस्य छ। कङ्कतीय केशप्रसाधनपरे ऋषिभेदे “तद्धैतच्छाण्डिल्यः कद्धतीयेभ्योऽहरहः कर्म्म प्रदिश्य प्रवव्राज” शत० ब्रा० ८, ४, ४, १३। गृहस्थे च तस्यैव केशसंस्कारप्रयोजनत्वात्

कङ्कत्रोटि = पु० कङ्कस्य त्रोटिरिव चञ्चुरस्य। १ मत्स्यभेदे(कांकला) बा० अच् समा०। कङ्कत्रोटोऽप्यत्र। स्त्रियां जातित्वात् ङीष्

कङ्कपत्र = पु० कङ्कस्य पत्रं पत्रं पक्षोऽस्य। पुङ्खे तत्पक्षयुक्ते १ शरे “हयांश्चरजतप्रख्यान् कङ्कपत्रैः शिलाशितैः” भा० वि० १८ “छित्त्वा च तानाशुगैश्च कङ्कपत्रान् शिलाशितान्” भा० आश्व० ७८ अ०। ६ त०। २ कङ्कखगस्य पक्षे च। कङ्कस्य पत्रं यत्र। ३ तत्पक्षयुक्ते “नखप्रभारूषितकङ्कपत्र सक्ताङ्गुलिः सायकपुङ्खएव” रघुः। तदस्त्यस्यैनि। कङ्कपत्रिन् कङ्कपत्रयुक्ते वाणे पु० “विव्याध दशभिर्वाणैस्त्वरितः कङ्कपत्रिभिः” भा० व० ५७ अ०। “पुनरेवाहनत् पार्थं हृदये कङ्कपत्रिभिः” भा० वि० ५९।

कङ्कपर्व्वन् = पु० कङ्कः कङ्कमुखमिव पर्व्वास्य। सर्पभेदे। तिरश्चिराजेरसितात् पृदाकोः परि संभृतम्। तङ्ग कङ्कपर्व्वणो विषमियं वीरुदनीनशत्” अथ० ७, ५६, १,

कङ्कपुरी = स्त्री कं सुखं तेन कायति प्रकाशते कै–क कर्म्म०। कासीपुर्य्यां तस्यां वसतां हि सुखबाहुल्यात् तथात्वम्। “असिं ह्युपस्पृश्य पुनःपुनः स (असस्त्यः) प्रासादमालाः परितोविलोकयन्। उवाच नेत्रे! स चले! प्रपश्यतं कासीं युवां कङ्कपुरी त्वियं वत” काशी० ३ अ०।

कङ्कमाला = स्त्री ककि–चापले घञ् कङ्कं चापल्यं करचाञ्चल्यं मलते धारयति मल–धृतौ अण् उप० स०।। करतालीवाद्ये शब्दर० तत्र हि करचाषल्यात् तथात्वम्।

कङ्कमुख = पु० कङ्कस्य मुखमिव मुखमस्य। (सांडाशि) १ संदंशे सुश्रुतोक्ते २ शल्योद्धारखार्थे यन्त्रभेदे न०। “तत्र नानाप्रकाराणां व्यालानां मृगपक्षिणां मुखैर्मुखानि यन्त्राणां प्रायशः सदृशानि तानि” इत्युक्त्वा “तत्र स्वस्तिकयन्त्राण्यष्टादशाङ्गुलप्रमाणानि सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपि मार्ज्जारश्कगालमृगैर्वारुककाककङ्ककुररचासभासशशदान्यूहोलूकचिल्लिश्येनगृध्रक्रौञ्चभृङ्गराजाञ्जलिकर्ण्णावभञ्जननन्दिमुखमुखानि मसूराकृतिभिः कीलैरवबद्धानि मूलेऽङ्कुशवदावृत्तवराङ्गाण्यस्थिविनष्टशल्योद्धरणार्थमुपदिश्यन्वे” इति तल्लक्षणमुक्तम्। अस्य प्रशंसाऽपि तत्रैव। “निवर्त्तते दाध्ववगाहने च शल्यं प्रगृह्योद्धरते च यस्मात्। यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थामेषु सर्व्वेष्वविकारि चैव”।

कङ्कर = त्रि० कं सुखं किरति क्षिपति कॄ–अच्। कुत्सिते हेमच०। कंजलं धार्य्यतेऽत्र कम् + कॄ-आधारे अप्। २ तक्रे न०।

कङ्करोल = पु० कङ्क इव लोलः लस्य रः। अङ्कोठवृक्षे (आ~को- ड) वङ्गभाषा (टेरा) हिन्दिभाषा।

कङ्कलोड्य = न० कङ्क इव लोड्यते लोड–ण्यत्। चिञ्चोडमूले राजवल्लभः।

कङ्कवाज = प्र० कङ्कस्य वाज एववाजः पक्षोऽस्य। कङ्कपत्रे वाणभेदे कङ्कपक्षोऽप्यत्र। कङ्कस्य वाजः जातोऽस्य तार० इतच्। कङ्कवाजित कङ्कपक्षयुक्ते सायके। “अताडयदमेयात्मा नवभिः कङ्कवाजितैः” भा० भी० ११७ अ०।

कङ्कशत्रु = पु० ६ त०। पृश्निपर्ण्ण्याम् शब्दच०। तस्याः कङ्कनाशकत्वात्तथात्वम्

कङ्कशाय = पु० कङ्क इव शेते शी–ण। कुक्कुरे शब्दमाला

कङ्का = स्त्री ककि–अच् १ गोशीर्षचन्दने शब्दमाला २ उग्रसेनदुहितृभेदे च कंसशब्दे उदा०।

कङ्काल = पु० कं सुखं शिरो वा कालयति क्षिपति कल-अच्। त्वङ्मांसरहितशरीरारम्भकेऽस्थिसञ्चये अस्थिपञ्जरे।

कङ्कालमालिन् = यु० कङ्कालानां मालास्त्यस्य इनि। महादेवे

कङ्कालय = पु० कङ्कालं याति या–क। देहे।

कङ्कु = पु० ककि–उन्। (काङ्नी) तृणधान्यभेदे द्विरूपकोषः। उग्रसेनस्य पुत्रभेदे कंसभ्रातरि। “कंसः सुनामा न्यग्रोधः कङ्कुःशङ्कुः सुहुस्तथा। राष्ट्रपालश्च सृष्टिश्च तुष्टिमानुग्रसेनजाः” भाग० ९, २४, १४।

कङ्कु(ङ्गु)ष्ठ = न० कङ्कुः तृणभेदः तत्र तत्समीपे तिष्ठति स्था–क षत्वम्। पर्व्वतीयमृत्तिकाभेदे। “हिमवत्पादशिखरे कङ्कु(ङ्गु)ष्ठंनाम जायते। तत्रैकं नलिकाख्यंस्यात्तदन्यद्रेणुकं स्मृतम्। पीतप्रभं गुरु स्निग्धं तत्र श्रेष्ठं च रेणुकम्। कङ्कु(ङ्गु)ष्ठं रेचनं तिक्तं कटूष्णं वर्ण्णकारकम्। कृमिशोथोदराध्मानगुल्मानाहकफापहम्” भावप्र० अत्रपृषो० कस्य गः कङ्गुष्ठमपि।

