एज = कम्पने भ्वा० आत्म० अक० सेट्। एजते ऐजिष्ट एजांबमूव आस चक्रे। एजकः एजितव्यः एजिता। एजितः एजमानः एजनम् णिच्। एजयति जनमेजयः। “क्षुद्रमन्त्रमत एजयतेऽक्षिणी मे” भाग० ५, २, १५। वेदे गणव्यत्यासः। “एजतु दशमास्यो गर्भः” यजु०, २८ अथास्य मध्यमेजतु” २३, २७ मुष्का विदस्या एजतो गोशफ” २३, २८। “उदेजति पतति यस्य तिष्ठति” अथ० २०८ ११, १। “सुखेन वृष्णिरेजति” ऋ० १, १०, २ उदङ्ङे जत्यन्तरा वा एतदाहबनीयम्” श० ब्रा० १, ५, १, २५ क्वचिल्लोके तथा। “शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः। सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रोऽयमेजति” भा० आ० ८० अ० “त्वत्तःपरं नापरमप्यनेजदेजच्च किञ्चिद् व्यतिरिक्तमस्ति” भाग० ७, ३, ३०। बलीपलित एजत्कः” भाग० ६, ९, ४२, एजत्कः कम्पमानशीर्षः”अप + अपगमने एङि पररूपम् अपेजते। क्वचिदन्तर्भूतण्यर्थेऽपि। “अपेजते शूरो अस्तेव शत्रून्” ऋ० ६, ६४, ३ “शत्रून् अपेजते अपगमयति भा०। उद् + ऊर्द्ध्वगतौ उदेजते। “उदेजतु प्रजापति र्वृषा शुष्मेण वाजिना अथ० ४, ४, २, “उदेजयान् भूतगणान्न्यषेधीत्” भट्टिः। प्र + प्रकर्षचलने पररूपम् प्रेजते। सम् + सङ्गतौ नियमेन चलने “एवेदनु द्यून् किरण० समेजात्” ऋ० १०, २७, ५। “समेजात् नियमेन प्रयाति” भा०।

एज = दीप्तौ भ्वादि० पर० अक० सेट्। एजति ऐजीत्। एजाम्बभूव आस चकार। एजन्।

एजथु = पु० एज–बा० भावे अथु। कम्पे “महानवेग एजथुर्वेपथुष्टे” अथ० १२, १, १८।

एजय = त्रि० एज–णिच्–खश्। कम्पके जनमजयः अनङ्गमेजयः अरिमेजयः विश्वमेजयः।

एजि = त्रि० एज–इन्। वातरोगग्रस्ते ततीऽपत्ये कुर्वा० ण्य। ऐज्य तदपत्ये पुंस्त्री।

एज्य = त्रि० आ + यज–कर्म्मणि क्युप्। सम्यग्यजनीये “आयजतामेज्या इष इति प्रजाया इषस्ता एवैतद्यायजूकाः” शत० ब्रा० १७, ३, १५।

एठ = बाधने भ्वादि० आत्म० अक० सेट्। एठते ऐठिष्ट रठाम् बभूव आस चक्रे। एठनम् एठितः। बाधनमत्र शाठ्यम्

एड = पुंस्त्री इल–स्वप्ने अच् डस्य लः। १ मेषे “श्वैडवराहेषूद धारा प्राचीदं विष्णुरिति” कात्या० २५, ४, १८। स्त्रियां जातित्वात् ङीष् २ बधिरे त्रि०। एडमूकः।

एडक = पुंस्त्री० इल–ण्वुल् डंस्य लः। १ वनच्छागे, २ पृथु शृङ्गे मेषे ३ मेषमात्रे च जातित्वात् स्त्रीत्वे अजादि त्वात् टापि क्षिपकादि० नात इत्त्वम् एडका। एड इव प्रतिकृतौ कन्। मेषसदृशे दक्षिणापथप्रसिद्धे ४ पशुभेदे। वर्द्धन्ते पक्षिसंघाश्च तथा पशुगवेडकम्” भा० व० १४२ अ०। तस्येदम् अण्। ऐडक तत्संबन्धिनि त्रि० स्त्रियां ङीष्। “अनैडकीरूर्णाः प्रक्षाल्य” कात्या० ५, ३, ७। एडको नाम दक्षिणापथे मेषाकृतिः पशुः तस्येमाः ऐडक्यः” कर्क० “तयोर्मेषे मेष्यां च यद्यनैडकीरूर्ण्णा विन्देत ताः प्रणिज्य निश्लेषयेत्” शत० ब्रा० २, ५, २, १५, एडकैवाचरपि क्यच् एडकीयति उपसर्गस्थावर्णात् परस्य वा पररूपम् उपे(पै)डकीयति

एडगज = पु० एडोमेष एव गज इव भक्षकत्वादस्य। (दादमर्द्दन) चक्रमर्दे दद्रुघ्ने वृक्षे अमरः।

एडमूक = श्रि० श्रुतिरहितएडोबधिरश्चासौ मूकः। वाक्श्रुतिशक्तिरहिते।

एडु(डू)क = न० ईड–(ऊ)उक उलूका० नि० गुणः। १ अन्तर्न्यस्तास्थियुक्ते २ अन्तन्यस्तकठिनद्रव्ययुक्ते च कुड्येतभित्तिमात्रे च। एडूकचिह्ना पृथिवी न देवगृहभूषिताः” भा० व० १०। तस्य पुंस्त्वमपि “एडूकान् पूजयिष्यन्ति पर्ज्जयिष्यन्ति देवताः” भा० व० १९० अ०। स्वार्थेऽण। ऐडूकमपि वा० ओकः एडोकमपि तत्रैव द्विरूपकोषः।

एण = पुंस्त्री इ–ण तस्य नत्त्वम्। कष्णवर्णे मृगे। स्त्रियाम् ङीप् “यस्य स्तनप्रणयिभिर्मुहुरेणशावैः” रघुः। “अष्टा- वेणस्य मांसेन रौरवेण नवैव तु” मनुः। तस्य कृष्णत्वमुक्तम् छन्दोग० “अनृचोमाणवोज्ञेय एणः कृष्णमृगः स्मृतः। रुरुर्गौरमुखः प्रोक्तः शंवरः शोण उच्यते”। “तं त्वेणकुणकं कृपणं स्रोतसानुह्यमानम्” भाग० ५, ८, ८ “एणकुणकं मृगशावकम्” श्रीधरः। एगया क्रीतम् “एण्या ढञ् पा० ढञ्। ऐणेय एणीक्रीते त्रि०। एणेन क्रीतमित्यत्राणेव। ऐण तत्क्रीते त्रि०। स्वार्थे कन्। एणक तत्रैव शब्दरत्ना०।

एणतिलक = पु० एणस्तिलकमिव चिह्नं यस्य। मृगाङ्के चन्द्रे हारा०।

एणभृत् = पु० एणं बिभर्त्ति भृ–क्विप ६ त०। चन्द्रे तस्यमृगाङ्गत्त्वात् तथात्वम्।

एणीपचन = न० एणी पच्यते अत्र पच–आधारेल्युट् “एणीपाकाधारे देशभेदे स्त्रीपशीरबध्यत्वेऽपि तद्देशवासिभिर्निषेधमुल्लङ्घ्यतत्पचनात्तथात्वम्। तत्र भवः पक्वे छ। एणीचनीय तद्देशभवे त्रि०

एणीपद = त्रि० एण्याःपादाविव पादावस्य अच् नि० पद्भावः। एणीपादाकारपादयुक्ते।

एत = पु० इण–तन्। १ कर्व्वुरवर्णे। २ तद्वति त्रि०। तोपधवर्णवाचित्वात् स्त्रियां ङीप् तस्य नश्च। “त्र्येन्याः शलल्याः” श्रुतिः “मैत्रोवरुण्योऽन्यत एन्योमैत्र्यः” यजु० २४, ८। वर्णवाचिनि एते परे “वर्ण्णोवर्ण्णेष्वनेते” पा० एतशब्दपर्य्युदासात् तत्पुरुषे पूर्ब्बपदं न प्रकृत्या। कृष्णैतः शुक्लैत इत्यादौ न प्रकृतिस्वरः। आ + इणकर्त्तरि क्त। ३ आगते त्रि०। “कया मती कुत एतास एतेऽर्चन्ति” ऋ० १, ६५, १। “एतास आगताः” भा० महो भिरेता उपयुज्महे” ऋ० १, ६६, ५। “एतानागन्तून्” भा०

एतग्व = पु० एतवर्ण्णोऽश्वः पृषो०। १ चित्तवर्ण्णाश्वे। “एतग्वा चिद्य एतशा युयोजते हरी” ऋ० ८, ७०, ७। “एतग्वा एतवर्ण्णावेवाश्वौ” भा०। “पिपर्त्त्येतग्वा चिन्न सुयुजा युजानः” ऋ० ७०, ७, २। २ अश्वमात्रे निरु०।

एतद् = त्रि० इण्–अदि तुक् च। बुद्धिस्थे समीपवर्त्तिनि “इदमस्तु सन्निकृष्टं समीपवर्त्ति चैतदोरूपम्। अदसस्तु विप्रकृष्टं तदिति परोक्षेविजानीयात्” इत्युक्तेः समीपवर्त्ति बुद्धिस्थोपलक्षितधर्म्मावच्छिन्ने एतदो वृत्तिः। क्रियविशेषणत्वेऽस्य क्लीवता “न वा उ एतन्म्रियसे ऋ० १, १६२, २१। अस्य सर्ब्बनामकार्य्यम्। एते एतस्मै एतस्मात् एतेषाम् एतस्मिन् एतस्या एतासामित्यादि। “एते वयममी दाराः” कुमा०। “देवा एतस्यामवदन्त पूर्व्वे” १०, १००, १४। एष वैप्रथमः कल्पः” मनुः। “एतणि- न्नन्तरे देवी” देवीमा० “एतान् महाराज! विशेषधर्म्मान्” शु० त० पुरा०। “एषा तेऽभिहिता सांख्ये” “एतत्ते सर्वमाख्यातम्” गीता। अनूक्तौ तु “द्वितीयाटौस्मेनः” पा० एनम् एनौ एनान् एनेन एनयोः। “एनोनिवृत्तेन्द्रियवृत्तिरेनम्” रघुः। “महाशनोमहापाप्मा विद्ध्येनमिह वैरिणम्” गीता क्लीवेऽपि अनूक्तौ एनादेशः। इदं कुलं शोभते एनत्पश्य। परिमाणे वतु आदन्तादेशश्च। एतावत् एतत्परिमाणे त्रि० “एतावानेव पुरुषोयज्जायात्मा प्रजेति ह” मनुः “किंवेतावन्मात्रमुपजानीन” शत० ब्रा० १, ६, १, ४। “एतावदुक्त्वा विरते मृगेन्द्रे” रघुः “एतावता नन्वनुमेयशोभि” कुमा० स्त्रियां ङीप्। “एतावती महिना सं बभूव” ऋ० १०, १२५८। एतदि दृश–क्विन् क्स टक्। आदन्तादेशः। एतादृश् एतादृक्ष एतादृश एतत्तुल्यदर्शने त्रि० तत्र क्विनन्तस्य झलि पदान्ते च कुः “एतादृक्कृशता कुतः” सा० द०। टगन्तस्य स्त्रियां ङीप्। “अस्थाने पततामतीव महतामेतादृशी स्याद्गतिः” उद्भटः। तस्येदमित्यर्थे छ। एतदीय एतत्सम्बन्धिनि त्रि०। एतदात्मकः मयट् एतन्मय एतदात्मके त्रि०। परिमाणे मात्रच्। एतन्मात्र एतत्परिमाणे त्रि० स्त्रियां ङीप्। दिग्देदेशकालवृत्तेस्तस्मात् प्रथमापञ्चमीसप्तम्यर्थे त्रल् तसिश्च। एतत्र एतस् प्रथमाद्यर्थयुक्तैतच्छब्दार्थदिगादौ अव्य०। अन्वादेशे “एतदोऽश् त्रतसोस्त्र तसौ चानुदात्तौ” पा० उक्तेः अशादेशे अत्र अतः इत्येवेति भेदः।

एतन = पु० आ + इण्–तन। निश्वासे हेमच०। निश्वासस्य सन्ततगतित्वात्तथा।

एतर्हि = अव्य० इदम् + काले र्हिल् “एतैतौ रथोः” पा० एतादेशः। अस्मिन् काले इत्यर्थे “अथ योऽयमेतर्ह्यग्निः स भीषा निलिल्ये” शत० ब्रा० १, २, ३, १। “एतर्हि खलु वा एतद्यज्ञमुखम्” तैत्ति०।

एतश = पु० इण्–तशन्। १ ब्राह्मणे उज्ज्व० २ अश्वे निरु०। “येन वृश्चादेतशो ब्रह्मणस्पतिः” ऋ० १०, ५३, ९। “यत्रैतशोऽभिधीयसे” यजु० ४, ३२। “सजूः सूर एतशेन” १२, ७४। एतशेनाश्वेनेति” वेददी० “उभे चक्रं न वर्त्येतशस्” ऋ० ८, ६, ३८।

एतशस् = त्रि० इण्–तसुन्। १ ब्राह्मणे २ अश्वे च।

एदिधिषुःपति = पु० इण्–विच् कर्म्म० पृषो० मध्ये सुट्। अग्रेदिधिषुंपतौ। “निरृत्यै, परिविन्दानमारद्ध्या अदित्यै, एदिधिषुःपतिं निष्कृत्यै” यजु० ३०, ९। पुरुषमेधीयपशुदेवताभेदकीर्त्तने

एध = वृद्धौ भ्यादि० आत्म० अक० सेट्। एधते ऐधिष्ट। एधाम्बभूव–आस–चक्रे। एधितव्यः एधनीयः एध्यः एधिता एधितः एधनम् एधः एधमानः एधित्वा समेध्य एधांसि। “हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते” मनुः। क्वचिदस्य आमभावः “यत्र मैथुनैरेधिरे प्रजाः” भाग० ३, २१, १। आर्षत्वात् समाधेयः “तपसा महतैधित” भा० आ० ८८३। “विवर्द्ध ज्वलना इवैधमानाः” ७१, ५५। “लोकयोरुभयोः शक्यं नित्यदा सुखमेधितुम्” रामा०। क्वचित् पर०। “न हि साहसकर्त्तारः सुखमेधन्ति भारत!” भा० व० २४५ अ०। णिचि एधयति ते ऐदिधत् त। “किं त्वं मामजुगुप्सिष्ठानैदिधः स्वपराक्रमम्” भट्टिः। उपसर्गस्थावर्णात् वृद्धिरेव न पररूपं प्रैधते एङादित्वे एव तथा तेन मा प्रेदिधत् इत्यादौ न वृद्धिः।

एध = पु० इध्यतेऽग्निरनेन इन्ध–करणे घञ् नि० नलोपगुणौ। काष्ठे “एधान् हुताशनवतः स मुनिर्ययाचे” रघुः “एधोदक्वं मूलफलमन्नमभ्युदितं च यत्” मनुः। “यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति” भा० व० ८४ अ०।

एधतु = पु० एध–कर्त्तरि चतु। १ पुरुषे उज्व०। २ अग्नौ मे० ३ वृद्धियुक्ते त्रि० शब्दर० भावे चतु। ४ वृद्धौ स्त्री। “युवं हिष्मा पुरुभुजेममेधतुम्” ऋ० ८, ८६, ३, “एधतुं धनादिवृद्धिम्” भा० “ते हैतामेधतुमेधाञ्चक्रिरे” शत० ब्रा० ६, २, ३, “एतामेधतुमृद्धिम्” भा०

एधस् = न० इध्यतेऽग्निरनेन इन्ध–असि नि० नलोपगुणौ। काष्ठे “यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्ज्जुन।” गीता। “अनलायागुरुचन्दनैधसे” रघुः। “फलैधः कुसुभस्तेयमधैर्य्यञ्च मलावहम्” “यथैधस्तेजसा वह्निः” मनुः।

एधा = स्त्री एध–भावे अ। समृद्धौ अमरः

एधित = त्रि० एध–कर्त्तरि क्त। १ वृद्धे णिच्–कर्म्मणि क्त। २ वर्द्धिते त्रि०। “मधुसमृद्धिसमेधितमेधया” माघः।

