वाचस्पत्यम्
एकादि
links:
Menu अ–ह
Prev एकात–एकाद
Next एकादे–एकौ
एकादि
UpasanaYoga
.org

एकादि = त्रि० एक आदिर्यस्य। १ एकत्वस ख्यान्वितमारभ्य परार्द्धान्तसंख्यायुक्ते। २ तत्स्मारके रेखासन्निवेशविशेषरूपे- अङ्के च। अङ्काश्च नव तेषामेव स्थानविशेषयोगभेदेन विभिन्नसंख्यास्मारकत्वम्। अथ एकाद्यङ्कैः यद् यत्संख्यान्विताः स्मार्य्यन्ते तदुच्यते। १ इत्यङ्केन एकः एवं २, द्वौ, ३, त्रयः, ४, चत्वारः ५, पञ्च ६, षट् ७, सप्त ८, अष्टौ ९, नव १०, दश। दशानामेकादिनवभिरङ्कैराधिक्ये ११, १२, १३, १४, १५, १६, १७, १८, १९ इत्येतेऽङ्काः क्रमेण एकादशद्वादशत्रयोदशचतुर्द्दश पञ्चदशषोडशसप्तदशाष्टादशनवदशानां स्मारकाः। दशाङ्कस्य च द्व्यादिनवभिर्गुणने क्रमेण २०, ३०, ४०, ५०, ६०, ७०, ८०, ९० एतेऽङ्काः क्रमेण विंशतित्रिंशच्चत्वासिशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिसंख्यान्वितानां स्मारकाः। एषाञ्च एकादिकनवभिराधिक्ये २१, २२, २३, २४, २५, २६, २७, २८, २९, इत्येतेऽङ्का एकविंशत्यादीनां स्माराकाः। एवं ३१ इत्यादयोऽङ्का एकत्रिंशदादीनां स्मारकाः। दशभि र्गुणिते दशाङ्के १०० इत्यङ्कः शतस्य स्मारकः। क्रमेण दशोत्तरगुणने “एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः। अर्वुदमब्जं सर्वनिखर्वं महापद्मशङ्कवस्तस्मात्। जलधिश्चान्त्यं मध्यं परार्द्धमिति दशगुणोत्तराः संज्ञाः संख्यायाः स्थानानां व्यवहारार्थं कृताः पूर्वैः” इति लोलावत्युक्तदिशावसेयम्। संक्षेपेण तत्रैकाद्यङ्गानां क्रमशः स्थितानां योगज संख्याज्ञानार्थमुपायान्तरमुक्तं तत्रैव यथा “एकादिनवानामङ्कानां योगे का संख्येति प्रश्ने “सैकपदघ्नपदार्द्धमथैकाद्यङ्कयुतिः किल सङ्कलिताख्या” इत्युक्तरीत्या पृष्ठसंख्यापदं एकयुक्तेन तेन १० अङ्केनाहतं पृष्ठाङ्कार्द्धम् ९ / २ ४५ संङ्कलितसंख्या। तथाचैकादिनवाङ्क्यानां योगे ४५ संख्या भवतीति निश्चय एवमन्यत्राप्यूह्यम्। “एकाद्येकोत्तरा अङ्का व्यस्ता भाज्याः क्रमस्थितैः” लीला० एकादिसंख्यानां वाचकाश्च कतिचित् शब्दाः कविकल्पकतायां संगृहीताः यथा। “एकोब्रह्मेन्द्रहस्त्यश्वगजास्यदन्तशुक्रदृक् १। द्वयं पक्ष नदीकूलासिधारारामनन्दनौ २। त्रयं कालोऽग्निमुवनं गङ्गामार्गेशदृग्गुणाः। ग्रीवारेखा कालिदासकाव्यम् शूलशिखा बलिः। सन्ध्यापुरपुष्कराणि रामविष्णुपदं वयः ३। चत्वारि वेदब्रह्मास्यवर्ण्णाब्धिहरिबाहवः। स्वर्द्दन्तिदन्तसेनाङ्गोपाययामयुगाश्रमाः ४। पञ्च पाण्डवरुद्रास्येन्द्रियस्वर्द्रुव्रताग्नयः। महापापमहामूत महाकाव्यमहामखाः। पुराणलक्षणान्यङ्गानिलकर्मेन्द्रियार्थकाः ५। षट् वज्रकोणत्रिशिरोनेत्रतर्काङ्गं दर्शनम्। चक्रवर्त्तिमहासेनवदनानि गुणा रसाः ६। सप्त पातालभुवनमुनिद्वीपाकीजिनः। वाराब्धिगृपराज्याङ्गव्रीहिवह्निशिखाद्रयः ७। अष्टौ योगाङ्गवस्वीशमूर्त्तिदिग्गजसिद्धयः। ब्रह्मश्रुतिव्याकरणदिक्पालाहि कुलाचलाः ८। नवाङ्गद्वारभूखण्डकृत्तरावणमस्तकाः। व्याघ्रीस्तनसुराकुण्डसेव ध्यङ्करसग्रहाः ९। दश हस्ताङ्गुलीशम्भुबाहुरावणमौलयः। कृष्णावतारदिग्विश्वे देवावस्थेन्दुवाजिनः १०। एकादश महादेवाः सेनाश्च कुरुभूपतेः ११। द्वादशार्कमासराशिसंक्रान्तिगुहबाहवः। शारीकोष्ठकसेनानीनेत्रक्ष्मापतिमण्डलाः १२। त्रयोदश स्युस्ताम्बूलगुणा १३ अथ चतुर्दश। विद्यामनुत्रिदिवराड्भुवनध्रुवतारकाः १४। तिथयः स्युः पञ्चदश १५ षोडशेन्दुकलात्मिकाः १६। अष्टादश द्वीपविद्यापुराणस्मृतिधान्यकम् १८। सिंशतीरावणभुजाङ्गुलयो २०ऽथ शतं यथा। धार्त्तराष्ट्राः शतभिषक्तारका पुरुषायुषम्। रावणाङ्गुल्यब्जदलशक्रयज्ञाब्धियोजनम् १००। सहस्रं जाह्नवीवर्त्म शेषशीर्षाम्बुजच्छदम्। रविवाणार्ज्जुनकरा वेदशास्वेन्द्रदृष्टयः”। १०००। शा० ति० केषाञ्चित् संख्याभेदान्विततयोत्पत्तिकथनेन तेषां तत्तत्संख्याबोधकत्वं सूचितंयथा “हंसवर्णौपरात्मानौ शब्दार्थौ वासरक्षपे। सृजत्येषा परा देवी तदा प्रकृतिपूरुषौ। थद्यदन्यज्जगत्यस्मिन् युग्मं तत्तदजायत२। त्रिगुणीकृतसर्वाङ्गी चिद्रूपा शिवगेहिनी। प्रसूते त्रैपुरं मन्त्रम्” इत्युपक्रम्य “लोकत्रयगुणत्रये। धामत्रयं सा वेदानां त्रयं वर्णत्रयं शुभम्। त्रिपुष्करं स्वरान्देवीब्रह्मादीनां त्रयं तथा। वह्निकालत्रयं शक्तित्रयं वृत्तित्रयं महत्। नाडीत्रयं त्रिवर्गं सा यद्यदन्यत्त्रिधा मतम्। चतुःप्रकारगुणिता शाम्भवी शर्मदायिनी” इत्युपक्रम्य “चतुरः सागरानन्तःकरणानां चतुष्टयम्। सूक्ष्मादींश्चतुरोभावान् विष्णोर्मूर्त्तिचतुष्टयम्। चतुष्टयं गणेशानामात्मादीनां चतुष्टयम्। उड्डियानादिकं पीठं धर्मादीनां चतुष्टयम्। दमकादीन् गजान् देवी यद्यदन्यच्चतुष्टयम् ४। पञ्चधा गुणिता पत्नी शम्भोः सर्वार्थसाधिनी। पञ्चरत्नं महादेवी सर्वकामफलप्रदम्। पञ्चाक्षरं महेशस्य पञ्चवर्णान् गरुत्मतः। सम्मोहनान् पञ्च वाणान् कामान् पञ्च सुरद्रुमान्। पञ्च प्राणादिकान् वायून् पञ्च वर्णान् महेशितुः। मूर्त्तीः पञ्च, कलाः पञ्च ब्रह्मऋचः क्रमात्। सृजत्येषा परा शक्तिर्वेदवेदार्थरूपिणी ५। षोढा संगुणिता देवी धत्ते मन्त्रं षडक्षरम्। ऋतून् वसन्तप्रमुखाना- मोदादीन् गणाधिपान्। कोषानूर्मीन् रसान् शक्तीर्डाकिन्याद्याः षडध्वनः। यन्त्रं षड्गुणितं शक्तेः षडाधारानजीजनत्। षड्विधं यज्जगत्यस्मिन् सर्वन्तु परमेश्वरी६। सप्तधा गुणिता नित्या शङ्करार्द्धशरीरिणी। सप्तार्णं त्रिपुरामन्त्रं सप्तवर्णं विनायकम्। सप्तकं व्याहृतीनां सा सप्तवर्णें सुदर्शनम्। लोकानद्रीन् स्वरान् धातून् मुनीन् द्वीपान ग्रहानषि। समिधः सप्त संख्याताः सप्तजिह्वा हविर्भुजः। अत्यत् सप्तविधं यद्यत्तदस्याः समजायत ७। अष्टघा गुणिता शक्तिः शैवमष्टाक्षरद्वयम्। गन्धाष्टक शुभं देवीदेवानां हृदयङ्गमम्। ब्राह्म्याद्याभैरवान् सर्वान् मूर्त्तीरेशीर्वसूनपि। अष्टपीटं महादेव्या अष्टाष्टकसमन्वितम्। अष्टौ सा प्रकृतीर्विघ्नान् वक्रतुण्डादिकान् क्रमात्। अणिमादिगुणान्नागान् वह्नेर्मूर्त्तीर्यमादिकान्। अष्टात्मक जगत्यन्यत् सर्वं वितनुते तदा ८। गुणिता नवधा नित्या सूते मन्त्रं नवात्मकम्। नवकं शक्तितत्त्वानां तत्त्वरूपा महेश्वरी। नवकं पीठ शक्तीनां शृङ्गारादीन् रसानपि। माणिक्यादीनि रत्नानि नववर्गयुतानि सा। नवकं प्राणदूतीनां मण्डलं नबकं शुभम्। यद्यन्नवात्मकं लोके सर्वमस्यामुदञ्चत ९। दशधा गुणिता शम्भोर्भामिनी भवदुःस्वहा। दशकं शक्तितत्त्वानां तत्त्वरूपा महेश्वरी। नाडीनां दशकं विष्णोरवतारान् दश क्रमात्। दशकं लोकपालानां यद्यन्यत्कल्पयत्यसौ १०। एकादश क्रमात् संविद् गुणिता सा जगन्मयो। रुद्रैकादशनामाद्या शक्तेरेकादशाक्षरम् ११। समुद्गरति सर्वात्मा गुणिता द्वादश क्रमात्। राशीन् मासान् हरेर्मूर्त्तीर्यन्त्रं सा द्वादशात्मकम। अन्यदेतादृशं