कङ्कूष = पु० ककि–ऊषन्। आभ्यन्तरदेहे। “कर्ण्णाभ्यां ते कङ्कूषेभ्यः कर्ण्णशूलं विशल्यम्। सर्वं शीर्षण्यं ते रोगं बहिर्मन्त्रयामहे” अथ० ९, ८, २।

कङ्केरु = पु० ककि–एरु। काकभेदे त्रिका०।

कङ्केलि = पु० कम् सुखं तदर्थं केलिरत्र। अशोकवृक्षे राजनि०

कङ्केल्ल = पु० ककि–बा–एल्ल। वास्तूके शब्दमाला।

कङ्केल्लि = पु० कङ्क–बा० एलि पृषो०। अशोकवृक्षे त्रिका०।

कङ्ख = न० कम् खलत्यनेन खल–बा० ड। पापभोगे शब्दमा०।

कङ्गु = स्त्री कं सुखमङ्गति मृगय्वा० कु शकन्ध्वा०। (काङ्गिनी) धान्यभेदे “सा च चतुर्विधा तासां गुणाः भावप्र० उक्ताः। “स्त्रियां कङ्कुः प्रियङ्गुर्द्वे कृष्णरक्तसितास्तथा। पीता, चतुर्विधा कङ्गुस्तासां पीता वरा स्मृता। कङ्गुस्तु भग्नसन्धान वातकृद्वृंहणी गुरुः। सूक्ष्मश्लेष्महरातीव वाजिनां गुणकृद् भृशम्”। अप्राणिजातिवाचित्वात् वा ऊङ्। “आर्य्यास्तु यवशब्दाद्दोर्घशूकविशेषं प्रतियन्ति श्लेच्छास्तु कङ्गुम्” अधिकरणमा० स्वार्थे कन् तत्रैव। “कङ्गुका त्रिफला लोध्रं काशीशं श्रवणाह्वया” सुश्रु०। इयञ्च ग्राम्य ओषधिः। “तिलमाषव्रीहियावाः प्रियङ्गवो गोधूभाश्चेति सप्त ग्राम्या ओषधयः” इति तैत्तिरीयसंहिताभाष्यधृता श्रुतिः प्रियङ्गुः कङ्गुः। अष्टादशधान्यमध्ये च अस्याग्रहणम् अष्टादशधान्यशब्दे ५२५ पृ० तत्प्रमाणम्।

कङ्गुनी = स्त्री कङ्ग्वा कङ्गुशब्देन नीयते ज्ञायते नी–बा० कर्मणि ड गौरा० ङीष्। (काङ्गनी) धान्यभेदे राजनि०।

कङ्गुनीपत्रा = स्त्री कङ्गुन्याः पत्रमिव पत्रमस्याः। पण्यान्धाख्ये तृणभेदे राजनि०।

कङ्गुल = पु० कङ्गुं लाति गृह्णात्यनेन ला–बा० घञ्र्थे करणे क ६ त०। १ पाणौ हस्ते शब्दच०।

कच = रवे भ्वा० पर० अक० सेट्। कचति अकचीत् अकाचीत् चकाच। प्रनिकचति।

कच = बन्धे सक० दीप्तौ अक० भ्वादि० पर० इदित् सेट्। कञ्चति अकञ्चीत् कचञ्च।

कच = बन्धे सक० दीप्तौ अक० भ्वादि० आत्म० सेट्। कचते अकचिष्ट चकचे कचः। “चचाम मधु माध्वीकं त्वक्त्रञ्चाचकचे वरम्” भट्टिः। कादित्वान्न णत्व प्रनिकचति।