एनस् = ब० एति गच्छति प्रायश्चित्तेन क्षमापणेन वा आगसि अर्थे इण–असुन् नुट् च। १ अपराधे। ईश्वराज्ञा लङ्घनरूपनिषिद्धाचरणापराधजन्यत्वात् २ पापे च। “एनोनिवृत्तेन्द्रियवृत्तिरेनम्”। “अकामोपनतेनेव साधोर्हृदयमेनसा”। “एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम्” मनुः। पापभेदाश्च प्रा० वि० दर्शिताः यथा “अथ पापोद्देशः। तत्र विष्णुः “अथ पुरुषस्य काम क्रोधलोभाख्यं रिपुत्रयं सुघोरं भवति परिग्रहप्रसङ्गाद्विशेषेण गृहाश्रमिणस्तेनायमाक्रान्तोऽतिपातक महापातकानुपातकोपपातकेषु प्रवर्त्तते। जातिभ्रंश करेषु सङ्करीकरणेषु अपात्रीकरणेषु मलावहेषु प्रकीर्ण्णेषु च”। अनेन नवविधत्वं पापस्योक्तम्। हारीतस्तु पञ्चविधत्वमाह “पञ्चविधमशुद्धं भवति प्रासङ्गिकोपपातकपातकमहापातकात्यन्तपातकानि” पूर्ब्बवचने पूर्व्वं पूर्ब्बं गरीयः अत्र तूत्तरोत्तरम्। प्रासङ्गिकं जाति भ्रंशकरादिपञ्चकम्। पातकपदमनुपातकपर्यायः। ननु नवस्वेव पापेषु पातकशब्दो दृश्यते यथा पैठीनसिः “स्त्रीगोवृषलवैश्यक्षत्रियघाती शूद्रसहभोजी कन्यादूष्यगारदाही वृषलीपतिः अग्न्युच्छेदी चेति पातकानि” नवविधं पापमभिधायाह विष्णुः। “एवं पातकिनः पापमनुभूय सुदुखिताः। तिर्य्यग्योनौ प्रपद्यन्ते दुःखानि विविधानि च”। याज्ञवल्क्यः “नीचाभिगमनं गर्भपातनं भर्त्तृहिंसनम्। विशेषपतनीयानि नृणामेतान्यपि ध्रुवम्”। पतनीयानि पातकानीत्यर्थः। “कृत्यल्युटोबहुलमिति” करणेऽनीयर्। तथा गौतमः “ब्रह्महासुरापगुरुतल्पगमातृपितृयोनिसम्बन्धागस्तेन नास्तिकनिन्दितकर्म्माभ्यासिपतितात्याग्यपतितत्यागिनः पतिताश्च पातकसंयोजकाश्च तैश्चाव्दं समाचरन्”। पातक संयोजकाः सुरापाणादौ यः परान् प्रयोजयति सः। बाढम्। सामान्यशक्तस्यापि विशेषशक्तिर्भविष्यति मृगादिपदस्येव, हारीतेन विशेषगणने पाठात्। तथा च्यवनः “अथ पातकोपपातकमहापातकानि व्याख्यास्यामः” इति। तथा च पठन्ति। “महापातकतुल्यानि पापान्युक्तानि यानि तु। तानि पातकसंज्ञानि तदूनमुपपातकमिति”। ततो महापातकतुल्यपापविशेषेष्वप्यस्य शक्तिः। पतनशब्दार्थमाह गौतमः “द्विजातिकर्म्मभ्योहानिः पतनम् परत्र चासिद्धिस्तमेके नरकम्”। द्विजातिकर्म्म श्रौतमग्निहोत्रादि स्मार्त्तमष्टकादि प्रायश्चित्ततदङ्गजपादिव्यतिरिक्तम् तेभ्योहानिरनधिकारः इति। द्विजाति ग्रहणं प्राघान्यार्थम् शूद्रस्यापि वाक्यान्तरेण पातित्याभिधानात्। इहलोके तावत् पातित्यलक्षणमनिष्टं परलोके चासिद्धिः पापकर्म्मप्रतिबन्धादुपात्तसुकृतफलानिष्पत्तिः नरकं वा। सूतकादिव्यावृत्यर्थमिदम्”।

पापलक्षणं पापसत्तायां प्रमाणञ्च प्रा० वि० दर्शितं यथा “ननु किं पापलक्षणम्” उच्यते “नोदनालक्षणार्थोधर्म्मः!” इत्यस्मिन् सूत्रे वेदैः प्रतिपाद्योऽर्थोधर्म्म इति धर्म्मलक्षणं कुर्य्यता सूतकारेण जैमिनिना वेदैकप्रतिपाद्योऽनर्थो-ऽधर्म्म इत्यधर्म्मलक्षणं सूचितम्। अनर्थश्चानिष्टसाधनं तथाचोक्तं भाष्यकृता “कोऽर्थोयोऽभ्युदयाय कोऽनर्थोयोऽनभ्युदयायेति”। ननु पापसत्तायां किं प्रमाणं न तावद्वेदः तस्य कार्ये कार्यान्विते वा प्रामाण्यात् न च दुरितापूर्व्वं कार्य्यं कार्य्यान्वितं वा। न च नित्यकर्म्मानाचरणस्य निषिद्धाचरणस्य च वेदोक्तप्रत्यवायसाधनत्वानुपपत्त्याकम्प्यम् तस्य तयाविधशब्दाभावेन सिद्धत्वेन चावगन्तुमशक्यत्वात् उच्यते “यो ब्राह्मणायावगुरेत्तं शतेन यातयेदिति” श्रुतौ लिङ्द्वयश्रुतेरवगोरणशतयातनयोः साध्यसाधनफलभावोऽवगम्यते “हेतुहेतुमतोर्लिङिति” पा० लिङः स्मरणादिति यथोक्तं शंय्वधिकरणे, तथाऽऽत्रापि क्वचित् पञ्चम्या क्वचित् तृतीयया क्वचिच्च विशेषणपदादवगम्यते। यथा याज्ञवल्क्यः “वहितस्याननुष्ठानान्निन्दितस्य च सेवनात्। अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति”। मनुः “शरीरजैः कर्म्मदोषैर्याति स्थावरतां नरः। वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम्। इह दुश्चरितैः केचित् केचित् पूर्व्वकृतैस्तथा। प्राप्नुवन्ति दुरात्मानोनरारूपविपर्य्ययम्”। तथा विष्णु पुराणम् “नरकं कर्म्मणःपापादेवमाहुर्महर्षयः”। तथायमः “सुरापो ब्रह्महा गोघ्नः सुवर्ण्णस्तेयकृन्नरः। पतितैः संप्रयुक्तश्च कृतघ्नोगुरुतल्पगः। एते पतन्ति सर्ब्बेषु नरकेष्वनुपूर्ब्बशः”। अत्रैते सुरापादयः पतन्तीति सुरापादीनां पतनकर्तृत्वावगतेः कर्तृत्वञ्च साधनत्वविशेषः अतः सुरापाणादिविशिष्टस्य पुरुषस्य पतनसम्बन्धे विशेषणस्य सुरापाणादेः सति सम्भवे पतनसाधनत्वमवगम्यते “मप्तदश प्राजापत्यान पशूनालभेतेति वत्। एवं “वारिद स्तृप्तिमाप्नोति” इत्यादावपि। नरकसाधनत्वस्य कार्य्यान्वया भावात कथं शब्दादवगतिरिति चेत् शंयुवद्विषयविशेषण तया इति व्रूमः यथा शतयातनासाधनादवगोरणान्निवर्त्तितव्यमिति विधिः, तथा नरकसाधनात् सुरापाणादेर्न्निवर्त्तेतेति, नित्येऽपि यस्याकरणे प्रत्यवायस्तस्मिन् कर्म्मणि प्रवर्त्तेतेति विध्यङ्गीकारात्। अथवा यद् यत्साधन तदभावस्ततपरीहारसाधनमिति लोकादवगतत्वात् अर्थात् प्रत्यवायपरिहारस्योपस्थितत्वात् तदर्थिनोऽधिकारोनित्यनिषेधेष्वपि। ननु “अहरहः सन्ध्यानुपासीत” इत्यादौ जीवनस्यसन्ध्योपासनव्याप्त्यवगमात् जीवनवतोऽधिकारः। “न कलञ्जम्भक्षयेत्” इत्यादौ निवृत्तिस्वभावनिरुद्धा प्रवृत्ति रधिकारिविशेषण तथाचोवोक्त “मनसा तु प्र- वृत्तस्य भूतचेष्टावतोऽपि वा। यदनागतभावस्य वर्ज्जनं तन्निवर्त्तनमिति” अतः कथं प्रत्यवायपरीहारार्थिनोऽधिकारः उच्यते प्रत्यवायपरीहारस्याप्युपस्थितत्वात् जातेष्टिवत् संवलिताधिकार एव भविष्यति तथा च जावालः “क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते। अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्वते। नित्यक्रियान्तथैवान्ये ह्यनुषङ्गफलां श्रुतिम्”। अनुत्पत्तिमित्यनेन प्रववायपरीहारः फलमित्युक्तम्। अथवा प्रायश्चित्तविधिषु रात्रिसत्रन्यायेनार्थ वादिकपापक्षयार्थिनोऽधिकारात्। एवं च विधयः पाप्रसत्तां बोधयन्ति तथाचाङ्गिराः “उद्गच्छन् यद्वदादित्यस्तमः सर्व्वं व्यपोहति। तद्वत्कल्याणमातिष्ठन् नरं पापं व्यपोहति”। पापञ्चेद् पुरुषं कृत्वा कल्याणमभिपद्यते। मुष्यते पातकैः सर्व्वेर्महाभ्रैरिव चन्द्रमाः”। काल्याणं प्रायश्चित्तम्। यमः “तपसोऽन्ते विशुद्ध्यन्ति कर्मणां वापरिक्षयात्। तस्मात् कर्त्तव्यमेतत्तु प्रायश्चित्तं विशुद्धये”। कर्म्मणां भोगेन परिक्षयादित्यर्थः। अपरं स्मृत्यन्तरे ज्ञेयमिति। ननु किं पापोत्पत्तिकारणम्? उच्यतेविहिताकरणं निषिद्धाचरणञ्च पापकारणं तदाह मनुः। अकुर्वन् विहितं कर्म्मनिन्दितञ्च समाचरन्। प्रसजंश्चेन्द्रियार्थेषु प्रायश्चित्तीयते नरः”। प्रायश्चित्तार्हताज्ञापनेन पापसत्तां प्रतिपादयति। तथमयाज्ञवल्क्यः। “विहितस्याननुष्ठानान्निन्दितस्य च सेवनात्। अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति”।

पापस्य यथा वेदबोध्यत्वं तथा मीमां० भा० दर्शितम् यथा “उभयमिह चोदनया लक्ष्यते अर्थोऽनर्थश्च इति कोऽर्थ? यो निश्रेयसाय ज्योतिष्टोमादिः। कोऽनर्थः? यः प्रत्यवायाय श्येनोवज्रः इषुरित्येवमादिः तत्र अनर्थो धर्म्म उक्तोमा भूत् इति अर्थग्रहणम्। कथंपुनरनर्थ? हिंसा हि सा साच प्रतिषिद्धेति। कथंपुनरनर्थः कर्त्तव्य तयोपदिश्यते?। उच्यते नैव श्येनादरः कर्त्तव्यः विज्ञा यते योहि हिंसितुमिच्छेत् तस्यायमभ्युपायः इति हि तेष मुपदेशः “श्येनेनाभिचरन् यजेत” इति समामनन्ति हि “नाभिचरितव्यम्”। “अतएव मूलकर्म्मरूपाभिचारस्योपपातकसंज्ञा कृता मनुना तेन तस्यानर्थहेतुत्वं तव्यक्तमेव। यथा च कलञ्जभक्षणश्येनादेरनिष्टसाधनत्वेऽपि वेदबोध्यत्वं तथा शब्द० चि० समर्थितं यथा मनु “व कलञ्जं नक्षयेत्” इत्यत्र विध्यर्थनिषेधानुपपत्तिः तद्भक्षणस्य दृष्टेष्टसाधनत्वात्। न चासुराविद्यावत् पर्य्युदासलक्षणया विबोध्यनिष्टसाधनताबोधन, नञोऽसमस्तत्वात् क्रियासङ्गतत्वेन प्रतिषेधवाचकत्वव्य तपत्तेश्चेति चेत् न विशेष्यवति विशिष्टनिषेधस्य “सविशेषणे हीति” न्यायेन विशेषणभिषेधपर्य्यवसायितया कलञ्जभक्षणमिष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखसाधनमिति “न कलञ्ज भक्षयेत्” इत्यनेन बोधनात्। इष्टसाधनतावाचकस्य विधेः सामान्ये निषेधानुपपत्तेर्बलवदनिष्टाननुबन्धीष्टसाधनविशेषे तात्पर्य्यम् तथा चाशक्यविशेषणनिषेधपरत्वं नज इति कश्चित् तन्न यथाह्ययोग्यतया छिद्रं विहाय घटत्वेन तदितरान्वयो न तु छिद्रेतरत्वेन, युगपद्वृतिद्वयविरोधात् तथेहापि बलवदनिष्टाननुबन्धित्वेन नोपस्थितिरिति कथं निषेधः?। “श्येनेनाभिचरन् यजेत” इत्यत्र कयं विधिप्रवृत्तिः हिंसाया बलवदनिष्टसाधनत्वादिति चेत् तत्र कृतिसाध्यत्वे सति इष्टसाधनता योग्यतया न्येति न तु बलवदनिष्टाननुबन्धित्वमपि अयोग्यत्वात् निन्दार्थवादेन प्रायश्चित्तोपदेशेन वा हिंसाया बलवदनिष्टसाधनत्वोपगमात्। अत एव विहितेऽपि श्येने विणनान्नतात्त्विकप्रवृत्तिः। रागद्वेषयोरुत्कटत्वेनानिष्टाननुबन्ध्यं शम्य तिरोधानात्तु कस्यचित् प्रवृत्तिरित्येके। अन्येत्वभिचारस्य वैरिबधफलत्वेन श्रुतत्वात् तत्साधनत्वेन श्येनोविधीयते नतु बधसाध्यनरकसाधनत्वेनाश्रुतत्वात्। न च जनकजनकस्य जनकत्वनियमः कुम्भकारपरम्परायाः कुम्भ कारणत्वापत्तेः विधिनैव श्येनस्य बलवदनिष्टाननुबन्धित्वस्य बोधनाच्च। न च श्येनस्य नरकाहेतुत्वेनापेक्षितवेरिषधहेतुत्वे सत्यविगीतत्वेन प्रवृत्तिः स्यादिति वाच्यम्। श्येनाद्वेरिबधोबधाच्चावश्यं नरकमिति प्रतिसन्धानेन विगानात्। ननु श्येनोमरणफलकव्यापारत्वेन हिंसा हिंसा च नरकजनिकेति चेन्न। नहि साक्षात् परम्परासाधारणमरणफलकव्यापारो हिंसा कूपादौ नष्टे गवि तत्कर्त्तुर्हन्तृत्वप्रसङ्गात् बध्यस्यापि हन्तृमन्यूत्पादनद्वारात्महन्तृत्वप्रसङ्गाच्च। न ह्यनुत्पादितमन्युः कश्चित् कञ्चित् व्यापदयति। नन्वनुनिष्पादितमरणफलकव्यापारो हिंसा यदनन्तः मरणं भवत्येव न च श्येनस्तथा किन्तु खड्गहनना दिकमेव। अथ मरणानुकूलोव्यापारो मरणेद्देशेनानुष्ठीयमानो हिंसा श्येनश्च तथा, कूपादौ च न मरणोद्देशेनानुष्ठोयमानत्वमिति चेत् एव सति गौरवात् मरणानुद्देशेन क्षिप्तनारासाद्धते ब्राह्मणे हिंसा न स्यात्। हिनस्तिधात्वर्थतावच्छेदकं फलमव्यषहितमेव मरणम् अव्यवहितफलकव्यापारस्यैव धातुवाच्यत्वात् अन्यथा परम्प रया विकॢत्तिफलकान्नकामे तण्डुलं कुर्वत्यपि पचतीति प्रसङ्गात् अथ खड्गघातानन्तरं यत्र विलम्बेन मरणं व्रणपाकपरम्परया वा, अन्ने विषप्रयोगेण वा तत्र हन्तृत्वं प्रायश्चित्तादि च न स्यादिनि चेत् न प्रायश्चित्ततुल्यत्वार्थं हि तत्र हन्तृत्वव्यपदेशो गौणः विनिगमनन्तु लाघवमेव

वस्तुतस्तु मरणोद्देशेन कृतोऽदृष्टाद्वारकस्तदनुकूलोव्यापारः हिंसा श्येनश्चादृष्टद्वारामरणसाधनमतो न हिंसा। यद्यदृष्टद्वारा मरणसाधनं हिंसा स्यात्तदा सप्तमीतैलाभ्यङ्गस्यादृष्टद्वारेण विनाशसाधनत्वात् तत्कर्त्तुः हिंसकत्वापत्तिः। अत एव कूपादौ गोमरणेऽपि न गोबधकर्त्तृता तत्कर्त्तुः, गललग्नान्नमरणेन भक्तुरात्महन्तृत्वं, परिवेषयितुर्वा ब्राह्मणहन्तृत्वम्। व्रणपाकपरम्परया विलम्बेन विषप्रयोगेण च हन्तृत्वं मुख्यमेव। नाप्यनुनिष्पादितमरणफलकत्वं, गललग्नान्नमरणेस्वहन्तृत्वापत्तेः। अन्योद्देशेन क्षिप्तना राचहते ब्राह्मणे ब्राह्मणहन्तृत्वं न स्यादिति चेत् न इष्टा पत्ते। व्यपदेशः प्रयोगो वा लक्षणया समर्थयितुं शक्यते, त्वत्पक्षेऽतिप्रसङ्गो वारयितुं म शक्यत इतीदमेव विनिगमनम्। अन्योद्देशेन कृतेऽपि निषिद्धे प्रायश्चित्तार्द्धमुक्तम्। अपरे तु अनभिसंहितावान्तरव्यापारमद्वारीकृत्य मरणसाधनं हिंसा, खड्गकारस्यानभिसंहितावान्तरव्यापारद्वारा मरणसाधनत्वं तस्य हि अवान्तरव्यापारोनाभिसंहितः। किन्तु धनलाभ इति खड्गकारो न घातकः विषस्यान्ने प्रक्षेपणमवान्तरव्यापारो भोजनमेवाभिसंहितम् अनेनेद भोक्तव्यमिति सन्धाय विषप्रयोगादिति हिसैव विषप्रयोग इति तन्न गणलग्नान्नकवलाद्यत्र मरणं तत्र परिवेषयितु र्षातकत्वापातात् अनेनेदं भोक्तव्यमित्यभिसन्धायैवान्नपरिवेषणात् भोक्तुःहन्तृत्वापत्तेश्च अनभिसंहितमवान्तर व्यापारमद्बारीकृत्य मरणानुकूलभक्षणानुष्ठानात्। अत एव अव्याहितप्राणवियोगफलकोव्यापारो हिंसा व्रणपाकपरम्परयामृते न हन्तृत्वं व्यापारव्यवधायकत्वादिति निरस्तम्”