सर्वं यत् तदस्याव्यजायत”। अत्र च यो यः पदार्थः यद्यत्संख्यान्विततया उत्पन्नः मलःस्वगतसंख्यातुल्यसंख्यासूचकः भवति च निदर्शित पदार्थानां तत्तत्संख्यायुक्ततया लोकशास्त्रप्रसिद्धिः इत्यत स्तत्तच्छब्दानां तत्तत्संख्यास्मारकत्वम्। तथाचैकविधसंख्यागुणितप्रकृतिकार्य्यत्वेन तुल्यसंख्याबोधकत्वम्। अन्येऽपि केचित् संख्याविशेषसूचकाः भा० व० १३४ अ० दर्शिता यथा। “वन्द्युवा च। एक एवा ग्निर्बहुधा समिध्यत एकः सूर्य्यः सर्व्वमिदं विभाति। एको वीरो देवराजोऽरिहन्ता यमः पितॄणामीश्वरश्चैक एव १। अष्टावक्र उवाच। द्वाविन्द्राग्नी चरतो वै सखायौ द्वौ देवर्षी नारदपर्व्वतौ च। द्वावश्विनौ देरथस्यापि चक्रे भार्य्यापती द्वौ विहितौ विधात्रा २। वन्द्युवाच। त्रिः सूयते कर्म्मणा वैप्रजेयं त्रयीयुक्ता वाजपेयं वहन्ति। अध्वर्य्यवस्त्रिसवनानि तन्वते त्रयो लोकास्त्रीणि ज्योतींषि चाहुः ३। अष्टावक्र उवाच। चतुष्टयं ब्राह्मणानां निकेतं चत्वारो वर्ण्णा यज्ञमिमं वहन्ति। दिशश्चतस्रो वर्णचतुष्टयञ्च चतुष्पदा गौरपि शश्वदुक्ता ४। वन्द्युवाच। पञ्चाग्नय पञ्चपदा च पङ्क्तिर्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि। दृष्टा वेदे पञ्चचूडाप्सराश्च लोके ख्यातं पञ्चनदञ्च पुण्यम् ५। अष्टावक्र उवाच। षडाधाने दक्षिणामाहुरेके षड् वै चेमे ऋतवः कालचक्रम्। षडिन्द्रियाण्युत षट् कृत्तिकाश्च षट्साद्यस्काः सर्व्ववेदेषु दृष्टाः ६। वन्द्युवाच सप्त ग्राम्याः पशवः सप्त वन्याः सप्त च्छन्दांसि क्रतुमेकं वहन्ति। सप्तर्षयः सप्त चाप्यर्हणानि सप्ततन्त्री प्रथिता चैव वोणा ७। अष्टावक्र उवाच। अष्टौ शाणाः शतसानं वहन्ति तथाष्टपादः शरभः सिंहघाती। अष्टौ वसून् शुश्रुम देवतासु यूपश्चाष्टास्रिर्व्विहितः सर्व्वयज्ञे ८। वन्द्युवाच। नवैवोक्ताः सामधेन्यः पितॄणां तथा प्राहुर्नवयोगं विसर्गम्। नवाक्षरा वृहतो संप्रदिष्टा नवाङ्कयोगोगणनामेति शश्वत् ९। अष्टावक्रौवाच। दिशो दशोक्ताः पुरुषस्य लोके सहस्रमाहुर्दशपूर्णं शतानि। दशैव मासान् बिभ्रति गर्भवत्यो दर्शरकादश दाशा दशार्हाः १०। वन्द्युवाच। एकादशैकादशिनः पशूनामेकादशैवात्र भवन्ति यूपाः। एकादश प्राणभृतां विकारा एकादशोक्ता दिवि देवेषु रुद्राः ११। अष्टावक्र उवाच। संवत्सरं द्वादशमासमाहुर्जगत्याः पादो द्वादशैवाक्षराणि। द्वादशाहः प्राकृतयज्ञ उक्तो द्वादशादित्यान् कथयन्तीह धीराः १२। वन्द्युवाच। त्रयोदशी तिथिरुक्ता प्रशस्ता त्रयोदशद्वीपवती मही च। लोमश उवाच। एतावदुक्त्वा विरराम वन्दी श्लोकस्यार्द्धं व्याजहाराष्टावक्रः। अष्टावक्र उवाच। त्रयोदशाहानि ससार केशी त्रयोदशांदोन्यतिछन्दांसि चाहुः” १३ अस्य नीलकण्ठोक्तदिशाव्याख्या यथा एकोऽग्निः सूर्य्यो वा इतराप्रकाश्योऽन्यप्रकाशकश्च। एवं देवानामिन्द्रियाणां राजा प्रधानभूतः अरिहन्ता पराभिभूततत्त्वान्तराभिमावकः। यमः सर्वेन्द्रियाणां नियन्ता पितॄणां विषयोपहारद्वारा पालयितॄणामिन्द्रियाणाम् ईश्वरो भोक्ता कर्त्ता प्रधानभूत एक एव १। सखायौ सत्वजीवौ जीवेश्वरौ वा। २ पुण्येन देवस्थावरमनुष्यरूपं, पापेन नारकस्थावरतिर्यम्यो- निरूपं जन्मत्रयम्। वाजपेयोपलक्षितं कर्ममात्रम् तच्च वेदभेदात् द्विजभेदाच्च त्रयम्। त्रीण्येव प्रातर्मध्याह्न तृतीयसवनानि। त्रयो लोकाः स्वर्गोनरकं भूश्चेति भोगभूमयः। त्रीणि ज्योतींपि जाग्रदाद्यवस्थात्रयम्। ३। निकेतमाश्रमम् यज्ञमिह ज्ञानयज्ञं तेन चातुर्वर्ण्णमध्ये शूद्रस्यापि तत्राधिकारः। दिशः विराट्सूत्रान्तर्यामितूर्य्यसाक्षात्काररूपाः चतस्रः दिशः। वाङ्मयप्रणवस्य वर्ण चतुष्टयम् अकारौकारोमकारः अर्द्धमात्रा इत्येवं चतुष्टयम्। चतुष्पदा परा पश्यन्ती मध्यमा वैखरीति भेदात् गौर्वाक् चतुष्पदा ४। पञ्चाग्नयः गार्हपत्यदक्षिणाग्न्याहवनीयसभ्यावसथ्याख्याः। पञ्चपदाऽष्टाक्षरैः पादैः पङ्क्तिः छन्दः पञ्चपदा। यज्ञाः पञ्च ब्रह्मर्षिपितृनृभूतयज्ञाः पञ्च स्मार्त्ताः, अग्निहोत्रं दर्शपौर्णमासौ चातुर्मास्यानि पशुः सोम इति श्रीता वा पञ्च। अप्सु शरीराकारपूरिणताषु जलप्रधानासु मात्रासु सरति गच्छतीत्यप्सराः चितिः पञ्चचूडा तत्तद्विषयाकारतया प्रमाणविपर्य्ययविकल्पनिद्रास्मृतिरूपवृत्तिपञ्चकसारूप्येण शिखापञ्चकवती पञ्चानां विषयरूपस्रोतस्रां समाहारः पञ्चनदम् ५ षट् आधाने गाइति शेषः। मनस इन्द्रियत्वमभ्युपेत्य षट्कोपपत्तिः साद्यस्का यज्ञविशेषाः ६। “ग्राम्यारण्याः पशवश्चतुर्दश गौरविरजोऽश्वोऽश्वतरोगर्दभोमनुष्यश्चेति सप्तग्र्यम्याः महिषवानरराक्षससरीसृपरुरुपृषन्मृगाश्चेति सप्तारण्याः” पैठीनस्युक्ताः। सप्त छन्दांसि गायत्र्युष्णिगनुष्टुब्वृहतीपङ्क्तित्रिष्टुब्जगतीसमाख्यानि। सप्तर्षयः सप्त प्राणाः “प्राणा वै ऋषय” इति श्रुतेः मनोबुद्धिसहिताः प्राणादयः पञ्च सप्तेत्यथेः। सप्त अर्हणानि अर्हणीयानि सुखानि पञ्चभिरिन्द्रियैः मनोबुद्धिभ्यां प्राप्यानि सुखानीतिभेदात् सुखानि सप्त। ७ “अष्टौ ग्रहा अष्टावतिग्रहाः” श्रुतेः शाणाः शणनिर्मिता गौण्यः आवपनविशेषा इव इन्द्रियप्रवेशयोग्याः अष्टौ। ८। पितॄणामिष्टौ “उशन्तस्ता निधीमहीति” ऋक् त्रिरभ्यस्ता प्रत्येकं त्रिसमित्का नव सामघेन्योऽग्निसमिन्धनार्था ऋचः यम्पद्यन्ते। तथा एका प्रकृतिरेव त्रिगुणा एकद्विगुणप्र धानभावविमर्द्दनैः प्रत्येकं त्रिविधा नवैव संपद्यते तथा नवैवाङ्काः क्रमस्थानभेदात् यथेष्टसंख्यावाचिनो भवन्ति ९। दिश उपदेष्टार दासा तत्त्वक्षेपकाः। अर्हास्तत्त्वाधिकारिणश्च दश १०। इन्द्रियाणि मनसा सह ज्ञानकर्म्मन्द्रियाणि तेषां विषयाः तद्ग्रहजाविकाराश्च एकादश ११। प्राकृत- यज्ञः द्वादशाहताध्यत्वात् द्वादशाहः १२। त्रयोदशद्वोपवती भ्रादिषट्केन पातालसप्तकेन युक्ता च मध्यस्था मही त्रयोदशद्वीपवती १३। एवमेकादिसंख्याया बोधकत्वं तत्तत्पदार्यानाम् दर्शितम्। अन्ये च शब्दाः शास्त्रान्तरेषु एकादिसंख्याबोधकतया प्रयुज्यन्ते ते च शब्दाः पूर्ब्बदर्शितशब्दाश्च यथा तत्तत्संख्य बोधकाभवन्ति तथा दर्श्यते तत्र सर्व्वत्र शब्दतदर्थयोरभेदात् स्ववाच्यार्थगतसंख्यातुल्यसंख्यावोधकत्वेन स्ववाच्यार्थसंख्यापूर्य्यसंख्यातुल्यसंख्याबोधकत्वेन वा तथात्वं बोध्यम्। सर्बेषाञ्च क्वचित् तत्तत्संख्यापूरणवाचकतापि “युग्माग्नी कृतभूतानि षण्मुनी वसुरन्ध्रयोः” स्मृतौ युग्मादिभिः तत्संक्यापूरणद्वितीयादीनां बोधनात्। १ तत्रादौ एकत्वबोधकाः। कवि० ल०। ब्रह्मणः “एकमेवा द्वितीयं ब्रह्मेति” श्रुतेरेकत्वात्तथात्वम् विरञ्चिवाचिब्रह्मणो प्येकमहासर्गे एकत्वात्तथा क्ष्मेन्द्विन्द्रेति पाठे भूमिचन्द्रयोरेकत्वात्तथा। इन्द्रहस्तिन ऐरावतस्य तदश्वस्योच्चैःश्रवसश्चैकत्वात् तथा। गणेशदन्तस्य शुक्रनेत्रस्य चैकत्वात् तथा एवं काकनेत्रस्यापि। भा० व० उक्ताः। स्वप्रकाशस्य