—औ—

= औकारः स्वरवर्ण्णभेदः कण्ठौष्ठस्थानयोरुच्चार्य्यः दीर्घः द्विमात्रत्वात्। प्लुतस्तु त्रिमात्रः। स च उदात्तानुदात्त स्वरितभेदात् त्रिविधोऽपि अनुनासिकाननुनासिकाभ्यां पुन र्द्वैविध्यात् षड्विधः एवं प्लुतोऽपि षड्विधः। तेन द्वादशविधः। तपरत्वे कारपरत्वे च स्वरूपमात्रपरः। तन्त्रेतस्य वाचकशब्दा वर्ण्णाभिधाने उक्ता यथा। “ओकारः शक्तिकोनादस्तैजसोवामजङ्घकः। मनुरूर्द्धग्रहेशश्च शङ्कुकर्ण्णः सदाशिवः। अधोदन्तश्च कण्ठौष्ठौ सङ्कर्षणः सरस्वती। आज्ञा चोर्द्धमुखी शान्ता व्यापिनी प्रकृतिःपरा। अनन्ता ज्वालिनी व्योमा चतुर्द्दशी रतिप्रियः। नेत्रमात्राकर्षिणी च ज्वालामालिनिका भृगुः”। तदधिष्ठातृदेवता च तत्रैवोक्ता। “औकारे डाकिनी सिंहनादिनी चण्डभेरवी” तस्य ध्येयरूपं कामधे० त० उक्तं यथा “रक्तविद्युल्लताकारमोकारं कुण्डलीं स्वयम्। अत्र ब्रह्मादयः सर्व्वे तिष्ठन्ति सततं प्रिये!। पञ्चप्राणमयं वर्ण्णं सदाशिवमयं सदा। सदा ईश्वरसंयुक्तं चतुर्व्वर्गप्रदायकम्”। मातृकान्यासेऽधोदन्तपङ्क्तौन्यस्यत्वात्तच्छब्दवाच्यताऽस्येति बोध्यम्।

= अव्य० आ + अव–क्विप् ऊठ्। १ आह्वाने २ संबोधने मेदि०। ३ विरोधे ४ निर्ण्णये” शब्दरत्ना०। ५ अनन्ते पु० एकाक्षरकोषः ६ निस्वने पु० मेदि०। ७ पृथिव्यां स्त्री मेदि० स च “चतुर्द्दशस्वरोयोऽसौ सेतुरौकारसंज्ञितः। सचानुस्वारनादाभ्यां शूद्राणां सेतुरुच्यते” तन्त्रसारधृत कालिकापु० उक्तेः शूद्राणां जप्यमन्त्रभेदः।

औक्थ = त्रि० उक्थ–गर्गा० अपत्येयञ् औक्थ्यः तस्य च्छात्रः कण्वादि० अण् यञोलुक्। औक्थ्यच्छात्रे

औक्थिक = त्रि० उक्थं सामावयवभेदं वेत्त्यधीते वा ठक्। १ उक्थाध्यायिनि २ तद्वेत्तरि च। तेषां धर्म्म आम्नायावा ततः ञ्य। औक्थ्य औट्थिकानां धर्म्मे तदाम्नाये च न०।

औक्ष = न० उक्ष्णां वृषाणां समूहः अण् टिलोपः। १ वृषसमूहे। वुञ्। औक्षक तत्स्मूहे न०। तस्येदमण् टिलोपः। २ वृषसम्बन्धिनि त्रि०। अपत्ये अणि तु औक्ष्ण इत्येव। वेदे क्वचित् इदमर्थेऽणि उपधातोलोपः। “तामौक्ष्णैश्चरुभिः पश्चात्” शत० ब्रा० १, २, ५, २।

औखीय = त्रि० उखेन प्रोक्तमधीयते छण्। उखप्रोक्त ब्राह्मणाध्यायिषु ब० व०।

औख्य = त्रि० उखायां संस्कृतं यत् ततः स्वार्थे ष्यञ्। १ स्थालीपक्वेऽन्नादौ। २ नगरीभेदे स्त्री। उख्यायां जातादि कर्त्त्र्यादि० ढकञ्। औख्येयक तत्रजातादौ त्रि०।

औघ = पु० वहति पुंसि संज्ञायां घ पृषो० ततः स्वार्थेऽण्। जलसंघाते “औघ इमाः सर्व्वाः प्रजा निर्वोढा” शत० ब्रा० १, ८, १, २, “वहतीत्यौघ उदकसंघातः” भा०।

औच(त)थ्य = पु० उतथ्यस्यापत्यम् अण् वेदे पृषो०। उतथ्यापत्ये दीर्घतमसि “उपस्तुतिरौचथ्यमरुष्येथाः” ऋ० १, १५ ८, ४, “औचथ्यमुतथ्यपुत्र दीर्घतमसम्” भा०। “दस्रा ह यद्रेक्ण औचथ्यः” ऋ० १, ५८, १, उतथ्यस्यैव नामान्तरमुचथ्येति तेन “उचथ्यानामाङ्गिरसौचथ्यगौतमेति” आश्व० श्रौ० १२, ११, १, उक्तम्। तस्य च गोत्रप्रवरर्षित्वम् उक्तवाक्यात्। लोके तु उतथ्यः औतथ्यैत्येव।

औचित्य = न० उचितस्य भावःष्यञ्। युक्तत्वे। “एता अपि यथौचित्यादुत्तमाधममध्यभाः” सा० द०। षित्त्वसामर्थ्यात् स्त्रीत्वमपि तत्र ङीष् यलोपश्च। औचिती तत्रार्थे। सामर्थ्यमौचिती देशः कालोव्यक्तिः स्वरादयः” सा० द० दृढा० इमनिच् उचितिमाप्यत्र पु०।

औजसिक = त्रि० ओजसा वर्त्तते ठक्। शूरे तेजस्विनि

औजस्य = न० ओजस् + स्वार्थेष्यञ्। ओजसि। “दौर्गत्याद्यै रनौजस्यं दैन्यं मलिनतादिकृत्” सा० द०।

औज्जयनक = त्रि० उज्जयिन्यां जातादि धूमा० वुञ्। उज्जयिनोनगरजातादौ।

औज्जिहानि = पुंस्त्री उज्जिहानस्यापत्यमत इञ्। उज्जिनापत्ये ततः इञन्तत्वात् यूनि फक् पैलादि० तस्य लुक्। तदीययुवापत्येऽपि।

औड = त्रि० उन्द–क नलोपः नि० दस्य ड स्वार्थेऽण्। आर्द्रे ततः नडा० फक्। औडायन आर्द्रस्य युवापत्ये तस्य विषयोदेशः ऐषुकार्य्या० भक्तल्। ओडायनभक्त तदीये विषये देशे

औडव = पु० ओडव + स्वार्थेऽण्। “औडवः पञ्चभिः प्रोक्तः स्वरैः षड्डिस्तु षाडवः। सम्पूर्ण्णा सप्तभिः प्रोक्ता राग जातिस्तिधा मता” सङ्गीतरत्ना० उक्ते रागभेदे। स च भल्लारादिः इति संगीतदामोदरः।

औडवि = त्रि० ओडवं रागविशेवमनुशीलयति इञ्। ओडव रागानुशीले। ततः स्वार्थेदामन्या० छ औडवीय। तदर्थे

औडुप = त्रि० उडुपेन निर्वृत्तादि सङ्कलादि० अण्। १ चन्द्रनिर्वृत्ते २ प्लवनिर्वृत्ते ३ तत्सन्निकृष्टदेशे च।

औडुपिक = त्रि० उडुपेन प्लवेन तरति ठक्। १ प्लवेन तारके उडुपेन हरति उत्सङ्गा० ठक्। २ प्लवेन हारके च त्रि०।

औडु(दु)म्बर = त्रि० उडु(दु)म्बरस्य विकारः रजतादि० अञ्। १ ताम्रविकारे पात्रादौ। “गृहीत्वौडु(दु)म्बरं पात्रम् स्मृतिः “सौवर्ण्णराजतौडुम्बरखाड्गमणिमयानां पात्राणाम्” गोभि०। २ यज्ञाङ्गवृक्षविकारे च। “पश्चात्पतिरवस्थाय युगमन्तमौडु(दु)म्बरं शलाटुग्रथ्न मा बध्नाति” गोभि०। स्त्रियां ङीप्। औडु(दु)म्बरीं स्पृष्ट्वा गायेत” श्रुतिः। “औडु(दु)म्बरीं शाखामुपगूहति” शत० ब्रा० ५, ४, ३, २५, ३ तपस्विविशेषे पु०। “वैखानसा बालिखिल्यौडुम्बराः फेनपावने। न्यासे कुटीचरः पूर्व्वम् बह्वोदो हंसनिष्क्रियौ” भाग० ३, १२, २७। “औडु(दु)म्बराः प्रातरुत्थाय यां दिशं प्रथमं पश्यन्ति तत आहृनफलादिभिः जीवन्तः” श्रीधरः। औडुम्बरं तत्फलं तस्येवाकारोऽस्त्यस्य अर्श० अच्। ४ महाकुष्ठभेदे। “तत्र महाकुष्ठान्यरुणौडुम्बरर्ष्य जिह्वकपालकाकणपुण्डरीकदद्रुकुष्ठानीति” विभज्य “पित्तेन पक्वौडुम्बरफलाकृतिवर्णान्यौडुम्बराणीति” तल्लक्ष्म सुश्रुते उक्तम्। स च रोगः ताम्रस्तेयकर्मविपाकः यथाह शाता० “औडु(दु)म्बरी ताम्रचौरो नरकान्ते प्रजायते”। ५ यमभेदे च “औडुम्बराय दध्नाय” यमतर्पणमन्त्रः।

औडुलोमि = पुंस्त्री उडुलोम्नोऽपत्यम् बाह्वा० इञ्। उडुलोम्नोऽपत्ये बहुषु अ। डलोमाः उडुलोमान्

औड्र = पु० ओड्रदेशानां राजा अण्। १ अड्रदेशनृपे ओड्र शब्दे विवृतिः २ तद्देशवासिनि च। बहुषु अणो लुक्।

औत्कण्ठ्य = न० उत्कण्ठैव चातुर्व० स्वार्थे ष्यञ्। उत्कण्ठायाम् “औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः” भाग० १, ६, १७। “औत्कण्ठ्याद्देवकीसुतः” १, १०४।

औत्कर्ष्य = न० उत्कर्ष + स्वार्थेष्यञ्। उत्कर्षे।

औत्क्षेप = पुंस्त्री उत्क्षेपस्य ऊर्द्ध्वक्षेपकस्यापत्यं शिवा० अण्। उत्क्षेपकस्यापत्ये स्त्रियां ङीप्।

औत्तम = त्रि० उत्तमेन निर्वृत्तादि सङ्कला० अण्। १ उत्तमेन निर्वृत्ते २ तत्सन्निकृष्टदेशादौ च।

औत्तमि = पु० उत्तमस्यापत्यम् इञ्। मनुभेदे उत्तमशब्दे उदा०। “स्वारोचिषश्चौत्तमिश्च तामसोरैवतस्तथा” मनुः तस्य पत्नो उत्तमी तस्या अपत्यम् ढक्। उत्तमपत्न्यपत्ये तत्पुत्राश्च “औत्तमेयान् महाराज! दश पुत्रान् निबोध तान्” हरिवं० ७ अ० उत्तमशब्दे ते च नामतोदर्शिताः।

औत्तर = त्रि० उत्तरत्यस्मात् उद् + तॄ–अपादानेऽप् ततः स्वार्थेऽण्। उत्तारके “इतरेषामुपदेशेन दुःखादिनिवारके ऋषौ। “यत्रौत्तराणां सर्वेषामृषीणाम् नाहुषस्य च” भा० व० १०, ५४६।

औत्तरपथिक = त्रि० उत्तरपथेन गच्छति तेना हृतं वा ठञ्। उत्तरपथेन अर्च्चिरादिमार्गेण १ गन्तरि उपासकभेदे २ तेनाहृते च।

औत्तरपदिक = त्रि० उत्तरपदं गृह्णाति ठक्। उत्तरपदग्राहके।

औत्तरवेदिक = त्रि० उत्तरवेद्यां भवः ठञ्। उत्तरवेद्यां भवे कर्मादौ “औत्तरवेदिकं कर्म कृत्वा” शत० ब्रा० ७, ३२, १७

औत्तराधर्य्य = न० उत्तरे च अधरे च तेषां भावः ष्यञ्। ऊर्द्ध्वनीचभावेन स्थितौ। “संघे चानौत्तराधर्य्ये” पा०

औत्तराह = त्रि० उत्तरस्मिन् कालादौ भवः “उत्तरादाहञ्” पा० उत्तर + आहञ्। उत्तरकालादौ भवे।

औत्तरेय = पु० उत्तराया अपत्यम् ढक्। अभिमन्युसुते विराट दुहितुरूत्तरायाः पुत्रे परिक्षिन्नृपे “औत्तरेयेण दत्तानि न्यवसत्तन्निदेशकृत्” भाग० १, १७, ४०। “अवधार्य्य मतिं कृष्ण औत्तरेयः सतीं व्यधात्” भाग० २, ४, २।