श्येनादेर्वेदबोधितत्वेऽपि यथाऽनर्थहेतुत्वं तथाऽभिधार शब्दे दर्शितवचनैरुक्तम् अधिकं श्येनशब्दे वक्ष्यते। एनसाकृतम् यत्। एनस्य पापरचिते त्रि० “यक्ष्ममेनस्यम्” अथ० ८, ७, ३। एनोऽस्त्यस्य मतुप् मस्य वः। एनस्वत् विनि। एनस्विन् पापयुक्ते त्रि० उभयत्र स्त्रियां ङीप। “मा त एनस्वन्तो यक्षिन् भुजेम” ऋ० ७, ८८, ६। एनस्वन्तं चिदेनसः सुदानवः ८, १८, १२। “एनस्विभिरनिर्णिक्ते नार्थं किञ्चित् समाचरेत्”। “अव्दार्द्धमिन्द्रमित्येतदेनस्वी सप्तकं जपेत्” मनुः। “इण आगसोति” उणा० अपराध एव साधुत्वम् पापे तु ईश्वराज्ञालङ्घनरूपापराधजत्यत्वेनोपचारात् इति बोध्यम्।

एम = त्रि० इण–कर्म्मणि म। १ प्राप्ये। “अर्थश्च म एमश्च” यजु० १८, १५, “एमः प्राप्तव्यार्थः” वेददी०।

एमन् = न० एत्यनेन मार्गेण इण–करणे मनिन्। १ गतिमार्गे “कृष्णं त एम रुशतः” ऋ० ४, ७, ९। “कृष्णं त एम रुशदूर्मे १, ५८, ४। “एमन्शब्देन गमनमार्ग उच्यते” भा० एत्यत्र आधारे मनिन्। २ अवस्थितिस्थाने। “पृष्ठे समुद्रस्येमन्” यजु० १३, १७, “एमन् अवस्थाने” वेददी०। “अपां त्वेमन्त्सादयामि” १३, ५३। सप्तम्या लुकि न नलोपः। भावे मनिन्। ३ गमने। “दूरे दृशो ये चितयन्त एमभिः” ऋ० ५, ५९, २ एमभिर्गमनैः” भा०।

एरका = स्त्री इण–बा० र ततः संज्ञायां कन्। निर्ग्रन्थितृणभेदे (नलखाडा) “एरका गुन्द्रमूला च शिम्बी गुन्द्रा शरीति च। एरका शिशिरा वृष्या चक्षुष्या वातकोपिनी। मूत्रकृच्छ्राश्मरीदाहपित्तशोणितनाशिनी” मावप्र०। “ददार करजैरूरावेरकां कटकृद्यथा” भाग० १, ३१९, “एरकाणां तदा मुष्टिं कोपाज्जग्राह केशवः”। भा० मौस० ३ अ० “एरकारूपिभिर्वज्रैर्निज घ्नुरितरेतरम्” भा० आ० २ अ०। २ कौरव्यवंशजे सर्पभेदे “एरकः कुम्बलोवेणी वेणीस्कन्दः कुमारकः” भा० आ० ५७ अ०। नागनामकीर्त्तने

एरङ्ग = पु० आ + ईर–अङ्गच्। मत्स्यभेदे, “एरङ्गोमधुरः स्निग्धो विष्टम्भी शोतलो गुरुः” राजनि० तद्गुणः।

एरण्ड = पु० ईरयति वायुम् मलं वाऽधः ईर–अण्डच् नि० गुणश्च। १ वृक्षभेदे (एरडी)। (भेरण्डा)। “एरण्डयुग्भं भधुर मुष्णं गुरु विनाशयेत्। शूलशोथकटीवस्तिशिरःपीडोदरज्वरान्। व्रध्नश्वासकफानाहकासकुष्ठाममारुतानिति” एरण्डयुग्मम् शुक्लरक्तैरण्डौ “एरण्डपत्रं वातघ्नं कफ कृमिविनाशनम्।। मूत्रकृच्छ्रहरञ्चापि पित्तरक्तप्रकोपणम्। वातार्य्यग्रदलं गुल्मवस्तिशूलहरं परम्। कफवातकृमीन् हन्ति वृद्धि सप्तविधामपि। एरण्डफलमत्युष्ण गुल्भशूलानिलापहम्। यकृत्प्लीहोदरार्शोघ्नं कटुकं दीपनं मतम्। तद्वन्मज्जा च विड्भेदी वातश्लेष्मोदरापह। क्वाथेऽस्य मूलं संग्राह्यमित्याहुरपरे जनाः” “एरण्डर्तलं तीक्ष्णोष्णं दीपनं पिच्छिलं गुरु। वृष्यं त्वच्यं वयःस्थायि मेधाकान्तिषलप्रदम्। कषायानुरसं सूक्ष्मं योनिशुक्रविशोधनम्। विस्रं स्वादुरसं पाके सुतिक्तं कटुकं सरम् (रेचकम्) विषमज्वरहृद्रोगपृष्ठगुह्यादिशूलहृत्। हन्ति वातोदरानाहगुल्माष्ठीलाकटिग्रहान्।। वातशोणितविड्बन्धश्लेघ्मशोथामविद्रधीन्। आमवातगजेन्द्रस्य शरीरवनचारिणः। एक एव निहन्तायमेरण्डस्नेहकेशरी” भावप्र०। स्वार्थे कन्। तत्रैव। एरण्डस्य फलम् अण्। ऐरण्ड तत्फले। “ऐरण्डं कोमलं ग्राह्यं फलं तक्रेण स्वेदितम्। पाचितं कटुतैलेन हिङ्गुनातिसुवासितम्। कफानिलहरं वृष्यं रूक्षमुष्णञ्च पित्तलम्। अग्निसंजननं रुच्यं गुरु पाकेऽतिपिच्छिलम्” भावप्र०। “फले लुक्” पा० अणोलुग्विधानात् एरण्डमित्येव साधु। २ पिष्पल्यां स्त्री शब्दच०। टाप् गौ० ङीष् वा।

एरण्डपत्रिका = स्त्री एरण्डस्य पत्रमिव पत्रमस्याः कप् संज्ञायां वा कन् अत इत्त्वम्। दन्तीवृक्षे।

एरण्डफला = स्त्री एरण्डस्य फलमिव फलमस्याः। लघुदन्तीवृक्षे। राजनि०।

एरु = त्रि० आ + ईर–उन्। गन्तरि। “एजाति ग्लहा कन्येव तुन्नैरु तुन्दाना पत्येव जाया” अथ० ६, २२, ३,

एर्वारु = पु० आ + ईर–क्विप् एरं वारयति वृ–णिच् उण्। चिर्भट्याम् कर्कटीभेदे (काकु~ड) “एर्वारुवीजं तोयेनपिबेद्वा लवणीकृतम्” सुश्रु०। “कट्वेर्वारौ यथा पक्वे मधुरः सन्रसोऽपि न” या० स्वार्थे कन् तत्रैव।

एलक = पुंस्त्री एडक + डस्य लः। मेषे स्त्रियां अजा० टाप् क्षिपा० नातैत्त्वम् डलयोरेकत्रस्मरणात्।

एलङ्ग = पु स्त्री आ + इल–अङ्गच्। (राइखडा) मत्स्यभेदे स्त्रियां ङीष्। “एलङ्गोमधुरोवृष्यः संग्राही कफवातहा। मेधाग्निपुष्टिकारी च शीतलः श्लेष्मलो गुरुः” राजनि०।

एल(ला)वालु = न० एलेव वलते वल–उण् ङ्यापोरिति संज्ञायां वा ह्रस्वः। (लालुका) सुगन्धिद्रव्यभेदे “पुन्नागैलैलवालूनि नागपुष्पोत्पलासिता” सुश्रु०। स्वार्थे कन् एल(ला)वालुकमप्यत्र न०।

एला = स्त्री इल–अच्। १ स्वनामख्यातलतायाम्। (एलाची) तद्भेदगुणादि भावप्र० उक्तम्। “एला स्थूला च बहुला पृथ्वीका त्रिपुटापि च। भद्रैला वृहदेला च चन्द्रबाला च निष्कुटी। स्थूलैला कटुका पाके रसे वानाहकृल्लघुः। रूक्षोष्णा श्लेष्मपित्तास्रकफश्वासतृषापहा। हृल्लासविषवस्त्यास्य शिरोरुग्वमिकासनुत्। सूक्ष्मैला कुञ्चिका तुच्छा को रङ्गी द्राविडी गुटिः। एला सूक्ष्मा कफश्वासकासार्शो मूत्रकृच्छ्रहृत्। रसे तु कटुका शीता लघ्वी वातहरी मता” “एलालतालिङ्गितचन्दनासु” रघुः। तस्याः फलम् अण् तस्य लुप् लुपि प्रकृतिलिङ्गत्वेन तत्फलेऽपि स्त्री। “ससञ्जुरश्वक्षुण्णानामेलानामुत्पतिष्णवः” रघुः। “सजना नयौ शरदशयतिरियमेला” वृ० र० उक्ते २ पञ्चदशाक्षरपादके छन्दोभेदे।

एला = विलासे कण्ड्वा० प० अक० सेट्। एलायति ऐलायीत्। एलायां बभूव आस चकार।

एलाक = पु० एलाय–ण्वुल्। ऋषिभेदे गर्गा० घञ्। ऐलाक्य तदपत्ये पुंस्त्री०। स्त्रियां ङीपि यलोपः। ऐलाकी।

एलादिगुटिका = स्त्री “एलापत्रत्वचोऽर्द्धाक्षाः पिप्पल्यर्द्धपल तथा। सितामधूकखर्ज्जूरमृद्वीकाश्च पलोन्मिताः। संचूर्ण्ण्य मधुना युक्ता गुटिकाः कारयेद्भिषक्” चक्रद० उक्ते रक्तपित्ताधिकारस्थे गुटिकारूपौषधभेदे।

एलापत्र = पु० एलापत्रमिवाकारोऽस्त्यस्य अच्। नागविशेषे “नागस्तथा पिञ्जरकः एलापत्रोऽथ वामनः” भा० आ० ३५ अ०। नागनामकीर्त्तने।

एलापर्ण्णी = स्त्री एलायाः पर्णमिव पर्णमस्याः। रास्नायाम् (काटा आमरुल)।

एलापुर = न० नगरभेदे।

एलीका = स्त्री आ + इल–ईकन्। सूक्ष्मैलायाम् (गुजराटि) राजनि०।

एलुक = न० इल–उक। गन्धद्रव्यभेदे। “भद्रदार्वेलुकाख्ये च सर्वेषु लवणेषु च” सुश्रु०।

एल्लवालुक = न० एलवालुक पृषा० लुडागमः। एलवालुक सुगन्धिद्रव्ये (लालुका) राजनि०

एव = अव्य० इण्–वन्। १ सादृश्ये, २ अनियोगे, ३ वाक्यभूषणे, ४ चारनियोगे, ५ विनिग्रहे, ६ परिभवे ७ ईषदर्थे च। विशेष्यसङ्गतः ८ अन्ययोगव्यवच्छेदे। यथा पार्थ एव धनुर्द्ध्वरः इत्यादौ पार्थान्यपदार्थे प्रशस्तधनुर्द्धरत्वम् व्यवच्छिद्यते। विशेषणसङ्गतः ९ अयोगव्यवच्छेदे यथा शङ्खः पाण्डर एवेत्यादौ शङ्खे पाण्डरत्वायोगो व्यवच्छिद्यते। क्रियासङ्गतः १० अत्यन्तायोगव्यवच्छेदे यथा नीलं सरोजं भवत्येवेत्थादौ सरोजे नीलत्वात्यन्तायोगो व्यवच्छिद्यते। ११ गन्तरि त्रि०। “एवेत्यवधारणानियोगौपम्यनियोगेषु” इत्युक्त्वा गणरत्ने यथाक्रममुदाहृतम्। “अहमेब ददामि। अद्येव। इहैव। श्रीस्तएव- मेऽस्तु। अद्यैव गच्छ। अत्रानियोगोऽनवधारणम्। “एवे चानियोगे” वार्त्ति०। तत्र क्वेव भोक्ष्यसे” इत्यत्र पररूपैकादेशः। एतद्योगे च “न च वाहाहैवयुक्ते” पा० न वस्नसाद्यादेशः। “ब्राह्मणस्यैव कर्म्मैतदुपदिष्ट मनोषिभिः”। “स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वय” मनुः। १२ एवमित्यर्थे च। “एवा न इन्द्रोतिभिः” ऋ० ४, ३३, ७, एवा एवम् भा०। अत्र वेदे “एवा नु दूर्वे प्रतनु” इत्यादि वत् दीर्घः। तत्र गन्तरि “एवा न देव्यादितिरनर्वा” तैत्ति० ३, १, १, ५, “एवा गमनशीला” भा०। शीघ्रगन्तृत्वात् १३ अश्वे पु०। “शूरोनाम पतयद्भिरेवैः” ऋ० १, १५८, २, “एवैरश्वैः” भा०। करणे भावे वा वन्। १४ गमनसाधने १५ गमने च। “एवेन सद्यः पर्य्येति पार्थिवम्” ऋ० १, १२८, ३, “एवेन गमनसाधनेन गमसेन वा” भा०।

एव = त्रि० एवमस्त्यस्य अच् अव्य० टिलोपः। एवंक्रियमाणप्रकारे “सुदानूनेवया मरुतः” ५, ४१, १६, एवया एवंक्रियमाणप्रकारेण” भा० तृतीयस्थाने याच्।

एवथ = पु० अव–भावे अथ पृषो० अतः एत्त्वम्। गमने “न की राया नैवथा न भन्दनी” ऋ० ८२४, १५, एवथा शत्रु पुराणि संग्रांमं प्रति गमनेन। तृतायास्थाने आङ्।

एवम् = अव्य० इण–बा० वमु। “एवमिति प्रकृतपरामर्शप्रकारेवार्थोपदेशनिर्देशनिञ्चयाङ्गीकारवार्थेषु” गणर० उक्तेषु अर्थेषु। क्रमेण उदा० तत्रैव। १ प्रकृतपरामर्शे “एव वादिनि देवर्षौ” कुमा०। २ प्रकारे। एवं कुरुते। इवार्थे ३ सादृश्ये अग्निरेवं विप्रः। ४ उपदेशे एवं पठ। ५ निर्द्देशे एव तावत्। ६ निश्चये। एवमेतत् कः सन्देहः। ७ अङ्गीकारे एवं कुर्म्मः। वार्थे ८ समुच्चयार्थे “अहार्य्यमेवंमृगनाभिपत्रम्”। “यथेतमनेवम्” शा० सू०। ९ सम्बन्वये १० परकृतौ ११ प्रश्ने च मेदि०। तत्र एवम् भूतः एवकृत इत्यादौ क्रियाविशेषणत्वम् एवं विधः एवंप्रकारैत्यादौ द्रव्यविशेषणत्वमिति भेदः “एवंविधेनाहवचेष्टितेन” रघुः। “एवमादीन् विजनीयात् प्रकाशाल्लो~ककण्टकान्” “अन्येषाञ्चैवमादीनाम् मद्यानामोदनस्य च” मनुः।

एवया = त्रि० एव एवं अवनं वा याति या–क्विप् पृषो०। रक्षके “द्युम्न एवया उ सप्रथाः” ऋ० १, १५६, १, “एवया रक्षणप्रापयिता” भा०

एवयामरुत् = पु० एवया रक्षकोमरुद्यस्य। ऋषिभेदे। “मरुत्वते गिरिजा एवयामरुत्। “एतन्नामकस्य ऋषेः षष्ठ्यालुक्” भा०।

एवयावन् = पु० एवस्य एवंप्रकारस्य यावा या–वनिप्। १ रक्षके विष्णौ। “विश्वजन्यामप्रयुतामेवयावो मातं दाः” ऋ० ७, १००, २, “एवयावः! विष्णो!” भा०। वेदे सम्बुद्धेरुत्वम्। एव गन्तरि त्रि० “तान्वो महो मरुत् एवयाव्नोः ऋ० २, ३४, ११, स्त्रियां ङीप् वनोरश्च। एवयावरी। “या सुम्नैरेवयावरी” ऋ० ६, ४८, १२,

एवार = पु० एव एवमृच्छति ऋ–अण्। सोमभेदे। “एवारे वृषभाःसुते” ऋ० ८, ४५, ३८, “एवारोनाम कश्चित सोमः” भा०

एवावद = पु० एव एवमावदति आ + वद–अच्। ऋषिभेदे “सहि क्षत्रस्य मनसस्य चित्तिभिरेवावदस्य यजतस्य सध्रेः” अवत्सारस्य स्पृणवाम्” ऋ० ५, ४४, १, “क्षत्रस्य मनसस्यैवाबदस्य यजतस्य सध्रेरवत्सारस्य चैषामृषीणाम्” भा०