अन्यप्रकाशकस्य सूर्यस्याग्नेश्च यमम्य सर्व्वनियन्तुरीश्वरस्य, इन्द्रपदाभिधेयस्य तथा “इन्द्रोमायाभिः पुरुरूप ईयते इति” श्रुतेरीश्वरस्येन्द्रपदवाच्यत्वात्। रूपम् वैशेषिकमतसिद्ध्वचतुर्विंशतिगुणेषु आद्यत्वात् तथा। “भजेच्छिदोऽंशैरथ तैर्विमिश्रै रूपं भजेत् स्यात् परिपूर्त्तिकालः” लीला०। अश्विनी तस्याः तारास्वाद्यत्वात् अभेदात्तदघिपाश्विशब्दोऽपि। तस्य स्वपरत्वे द्वित्वबोधक तेति भेदः। उक्था तस्या एकाक्षरपादकत्वात् प्रधानवाची प्रकृतिशब्दस्तथा “अजामेकां लोहितशुक्लकृष्णाम्” इत्यादिश्रुतेस्तदर्थस्यैकत्वात्। २ द्वित्वबोधकाः। कवि० ल० उक्ताः। चान्द्रमासघटकयोः पक्षिच्छदरूपयोर्वा पक्षयोः, नदीकूलयोः, असिधारयोः, कुशलवरूपयोर्दाशरथिपुत्रयोश्च तथा। शा० ति०” उक्ताः। हंस इति वर्ण्णौ जीवपरमरूपौ परात्मानौ शब्दार्थौ दिनरात्री स्त्रीपुरुषौ, परस्परविरोधि पुणरूपा शीतोष्णसुखदुःखादयश्च तथा। भा० ब० उक्ताः। इन्द्राग्नो सत्वजीवौ नारदपर्व्वतौ अश्विनौ रथचक्रे च तथा। एवम् भरणी तारासु तस्याद्वितीयत्वात् तदभेदात् तदधिपोयमोऽपि। यमशब्दस्य यमयित्रीश्वरपरत्वे एकत्वस्य, यमजपरत्वे द्वित्वस्य योगाङ्गय- रत्वे अष्टत्वस्य बोधकतेति भेदः। प्रेतराजपरकालशब्दस्यापि तथात्वम्। तस्य समयपरत्वे त्रित्वस्य, शिवपरत्वे आर्द्राधिपत्वस्य षट्कस्येति भेदः। अत्युक्था द्व्यक्षरपादत्वात्तथा। शकटांशभेदार्थकयुगशब्दस्तथा तस्य शकटादौ द्वित्वसंख्यकतयैव योजनात्। एवं द्वन्द्वार्थकयुगशब्दोऽपि। अयनशब्दोऽपि तथा वर्षे तदर्थयोर्द्वयोरेव घटकत्वात्। पर्वसन्धिः चान्द्रमासे तयोर्द्वित्वात्। शब्दः ध्वन्यात्मकवर्णात्मकरूपः, अदृष्टम् पुण्यापुण्यरूपम्, शब्दशक्तिः अभिधालक्षणारूपा, बुद्धिः अनुभवस्मृतिरूपा, गन्धः सुरभिदुर्गन्धरूपः ध्वनिधर्म्मः तारत्वमन्दत्वात्मकः, स्पर्शः उष्णानुष्णात्मकः, मृदुत्वकाठित्यात्मको वा, अभावः, संसर्गाभावभेदात्मकश्च द्वित्वस्य बोधकः। सामान्यं व्याप्यव्यापकात्मकम्, क्रिया सिद्धसाध्यात्मिका वेदान्तिमते पदार्थः चिज्जडरूपः द्रष्टृदृश्यरूपो वा आर्हतमते जीवाजीवरूपो वा न्यायमते भावाभावरूपो बा, परिमाणम् वेदान्तिमते अणुत्वमहत्त्वरूपं च द्वित्वात्तथा। वैशेषिकमते तु अणुमहत्त्वह्रस्वत्वदीर्घत्वरूपं चतुष्कात् चतुष्कस्य तथेति भेदः। पदम् सुबन्ततिङन्तरूपत्वात्, धात्वर्थः फलव्यापाररूपत्वात् तथा। प्रयोजनं गौणसुख्यरूपत्वात्तथा। न्यायमते व्याप्तिः अन्वयव्यतिरेकरूपत्वात्तथा।

वेदान्तादिमते व्यतिरेकव्याप्तेरभावात् तस्यांः एकत्वादेकत्वस्येति भेदः। संयोगः कर्मजसंयोगजातात्मकः, विभागः कर्मजविभागजात्मकश्च द्वित्वात् तथा। नाटकप्रस्ताव्यवस्तु आधिकारिकप्रासङ्गिकरूपं द्वित्वात् तथा। काव्यम् दृश्यश्राव्यरूपं द्वित्वात् तथा अवान्तरभेदपरत्वे ध्वन्यादिपरत्वात् त्रित्वस्येति भेदः। गुरुत्ववद्द्रव्यम् रसवद्द्रव्यञ्च क्षितिजलात्मकत्वात्तथा। नैमित्तिकद्रववद्द्रव्यं क्षितितेजोरूपत्वात्तथा। समाधिः सविकल्पनिर्विकल्पात्मकः सवीजनिर्वीजात्मकः संप्रज्ञातासंप्रज्ञातात्मकोवा द्वित्वात्तथा। समापत्तिः सविचारनिर्विचारात्मिका द्वित्वात् तथा। परममुक्तिर्विदेहकैवल्यात्मिका द्वित्वात्तथा। सालोक्यादिपरत्वे चतुष्ट्वस्येति भेदः। समाधिप्रज्ञा ज्योतित्यृतम्भरात्मिका द्वित्वात्तथा। कर्म्मकारकं मुख्यगौणात्मकं द्वित्वात्तथा। कर्त्तृकारक स्वतन्त्रप्रयो जकरूपं, सम्प्रंदानकारकं प्रेरकानुमन्तृरूपञ्च द्वित्वात्तथा। प्रत्यक्षं लौ ककालौकिकात्मकतया द्वित्वात् तथा अवान्तरप्रत्यक्षपरत्वे षटत्वस्येति भेदः। ज्ञानं सविकल्पकनिर्विकल्पकात्मकं तया। अनुमानं स्वार्थपरार्थात्मकं अनु- मानफलं तत्त्वनिर्ण्णयविजयरूपं तथा। ब्रह्म सगुणनिर्गुण रूपम्, जीववादः एकानेकविषयात्मकः वेदान्तिमते ज्ञानं वृत्तिवृत्त्यवच्छिन्नचैतन्यात्मकम् जीवभेदकः अवच्छेद प्रतिविम्बरूपश्च द्वित्वात् तथा। कर्म्म शुक्लकृष्णात्म पुण्यापुण्यसाधनम् विहितनिषिद्धरूपं, धर्म्मः प्रवृत्ति निवृत्तिलक्षणः वेदमेयं सिद्धसाध्यरूपं, प्रयागंःपश्चिमदक्षिणरूपः, वेदान्तिमते अविद्या कार्य्यकारणरूपा तूल्याविद्यामूलाविद्यात्मिका द्वित्वात्तथा। काञ्चिः विष्णुशिवकाञ्चिरूपत्वात् तथा। आगमरूपप्रमाणशब्दः दृष्टादृष्टार्थकत्वात्तथा उदाहरणं साधर्म्यवैधर्म्यकृतम्, शृङ्गारः विप्रलम्भसंभोगात्मकः, मानश्च प्रणयेर्ष्याजातः द्वित्वात्तथा

३ त्रित्वबोधकाः कवि० ल० उक्ताः। कालः मूतभविष्यद्वर्त्तनरूपत्वात्, अग्निः दक्षिणाग्निगार्हपत्याहवनीयरूपत्वात्, लोकः स्वर्गमर्त्यपातालरूपत्वात्, गङ्गावर्त्म त्रिलोकस्थत्वात्, शिवनेत्रम् सूर्य्येन्दुवह्निरूपत्वात्, गुणः सत्वरजस्तमोरूपत्वात् तथा। नीतिशास्त्रप्रसिद्धगुणपरत्वे षट्कस्य, द्रव्यधर्मभेदपरत्वे चतुर्विंशति त्वस्य बोधकैति भेद। ग्रीवारेस्वा, कालिदासकृतकाव्यं कुमाररघुवंशमेघदूतरूपत्वात्, त्रिशूलशिखा, देहोदराधःस्थलुलितमांसरूपवलिश्च त्रित्वात् तथा। प्रातर्मध्यसायाह्नरूप सन्ध्यानां, त्रिपुरासुरस्वर्गादिस्थपुराणां, वारतिथिनक्षत्रभेदात्मकज्योतिषोक्तपुष्करदोषाणाम्, परशुरामदाशरथिबलभद्रात्मकर माणां, त्रिलोकव्यापिवामनरूपविष्णुपदानां, बाल्ययौवनजरारूपवयसाञ्च त्रित्वात् तथा। शा० ति० उक्ताः। सूर्य्येन्दुवह्निरूपधाम्नाम्, ऋग्यजुःसामरूपत्रय्यात्मकवेदानां त्रित्वात् तथात्वम्। अथर्ववेदसहितत्रयीपरत्वे तु चतुष्टयस्य बोधकतेति भेदः। प्रणववर्णानाम् अकारोकारमकाररूपाणाम्, उदात्तानुदात्तस्वरितरूपस्वराणाञ्च त्रित्वात् तथा। स्वरस्म षड्जादिपरत्वे सप्तकस्य अज्वर्णपरत्वे षोडशत्वस्येति भेदः। देवीनां गायत्रीसावित्रीसरस्वतीरूपाणां, ब्रह्मविष्णुशिवरूपेश्वरमूर्त्तीनाञ्च त्रित्वात् तथा। कृषिपाशुपाल्यबाणिज्यरूपा याजनाध्यापनप्रतिग्रहरूपा वा आजीविकात्मिका वृत्तिस्तथा मनोवृत्तिपरत्वे चतुष्कस्य, प्रमाणादिवृत्तिपरत्वे पञ्चकस्य, शब्दनिष्ठबोधनाशक्तिरूपवृत्तिपरत्वे अलिङ्कारिकमते त्रित्वस्य, अन्यमते द्वित्वस्य, वाचकशब्दभेदपरत्वे तद्धितादिपञ्चत्वस्येति भेदः। ज्येष्ठारौद्री वामारूपा, ज्ञानेच्छाक्रियारूपा वा प्रभावोत्साह- मन्त्रजारूपा वा शक्तिः तथा, नाडी इडापिङ्गलासुषुम्णात्मकप्रधाननाडीरूपा तथा। गान्धार्य्यादिनाडीपरत्वे सप्तत्वस्य, दण्डपरत्वे तस्याः षष्टिपलात्मकत्वात् दिवसे षष्टिसंख्यकत्वाच्च षष्टित्वस्येति भेदः। भा० व० उक्ताः। प्रजा देवतिर्ष्यग्मनुष्यरूपा, त्रयीभेदात् द्विजभेदाच्च वाजपेयादिकर्म च तथा। प्रातर्मध्यसायाह्नकर्त्तव्यानि सवनानि, ज्योतिः विश्वप्राज्ञतैजसरूपम् तथा। एवम् कटु शुण्ठीपिप्पलीमरिचरूपतया, फलम् हरीतक्यामलकीवयस्थारूपतया, दोषः वातपित्तकफरूपतया रागद्वेषमोहरूपतया वा