औत्तानपाद(दि) = पु० उत्तानपादे नृपे भवः अण्। उत्तानपादभवे ध्रुवे “ध्रुवस्योत्तानपादस्य ब्रह्मर्षीणां तथैव च” भा० अनु० ३ अ०। “उत्तानपाद! भगवांस्तव शार्ङ्गधन्वा” भाग० ४, १०, २५। अपत्ये तु इञ्। तत्रैव। “उत्तानपादिर्निर्गत्य ततः काननतो द्विज!” काशी०। तस्य यथा तपस्यया सर्वनक्षत्राधारतापदप्राप्तिस्तथा वर्णितम् भाग० ४ ८, ९, “जाये उत्तानपादस्य सुनीतिःसुरुचिस्तयोः। सुरुचिः प्रेयसी पत्युर्नेतरा यत्सुतोध्रुवः। एकदा सुरुचेः पुत्रमङ्कमारोप्य लालयन्। उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत। तथा चिकीर्षमाणं तं सपत्न्यास्तनयं ध्रुवम्। सुरुचिः शृण्वतोराज्ञः सेर्ष्यमाहातिगर्व्विता। न वत्स! नृपतेर्धिष्ण्यं भवानारोढुमर्हति। न गृहीतोमया यत्त्व कुक्षावपि नृपात्मज!। बालोऽसि तव नात्मानमन्यस्त्री गर्भसंवृतम्। नूनं वेद भवान् यस्य दुर्लभेऽर्थेमनोरथः। तपसाराध्य पुरुषं तस्यैबानुग्रहेण मे। गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम्। श्रीमैत्रेयौवाच। मातुः सपत्न्याः सुदुरुक्तिविद्धः श्वसन् रुषा दण्डहतो यथाऽहिः। हित्वा मिषन्तं पितरं सन्नवाचं जगाम मातुः स रुदन् सकाशम्। तं निःश्वसन्तं स्फुरिताधरौष्ठं सुनीतिरुत्सङ्गमुदूह्य बालम्। निशम्य तत्पौरमुखान्नितान्तं सा विव्यथेयद्गदितं सपत्न्या। सोत्सृज्य धैर्य्यं विललापशोकदावाग्निना दावलतेव बाला। वाक्यं सपत्न्याः स्मरती सरोजश्रिया दृशा बाष्पकलामुवाह। दीर्घं श्वसन्ती वृजिनस्य पारमपश्यती बालकमाह बाला। माऽमङ्गलं तात! परेषु मंस्था भुङ्क्तेजनोयत् परदुःखदस्तत्। सत्यं सुरु च्याभिहितं भवान्मेयद्दुर्भगाया उदरे गृहीतः। स्तन्येन वृद्धश्च विलज्जते यां भार्य्येति वा वोढुमिडस्पतिर्माम्। आतिष्ठ तत्तात! विमत्सरस्त्वमुक्तं समात्रापि यदव्यलीकम्। आराधयाधोक्षजपादपद्मं यदीच्छसेऽध्यासनमुत्तमी यथा। यस्याङ्घ्रिपद्मं परिचर्य्य विश्वविभावनायात्तगुणाभिपत्तेः। अजोऽध्यतिष्ठत् खलु पारमेष्ठ्यं पदं जितात्मश्वसनाभिवन्द्यम्। तथा मनुर्व्वो भगवान् पितामहो यमेकमत्या पुरुदक्षिणैर्म्मखैः। इष्ट्वाऽभिपेदे दुरवापमन्यतो भौमं सुखं दिव्यमथापवर्गम्। तमेव वत्साश्रय भृत्य वत्सलं मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम्। अनन्यभावे निजधर्म्मभाविते मनस्यवस्थाप्य भजस्व पूरुषम्। नान्यं ततः पद्मपलाशलोचनाद्दुःखच्छिदं ते मृगयामि कञ्चन। योमृग्यते हस्तगृहीतपद्मया श्रियेतरैरङ्ग! विमृग्य माणया। एवं संजल्पितं मातुराकर्ण्यार्थागमं वचः। संनियम्यात्मनात्मानं निश्चक्राम पितुः पुरात्। नारदस्तमुपाकर्ण्य ज्ञात्वा चास्य चिकीर्षितम्। स्पृष्ट्वा मूर्द्धन्यघघ्नेन पाणिनाप्राह विस्मितः। अहोतेजः क्षत्रियाणां मानभङ्गममृष्यताम्। बालोऽप्ययं हृदा धत्ते यत् समातुरसद्वचः। श्रीनारदौवाच। नाधुनाप्यवमानं ते सम्मानञ्चापि पुत्रक!। लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु। विकल्पे विद्यमानेऽपि नह्यसन्तोषहेतवः। पुंसो मोहमृते भिन्ना यल्लोके निजकर्म्मभिः। परितुष्येत्ततस्तात! तावन्मात्रेण पूरुषः। दैवीपसादितं यावद्वीक्ष्येश्वरगति बुधः। अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि। यत्प्रसादं स वै पुंसान्दुराराध्योमतोमम। मुनयः पदवीं यस्य निःसङ्गेनोरुजन्मभिः। न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना। अतोनिवर्त्ततामेध निबर्न्धस्तव निष्फलः। यतिष्यति मवान्काले श्रेयसां समुपस्थिते। यस्य यद्दैवविहितं स तेन सुखदुःखयोः। आत्मानं तोषयन् देही तमसः पारमृच्छति। गुणाधिकान्मुदं लिप्सेदनुक्रोशं गुणाधमात्। मैत्रीं समानादन्विच्छेन्न तापैरभिमूयते। श्रीध्रुव उवाच। सोऽयं शमोभगवता सुखदुःखहतात्मनाम्। दर्शितः कृपया पुंसां दुर्द्दर्शोऽस्मद्विधैस्तु यः। अथापि मेऽविनीतस्य क्षात्रं घोरमुपेयुषः। सुरुच्या दुर्वचोवाणैर्न भिन्ने श्रयते हृदि। पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु वर्त्ममे। ब्रूह्यस्मत् पितृभिर्ब्रह्मन्नन्यैरप्यनधिष्ठितम्। नूनं भवान् भगवतोयोऽङ्गजः परमेष्ठिनः। विनुदन्नटते वीणां हिताय जगतोऽर्कवत्। मैत्रेय उवाच। इत्युदाहृतमाकर्ण्य भगवान्नारदस्तदा। प्रीतः प्रीत्याह तं बालं सद्वाक्यमनुकम्पया। श्रीनारद उवाच। जनन्याभिहितः पन्थाः सर्वनिःश्रेयसस्य ते। भगवान् वासुदेवस्त्वं भज तं प्रवणात्मना। धर्म्मार्थकाममोक्षाख्यं य इच्छेच्छ्रेय आत्मनः। एकं ह्येव हरेस्तत्र कारणं पादसेवनम्। तत्तात! गच्छ भद्रन्ते यमुनायास्तटं शुचि। पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः। स्नात्वानुसवनं तस्मिन् कालिन्द्याः सलिले शिवे। कृत्वोचितानि निवसन्नात्मनः कल्पितासनः। प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम्। शनैर्व्युदस्याभिध्यायेन्मनसा गुरुणा गुरुम्। प्रसादाभिमुखं शश्वत् प्रसन्नवदनेक्षणम्। सुनसं सुभ्रुवं चारुकपोलं सुरसुन्दरम्। तरुणं रमणीयाङ्गमरुणौष्ठेक्षणाधरम्। प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम्। श्रीवतसाङ्कं घनश्यामं पुरुषं वनमालिनम्। शङ्खचक्रगदापद्मैरमिव्यक्तचतुर्भुजम्। किरीटिनं कुण्डलिनं केयूरवलयान्वितम्। कौस्तुभाभरणग्रीवं पीतकौशेयवाससम्। काञ्चीकलापपर्य्यस्तंलसत्काञ्चननूपुरम्। दर्शनीयतमं शान्तं मनोनयनवर्द्धनम्। पद्भ्यां नखमणिश्रेण्याविलसद्भ्यां समर्च्चताम्। हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यवस्थितम्। स्मयमानमभिध्यायेत् सानुरागाबलोकनम्। नियतेनैकभूतेन मनसा वरदर्षभम्। एवं भगवतोरूपं सुभद्रं ध्यायतोमनः। निर्व्वृत्या परया तूर्णं सम्पन्नं न निवर्त्तते। जपश्च परमोगुह्यः श्रूयतां मे नृपात्मज!। यं सप्तरात्रंप्रपठन् पुमान् पश्यतिखेचरान्। ओं नमो भगवते वासुदेवाय। मन्त्रेणानेन देवस्य कुर्य्याद् द्रव्यमयीं बधः। सपर्य्यां विविधैर्द्रव्यैर्द्देशकालविभागवित्। सलिलैः शुचिभिर्म्माल्यैर्वन्यैर्मूलफलादिभिः। शस्ताङ्कुरांशुकैश्चार्च्चेत्तुलस्या प्रियया प्रभुम्। लब्ध्वा द्रव्यमयीमर्च्चां क्षित्यम्ब्वादिषु चार्च्चयेत्। आभूतात्मा मुनिः शान्तोयतवाङ्मितवन्यभुक्। स्वेच्छावतारचरितैरचितं निजमायया। करिष्यत्युत्तमश्लोकस्तं ध्यायेद् हृदयंगतम्। परिचर्य्या भगवतो यावतीः पूर्वसेविताः। ता मन्त्रहृदयेनैव प्रयुञ्ज्यान्मन्त्रमूर्त्तये। एवं कायेन मनसा वचसा च मनोगतम्। परिचर्य्यमाणो भगवान् भक्तिमत्परिचर्य्यया। पुंसाममायिनां सम्यग्भजतां भाववर्द्धनः। श्रेयोदिशत्यभिमतं यद्धर्म्मादिषु देहिनाम्। विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा। तं निरन्तरभावेन भजेताद्धा विमुक्तये। इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भकः। ययौ मधुवनं पुण्यं हरेश्चरणचर्च्चितम्। तपोवनं गते तस्मिन् प्रविष्टोऽन्तःपुरं मुनिः। अथार्हितार्हणोराज्ञा सुखासीन उवाच ह। श्रीनारदौवाच। राजन्! किं ध्यायसे दीर्घं मुखेन परिशुष्यता। किं वा न रिष्यते कामो धर्मोवार्थेन संयुतः। श्रीराजोवाच। सुतोमे बालकोब्रह्मंस्त्रैणेनाकरुणात्मना। निर्व्वासितः पञ्चवर्षः सह मात्रा महान् कविः। अप्य नाथं वने ब्रह्मन्मा खादन्त्यर्भकं वृकाः। श्रान्तं शयानं क्षुधितं परिम्लानमुखाम्बुजम्। अहो मे वत दौरात्म्यं स्त्रीजितस्योपधारय। योऽङ्कं प्रेम्णारुरुक्षन्तं नाभ्यनन्दमसत्तमः। श्रीनारदौवाच। मा मा शुचः स्वतनयं देवगुप्तं विशाम्पते!। तत्प्रभावमविज्ञाय प्रावृङ्क्ते यद्यशोजगत्। सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः। एव्यत्यचिरतोराजन्यशोविपुलयंस्तव। इति देवर्षिणा प्रोक्तं विश्रुत्य जगतां पतिः। राजलक्ष्मीमनादृत्य पुत्रमेवान्वचिन्तयत्”। “तत्राभिषिक्तः प्रयतस्तामुपोष्य विभावरीम्। समाहितः पर्य्यचरदृष्यादेशेन पुरुषम्। त्रिरात्रान्ते त्रिरात्रान्ते कपित्थवदराशनः। आत्मवृत्त्यनुसारेण मासं निन्येऽर्च्चयन्हरिम्। द्वितीयञ्च तथा मासं षष्ठेषष्ठेऽर्भकोदिने। तृणपर्णादिभिः शीर्णः कृतान्नोऽभ्यर्च्चयद्विभुम्। तृतीयञ्चानयन्मासं नवमे नवमेऽहनि। अब्भक्षौत्तमश्लोकमुपधावन् समाधिना। चतुर्थमपि वै मासं द्वादशे द्वादशेऽहनि। वायुभक्षोजितश्वासोध्यायन् देवमधारयत्! पञ्चमे मास्यनुप्राप्ते जितश्वासोनृपात्पजः। ध्यायन् ब्रह्मपदैकेन तस्थौ स्थाणुरिवाचलः। सर्व्वतोमनआकृष्य हृदि भूतेन्द्रियाशयम्। ध्यायन् भगवतोरूपं नाद्राक्षीत् किञ्चनापरम्। आधारं महदादीनां प्रधानं पुरुषेश्वरम्। ब्रह्म धारयमाणस्य त्रयोलोकाश्चकम्पिरे। यदैकपादेन सपार्थिवात्मजस्तस्थौ तदङ्गुष्ठनिपीडिता मही। ननाम तत्रार्द्धमिभेन्द्रधिष्ठिता तरीव सव्येतरतः पदेपदे। तस्मिन्नभिध्यायति विश्वमात्मनोद्वारं निरुध्यासुमनन्यया धिया। लोका निरुच्छासनिपोडिताभृशं सलोकपालाः शरणं ययु- र्हरिम्। श्रीदेवा ऊचुः। नैवंविदामोभगवन्! प्राणरोधंचराचरस्याखिलसत्वधाम्नः। विधेहि तन्नोवृजिनाद्विमोक्षं प्राप्ता वयं त्वां शरणं शरण्यम्। श्रीभगवानुवाच। मा भैष्ट बालं तपसोदुरत्ययान्निवर्त्तयिष्ये प्रतियात स्वधाम। यतोहि वः प्राणनिरोध आसीदौत्तानपादिर्म्मयि संगतात्मा। तएव मुत्सन्नमयाउरुक्रमे कृतावनामाः प्रययुस्त्रिपिष्टपम्। सहस्रशीर्षाऽपि ततोगरुत्मतामधोर्वनं भृत्यदिदृक्षयागतः। स र्व धिया योगविपाकतीव्रया हृत्पद्मकोशे स्फुरितं तडित् प्रभम्। तिरोहितं सहसैवोपलक्ष्य बहिः स्थितं तदवस्थं ददर्श। तद्दर्शनेनागतसाध्वसः क्षिताववन्दताङ्गं विनमय्य दण्डवत्। दृग्भ्यां प्रपश्यन् प्रपिबन्निवार्भकश्चुम्बन्निवास्येन भुजैरिवाश्लिषन्। स तं विवक्षन्तमतद्विदं हरिर्ज्ञात्वास्य सर्वस्य च हृद्यवस्थितः। कृताञ्जलिं ब्रह्ममयेन कम्बुना पस्पर्श बालं कृपया कपोले। स वै तदैव प्रतिपादितां गिरं दैबीं परिज्ञातपरात्मनिर्णयः। तं भक्तिभावोऽभ्यगृणादसत्वरं परिश्रुतोरुश्रवसं ध्रुवक्षिति”ः। ततोध्रुवेण स्तुतो भगवान् तस्मै यथा वरंदत्तवांस्तथा वर्णितं तत्रैव “अथाभिष्टुतएवं वै सत्सङ्कल्पेन धीमता। भृत्यानुरुक्तो भगवान् प्रतिनन्द्यैनमब्रवीत्। श्रीभगवानुवाच। वेदाहं ते व्यवसितं हृदि राजन्यबालक!। तत् प्रयच्छामि भद्रं ते दुष्प्रापमपि सुव्रत!। नान्यैरधिष्ठितं भद्र! यद्भ्राजिष्णु ध्रुवक्षिति। यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम्। मेध्यां गोचक्रवत् स्थास्नुपरस्तात् कल्प वासिनाम्। धर्मोऽग्निः कश्यपः शक्रो मुनयो ये वनौकसः। चरन्ति दक्षिणीकृत्य भ्रमन्तोयत् सतारकाः। प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्म्मसंश्रयः। षट्त्रिंशद्वर्षसाहस्रं रक्षिता व्याहृतेन्द्रियः। त्वद्भ्रातर्य्युत्तमे नष्टे मृगयायां तु तन्मनाः। अन्वेषती वनं माता दावाग्निं सा प्रवेक्ष्यति। इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः। भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि। ततोगन्तासि मत्स्थानं सर्वलोकनमस्कृतम्। उपरिष्टादृषिभ्यस्त्वं यतोनावर्त्तते यतिः”