एष् = गतौ भ्वा० आत्म० सक० सेट्। एषते ऐषिष्ट एषाम् बभूव आस चक्रे। एषणीयः एषितव्यः एषितः एषिता। एषितुम् एष्टिः एषणम् एषा एषमाणः। “पराङ्मित्र एष त्वर्वाची गौरुपैषत” अथ० ६, ६७, ३, वेदे गणव्यत्यासात् पर०। उपेषतु एङिपररूपम्”। “स वै वत भ्रष्टमतिस्तवैषते यः कर्म्मणां पारमपारकर्म्मणः” भाग० ३, १३, ४४, धातूनामनेकार्य्यात अवलोकयतीत्यर्थः” “तस्माद्दिवा नष्टैष एति” शत० व्रा० १३, ३, ४, ३,।

परि + अन्वेषणे पर्य्येषते पर्य्येष्टिः लोकेऽपि क्वचित् गणव्यात्यासः। “जग्मुः संसिद्ध्वस कल्पाः पर्य्येषन्तो विभावसुम्” भा० अनु० ८५।

एष् = स्त्री एष–भावे क्विप्। गतौ “तावामेषे रथानामुर्व्वीम्” ऋ० ५, ६६, ३, “एषे गन्तुम्” भा०। “राय एषेऽवसे दधीत” ५, ४१, ५, “एषे प्राप्तुम्” भा०। “तेभ्यः स्वैषमेव चकार” शत० ब्रा० २, ४, २, ४,। इष–विच्। २ इच्छौ। “न क्षोदोऽवृणीतमेषे” ऋ० १, १८०, ४, एषे सौख्यमिच्छते” भा०।

एषण = पु० एषते शत्रुहृदयम् ल्यु। १ लौहमयवाणे हलायुधः। इष इच्छायां णिच् भावे–युच्। एषणा २ प्रेरणायां ३ पुत्रलोकवित्तकामनायाञ्च स्त्री “न कश्चिदन्यः पंसार उक्तादस्त्येषणात्रयात्” वेदा०। “तमात्मानं विदित्वा व्राह्मणाः पुत्रेषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य्यं चरन्ति। या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लौकैषणोभे ह्येते एषणे भवतः” शत० ब्रा० १४, ६, ४, १, “पुत्रैषणा पुत्रोत्पत्तिमुद्दिश्य दारसंग्रहेच्छालक्षणा। वित्तं द्विविधं मानुषं गवादि, दैवं विद्यादि, तस्य कर्म्मणा साधनस्य गवादेरुपादानरूपा इच्छा वित्तैषणाऽनेन कर्म्म कृत्वा पितृलोकं ज्येष्यामीति विद्यासंयुक्तेन वा देवलोकम्। केवलया वा हिरण्यगर्भविद्यया देवेन वित्तेन देवलोकं जेष्यामीतीच्छा लोकैषणा। एवमेकत्वेऽपि लोकैषणायाः साधनमन्तरेणासिद्धेः साध्यसाधनाभेदेन द्वैविध्यमाह उभे हीति” भा०। “अपहतसकलैषणामलात्मन्यविरतमेधितभाव नोपहूतः” भाग० ४, ३१, १८, एष्यते ज्ञायते मानमनया करणे ल्युट् ङीप् एषणी। ४ तुलासाधने (निक्ति) मानयन्त्रभेदे मेदिनिः। स्वार्थे कन्। एषणिकाऽप्यत्र। अमरः। एषते व्रणपारमनया करणे ल्युष्ट् ङीप्। (वेलकार) ५ व्रणस्फोटनास्त्रभेदे मेदि०। भावे ल्युट्। सुश्रुतोक्ते ६ व्रणविदारणव्यापारभेदे। तत्र हि “यन्त्रकर्म्माणि तु निर्य्यातनपूरणेत्याद्युपक्रमे “चूषणैषणदारणेत्यादि पठित्वा चतुर्विंशतिरित्युक्तम्। तत्र एषणमभ्यन्तरे शस्त्रप्रवेशनेन पूयादेरपसारणम्। तत्साधनशस्त्रमेषणी यथा ह सुश्रुतः “विं शतिः शस्त्राणि तद्यथा मण्डलाग्रकरपत्रेत्याद्युपक्रमे “वडिशदन्तशङ्क्वेषणी” इत्युक्त्वा “एषण्येषणे आनुलोम्ये च” इति तत्प्रयोजनमुक्तम्। एषणमभ्यन्तरगमनमानुलोम्यं विस्राबणम् तत्रैव एषणीलक्षणं “एषणी गण्डूपदाकारमुखी” उक्तम्। “एष्येष्वेषण्यलाभे तु बालाङ्गुल्यङ्कुरा हिताः” मुश्रुतः।

एषणीय = त्रि० इष–एष–वा कर्म्मणि अनीयर्। १ आशास्ये “जायापती लौकिक मेषणीयम्” कुमा०। २ गम्ये च।

एषा = स्त्री एष–अ। इच्छायां जटाधरः।

एषावीर = पुंस्त्री। एषायां यथेष्टं धनादिप्रतिग्रहेच्छायां वीरः। यतः कुतश्चित् प्रतिग्राहके निन्दितब्राह्मणभेदे। स्त्रियां जातित्वात् ङीष्। “यद्येनमैषावीरा याजयेयुः” शत० ब्रा० ११, २, ७, ३२, “एषावीरोनाम निन्दितब्राह्मणजातिविशेषः तत्संबन्धिन ऋत्विजः” भा०

एषिन् = त्रि० इष–णिनि। इच्छौ अभिलाषुके। “यौवने विषयैषिणाम्” “बभूव युद्धं तुमुलं परस्परजयैषिणोः” रघुः। स्त्रियां ङीप्। “तदाश्रिता हि सा ज्ञेया बुद्धिस्तस्येषिणी भवेत्” भा० व० ८१ अ०।

एष्टव्य = त्रि० इषु वाञ्छायाम् तव्य। वाञ्छनीये। “एष्टव्या वहवः पुत्रा यद्यप्येको गयां व्रजेत्” शु० त० मत्स्यपु० “तद्ध्येव ब्राह्मणेनैष्टव्यम्” शत० ब्रा० १, ९, ३, १७।

एष्टि = स्त्री आ + यज–आ + इष–वा क्तिन्। १ अभियजने २ अभिकामनायाञ्च। “पितॄणां शश्वद्बभूथ सुह्वएष्टौ” ऋ० ६, २१ ८,। “एष्टौ आयजनेऽभिकामवे वा” भा० करणे क्तिन् ३ आशासनसाधनेषु ऋक्सामेषु। “प्रजापतिर्वै विश्वकर्म्मा सहीदं सर्वमकरीत् मनोगन्धर्वस्तस्य ऋक्साभान्यप्सरसः इति मनोह गन्धर्वः ऋक्सामैरप्सरोभिर्मिथुनेन सहोक्रामैष्टयोनामेत्यृक्सामानि वा एष्टय ऋक्सामैर्ह्याशासते इति नोऽस्त्विति नोऽस्त्विति” शत० ब्रा० ९, ४, १, १२। “प्रजापतिर्विश्वकर्मा मनोगन्धर्वस्तस्य ऋक्सामान्यप्सरस एष्टयोनाम” यजु० १८, ४३।

एष्य = त्रि० इष–कर्मणि ण्यत्। १ वाञ्छनीये भावे ण्यत् सुश्रुतोक्ते “तच्च शल्यकर्म्माष्टविधं तद्यथा छेद्यं भेद्यं लेख्यं वेध्यमेष्यमाहार्य्यं विस्राव्यं सीव्यमित्युक्तेषु अष्टषु मध्ये २ शल्यकर्म्मभेदे न०। “एष्येष्वेषण्यलाभे” सुश्रु० “घुणोपहत काष्ठे वेणुनलनालीशुष्कालाबूमुखेष्वेष्यस्य” इत्युक्तेषु तत्कर्म्माचरणम्। कर्मणि ण्यत्। ४ एषणकर्मसाध्ये त्रि०। “एष्या नाद्ध्यः सशल्याश्च व्रणा उन्मार्गिणश्च ये” सुश्रु० एष गतौ ण्यत्। ५ गन्तव्ये त्रि०। “गतैष्यदिवसाद्येन गतिर्निघ्नी खषढृता” नील० ता०। इष गतौ दि० इष इच्छायां भ्वा० इष आभीक्ष्ण्ये क्र्या० एभ्यः ण्यत्। एष्य तत्तद्धात्वर्थकर्म्मणि प्राचु प्रैष्य इत्येव प्रेष्यस्तु ईष गतिहिंसादर्शनेषु इत्यस्य ण्यदन्तस्य रूपम् इति भेदः।

एह = त्रि० आ + ईह अच्। १ सम्यक् चेष्टायुक्ते। एला एहाः परिपाते ददृश्रान्” अथ० १२, ३, ३३। आ ईषदर्थे ईह घञर्थे करणे क। २ क्रोधे निरु०। क्रुद्धस्य सम्यक्कार्य्यानर्हत्वात् ईषच्चेष्टावत्त्वेन तथात्वम्।

एहि = त्रि० आ + ईह–त इन्। सम्यक् चेष्टान्विते स्त्रियां शार्ङ्ग० ङीन्। एही।

एहीड = न० एहि ईडे इत्युच्यते यस्मिन् कर्मणि मयूर० नि०। एहि ईडे इत्युच्यते यस्मिन् कर्मणि तादृशे कर्मणि एवं एहिकटा एहिबाणिजका एहिद्वितीया एहिस्वागता एहिविघसा इत्यादयोऽपि तत्तत्क्रियायाम् स्त्री एहियवं तु तत्कर्म्मणि न० इति भेदः। इति वाचस्पत्ये एकारादिशब्दार्थसङ्कलनम्।

—ऐ—

= ऐकारः स्वरवर्णभेदः एदैतौ कण्ठतालव्यावित्युक्तेः कण्ठतालुस्थानयोरुच्चार्य्यः। स च दीर्घः द्विमात्रत्वात् प्लुतस्तु त्रिमात्र इति भेदः। द्विमात्रस्य उदात्तानुदात्तस्वरितभेदैः प्रत्येकमनुनासिकाननुनासिकभेदाभ्याञ्च षड्विधः एवं प्लुतस्यापीति द्वादशविधः। तन्त्रे तस्य वाचकशब्दा उक्ता यथा। “ऐर्लज्जा भौतिकः कान्ता वायवी मोहिनी विभुः। दक्षा दामोदरः प्रज्ञो धरो विकृतमुख्यपि। क्षमात्मकोजगद्योनिः परः परनिबोधकृत्। ज्ञानामृता कपर्द्दिश्रीः पीठेशोऽग्निः समातृकः। त्रिपुरा लोहिता राज्ञी वाग्भवो भौतिकासनम्। महेश्वरी द्वादशी च विमलश्च सरस्वती। कामकोटो वामजानुरंशुमान् विजयो जटा”। “ऐकारः कोठराक्षी च मालिन्युन्मत्तभैरवी” इति च वर्णाभिधा०। मातृकान्यासेऽधरोष्ठे न्यस्यत्वात् तच्छब्दाभिधेयता। तस्य ध्येयरूपं काभधेनुत० उक्तं यथा “ऐकारं परमं दिव्यं महाकुण्डलिनीं स्वयम्। कोटिचन्द्रप्रतीकाशं पञ्चप्राणमयं सदा। ब्रह्मविष्णुमयं वर्ण्णं तथा रुद्रमयं प्रिये!। सदाशिवमयं वर्णं विन्दुत्रयसमन्वितम्”। तपरत्वे कारपरत्वे च तत्स्वरूपपरः।

= अव्य० आ + इण–विच्। १ आह्वाने २ स्मरणे ३ आमन्त्रणे च ४ महेश्वरे पु० तस्य सर्वगत्वात्तथात्वम्।

ऐक = वि० एक + स्वार्थे अण्। एकशब्दार्थे ततोभवाद्यर्थे गहा० छ। ऐकीय एकसम्बन्धिनि तद्भवादौ च त्रि०।

ऐकध्यम् = अव्य० एकधा + धास्थाने ध्यमुञ् एकधेत्यर्थे “ऐकध्यं च श्रपणम्” कात्या० १४, ३, २४। “एतदैकध्यं संगृह्य” सुश्रु०। ततः स्वार्थे ड। ऐकध्य तदर्थे न० “ऐकध्येन श्रपणम्” उक्तकात्या० सूत्रभाष्ये कर्कः।

ऐकपत्य = न० एकपतेर्भावः कर्म वा ष्यञ्। सार्वभौमत्वे “अप्रतिद्वन्द्वतामैकपत्यञ्च सर्वदेहिनाम्” भाग० ७, ३, ३४। एकपतौ भवः पत्युत्तरपदत्वात् ण्य। एकपतिभवे त्रि०।

ऐकपदिक = त्रि० एकस्मिन् पदे स्थाने विभक्त्यन्ते वा भवः ठञ्। १ एकस्थानभवे २ एकविभक्त्यन्तपदभवे च। एकपदाय प्रभवति ठञ्। “कृतोऽप्येकपदिका भवन्ति यथा व्रततिर्दमूनाः” इत्यादि निरु० “एकार्थमनेकशब्दमित्येतदुक्तम् अथ यान्यनेकार्थान्येकपदानि तान्यतोऽनुक्रमिष्यामोऽनवगतसंस्कारांश्च निगमान् तदैकपदिक- मित्याचक्षते इति निरु० उक्ते अनेकशब्दे एकार्थपरे समासादिवृत्तिरूपे ३ वाक्यभेदे च।

ऐकपद्य = न० एकपदस्य एकार्थकैकविभक्त्यन्तस्य भावः ष्यञ्। संसृष्टार्थत्वे अनेकपादानामेकार्थबोधकतासम्पादने ससादिभावे।

ऐकभाव्य = न० एको भावो यस्य तस्य भावः ष्यञ्। एकस्वभावत्वे।

ऐकमत्य = न० एकं मतं येषां तेषां भावः ष्यञ्। तुल्यसम्मतौ “स्वर्गामिणस्तस्य तमैकमत्यात्” रघुः। “ऐकमत्यं हि नोराजन्! सर्वेषामेव लक्षये” भा० व० ७ अ०। “ऐकमत्यञ्च सर्वस्य जनस्याथ नृपं प्रति” भा० व० २९८ अ०। “सुहृदश्चैकमत्यात्” भा० उ० २२ अ०। “क्वैकमत्यं महाधियाम्” नीतिः। ऐकमत्यमत्रास्ति अच्। ऐकमत्ययुक्ते त्रि०। “गर्हेतान्योन्यमतयो मस्त्रिणो ब्रुवते सदा। नचैकमत्यः शेषोऽस्ति मन्त्रः सोऽधम उच्यते” रामा०।

ऐकराज्य = न० एकराजो भावः ष्यञ्। चक्रवर्त्तित्वे “यत्सुपर्ण्णेयेनैकराज्यमजयो हि ना” आश्व० श्रौ० ५, १९, ४।

ऐकलव्य = पुंस्त्री एकल्वः अपत्यं गर्गा० यञ्। एकलूनामकर्षेर्गोत्रापत्ये स्त्रियां ङीप् यलोपः ऐकलवी। ऐकलव्यस्य छात्राः कण्वा० ततोऽण् यलोपः। ऐकलव तच्छात्रेषु स्त्रियां ङीप्।

ऐकशतिक = त्रि० एकशतमस्यास्ति ठञ्। एकशतपरिमितद्रव्यस्वामिनि। एवमैकसहस्रिकादयोऽपि तत्तत्संख्यद्रव्ययुक्ते त्रि०।

ऐकश्रुत्य = न० एका श्रुतिर्यत्र तस्य भावः ष्यञ्। “उदात्तानुदात्त स्वरितानां परः सन्निकर्ष ऐकश्रुत्यम्” आश्व० श्रौ० १, २ ९, सूत्रोक्ते स्वरभेदे। एकश्रुतिशब्दे विवृतिः ऐकस्वर्य्यमप्यत्र न०।

ऐकागारिक = त्रि० एकमसहायमगारं प्रयोजनमस्य ठञ्। चौरे स्त्रियां ङीप्। “ऐकागारिकवद्भूमौ दूराज्जग्मुरदर्शनम्” माघः “केनचिदैकागारिकेण हस्तवता” दशकु०।

ऐकाग्र = त्रि० एकाग्र + स्वार्थेऽण्। एकाग्रचित्ते एकतानचित्ते

ऐकाग्र्य = न० एकाग्रस्य भावः। अनन्यासक्तचित्तत्वे एकमात्रालम्बिचित्तत्वे एकाग्रताशब्दे विवृतिरुदाहरणञ्च।

ऐकात्म्य = न० एक आत्मा स्वरूपं यस्य तस्य भावः ष्यञ्। १ ऐक्ये २ एकस्वरूपत्वे। “तथैकात्म्यानुभावानां विकल्परहितः स्वयम्” भाग० ६, ८, ३१। “एतेषां श्रेयआशासे उतैकात्म्यं महात्मनि” ७, १३, ३९। “एकात्म्यगमनात् सद्यः कलुषाद्विप्रमुच्यते” भा० अनु० ३७५। ३ अभेदे च “ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्ज्जुनस्य च” भा० आ० १ अ०। एकआत्मा तस्य भावः। ४ आत्मन एकत्वे ऐकात्म्यवादः ऐकातत्म्यवादी