कच = पु० कच–अच्। १ केशे, २ वृहस्पतिपुत्रे, ३ शुष् कव्रणे, ४ मेघे शब्दमा० हस्तिन्यां स्त्री० मेदिनी। भावे घ। ५ बन्धे ६ शोभायाञ्च। कचार्षचरितञ्च भा०आ० ७६, ७७ अ० यथा “जिगीषया ततो देवा वव्रिरेऽङ्गिरसं मुनिम्। पौरोहित्येन याज्यार्थे काव्यन्तूशनसं परे। ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्द्धिनौ भृशम्। तत्र देवा निजघ्नुर्यान् दानवान् युधि सङ्गतान्। तान् पुनर्जीवयामास काव्यो विद्याबलाश्रयात्। ततस्ते पुनरुत्याय योधयाञ्चक्रिरे सुरान्। असुरास्तु निजघ्नुर्यान् सुरान् समरमूर्द्धानि। न तान् संजीवयामास वृहस्पतिरुदारधीः। नहि वेद स तां विद्यां यां काव्यो वेत्ति वीर्य्यवान्। सञ्जीवनीं ततो देवा विषादमगमन् परम्। ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा। ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं वृहस्पतेः। भजमानान्मजस्वास्मान् कुरु नः साह्यमुत्तमम्। या सा विद्या निवसति ब्राह्मणेऽमिततेजसि। शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि। वृषपर्व्वसमीपे हि शक्योद्रष्टुं त्वया द्विजः। रक्षते दानवांस्तत्र न स रक्षत्यदानवान्। तमारा- धयितुं शक्तो भवान् पूर्व्ववयाः कविम्। देवयानीञ्च दयितां सुतां तस्य महात्मनः त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते। शीलदाक्षिण्यमाधुर्य्यैराचारेण दमेन च। देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम्। तथेत्युक्त्वा ततः प्रायाद्वृहस्पतिसुतः कचः। तदाभिपूजितो देवैः समीपं वृषपर्व्वणः। स गत्वा त्वरितो राजन्! देवैः सम्प्रेषितः कचः। असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह। ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षात् वृहस्पतेः। नाम्ना कचमिति ख्यातं शिष्यं गृह्णातु मां भवान्। ब्रह्मचर्य्यं चरिष्यामि त्वय्यहं परमं गुरौ। अनुमन्यस्व मां ब्रह्मन्! सहस्रं परिवत्सरान्। शुक्र उवाच। कच! सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः। अर्च्चयिष्येऽहमर्च्च्यं त्वामर्च्चितोऽस्तु वृहस्पतिः। वैशम्पायन उवाच कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम्। आदिष्टं कविपुत्त्रेण शुक्रेणोशनसा स्वयम्। व्रतस्य प्राप्तकालं स यथोक्तं प्रत्यगृह्णत। आराधयन्नुपाध्यायं देवयानीञ्च भारत!। नित्यमाराधयिष्यंस्तां युवायौवनगोचरे। गायन् नृत्यन् वादयंश्च देवयानीमतोषयत्। स शील यन् देवयानीं कन्यां सम्प्राप्तयौवनाम्। पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत!। देवयान्यपि तं विप्रं नियमव्रतधारिणम्। गायन्ती च ललन्ती च रहः पर्य्यचरत्तदा। पञ्चवर्षशतान्येवं कचस्य चरतो व्रतम्। तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम्। गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः। जघ्नुर्व्वृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च। हत्वा शालावृकेभ्यश्च प्रायच्छल्लवशः कृतम्। ततो गावो निवृत्तास्ता अगोपाः स्वन्निवेशनम्। ता दृष्ट्वा रहिता गाश्च कचेनाभ्यागता वनात्। उवाच वचनं काले देवयान्यथ भारत!। देवयान्युवाच। आहुतञ्चाग्निहोत्रन्ते सूर्य्यश्चास्तङ्गतः प्रभो!। अगोपाश्चागता गावः कचस्तात! न दृश्यते। व्यक्तं हतो मृतो वापि कचस्तात भविष्यति। तं विना न च जोवेयमिति सत्यं ब्रवीमि ते। शुक्र उवाच। अयमेहीति संशब्द्य मृतं संजीवयाम्यहम्। ततः सञ्जीवनीं विद्यां प्रयुज्य कचमाह्वयत्। आहूतः प्रादुरभवत् कचो हृष्टोऽथ विद्यया। हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया। स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया। वनं ययौ कचो विप्रोददृशुर्द्दानवाश्च तम्। पुनस्तं पेषयित्वा तु समुद्राम्भस्यमिश्रयन्। चिरं गत पुनः कन्या पित्रे तं सन्न्य- वेदयत्। विप्रेण पुनराहूतो विद्यया गुरुदेहजः। पुनरावृत्य तद्वृत्तं न्यवेदयत तद्यथा। ततस्तृतीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः। प्रायच्छन् व्राह्मणायैव सुरायाम सुरास्तदा। देवयान्यथ भूयोऽपि पितरं वाक्यमव्रवीत्। पुष्पाहारः प्रेषणकृत् कचस्तात! न दृश्यते। शुक्र उवाच। वृहस्पतेः सुतः पुत्त्रि! कचः प्रेतगतिं गतः। विद्यया जीवितीऽप्येवं हन्यते करवाणि किम्। भैवं शुचो मा रूदो देवयानि! न त्वादृशी मर्त्यमनु प्रशोचेत्। यस्यास्तव ब्रह्म च ब्राह्मणाश्च सेन्द्रा देवा वसवोऽथाश्विनौ च। सुरद्विषश्चैव जगच्च सर्व्वमुपस्थाने सन्नमन्ति प्रभावात्। अशक्योऽसौ जीवयितुं द्विजातिः सञ्जीवितो बध्यते चैवभूयः। देवयान्युवाच। यस्याङ्गिरा वृद्धतमः पितामहो वृहस्पतिश्चापि पिता तपोनिधिः। ऋषेश्च पौत्त्रं तम थापि पुत्रं कथं न शोचेयमहं न रुद्याम्। स ब्रह्मचारी च तपोधनश्च सदोत्थितः कर्म्मसु चैव दक्षः। कचस्य मार्गंप्रतिपत्स्येन भोक्ष्ये प्रियो हि मे तात! कचोऽभरूपः। वैशम्पायन उबाच। स पीडितो देवयान्या महर्षिः ममाह्वयत् संरम्भाच्चैव काव्यः। असंशयं मामसुरा द्विषन्ति ये मे शिष्यानागतान् सूदयन्ति। अब्राह्मणं कर्त्तुमिच्छन्ति रौद्रास्ते मां यथा प्रस्तुतं दानवैर्हि। अप्यस्य पापस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम्। गुरोर्मीतो विद्यया चोपहूतः शनैर्वाचं जठरे व्याजहार। तमव्रवीत् केन पथोपनीतो ममोदरे तिष्ठसि ब्रूहि विप्र। कच उवाच। भवत्प्रसादान्न जहाति मां स्मृतिः स्मरामि सर्व्वं यच्च यथा च वृत्तम्। न त्वेवं स्यात्तपसः सङ्क्षयो मे क्लेशं ततो घोरमिमं सहामि। असुरैः सुरायां भवतोऽस्मिदत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य!। ब्राह्मींमायामासुरी चैव माया त्वयि स्थिते कथमेवातिवर्त्तेत्। शुक्र उवाच। किन्ते प्रियं करवाण्यद्य वत्से! वधेन मे जीवित स्यात् कचस्य। नान्यत्र कुक्षेर्म्मम भेदनेन दृश्येत् कचो मद्गतो देवयानि!। देवयान्युवाच। द्वौ मां शोकावग्नितुल्यौ दहेतां कचस्य नाशस्तव चैवोपघातः। कचस्य नाशे मम नस्ति शर्म्म तवोपघाते जीवितुं नास्मि शक्ता। शुक्र उवाच। संसिद्धरूपोऽसि वृहस्पतेः सुत यत्वां भक्तं भजते देवयानी। विद्यामिमां प्राप्नुहि जीवनीं त्वं नचेदिन्द्रः कचरूपी त्वमद्य। न निवर्त्तेत् पुनर्ज्जीवन् कश्चिदन्यो ममोदरात्। ब्राह्मणं वर्ज्जयित्वैकं तस्माद्विद्यामवाप्नुहि। पुत्रो भूत्वाभावय भाबितो मामस्मद्देहादुपनिष्क्रम्य तात!। समी- क्षेथा धर्म्मवतीमवेक्षां गुरोः सकाशात् प्राप्य विद्यां सविद्यः। वैशम्पायन उवाच। गुरोः सकाशात् समबाप्य विद्यां भित्त्वा कुक्षिं निर्व्विचक्राम विप्रः। कचोऽभिरूपस्तत्क्षणं व्राह्मणस्य शुक्लात्यये पौर्णमास्यामिवेन्दुः। दृष्ट्वा च तं पतितं व्रह्मराशिमुत्थापयामास मृतं कचोऽपि। विद्यां सिद्धां तामवाप्याभिवाद्य कचस्ततस्तं गुरुमित्युवाच। यः श्रोत्रयोरमृतं स निषिञ्चेद्यो मे नविद्यस्य यथा ममायम्। तं मन्येऽहं पितरं मातरञ्च तस्मै न द्रुह्येत् कृतमस्य जानन्। ऋतस्य दातारमनुत्तमस्य निधिं निधीनां चतुरन्वयानाम्। ये नाद्रियन्ते गुरुमर्च्चनीयं पापाल्लो~कांस्ते व्रजन्त्यप्रतिष्ठाः। वैशम्पायन उवाच। सुरापाणाद्वञ्चनां प्राप्य विद्वान् संज्ञावाशं चैव महातिघोरम्। दृष्ट्वा कचञ्चापि तथाभिरूपं पीतं तथा सुरया मोहितेन। समन्युरुत्थाय महानुभावस्तदोशना विप्रहितं चिकीर्षुः। काव्यः स्वयं वाक्यमिदं जगाद सुरापाणं प्रति वै जातशङ्कः। यो ब्राह्मणोऽद्यप्रभृतीह कश्चिन्मोहात् सुरां पास्यति मन्दवुद्धिः। अपेतधर्म्मो ब्रह्महा चैव स स्यादस्मिल्लो~के गर्हितः स्यात् परे च। मया चेमां विप्रधर्म्मोक्तिसीमां मर्य्यादां वै स्थापितां सर्व्वलीके। सन्तो विप्राः शुश्रुवांसो गुरूणां देवा लोकाश्चोपशृण्वन्तु सर्व्वे। इतीदमुक्त्वा स महानुभावस्तपोनिधीनां निधिरप्रमेयः। तान् दानवान् दैवविमूढबुद्धीनिदं समाहूय वचोऽभ्युवाच। आचक्षे घो, दानवा वालिशाः स्थ सिद्धः कचो वत्स्यति मत्सकाशे। सञ्जीवनीं प्राप्य बिद्यां महार्थां तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः। वैशम्पायन उवाच। एतावदुक्त्वा वचनं विरराम स भार्गवः। दानवा विस्मयाविष्टाः प्रययुः स्वं निवेशनम्। गुरोरुष्य सकाशे तु दशवर्षशतानि सः। अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम्।