नक्षत्ररूपतत्सन्निवेशविशेषस्तत्रैव ५ स्क० उक्तो यथा “अथ तस्मात् (शनिलोकात्) परतस्त्रयोदशलक्षयोजनान्तरतो यत्तद्विष्णोः परमं पदमभिवन्दन्ति यत्र महाभागवतो ध्रुव औत्तानपादिरग्निनेत्रेण प्रजापतिना कश्यपेन धर्म्मेण च समकालयुग्भिः सह बहुमान दक्षिणतः क्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्य महाननुभाव उपवर्णितः। स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीनां अनिमिषेणाव्यक्तरंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहितः शश्वदवभासते। यथा मेधीस्तम्भ आक्रमणपशवः संयोजितास्त्रिभिः सवनैर्यथा स्थानं मण्डलानि चरन्ति। एवं भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेण कालचक्र आयोजिता ध्रुवमेवालम्ब्य वायुनोदीर्य्यमाणा आकल्पान्तं परितः क्रामन्ति। नभसि यथा मेघाः श्येनादयो वायुवशाः कर्म्मसारथयः परिवर्त्तन्ते। एवं ज्योतिर्गणाः प्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मितगतयोभुवि न पतन्ति। केचिदेतत् ज्योतिरनीकं शिशुमारसंस्थानेन भगवतो वासुदेवस्य योगधारणायामनुवर्णयन्ति। यस्य पुच्छाग्रेऽवाक्शिरसः कुण्डलीभूतदेहस्य ध्रुव उपकल्पितः” ५, २३, १ स्क० अ०।

सि० शि० सर्वनक्षत्राद्याधारौ द्वौ ध्रुवौ अङ्गीकृतौ यथा “निरक्षदेशे क्षितिमण्डलोपगौ ध्रुवौ नरः पश्यति दक्षिणेतरौ। तदाश्रितं खे जलयन्त्रवत् तथा भ्रमद्भचक्रं निजमस्तकोपरि। उदग्दिशं याति यथा नरस्तथा तथा स्यान्नतमृक्षमण्डलम्। उदग्ध्रुवं पश्यति चोन्नतं क्षितेस्तदन्तरे योजनजाः पलांशकाः। योजनसंख्या भांशैर्गुणिता स्वपरिधिहृता भवन्त्यंशाः। भूमौ कक्षायां वा भागेभ्यो योजनानि च व्यस्तम्” शि०। “उदग्दिशं याति यथा यथा नर इत्यनेनापसारयोजनैरनुपातः सूचितः। यदि भूपरिधियोजनैच्चक्रांशा लभ्यन्ते तदापसारयोजनैः किमिति। फलमक्षांशाः। यदि चक्रांशमितपरिधिना भूपरिधिर्लभ्यते तदाक्षांशैः किमिति फलं निरक्षदेशस्वदेशयोरन्तरयोजनानि स्युः शेषं स्पष्टम्। एवं निरक्षदेशात् क्षितिचतुर्थांशे किल मेरुः। तत्र नवतिः ९० पलांशाः” पमि०। “सौम्यं ध्रुवं मेरुगताः खमध्ये याम्यं च दैत्या निजमस्त कोर्ध्वे। सव्यापसव्यं भ्रमदृक्षचक्रं विलोकयन्ति क्षितिजप्रसक्तम्” शि०।

औत्पत्तिक = उत्पत्त्या भावेन अवियुक्तः ठक्। १ नित्यसंबन्धे शब्दार्थयोः सम्बन्धस्य नित्यावियुक्तत्वात् औत्पत्तिकत्वम् जै सू० भाष्ययोर्दर्शितं यथा “औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धलस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत् प्रमाणं वादरायणस्यानपेक्षत्वात्”। सू० “औत्पत्तिक” इति नित्यं ब्रूमः, उत्पत्तिर्हि भाव उच्यते लक्षणया। अवियुक्तः शब्दार्थेयोर्भावैः सम्बन्धः नोत्पन्नयोः पश्चात् सम्बन्धः, औत्पत्तिकः शब्दस्यार्थेन सम्बन्धः, तस्य अग्निहोत्रादिलक्षणस्य धर्म्मस्य प्रत्यक्षादिभिरनवगतस्य ज्ञानं निमित्तम्। कथं?। उपदेशो हि भवति, “उपदेशः” इति विशिष्टस्य उच्चारणम्। अव्यतिरेकश्च ज्ञानस्य, न, हि तदुत्पन्नं ज्ञानं विपर्य्येति! यच्च नाम ज्ञानं न तत् शक्यते वक्तुं “न एतदेवम्” इति, यथा विज्ञायते, न तथा भवति, यथैतन्न विज्ञायते, तथैतदिति, अन्यदस्य हृदये, अन्यद्वाचि स्यात्, एवं वदतो विरुद्धमिदं गम्यते, अस्ति नास्ति वेति। तस्मात् तत् प्रमाणमनपेक्षत्वात्। न ह्येवंसति प्रत्ययान्तरमप्रेक्षितव्यं, पुरुषान्तरं वापि, अयंप्रत्ययोह्यसौ। वादरायणग्र हणंवादरायणस्येदं मतं कीर्त्त्यते वादरायणं पूजयितुं, नात्मीथं मतं पर्य्युदसितुम्। उत्पत्तिर्भावः १ स्वकालः तत्र भवः ठक्। २ स्वभावे स्वभावस्य यावद्द्रव्यभावित्वात् तथात्वम्। “मातुरनुग्रहादौत्पत्तिकेनैव संहननबलोपेताः पित्रा विभक्ताः” भा० ग० ५, २, २१, तन्निशम्याथ हर्म्यस्था औत्पत्तिकमनीषया भाग० ६, ५, १०।

औत्पात = त्रि० उत्पातस्य तज्ज्ञापकशास्त्रस्य व्याख्यानोग्रन्थः तत्रभवो वा ऋगयना० अण्। १ उत्पातावेदकग्रन्थव्याख्याने ग्रन्थे २ तत्रभवे च।

औत्पातिक = त्रि० उत्पाते दैवारिष्टे भवः ठक् १ दैवारिष्टभवे“औत्पातिकं मेघ इवाश्मवर्षम्” रघुः। “औत्पातिकं तदिह देव। विचिन्तनीयम्” उद्भटः। “औत्पातिके महाघोरे तथा दुःस्वप्नदर्शने” वटुकस्तवः उत्पाताय प्रभवति ठक्। उत्पातसम्पादनसमर्थे “प्रयाते तु ततःस्कन्दे बभूवौत्पातिकं महत्” भा० व० २३० अ०।

औत्पाद = त्रि० उत्पादं तदावेदकग्रन्थं वा वेत्त्यर्धाते वा तत्रभवो वा ऋगयना० अण्। १ भावानामुत्पादवेत्तरि २ तदावेदग्रन्थाध्येतरि ३ तत्रभवे च।

औत्पुट = त्रि० उत्पुटेन निर्वृत्तादि सङ्कला० चतुरर्थ्याम् अण्। उत्पुटेन उन्मुद्रेण १ निर्वृत्ते २ तत्सन्निकृष्टदेशादौ च।

औत्पुटिक = त्रि० उत्पुटेन हरति उत्सङ्गा० ठक्। उत्पुटेन हारके।

औत्पुतिक = त्रि० उत्पुतेन हरति उत्सङ्गा० ठकु। उत्पवनसंस्कारान्वितेन हारके।

औत्स = त्रि० उत्से भवः अञ्। प्रसवणभवे स्त्रियांङीप्।

औत्सङ्गिक = त्रि० उत्सङ्गेन हरति ठक्। क्रोडन हारके।

औत्सर्गिक = त्रि० उत्सर्गं सामान्यविधिमर्हति ष्ठञ्। सामान्यविधियोग्ये स्त्रियां ङीष्।

औत्सायन = पुंस्त्री उत्स ऋषिभेदस्तस्य गोत्रापव्यम् अश्वा० फञ्। उत्सर्षेर्गोत्रापत्ये।

औत्सुक्य = न० उत्सुकस्य भावः ष्यञ्। उत्कण्ठायाम्। “औत्सुक्येन कृतत्वरा सहभुवा व्यावर्त्तमाना ह्रिया” रत्नावली “तमाहितौत्सुक्यमदर्शनेन” रघुः। “रथचरणसमाह्वस्तावदौतसुक्यनुन्ना” माघः “इत्यौत्सुक्यादपरि गणयन् गुह्यकस्तं यथाचे” मेघ०। तच्च अलङ्कारोक्त व्यभिचारिभावभेदः सा० द० निर्वेदावेगेत्याद्युपक्रमे “औत्सुक्योन्मादशङ्का” इत्युक्त्वा “इष्टानवाप्तेरौत्सुक्यं कालक्षेपासहिष्णुता” लक्षितम्। २ इच्छामात्रे च। “औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्त्तते लोकः” सा० का०। “औत्सुक्यमिच्छा सा च इष्यनाणप्राप्तौ निवर्त्तते इष्यमाणश्च स्वार्थ इष्टलक्षणत्वात् फलस्य” त० कौ०। “मनोयस्येन्द्रियस्येह विषयान् याति सेवितुम्। तस्यौत्सुक्यं संभवति प्रवृत्तिश्चोपजायते” भा० व० ११४ श्लो०।

औदक = त्रि० उदकेन पूर्णं गृह्णाति उदकस्येदं वा अण्। १ उदकपूर्णकुम्भग्राहके “अपरेणाग्निमौदकोऽनुसंव्रज्य पाणिग्राहं मूर्द्ध्वदेशेऽवसिञ्चति” गोभिलः। “औदको गृहीतोदकुम्भः” सं० त० रघु०। २ उदकसम्बन्धिनि। “औदकेनैव विधिना निर्वपेत् दक्षिणामुखः” मनुः। उदके भवः अण्। ३ जलभवे च। “यानि चैवं प्रकाराणि स्थलजान्यौदकानि च” “स्थलजौदकशाकानि पुष्पमूलफलानि च” मनुः

औदकि = पुंस्त्री “उदङ्क उदक (संज्ञायाम्)” पा० ग० वाह्वा० अपत्ये इञ्। उदकनामर्षेरपत्ये ततः स्वार्थे दामन्या० छ। औदकीय तत्रार्थे। एवम् औदङ्कि औदङ्कीय इत्यपि उदङ्कापत्ये पुंस्त्री।

औदज्ञायनि = पुंस्त्री उदज्ञस्यर्षेरपत्यं तिका० फिञ्। उदज्ञस्यापत्ये।

औदञ्चन = त्रि० उदच्यते उत्क्षिप्य ध्रियतेऽस्मिन् उदञ्चनोजलाधारः मणिकस्तस्येदम् अण्। मणिकस्थिते जलादौ (जालारजल) “एनां (शफरीम्) तत आदाय न्यधादौदञ्चनोदके” भाग० ८, ३४, १५। “औदञ्चनोदके मणिकस्थजले” श्रीधरः उदञ्चनस्य सन्निकृष्टदेशादि अरीहणादि० वुञ्। औदञ्चनक मणिकस्य सन्निकृष्टदेशादुअ त्रि०।

औदञ्चवि = पुंस्त्री उदञ्चोरपत्यं बाह्वा० इञ्। उदञ्चुनामकर्षेरपत्ये।

औदञ्चि = पुंस्त्री उदञ्चापत्यम् इञ्। १ उदञ्चापत्ये ततः यूनि फिञ् पैला० तस्य लुक्। २ तदीययुवापत्येऽपि।

औदनिक = त्रि० ओदनाय प्रभवति संतापा० ठञु। ओदननिष्पादनाय समर्थे सूपकारे।

औदन्य = पु० उदन्यायुक्ते ऋषौ भवः अण्। पिपामायुक्त र्षिभवे मुण्डिभे ऋषौ। “एतां ह वै मुण्डिभ औदन्यः ब्रह्महत्यायै प्रायश्चित्तिं विदाञ्चकार” शत० ब्रा० २३, ३, ५, ६। तस्यापत्ये तु इञ्। औदन्यि इत्येव तत्रार्थे ततः युवप्रत्ययस्य फिञः पैला० लुक्। तदीययुवापत्ये च।