ऐकादशिन = त्रि० एकादशानां संघ इनि एकादशिनी खलिनीवत् स्त्रीत्वं सा साधनतयाऽस्त्यस्य अण्। एकादशिनीसाध्यफले। “द्वे त्वेर्वते एकादशिन्यावालभेत य एवैकादशिनेषु कामस्तस्याप्त्यै” शत० ब्रा० १३, ३, ३, ३ तत्रालभ्यद्विविधैकादशसंख्यपपशुभेदाः देवतासहिताः यजु० २९, ५८, ५९ उक्ता यथा “आग्नेयः कृष्णग्रीवः १ सारस्वती मेषो २ बभ्रुः सौम्यः ३ पौष्णः श्यामः ४ शितिपृष्ठो वार्हस्पत्यः ५ शिल्पोवैश्वदेव ६ ऐन्द्रोऽरुणो ७ मारुतः कल्माष ८ ऐन्द्राग्नः संहितो ९ऽधो रामः सावित्रो १० वारुणः कृष्ण एकशितिपात् ११ पेत्वः” ५८ “अश्वमेधे श्रुतिरस्ति द्वे त्वेवैते एकादशिन्यावालभेतेति” तयोरेकादशिन्योः पशवस्तद्देवताश्च कण्डिकाद्वयेनोच्यन्ते नेनेमानि ब्राह्मणवाक्यानि द्रव्यदेवताप्रतिपादकानि नतु मन्त्राः। कृष्णा ग्रीवा यस्य स कृष्णग्रीवः पशुराग्नेयः अग्निदेवत्यः १, मेषी स्वारस्वती स्वरस्वतीदेवताका २ बभ्रुः पिङ्गलवर्णः पशुः सौम्यः सोमदेवत्यः ३ श्यामः कृष्णवर्णः पौष्णः पूषदेवत्यः ४ शिति श्यामं पृष्ठमस्य स शितिपृष्ठः वार्हस्पत्यः वृहस्पतिदेवत्यः ५ शिल्पो विचित्रवर्णो वैश्वदेवः विश्वदेवदेवत्यः ६ अरुणः रक्तः ऐन्द्रः इन्द्रदेवत्यः ७ कल्माषः कर्वुरो मारुतः मरुद्देवत्यः ८ संहितः दृढाङ्गः ऐन्द्राग्नः इन्द्राग्निदेत्यः ९ अधोरामः अधोदेशे श्वेतः सावित्रः सवितृदेवत्यः १० एकः शितिः श्वेतः पादोयस्य स एकशितिपात् एकपदे श्वेतोऽन्यत्र कृष्णः पेत्वः पतनशीलो वेगवान् पशुः वारुणः वरुणदेवत्यः ११। एव मेकादश” वेददी०। “अग्नयेऽनीकवते रोहिताञ्जिरनड्वानधोरामौ सावित्रौ पौष्णौ रजतनाभी वैश्वदेवौ पिशङ्गौ तूपरौ मारुतः कल्माषः आग्नेयः कृष्णोऽजः सारस्वती मेषी वारुणः पेत्वः” ५९। “द्वितीयैकादशिनीपशुदेवानाह। रोहिती रक्तोऽञ्जिस्तिलको यस्य सोऽनड्वान् वृषभोऽनीक वतेऽग्नये आलभ्य अनीकं मुखं सैन्यं वा यस्य सोऽनीक वान् तस्मै १ अधोरामौ अधोभागे श्वेतौ द्वौ पशू सावित्रौ सवितृदेवतौ२, ३। रजतवर्णा नाभिर्ययोस्तौ रजतनाभी द्वौ पौष्णौ पूषदेवत्यौ४, ५ “पिशङ्गौ पीतौ तूपरौ निःशृङ्गौ वैश्व देवौ धिश्वदेवदेवत्यौ ६, ७ कल्माषः कर्वुरो मारुतः ८ कृष्णः श्यामोऽजोमेषः आग्नेयः आग्निदेवत्यः ९ मेषी सारस्वती १० पेत्वःवेगवान् वरुणदेवत्यः ११ एवमेकादश” इति वेददीपः

ऐकाधिकरण्य = न० एकाधिकरणस्य भावः ष्यञ्। एकाधिकरणवृत्तित्वे सामानाधिकरण्ये। “अथवा हेतुमान्नष्ठविरहाप्रतियोगिना। साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते” भाषा०। तुल्यविभक्तिकपदयोः स्वोपस्थाप्यार्थयोरभेदबोधकत्वं च।

ऐकान्तिक = त्रि० एकान्तमवश्यं भावी ठञ्। १ अवश्यभव्ये। “सुखस्यैकान्तिकस्य च” मनुः। “ऐकान्तिकमात्यन्तिकमुभयमाप्नोति कैबल्यम्” सां० का० ऐकान्तिकमववश्यं भावि” कौ०। एकान्त भूतः स्वसत्तया व्यापी ठञ्। २ एकान्तस्य स्वसत्तया व्यापके “कृष्णश्चिअकान्तिकः सुहृत्” भाग० ३, २, स्त्रियां ङीप् “ऐकान्तिकी हरेर्भक्तिरुत्पातायैव कल्पते” वरा० पु०।

ऐकान्यिक = त्रि० एकमन्यत् विपरीतं वृत्तमध्ययनेऽस्य। “कर्म्माध्ययने वृत्तम्” पा० ठक्। यस्याध्ययने प्रवृत्तस्य परीक्षाकाले विपरीतोच्चारणरूपं स्खलनमेकं जातम् तादृशे कुपाठके छात्रे।

ऐकायन = पुं स्त्री एकस्य तन्नाम्नोमुनेर्गोत्रापत्यम् नडा० फक। एकस्यर्षेर्गोत्रापत्ये स्त्रियां टाप्।

ऐकार्थ्य = न० एकार्थस्य भावः ष्यञ्। एकशक्त्या विशिष्टेकार्थोपस्थापने एकार्थीभावे। १ एकप्रयोजने च। “२ पणबन्धेनैकार्थ्यं सन्धिः” सि० कौ०।

ऐकाहिक = त्रि० एकाहमधीष्टोभूतोभृतोभावी वा ठञ्। १ एकाहसाध्ये यागादौ स्त्रियां ङीप्। ततोऽन्त्यान्यैकाहिकानि” आश्व० श्रौ० ८, १६, १६, “ताभ्यां पूर्ब्बे ऐकाहिके” २, १०, १०, “अन्त्यानामैकाहिकानामुत्त मान्” २ एकाहव्यापके ज्वरादौ “समुद्रस्योत्तरे तीरे द्विपदोनाम वानरः। ऐकाहिकज्वरं हन्ति तस्य नामानुकोर्त्तनात्”। ऐकाहिकज्वरश्च एकाहानन्तरे एकदिनं व्यापकोज्वरः इति वैद्यके प्रसिद्धम्। एकाहभृते ३ दासे एकाहमधीष्टे सत्कृत्य व्यापारिते ४ अध्यापके स्वसत्तया एकाह व्याप्तव्यकाले ५ एकाहभाविनि उतसवाटौ च। एकाहसाध्ययागभेद एकाहः तस्य दक्षिरा ठञ् ङीप्। ६ एकाहसाध्ययागदक्षिणायां स्त्री।

ऐक्य = न० एकस्य भावः ष्यञ्। १ एकत्वे २ अभिन्नत्वे ३ एकार्थी भावे च “दैक्यं सोऽन्वये” मुग्ध० “ऐक्यसंयोगनानात्व समवायविशारदः” भा० स० ५ अ०। ४ ऐकमत्ये सौहार्दे च “तेषां द्वयोर्द्वयोरैक्य बिभेदे न कथञ्चन” रघुः। एकस्या- पत्यं गर्गा० यञ्। एकापत्ये पुंस्त्री० स्त्रियां ङीप् यलोप ऐकी।

ऐक्षव = त्रि० इक्षोर्विकारः विल्वा० अण्। इक्षुविकारे गडादौ इक्षुविकारभेदाश्च इक्षुशब्दे ९०९ पृ० उक्ताः। “ऐक्षवं गुडवर्जितम्” “फलान्यगुडमैक्षवमिति” च स्मृतिः। २ मद्यभेदे च। “पानसं द्राक्षमाधूकं खार्जूरंतालमैक्षवम्। माक्षिकं टाङ्कमाध्वीकमैरेयं नारिकेलजम्। समानानि विजानीयान्मद्यान्येकादशैव तु। द्वादशन्तु सुरामद्यं सर्व्वेषामधमं स्मृतम्” पुलस्त्यः। मद्यान्येकादशेत्युक्तिः अधिकदोषार्था अन्येषामपि मद्यानां मदनपालेन दर्शितत्वात्। प्रसङ्गात् तान्यत्र गुणसहितानि दर्श्यन्ते।

“मद्यं हाला सुरा शुण्डा मदिरा वरुणात्मजा। इरा गन्धोत्तभा कल्या देवस्पृष्टा च वारुणी। मद्यं पित्तकर प्रायं सरं रोचनदीपनम्। विदाहि सृष्टविण्मुत्रं तीक्ष्णं वातकफापहम्। विधिना तु युतं पीतं तस्मादमृतसन्निभम्। अन्यथा कुरुते रोगानातपीतं विषोपमम्। १ द्राक्षोत्थमविदाहि स्याद्रक्तपित्तेषु शस्यते। बल पुष्टिकरं मद्यं रक्तार्शोहारि दीपनम्। माध्वीकल्य गुणं किञ्चित् २ खार्जूरमनिलप्रदम्। तदेव विशदं रुच्यं श्लेष्मघ्नं कर्षणं लघु। शालिषष्टिकपिष्टादिकृतं मद्यं सुरा ३ मता। सुरा गुर्वी बलस्तन्यपुष्टिमेदःकफप्रदा। ग्राहिणी शोथगुल्मार्शोग्रहणीमूत्रकृच्छ्रनुत्। पुनर्णवाशालिपिष्टैर्विहिता वारुणी ४ मता। सुरावद्वारुणी लध्वी पीनसाध्मानशूलनुत्। प्रसन्ना ५ स्यात्सुरामण्डस्तस्मात्कादम्बरी ६ घना। ७ जङ्गलस्तदधः प्रोक्तो जङ्गलान्मेदको ८ धनः। पक्वसो ९ जङ्गलः सारः सुरावीजन्तु किण्वकम् १०। प्रसन्नानाहपुल्मार्शश्छर्द्यरोचकवातजित्। दीपन्याध्मानहृत्कुक्षितोदशूलप्रणाशिनो। कादम्बरी गुरुर्वृष्यां दीपनी वातकृत् सरा। जङ्गलः कफनुद् ग्राही शोफार्शोग्रहणीहरः। मेदको मधुरो बल्यस्तम्भनः शीतलो गुरुः। पक्वसो हृतसारत्वात् विष्टम्भी वातबर्द्धनः। किण्वकं वातशमनमहृद्यं दुर्ज्जरं गुरु। आक्षिकी ११ सा सुरा या स्यादक्षत्वकशालितण्डुलैः। आक्षिकी पाण्डुशोथार्शःपित्तास्रकफकुष्ठनुत्। किञ्चिद्वातकरी रूक्षा दीपनी रेचनी लघुः। यवपिष्टकृतं मद्यं प्रोक्तं यवसुरा १२ च सा। काकोलिकी १३ हला ज्ञेया मैरेयो १४ धान्यजासवः। आसवश्च सुरायाश्च द्वयोरप्येकभाजनम्। साधनं तद्विजानीयात्मैरेयमुभयात्मकम्। क्वचित्तु धातकीपुष्पं गुडधान्याम्बुसाधितम्। गुर्व्वी यवसुरा रूक्षा स्याद्विष्टम्भत्रिदोषकृत्। काकोली वृंहणी वृष्या दृष्टिमान्द्यप्रदा गुरुः। मैरेयं वृंहणं वृष्यं गुरु सन्तर्पणं सरम्। मद्यं सर्व्वरसं जातं मधूलकमुदीर्य्यते। मधूलकं १५ गुरु स्वादु स्निग्धं शुककफप्रदम्। पर्करो १६ दीपन स्वादुः पाचतो रोचनो लघुः। स्त्रीविलासकरो वातशोषवस्तिविकारनुत्। मध्वासवो १७ लघूरूक्षः कुष्ठ मेहविषापहः। गौडोऽ१८ ग्निवर्द्धनो वर्ण बलकृत्तर्पणः कटुः। तिक्तको वृंहणः स्वादुः सृष्टविण्मूत्रमारुतः। इक्षोः शीतरसः १९ पक्वः सीधुः २० पक्वरसः स्मृतः। आमैः स एव विहितो बुधैः शोतरसो मतः। सीघुः पक्वरसः श्रेष्ठः स्मराग्निबलवर्णकृत्। वातपित्तकरो हृद्यस्नेहनो रोचनो जयेत्। विबन्धमेहशोथार्शःशोथोदर कफामयान्। तस्मादल्पगुणः शीतरसः संलेखनः स्मृतः। जाम्बवः क्षौद्रसम्भूतः जम्बूरसगुडोद्भवः। जाम्बवो २१ बद्धनिष्यन्दः कषायोऽनिलकोपनः। अरिष्टासंवसीधूनां गुणान् कर्म्माणि चादिशेत्। बुद्ध्वा यथास्वं संस्कारमवेक्ष्य कुशलो भिषक्। सान्द्रं विदाहि दुर्गन्धि विरसं कृमिसङ्कुलम्। अहृद्यं तरुणं रूक्षमुष्णं दुर्भोजने हितम्। अल्पौषधं पर्य्युषितमत्यर्थपिच्छलञ्च यत्। कफप्रकोपि तन्मद्यं दुर्जरञ्च विशेषतः। पित्तप्रकोपि बहुलं तोक्ष्णमुष्णं विदाहि च। अहृद्यं पेशलं पूतिकृमिलं विरसं गुरु। तथा पर्युषितं वापि विन्द्यादनिलकोपनम्। सर्व्वदोषैरुपेतन्तु सर्व्वदोषप्रकोपणम्। चिरस्थितं यातरसं दीपनं कफवातजित्। रुच्यं प्रसन्नं सुरभि मेध्यं सेव्यं महासवम्। तस्मान्नैकप्रकारस्य मद्यस्थ रसवीर्य्यतः। स सौक्ष्म्यादौष्णवातत्वाद् विकाशित्वाच्च वह्निनुत्। समेत्य हृदयं प्राप्य धमनीरूर्द्ध्वमार्गगाः। विक्षुभ्येन्द्रिय चेतांसि मदयत्याशु वीर्य्यतः। चिरेण श्लेष्मिके पुंसि पातनो जायते मदः। अचिरा द्वातिके दृष्टः, पैत्तिके शीघ्रमेव च। नवं मद्यमभिष्यन्दि त्रिदोषजनकं सरम्। अरिष्टं वृंहणं दाहि दुर्गन्धि विशदं गुरु। जीर्णं तदेव रोचिष्णु कृमिश्लेष्मानिलापहम्। हृद्यं सुगन्धि सुगुणं लघु स्रोतोविशोधनम्। सात्विके गीतहास्यादि राजसे साहसादिकम्। तामसे निन्द्यकर्माणि निद्रादि कुरुते तदा। शुक्रं कफघ्नं तीक्ष्णोणं लघु रोचनपाचनम्। पाण्डु कृमिहरं रूक्षं भेदन रक्तपित्तकृत्। गौडादिरसयुक्तानि मद्येषूक्तानि यानि च। यथापूर्बं गुरुतराण्यभिष्यन्दकराणि च। स्यात्काञ्जिकन्तु २२ सौवीर २३ मारनालं २४ तु दोषकृत्। काञ्जिकं शिशिरस्पर्शं पाचनं रोचनं लघु। तुषोदकं यवैरामं सतुषैः सकलैः कृतम्। सौवीरकं कृतन्त्वामैः पक्वैर्वा निस्तुपैर्यवैः। सर्व्वैरसैरसाम्लं २५ स्यात् सौवीरकमिति क्वचित्। तुषाम्बु दीपनं हृद्यं पाण्डु कृमिगदापहम्। सौवीरकं ग्रहण्यर्शोनाशनं भेदि दीपनम्। धान्याम्ल २५ न्धान्ययोनित्वात्प्रीणनं लघु दीपनम्। स्पर्शदाहकर पानात्पाचनं श्लेष्मनाशनम्। गण्डूषान्मुखवैरस्यदौर्गन्ध्यकफकृन्तनम्”। ऐक्षवस्य द्वैविध्यमाह भावप्र० “इक्षोः पक्वैः रसैः सिद्धः सीधुः पक्वरसश्च सः। आमैस्तैरेव यः सीधुः स च शीतरसः स्मृतः” इति। इक्षुः काशमूलं तस्येदम् अण्। ३ काशमूलावयवभूते स्त्रियां ङीप्। इक्षुः इक्षुपत्राकारः अस्त्यस्य अण्। ४ इक्षुपत्राकारे च स्त्रियां ङीप्। “ऐक्षव्यौ विधृती” कात्या० ८, १, १४, “विधृती ऐक्षव्यौ काशमूलावयवभूते अत्र भवतः “काशमयः प्रस्तरः काशमूलमये विधृती” शाखान्तरीयवाक्यशेषात्” कर्कः। अधिकरणमालायां “बर्हिःप्रस्तरयोवन्तराले तिर्य्यक्प्रसार्य्यमाणौ दर्भौ विधृती ते अत्र इक्षुपत्ररूपे स्याता मिति” माधवः। तेनात्र ऐक्षव्यशब्दकल्पनंप्रामादिकम्। “द्रोणकलशं वायव्यानिध्मकार्ष्मर्यमयान् परिधीनाश्ववालं प्रस्तरमैक्षव्यौ विधृती तद्बर्हिरुपसंनद्धं भवति” शत० ब्रा० ३, ६, ३, १०,