वैशम्पायन उवाच। समावृत्तव्रतं तन्तु विसृष्टं गुरुणा तदा। प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम्। ऋषेरङ्गिरसः पौत्त्र! वृत्तेनाभिजनेन च। भ्राजसे विद्यया चैव तपसा च दमेन च। ऋषिर्यथाङ्गिरा मान्यः पितुर्म्मम महायशाः। तथा मान्यश्च पूज्यश्च मम भूयो वृहस्पतिः। एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन!। व्रतस्थे नियमोपेते यथा वर्त्ताम्यहं त्वयि। स समावृत्तविद्यो मां भक्तां भजितुमर्हसि। गृहाण विधिवत् पाणिं मम मन्त्रपुरस्कृतम्। कच उवाच। पूज्यो मा- न्यश्च भगवान् था तब पिता मम। तथा त्वमनवद्याङ्गि! पूजनीयतरा मस। प्राणेभ्योऽपि प्रियतरा भार्गवस्य महात्मनः। त्वं भद्रे। धर्म्मतः पूज्या गुरुपुत्त्री सदा मम। यथा मम गुरुर्न्नित्यं मान्यःशुकः पिता तव। देवयानि! तथैव त्वं नैवं मां वक्तुमर्हसि। देवयान्युवाच। गुरुपुत्त्रस्य पुत्त्रो वै ननु त्वमपि मे पितुः। तस्मात् पूज्यश्च मान्यश्च ममापि त्वं द्विजोत्तम। असुरैर्हन्यमाने च कच! त्वयि पुनः पुनः। तदा प्रभृति या प्रीतिस्तां त्वमद्य स्मरस्व मे। सौहार्द्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम्। न मामर्हसि धर्मज्ञ। त्यक्तुं भक्तामनागसम्। कच उवाच। अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते!। प्रसीद सुभ्रु! त्वं मह्यं गुरोर्गुरुतरा शुभे!। यत्रोषितं विशालाक्षि! त्वया चन्द्रनिभानने!। तत्राहमुषितो भद्रे! कुक्षौ काव्यस्य भाविनि!। भगिनी धर्मतो मे त्वं मैवं वोचः सुमध्यमे!। सुखमस्म्युषितो भद्रे न मन्युर्व्विद्यते मम। आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि। अविरोधेन धर्मस्य स्मर्त्तव्योऽस्मि कथान्तरे। अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम। देवयान्युवाच। यदि मां धर्मकामार्थे प्रत्याख्यास्यसि याचितः। ततः कच! न ते विद्या सिद्धिमेषा गमिष्यति। कच उवाच। गुरुपुत्त्रीति कृत्वाहं प्रत्याचक्षे न दोषतः। गुरुणा चाननुज्ञातः काममेवं शपस्व माम्। आर्षं धर्मं व्रुवाणोऽहं देवयानि! यथा त्वया। शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः। तस्माद्भवत्या यः कामो न तथा स भविष्यति। ऋषिपुत्त्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति। फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा। अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति। वैशम्पायन उवाच। एवमुक्त्वा द्विजश्रेष्ठो देवयार्नी कचस्तदा। त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः”।

कचग्रह = पु० कचानां ग्रहोयत्र। केशाकर्षणेन धर्षणे “शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः” “अञ्जसोत रुरुधुः कचग्रहैः” रघुः।

कचङ्गन = न० कच–दीप्तौ अच् कर्म्म० शकन्ध्वा०। करशून्य हदृस्थाने त्रिका०।

कचङ्गल = पु० कच–बा० अङ्गलच्। समुद्रे त्रिका०।

कचप = न० कच–कपन्। शाकपत्रे उज्ज्वलदत्तः।

कचपक्ष = पु० कचानां समूहः कच + पक्ष। केशसमूहे अमरः एवं केशपक्षादयोऽप्यत्र।

कचपाश = पु० कचानां समूहः कच + पाशप्। केशसमूहे अमर एवं केशपाशादयोऽप्यत्र। “केशपाशे मनाथे” विक्र० “तं केशपाशं प्रसमीक्ष्य कुर्य्युः” कुना०।

कचमाल = पु० कचं कचकान्तिं मलते मल–धृतौ अण्। उप० स०। धूमे हारा०।

कचरिपुफला = स्त्रो कचस्थ रिपुः फलमस्याः। शठोवृक्षे राजनि०।

कचहस्त = पु० कचानां समूहः कव + हस्त। केशसमूहे अमरः केचहस्तादयोऽप्यत्र।

कचाकचि = अव्य० कचेषु कचेषु गृहोत्वा प्रवृत्तं युद्धम् कर्म्मव्यतीहारे स० इच् समा० पूर्व्वदीर्घश्च। केशेषु केशेषु ग्रहणपूर्ब्बके प्रवृत्ते युद्धे एवं केशाकेशिप्रभृतयोऽप्यत्र अव्य०।

कचाकु = त्रि० कच इव अकति वक्रं गच्छति अक–उण्। १ दुःशीले तस्य हि वक्रगतित्वात्तथात्वम् २ सर्पे पु० ३ दुराधर्षे त्रि० मेदि०। तयोः कुटिलगतित्वात् तथात्वम्।

कचाग्र = न० ६ त०। १ केशाग्रभागे २ तत्परिमिते त्रसरेण्वष्टकभागे च। बालाग्रादयोऽप्यत्र “बालाग्रशतभागस्य शतधा कल्पितस्य च भागोजीवः स विज्ञेयः” श्रुतिः।

कचाचित = त्रि० कचैरालुलायितैः आचितः। विकीर्ण्णकेशे “कचाचितौ विष्वगिवागजौ गजौ” किरा०।

कचाटुर = पुंस्त्री कच इवाटति अट + उरच्। दात्यूहे स्त्रियां ङीप्।

कचामोद = पु० कचमामोदयति आ + मुद–णिच्–अच्। (वाला) इति ख्याते गन्धद्रव्ये।

कचिक = त्रि० कच + चतुरर्थ्यां कुमुदा० ठक्। केशादूरभवदेशादौ।

कचु = स्त्री कच–उन्। स्वनामख्यात कन्दभेदे “कदली दाढिमी धान्यं हरिद्रा मानकं कचुः। विल्वोऽशोको जयन्ती च विज्ञेया नवपत्रिकाः” दुर्गो० त०। कचुस्था कालिका।