तथा। कृत्तिका तस्या राशिचक्रे तृतीयत्वात्, अभेदोपचारात् तदधिप वह्निरपि। तद्घटकतारापरत्वे तु षट्कस्य वोधिका इति भेदः। मध्या त्र्यक्षरपादत्वात् तथा शब्दवृत्तिः शक्तिलक्षणाव्यञ्जनारूपा तथा इत्यालङ्कारिकाः अन्यमते द्वित्वस्येत्युक्तम्। कारणम् समवाय्यसमवायिनिमित्तात्मकं त्रित्वात् तथा। फलावहहेतुः दैवपुरुषकारकालात्मकः “देवं पुरुषकारश्च काले फलति पार्थिव!। त्रयमेतन्मनुष्यस्य पिण्डितं फलवाहम्” इत्युक्ते स्त्रयाणां तथात्वात्तथा। “अधिष्ठानं तथा कर्त्ताकरणञ्च पृथग्विधम्। विविधाश्च पृथक्चेष्टा दैवञ्चेवात्र पञ्चमम्” गीतोक्तत्वात् पञ्चत्वस्यापि। संस्कारः स्थितिस्थापनवेगभावनात्मकस्त्रित्वात् तथा, गर्भाधानादिपरत्वे दशत्वस्य चत्वारिंशत्त्वस्य वेति भेदः। संसर्गाभावः प्रागभावध्वंसात्यन्ताभावात्मकत्वात्तथा। यत्नः प्रवृत्तिनिवृत्तिजीवनयोनिरूपत्वात्तथा। दुःखम् आध्यात्मिकाधिभौतिकाधिदैविकात्मकत्वात्तथा। त्यागिकर्त्तृकरणकर्म्मज्ञानबुद्धिधृतिश्रद्धासुखादिकं गीतोक्तं प्रत्येकं सात्विकराजसतामसरूपतया त्रित्वात्तथा। अवस्था सांख्यामते आविर्भावतिरोभावाभिव्यक्तिरूपा वेदान्तमते जागत्स्वप्नसूषुप्तिरूपा, अघिकारश्च गङ्गास्रोतोमण्डूकप्लुत सिंहावलौकितात्मकः त्रित्वात् तथा

असिद्धिः आश्रयासिद्धिव्याप्यत्वासिद्धिस्वरूपासिद्धिरूपत्वात् तथा, विरुद्धहेतुदोषः साधारणासाधारणानुपसंहारिरूपत्वात् तथा। न्यायमते “प्रकृतिः प्रत्ययश्चैव निपातश्चेति स त्रिधा” इत्युक्तानां प्रकृत्यादीनां सार्थकशब्दानां त्रित्वात् तथा। वाचकशब्दः रूढयौगि कयोगरूढरूपतया त्रित्वात्तथा वाचकशब्दशक्तिः नैमित्तिक्यौपाधिकीपारिभाषिक्यात्मकतया त्रित्वात्तथा। लक्षणा जहत्स्वार्थाऽजहस्वार्थाजहदजहत्स्वार्थात्मिका त्रित्वात्, आलङ्कारिकमते बहुत्वस्येति भेदः। ग्रामः स्वरारोहावरोहक्रमात्मकः त्रित्वात्तथा “सप्त स्वरास्त्रयोग्रामा मूर्च्छनाश्चैकविंशतः। तालाश्चैकोनपञ्चाशत् मात्रातिस्रोलयास्त्रयः। स्थानत्रयं यतीनाञ्च षडास्यानि रसा नव। रागाः षट् त्रिंशत्तु मावाश्चत्वारिंशत्तताः (तान) स्मृताः” भरतोक्तेः द्रुतमध्यविलम्बितकालरूपा मात्रा, लयः उत्तममध्याधममानात्मकः, आदिमध्यान्त्यरूपयतिस्थानं, च त्रित्वात् तथा। विग्रहफलम् भूमिहिरण्यमित्रलाभात्मकं त्रित्वात् तथा। काव्यं ध्वनिगुणीभूतव्यङ्ग्याव्यङ्ग्यात्मकमुत्तममध्यमाधमात्मकं त्रित्वात् तथा। देहः कारणस्थूलसूक्ष्मात्मकः त्रित्वात् तथा। मूर्त्तभेदः देहेन्द्रियविषयात्मकस्तथा। सर्गः सात्विकराजसतामसात्मकस्तथा। मुख्यसिद्धिः दुःखत्रयाभिघातात्मिका प्रमोदमुदितमोदमानाभिधेया त्रित्वात् तथा। सिद्व्यङ्कुशः विपर्य्ययाशक्तितुष्टिरूपस्त्रित्वात् तथा। कर्मविपाकः जात्यायुर्भोगात्मकस्त्रित्वात् तथा। अतीन्द्रियगुणः गुरुत्वादृष्टभावनात्मकः त्रित्वात् तथा। कर्मजगुणः वेगसंयोगविभागात्मकस्त्रित्वात्तथा। मित्रभेदः शत्रुभेदश्च सहजप्राकृतकृत्रिमात्मकस्त्रित्वात्तथा। संसृतिमार्गः देवायानपितृयान यमयानात्मकः त्रित्वात्तथा। विल्वपत्रम् तस्य प्रत्येकपत्रे त्रित्वात् तथा। वेदान्तिमते सत्ता पारमार्थिकीव्यवहारिकीप्रातिभासिकीरूपा त्रित्वात्तथा। स्रोतः ऊर्द्धाधस्तिर्य्यग्रूपं त्रित्वात्तथा। ईप्सिततमकर्म्म निर्वर्त्त्यविकार्य्यप्राप्यात्मकं त्रित्वात्तथा। आधारकारकम् औपश्लेषिकाभिव्यापकवैषयिकात्मकं त्रित्वात् तथा। अपादनकारकम् निर्द्दिष्टविषयोपात्तविषयापेक्षितक्रियात्मकं त्रित्वात्तथा। व्यापारः कायिकवाचिकमानसात्मकस्तथा। ऋणं देवर्षिपितृसम्बन्धिरूपं तथा। अलौकिकसन्निकर्षः सामान्यलक्षणाज्ञानलक्षणायोगजात्मकस्त्रित्वात्तथा। काव्यगुणः माधुर्य्यौजःप्रसादात्मकः त्रित्वात्तथा। श्लेषौदार्य्यादीनामोजस्यन्तभावात् त्रित्वम् सा० द०। नायिका स्वकीयापरकीयासाधारण्यात्मिका, मुग्धा मध्या प्रगल्भात्मिका वा तथा तासामेकैकस्या उभयधर्भत्वे नवत्वस्य अवस्थाभेदात् बहुत्वस्येति भेदः। अनुमितिलिङ्गं पूर्व्ववच्छेषवत्सामान्यतोदृष्टात्मकं केवलान्वयिकेंवलव्यतिरेक्यन्वयव्यतिरेकिरूपं वा त्रित्वात्तथा छलं वाक्सामान्योपचारछलात्मकं त्रित्वात्तथा।४ चतुष्कवोधकाः कवि० ल० उक्ताः। वेदः ऋग्यजुः सामाथर्व्वात्मकः, चतुर्मुखब्रह्मणोमुखानि, पूर्ब्बापरदक्षिणो- त्तरसमुद्रश्च, चतुष्ट्वात् तथा। लवणसमुद्रादिपरत्वे सप्तत्वबोधक इति भेदः। चतुर्भुजविष्णुबाहुशब्दोऽपि तथा। स्वर्गहस्तिनामैरावतादीनां चतुर्दन्तानामुत्तरं दन्तशब्दस्तथा। हस्त्यश्वरथपादातरूपसेनाङ्गम्, उपायः सामदानभेददण्डरूपः, दिनरात्रयोश्चतुर्यांशरूपयामशब्दश्च तथा। युगं सत्यत्रेताद्वापररूपं तथा शकटांशविशेवपरत्वे द्वन्द्वपरत्वे च द्वित्वबोधकमिति। आश्रमः ब्रह्मचर्य्यगार्हस्थ्यवानप्रस्थसंन्यासरूपस्तया। शा० ति० उक्ताः। तत्त्वम् आत्मविद्याशिवतत्त्वरूपम् प्रधानादितत्त्वपरत्वे चतुर्विंशतिसंख्याबोधकमिति भेदः। मनोवृत्तिः संशयनिश्चयगर्व्वाभिमानरूपा तथा। वाग्वृत्तिः परापश्यन्तीमध्यावैस्वरीरूपा तथा। अर्थबोधनशक्तिविशेषपरत्वे द्वित्वस्य त्रित्वस्य वा मतभेदेन बोधिकेति भेदः। भावः वेदान्तिमते जाग्रत्स्वप्रसुषुप्तितुरीयरूपस्तथा। सांख्यमते तु धर्माद्य ष्टपरत्वेनाष्टत्वबोधकः वैशेषिकमते षट्त्वस्येति भेदः। विष्णुमूर्त्तिःवासुदेवानिरुद्वसंकर्षणप्रद्युम्नरूपा तथा। शङ्खादिचतुष्टयविन्यासभेदकृता तन्मूर्त्तिस्तु चतुर्विंशतित्वस्य बोधिकेति भेदः। गणेशः “गणाधिपं गणेशानं तृतीयं गणनायकम्। गणाक्रीडं पीतगौररक्तनीलरुचः क्रमात्” शा० ति० १३ प० उक्तपीतादिवर्णयुक्तगणाधिपादिरूपस्तथा। आत्मादि आत्मान्तरत्मजीवात्मपरात्मरूप स्तथा। पीठशब्द उडडियान जालन्धरपूर्णगिरिकायार्थकः तथा। धर्म्मादि धर्म्मज्ञानैश्वर्य्यवैराम्यरूपम् अधर्मादि अधर्माज्ञानानैश्वर्य्यावैराग्यरूपञ्च तथा सांख्यमते धर्मादि अष्टत्वस्य बोधकमिति भेदः। लक्ष्मीगजः दमकादिरूपः, दिशः प्राच्यवाचीपश्चिमोत्तररूपा तथा। अवान्तरदिक्परत्वे अष्टत्वस्य दशत्वस्य वा बोधिका इति भेदः। ज्योतिःविश्वपाज्ञसूत्रात्मान्तर्यामिरूपम्। एवमन्येऽपि यथा रोहिणी राशिचक्रे तस्यास्तूर्यत्वात् तदभेदात् तदघिपब्रह्माऽपि तथा। प्रतिष्ठा तस्याश्चतुरक्षरपादकत्वात् तथा। सत्ययुगार्थककृतशब्दः चतुस्त्रिद्व्येकसंगुणा” सू० सि० उक्तेः “महायुगप्रमाणद्वादशसहस्रदशां{??