ऐक्षुक = त्रि० इक्षौ साधु गुडा० ठञ्। इक्षुसाधुनि क्षेत्रादौ इक्षुं भारभूतं वहति आवहति वा ठञ्। १ भारभूतेक्षुवाहके २ तदावाहके च। इक्षवःसन्त्यस्यां नडादि० छ कुक् च। इक्षुकीया भूभिस्तस्यां भवः अण् विल्वकादि० छमात्रस्य लुक्। ऐक्षुक। तादृशभूमिभवे त्रि०।

ऐक्षुभारिक = त्रि० इक्षुभारं वहत्यावहति वा ठञ्। इक्षु १ वाहके २ तदावाहके च।

ऐक्ष्वाक = पु० इक्ष्वाकोर्गोत्रापत्यम् अण् नि०। १ सूर्य्यवंश्ये नृपे बहुषु अणोलुक्। “इक्ष्वाकूणां दुरापेऽर्थे त्वदधीनाहि सिद्धयः” रघुः। इक्ष्वाकोरयं जनपदः। ऐक्ष्वाक २ तद्राजके जनपदे च बहुषु लुक्। तत्र भवः कोपधत्वातण् ऐक्ष्वाक तज्जनपदभवे बहुषु लुक्। क्वचिन्न लुक्। “ऐक्ष्वाकेषु च मैथिलेषु च फलन्त्यस्माकमद्याशिषः” इति मुरारिः। “ऐक्ष्वाक पुरुषव्याघ्रमतिमानुषविक्रमम्” भा० शा० २९ अ०। “त्रिशङ्कुर्बन्धुभिर्मुक्त ऐक्ष्वाकः प्रीतिपूर्व्वकम् भा० अनु० ३ अ०। अत्र ऐक्ष्वाकुरितिपाठस्तु आर्षत्वात् साधुः

ऐङ्गुद = न० इङ्गुद्याः फलम् फले अण् तस्य प्लक्षा० न लुक्। इङ्गुदोवृक्षफले (जि~आपुती)

ऐच्छिक = त्रि० इच्छया निर्वृत्तः ठञ्। इच्छया कृते स्त्रियां ङीप्

ऐड = पु० इडाशब्दोऽस्त्यत्रानुवाकेऽध्याये वा विमुक्ता० अण्। इडाशब्दयुक्ते १ अध्याये २ अनुवाके च एडस्येदम् अण् ३ मेषसम्बन्धिनि त्रि० स्त्रियां ङीप्। इडा + अपत्ये शिवा० अण्। इडापत्ये पुरूरवसि पु०।

ऐडक = पुंस्त्री एडक एव स्वार्थेऽण्। १ मेषाकारे दक्षिणापथप्रसिद्धे पशुभेदे “त्रयो वा पशवोऽमेध्यादुर्वराह ऐडकः श्वा च” शत० ब्रा० १२, ४, ६, ४। एडकस्येदम् अण् तत्संबन्धिनि त्रि० एडकशब्दे उदा०।

ऐड(ल)विड(ल) = पु० इड(ल) विडा(ला) या अपत्यम् “अवृद्धाभ्यो नदीमानुषीभ्य स्तन्नामिकाभ्यः” पा० ढकोऽपवादः अण् डलयोरेकत्वस्मरणात् उभयत्र अन्यतरतो वा डस्य लो वा। कुवेरे। “तस्य प्रौतेन मनसा तान् दत्त्वे डविडस्ततः” भाग० ४, १२, ८।

ऐडिविड = पु० सूर्य्यवंश्ये क्षत्रियभेदे “नारीकवच इत्युक्तो निःक्षत्रे मूलकोऽभवत्। ततोदशरथः पुत्रस्तस्मादिडिविडस्ततः” भाग० ९, ९, ३२। सूर्य्यवंशवर्णने।

ऐण = त्रि० एणस्य कृष्णमृगमेदम् अण्। कृष्णमृगचर्म्मादौ। एणशब्दे उदा०।

ऐणीपचन = त्रि० एणीपचनदेशं भवः छाभावपक्षे अण् एणीपचनदेशभवे।

ऐणेय = त्रि० एण्या इदम् ढक्। १ कृष्णमृगचर्म्मादौ “ऐणेयरौरवाजानि अजिनानि” गोभि०। २ रतिबन्धभेदे हेम०।

ऐतर = त्रि० इतरस्यादूरभवादौ सङ्कलादि० चतुरर्थ्याम् अण्। इतरादूरभवदेशतत्सन्निकृष्टदेशादौ।

ऐतरेय = न० इतरस्य तन्नाम्न ऋषेरपत्यम् शुभ्रा० ढक्। १ इतरर्षेरपत्ये। “महिदायः ऐतरेयः छवि तेन प्रोक्तम् उ० अण्। २ आरण्यकादि व्रताख्यापके ऋग्वेदीयब्राह्मणभेदे “ऐतरेयञ्च छान्दोम्यं वृहदारण्यकं दश” इत्युक्ते तदीये ३ उपनिषद्भेदे ४ वेदशाखाभेदे च तदधीयते इनि। ऐतयेरिन् तदध्येतृषु “अन्तरेण हविषी विष्णुमुपांश्वैतरेयिणः” आश्व० श्रौ० १, ३, १२ “अग्नीषोमावेवमित्यैतरेयिणः ३, ६, ३। एकाहांश्चैतरेयिणः” १०, १, १३।

ऐतिकायन = पुंस्त्री इतिकस्यर्षेर्गोत्रापत्यं नडादि० फक्। इतिकर्षेर्गोत्रापत्ये। अनन्तरापत्ये तु इञ्। ऐतिकिरिति

ऐतिशायन = पु स्त्री ऐतिकवत्। इतिशर्षेर्गोत्रापत्ये।

ऐतिहासिक = त्रि० इतिहासादागतः इतिहास वेत्त्यधीते वा ठक्। १ इतिहासग्रन्थलब्धे २ तद्वेत्तरि ३ तदध्येतरि च।

ऐतिह्य = न० इतिह पारम्पर्य्योपदेशः अनिर्द्दिष्टप्रवक्तृकोपदेश इति यावत् स्वार्थे ष्यञ्। पारम्पर्य्योपदेशे। यथात्र वटे यक्षः प्रतिवसतीत्यादि परम्परोपदेशमात्रम् न तु के नाप्येतदुपलभ्य कथितम्। अष्टप्रमाणवादिनः पौराणिका इदं प्रमाणान्तरमुरीचक्रुः तदेतन्मतं सां० कौ० निराकृतम् यथा “यच्चानिर्द्दिष्टप्रवक्तृकं प्रवादपार म्पर्य्यमात्रम् इति होचुर्वृद्धा इत्यैतिह्यं यथा इह वटे यक्षः प्रतिवसतीति न तत् प्रमाणम् अनिर्द्दिष्टप्रवक्तृकत्वेन सांशयिकत्वात् आप्तप्रवक्तृकत्वनिश्चये त्वागम इत्युपपन्नं त्रिविधम् प्रमाणमिति” “स्मृतिः प्रत्यक्षमैतिह्य मनुमानं चतुष्टयम्” ऐतरे० “ऐतिह्यमनुमानञ्च प्रत्यक्षमपि चागमम्। ये हि सम्यक् परीक्षन्ते कुतस्तेषामबुद्धिता” रामा०।

ऐदंयुगीन = त्रि० इदंयुगे साधु प्रतियुगा० खञ्। इदंयुगसाधौ

ऐनस = न० एन एव प्रज्ञा० स्वार्थे अण्। पापे।

ऐन्दव = न० इन्दुर्देवताऽस्य। १ मृगशिरोनक्षत्रे २ इन्दुदेवताके हविरादौ त्रि०। तस्येदम् अण्। ३ चान्द्रे मासे पु० “ऐन्दवस्तिथिभिस्तद्वत् संक्रान्त्या सौर उच्यते” सू० सि०। ४ चन्द्रसम्बन्धिनि त्रि०। इन्दुःइन्दुलोकप्राप्तिः प्रयोजनमस्य अण्। ५ चान्द्रायणे व्रतभेदे। “सङ्करापात्रकृत्यासु मासं शोधनमैन्दवम्” मनुः। “कर्त्तव्यमैन्दवद्वयम्” स्मृतिः तद्व्रतस्य यथा चन्द्रलोकप्राप्तिफलकत्वं तथा चान्द्रायणशब्दे वक्ष्यते। ६ सोमराज्याम् स्त्री ङीप्।

ऐन्द्र = त्रि० इन्द्रोदेवताऽस्य अण्। इन्द्रदेवताके १ हविरादौ “ऐन्द्रं दधि ऐन्द्रं पयः” श्रुतिः। २ ऋग्विशेषे स्त्री। “ऐन्द्र्या गार्हपत्यमुपतिष्ठते” श्रुतिः। सा च ऋक् “कदाचन स्तरीरसीत्यादि”। ३ तद्देवताके ज्येष्ठानक्षत्रे न० “ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस्तथा” प्रा० त० पुरा०। तस्येदम् अण्। ४ इन्द्रसम्बन्धिनि त्रि० “ऋद्धं हि राज्यं पदमैन्द्रमाहुः” “ऐन्द्रं पदं भूमिगतोऽपि भुङ्क्ते” रघुः। ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा” “ऐन्द्रस्थानमभिप्रेप्सुर्य्यशश्चाक्षयमव्यवम्” मनुः। ५ तच्छक्तिरूपदेवीमूर्त्तिभेदे स्त्री ङीप्। “ऐन्द्रीतमसुरेश्वरम्” देवीमा० तन्त्रोक्ते भूतशुद्ध्यङ्के ६ धारणाभेदे “ऐन्द्र्या धारणया देहं स्थिरीकृत्येति भूतशुद्धौ” रघु०। तत्र भवः अण्। ७ अर्ज्जुने ८ वालिवासरे च पु० तयोस्तत उत्पत्तिमत्त्वात्। अपत्ये तु इञ्। ऐन्द्रिरित्येव ९ वनार्द्रके न० राजनि०। “ज्यैष्ठे मूले च नक्षत्रे चरेद्यदि वृहस्पतिः। ऐन्द्रः संवत्सरः स स्यात् सर्बमूताशिवप्रदः” विष्णुध० उक्ते द्वादशवर्षमध्ये १० संवत्सरभेदे पु०। तत्फलञ्च “ज्यैष्ठे जातिकुलश्रेणी श्रेष्ठा नृपाः सर्वधर्म्मज्ञाः। पीड्यन्ते सर्वधान्यानि हित्वा कङ्कुशमीजानि” मल० त०।

ऐन्द्रजालिक = त्रि० इन्द्रजालेन चरति ठक्। मायाविनि (वाजिकर) जटाधरः।

ऐन्द्रद्युम्न = न० इन्द्रद्युम्नमधिकृत्य कृतमाख्यानमण्। इन्द्रद्युम्ननृपाधिकारेण कृते आख्याने “व्रोहिद्रोणिकमाख्यान मैन्द्रद्युम्नं तथैव च” भा० आ० १ अ०। इदञ्चाख्यानं ब्रीहिद्रोणिकाख्यानात् परं मुद्रितभारते न दृश्यते क्वचित् पुस्तकान्तरेऽस्ति।

ऐन्द्रमहिक = त्रि० इन्द्रमहः प्रयोजनं कारणंफलं वास्य ठञ्। १ ऐन्द्रमहकारणके २ तत्फलके च।

ऐन्द्रवायव = त्रि० इन्द्रश्च वायुश्च इन्द्रवायू वायुशब्दयुक्तत्वात् देवताद्वन्द्वेऽपि नानङ्तौ देवते अस्य अण्। इन्द्रवायुदेवताके हविरादौ। ऐन्द्रवायवपत्रं तत्तस्थ द्वितीयम्” शत० ब्रा० ४, १, ५, १९ “यदैन्द्रवायवाग्रान् प्रातःसवने” ४, ४, १, १७।

ऐन्द्रशर्म्मि = पुंस्त्री इन्द्रशर्म्मणोऽपत्यं बाह्वा० इञ्–टिलोपश्च। इन्द्रशर्म्मनामकनृपस्यापत्ये स्त्रियां ङीप्।

ऐन्द्रहव = त्रि० ऐन्द्रहव्यस्य छात्रः कण्वा० अण् यञो लुक्। ऐन्द्रहव्यछात्रे। इन्द्रहूशब्दे इन्द्रहव्यसाधनं दृश्यम्।

ऐन्द्राग्न = त्रि० इन्द्राग्नी देवते अस्य अण्। इन्द्राग्निदेवताके हविरादौ। “एता ऐन्द्राग्नी द्विरूपा अग्नीषोमीया” यजु० २४, ८ “ऐन्द्राग्नः संहितोऽधोरामः” २९, ५८। “ऐन्द्राग्नेन विधानेन” भा० अनु० ६० अ०।

ऐन्द्रापौष्ण = त्रि० इन्द्रश्च पूषा च द्वन्द्वे आनड् इन्द्रापूषाणौ देवते अस्य अण् उपधाऽतोलोपः। इन्द्रापूषदेवताके हविरादौ। “ऐन्द्रापौष्णं चरुमिति” शत० ब्रा० ४, २, ५, ५। “अग्नापौष्णः ऐन्द्रापौष्णः” कात्या० १५, ३, १४ एवम् ऐन्द्रामारुतैन्द्रावार्हस्पत्यादयोऽपि इन्द्रसहित तत्तदेवताके हविरादुअ त्रि०।

ऐन्द्रायण = पु० इन्द्रस्यापत्यम् बा० फक्। इन्द्रापत्ये ततः चतुरर्थ्यां अरीह० वुञ्। ऐन्द्रायणक तेन निर्वृत्तादौ त्रि०

ऐन्द्रि = पु० इन्द्रस्यापत्यम् इञ्। १ जयन्ते २ अर्ज्जुने ३ वाहिवानरे ४ काके च” मेदिनिः। तत्र काके। “ऐन्द्रिः किल नस्वैस्तस्याः” रघुः। जयन्ते “कामस्तु कमलेक्षणः। ऐन्द्रिमभ्यर्द्दयामास वाणैराशीविषोपमैः” हरिवं० १३२ अ० अर्ज्जुने “सम्मोहनं शत्रुसहोऽन्यदस्त्रं प्रादुश्चकारैन्द्रिरवारणीयम्” भा० वि० ६६ अ०।

ऐन्द्रिय = त्रि० इन्द्रियेण प्रकाश्यते अण्। १ इन्द्रियप्रकाश्ये प्रत्यक्षात्मके ज्ञानभेदे तस्येदम् अण्। २ इन्द्रियसंबन्धिनि त्रि० “चतुर्थस्त्वैन्द्रियः सर्गः” भा० ३, १०, १६। स सर्गः “मनसश्चेन्द्रियाणाञ्चेति” भाग० ३, १५, २६, उक्तः। स च तैजसएव “तैजसानीन्द्रियाण्येव” भा० ३, २५, ३१, उक्तेः। इन्द्रियमेव स्वार्थेऽण्। ३ इन्द्रिये न०। “वैकारिकं तामसमैन्द्रियं सृजे” भाग० ५, २४, १७।

ऐन्द्रियक = त्रि० इन्द्रियेण प्रकाश्यः वुञ्। इन्द्रियप्रकाश्ये १ प्रत्यक्षात्मके ज्ञाने २ तद्विषये च “स च परिणामभेद ऐन्द्रियक इति नास्ति प्रत्यक्षाद्यनवरुद्धोविषय इति” सां० कौ० “यथा मनोरथः स्वप्नः सर्व्वमैन्द्रियकं मृषा” भाग० ७, २, ४४

ऐन्द्री = स्त्री इन्द्रस्येयम् इन्द्रोदेवताऽस्या वा अण् ङीप्। १ शच्याम्। २ ज्येष्ठायां तारायां ३ पूर्वस्यां दिशि ४ अलक्ष्म्याम् त्रिका०। इन्द्रवारुण्यां (राखालससा) रत्नमा० ६ सूक्ष्मैलायाम्” राजनि०। ऐन्द्रशब्दोक्तार्थेषु च।

ऐन्धायन = पुं स्त्री इन्धस्यर्षेर्गोत्रापत्यम् नडा० फक्। इन्धनामर्षेर्गोत्रापत्ये स्त्रिया टाप्।

ऐन्य = त्रि० इने सूर्य्ये स्वामिनि वा भवः कुर्व्वा० ण्य। १ सूर्य्यभवे २ स्वामिभवे च।

ऐभावत = पु० इभावतोऽपत्यम् अण्। ऋषिभेदे प्रतोदर्शे। “तद्धैतत् पपच्छुः सुप्ताः शार्ञ्जयः प्रतीदर्शमैभावतम्” शत० ब्रा० २, ८, २१३।

ऐभी = स्त्री इभ इभवाचकशब्दः अस्त्यस्याः प्रज्ञा० अण् ङीप्। १ हस्तिघोषलतायाम् राजनि० इभस्येयम् अण् ङीप्। २ हस्तिसम्बन्धिनि त्रि०।