औदपान = त्रि० उदपानादागतः शुण्डिका० अण्। आयस्थानरूपोदपानादागते १ राजग्राह्यकरादौ। उदपाने भवः पलद्या० अण्। २ उदपाननामग्रामभवे करादौ त्रि०। उदपाने जलाधारस्थानभेदे भवः उत्सा० अञ्। ३ उदपानभवे त्रि०। स्त्रियां सर्वत्र ङीप्।

औदभृज्जि = पुंस्त्री उदभृज्जस्यापत्यम् इञ्। १ उद्भृज्जस्यापत्ये ततोयुवप्रत्ययस्य पैलादि० लुक्। २ तदीययुवापत्ये च। एवं औदमज्जि औदमेधि औदव्रजि औदशुद्धि इत्येतेऽपि शब्दाः तत्तदपत्ये तत्तद्युवापत्ये च।

औदमेधीय = त्रि० उदमेघेरिदम् रैवतिकादि० छ। औदमेधि सम्बन्धिनि।

औदमेयि = पुंस्त्री उदमेयस्यापत्यम् इञ्। उदमेयस्यापत्ये ततः मनुष्यजातित्वात् स्त्रियां ङीष्।

औदयिक = त्रि० उदये लग्नकाले भवः ठञ्। लग्नकालभवे स्त्रियां ङीप्।

औदरिक = त्रि० उदरे प्रसितः ठक्। आद्यूने, (पेयक) उदरमात्रपूरणापेक्षके। “ऐश्वर्य्यवन्तं रौद्रं च शूर चण्डमसूयकम्। एकाशिनमौदरिकमासुरं सत्वमीदृशम्” सुश्रुते तस्यासुरसत्वत्वमुक्तम्। अमरे विजिगीषाविवर्ज्जितस्य तथात्वमुक्तम्। विजिगीषा च विगानेच्छा सा च स्वोदरपूरणासक्ततया निन्देच्छा तस्याःत्याग एवास्य प्रवृत्तिः। “सर्व्वमेवौदरिकस्याभ्यवहार्य्याय कल्पते” नाट०

औदर्य्य = त्रि० उदरे भवः यत् उदर्य्यः ततःस्वार्थे अण्। १ उदरभवेऽनलादौ। २ अभ्यन्तरप्रविष्टे च। “स त्वयाराधितः शुक्लोवितन्वन् मामक यशः। छेत्ता ते हृदयग्रन्थिमौदर्य्यो ब्रह्मभावनः” भाग० ३, २४, ५।

औदल = त्रि० चिकितगालवकालववमनुतन्तुकुडिलानां वैश्वामित्रदेवरातौदलेति” आ० श्रौ० १२, १४, २, उक्ते चिकितादीनां षण्णां प्रवरर्षिभेदे।

औदवापि = पुंस्त्री उदवापस्यापत्यम् इञ्। उदबापापत्ये स्त्रियां ङीप्। तस्येदं रैवतिका० छ। औदवापीय तत् सम्बन्धिनि त्रि०।

औदवाहि = पु० उदवाहस्यापत्यम् इञ्। ऋग्वेदिनाम् प्राचीनावीतितया तर्पणीयर्षिभेदे। द्वादशर्षितर्पणानन्तरम्। “प्रार्चानीवीती” “सुमन्तुजैमिनिवैशम्पायनपैलसूत्रभाष्यभारतमहाभारतघर्म्भाचार्याजानन्तिबाहविगार्ग्यगौतमशाकल्यबाम्रव्यमाण्डव्यमाण्डुकेया गार्गी वाचक्नवी बडवा प्राचीथेयी सुलभा मैत्रेयी कहोलं कौषीतकं पैङ्ग्यं महापैङ्ग्यं सुयज्ञं साङ्ख्यायनमैतरेयं महैतरेयं शाकलं बाष्कलं सुजातवक्त्रमौदवाहिं महौदवाहिं सौजामिं शौनकमाश्वलायनं ये चान्ये आचार्य्यास्ते सर्वे तृप्यन्त्विति” आश्व० गृ० ३, ४, ४, “त्रयोविंशति वाक्याति तत्र कहोलादिषु अर्थात् तर्पयामीतिशब्दः कार्य्यः। सर्व्वत्र प्रतिवाक्यं तर्पणङ्कुर्य्यात् “एकमन्त्राणि कर्म्माणीति” न्यायात्” नारा०। “औदवाहेश्च शाण्डिल्याच्च शाण्डिल्यः” शत० ब्रा० १४, ७, ३, २६, वंशवर्ण्णने

औदश्वित = त्रि० उदश्विति तक्रभेदे संस्कृतः अण्। उदश्विद्रूपतक्रे संस्कृतभक्ष्वद्रव्ये। पक्षे ठक् उदश्वित्कोऽप्यत्र उदश्विदिव अङ्गुल्या० ठक्। औदश्वित्क तत्सदृशे त्रि०।

औदस्थान = त्रि० उदस्थानं शीलमस्य छत्रा० ण। १ उदस्थानशीले। उदस्थाने मवः उत्सा० अञ्। २ उदकस्थानभवे च।

औदार्य्य = न० उदारस्य भावः गुणवचनत्वात् ष्यञ्। उदारतायाम्। “औदार्य्यञ्च नायकयोरयत्नसिद्धसात्विकालङ्कारविशेषः। यथाह सा० द० “शोभा कान्तिश्च दीप्तिश्च माधुर्य्यञ्च प्रगल्भता। औदार्य्यं धैर्य्यमित्थेते सप्तैव स्युरयत्नजाः” इति विभज्य। “औदार्य्यं विनयः सदेति” लक्षितम्। सात्विकपुरुषगुणभेदश्च यथाह तत्रैव। “शोभा विलासो माधुर्य्यं गाम्भीर्य्यंधैर्य्यतेजसी। ललितौदार्य्यमित्यष्टौ सत्वजाः पौरुषागुणाः” इति विभज्य। “दानं सप्रियभाषणमौदार्य्यं शत्रुमित्रयोः समतेति” लक्षितम्। २ वाक्यस्यार्थसम्पत्तौ च। “ससौष्ठवौदार्य्य विशेषशालिनीं विनिश्चितार्थामिति वाचमाददे” किरा०। “औदार्य्यमर्थसम्पत्तिः” मल्लि०। तच्च वाग्गुणभेदः “संस्कारवत्त्वमोदीर्य्यमित्यादिना” हेमच० वाग्गुणदर्शने उक्तेः।

औदासीन्य = न० उदासीनस्य भावः ष्यञ्। शुभाशुभयोरुपेक्षायाम् ताटस्थ्ये। “पर्य्याप्तोऽसि प्रजाः पातुमौदासीन्येन वर्त्तितुम्” रघुः। २ राहित्ये ३ रागनिवृत्तौ च “न च स्वभावप्राप्तहन्त्यथानुरागेण नञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुम्, हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण” “अभावबुद्धिश्चौदासीन्थकारणम्” “तस्मात् प्रसक्तक्रियानिवृत्त्यौदासीन्यमेव “ब्राह्मणोन हन्तव्य” इत्या- दिषु प्रतिषेधार्थं मन्यामहे” इति च शारीरकभाष्यम्।

औदास्य = न० उदास्ते उद् + आस–अच् तस्य भावः ष्यञ्। वैराग्ये रागशून्यतायाम् २ मनोयोगविरहे। “औदास्य संविदबलम्बितशून्यमुद्रामस्मिन्दृशोर्निपतितामवगम्य भैम्याः” नैष० “क्षौणीविलिखनहेतोर्वयमपि कुब्जाः किमौदास्यम्” पद्यावली।

औदुम्बरक = पु० उदुम्बरस्य विषयोदेशः राजन्या० वुञ्। १ उदुम्बरविषये देशे। तस्य ससूह इत्यधिकारात् राजन्या० वुञ्। २ तत्समूहे न०।

औदुम्बरायण = पुंस्त्री उदुम्बरस्य गोत्रापत्यम् नडा० फक्। उदुम्बरस्य गोत्रापत्ये। अनन्तरापत्येतु इञ्। औदुम्बरि तदीयानन्तरापत्ये पुंस्त्री स्त्रियां ङीप्।

औद्गात्र = न० उद्गातुर्धर्म्म्यम् ऋदन्तत्वात् अञ्। उद्गातुः ऋत्विग्भेदस्य १ धर्म्म्ये “स्वरित्यौद्गात्र आहवनीये” कात्या० २५, १, ८, उद्गातृवेदविहिते भ्रेषे स्वरित्याहवनीये जुहोति” कर्कः। उद्गातुः कर्म्म मावो वा उद्गात्रा० अण्। उद्गातुः उच्चैर्गानात्मके २ कर्म्मणि ३ तद्भावे च।

औद्गाहमानि = पुंस्त्री उदगाहमानस्यापत्यम् इञ् ततोयूनि फक् तस्य पैला० लुक्। १ उद्गाहमानस्यापत्ये २ तदीये युवापत्ये च स्त्रियां गौरा० ङीष्। ततो मवादौ गहा० छ। औद्गाहमानीय तद्भवादौ त्रि०।

औद्ग्रभण = त्रि० उद्ग्रहणाय साधु अण् वेदेहस्य भः। ऊर्द्ध्वग्रहणसाधने “सर्वाणि ह वै दीक्षायायजूंष्यौद्ग्रभणानि” उद्गृभ्नीते वा एषोऽस्माल्लोकाद्देवलोकमभि यद्दीक्षते” शत० ब्रा० ३, १, ४, १, “औद्ग्रभणानि जुहोति स्थाल्याः स्रुवेणाकृत्या इति प्रतिमन्त्रम्” कात्या० ७, ३, १६। भत्वाभावे औद्ग्रहणमप्यत्र।

औद्दण्डक = त्रि० उद्दण्डस्य सन्निकृष्टदेशादि अरीहणा० वुञ्। उद्दण्डसन्निकृष्टदेशादौ।

औद्दालक = न० उद्दालेन उद्दलनेन निर्वृत्तः अण् संज्ञायां कन्। “प्रायो वल्मीकमध्यस्थाः कपिलाः स्वल्पकीटकाः। कुर्बन्ति कपिलं स्वल्पं तत् स्यादौद्दालकं मधु” इत्युक्ते वल्मीककीटसम्भृते मधुनि “औद्दालकं रुचिकरं स्वर्य्यं कुष्ठविषापहम्। कषायमुष्णमम्लञ्च कटुपाकञ्च पित्तकृत्” तद्गुणा वैद्यकोफाः ज्ञेयाः।

औद्दालकि = पुंस्त्री उद्दालकस्यर्षेरपत्यस् इञ्। उद्दालकापत्ये गौतमे ऋषौ स्त्रियां मनुष्यजातित्वात् ङीष। ततः यूनि फक्। औद्दालकायन तदीययुवापत्ये प्राच्यभरते तु वह्वच्कत्वात् तस्य बहुषु लुक्। उद्दालकाः। तदीययुवापत्यानि प्राच्यानि भारतानि वा

औद्धत्य = न० उद्धतस्य भावः। अविनीतभावे तच्च “असूयान्य गुणर्द्धीनामौद्धत्याद्यसहिष्णता” सा० द० उक्तलक्षणम्।

औद्धारिक = त्रि० उद्धाराय उद्धृत्यदानाय प्रभवति ठञ्। विभागकाले उद्धारार्थं देये द्रव्यभेदे। “विप्रस्यौद्धारिकं देयमेकांशश्च प्रधानतः” मनुः।

औद्भारि = पु० उद्भारस्यर्षेरपत्यम् इञ्। उद्भारर्षेः पुत्रे खण्डिके ऋषौ। “खण्डिक एवौद्भारिरस्य प्रायश्चित्तं वेद” शत० ब्रा० १, ८, ३४, १।

औद्भिज्ज = न० उद्भिद्य जायते जन–ड स्वार्थेऽण्। पांशुलवणे राजनि०।

औद्भिद = न० उद्भिनत्ति उद् + भिद–क–स्वार्थेऽण्। १ पांशुलवणे। “औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयम्। क्षारं गुरु कटुस्निग्धं श्लेष्मलं वातनाशनमिति” तस्य गुणाः “विदार्य्यमूमिं निम्नां यन्महत्या धारया स्रवेत्। तत्तोयमौद्भिदं नाम वदन्तीति महर्षयः” इत्युक्ते २ जलभेदे च “औद्भिदं वारि पित्तघ्नमविदाह्यतिशीतलम्। प्रीणनं मधुरं बल्यमीषद्वातकरं लघु”। वैद्यकान्तरम्

सुश्रुते आन्तरिक्षजलमुक्त्वा “तस्यालाभे भौमं तच्चाकाशगुणबहुलं तत्पुनः सप्तविधम्। तद्यथा कौपं नादेयं सारसं ताडाकं प्रास्रवणमौद्भिदंचौण्ठ्यमिति। तत्र वर्षास्वान्तरिक्षमौद्भिदं वा सेवेत महागुणत्वात्” इत्यादि उक्त्वा “कफघ्न दीपनं हृद्यं लघु प्रस्रवणोद्भवम्। मधुरं पित्तशमनमविदाह्यौद्भिदम् स्मृतम्”। तद्गुणाः उक्ताः। औद्भिदलवणगुणास्तु तत्रैव। “लघु तीक्ष्णोष्णमुत्क्लेदि सूक्ष्मं वातानुलोमनम्। सुतिक्तं कटुसंस्कारं विद्याल्लवणमौद्भिदम्”

औद्भिद्य = न० उद्भिदोमावः ष्यञ्। वृक्षादीनामुत्पत्तौ। “जैत्रं च म औद्भिद्यं च मे यज्ञेन कल्पन्ताम्” यजु० १८, ९, उद्भिदोभावः औद्भिद्यं चूतादितरोरुत्पत्तिः वेददी०।

औद्याव = त्रि० उद्यावस्य व्याख्यानोग्रन्थः तत्र भवो वा ऋगयना० अण्। १ उद्यावव्याख्यानग्रन्थे २ तत्र भवे च।