}स्य चतुर्गुणरूपत्वात्तस्य तथात्वम्। सार्थकशब्दः नामाख्यातनिपातोपसर्गात्मकत्वात्, पुरुषार्थश्च धर्मार्थकाममोक्षरूपत्वात् तथा। नायकः धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्तात्मकत्वात् दक्षिणधृष्टानुकूलशठात्मकत्वाद्वा तथा तेषां प्रत्येकमुमयधर्म्मत्वे षोडशभेदत्वात् षोडशत्वस्येति भेदः। काव्यरीतिः वैदर्भीगौडीपाञ्चालीलाटिकात्मिका चतुष्ट्वा- त्तथा। प्रलयः नित्यनैमित्तक प्राकृतात्यन्तिकात्मकत्वात् तथा भगवद्भक्तः “चतुर्विधा भजन्ते माम्” इत्युपक्रम्य “आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी च पुरुषर्षभ!” इति गीतोक्तेः चतुष्कत्वात् तथा। अभिनयः आङ्गिकवाचिकाहार्य्यसात्विकात्मकः चतुष्कत्वात् तथा। नायकादिव्यापारविशेषात्मकरीतिः कौशिकीसात्वत्यारभटीभारतीरूपा चतुष्कत्वात्तथा। कौशिक्यङ्गम् “नर्म्म च नर्म्मस्फुर्जो नर्म्मस्फोटश्च नर्म्मगर्भश्च” इत्युक्त नर्मादिरूपं तथा। सात्वत्यङ्गम्। “उत्थापकोऽथ संहात्यः संलापः परिवर्त्तकः। विशेषा इति चत्वारः सात्वत्याः परिकीर्त्तिता” इत्युक्तोत्यापकादिरूपस्तथा। आरभट्यङ्गम् “वस्तूत्थापनसंफेटौ संक्षिप्तिरवपातनम्। इति भेदास्तु चत्वार आरभट्याः प्रकीर्त्तिताः” इत्युक्तवस्तूत्थापनादिरूपं तथा। अनेकाश्रितगुणः संयोगविभागद्वित्वादिसंख्याद्व्यादिपृथक्त्वरूपः चतुष्ट्वात्तथा। आध्यात्मिकतुष्टिः “आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः” सा० का० उक्तप्रकृत्यादिरूपा चतुष्ट्वात्तथा। चित्तपरिकर्मार्थभावना भैत्रीकरुणामुदितोपेक्षात्मिका चतुष्ट्वात्तथा। समाधिविघ्नः लयविक्षेपकषायरसास्वादात्मकः चतुष्कत्वात्तथा। संन्यासी कुटीचक बहूदकहंस परमहंसात्मकस्तथा। अनुबन्धः विषयप्रयोजनसम्बन्धाधिकारिरूपस्तथा। ब्रह्मविविदिषासाधनम् इहामुत्रार्थफलभोगविरागनित्यानित्यवस्तुवविवेक शमादिषट्कमुमुक्षारूपं तथा। कल्पितकर्मकारकम्। औदासीन्यप्राप्तानीप्सिताकथितान्यपूर्वकरूपं तथा। वीजम् एकानेक वर्णसमीकरणमध्यमाहरणभावितात्मकं तथा। सङ्केतविषयः जातिद्रव्यगुणक्रियारूपस्तथा। द्रव्यारम्भकः स्पर्शवद्द्रव्यञ्च क्षितिजलतेजोवायुरूपत्वात्तथा। अपरमुक्तिः सालोक्यसायुज्यसार्ष्णिसारूप्यात्मिका तथा। कार्य्योत्पत्तिप्रकारः असतः सदुत्पत्तिः सतोऽसदुत्पत्तिः सतोविवर्त्तः सतः सदुत्पत्तिश्चेति चतूरूपत्वात् तथा। वृद्धिः कायिकाकालिकाकारिताचक्रकृद्धिरूपा तथा। सिद्धान्तः सर्वतन्त्र प्रतितन्त्राधिकरणाभ्युपगमसंस्थितिरूपः चतुष्ट्वात्तथा। बणोत्पत्तौ आभ्यन्तरप्रयत्नः स्पृष्टेषत्स्पृष्टविवृतसंवृतात्मकश्चतुष्कत्वात्तथा। विप्रलम्भः, पूर्वरागमानप्रवासकरुणात्मकः चतुष्कत्वात्तथा।५ पञ्चत्वबोधकाः। कवि० ल० युधिष्ठिरभीमार्जुतनकुलसहदेवानाम् पाण्डुपुत्राणां, पञ्चाननशिवमुखानां, श्रोत्रत्वग्नेत्ररसनघ्राणात्मकानां ज्ञानेन्द्रियाणाम्, वाक्पाणि- पादपायूपस्थरूपाणां कर्मेन्द्रियाणां वा, सन्तान कल्पवृक्षमन्दारपारिजातहरिचन्दनानां देववृक्षाणां, महानाम्न्यादिवेदग्रहणार्थानां व्रतानाम्, दक्षिणाग्निगार्हपत्याहवनीयान्वाहार्य्यपचनावसथ्यानां वह्नीनां, व्रह्महत्यासरापाणब्राह्मणस्वामिकसुवर्णहरणगुर्वङ्गनागमनतत्संसर्गजानां पातकानाम्, क्षित्यप्तेजोमरुद्व्योमरूपाणां मूतानां, कुमाररघुवंशमाघकिरातनैषधाख्यानां महाकाव्यानां, होमस्वाध्यायपाठपितृतर्पणातिथिपूजनवैश्वदेवबलिरूपाणां गृहस्थकर्त्तव्यानां स्मार्त्तानाम्, अग्निहोत्रादीना नी० क० प्राग्दर्शितानां श्रौतानां वा यज्ञानां, सर्गप्रलयमन्वन्तरराजवंशतच्चरितरूपाणां पुराणलक्षणानाम्, प्राणापानसमानोदानव्यानरूपाणां देहस्थवायूनाम्, उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनात्मिकानां क्रियाणां, ज्ञानेन्द्रियविषयाणां शब्दस्पर्शरूपरसगन्धात्मकानां, कर्मेन्द्रियविषयाणां वचनादानगमनविसर्गानन्दात्मकानां वा पञ्चत्वात् तथा। शा० ति० उक्ताः। नीलकहीरकपद्मरागप्रबालमौक्तिकरूपाणां स्थाप्यघटे देयानां रत्नानां पञ्चत्वस्य बोधकता वास्तुमूमावारोप्यरत्नानां कालिदासादिकवीनाञ्च नवत्वात् तत्परत्वे नवत्वस्य वोधकताग्रे वक्ष्यते। श्वेतगौररक्तहरितश्यामरूपाणां वर्णविशेषाणाम् पञ्चत्वात् तथा पाटलादिवर्णानां मिश्रणेनैव जातत्वात् न पृथग्वर्णता, वर्णशब्दस्य ब्राह्मणादिजातिपरत्वे चतुष्कस्य, अक्षरपरत्वे तन्त्रमते पञ्चाशल्लिपिभिर्विभक्तेत्याद्युक्तेः पञ्चाशत्त्वस्य, शिक्षामते “चतु षष्टि–स्त्रि षष्टिर्वा वर्ण्णाः सम्भवतोमताः” इत्युक्तसंख्याबोधकत्वमिति भेदः। तत्पुरुषाघोरसद्योजातवामदेवेशानरूपाणां शिवमूर्त्तीनाम्, “सम्मोहनस्तापनश्च शोषणः स्तम्भनस्तथा। उन्मादनश्च कामस्य वाणाःपञ्च प्रकीर्त्तिताः” इत्युक्तानां कामवाणानाम् “निवृत्तिः सुप्रतिष्ठा स्यात् विद्या शान्तिरनन्तरम्। शान्त्यतीता कलाः पञ्च विज्ञेयाः” इति उक्तानां कलाविशेषाणाम्, ईशानमनोभवतत्पुरुषमकरध्व जाघोरकुमारतेजोवामदेवसन्मथसद्योजातकामदेवात्मकानाम् तत्रैव उक्ताना कामदेवभेदानां च पञ्चत्वात्तथा। तत्पुरुषादिमन्त्ररूपाणां ब्रह्मऋचाञ्च पञ्चत्वात् तथा। भा० व० उक्ताः। प्रमाणविपर्य्ययविकल्पस्मृतिनिद्रारूपाणां वृत्तोनाम्, इन्द्रियवृत्तिरूपाणां स्रोतसाम्, “किरणा धूतपापा च गुप्ततोया सरस्वती। गङ्गा च यमुना चैव पञ्च नद्यः प्रकीर्त्तिताः” काशी० उक्तानां नदीनां वा पञ्चत्वात्तथा। वृत्तिः कृत्तद्धितसमसैकशेषसनाद्यन्तधातुरूपा, पल्लवश्च “आम्राश्वत्थवटप्लक्षयज्ञोडुम्बरपल्लवाः। पञ्चपल्लवमित्युक्तम्” इत्युक्तानां पल्लवानां पञ्चत्वात्तथा। मूलम् “विल्वशोनाकगाम्भारीपाटलागणिकारिका। पञ्चमूलमिति ख्यातम्” इत्युक्तविल्वादिमूलानां पञ्चत्वात्तथा। कषायः “जम्बुशाल्मलिवाट्यालमावकुलं बदरं तथा। कषायाः पञ्च विज्ञेयाः” इत्युक्तजम्व्वादीनां कषायाणां पञ्चत्वात् तथा। कोषः वेदान्तोक्तानामन्नप्राणमनो विज्ञानानन्दमयानां कोषाणां पञ्चत्वात्तया। देहत्वक् परत्वे षट्कबोधकताग्रे वक्ष्यते। गव्यम् “पञ्चगव्यं दधि क्षीरं घृतगोमूत्रगोमयैः” इत्युक्तानां दध्यादेनां, पञ्चत्वात्तथा। तत्त्वम् “मद्यं मांसं तथा मत्स्यो मुद्रा मैथुनमेव च। पञ्चतत्त्वमिदं प्रोक्तम्” इत्युक्तमद्यादीनां पञ्चत्वात् तथा। वल्कलम् “न्यग्रधोदुम्बराश्वत्थप्लक्षवेतसवल्कलम्। पञ्चवल्कलमित्युक्तम्” इति न्यग्रोधादिवल्कलानां पञ्चत्वात् तथा। शस्यम् “धन्यं मुद्गास्तिलामाषा यवाः सिद्धार्थकोऽपि वा। पञ्चशस्यमिति प्रोक्तम्” इत्युक्तानां धान्यादीनां पञ्चत्वात्तथा। सुगन्धिः कर्पूरकक्कोललवङ्गपुष्पगुवागजातिफलरूपाणां सुगन्धिकानां पञ्चत्वात् तथा। सूना “पञ्च सूना गृहस्थस्य चूल्ली पेषण्युपस्करः। कण्डनी चोदकुम्भश्च” इत्युक्तचूल्ल्यादिरूपबध्यस्थानानां पञ्चत्वात् तथा। एकवृक्षाङ्गम् “त्वक् पत्रं कुसुमं मूलं फलञ्चैकस्य शास्विनः। एकत्रस्थन्तु पञ्चाङ्गम्” इत्युक्तानां एकस्य वृक्षस्य त्वगादीनां पञ्चत्वात् तथा। पुरश्चरणाङ्गम “जपहोमौ तर्पणञ्चाभिषेको विप्रभोजनम्। पञ्चाङ्गोपासनं शास्त्रे पुरश्चरणमिव्यते” इत्युक्तानां जपादीनां पञ्चत्वात तथा। अमृतम् “दुग्धं च शर्करा चैव घृतं दधि तथा मधु। पञ्चामृतमिदं