ऐर = त्रि० इरायाम् अन्ने पृथ्व्यां जले वा भवः अण्। १ अन्नमवे मण्डे २ तत्पूर्णे ब्रह्मलोकस्थे सरसि न०। “तदैरं मदीयं सरः” छान्दो० उ०। “तत् तत्रैव इरान्नं तन्मय ऐरोमण्डस्तेन पूर्णमैरम् मदीयं तदुपयोगिनां मदकरं हर्षोत्पादकं सरः” भा०। तेन ऐरमित्येकं पदम् मदीयमित्यपरं पदम् ऐरंमदीयमित्येकशब्दकल्पनं प्रानादिकमेव। ३ भूमिभवे ४ जलभवे च त्रि०।

ऐरक्य = त्रि० एरका + भतार्थे कुर्व्वादि० ण्य। एरकाभवादौ त्रि०।

ऐरावण = पु० इरा सुरा वनमुदकं यत्र तत्र भवः अण्। पूर्व्वपदादिति णत्वम्। १ इन्द्रगजे ऐरावते। इरया उदकेन वणते शब्दाथते वण–अच् इरावणः समुद्रस्तत्र भवः अणित्येव न्याय्यम्। “श्वेतैर्दन्तेश्चतुर्भिस्तु महाकायस्ततः परम्। ऐरावणो महानागोऽभवत् वज्रभृता धृतः” भा० आ० १८ अ०। तस्य क्षीरसमुद्रोद्भवत्वेन सुरासमुद्रोद्भवत्वाभावात्। सुरेवापेयत्वात् वनमुदकमस्य तत्र मवः अण् णत्वमित्यपि साषु। प्रागुक्ता क्षीरस्वाम्युक्ताव्युत्पत्तिस्तु काल्पनिकी सुरासमुद्रेतस्याजातत्वात्। २ सर्पभेदे “वासुकिस्तक्षकश्चैव नानश्चैरावणस्तथा” भा० स० ९ अ०। वरुणलोकवर्णने।

ऐरावत = त्रि० इरा जलानि भूम्ना सन्त्यस्य इरा + मतुप् मस्य व इरावान् समुद्रस्तत्र भवः अण्। समुद्रजाते इन्द्रगजे। “प्रावृषेस्यं पयोवाहं विद्युदैरावताविव” ऐरावतास्फालनविश्लथं हरिः” रघुः। “ऐरावतस्फालनकर्कशेस” कुमा० “कुर्वन् कामं क्षणमुखपटप्रीतिमैरावतस्य” मेघ०। ३ नारङ्गेवृक्षे ४ नकुचद्रुमे च गेदि०। ५ पञ्चकलमात्राप्रस्तारे आदिलघुके अन्त्यगुरुद्वयके प्रथमे भेदे पु० ६ ऋजुदीर्घे शत्रुधनुषि मेदि०। इरावत्याः नद्याः सन्निकृष्टोदेशः अण्। ७ मरुस्थलभेदे न०। “बभूव परमाश्वाना मैरावतपथे यथा” भा० व० १६२ अ० तत्र भवः “धन्वयोपधाद्वुञ्” पा० वुञ्। ऐरावतक ऐरावतरूपधन्वदेशभवे त्रि०।

ऐरावती = स्त्री इराः सन्त्यस्य भूम्ना मतुप् मस्व वः इरावान् मेघः तत्र भवा अण्। १ विद्युति। २ ऐरावतयोषाया च मेदि० ३ वटपत्रीवृक्षे राजनि०। ४ पाञ्चालदेशस्थे नदीभेदे।

ऐरिण = न० इरिणे उषरे भवम् अण्। लवणभेदे। (पाङ्गा) राजनि०

ऐरेय = न० इरायामन्ने भवम् ढक्। १ अन्नपिष्टभवे मद्ये। इराभूमि स्तत्र भवः ढक्। २ मङ्गले पु० ३ अन्नादौ त्रि०

ऐर्म्य = न० इर्स्माय हितम् ष्यञ्। “महावीर्य्यस्तुवरकः कुष्ठमेहापहः परः। सोन्तर्धूमस्तस्य मज्जा तु दग्धः क्षिप्तन्तैले सैन्धवं चाञ्जनञ्च। ऐर्म्यं हन्यादिम्मनक्तान्ध्यकाचान्नीलीरोग तैमिरं चाञ्जनेन” सुश्रुतोक्ते अञ्जनभेदे अञ्जनेन नेत्रे लेपनेन।

ऐल = पु० इलाया अपत्यम् शिवा० अण्। १ बुधपुत्रे पुरूरवसि। “सोमपुत्राद्बुधाद्राजंस्तस्यां जज्ञे पुरूरवाः। जनयित्वा सुतं सा तमिला सुद्युम्नतां गता” हरिवं० १७८ अ० इडाशब्दे विवृतिः। “षट्सुता जज्ञिरे चैलादायुर्धीमानमावसुः। दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः” भा० आ० ७५ अ०। इला पृथ्वो तर्स्या भवः। २ भौमे मङ्गले। इलानामन्नानां समूहः अण्। ३ अन्नसमूहे न०। इलायाः पृथिव्याइदम् अण्। ४ पृथिवीजाते अन्ने च। “ये पथां पथि रक्षस ऐलबृदा आयुर्युधः” यजु० १६, ६०, ऐलमन्नसमूहमन्नं वा बिभ्रति ऐलभृतः परोक्षवृत्त्या भतकारयोर्बदकारौ। डलयोरैक्यात् ऐडशब्दोऽप्य्क्नार्थेषु

ऐलवालुक = एलवालुकमेव स्वार्थे अण्। एलवालुके (लालुका) मगन्धिद्रव्ये शब्दरत्ना०।

ऐलविल = न० राजभेदे। “भरतश्चापि दौष्मन्तिर्लेभे भूमिशया दसिम्। तस्माल्लेभे च घर्म्मज्ञो राजन्नैलविलस्तथा। ततश्चैलविलाल्लेभे” भा० शा० १६१ अ०। असिविद्यावंशवर्ण्णने। २ कुवेरे च। “बरासनगतं तत्र यथैवैलविलं तथा” हरिवं० १७७ अ०। ऐडविडशब्दे व्युत्पत्तिः।

ऐलाक = त्रि० ऐलाक्यस्य छात्रः कण्वा० अण् यञोलोपः। ऐलाक्यछात्रे।

ऐलिक = पु० इलिन्यां भवः ठक् पुंवत्। इलिन्यपत्ये दुष्मन्तादिपितामहे तंसौ राजनि “इलिनीगाम तस्यासीत् कन्या वै जनमेजय!। ब्रह्मवादिन्यधि स्त्री च तंसुस्तामभ्यगच्छत। तंसोः सुरोधो राजर्षिर्घर्म्मनेत्रः प्रतापवान्। ब्रह्म वादी पराक्रान्तस्तस्य भार्य्योपदानवी। उपदानवी सुतान् लेभे चतुरस्त्वैलिकात्मजात्। दुष्मन्तमथ सुष्यन्तं प्रवीरमनघं तथा” हरिव० ३२

ऐलेय = पु० इलायाः अपत्यम् ढक्। १ भौमे मङ्गले इलायां भवः ढक्। २ एलुवालुके गन्धद्रव्ये न० शिवादौ० इलाशब्दस्तु भानुपुत्रीडापरस्तेन ततोऽणेवेति भेदः।

ऐश = त्रि० ईशस्येदम् अण्। ईशसंबन्धिनि “सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम्” रघुः “यो लोकवीरसमितौ धनुरैशमुग्रम्” भाग० ९, १०, ६। एवमैशानैश्वरादयोऽप्यत्र स्त्रियां ङीप्। ऐशानी “पूर्व्वोत्तरयोरन्तरालदिशि “ऐशानीक्रमतो रेखोत्तराग्रा देवमण्डले। नैरृतीक्रमतोरेखा प्रागग्रा पितृमण्डले” स्मृतिः। “ऐशान्यां मरणं ध्रुवं निगदितं दिग्लक्षणं खञ्जने” ति० त० बर्धकृत्यम्। ईश्वरसम्बन्धिनि त्रि० “पश्य मे योगमैश्वरम्” गीता “ऐश्वरं धनुरभाजि यत्त्वया” रघुः २ दुर्गायां स्त्री।।

ऐश्वर्य्य = न० ईश्वरस्य भावः ष्यञ्। १ प्रभुत्वे “तस्मै निशाचरैश्वर्य्यं प्रतिशुश्राव राघवः” रघु०। इच्छानभिघातात्मके २ ईश्वरधर्मे ३ अणिमादौ च “ऐश्वर्य्यश्य समग्रस्य वीर्य्यस्य यशसः श्रियः” इति पुरा०। ऐश्वर्य्यञ्च द्विविधं नित्यं नित्येश्वरानुध्यानमन्यं योगजं वा तत्र नित्यैश्वर्य्यर्मश्वरस्य स्वाभाविकम् “स्वाम्यं यस्य निजं जगत्सु” आत्मत०। योगजञ्च बुद्धेः सात्विकगुणभेदः यथोक्तम् “अध्यवसायो बुद्धिर्धर्म्मोज्ञानं विराग ऐश्वर्य्यम्। सात्विकमेतद्रूपम् तामसमस्माद्विपर्य्यस्तम्” सां० का०। व्याख्यातञ्चेदं वाचस्पतिना “ऐश्वर्य्यमपि बुद्धिधर्मः यतोऽणिमादिप्रादुर्भावः। तत्राणिमा अणुभावः यतः शिलामपि प्रविशति। लघिमा लघुभावः यतः सूर्य्यमरीचिमालम्ब्य सूर्य्यलोकं याति। महिमा महतोभावः यतोमहान् संभवति। प्राप्तिरङ्गुल्यग्रेण स्पृशति चन्द्रम्। प्राकाम्यमिच्छानभिघातो यतोभूमावुन्मज्जति निमज्जति यथोदके। वशित्वं भूतभौतिकं वशीभवत्यस्यावश्यम्। ईशिचं भूतभौतिकानां प्रभवस्थितिमीष्टे यच्च कामावसायित्वं सत्यसङ्कल्पता यथास्य सङ्कल्पो भवति भूतेषु तथैव भूतानि भवन्ति। अन्येषां निश्चया निश्चेतव्यमनुविधीयन्ते योगिनस्तु निश्चेतव्याः पदार्था निश्चयमिति चत्वारः स त्विका बुद्धिधर्म्मा”।