औद्वाहिक = त्रि० उद्वाहकाले लब्धं दीयते वा ठञ्। विवाहकाले १ लब्धे दीयमानेच “विद्याधनन्तु यद्यस्य तत्तस्यैव धनं भवेत्! मैत्र्यमौद्वाहिकञ्चैव माधुपर्किकमेव च” स्मृतिः “पितृद्रव्याविनाशेन यदन्यत् स्वयमर्ज्जयेत्। मैत्रमौद्धाहिकञ्चैव दायादानां न तद्भवेत्” याज्ञ०। तत्सर्व्वैरविभाज्यम्।

औद्वेप = त्रि० उद्वेप + चतुरर्य्याम् सङ्कला० अण्। उद्वेपेन १ निर्वृत्ते २ तत्सन्निकृष्टदेशादौ च

औधस = त्रि० ऊधस इदम् अण्। ऊधः सम्बन्धिनि “यवसं जग्ध्यनुदिनं नैव दोग्ध्यौधसं पयः” भाग० ४, १०, १९, भवार्थे तु शरीरावयवत्वात् यत् ऊधस्यमित्येव। “जधस्यमिच्छामि तवोपभोक्त्वुम्” रघुः। औधस्यमिति क्वचित् पाठः स्वार्थेऽणन्ततया समर्थ्यः।

औन्नेत्र = न० उन्नेतुः कर्म्म भावो वा उद्गात्रादि० अञ्। उन्नेतुः १ कर्म्मणि उन्नयने २ तद्भावे च। तस्य धार्म्माम् ऋदन्तत्वात् अञ्। ३ उन्नेतुर्धर्म्म्ये च।

औपकर्ण्णिक = त्रि० उपकर्ण्णं प्रायभवः ठक्। कर्ण्णसमीपे प्रायप्रभवे। “औपकर्ण्णिकलोचनः”। भट्टिः।

औपकलाप्य = त्रि० उपकलापं भवः परिमुस्वा० ञा। कलापसमीपभवे।

औपकायन = पुंस्त्री उपकस्य गोत्रापत्यं नडा० फक्। उपकस्य गोत्रापत्ये। बहुत्वे द्वन्द्वेऽद्वन्द्वे च वा फको लुक्। उपका उपकायनाः। उपकलामकाः औपकायनलामवायनाः।

औपगव = पुंस्त्री उपगतोगौरस्य उपगुर्गोपः तस्यापत्यम् अण्। १ गोपालकपुत्रे २ तद्याजिपुत्रे च लक्षणया उपगुशब्दस्तघाजिविप्रोऽपि उपगुशब्देनोच्यते “यं वर्ण्णं याजवेद्यस्तु स तद्वर्ण्णत्वमाप्नुयात्। सद्योवर्षेणवर्षैश्चेत्येवमेवाब्रवीद्भृगुः” हारीतोक्तेः। तत्सम्बन्धिनि ३ लक्षणे ४ अङ्के ५ संघे च तस्यापत्ये तु स्त्रियां ङीष्। औपगवस्येदम् गोत्रचरणात् वुञ्” पा० वुञ्। औपगवक औपगवसम्बन्धिनि “तत आगत” इत्यधिकारे “गोत्रादङ्कवत्” पा० वुञ्। औपगवक ततआगतेऽर्थे। तेषां समूहः गोत्रोक्षोष्ट्रेत्यादिना वुञ्। औपगवक तत्समूहे न० औपगवोभक्तिरस्य “गोत्रक्षत्रियाख्येभ्यो बहुलम् वुञ्” पा०। औपगवक तद्भक्तियुक्ते त्रि

औपगवि = पुंस्त्री उपगतो गां गिरं पतित्वेन उपगवोगीष्पतिस्तस्यापत्यम् छात्रो वा इञ्। १ गीष्पतेरपत्ये २ तच्छात्रे उद्धवे पु० “क्षणमिव पुलिने यमस्वसुस्तां समुषित औपगविर्निशां ततोऽगात्” भाग० ३, ४, २८ “औपगविरुद्धवः” श्रीधरः”

औपग्रस्तिक = पु० उपग्रस्तं ग्रासकालं भूतः स्वसत्तया व्याप्तः “तमधीश्चोभृतो भूतोभावो वा” पा० ठञ्। उपग्रासकालस्य स्वसत्तया व्यापके १ चन्द्रे २ सूर्य्ये च शब्दर०

औपच(ज)न्धनि = पु० उपच(ज)न्धनस्यापत्यम् इञ्। शुक्लयज- ब्राह्मण वंशीये ऋषिभेदे। “औपच(ज)न्धनेरौपच(ज) न्धनिः” शत० १४, ५, ५, २१। १४, ७, ३, २६, ब्राह्मणे च।

औपचारिक = पु० उपचार + स्वार्थे–विनयादि० ठक्। उपचारे उपचारश्च लक्षणया बोधनम् सेवनञ्च। उपचारः प्रयोजनमस्य ठञ्। उपचारहेतुके त्रि०। स्त्रियां ङीप्। औपकारिको उक्तिः।

औपच्छन्दसिक = त्रि० उपच्छन्दसा निर्वृत्तं बा० ठक्। उपच्छन्दनेन निर्वृत्ते। “आतन्वानं मुरारिकान्तास्वौपच्छसिकं हृदा विनोदम्” छन्दोमञ्ज०। “गड्विषमेऽष्टौ समे कलास्ताश्च समे स्यु र्नो निरन्तराः। न समात्र पराश्रिता कला” इति वैतालीयाद्यलक्षणयुक्ते “पर्य्यन्ते र्यौ तथैव शेषमौपच्छसिकं सुधीभिः” वृ० र० उक्ते २ मात्रावृत्त भेदे न०। “पुष्पिताग्राभिधं केचिदौपच्छसिकं विदुः” इत्युक्ते ३ पुष्पिताग्राख्यवर्ण्णवृत्तछन्दोभेदे च।

औपजानुक = त्रि० उपजानु जानुसमीपे प्रायभवः ठक्। जा नुसमीपपर्य्यन्तव्यापके “पाणी यस्यौपजानुकौ” भट्टिः।

औपतस्विनि = पु० उपतखिनस्यापत्यम् इञ्। उपतस्तिनस्यापत्ये रामनामके ऋषौ। “तदुहोवाच राम औपतस्विनिः” शत० ब्रा० ४, ६, १, ७।

औपदेशिक = त्रि० उपदेशेन जीवति वेतना० ठक्। उपदेशोपजीविनि। उपदेशेन प्राप्तः बा० ठक्। २ उपदेशेन प्राप्ते च

औपद्रविक = त्रि० उपद्रवमधिकृत्य कृतोग्रन्थः ठक्। उपद्रवाधिकारेण सुश्रुतान्तर्गते ग्रन्थभेदे स च “अथात औप्रद्रविकमध्यायं व्याख्यास्यामः” इत्युपक्रम्य उत्तरतन्त्रार्गतः सुश्रुतकृतः।

औपद्रष्ट्र्य = पु० उपद्रष्टृ + स्वार्थे ष्यञ्। पुरुषमेधीये देवभेदे। “विविक्त्यै क्षत्तारम्, औपद्रष्ट्यायानुक्षत्तारम्” यजु० ३०, ९३। तत्र तदुद्देशेनानुक्षत्ता द्वारपालसेवकः आलभ्यत्वेन विहितः।

औपधर्म्म्य = औपधर्म्म + स्वार्थे चातुर्व० ष्यञ्। अपकृष्टधर्मे। “लोकान् ध्नतां मतिविमोहमतिप्रलोभं वेशं विधाय बहु भाष्यत औपधर्म्म्यम्” भाग० २, ७, ७८।

औपधेनव = पु० उपगताधेनुरस्य तस्यापत्यम् अण्। सुश्रुतोक्ते धन्वन्तरिं प्रति प्रश्नकारके ऋषिभेदे। “काशीराजं दिवोदासं धन्वन्तरिमौपधेनववैतरणौरभ्रपुष्कलावतकरवीर्य्यगोपुररक्षितसुश्रुतप्रभृतयः ऊचुः। “औपघेनवमौरम्रं सौश्रुतं पौष्कलावतम्” सुश्रु०।

औपधेय = न० उपधीयते इत्युपधिः रथाङ्गं ततः स्वार्थे ढञ। रथाङ्गे।

औपनायनिक = त्रि० उपनयनं प्रयोजनमस्य ठक् अनुश० द्विपदवृद्धिः कुल्लू० वस्तुतः उपनायनशब्दोऽपि उपनयनार्थे प्रागुक्तः ततः ठक् इत्येव न्याय्यम्। उपनायनप्रयोजनके विधाने “एष प्रोक्तोद्विजातीनामौपनायनिको विधिः” मनुः। उपनायनाय हितः ठक्। २ उपनयसाधने च। २ ब्रह्मक्षत्रविशां काल औपनायनिकः परः” याज्ञ०।

औपनासिक = त्रि० उपनासं भवः ठञ् स्त्रियां ङीप्। नासासमीपभवे। “द्विर्द्वादश नासायां तासामौपनासिकाश्चतस्रस्ताः परिहरेत्” सुश्रुतः।

औपनिधिक = न० उपानधिरेव स्वार्थे ठक्। “वासनस्थमनाख्याय हस्तेऽन्यस्य यदर्प्यते। द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत्” याज्ञ० विवृतिरुपनिधिशब्दे दृश्या।

औपनिषत्क = त्रि० उपनिषदा तदुक्तोपदेशेन जीवति वेतना० ठक्। उपनिषदुक्तोपदेशेनोपजीविनि।

औपनिषद = पु० उपनिषत्स्वेवाभिव्यज्य ते शैषिकोऽण्। उपनिषन्मात्रवेद्ये १ परमात्मनि। “तन्त्वौपनिषदं पुरुषं पृच्छामि” वृ० उ०। उपनिषत् ब्रह्मविद्या तस्या इदम्। २ ब्रह्मप्रतिपादके वाक्यादौ स्त्रियां ङीप्। “विविधाश्चौपनिषदीरात्मसंसिद्ध्वये श्रुतीः” मनुः। उपनिषदि भवः प्रकाश्यः तस्याव्याख्यानो ग्रन्थोवा ऋगयना० अण्। उपनिषत्प्रकाश्ये ३ ब्रह्मणि तस्याव्याख्याने ४ ग्रन्थे च।

औपनीविक = त्रि० उपनीवि नीविसमीपे प्रायभवः ठक्। नीविसमीपे प्रायभवे “औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम्” माघः “बद्धोदुर्बलरक्षार्थमसिर्येनौपनीविकः” भट्टिः।

औपपक्ष्य = त्रि० उपपक्षं बाहुमूलं तस्येदम् ष्यञ्। बाहुमूलसम्बन्धिनि। “तस्मादिमाः प्रजा लोमशा जायन्ते यस्मादासां पुनरिव श्मश्रूण्योपपक्ष्याणि दुर्वीरणानि जायन्ते” शत० ब्रा० ११, ४, १, ६। “उपपक्षं बाहुमूलं तत्सम्बन्धीनि” भा०।

औपपत्तिक = त्रि० उपपत्त्या कल्पितम् ठक्। उपपत्त्या १ कल्पिते २ युक्ते। “औपपत्तिकमाहारं प्रयच्छस्वेति भारत!” भा० अनु० ९२ अ०।

औपपातिक = त्रि० उपपातेन उपपातकेन गोबधादिना संसृष्टः ठक्। उपपातकैः संसृष्टे “पितृद्विट् पतितः षण्डो यश्च स्यादौपपातिकः” नार० “यश्च स्यादुपपातकीति” प्रकाशवृत पाठः।

औपबाहवि = पुंस्त्री उपवाहोरपत्यम् बाह्वा० इञ्। उचगत बाहोरपत्ये।

औपभृत = त्रि० उपभूता पात्रेण सञ्चितः शैषिकोऽल्। १ उपभृत्पात्रेण सञ्चिते हविरादौ। “ब्रह्मानुज्ञातोऽनुयाजैस्त्रिभिश्चरत्यौपभृतं समानीय” कात्या० ३, ५, २ अव्यर्य्यु रौपभूतमाज्यं सशेषं जुह्वां समानीय” कर्कः। तस्येदम् अण्। २ उपभृत्सम्बन्धिनि “औपभृतासादनम्” कात्या० ५, ४, २८, औपभृतमुपभृत्सम्बन्ध्यासादनम्” कर्कः। “सव्या श्रोणिरित्यौपभृतानि” कात्या० ६, ७, ७।

औपमन्यव = पुंस्त्री उपमन्योरपत्यं विदा० अञ्। उपमन्योरपत्ये स्त्रियां ङीप्। “प्राचीनशालऔपमन्यवः सत्ययज्ञः पौलुषिः”। “औपमन्यव! किं त्वमात्मान मुपास्स्व?” इति च छा० उ०।

औपमिक = त्रि० उपमया निर्द्दिष्टः ठक्। उपमयानिर्द्दिष्टे। “अभ्रातृकाया इत्यनिवाहि औपमिकः” “मधु सोममि त्यौपमिकं माद्यतेः” “पीपिलिकामध्येत्यौपमिकं पीपिलिका पेलतेर्गतकः” इति च निरु०।

औपम्य = न० उपमा + चातु स्वार्थेष्यञ्। १ उपमायाम् २ सादृश्ये “प्राणा यथा नोऽभीष्टा भूतानामपि ते तथा। आत्मौपम्येन सर्वत्र यां कुर्वन्ति साधवः” हितोप०। “आत्मौगम्येन सर्व्वत्रं गीता “सा पूर्णा यदि सामान्यधर्म्म औपम्यवाचि च”। “औपम्यवाचिनो लोपसमासे तद्धिते द्विधा” इति च सा० द०।

औपयज = त्रि० उपयजैदम् अण्। उपयजः सम्बन्धिनि उप यट् च तच्छब्दे दर्शितः। “मार्जिते प्रेष्यत्यग्नीदौपयजानङ्गारानाहरति” कात्या० ६, ९, ७,