प्रीक्तम्” इत्युकानां दुग्धादिरूपाणाममृततुल्यस्वादूनां पञ्चत्वात्तथा। नाठ्योक्तिःस्वगतप्रकाशापवारितजनान्तिकाकाशगतात्मिका पञ्चत्वात् तथा। अनुप्रासः छेकवृत्तिश्रुत्यन्त्यलाटानुप्रासात्मकः पञ्चत्वात् तथा। लघुलौहकम् “सुवर्ण्णं रजतं ताम्रं रङ्गं नागं तथेव च। पञ्चलाहमिति प्रोक्तम्” इत्युक्तसुबर्ण्णादिलौहानां पञ्चत्वात्तथा। मूर्गशिरा तस्याः राशिचक्रे पञ्चमत्वात्तथात्वम। अभेदोपचारात्तदविपचन्द्रोऽपि तथा। सुप्रतिष्ठा तस्याः पञ्चाक्षरपादत्वात्तथा। तर्कः आत्माश्रयान्योन्याश्रयचक्रकानवस्थाप्रमाणबाधितार्यकषसङ्गरूपतया पञ्चत्वात्तथा। कार्य्यावस्था आरम्भयत्नप्राप्त्याशानियताप्तिफलागमात्मिका पञ्चत्वात्तथा। नाटकस्थसन्धिः मुखप्रतिमुखगर्भविमर्षोपसंहृतिरूपः पञ्चत्वात्तथा। प्रस्तावना उद्घात्यककथोद्घातप्रयोगातिशयप्रवर्त्तकावलगितात्मिका पञ्चत्वात् तथा। प्रयोजनसिद्धिहेतुःवीजविन्दुपताकाप्रकरीकार्य्यात्मा तथा। विपर्य्ययः अविद्याऽस्मितारागद्वेषाभिनिवेशात्मकः तथा। अश्वगतिः “आस्कन्दितं धौरितकं रेचितं बल्गितं प्लुतम्” इत्युक्तास्कन्दितादिलक्षणा तथा। गर्भस्थानुगामिधर्मः

“आयुः कर्म च वित्तं च विद्या निधनमेव च। पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः” इत्युक्तायुरा दिलक्षणस्तथा। योगाङ्गासनं “पद्मासनं स्वस्तिकाख्य ज्रिभद्रासने तथा। वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम्” शा० ति० उक्तस्वस्तिकादीनां पञ्चत्वात्तथा। पूजाङ्गासनं तु आसनशब्दे उक्तसंख्याबोधकमिति भेदः। हेत्वाभासः अनैकान्तविरुद्धासिद्धसत्प्रतिपक्षबाधात्मकः तथा। न्यायावयवः प्रतिज्ञाहेतूदाहरणोपनयनिगमनात्मकः तथा। वेदान्तिमते तु त्रित्वस्येतिभेदः। कालगुणः दिग्गुणः मूर्त्तामूत्तसाधारणगुणश्च संयोगविभागपरत्वापरत्वपृथक्त्वात्मकः तथा। बाह्यैकेन्द्रियग्राह्यगुणः शब्दस्पर्शरूपरसगन्धात्मकस्तथा “दुःस्वं संसारिणः स्कन्धस्ते च पञ्च प्रकीर्त्तताः। विज्ञानं वेदना संज्ञा संस्कारोरूपमेव च” इत्युक्त विज्ञानादिलक्षणः स्कन्धस्तथा। प्रातिपदिकार्थः विशेष्यविशेषणसंख्याकारकलिङ्गात्मकस्तथा। अधिकरणा वयवः “विशयोविषयश्चैव पूर्ब्बपक्षस्तथोत्तरम्। निर्ण्णयश्चेति सिद्धान्तः शास्त्रेऽधिकरणं स्मृतम्” इत्युक्तसंशयादिरूपस्तथा वर्णविभ जकोपाधिः “वर्णान् जनयते तेषां विभागः पञ्चधा मतः। स्वरतः कालतः स्थानात् प्रायत्रानुप्रदानतः” शिक्षोक्तेः उदात्तादिस्वरोच्चारणकालस्थानाभ्यन्तरबाह्यप्रयत्नानां पञ्चत्वात् तथा। षट्संख्यावोधकाः कवि० ल० उक्ताः। वज्रास्त्रकोणानां, त्रिमूर्द्धासुरनेत्राणां, तर्काणां ज्ञानसाधनप्रमाणानां प्रत्यक्षानुमानोपमानागमार्थापत्त्यनुपलब्धिरूपाणाम्, विनियोगसाधनरूपाणां श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यात्मकानां वा षट्क वाततथात्वम्। आपादकज्ञानाधीनापाद्यज्ञानरूपपरत्वे आत्माश्रयादिपञ्चविधप्रसङ्गरूपत्वात् पञ्चत्वस्य इति भेदः। अङ्गानां मस्तकबाहुद्वयपदद्वयमध्यरूपाणाम् प्रधाना ङ्गानां, शिक्षाकल्पव्याकरणनिरुक्तज्योतिषच्छन्दोकपाणां वेदाङ्गानां वा, न्यायवैशेषिकसांख्यपातञ्जलमीमांसावेदान्ता त्मकानां तत्त्वज्ञानसाधनानां, दर्शनानाम् चक्रवर्त्तिनां चक्रावयवरूपाणाम् अराणां, कलौ शकप्रवर्त्तकानाम् “युधिष्ठिरोविक्रमशालिवाहनौ धराधिनाथो विजयाभिनन्दनः। इमे तु नागार्ज्जुनमेदिनीविभुर्वलिःक्रमात् षट्शककारकाः कलौ” ज्योतिर्वि० उक्तानां युधिष्ठिरादीनां सार्व्वभौमानां वा, षडाननकार्त्तिकेयमुखानां, सन्धिविग्रहयानासनद्वैधाश्रयरूपाणां नृपगुणानाञ्च षट्त्वात्तथात्वम्। गुणशब्दस्य सत्वादिपरत्वे त्रित्वस्य, द्रव्यधर्मभेदपरत्वे चतुर्विंशतित्वस्येति भेदः। मधुरकटुकषायाम्लतिक्तलव णानां रसानां षट्कत्वात्तथा। शृङ्गारादिरसपरत्वे नवत्वस्य बोधकतेति भेदः। शा० ति० उक्ताः। आमोदप्रमोदसुमुखदुर्मुखविघ्नविघ्नकर्त्तृरूपाणां गणेशानां, क्रमेणोक्तामोदादिप्रियाणां सिद्धिसमृद्धिकान्तिमदनावतीमदद्रवाद्राविणीरूपाणाम्, “स्नाय्वस्थिमज्जशुक्ताणि त्वङ्मांसरुधिराणि च। षाट्कौषिकमिटं प्रोक्तं सर्वदेहेषु देहिनामिति” तत्रोक्तानां स्नाव्वादीनां कोषाणाम्, बुभुक्षापिपासाशोकमोहजरामृत्युरूपाणामूर्मीणाम्, डाकिनी राकिणीलाकिनीकाकिनीशाकिनीहाकिनीरूपाणाम् षट्चक्राधिष्टितानां शक्तीनाम्, “कलाध्वा चैव तत्त्वाध्वा भुवनाध्वेति च त्रयम्। वर्णाध्वा च पदाध्वा च मन्त्राध्वेत्यपरं त्रयम्” इत्युक्तानां कलाध्वादीनामध्वनाम्मूलाधारस्वाधिष्ठानमणिपूरानाहतविशुद्धाज्ञारूपाणां देहस्थचक्रभेदरूपाणां डाकिन्यादिषट्शक्त्याधाराणां च षट्कत्वात्तथा। ऋतूनां वसन्तग्रीष्मवर्षाशरद्धेमन्तशिशिरात्मकानां षट्त्वात्तथा भा० व० उक्ताः। आधाने दक्षिणात्वेन विहितगवानां षट्त्वात्तथात्वम्। कृत्तिकाः तासां षट्तारात्मकत्वात् तथा नक्षत्रचक्रस्थतृतीयक्षेपरत्वे त्रित्वस्येति भेदः। एकाहसाध्यानामेकाहकर्त्तव्यदीक्षोपसद्मत्याङ्गकानां सद्यस्क्रियावतां “षट् साद्यस्क्राः” कात्या० १२, २, ९, सू० उपक्रम्य १२, १३, २५, सूत्रान्तेषु दर्शितानां साद्यस्क्रदीर्घव्याधिप्रशमादिकामकर्त्तव्यानुक्रीविश्वजिच्छिल्पश्येनैकत्रिकरूपाणाम् षट्त्वात् तथात्वमु। आर्द्रा राशिचक्रे तस्याः षष्ठ त्वात् तथा तदभेदात् तदधिपशिवकालादिशब्दोऽपि तथा। गायत्री तस्याः षडक्षरपादत्वात्। भावविकाराणां जन्ममत्त्ववृद्धिविपरिणामापक्षयनाशरूपाणां यास्कीक्तार्ना षट्त्वात्तथा। भावपदार्थानां वैशेषिकसूत्रोक्तानां द्रव्यगुणकर्मसामान्यविशेषसमयायात्मकानां षट्कत्वात्तथा। “ऐश्व- र्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः। ज्ञानवैराग्ययोश्चैव षण्णां भग इहोच्यते” इत्युक्तभगस्य षट्संख्यायोगात्तथा। कारकाणामपादानसंप्रदानकरणाधार कर्म्मकर्त्तृरूपाणां षट्कत्वात्तथा “सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा। सुबन्तेनेति च प्रोक्तः समासः षड्विधोबुधैः” इत्युक्तानां, द्वन्द्वकर्मधारयद्विगुतत्पुरुषबहुब्रीह्यव्ययीभावात्मकानां वा समासानां षट्त्वात्तथा। सङ्गतिः प्रसङ्गोपोद्घातहेतुताबसरनिर्वाहवैककार्य्यत्वरूपा षट्कत्वस्य, शास्त्राध्यायपादसङ्गतिरूपा तु त्रित्वस्य, अधिकरणसङ्गतिरूपावान्तरसङ्गतिस्तु आक्षेपदृष्टान्तप्रत्युदाहरणादिरूपा बहुत्वस्येति भेदः। अङ्गन्यासः शीर्घशिखामुखहृदयनेत्रकरतलतत्पृष्ठन्यासरूपतया षट्त्वस्य, अभिज्ञा दिव्यचक्षुःश्रीत्रपरचि तज्ञानपूर्वनिवासानुस्मृतिस्वात्मतत्त्वज्ञानवियद्गतिकायव्यूहादिसिद्धिरूपबौद्धधर्मभेदरूपा षट्त्वस्य, नृपसैन्यं मौलभृत्यसुहृच्छ्रेणीपराजितशत्रुसैन्याटविकात्मकम् षट्त्वात् तथा। सुरापाणसमम् “ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्बधः। गर्हितान्नाद्ययोर्जग्धिः