कचेल = न० कच्यते बध्यतेऽनेन कच–वा० एलच्। लेख्यपत्र बन्धने सूत्रादौ त्रिका०।

कच्चट = न० कुत्सितं चटति चट–अच् बा० कोः कत्। कुत्सिते मेदिन्यमरौ।

कच्चर = त्रि० कुत्सितं चरति चर–अच् कोः कद्। कुत्सिते मेदिन्यमरौ।

कच्चित् = अव्य० काम्यते कम–विच्–कन् चीयते निश्चीयते यस्मांत् कम् + चि–क्विप् पृषो० मस्य दः। स्वाभिलषितज्ञापनाय कृते कामप्रवेदनरूपे १ प्रश्रे, २ हर्षे, ३ मङ्गले च। कच्चिन्महर्षेस्त्रिविधं तपस्तत्” “कच्चिदुपप्लवोवः” इति च रघुः।

कच्चिदध्याय = पु० भारतान्तर्गते नारदेन कृतप्रश्नेन भङ्ग्या राजनीतिज्ञापके ग्रन्थभेदे स च भा० सभा० ५ अ० “नारद उवाच। कच्चिदर्थाश्च कल्पन्ते धर्म्मे च रमते मना। सुखानि चानुभुथन्ते मनश्च न विहन्यते। कच्चि- दाचरितां पूर्ब्बैर्नरदेव! पितामहैः। वर्त्तसे वृत्तिमक्षुद्रां धर्म्मार्थसहितां त्रिषु। कच्चिदर्थेन वा धर्म्मं धर्म्मेणार्थमथापि वा। उभौ वा प्रीतिसारेण न कामेन प्रबाधसे। कच्चिदर्थञ्च धर्म्मञ्च कामञ्च जयतां वर!। विभज्य काले कालज्ञ! समं वरद! सेवसे। कच्चिद्राजगुणैः षड्डिः सप्तोपायांस्तथानघ!। बलाबलेन सम्यक् त्वं चतुर्द्दश परीक्षसे। कच्चिदात्मानमन्वीक्ष्य परा~श्च जयतां वर!। तथा सन्धाय कर्म्माणि अष्टौ भारत! सेवसे। कच्चित् प्रकृतयः सप्त न लुप्ता भरतर्षभ!। आढ्यास्तथा व्यसनिनः स्वनुरक्ताश्च सर्व्वशः। कच्चिन्न कृतकैर्दूतैर्ये चाप्यपरिशङ्किताः। त्वत्तो वा तव चामात्यैर्भिद्यते मन्त्रित तथा। मित्रोदासीनशत्रूणां कच्चिद्वेत्सि चिकीर्षितम। कच्चित् सन्धिं यथाकालं विग्रहं चोपसेवसे। कच्चिद्वृत्तिमुदासीने मध्यमे चानुमन्यसे। कच्चिदात्मसमा वृद्धाः शुद्धाः सम्बोधनक्षमाः। कुलीनाश्चानुरक्ताश्च कृतास्ते वीर! मन्त्रिणः। विज्यो मन्त्रमूलो हि राज्ञो भवति भारत!। कच्चित् संवृतमन्त्रैस्ते अमात्यैः शास्त्रकोविदैः। राष्ट्रं सुरक्षितं तात! शत्रुभिनेविलुप्यते। कच्चिन्निद्रावशं नैषि कच्चित् कालेऽपि बुध्यसे। कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित्। कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुमिः सह। कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रं परिधावति। कच्चिदर्थान् विनिश्चित्य लघुमूलान् महोदयान्। क्षिप्रमारभसे कर्त्तुं न विघ्नयसि तादृशान्। कच्चिन्न सर्व्वेकर्म्मान्ताः परोक्षास्ते विशङ्किताः। सर्व्वे वा पुनरुत्सृष्टाः संसृष्टं चात्र कारणम्। आप्तैरलुब्धैः क्रमिकैस्ते च कच्चिदनुष्ठिताः। कच्चिद्राजन्! कृतान्येव कृतप्रायाणि वा पुनः। विदुस्ते वीर! कर्म्माणि नानवाप्तानि कानि चित्। कच्चित् कारुणिका धर्म्म सर्व्वशास्त्रेषु कोविदाः। कारयन्ति कुमाराश्च योधमुख्याश्च सर्वशः। कच्चित् सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम्। पण्डितो ह्यर्थकृच्छ्रेषु कुर्य्यान्निःश्रेयसं परम्। कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः। यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरैः। एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः। राजानं राजपुत्त्रं वा प्रापयेन्महतीं श्रियम्। कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च। त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः। कच्चिद्द्वषामविदितः प्रतिपन्नश्च सर्वदा। नित्योद्युक्तो रिपून् सर्वान् वीक्षसे रिपुसूदन!। कच्चिद्विनयसम्पन्नः कुलपुत्त्रो वहुश्रुतः। अनसूयुरसङ्कीर्णः सत्कृतस्ते पुरोहितः। कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः। हुतञ्च होष्यमाणञ्च काले वेदयते सदा। कच्चिदङ्गेषु निष्णातो ज्यौतिषः प्रतिपादकः। उत्पातेषु हि सर्वेषुं दैवज्ञः कुशलस्तव। कच्चिन्मुख्या महत्खेव मध्यमेषु च मध्यमाः। जघन्याश्च जधन्येषु भृत्याः कर्म्मसु योजिताः। अमात्यानुपधातीतान् पितृपैतामहान् शुचीन्। श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्म्मसु। कच्चिन्नोग्रेण दण्डेन भृशमुद्विजसे प्रजाः। राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ!। कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा। उग्रं प्रतिग्रहीतारं कामयानमिव स्त्रियः। कच्चिददुष्टः शूरश्च मतिमान् धृतिमान् शुचिः। कुतीनश्चानुरक्तश्च दक्षः सेनापतिस्तव। कच्चिद्बलस्य ते मुख्याः सर्वयुरविश्यरदाः। धृष्टावदाता विक्रान्तास्त्वया सत्कृत्य मानिताः। कच्चिद्बलस्य भक्तञ्च वेतनञ्च यथोचितम्। संप्राप्तकाले दातव्यं ददासि न विकर्षसि। कालातिक्रमणादेते भक्तवेतनयोर्भृताः। भक्तैः कुर्वन्ति दौर्गत्यात् सोऽनर्थः सुमहान् स्मृतः। कच्चित् सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः। हृष्टाः पाणांस्तवार्थेषु संत्यजन्ति सदा युधि। कच्चिन्नैको वहूनर्थान् सर्वशः साम्पारायिकान्। अनुशास्ति यथाकामं कामात्मा शासनातिगः। कच्चित् पुरुषकारेण पुरुषः कर्म्म शोभयन्। लभते मानमधिकं भूयो वा भक्तवेतनम्। कच्चिद्विद्याविनीतांश्च नरान् ज्ञानविशारदान्। यथार्हं गुणतश्चैव दानेनाभ्युपपद्यसे। कच्चिद्दारान् मनुष्याणां तवार्थे मृत्युमीयुषाम्। व्यसनं चाप्युपेतानां बिभर्षि भरतर्षभ!। कच्चिद्भयादुपगां क्षीणं वा रिपुमागतम्। युद्ध्वा वा बिजितं पार्थ। पुत्रवत् परिरक्षसि। कच्चित्त्वमेवं सर्वस्याः पृथिव्याः पृथिवीपते!। समश्चानभिशङ्कश्च यथा माता यथा पिता। कच्चिद्व्यमनिनं शत्रुं निशम्य भरतर्षभ!। अभियासि जवेनैव समीक्ष्य त्रिविधं बलम्। यात्रामारभसे दिष्ट्या प्राप्तकालमरिन्दम!। पार्ष्णिमूलञ्च विज्ञाय व्यवसायं पराजयम्। बलस्य च महाराज! दत्त्वा वेतनमग्रतः। कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परन्तप!। उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः। कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः। परान् जिगीषसे पार्थ! प्रमत्तानजितेन्द्रियान्। कच्चित्ते यास्यतः शत्रून् पूर्वं यान्ति स्वनुष्ठिताः। साम दानञ्च भेदश्च दण्डश्च विधिवद्गुणाः। कच्चिन्मूलं दृढं कृत्वा परान् यासि विशाम्पतेः। तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि। कच्चिदष्टाङ्गसंयुक्ता चतुर्व्विधबला चमूः। बलमुख्यैः सुनीता ते द्विषतां प्रतियाधिनी। कच्चिल्लवञ्च मुष्टिञ्च परराष्ट्रे परन्तप!। अविहाय महाराज! निहंसि समरे रिपून्। कच्चित् स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव। अर्थान् समधितिष्ठन्ति रक्षन्ति च परस्परम्। कच्चिदभ्यवहार्य्याणि गात्रसंघर्षणानि च। घ्रेयाणि च महाराज! रक्षन्त्यनुमतास्तव। कच्चित् कोषश्च कोष्ठञ्च वाहनं द्वार मायुधम्। आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः। कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशाम्पते!। रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान्। कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च। प्रतिजानन्ति