औपयिक = त्रि० उप + अय–घञ् उपायस्तेन लब्धः ठक् ह्रस्वश्च। १ उपायलब्धे, २ युक्ते न्यायागतबस्तुनि च। “एतत्तव महाराज! पुत्रेषु तेषु चैव हि। वृत्तमौपयिकं मन्ये भीष्मेण सह भारत!” भा० आ० २०४ अ०। स्त्रियां ङीप्र। “नचैवौपयिकी भार्य्या मानुषी कृपणा तव” भा० व० २८० अ० “यदत्रौपयिकं कार्य्यं तच्चिन्तयितुमर्हसि” भा० उ० १७७ अ०। उपायएव विनया० स्वार्थे ठक् ह्रस्वश्च। ३ उपाये पु०। “शिवमौपयिकं गरीयसीम्” किरा०। “औपयिकम् उपायम्” मल्लि०।

औपयौगिक = त्रि० उपयोगः प्रयीजनमस्य ठञ्। उपयोगनिमित्ते “अथातः स्नेहौपयौगिकं चिकित्सितं व्याख्यास्यामः” सुश्रु० स्त्रियां ङीष्।

औपरिष्ट = त्रि० उपरिष्टात् भवः अण्। अमेहक्वतसित्रेभ्य एव” वार्त्ति० नियमात् न त्यप् टिलोपः। उपरिष्टाद्भवे।

औपरोधिक = त्रि० उपरोधः प्रयोजनमस्य ठक्। १ उपरोधनिमित्ते २ पैलवे दण्डे पु० हेमच०।

औपल = त्नि० उपलादागतः शुण्डिका० अण्। १ आयस्थान रूपोपलादागते। उपलस्येदम् अण्। २ प्रस्तरसम्बन्धिनि “यथा प्लवेनौपलेन निमज्जत्युदके तरन्” मनुः।

औपवसथिक = त्रि० उपवसथे भवः ठञ्। उपवसथकर्त्तव्ये कर्म्मादौ। उपवसथश्च ग्रामः यागपूर्वदिवसश्च उपवसथशब्दे उक्तः। ष्यञ् औपवसथ्य तत्रार्थे। “अग्निप्रणयनीया औपवसथ्येऽनियमः” आश्व० श्रौ० ४, १, २६। स्वार्थे ष्यञ्। “यागपूर्ब्बदिने च। “औपवसथ्येऽह्नि” श्रुतिः।

औपवस्त्र = न० उपवस्त्रमेव प्रज्ञा० अण्। १ उपवस्त्रे उपवस्तुः कर्म अण्। २ उपवासे। उपवस्ता प्राप्तोऽस्येति विगृह्य “ऋतोरण्” पा० सूत्रप्रदर्शनं प्रामादिकमेव। तत्र ऋतुशब्दस्यैव ग्रहणं न तु ऋदन्तस्य तथात्वे ऋतोऽण् इत्येव स्यात् आर्त्तवमित्युदाहरणं चासङ्गतम् इति बोध्यम् “माषान् मधुमसूरांश्च वर्ज्जवेदौपवस्त्रकृत्” स्मृतिः

औपवास = त्रि० उपवासे दीयते व्युष्टा० अण्। उपवासव्रते दीयमाने द्रव्ये।

औपवासिक = त्रि० उपवासे साघु गुडा० ठञ्। १ उपवासे साधौ। तस्मै प्रभवति सन्तापा० ठञ्। २ उपवाससमर्थे च

औपवास्य = न० उपवास + चातुर्व० स्वार्थेष्यञ्। उपवासे “लक्ष्मणेन यदानीतं पीत्वा वारि समाहितः। औपवास्यं तदाऽकार्षीद्राघवः सह सीतया” रामा०।

औपवाह्य = पु० उपवाह्य एव स्वार्थेऽण्। उपवाहने रथादौ “औपबाह्यः कुवेरस्य सार्वभौम इनि श्रुतः” रामा०। सर्वासु भूमिषु विदितः अण्। सार्वभौम इत्यर्थः।

औपविन्दवि = पुंस्त्री। उपविन्दोरपत्यम् बाह्वा० इञ्। उपविन्दोरपत्ये स्त्रियां ङीप्।

औपवेशिक = त्रि० उपवेशेन जीवति वेतना० ठञ्। उपवेशेनोपजीविनि।

औपश्लेषिक = त्रि० उपश्लेषेण निर्वृत्तः ठक्। एकदेशेन सम्बद्धे आधारभेदे “औपश्लेषिको वैषयिकोऽभिव्यापकश्चेत्याधार स्त्रिधा” सि० कौ०।

औपसंक्रमण = त्रि० उपसंक्रमणे दीयते व्युष्टा० अण्। उपसंक्रमणे देये स्त्रियां ङीप्।

औपसद = पु० उपसच्छब्दोऽस्मिन्नस्ति विमुक्ता० अण्। उपसच्छब्दयुक्ते १ स्वाधाये २ अनुवाके च। उपसत् समीपस्थानं तदस्त्यस्य प्रज्ञा० अण्। ३ द्वन्द्वे “प्रजापतिकामस्यौपसदः” कात्या० २२, १०, १३। “औपसदोद्वन्द्वः” कर्कः

औपसर्गिक = त्रि० उपसर्गाय प्रभवति सन्तापा० ठञ्। उपसर्गसमर्थे। स च सुश्रुतोक्तः रोगभदः यथा “व्याधिविशेषास्तु प्रागभिहिताः सर्व एवैते त्रिविधाः साध्या याप्याः प्रत्याख्येयाश्च तत्रैतान् भूयस्त्रिधा परीक्षेत किमसावौपसर्गिकः प्राक्कबलोऽन्यलक्षण इति तत्रौपसर्गिको यः पूर्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुपसृजति स तन्मूल एवोपद्रव सम्भवः” इति। वैद्यकान्तरे तु “कफोऽनुलोमवातेन यदि पित्तानुगो भवेत्। स्वेदशैत्यादिभिर्जुष्टस्तदा भवति मानवः। प्रतिलोमः पुनस्तेन स्वास्थ्यमायाति तत्क्षणात्। औपसर्गिक एवान्यः सन्निपात उदाहृतः” इत्युक्ते २ वातादिसन्निपाते च। ३ दैवारिष्ट सूचके ग्रहदौस्थ्यादौ। ४ उपसर्गसम्बन्धिनि त्रि० शब्दकल्पद्रुमः। तन्मूलं मृग्यम् सम्बन्धिन्यर्थे ठकोऽस्मरणात् कोषान्तराभावाच्च।

औपस्थान = त्रि० उपस्थानं शीलमस्य छत्रा० ण। उपस्थानधीले उपासके।

औपस्थानिक = त्रि० उपस्थानेन सेवनेन जीवति वेतनां० ठक्। सेवनोपजीविनि।

औपस्थ्य = न० उपस्थस्य भावः कर्म्म वा ष्यञ्। उपस्थव्यापारसाध्ये सुखे। “औपस्थ्यजैह्म्यकार्पण्यात्” भाग० ७, १५, १६ “औपस्थ्यजैह्म्यं बहु मन्यमानः” भाग० ७, ६, १४। औपस्थ्यंशैश्न्यं जैह्यञ्च सुखम्” श्रीधरः।

औपहारिक = त्रि० उपहाराय साधु ठक्। उपहारार्थे द्रव्ये “परमान्नेन यो दद्यात् पितॄणामौपाहारिकम्” भा० अनु० ६०३० श्लो०।

औपाधिक = त्रि० तेन निर्वृत्तः बा० ठञ्। उपाधिकृते स्त्रियां ङीप् “रूढं सङ्केतवन्नाम सैव संज्ञेति कीर्त्त्यते। नैमित्तिकी पारिभाषिक्यौपाधिक्यपि तद्भिदा” शब्दश०

पुरुषस्य बन्धस्तु औपाधिक एव न नैमित्तिकः नापि तात्त्विकः इत्येतत् सां० सू० माष्ययोर्मिर्ण्णीतं यथा “न स्वभावतो वद्धस्य मोक्षसाधनोपदेशविधिः” सू०

“दुःखात्यन्तनिवृत्तेर्मोक्षत्वस्योक्ततया बन्धोऽत्र दुःखयोगएव तस्य बन्धस्य पुरुषे न स्वांभाविकत्वं वक्ष्यमाणलक्षण णमस्ति यतो न स्वभावतो बद्धस्य मोक्षाय साधनोपदेशस्य विधिरनुष्ठानं नियोज्यानां घटते। न ह्यग्नेः स्वा भाविकादौष्ण्यान्मोक्षः सम्भवति। स्वाभाविकस्थ यावद्द्रव्यभावित्वादित्यर्थः। तदुक्तमीश्वरगीतायाम्।

“यद्यात्मा मलिनोऽस्वच्छो विकारी स्यात् स्वभावतः। न हि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि”।

“यस्मिन् सति कारणविलम्बाद्विलम्बो यस्योत्पत्तौ न भवति तस्य तत् स्वाभाविकमिति स्वाभाविकत्व लक्षणम्। ननु सर्वदोपलम्भापत्तेर्दुःखस्य स्वाभाविकत्वशङ्कैव नास्तीति चेन्न त्रिगुणात्मकत्वेन चित्तस्य दुःखस्वभावत्वेऽपि सत्वाधिक्येनाभिभवात् सदा दुःखानुपलब्धिवदात्मनोऽपि तदनुपलब्धिसम्भवात्। दुःखस्वाभाविकत्ववादिभिर्बौर्द्धश्चित्तस्यैवात्मताभ्युपगमाच्च। अथैवमात्मनाशादेव मोक्षोऽस्त्विति चेन्न। अहं बद्धो विमुक्तः स्यामिति बन्धसामानाधिकरण्येनैव मोक्षस्य पुरुषार्थत्वादिति। मवत्वननुष्ठानं तेन किमित्यत आह” भा०। “स्वभावस्यानपायित्वादननुष्ठानलक्षणमप्रामाण्यम्” सू०।

“स्वभावस्य यावद्द्रव्यभावित्वान्मोक्षासम्भवेन तत्साधनोपदेशश्रुतेरननुष्ठानलक्षणमप्रामाण्यं स्यादित्यर्थः भा०। ननु श्रुतिबलादेवानुष्ठानं स्यात् तत्राह। “नाशक्योपदेशविधिरुपदिष्टेऽप्यनुपदेशः” सू०।

“नाशक्याय फलायोपदेशस्यानुष्ठानं सम्भवति। यत उपदिष्टेऽपि विहितेऽप्यशक्यओपाये स उपदेशो न भवति। किन्तूपदेशाभास एव “बाधितमर्थं वेदोऽपि न बोधयतीति” न्यायादित्यर्थः” भा०। अत्र शङ्कते। “शुक्लपटवद्वीजवच्चेत्” सू०।

“ननु स्वाभाविकस्याप्यपायो दृश्यते। यथा शुक्लपटस्य स्वाभाविकं शौक्ल्यं रागेणापनीयते। यथा च वोजस्य स्वाभाविक्यप्यङ्कुरशक्तिरग्निनापनीयते। अतः शुक्लपट वद्बीजवच्च स्वाभाविकस्य बन्धस्याप्यपायः पुरुषे सम्भवतीति तद्वदेव तत्साधनोपदेशः स्यादिति चेदित्यर्थः” भा० समाधत्ते। “शक्त्युद्भवानुद्भवाभ्यां नाशक्योपदेशः” सू०।

“उक्तदृष्टान्तयोरपि नाशक्याय स्वाभाविकायोप देशो लोकानां मवति। कुतः शक्त्यद्भवानुद्भवाभ्याम् दृष्टान्तद्वये हि शौक्ल्यादेराविर्भावतिरोभावावेव भवतः न तु शौक्ल्याङ्कुरशक्त्योरभावो भवति। रजकादिव्यापारैर्योगिसङ्कल्पादिभिश्च रक्तपटभृष्टवीजयोः पुनः शौक्ल्याङ्कुरशक्त्याविर्भावादित्यर्थः। नन्वेवं पुरुषेऽपि दुःखशक्तितिरोभाव एव मोक्षोऽस्त्विति चेन्न दुःखात्यन्तनिवृत्तेरेव लोके पुरुषर्थत्वानुमानात् श्रुतिस्मृत्योः पुरुषार्थत्वसिद्धेश्च न तु दृष्टान्तयोरिव तिरोभावमात्रस्येति। किञ्च दुःखशक्तितिरीभावमात्रस्य मोक्षत्वे कदाचिद्यीगीश्वरसङ्कल्पादिना शक्त्युद्भवस्य भृष्टवीजेष्विव मुक्तेष्वपि सम्भवेनानिर्मोक्षाप- त्तिरिति” मा०। स्वभावतो बन्धं निराकृत्य निमित्तेभ्योऽपि बन्धमपाकरोति सूत्रजातेन। पुरुषे दुःखस्य नैमित्तिकत्वे ज्ञानाद्युपायोच्छेद्यत्वं न घटेत। अनागतावस्थसूक्ष्मदुःखस्य यावद्द्रव्यभावित्वादित्याशयेन नैमित्तिकत्वं निराक्रियते। “न कालयोगतो व्यापिनो नित्यस्य सर्वसम्बन्धात्” सू०।