सुरापाणसमानि षट्” इत्युक्तम् षट्त्वात् तथा। नारीदूषणानि “पानं दुर्ज्जनसंसर्गः पत्या च विरहोऽटनम्। स्वप्नोऽन्यगृहबासश्च नारीणां दूषणानि षट्” काशी० उक्तानि षट्त्वात्तथा। शास्त्रतात्पर्य्यनिर्ण्णायकः “उपक्रमोपसंहारावभ्यासोऽपूर्व्वता फलम्। अर्थवादोपपत्ती च हेतुस्तात्पर्य्यनिर्ण्णये” इत्युक्तेः षट्त्वात् तथा। प्रीतिलक्षणम् “ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति। भुङ्क्ते भोजयते चैव षड्निधं प्रीतिलक्षणम्” इत्युक्तदानाद्यात्मकम् षट्कत्वात् तथा। गीताङ्गवसन्तादिरागः षट्त्वात् तथा। पताकांस्थानाङ्गफलम् “इष्टार्घरचनाश्चर्य्यलाभोवृत्तान्तविस्तरः। रागप्राप्तिः प्रयोगस्य गोप्यानां गोपनं तथा। प्रकाशनं प्रकाश्यानामङ्गानां षड्विधम् फलम्” इत्युक्तेष्टार्थरचनादिरूपं षट्त्वात्तथा। रिपुः कामक्रोधलोभमोहमदमात्सर्य्यात्मकः षट्त्वात्तथा जन्मलग्नावधिकवष्ठस्थाने चिन्तनीयत्वाद्वा तथा। विप्रकर्म यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहात्मकं षट्त्वात्तथा। अभिचारः मारणोच्चाटनविद्वेषंणस्तम्भनमोहन वशीकरणात्मकः षट्त्वात् तथा। शमादिः शमदमोपरति तितिक्षाश्रद्धासमाधिरूपस्तथा। प्रत्यक्षम् श्रावणत्वाच चाक्षुषरासनघ्राणजमानसात्मकं षट्त्वबोधकम् लौकिकप्रत्यक्षसन्निकर्षः इन्द्रियार्थसंयोगतत्संयुक्तसमवाय तत्संयुक्तसमवेतसमायसमवायसमवेतसमवायसंयुक्तविशेषणतात्मकः षट्कत्वात्तथा। आकाशगुणः संख्या परिमाणपृथक्त्वसंयोगविभागशब्दात्मकः षट्त्वात्तथा। निसित्तासमवायिकारणतापन्नगुणः उष्णस्पर्शद्रवगुरुत्ववेगस योगविभागात्मकः षट्त्वात्तथा। मानभङ्गोपायः सामदानभेदनीत्युपेक्षारसान्तरात्मकः षट्कत्वात्तथा।७ सप्तसंख्याबोधकाः। कवि० ल० उक्ताः। लोकः भूर्भूवः स्वर्महोजनतपःसत्यात्मक ऊर्द्ध्वस्थः, अतलवितलसुतलतलातलमहातलरसातलपातालात्मकः अधःस्थो वा, द्वीपः जम्बुशाकशाल्मलिकुशक्रुञ्चगोमेदपुष्करात्मकः, मुनिश्च वैवखतमन्वन्तरे वसिष्ठकश्यपात्रिविश्वामित्रजमदग्निगौतमभारद्वाजात्मकः स्यायम्भुवान्तरे मरीच्यत्रिपुलस्त्यपुलहक्रतुप्रचेतोवशिष्ठात्मको वा सप्तत्वात् तथा। सूर्य्यहयः तदश्वानां सप्तत्वात् तथा। समुद्रः लवणेक्षुसुराघृतदधिक्षीरस्वादूदकात्मकः, नृपराज्याङ्गम् स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलात्मकम्, धान्यम् यवव्रीहितिलमाष श्यामाककङ्गुमुद्गात्मकं सप्तत्वात् तथा। वह्निशिखा कालीकारालीमनोजवासुलोहितासुधूम्रवर्ण्णास्फुलिङ्गिनीविश्वधामात्मिका, अद्रिश्च महेन्द्रमलयसह्यशुक्तिमदृक्षविन्ध्यपारियात्रकुलपर्व्वतरूपात्मकः सप्तत्वात् तथा। शा० ति० उक्ताः। सुदर्शनम् आचक्रविचक्रसुचक्रधीचक्रसचक्रज्वालाचक्रसुदर्शनचक्रात्मकम्, स्वरश्च निषादर्षभगान्धारषड्जमध्यमधैवतपञ्चमात्मकः सप्तत्वात् तथा उदात्तादित्वे त्रित्वस्य, अज्वर्णरूपत्वे षोडशत्वस्येति भेदः। ग्रहः रविचन्द्रमौमवुधगुरुशुक्रशनिरूपः सप्तत्वात् तथा। राहुकेत्वोर्ग्रहत्वमते तु नवत्वस्य यज्ञियपात्रभेदत्वे दशत्वस्य “दश ग्रहान् गृह्णातीति” श्रुतौ दशानामेव सोमग्रहणपात्राणां विधानात्। “अष्टौ ग्रहां अष्टावतिग्रहाः” इति श्रुतेः ज्ञानसाधनात्मत्वे पञ्चज्ञानेन्द्रियमनोबुद्ध्यहङ्कारात्मकाष्टविधार्थग्रहणहेतुत्वात् अष्टत्वबोधकैति भेदः। समिधाम् अर्कपलाशस्वदिरापामार्गपिप्लोडुम्बरशमीरूपाणां, नी० क० उक्तानां ग्राम्यपशूनां गवादीनां, वन्यपशूनां महिषादीनाञ्च भूरादीनां व्याहृतीनाञ्च सप्तत्वात् तथा। भा० व० उक्ताः मनोबुद्धिसहितज्ञानेन्द्रियपञ्चकात्मप्राणरूपः ऋषिः सप्तत्वात् तथा। मनोबुद्ध्यादिप्राप्याणि सुखानि सप्तत्वात् तथा, वीणातन्त्री तासां लोके सप्तत्वप्रसिद्धेस्तथा। छन्दः गायत्र्यादिजगत्यन्तवैदिकछन्दोरूपम् सप्तत्वात्तथा लौकिकछन्दःपरत्वे षङ्किशतित्वस्येति भेदः। साममक्तिः ओङ्कारहिङ्कारप्रस्तावोद्गीथप्रतिहारोपद्रवनिधनरूपा सप्तत्वात् तथा। “लोकेषु सप्तविधं सामोपासीतेति” श्रुतौ साम्नां सप्तविधत्वोक्तेस्तथात्वम्। वैशेषिकमते पदार्थः द्रव्यगुणकर्म्मसामान्यविशेषसमवायाभावात्मकः सप्तत्वात् तथा। प्रकृतिविकृतिः महदहङ्कारशब्दस्पर्शरूपरसगन्धतन्मात्रात्मिका सप्तत्वात् तथा। पुनर्वसुस्तस्याराशिचक्रे सप्तमत्वात् तथा। अभेदात्तदधिपतिरदितिरपि। उष्णिक तस्याः सप्ताक्षरपादत्वात् तथा। अश्वजन्मस्थानम् “अमृताद् बाष्पतोवह्नेर्वेदेभ्योऽण्डाच्च गर्भतः। साभ्नोहयानामुत्पत्तिः सप्तधा परिकीर्त्तिता” इत्युक्तानां सप्तत्वात्तथा। तादृशोत्पत्तिस्थानकत्वेन अश्वशब्दोऽपि तथा। मदस्रुतिवर्त्म “करात् कटाभ्यां मेढ्राच्च नेत्राभ्याञ्च मदस्रुतिः” इथुक्तानां सप्तत्वात् तथा। वरगुणः “कुलञ्च शीलञ्च मनोज्ञता च विद्या च वित्तं च वपुर्वयश्च। एतान् गुणान् सप्त विचिन्त्य देया कन्या बुधैः शेषमचिन्तनीयम्” इत्युक्तकुलादीनां सप्तत्वात् तथा। पौनर्भवा “सप्त पौनर्भवाः कन्या वर्ज्जनीयाः कुलाधमाः। वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला। उदकस्पर्शिता या च या च पाणिगृहीतिका। अग्निं परिगता या च पुनर्भूप्रभवा च या” इत्युक्तानां सप्तत्वात् तथा। धर्म्यवित्तागमः “सप्त वित्तागमा धर्म्यादायोलाभः क्रयोजयः। विभागः संप्रयोगश्च सत्प्रतिग्रह एव च” इत्युक्तदायादीनां सप्तत्वात् तथा। मरुत्, आवहप्रवहोद्बहसंवहविवहपरावहपरीवहात्मकः सप्तत्वात्तथा। अवान्तरभेदपरत्वे ऊनपञ्चाशत्त्वस्येति भेदः। मोक्षदपुरी “अयोध्या मथरा माया काशी काञ्चिरवन्तिका। पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः” इत्युक्तपुरीणां सप्तत्वात्तथा।अष्टबोधकाः कवि० ल० उक्ताः। योगाङ्गं यमनियमासन प्राणायामप्रत्याहारध्यानधारणासमाधिरूपं, शिवमूर्त्तिः क्षित्यादिपञ्चभूतचन्द्रसूर्य्ययजमानरूपा, ऐरावतपुण्डरीकवामनकुमुदाञ्जनपुष्पदन्तसार्वभौमसुप्रतीकरूपोदन्ती च अष्टत्वात्तथा एकशेषात् करिणीशब्दोऽपि तथा करिण्यश्च अम्रमुकपिलापिङ्गलानुपमाताम्रकर्ण्णीशुभ्रदन्त्यङ्गनाञ्जनावतीरूपाः। सिद्धिः अणिमलघिमप्राप्तिप्राकाम्येशितावशिता व्याप्तिकामावसायितात्मिका अष्टत्वात् तथा। चतुर्वदनब्रह्मकर्ण्णस्तथा। व्याकरणम् इन्द्रचन्द्रकाशकृत्स्नापिशिलिशाकटायनपाणिन्यमरजैनेन्द्रात्मकाष्टकर्त्तृकृतम् अष्टत्वात् तथा। दिक्पालः इन्द्रवह्नियमनिरृतिवरुण- वायुकुवेरेशानात्मकः प्राच्यादीनामष्टानां दिशामीश्वराणामेषामष्टत्वात् तथा। ऊर्द्धाधोदिकसहितदिक्पाल परत्वे दशत्वस्येति भेदः। अहिःशेषबासुकिपद्ममहापद्मतक्षककुलीरकर्कटशङ्खात्मकः अष्टत्वात्तथा। कुलाचलः मतान्तरे हिमाचलसहितः पूर्ब्बोक्तमहेन्द्रादिरूपः अष्टत्वाततथा। कुलाचलानां सप्तत्वप्रसिद्धावपि क्वचिदष्टत्वव्याहारः। “अष्टकुलाचलसप्तसमुद्राः” मोहमुद्गरः।