पूर्व्वाह्णे व्ययं व्यसनजं तव। कच्चिदायस्य चार्द्धेन चतुर्भागेण वा पुनः। पादभागैस्त्रिभिर्व्वापि व्ययः संशोध्यते तव। कच्चिज्ज्ञातीन् गुरून् वृद्धान्बणिजः शिल्पिनः श्रितान्। अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान्। कच्चिच्चायव्यये युक्ताः सर्व्वेगनाकलेखकाः। अनुतिष्ठन्ति पूर्व्वाह्णे नित्यमायव्ययं तव। कच्चिदर्थेष्वसंमूढान् हितकामाननुप्रियान्। नापकर्षसि कर्म्मभ्यः पूर्व्वमप्राप्य किल्वषम्। कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान्। त्वं कर्म्मस्वनुरूपेषु नियोजयसि भारत!। कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशाम्पते!। अप्राप्तव्यवहारा वा तव कर्मस्वनिष्ठिताः। कच्चिन्न चौरैर्लुब्धैर्वा कुमारैः स्त्रीवशेन वा। त्वया वा यीड्यते राष्ट्रं कच्चित्तुष्टाः कृषीवलाः। कच्चिद्राष्ट्रे तडागानि पूर्णानि च वृहन्ति च। भागशी विनिविष्टानि न कृषिर्देवमातृका। कच्चिन्न वीजं भक्तञ्च कर्षकस्यावसीदति। पादकञ्च शतं वृद्ध्या ददास्स्यृणमनुग्रहम्। कच्चित् स्वनुष्ठिता तात! वार्त्ता ते साधुभिर्ज्जनैः। वार्त्तायां संश्रितस्तात लोकोऽयं सुखमेधते। कच्चिच्छूराः कृतप्रज्ञाः पञ्च पञ्च स्वनुष्ठिताः। क्षेमं कुर्व्वन्ति संहत्य राजन्! जनपदे तव। कच्चिन्नगरगुप्त्तर्थं ग्रामा नगरबत् कृताः। ग्रामवच्च कृताः प्रान्तास्त च सर्वे त्वदर्पणाः। कच्चिद्बलेनानुगताः समानि विषमाणि च। पुराणि चौरा निघ्नन्तश्चरन्ति विषये न ते। कच्चित् स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः। कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भामसे। कच्चिदात्ययिकं श्रुत्वा तदर्थमनुचिन्त्य च। प्रियाण्यनुभवन् शेषे न त्वमन्तःपुरे नृप!। काच्चत् द्वौ प्रथमौ यामौ रात्रेः सुप्त्वा विशाम्पते!। सचिन्तयसि धर्म्मार्थौ याम उत्थाय पश्चिमे। कच्चिद्दर्शयसे नित्यं मनुष्यान् समलङ्कृतः। उत्थाय काले कालज्ञैः सह पाण्डव! मन्त्रिभिः। कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलङ्कृताः। उपासते त्वामभितो रक्षणार्थमरिन्दम!। कच्चिद्दण्ड्येषु यमवत् पूज्येषु च विशाम्पते!। परीक्ष्य वर्त्तसे सम्यगप्रियेषु प्रियेषु च। कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा। मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि। कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः। सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा। कच्चिन्नु लोभान्मोहाद्वा मानाद्वापि विशम्पते!। अर्थिप्रत्यर्थिनः प्राप्तान्न पश्यसि कथञ्चन। कच्चिन्न लोभान्मोहाद्वा विश्रम्भात् प्रणयेन वा। आश्रितानां मनुष्याणां घृत्तिं त्वं संरुणत्सि वै। कच्चित् पौरा न सहिता ये च ते राष्ट्रवासिनः। त्वया सह विरुध्यन्ते परैः क्रीताः कथञ्चन। कच्चिन्न दुर्बलः शत्रुर्बलेन परिपोडितः। मन्त्रेण बलवान् कच्चिदुभाभ्याञ्च कथञ्चन। कच्चित् सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः। कच्चित् प्राणांस्त्वदर्थेषु संत्यजन्ति त्वयादृताः। कच्चित्ते सर्वविद्यासु गुणतोऽर्च्चा प्रवर्त्तते। ब्राह्मणानाञ्च साधूनां तव नैःश्रेयसी शुभा। कच्चिद्धर्मे त्रयीमूले पूर्ब्बैराचरिते जनैः। यतमानस्तथा कर्त्तुं तस्मिन् कर्मणि वर्त्तसे। कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः। गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम्। कच्चित् क्रतूनेकचित्तो वाजपेयांश्च सर्वशः। पुण्डरीकांश्च कार्त्स्न्येन यतसे कर्त्तुसात्मवान्। क्वच्चिज्ज्ञातीग् गुरून् वृद्धान् देवतास्तापसानपि। चैत्यांश्च वृक्षान् कल्याणान् ब्राह्मणांश्च नमस्यसि। कच्चिच्छोको नु मन्युर्व्वा त्वया प्रोत्साद्यतेऽनघ!। अपि मङ्गलहस्तश्च जनः पार्श्वेऽनुतिष्ठति। कच्चिदेषा च ते युद्धिर्व्वुत्तिरेषा च तेऽनघ। आयुष्या च यशस्या च धर्म्मकामार्थदर्शिनी। एतया वर्त्तमानस्य बुद्ध्वा राष्ट्रं न सीदति। विजित्य च महीं राजा सोऽत्यन्तं सुखमेधते। कच्चिदार्य्यो विशुद्धात्मा क्षारितश्चौरकर्म्मणि। अदृष्टशास्त्रकुशलैर्न लोभानुध्यसे शुचिः। दृष्टो गृहीतस्तत्कारी तज्ज्ञैर्दृष्टः सकारणः। कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ!। उत्पन्नान् कच्चिदाढ्यस्य दरिद्रस्य च भारत। अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः। नास्तिक्यमनृतं क्रोधं प्रमादं दीर्थसूत्रताम्। अदर्शनं ज्ञानवतामालस्यङ्क्षिप्तचित्तताम्। एकचिन्तनमर्थानामनर्थ ज्ञैश्च चिन्तनम। निश्चितानामनारम्भं मन्त्रस्यापरिरक्ष- णम्। अमङ्गल्यप्रयोगञ्च प्रसङ्गं विषयेषु च। कच्चित्त्वं वर्ज्जयस्येतान्राजदोषांश्चतुर्द्दश। प्रायशो यैर्विनश्यन्ति कृतमूला हि पार्थिवाः। कच्चित्ते सफला वेदाः कच्चित्ते सफलं धनम्। कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम्। युधिष्ठिर उवाच। कयं वै सफला वेदाः कथं वै सफलं धनम्। कथं वै सफला दाराः कथं वै सफलं श्रुतम्। नारद उवाच। अग्निहोफला वेदा दत्तभुक्तफलं धनम्। रतिपुत्त्रफला दाराः शीलवृत्तफलं श्रुतम्। वैशम्पायन उवाच। एतदाख्याय स मुनिर्नारदो वै महातपाः। पप्रच्छानन्तरमिदं धर्म्मात्मानं युधिष्ठिरम्। नारद उवाच। कच्चिदभ्यागता दूराद्बणिजो लाभकारणात्। यथोक्तमवहार्य्यन्तं शुल्कं शुल्कोपजीविभिः। कच्चित्ते पुरुषा राजन् पुरे राष्ट्रे च मानिताः। उपानयन्ति पण्यानि उपधाभिरवञ्चिताः। कच्चिच्छृणोषि वृद्धानां धर्म्मार्थसहिता गिरः। नित्यमर्थविदां तात! तथा धर्मार्थदर्शिनाम्। कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च। धर्मार्थञ्च द्विजातिभ्यो दीयेते मधुसर्पिषी। द्रव्योपकरणं किञ्चित् सर्वदा सर्वशिल्पिनाम्। चातुर्मास्यावरं स म्यक् नियतं संप्रयच्छसि। कच्चित् कृतं विजानीषे कर्त्तारञ्च प्रशंससि। सतां मध्ये महाराज! सत्करोषि च पूजयन्। कच्चित् सूत्राणि सर्व्वाणि गृह्णासि भरतर्षभ!। हस्तिसूत्राश्वसूत्राणि रथसूत्राणि वा विभो। कच्चिदभ्यस्यते सम्यग्गृहे ते भरतर्षभ!। धनुर्व्वेदस्य सूत्रं वै यन्त्रसूत्रञ्च नागरम्। कच्चिदस्त्राणि सर्व्वाणि ब्रह्मदःण्डश्च तेऽनघ। विषयोगास्तथा सर्व्वे विदिताः शत्रुनाशनाः। कच्चिदग्निभयाच्चैव सर्व्वं व्यालभयात्तथा। रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षसि। कच्चिदन्धांश्च मूकांश्च पङ्गून् व्यङ्गानबान्धवान्। पितेव पासि धर्म्मज्ञ! तथा प्रव्रजितानपि। षडनर्था महाराज! कचिचत्ते पृष्ठतः कृताः। निद्रालस्यं भयं क्रोधो मार्द्दवं दीर्घसूत्रता। वैशम्पायन उवाच। एताः कुरूणामृषभो महात्मा श्रुत्वा गिरो ब्राह्मणसत्तमस्य। प्रणम्य पादावभिवाद्य तुष्टो राजाब्रवीन्नारदं देवरूप्रम्। युधिष्ठिर उवाच। एवं करिष्यामि यथा त्वयोक्तं प्रज्ञा हि मे भूय एवाभिवृद्धा। उक्त्वा तथा चैव चकार राजा लेभे महीं सागरमेखलाञ्च”।