पातञ्जलसूत्रभाष्यविवरणेषु कारणफलसहितं तस्य स्वरूपादिकं दर्शितं यथा। “कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम्” ४१ सू०। “यत्र कायस्तत्राकाशं तस्यावकाशदानात् कायस्य तेन सम्बन्धप्राप्तिस्तत्र कृतसंयमो जित्वा तत्सम्बन्धं लघुषु तूलादिष्वापरमाणुभ्यः समापत्तिं लब्ध्वा जितसम्बन्धो लघु र्भवति लघुत्वाच्च जले पादाभ्यां विहरति ततस्तूर्णनाभि तन्तुमात्रे विहृय रश्मिषु विहरति ततो यथेष्टमाकाशगतिरस्य भवतीति” भा० ४१। “कायाकाशसम्बन्धसंयमाद्वा लघुनि वा तूलादौ कृतसंयमात्समापत्तिं चेतसस्तत्समलघुतां लब्ध्वेति सिद्धिक्रममाह जल इति” वि० ४१। “बहिरकल्पिता वृत्तिर्म्महाविदेहा ततः प्रकाशावरणक्षय” सू० “शरीराद्बहिर्मनसोवृत्तिलाभोविदेहा नाम धारणा सा यदि शरीरप्रतिष्ठस्य मनसोबहिर्वृत्तिमात्रेण मवति सा कल्पितेत्युच्यते या तु शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः सा खल्वकल्पिता। तत्र कल्पितया साधयतृकल्पितां महाविदेहामिति यया परशरीराण्याविशन्ति योगिनः ततश्च धारणातः प्रकाशात्मनोबुद्धिसत्वस्य यदावरणं क्लेशकर्म्मविपाकत्रयं रजस्तमोमूलं तस्य च क्षयोभवति” भा० ४२। “अपरमपि परशरीरावेशहेतुसंयमं क्लेशकर्म्मविपाकक्षयहेतुं विदेहामाह शरीरादिति। अकल्पिताया महाविदेहाया य उपायस्तत् प्रदर्शनाय कल्पितां विदेहामाह सा यदीति। वृत्तिमात्रं कल्पनाज्ञानमात्रं तेन महाविदेहामाह या त्विति। उपायोपेयते कल्पिताकल्पितयोराह तत्रेति। किं परशरीरावेशमात्रमिती नेत्याह ततश्चेति। ततोधारणातो महाविदेहायै मनसि प्रवृत्ते सिद्धे क्लेशश्च कर्म्म च ताभ्यां विपाकत्रयं जात्यायुर्भोगाः तदेतद्रजस्तमोभूल विगलितरजस्तमसः सत्वमात्रात् विबेकख्यातिमात्रसमुत्पादात्तदेतद्विपाकत्रयं रजस्तमोभूलतया तदात्मकं सद्वुद्धिसत्वमावृणोति तत्क्षयाच्च निरावरणं योगिचित्तं यथेच्छं विहरति जानाति” वि० “स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः” मू० ४३। “तत्र पार्थिवाद्याः शब्दादयोविशेषाः सहकारादिभिर्धर्म्मैः स्थूलशन्देन परिभाषिता एतद्भूतानां प्रथमं रूपं द्वितीयं रूपं स्वसामान्यं मूर्त्तिर्भूमिः स्नेहोजलं वह्निरुष्णता वायुः प्रणामी सर्व्वतीगतिराकाशैत्येतत् स्वरूपशब्देनीच्यते अस्य सामान्यस्य शब्दादयोविशेषाः तथाचोक्तम् “एकजातिसमन्वितानामेषां धर्म्ममात्रव्यावृत्तिरिति” सामान्यविशेषसमुदयोऽत्र द्रष्टव्यः। द्विष्ठोहि समूहः प्रत्यस्तमितभेदावयवानुगतः शरीरं वृक्षोयूथं वनमिति शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्याः समृहस्य देवा एकोभागो मनुष्या द्वितीयोभागस्ताभ्यामेवाभिधीयते समूहः। स च भेदाभेदविवक्षित आम्राणां वनं ब्राह्मणानां सङ्घ “आम्रवन ब्राह्मणसंघ” इति स पुनर्द्विविधोयुतसिद्धावयवोऽयुतसिद्धावयवश्च युतसिद्धावयवः समूहोवनं सङ्घ इति। अयुतसिद्धावयवः सङ्घातः शरीरं वृक्षः परमाणुरिति। अयुतसिद्धावयवभेदानुगतः ममूहो द्रव्यमिति पतञ्जलिः। एतत्स्वरूपमित्युक्तम्। अथ किमेषां सूक्ष्मरूपं? तन्मात्रं भूतकारणं तस्यैकोऽवयवः परमाणुसामान्यविशेषात्मा अयुतसिद्वावयवभेदानुगतः समुदाय इत्येवं सर्व्वतन्मात्राणि एतत् तृतीयम्। अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीलगुणाः कार्य्यस्व भावानुपातिनोऽन्वयशब्देनोक्ताः। अथैषां पञ्चमरूपमर्थ वत्त्वं भोगापवर्गार्थता गुणेष्वन्वयिनी गुणास्तन्मात्रभूतभौतिकेष्विति सर्वमर्थवत्। तेष्विदानीं भूतेषु पञ्चसु पञ्चरूपेषु सयमात्तस्य तस्य रूपस्य स्वरूपदर्शनं जयश्च प्रादुर्भवति तत्र पञ्चभूतस्वरूपाणि जित्वा मूतजयी भवति तज्जयाद्वत्सानुसारिस्थ इव गावोऽस्य सङ्गल्पानुविधायिन्योभूतप्रकृतयो भवन्ति” भा०। स्थूलञ्च स्वरूपञ्च मूक्ष्मञ्चान्वयश्चार्थंवत्त्वञ्चेति स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वानि तेषु संय- मात्तज्जयः। स्थूलमाह तत्रेति पार्थिवाः पाथसीयास्तैजसा वायवीया आकाशीयाः शब्दस्पर्शरूपरसगन्धा यथासम्भवं विशेषाः षड्जगान्धारादयः शीतोष्णादयो नीलपीतादयः कषायमधुरादयः सौरभादयश्च, एते हि नामरूपप्रयोजनैः परस्परतोमिद्यन्तैति विशेषाः एतेषां पञ्च पृथिव्यां, गन्धवर्ज्जञ्चत्वारोऽप्सु, गन्धरसवर्जं त्रयस्तेजसि, गन्धरसरूपवर्जं द्वौ नभस्वति, शब्दएवाकाशे। तत्र त ईदृशा विशेषाः सहकारादिभिर्घर्म्मैः स्थूलशब्देन परिभाषिताः शास्त्रे तत्रापि पार्थिवास्तावद्धर्म्माः। “आकारो गौरवं रौक्षं वरणं स्थैर्य्यमेव च। वृत्तिभेदः क्षमा कार्ष्ण्यं काठिन्यं सर्व्वभोग्यता”। अपां धर्म्माः “स्नेहः सौक्ष्म्यं प्रभा शौक्ल्यं मार्द्दवं गौरवञ्च यत्। शैत्यं रक्षा पवित्रत्वं सन्धानं चौदका गुणाः”। तैजसाधर्म्माः “ऊर्द्ध्वभाक् पाचकं दग्धृ पावकंलघु भास्वरम्। प्रध्वंस्योजस्वि वै तेजः पूर्व्वाभ्यां भिन्नलक्षणम्”। वायवीयाधर्म्माः “तिर्य्यग्यानं पवित्रत्वमाक्षेपो नोदनं बलम्। चलमच्छायता रौक्ष्यं वायौ धर्म्माः पृथग्विधाः”। आकाशीया धर्म्माः “सर्व्वतो गतिरव्यूहो विष्टम्भश्चेति च त्रयः। आकाशधर्म्मा व्याख्याता पूर्ब्बधर्म्मविलक्षणाः इति। तत्र आकारप्रभृतयो धर्म्मास्तैः सहेति आकार सामान्यविशेषो गोत्वादि। द्वितीयरूपमाह। द्वितीयं रूपं स्वसामान्यं मूर्त्तिः सांसिद्धिकं काठिन्यं, स्नेहः जलं मृज्जलजपुष्टिर्बलाधानहेतुः। वह्निरुष्णता औदर्य्येशौर्य्ये भौमे च सर्व्वत्रैव तेजसि समवेतोष्णतेति सर्व्वञ्चैतद्धर्म्मधार्म्मणोरभेदविवक्षयाभिधानम्। वायुः प्रणामी वहन शीलः तदाह “चलनेन तृणादीनां शरीरस्याटनेन च। सर्व्वगं वायुसामान्यं नामित्वमनुमीयते” सर्व्वतोगतिराकाशः सर्व्वत्र शब्दोपलब्धिदर्शनात् श्रोत्राश्रयाकाशगुणेन हि शब्देन पार्थिवादिशब्दोपलब्धिरित्युपपादितमधस्तात् एतत् स्वरूपशब्देनोक्तम्। अस्यैव मुर्त्त्यादिसामान्थस्य शब्दादयः षड्जादयः उष्णत्वादयः शुक्लचादयः कषायत्वादयः सुरभित्वादयो मूर्त्त्यादीनां भेदाः सामान्यान्यपि मूर्त्त्यादोनि जम्बीरपनसामलकफलादीनि रसादिभेदात् परस्परं व्यावर्त्तन्ते तेनैतेषाम् एते रसादयो विशेषाः तथा चोक्तम् “एजजाति सम न्वितानां प्रत्येकं पृथिव्यादीनामेकैकया जात्या मूर्त्ति स्नेहादीनां समन्वितानामेषां षड्जादिधर्म्ममात्रव्यावृत्तिरिति। तदेवं सामान्यं मूर्त्त्याद्युक्तं विशेषाश्च शब्दादय उक्ताः। ये चाहुः “सामान्यविशेषाश्रयो द्रव्यमिति” तान् प्रत्याह सामान्यविशेषसमुदायोऽत्र दर्शने द्रव्यम् येऽपि तदाश्रयो द्रव्यमास्थिषत तैरपि तत्समुदायोऽनुभूयमानो नापह्नोतव्यः नच तदपह्नवे तदाधारो द्रव्यमिति भवति तस्मात्तदेवास्तु द्रव्यं न तु ताभ्यां, तत्समुदायाच्च तदाधारमपरद्रव्यमुपलभामहे ग्रग्वेभ्यो ग्रावसमुदायादिवच्च तदाधारमपरं पृथग्विधं शिखरं समूहो द्रव्यमित्युक्तम्। तत्र समूह मात्रं द्रव्यमिति म्रमापनुत्तये समूहविशेषीद्रव्यमिति निर्द्धारयितुं समूहप्रकारानाह। द्विष्ठोहीति यस्मादेवं तस्मान्न समूहमात्रं द्रव्यमित्यर्थः। द्वाभ्यां प्रकाराभ्यां तिष्ठतीति द्विष्ठः। एकं प्रकारमाह। प्रत्यस्तमितेति प्रत्यस्तमितोभेदो येषामवयवानां ते तथोक्ता प्रत्यस्तमितभेदा अवयवा यस्य स तथोक्तः एतदुक्तं भवति शरीरवृक्षयूथ वनशब्देभ्यः समूहः प्रतीयमानोऽप्रतीतावयवभेदस्तद्वाचकशब्दाप्रयोगात् समूह एकोऽवगम्यते इतियुतायुतसिद्धा वयवत्वेन चेतनाचेतनत्वेनचोदाहरणचतुष्टयम्। युतायुतसिद्धावयवत्वञ्चाग्रे वक्ष्यते। द्वितीयं प्रकारमाह। शब्देनोपात्तभेदावयवानुगतः समूहः उभये देवमनुष्या इति देवमनुष्याः इति हि शब्देनोभयशब्दवाच्यस्य समूहस्य भागौ भिन्नावपात्तौ। ननूभयशब्दात्तावदवयवभेदो न प्रतीयते तत्कथमुपात्त भेदावयवानुगत इत्यतआह। ताभ्यां भागाभ्यामेव समूहोऽभिधीयते उभयशब्देन भागद्वयवाचि शब्दसहितेन समूहोवाच्यः वाक्यस्य वाक्यार्थवाचकत्वादिति भावः। पुनर्द्वैविध्य माह स चेति। भेदेन चाभेदेन च विवक्षितमाह। आम्राणां वनं ब्राह्मणानां समूहः इति। भेदएव षष्ठीश्रुतेः। यथा गर्गाणां गौरिति। अभेद विवक्षितमाह। आम्रवनम्। आम्राश्च ते वनञ्चेति समूह समूहिनोरभेदं विवक्षित्वा सामानाधिकरण्यमित्यर्थः। विधान्तरमाह। स पुनर्द्बिविधः युतसिद्धावयवः समूहः युतसिद्धाः पृथक्सिद्धाः सान्तराला अवयवा यस्य स तथोक्तः यूथं वनमिति सान्तराला हि तदवयवा वृक्षाश्च गावश्चायुतसिद्धावयवश्च समूहो वृक्षोगौः परमाणुरिति निरन्तराह तदवयवाः सामान्यविशेषा वा सास्रादयोवेति। तदेतेषु समूहेषु द्रव्यभूत समूहं निर्धारयति अयुतसिद्धेति तदेवं प्रासङ्गिकं द्रव्यं व्युत्पाद्य प्रकृतमुपसंहरति एतत्स्वरूपमित्युक्तमिति। तृतीयं रूपं विवक्षुः पृच्छति अथेति। उत्तरमाह। तन्मात्रमिति। तस्यैकोऽवयवः परिणामभेदः परमाणुसामान्यं मूर्त्तिः। शब्दादयोविशेषाः तदात्मानः अयुतसिद्धा निरान्तरायेऽवयवाः सामान्यविशेषास्तद्भेदेष्वनुगतः समुदायः यथा च परमाणुः सूक्ष्मं रूपम् एवं सर्वतन्मात्राणि सूक्ष्मं रूपमिति उपसंहरति एतदिति। अथ भूतानां चतुर्यं रूपं ख्यातिक्रिया स्थितिशीलागुणाः कार्य्यस्वभावमनुपतितुमनुगन्तुं शीलं येषां ते तथोक्ताः अतएपान्वयशब्देनोक्ताः। अथैषां पञ्चमं रूपसर्थवत्त्वं विवृणोति भोगेति। नन्वेवमपि सन्तुगुणा अर्थवन्तस्तत्कार्य्याणां तु कुतोऽर्थवत्त्वमित्यत आह। गुणा इति। भौतिका गोघटादयः। तदेवं संयमविषय मुक्त्वा स यमं तत् फलञ्चाह तेष्विति। भूतप्रकृतयोभूतस्वभावाः” ४३ वि०।। “ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्म्माऽनभिघातश्च” सू० “तत्राऽणिमा भवत्यणुः। लघिमा लघुर्भषति। महिमा महान् भवति। प्राप्तिरङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम्। प्राकाम्यमिच्छानभिघातः भूमावुन्मज्जति मज्जति यथोदके। वशित्वं भूतभौतिकेषु वशीभवत्यस्यावश्यमथान्येषाम् ईशित्वं तेषां प्रभवाप्ययव्यूहानामीष्टे यच्च कामावसायित्वं सत्य सङ्कल्पता यथासङ्कल्पस्तथाभूतप्रकृतीनामवस्थानम्। न च शक्तोऽपि पदार्थविपर्य्यासं करोति, कस्मात् अन्यस्य यथा कामावसायिनः पूर्वसिद्धस्य तथा भूतेषु सङ्कल्पादिति। एतान्यष्टावैश्वर्य्याणि। कायसम्पद्वक्ष्यमाणा तद्वर्म्मानभिघातश्च पृथ्वी मूर्त्त्या न निरुणद्धि योगिनः, शरीरादिक्रियाः शिलामप्यनुविशतीति, नापः स्निग्धाः क्लेदयन्ति, नाग्निरुष्णोदहति न वायुः प्रणामी वहत्यनावरणात्मकेऽप्याकाशे भवत्यावृतकायः सिद्धानामप्यदृश्योभवति” भा०। “सङ्कल्पानुविधाने मूतानां किं योगिनः सिध्यतीत्यत आह “स्थूलसंयमविजयाच्चतस्रः सिद्धयो भवन्तीत्याह। तत्राणिमा १ महानपि भवत्यणुः। लघिमा २ महानपि लघुर्भूत्वेषीकातूल इवाकाशे विहरति। ३ महिमाऽल्पोऽपि नागनगगगनपरिमाणो भवति। पाप्तिः ४ सर्वेभावाः सन्निहिता भवन्ति योगिनस्तद्यथा भूमिष्ठ एवाद्भुल्यग्रेण स्पृशति चन्द्रमसम्। स्वरूपसंयमविजयात् सिद्धिमाह। प्राकाम्यमिच्छानभिघातो ५ नास्य रूपं भूतस्वरूपै र्मूर्त्त्यादिभिरभिहत्यते भूनावुन्मज्जति मज्जति च यथोदके। सूक्ष्मविषयसंयमजयात् सिद्धिमाह वशित्व” भूतानि पृथिव्यादीनि भौतिकानि गोघटादीनि तेषु वशी स्वतन्त्रीभवति ६। तेषां त्ववश्यं तत्कारणतन्मात्रपृथिव्यादिपरमाणुवशीकारात्तत्कार्य्य वशीकारस्तेन यानि यथावस्थापयति तानि तथावतिष्ठन्ते इत्यर्थः। अन्वयविषयसंयमजयात् सिद्धिमाह ईशितृत्वं ७ तेषां भूतभौतिकानां विजितमूलप्रकृतिः सन् यः प्रभव उत्पादो यश्चापायोविनाशो यश्च व्यूहो यथावदवस्थारूपः तेषामीष्टे। अर्थवत्त्वसंयमात् सिद्धिमाह। यच्च कामावसायित्वं ८ सत्यसङ्कल्पता विजितगुणार्थवत्त्वो हि योगी यद्यदर्थतया सङ्कल्पयति तत्तस्मै प्रयोजनाय कल्पते। विषमप्यमृतकार्य्ये सङ्कल्प्य भोजयन् जीवयतीति। स्यादेतद् यथा शक्तिविपर्य्यासङ्करोत्येवं पदार्थविपर्य्यासमपि कस्मान्न करोति तथाच चन्द्रमसमादित्यं कुर्य्यात् कुहूञ्च सिनीवालीमित्यत आह न च शक्तोऽपीति। न खल्वेते यत्रकामावसायिनस्तत्र तत्रभवतः परमेश्वरस्याज्ञामतिक्रमितुमुत्सहन्ते। वस्तुपदार्थानां जातिदेशकालावस्थाभेदेनानियतस्वभावा इति युज्यते तासु तदिच्छानुविधानमिति। एतान्यष्टावैश्वर्य्याणि तद्धर्म्मानभिघात इति अणिमादि प्रादुर्भाव इत्यनेनैव तद्धर्म्मानभिघातसिद्धौ पुनरुपादानं कायसिद्धिवत् एतत् सूत्रोपनिबद्धसकलविषयसंयमफलवत्त्वज्ञापनाय। सुगममन्यत्”।। ४४ वि०।

वेदान्तिमते नित्यैश्वर्य्यमीश्वरस्यैव योगिनान्तु ऐश्वर्य्यं तदधीनमित्यतोन जगत्सर्ज्जने तेषां शक्तिः। यथोक्तं शारीरकसूत्रभाष्येषु

“जगद्व्यापारवजं प्रकरणादसन्निहितत्वाच्च” सू०। “ये सगुणब्रह्मोपासनात् सहैव मनसेश्वरसायुज्यं व्रजन्ति किन्नु एषां निरवग्रहमैश्वर्थ्यं? भवत्याहोस्वित् सावग्रहमिति संशयः। किन्तावत् प्राप्तं निरङ्कुशमेवैषामैश्वर्य्यं भवितुमर्हति “आप्नोति स्वाराज्यम्” “सर्व्वेऽस्मै देवाबलिमावहन्ति” “तेषां सर्व्वेषु लोकेषु कामचारोभवतीत्यादि” श्रुतिभ्यः। इत्येवं प्राप्ते पठति जगद्व्यापारवर्जमिति। जगदुत्पत्त्यादिव्यापारं वर्जयित्वाऽन्यदणिमाद्यात्मकमैश्वर्य्यं मुक्तानां भवितुमर्हति जगद्व्यापारस्तु नित्यसिद्धस्यैवेश्वरस्य। कुतः? तस्य तत्र प्रकृतत्वादसन्निहितत्वाच्चेतरेषाम्। परएवहीश्वरो जगद्व्यापारेऽधिकृतः तमेव प्रकृत्योत्पत्त्याद्युपदेशान्नित्यशब्दनिबन्धनत्वाच्च तदन्वेषणविजिज्ञासनपूर्ब्बकमितरेषामादिमदैश्वर्य्यं श्रूयते तेनासन्निहितास्ते जगद्व्यापारे। समनस्कत्वादेव चैषामनैक मत्ये कस्य चित् स्थित्यभिप्रायः कस्यचित्संहाराभिपाय इत्येवं विरोधोऽपि कदाचित् स्यात्। अथ कस्यचित्सङ्कल्पमन्वन्यस्य सङ्कल्प इत्यविरोधः समर्थ्येत। ततः पर- मेश्वराहृततन्त्रत्वमेवेतरेषामिति व्यवतिष्ठते” भा०।

ऐषमस् = अव्य० अस्मिन् वत्सरे नि०। वर्त्तमानवत्सरे। ततः भवार्थेट्युल् तुट्च। ऐषमस्तन तद्भवे स्त्रियां ङीप्। पक्षेत्यप्। ऐषमस्त्य तत्रार्थे त्रि० स्त्रियां टाप्।

ऐषीक = न० इषीकमेव स्वार्थे अण्। इषीकाशब्दार्थे।

ऐषुकारि = पु० इषुकारस्यापत्यम् इञ्। शरकारापत्ये तस्य विषयोदेशः भक्तल्। ऐषुकारिभक्त तद्विषये देशे।

ऐषुकार्य्यादि = पु० पाणिन्युक्ते विषये देशेऽर्थे भक्तल्प्रत्ययनिमित्ते शब्दगण भेदे। स च गणः “ऐषुकारि, सारस्यायन। चान्द्रायण। द्व्याक्षायण। त्र्याक्षायण। औडायन। जौलायन। खाडायन। दासमित्रि दासमित्रायण शौद्रायण द्राक्षायण, शायण्डायन। तार्क्ष्यायण। शौभ्रायण। सौवीर। सौवीरायण। शयण्ड। शौण्ड। शयाण्ड। वैश्व मानव। वैश्व धेनव। नड। तुण्डदेव। विश्वदेव। सापिण्डि”।

ऐष्टिक = पु० इष्टेर्व्याख्यानो ग्रन्थः द्व्यच्कत्वात् ठक्। इष्टेर्व्याख्याने १ ग्रन्थे इष्टाय हितम् ठक्। इष्टरूपयागादेर्हिते २ अन्तर्विदिके कर्मभेदे “दानधर्मं निषेवेत नित्यमैष्टिकपौर्त्तिकम्” मनुः। “अस्ति तावत् प्राचीनवंशशाला तस्यामाहवनीयाद्यग्नित्रयमैष्टिकवेदिश्च” यजु० ५, १४ वेददी इष्ट्यै प्रभवति ठक्। ३ इष्टिसाधनसमर्थेप्रयोगे च। “यजमानशब्दादैष्टिकेषु निगमेषु” आश्व० श्रौ० ५, ३, ७,। तेषां समावापादि यथार्थमभिधानमैष्टिके तन्त्रे” ४, १, ९।

ऐहलौकिक = त्रि० इहलोके भवः ठञ् द्विपदवृद्धिः। इहलोकजाते “ऐहलौकिकमेवेह उताहो पारलौकिकम्” भा० व० ३८१ अ०। “ऐहलौकिकमीहन्ते मांसशोणितवर्द्धनम्” भा० व० ११८ अ०। स्त्रियां ङीप्।

ऐहिक = त्रि० इह भवः कालाट्ठञ्। १ इहलोकभवे २ गृहीतशरीरसम्बन्धिनि स्रक्चन्दनादिसुखानुभवादौ च। “क्कचि द्रुमवदैहिकार्थेषु गृहेषु” भाग०५, १४, ३२। “यथैहिकामुष्मिककामलम्पटः” भाग० ५, १९, १४। इह विदितः ठञ्। ३ इहविदिते ४ “ऐहिकब्रह्मघ्नपतेर्दाहादिनिषेधात् जन्मान्तरीणतत्पापवत एव सहमरणेनोद्धारः” शु० त० रघु०। स्त्रियां ङीप्। इति वाचस्पत्ये ऐकारादिशब्दार्थसङ्कलनम्।

***