“नापि कालसम्बन्धनिमित्तकः पुरुषस्य बन्धः कुतः? व्यापिनो नित्यस्य कालस्य सर्व्वावच्छेदेन सर्व्वदा मुक्तामुक्तसकलपुरुषसम्बन्धात् सर्व्वावच्छेदेन सदा सकलपुरुषाणां बन्धाषत्तेरित्यर्थः। अत्र च प्रकरणे कालदेशकर्मादीनां निमित्तत्वसामान्यं नापलप्यते श्रुतिस्मृतियुक्तिमिः सिद्धत्वात्। किन्तु यन्नैमित्तिकत्वं पाकजरूपादिवन्निमित्तजन्यत्वं तदेब बन्धे प्रतिषिध्यते पुरुषे बन्धस्यौपाधिकत्वाभ्युपगमात्। ननु कालादिनिमित्तकत्वेऽपि सहकार्यन्तरसम्भवासम्भवाभ्यां व्यवस्था स्यादिति चेत् एवं सति यत्संयोगे सत्यवश्यं बन्धस्तत्रैव सहकःरिणि लाघवाद्बन्धो युक्तः पुरुषे बन्धव्यवहारस्यौपाधिकत्वेनाप्युपपत्तेरिति कृतं नैमित्तिकत्वेनेति” भा० “न देशयोगतोऽप्यस्मात्” सू०। “देशयोगतोऽपि न बन्धः कुतः? अस्मात् पूर्व्वसूत्रोक्तान्मुक्तामुक्तसर्व्वपुरुषसम्बन्धात् मुक्तस्यापि बन्धापत्तेरित्यर्थः” भा०। “नावस्थातो देहघर्मत्वात् तस्याः” सू०। “सङ्घातविशेषरूपताख्या देहरूपा यावस्था न तन्निमिचतोऽपि पुरुषस्य बन्धः। कुतः? तस्या अवस्थाया देहधर्मत्वात् अचेतनधर्मत्वादित्यर्थः। अन्यधर्मस्य साक्षादन्यबन्धकत्वेऽतिप्रसङ्गात्। मुक्तस्यापि बन्धापत्तेरित्यर्थः” भा०। ननु पुरुषस्याप्यवस्थायां किं बाधकं तत्राह। “असङ्गोऽयं पुरुष इति” सू०। “इति शब्दो हेत्वर्थे। पुरुषस्यासङ्गत्वादवस्थाया देहमात्रधर्मत्वमिति पूर्वसूत्रेणान्वयः। पुरुषस्यावस्थारूपविकारस्वीकारे विकारहेतुसंयोगाख्यः सङ्गः प्रसज्येतेति भावः। असङ्गत्वे च श्रुतिः। “स यदत्र किञ्चित् पश्यत्यनन्वागतस्तेन भवति असङ्गो ह्ययं पुरुष” इति। सङ्गश्च संयोगमात्रं न भवति। कालदेशसम्बन्धस्य पूर्वमुक्तत्वात्। श्रतिस्मृतिषु पद्मपत्रस्थजलेनेव पद्मपत्रस्यासङ्गतायाः पुरु षासङ्गतायां दृष्टान्तताश्रवणाच्च” भा०। “न कर्मणान्यधर्मत्वादतिप्रसक्तेश्च” सू०। “न हि बिहितनिषिद्धकर्मणापि पुरुषस्य बन्धः कर्म णामनात्मधर्मत्वात्। अन्यधर्मेण साक्षादन्यस्य बन्धे च मुक्तस्यापि बन्धापत्तेः। ननु स्वस्वोपाधिकर्मणा बन्धाङ्गीकारे नायं दोष इत्याशयेन हेत्वन्तरमाह। अतिप्रसक्तेश्चेति। प्रलयादावपि दुःखयोगरूपबन्धापत्तेश्चेत्यर्थः। सह कार्य्यन्तरविलम्बतो विलम्बकल्पनं च प्रागेव निराकृतं न कालयोगत इत्यादिसूत्र इति” भा०।

नन्वेवं दुःखयेगरूपोऽपि बन्धः कर्मसामानाधिकरण्यानुरोधेन चित्तस्यैवास्तु दुःखस्य चित्तधर्मतायाः सिद्धत्वात्। किमर्थं पुरुषस्यापि कल्प्यते बन्ध इत्याशङ्कायामाह “विचित्रभोगानुपपत्तिरन्यधर्मत्वे” सू०। “दुःखयोगरूपबन्धस्य चित्तमात्रधर्मत्वे विचित्रभोगानुपपत्तिः। पुरुषस्य हि दुःखयोगं विनापि दुःखसाक्षात्काराख्यभोगस्वीकारे सर्व्वपुरुषदुःखादीनां सर्वपुरुषभोग्यता स्यान्नियामकाभावात्। ततश्चायं दुःखभोक्तायं च सुखभोक्तेत्यादिरूपभीगवैचित्र्यं नोपपद्येतेत्यर्थः। अतो भोगवैचित्र्योपपत्तये भोगनियामकतया दुःखादियोगरूपो बन्धः पुरुषेऽपि स्वीकार्यः। स च पुरुषे दुःखयोगः प्रतिविम्बरूप एवेति प्रागेवोक्तम्। प्रतिविम्बश्च स्वोपाधिवृत्तेरेव भवतीति न सर्वपुंसां सर्वदुःखभोगः इति भावः। “चित्तवृत्तिभोगे च पुरुषस्यानादिः स्वस्वामिभावः सम्बन्धो हेतुरिति” योगभाष्यादयं सिद्धान्तः सिद्धः। चित्ते च पुरुषस्य स्वत्वं स्वभुक्तवृत्तिवासनावत्त्वमिति। यत त चित्तस्यैव बन्धमोक्षौ न पुरुषस्येति श्रुतिस्मृतिषु गीयते तद्विम्बरूपदुःखयोगरूपं पारमार्थिकं बन्धमादाय बोध्यम्” भा०। साक्षात् प्रकृतिनिमित्तकत्वमपि बन्धस्यापाकरोति। “प्रकृतिनिबन्धनाच्चेन्न तस्या अपि पारतन्त्र्यम्” सू०। “ननु प्रकृतिनिमित्ताद्बन्धो भवत्विति चेन्न यतस्तस्या अपि बन्थकत्वे संयोगपारतन्त्र्यमुत्तरत्र वक्ष्यमाणमस्ति। संयोगविशेषं विनापि बन्धकत्वे प्रलयादावपि दुःखसम्बन्धप्रसङ्गादित्यर्थः। प्रकृतिनिबन्धना चेदिति पाठे तु प्रकृतिनिबन्धना चेद्बद्धतेत्यर्थः” भा०। अतो यत्परतन्त्रा प्रकृतिर्बन्धकारणं सम्भवेत् तस्मादेव संयोगविशेषादौपाधिको बन्धोऽग्निसंयोगाज्जलौष्ण्यवदिति स्वसिद्धान्तमनेनैव प्रसङ्गेनान्तराल एवावधारयति। “न नित्यशुद्धबुद्धमुक्तस्वभावस्य तद्योगस्तद्योगादृते” सू०। “तस्मात् तद्योगादृते प्रकृतिसंयोगं विना न पुरुषस्य तद्योगो बन्धसम्पर्कोऽस्ति। अपि तु स एव बन्धहेतुः। बन्धस्यौपाधिकत्वलाभाय नञ्द्वयेन वक्रोक्ति। यदि हि बन्धः प्रकृतिसंयोगजन्यः स्यात् पाकजरूपवत् तदा तद्बदेब तद्वियोगेऽप्यनुवर्त्तेत। न च द्वितीयक्षणादेर्दुःखनाशकत्वं कल्प्यं कारणनाशस्य कार्यनाशकतायाः कॢप्तत्वेन तेनैवोपपत्तावधिकाऽकल्पनात्। वृत्तिर्हि दुःखादेरुपादानम्। अतो दीपशिखावत् क्षणभद्भुराया वृत्तेराशुविनाशित्वेनैव तद्धर्माणां दुःखेच्छादीनां विनाशः सम्भवतीति। अतः प्रकृतिवियोगे बन्धाभावादौपाधिक एव बन्धो न तु स्वाभाविको नैमित्तिको वेति। तथा तत्संयोगनिवृत्तिरेव साक्षाद्धानोपाय इत्यपि वक्रोक्तिफलम्। तथा च स्मृतिः “यथा ज्वलद्गृहाश्लिष्टं गृहं विच्छिद्य रक्ष्यते। तथा सदोषप्रकृतिविच्छिन्नोऽयं न शोचति”। वैशेपिकाणामिव पारमार्थिको दुःखयोग इति भ्रमो मा भूदित्येतदर्थं नित्येत्यादि। यथा स्वभावशुद्धस्य स्फटिकस्य रागयोगो न जपायोगं विना घटते तथैव नित्यशुद्धादिस्वभावस्य पुरुषस्योपाधिसंयोगं विना दुःखसंयोगो न घटते स्वतो दुःखाद्यसम्भवादित्यर्थः तथाह सौरे “यथा हि केवलो रक्तः स्फटिको लक्ष्यते जनैः”। रञ्जकाद्युपधानेन तद्वत् परमपूरुषः”। नित्यत्वं कालानवच्छिन्नत्वम्। शुद्धादिस्वभावत्वं च नित्यशुद्धत्वादिकम्। तत्र नित्यशुद्धत्वं सदा पापपुण्यशून्यत्वम्। नित्यबुद्धत्वमलुप्तचिद्रूपत्वम्। नित्यमुक्तत्वं सदा पारमार्थिकदुःखायुक्तत्वम्। प्रतिविम्बरूपदुःखयोगस्त्वपारगार्थिको बन्धः इति भावः। आत्मनो नित्यशुद्धत्वादौ च श्रुतिः। “अयमात्मा सन्मात्रो नित्य शुद्धः बुद्धः सत्यो मुक्तो निरञ्जनो विभुरित्यादिः” भा०।

अयमेव पक्षो वेदान्तिभिरप्यङ्गीकृतः “तद्गुणसारत्वादित्यादि” शा० सूत्रभाष्ये “न हि बुद्धेर्गुणैर्विना केवलस्यात्मनः संसारित्वमस्ति बुद्ध्युपाधिधर्म्माध्यासनिमित्तं हि कर्त्तृत्वभोक्तृत्वलक्षणं संसारित्वमकर्त्तुरभोक्तुश्चासंसारिणोनित्यमुक्तस्य सत आत्मनः” इति “यावदात्मभावित्वादित्यादि” शा० सूत्रभाष्ये च “यावदेव चायं बुद्ध्युपाधिसम्बन्धस्तावदेव चास्य जीवत्वं संसारित्वञ्च। परमार्थतस्तु न जीवोनाम बुद्ध्युपाधिपरिकल्पितस्वरूपव्यतिरेकेण” इति च संसारित्वस्य बुद्ध्युपाधिसंबन्धाधीनतयौपाधिकत्वस्योक्तेः। इवांस्तु विशेषः एतन्मते बन्धस्येव जीवभेदस्यापि औपाधिकत्वं तदपि शां० सू० भाष्ययोर्निर्ण्णीतं यथा “अतएव चोपमा(जल)सुर्य्यकादिवत्” सू० “अतएव चायमात्मा चैतन्यस्वरूपोनिर्विशेषो वाङ्मनसातीतः परप्रति- षेधेनोपदिश्यते अतएव चास्योपाधिनिमित्तामपारमार्थिकीं विशेषवत्तामभिप्रेत्य जलसूर्य्यकादिवदित्युपमोपा दीयते मोक्षशास्त्रेषु “यथाह्ययं ज्योतिरात्मा विवस्वानपोभिन्ना बहुधैकोऽनुगच्छन्। उपाधिना क्रियते भेदरूपोदेवः क्षेत्रेष्वेवमजोऽयमात्मेति”। “एकएव तु भूतात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवदिति चैवमादिषु। अत्र पत्यवस्थीयते” भा०। “अम्बुवदग्रहणात्तु न तथात्वम्” सू०। “न जलसूर्य्यादितुल्यत्वमिहोपपद्यते तद्वदग्रहणात्। सूर्य्यादिभ्योहि मूर्त्तेभ्यः पृथगभूतं विप्रकृष्टदेशं मूर्त्तञ्च जलं गृह्यते तत्र युक्तः सूर्य्यादिप्रतिविम्बोदयोनत्वात्मा मूर्त्तः नचास्मात् पृथग्भूता विप्रकृष्टदेशाश्चोपाधयः, सर्व्वगतत्वात् सर्व्वानन्यत्वाच्च तस्मादयुक्तोऽयं दृष्टान्त इति। अत्र प्रतिविधीयते। भा० “वृद्ध्विह्रासमात्र मन्तर्भावादुभयसामञ्जस्यादेवम्” सू०। युक्त एव त्वयं दृष्टान्तः विवक्षितांशसम्भवात् न हि दृष्टान्तदार्ष्टान्तिकयोः क्वचित्कञ्चिद्विवक्षितममंशं मुक्त्वा सर्व्वसारूप्यं केनचिद्दर्शयितुं शक्यते सर्व्वसारूप्ये हृइ दृष्टान्तदार्ष्टान्तिकभावोच्छेद एव स्यात्। न चेदं स्वमनीषया जलसूर्य्यकादिदृष्टान्तप्रणय नम्। शास्त्रप्रणीतस्य त्वस्य प्रयोजनमात्रमुपन्यस्यते। किंपुनरत्र विवक्षितं सारूप्यमिति? तदुच्यते वृद्धिह्रासमात्रमि ति। जलगतं हि सूर्य्यप्रतिविम्बं जलवृद्धौ वर्द्धते जलह्रासे ह्रसते जलचलने चलति जलभेदे भिद्यते इत्येवं जलधर्म्मानुविधायि भवति न तु परमार्थतः सूर्य्यस्य तथात्वमस्ति एवं परमार्थतोऽविकृतमेकरूपमपि सद्ब्यह्म देहाद्युपाध्यन्तर्भावाद्भजतएवोपाधिधर्म्मान् वृद्धिह्नासादीन् एवमुभयोर्दृष्टान्तदार्ष्टान्तिकयोः सामञ्जस्यादविरोधः” भा०। “दर्शनाच्च” सू०। “दर्शयति च श्रुतिः परस्यैव ब्रह्मणोदेहादिषु पाधिष्वनुप्रवेशम् “पुरः स चक्रे द्विपदः पुरश्चक्रे चतुष्पदः। पुरः स पक्षी भूत्वा पुरः पुरुष अविशदिति” “अनेन जीवेनात्मनानुप्रविश्येति” च तद्युक्तमेतत्”।