कच्छ = त्रि० केन जलेन छृणाति दीप्यते छाद्यते वा छृ–छदबा० ड। १ जलप्राये देशे। “खच्छन्द्रोच्छलदच्छ- कच्छकुहरच्छातेतराम्बुच्छटा” काव्यप्र० “चमूचरैः कच्छभुवां प्रदेशः” माघः। २ तटे ३ नौकाङ्गे च पु० ४ परिधानाञ्चले, स्त्री (काछा) हेम० ५ वाराह्याम्, ६ चीरिकायाञ्च (झिल्लि) स्त्री मेदि० ७ देशभेदे पु० स च देशः वृह० सं० कूर्म्मबिभागे दक्षिणस्यां दिशि उक्तः “अथ दक्षिणेन लङ्केत्युपक्रम्य” कच्छोऽथ कुञ्जरदरी सताम्रपर्ण्णीति विज्ञेयाः” तत्सीमा च “गणेश्वरात् पूर्ब्बभागे समुद्रस्योत्तरे तटे। कच्छदैशः समाख्यातः” शक्तिसङ्गम० त० उक्ता। ८ तुन्नवृक्षे पु० (तु~द) हेम०। ९ मुखसम्पुटे १० आकाशाच्छादने ११ कूर्म्मकर्परे च निरु० कच्छपशब्दे विवृतिः कक्षाशब्दे उदा०।

कच्छक = पु० कच्छ + संज्ञायां कन्। तुन्नवृक्षे (तु~द) मेदिनिः

कच्छटिका = स्त्री कच्छः कच्छप्रदेशमटति अट–अच् शक० संज्ञायां कन् अत इत्त्वम्। १ कच्छायाम् (काछा) २ वस्त्राञ्चले” शब्दार्थर०।

कच्छप = पुंस्त्री “कच्छमात्मनो मुखसंपृटं पाति सहि किञ्चिद्दृष्ट्वा शरीर एव सुखसमुटं प्रवेशयति संपुटे हि कच्छशब्दः प्रसिद्धः प्राणिवाच्यकच्छपुट इति। कच्छेन कटाहेन (कर्परेण) इतराङ्गाणि पाति वा। अथ वा कच्छेन मुखसम्पुटेन पिबतीति कच्छः खमाकाशं छादयतिः कच्छः। खच्छः खच्छदः अयमपीतरो नदीकच्छ एतदीयमुदकं तेन च्छाद्यते” इति च निरुक्तोक्तेः कच्छं पाति कच्छेन पाति वा कच्छेन पिबतीति वा पा–ड। १ कूर्म्मे स्त्रियां जातित्वात् ङीष् सा च २ वीणाभेदे ३ कच्छपस्त्रियाञ्च। ४ क्षुद्ररोगभेदे स्त्री ५ कुवेरनिधिभेदे ६ मल्लबन्धभेदे च पु० मेदि०। कच्छपीरोगश्च भाव० प्रका० दर्शितः “ग्रथिताः पञ्च वा षड्वा दारुणाः कच्छपोन्नताः। कफानिलाभ्यां पिडकाः सा स्मृता कच्छपी बुधैः” कच्छपोन्नता मध्ये प्रोस्नता प्रान्ते नता। इयञ्च प्रमेहरेगोपेक्षायां दशविधपिड कान्तर्गता। निधिभेदः एकादिशब्दे नवसंख्यायां दर्शितस्तत्र द्रष्टव्यः। स्वार्थेकन् कच्छपिकाऽपि रोगभेदे। “सदाहा कर्म्मसंस्थाना ज्ञेया कच्छपिका बुधैः” वैद्यकम्। कच्छपमांसगुणाः भावप्र० उक्ताः “कच्छपो बलदो वातपित्तनुत् पुंस्त्वकारका”। अयञ्च भक्ष्यपञ्चनखान्तर्गतः “शशकः शल्लकी गोधा खड्गी कूर्म्मश्च पञ्चमः। भक्ष्याः पञ्चनखेष्वेते” इति मनुक्तेः “पञ्च पञ्चनखान् भुञ्जीतेति” श्रुतिः। अत्र परिसंख्यैतदतिरिक्तपञ्चनखानां भोजननिवृतिफलकत्वादित्याकरे स्पष्टम्। समुद्रमन्वनकाले एत- न्मूर्त्त्या मन्दरधारणार्थं भगवानवततार यथाह भाग० १, ३ अ० भगवतश्चतुविंशत्यवतारकथने। “सुरासुरणामुदधिं मघ्नतां मन्दराचलम्। दध्रे कमठरूपेण पृष्ठ एकादशे विभुः १७ श्लो०। “मथ्यमानेऽर्णवे सोऽद्रिरनाधारोह्यपोऽविशत्। ध्रियमाणोऽपि बलिभिर्गौरवात् पाण्डुनन्दन!। ते सुनिर्विण्णमनसः परिम्लानमुस्वश्रियः। आसन् स्वपौरुषे नष्टे दैवेनातिबलीयसा। विलोक्य विध्नेन विधिं तदेश्वरोदुरन्तवीर्य्योऽवितथाभिसन्धिः। कृत्वावपुः कच्छपमद्भुतं महत् प्रविश्य तोयं गिरिमुज्जहार। समुत्थितं वीक्ष्यकुलाचलं पुनः समुद्यता निर्म्मथने सुरासुराः। दधार पृष्ठेन स लक्षयोजनप्रस्तारिणा द्वीप इवापरो महान्। सुरासुरेन्द्रैर्भुजवीर्य्यवेपितं परिभ्रमन्तं गिरिमङ्ग पृष्ठतः। बिभ्रत्तदावर्त्तनमादिकच्छपोमेनेऽङ्गकण्डूयनमप्रमेयः” भाग० ८, ७, ७ विश्वामित्रसुते मुनिभेदे कतशब्दे प्रमाणम्।

कच्छरुहा = स्त्री कच्छे जलप्राये रोहति रुह–क। दूर्व्वायाम् जटाधरः तस्या जलप्रायदेशभवत्वात्तथात्वम्।

कच्छादि = पु० पाणिन्युक्ते जाताद्यर्ते अण्प्रत्ययनिमित्ते शब्दगणे स च गणः “कच्छ सिन्धु वर्णु गन्धार मधुमत् कम्बोज कश्मीर शल्व कुरु अनुषण्ड द्वीप अनूप अजवाह निषध कलूतर रङ्कु, एते च देशविशेषवाचकाः नत्र जातादि अण् काच्छ इत्यादि।

कच्छु(च्छू) = स्त्री कष–हिंसायां “कषच्छश्चेति” उणा० ऊ छश्च पृषो० वा ह्रस्वः। “सूक्ष्मा बाह्याः पिडकाः स्राववत्थः पामेत्युक्ताः कण्डुमत्यः सदाहाः। सैव स्फोटैस्तीव्रदाहैरुपेता ज्ञेया पाण्योःकच्छूरुग्रा स्किचोश्च” उक्ते रोगभेदे (खोस)।

कच्छुघ्नी = स्त्री कच्छुं हन्ति हन–टक् ङीप् ह्रस्वश्च। हपुषाभेदे पटोले राजनि०

कच्छुर = त्रि० कच्छूरस्त्यस्य र “कच्छ्वा ह्रस्वाश्च” पा० ह्रस्वः। रविधौ दीर्घाप्रयोगार्थं ह्रस्वविधिः १ कच्छूरोगयुते २ व्यभिचारयुते पुरुषे च पु० ३ पामरे त्रि० मेदि०।

कच्छुरा = स्त्री कच्छुः साध्यत्वेनास्त्यस्याम् ह्रस्वश्च। १ शूकशिम्ब्याम् २ शट्याम् ३ दुरालभायाञ्च मेदि० ४ ग्राहिणीदृक्षे (क्षीरुइ) रत्नमाला०। ५ पुंश्चल्यां स्यियाञ्च।

कच्छुराक्षस = न० “दन्ती निम्बदलञ्चैभिः पृथक्कर्षमितैर्भिषक्। कल्कीकृतैः पचेत्तैलं कटुप्रस्थद्वयोन्मितैः। अर्कसीहुण्डदुग्धेन पृथक्पलमितेन च। गोमूत्रस्याढकेनापि शनैर्मृद्वग्निना पचेत्। अभ्यङ्गेन हरेदेतत् कच्छुदुःसाध्यतामपि पामानञ्च तथा कण्डूं त्वम्याधिबधिरानयान्। कच्छुराक्षसनामेदं तैलं हारीतभाषितम्” इति भावप्रकाशोक्ते तैलभेदे।

कच्छुमती = स्त्री कच्छुः साधनत्वेनास्त्यस्याः सतुप् ङीप्। शूकशिम्ब्याम् तत्सेवनेहि कच्छूरोगजननात् तथात्वम्

कच्छोटिका = स्त्री कच्छस्य उटस्तृणादिकमिव इवार्थेकन्। चेलाञ्चले(काच्छा)हेमच०।

कच्छोर = पु० केन च्छुर्य्यते छर–लेपे कर्म्मणि घञ्। शट्याम् रत्नमाला।

कच्वी = स्त्री कचुवा० ङीप्। (कचु) प्रसिद्धेकन्दभेदे। “महिषाषुरयुद्धेषु कच्वीरूपासि सुव्रते!। मम वैरिविनाशाय पूजां गृह्ण प्रसीद मे “दुर्गार्चापद्धतिस्थतत्पूजामन्त्रः। “कच्वी तु भेदिका गुर्व्वी कटुका पिच्छिला तथा। आमवातपित्तकरी भिषग्भिः परिकीर्त्तिता” राजवल्लभः।

***