उपाधिरेव विनया० स्वार्थे ठञ्। साध्यसमव्यापकत्वे सति साधनाव्यापकत्वरूपे प्रागुक्ते उपाधौ “अनौपाधिकोव्याप्तिः”, अनुमा० चि०।

औपाध्यायक = त्रि० उपाध्यायादागतः वुञ्। उपाध्यायाल्लब्धे

औपानह्य = पु० उपानहे अयम्। “तिदर्थं विकृतेः प्रकृतौ” पा० इत्यधिकारे ञ्य। उपनद्रूपविकारसाधने तत्प्रकतौ १ मुञ्जे २ चर्म्मणि न०।

औपावि = पुंस्त्री उपावस्यापत्यम् इञ्। उपावर्षेरपत्ये “तत्र औपाविनैव जानश्रुतायनेन प्रत्यवरूढम्” शत० ब्रा० ५, १, १, ५। स्त्रियां ङीप्।

औपासन = त्रि० उपास्यते प्रतिदिनमित्युपासनो गृह्योऽग्निस्तत्र भवः अण्। गृह्याग्नौ कर्त्तव्ये सायंप्रातर्होमादौ कर्म्मणि। गृह्याग्निश्च विवाहाग्निः। तत्र कर्त्तव्यं दर्शितं “नौपासनश्रुतेः” कात्या ०१, १, २, “यदुक्तम् वैतानिकेष्वेवाग्निषुश्रौतं स्मार्तं च कर्त्तव्यमिति तन्न कुतः? औपासनश्रुतेः यत आहिताग्नेरप्यौपासनः श्रूयते पितृमेधे “अद्वारेणौपासनं निरस्यतीति” यदि स्मार्तमपि वैतानिकेष्वेव क्रियते तदा आहिताग्नेः पितृमेधे औपासनदर्शनं न स्यात् अस्ति च। तस्मात् स्मार्त्तान्यौपासने कर्त्तव्यानीति तथा च स्मृतिः स्मार्त्तं कर्म्म विवाहाग्नौ कुर्व्वीत प्रत्यहं गृही। दायकालाहृते वापि श्रौतं वैतानिकाग्निष्विति”। “तस्मिन् गृह्याणीत्यापस्तम्बस्मरणाच्च”। गृहाय हितं गृह्यम् गृहशब्दश्च दम्पत्योर्वर्त्तते तस्मिन्नित्यावसथ्ये। अतश्च यत्किञ्चिद्दम्पत्योर्हितं कर्म शान्तिक पौष्टिक व्रताङ्गहोमादिकं स्मार्त्तं तत् सर्वमावसथ्येऽग्नौ भवतीति। तथा च खादिरगृह्यसूत्रकारिकायाम् “होमानात्मार्थपत्न्यर्थान् कृत्स्नानौपासने न च। परार्थानेकदेशेऽग्नौ स चान्ते लौकिको भवेत्” अत एव कात्यायनः (कर्मप्रदापे) “न स्वेऽग्नावन्यहोमः स्यान्मुक्त्वैकां समिदाहुतिम्। स्वकर्म्म सत्क्रियार्थश्च यावन्नासौ प्रजायते। अग्निस्तु नामघेयादौ होमे सर्व्वत्र लौकिकः। न हि पित्रा समानीत पुत्रस्य भवति क्वचित्”। अतश्च सीमन्तोन्नयनमपि स्मार्ताग्नावेव कार्य्यम्। अपिच आधानेनोत्पादितानां गार्हपत्यादीनामग्नीनाम् प्रयोजनापेक्षायां सत्यां “गार्हपत्ये हर्वीषि श्रपयत्याहवनीये जुहोति दक्षिणाग्नावन्वाहार्य्यं पवतीति” प्रत्यक्षवचननिर्द्दिष्टैरेव प्रयोजनैर्निराक ङ्क्षाणाम् न सामर्थ्यमात्रेणोक्तादन्यत्र विनियोगः कल्पयितुं शक्यते”। तस्मात् स्मार्तान्यौपासन एव कार्य्याणि इति” कर्कः।

विधानपा० तस्यारम्भकालादि निरूपितं यथा गृह्यपरिशिष्टे “अथ नित्यौपासनं तस्य सतयमारम्भं” इति। शौनकोऽपि यस्मिन्नह्नि विवाहः स्यात्सायमारभ्य तस्य तु। परिचर्य्यां विवाहाग्नेर्विदधीत स्वयं द्विजः। यदि रात्रौ विवाहाग्निरुत्पन्नः स्यात्तथा सति। उपक्रमोत्तर स्याह्नः सायं परिचरेदमुमिति”। इदमपि नवनाड्यतिक्रमेदृष्टव्यम्। तथा चापस्तम्बसूत्रे भाष्यकृत्सुदर्शनाचार्य्यः। “अस्यचारम्भणं रात्रावेव यदि नव नाड्योनातीताः। अतीताश्चेत् परेद्युः सायमेवाग्निहोत्रबेलायामारम्भ इति”। अन्यत्रापि। “प्रातर्होमे सङ्गवान्तः कालस्त्वनुदितेऽथ वा। सायमस्तमिते होमः कालस्तु नवनाडिकेति”। अत्रानुदितहोमकालस्तु वाजसनेयिनां वेदितव्यः। तथा च कात्यायनसूत्रम्। “औपासनस्य परिचरणमस्तमितानुदितयोरिति”। तेषामौपासनसमारम्भोऽपि चतुर्थीहोमानन्तरमाहितेऽग्नौ भवति न तु विवाहाग्नौ “आवसथ्याधानं दारकाले दायाद्यकाले वेति” कात्यायनसूत्रात् तद्भाष्यमपि। “दारकालश्चतुर्थ्युत्तरकालः। दायाद्यकालोधनविभागकाल इति” औपासनात्पूर्ब्बं यदि विवाहाग्निः शाम्येत तदा प्रायश्चितमुक्तं विश्वादर्शे “उद्वाहौपासनात् पूर्ब्बमनले शान्तिमागते। स्थालीपाकं ततः कृत्वा ह्यौपासनमथाचरेत्। नवनाडीभ्य ऊर्द्द्वं चेत्स्थालीपाकोभवेत्तु वै। औपासने तदा कुर्य्यात् परेद्युः सायमेवचेति”। तस्य प्रादुष्करणकाल उक्तः आश्वलायनसूत्रे “तस्याग्निहीत्रेण प्रादुष्करणहोममकालौ व्याख्याताविति” तत्कारिकायामपि। “ज्वालयेदपराह्णेऽग्निमस्तं याते दिवाकरे। पर्य्युह्याग्निं परिस्तीर्य्य पर्य्युक्ष्य च ततः परमिति”। स्पष्टमाह कात्यायनः। “सूर्य्ये तु शैलमप्राप्ते षड्विंशद्भिरिहाङ्गुलैः। पादुष्करणमग्नीनां प्रातरासोमदर्शनम्”। तथा “दुहित्रा स्तुषया वाग्निविंहारो न विरुध्यते। निलेपनं च पात्राणामुपलेपनमेव चेति”। उक्तकाले प्रादुष्करणाभावे प्रायश्चित्त मुक्तम् आश्वलायन कारिकायाम्। “प्रायश्चित्तं विशेषेण यत्र नोक्तं भवेद्बिधिः। होतव्याज्याहुतिस्तत्र भूर्भुवःस्वरितीति चेति”। कात्यायनः अनुदितास्तमयलक्षणमाह। “रात्रेस्तु षोडशे भागे ग्रहक्षनत्रभूषिते। कालं त्वनुदितं ज्ञात्वा तत्र होमं प्रकल्पयेत्”। तथा “यावत्सम्यङ्गभासन्ते नभस्यृक्षाणि सर्वतः। न च लौहित्यमायाति तावत्सायं तु हूयते”। अत्राश्वलायनादीनां होमे मुख्यकालमाह चन्द्रिकायामत्रिः “हस्तादूर्द्ध्वं रविर्यावद्भूभिंहित्वा न गच्छति। तावद्धोमविधिः पुण्योनान्योऽभ्युदितहोमिनाम्। रात्रौ प्रदोषो मुख्यःस्यादिति वेदविदो विदुरिति”। अत्र गौणकालमाह शौनकः “पश्चादस्तमयात्कालोयोभवेत्त्रिमूहूर्त्तकः। स सायंहोमकालःस्यात् प्रदोषान्त उदाहृतः। यस्तु षड्नाडिकाकालः पश्चादेवोदयाद्रवेः। स होमकालो विप्राणां सङ्गवान्त इति स्मृत” इति। यदि गौणकालोऽप्यतोतस्तदा गृह्यपरिशिष्टेप्रायश्चित्तमुक्तम् “नित्यहोममतीत्य मनस्वत्या चतुर्गृहीतं जुहुयात् द्वादशूरात्रादूर्द्ध्वं पुनराधानमिति”। केचित्तुप्रायश्चित्तं कृत्वा प्रातर्होमकालात् पूर्व्वं सायंहोमः कार्य्यः सायं होमात्पूर्ब्बं प्रातर्होमः कार्य्यैत्याहुः “आसायकर्मणः पातराप्रातः सायकर्म्मणः। आहुतिं नातिपद्येत पार्वणं पार्वणान्तरादिति” बौधायनस्मृतेरिति। अस्याग्निहोत्रवद् विधानं प्रदर्शितं शौनकेन। “अग्निहीत्रवदित्यतेच्छौनकेन प्रपञ्चितम्। पुनः पर्य्युक्ष्य चाङ्गारानु दगग्नेरपोह्य च। हौम्यानां द्वादशानां तु पक्वमेतेष्टधिंश्रयेत्। पयोयवागूः सर्पिश्च ओदनं दधि तुण्ड लाः। सोमस्तैलमपो व्रीहिर्द्वादशैते तिलायवाः। पय आदीनि चचारि विदुः पक्वानि याज्ञिकाः। दध्यादीनामपक्वानामधिश्रयणमिष्यते। उल्मुकेनैव ज्वलयेदपक्वं पक्वमेव च। अधिश्रिते स्नुवेणापः परिषिञ्चेन्नवाधिकाः। पुनस्त्रिर्ज्वलता तेन परिव्युह्य प्रहृत्य तत्। उदर्क्कषं त्रिधोद्वास्याप्यङ्गारानतिसृज्य च। अग्नेःपश्चात्तृणे ष्वेव निधाय समिधा सह। त्रिवारमेकं संस्कृत्य गृहीत्वा सायमग्नये (तेषां द्वादशद्रव्याणां मध्वे एकं द्रव्यमित्यर्थः)। स्वाहेति मन्त्रमुद्दार्य्य कुर्व्वीत प्रथमप्राहुतिम्! प्रातर्होमे तु सूर्य्याय स्वाहेति प्रथमाहुतिम्। तूष्णीं प्रजापतिं ध्यायन्नुभयत्र द्वितीयिकामिति”। अत्रान्योविशेषः स्वशाखोक्तोऽवगन्तव्यः। होमस्थानं स्मृत्यर्थसारे “बहुशुष्के न्धनेनाग्नो सुसमिद्धे हुताशने। अङ्गारे लेलिहाने च होतव्यं नान्यथा क्वचित्। योऽनर्चिषि जुहोत्यग्नौ व्यङ्गारे चैव मानवः। मन्दाग्निरामयावीच दरिद्रश्चोपजायते। अग्निः प्रदक्षिणावर्त्तः शर्मदश्च शुवावहः” इति। अग्न्युपस्थानमन्त्रानाह शौनकः “परिसमुह्य च पर्य्युक्ष्याप्युपतिष्ठेद्धविर्भुजम्। अग्नेः सूक्तैश्च सौरैश्च प्राजापत्यैश्चनित्यशः” याज्ञ०। हुत्वाग्नीन् सूर्यदेवत्यान् जपेन्मन्त्रान् समाहितः” एतद्धोमं प्रशंसत्यङ्गिराः “यद्दद्यात्काञ्चनं मरुं पृथिवीं च ससागराम्। तत्सायं प्रातर्होमस्य तुल्यं भवति वा नवेति”। अन्यत्रापि “नाग्निहोत्रात्परोधर्म्मो नाग्निहोत्रात्परं तपः। नग्निहोत्रात्परं स्नानं नाग्निहोत्रात्परा गतिरिति” अकरणे प्रत्यवायमाह गर्नः “कृतदारोन तिष्ठेत क्षणमप्यग्निना विना। तिष्ठेत चेहिजोव्रात्यस्तथा च पतितो भवेत्। यथा स्नानं यथा सन्ध्या वेदस्याध्ययनं यथा। तयैवौपासनं कार्य्यं न स्थितिस्तद्वियोगतः। यो हि हित्वा विवाहाग्निं गृहस्थ इति म- न्यते। अन्नं तस्य न भोक्तव्यं वृथापाकोहि स स्मृतः। वृथापाकस्य भुञ्जानः प्रायश्चित्तं समाचरेत। प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यतीति”। तस्याशौचेऽपि कर्त्तव्यतामाह याज्ञ०। “वैतानौपासनाः कार्य्याः क्रियाश्च श्रुतिनोदनात्”। ङीबभाव आर्षः लोके तु औपासनीत्येव

औपोदिति = पुंस्त्री उपोदितस्यापत्यम् इञ्। उपोदितर्षेरपत्ये स्त्रियां ङीप्। तस्या अपत्यम् ढक्। औपोदितेयः तस्या अपत्ये। “उतोहस्माहौपोदितेय एषवाव मह्यं गा दास्यति” शत० ब्रा० १, ९, ३, १६।

औमा(क) = त्रि० उमाया विकारः अण्वुञ् वा। अतस्याविकारे।

औमायन = त्रि० उमाया निमित्तं संयोग उत्पातो वा अश्वा० फञ्। अतस्या निमित्ते संयोगे उत्पाते च स्त्रियां ङीप्।

औमीन = त्रि० उमानां भवनं क्षेत्रम् खञ्। अतसीभवनेक्षेत्रे।

***