शा० ति० उक्ताः। भैरवः असिताङ्गरुरुचण्डोन्मत्तकपालिभीषणक्रोधनसंहारात्मकः। प्रकृतिः प्रधानमहदङ्कारपञ्चतन्मात्रात्मिका अष्टत्वात्तथा। प्रकृतिशब्दः प्रधानपरत्वे एकत्वस्य तत्त्वान्तरोपादानत्वपरत्वे अष्टत्वस्येति भेदः। गणेशः वक्रतुण्डैकदंष्ट्रमहोदरगजाननलम्बोदरविकटविघ्नराजधूम्रवर्ण्णात्मकः अष्टत्वात्तथा। अग्निमूर्त्तिः “जातवेदाः सप्तजिह्वो हव्यपाहनसंज्ञकः। अश्वोदरजसंज्ञः स्यात् पुनर्वैश्वानराह्वयः। कौमारतेजाः स्याद्विश्वमुखोदेवमुखः स्मृतः” शा० ति० उक्तानां जातवेदआदीनामष्टत्वात्तथा

भा० व० उक्ताः। शाणः आवपनतुल्यपूरणीयः महहङ्कारचित्तसहितज्ञानेन्द्रियरूपः अष्टत्वात्तथा। शरभपादस्य लोकेऽष्टत्वप्रसिद्धेस्तथा। यूपकोणस्य वेदे अष्टत्वप्रसिद्धेस्तथा। द्विजगुणाः “दया सर्व्वभूतेषु क्षान्तिरनसूया शौचमनायासोमङ्गलमकार्पण्यमस्पृहेति” गौतमोक्तानामष्टत्वात्तथा। वैशेषिकोक्त ईश्वरगुणः संयोगविभागपृथक्त्वसंख्यापरिमाणबुद्धीच्छा कृतिरूपः अष्टत्वात्तथा। राज्याङ्गम् पौरश्रेणीसहित स्वाम्यमात्यादिसप्तकम् अष्टत्वाततथा। नृपगतिः “आदाने च विसर्गे च तथा प्रैषनिषेधयोः। पञ्चमे चार्थवचने व्यवहारस्यचेक्षणे। दण्डशुद्ध्येरवक्रः स्यात्तेनाष्टगतिको नृपः” उशनसोक्तगतिरूपा अष्टत्वात्तथा। तारिणी “तारा चोग्रा महोग्रा च वज्रा काली सरस्वती। कामेश्वणी च चामुण्डा इत्यष्टौ तारिण्योमताः” इत्युक्तानां तारामूर्त्तिभेदानामष्टत्वात्तथा। होमद्रव्यम् “अश्वत्थोडुम्बरप्लक्षन्यग्रोधसमिधस्तिलाः। सिद्धार्थपायसाज्यानि द्रव्याण्यष्टौ विदुर्बुधाः इत्युक्तानामष्टत्वात्तथा। धातुः “स्वर्ण्णं रौप्यञ्च ताम्रञ्च वङ्गं यशदमेवच। सीस लौहं रसश्चेति धातवोऽष्टौ प्रकीर्त्तिताः” इत्युक्तानामष्टत्वात् तथा देहस्थधातुपरत्वे सप्तत्वस्येति भेदः। महासरखतीभुजस्तस्था अष्टभुजत्वात्तथा। सात्विकभावः “स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः। वैबर्ण्यमश्रु प्रलय इत्यष्टौ स्वात्विकाः स्मृताः” सा० द० उक्तस्तम्भादीनामष्टत्वात्तथा। असमवायिकारणगुणः रूपरसगन्धस्पर्शपरिमाणेकपृथक्त्वस्नेहशब्दात्मकः अष्टत्वात्तथा। निमित्तकारणगुणः बुद्धिसुखदुःखेच्छाद्वेषयत्नादृष्टभावनात्मकस्तथा। मनोगुणः संख्यापरिमितिपृथक्त्वसंयोग विभागपरत्वापरत्ववेगात्मकस्तथा। मङ्गलम् “मृगराजोवृषोनागो कलसोव्यजनं तथा। वैजयन्ती तथा भेरी दीप इत्यष्टमङ्गलम्” इत्युक्तानां “लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो, गौर्हुताशनः। हिरण्यं सर्पिरादित्योमाला राजा तथाष्टमः” इत्युक्तानां वाष्टत्वात्तथा। नायिकावस्था स्वाधीममर्त्तृका खण्डिताभिसारिकाकसहान्तरिता विप्रलब्धाप्रोषितभर्त्तृकावासकसज्जाविरहोत्कण्ठितात्मिका अष्टत्वात् तथा। वृहल्लौहम् “सुवर्णं रजतं ताम्रं सीसकं कान्तिकं तथा। रङ्गं लौहं तीक्ष्णलौहं लौहान्यष्टौ इमानि तु” इत्युक्तानामष्टत्वात् तथा। लघुलौहपरत्वे पञ्चत्वस्य बोधकमित्युक्तम्। आयुर्वेदाङ्गम् “शल्यं शालक्यं कायचिकित्सा भूतविद्या कौमारभृत्याऽगदतन्त्रं रसायनतन्त्रं वाजीकरणतन्त्रमिति” सुश्रुतीक्तानामष्टत्वात्तथा। अर्घाङ्गम् “आपःक्षीरं कुशाग्रञ्च दधि सर्पिः सतण्डुलम्। पयः सिद्धार्थकश्चैव अष्टाङ्गोऽर्घः प्रकीर्त्तित” इति इत्युक्तानाम् “आपःक्षीरं कुशाग्राणि घृतं मधु तथा दधि। रक्तानि करवीराणि तथा वै रक्तचन्दनम्। अष्टाङ्ग एष वा अर्घ, इत्युक्तानां वाष्टत्वात् तथा। प्रणामाङ्गम् “जानभ्याञ्च तथा पद्भ्यां पाणिभ्यामुरसा धिया। शिरसा यचसा दृष्ट्या प्रणामोऽष्टाङ्ग ईरितः” इत्युक्तानामष्टत्वात्तथा। “मैथुनाङ्गम् स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम्। संकल्पोऽध्यवसायश्च आसनस्पृष्टिरेव च। एतन्मैथुनमष्टाङ्गम्” इत्युक्तानामष्टत्वात्तथा। पुष्यं तस्य राशिचक्रे अष्टमत्वात् तथा। तदभेदात् तदधिपोजीवोऽपि। अनुष्ठुप् तस्याः अष्टाक्षरपादत्वात् तथा। तमः अव्यक्तमहदहङ्कारपञ्चतान्मात्रात्मकेष्वनात्मभूतेष्वात्म बुद्धिरूपमष्टविधविषयत्वात् तथा। “भेदस्तमसोऽष्टविधोमोहस्य च तथा” सा० का०। मोहः अणिमादिसिद्धीनामात्मगतानां शाश्वतिकत्वाभिमानरूपः अणिमाद्यष्टविधविषविषयत्वात् तथा। विवाहः ब्राह्मदैवार्षप्राजापत्यासुरगान्धर्व्वराक्षसपैशाचात्मकः अष्टत्वात् तथा। सिद्धि “ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्रांप्तिः। दानञ्च सिद्धयोऽष्टौ” सा० का० उक्तोहादीनामष्टत्वात्तथा। उक्तसिड्वीनां नामान्तराणि सां० कौ० दर्शितानि। तारसुतारतारताररम्यकसदामुदितप्रमोदमुदितमोदमानरूपाणि। खगगतिः “संपातं विप्रपातञ्च महापातं निपातनम्। वक्रं तिर्य्यक् तथा चोर्द्ध्वमष्टमं लघुसंज्ञकम्” इत्युक्त सम्पातादिरूपा अष्टत्वात् तथा परिकर्म्म अङ्कशास्त्रोक्त योगवियोगगुणनभागवर्गतत्पदघनतत्परूपम् अष्टत्वात्तथा” वर्ण्णोत्पत्तिस्थानम्। “अष्टौ स्थानानि वर्ण्णानामुरः कण्ठः शिरस्तथा। जिह्वामूलं च दन्तोष्ठौ नामामूलं तालु च” शिक्षोक्तोरआदीनामष्टत्वात् तथा। अव्रतघ्नम् अष्टौ तान्यव्रतघ्नानि आपोमूलं फलं पयः। हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्” स्मृत्युक्ताबादीनामष्टत्वात्तथा। नहारोगः उन्मादत्वग्दोषराजयक्ष्मश्वासमधुमेहभगन्दरोदराश्मरीरूपः अष्टत्वात् तथा।नवत्वसंख्याबोधकाः कबि० ल० उक्ताः। मुखनासिकानेत्रकर्णद्वयोपस्थपायुरूपाणां देहद्वाराणाम् नवसंख्यायोगात् तथा भारतकिन्नरहरिकुरुहिरण्मयरम्यकेलावृतभद्रतुरगकेतुमालाख्यानां भूखण्डानाम्, तपस्याकाले स्वयंकृत्तानां रावणमस्तकानाम्, व्याघ्रीस्तनानां “गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा” इति त्रिविधसुरायाः सात्विकराजसतामसाधिकारिभेदसेव्यतया नवत्वात्तथा। कुण्डानां अष्टासु दिक्षु अष्टौ ऐशानीप्राच्योर्मध्ये आचार्य्यकुण्डमेकमिति मण्डपाङ्गकुण्डानां नवत्वात्तथा। “पद्मोऽस्त्रियः महापद्मः शङ्खोमकरकच्छपौ। मुकुन्दकुन्दनीलाश्च वर्च्चोऽपि निधयो नव” हारा० उक्तानां पद्मादीनाम्” अङ्कानामेकादीनां नवान्तानां, शृङ्गारवीररौद्रकरुणाद्भुतहास्यभयानकबोभत्सशान्ताख्यानामलङ्कारोक्तानां रसानाम्, रविचन्द्रभौमबुधगुरुशुक्रशनिराहुकेतुरूपाणा ग्रहाणाञ्च नवत्वात् तथात्वम्। शा० ति० उक्ता “सच्चिदानन्दविभवात् सकलात् परमेश्वरात्। आसीच्छक्तिस्ततो नादो नादाद्विन्दुसमुद्भवः। परशक्तिमयः साक्षात् त्रिधाऽसौ भिद्यते पुनः। विन्दुर्नादो बीजनिति तस्य भेदाः समीरिताः। विन्दुः शिवात्मको वीजं शक्तेर्नादस्तयोमिर्थः। समवायः समाख्यातः सर्वागमविशारदैः। रौद्री विन्दोस्ततोनादात् ज्येष्ठा वीजादजायत। वामा, ताभ्यः समुद्भूताः रुद्रब्रह्मरमाधिषाः” तत्रैवाद्ये उक्तानां शक्तितत्त्वानां पीटशक्तीनां तत्तद्देवताभेदेन भिन्नानां तत्रैवोक्तानाम “मुक्तामाणिक्यवैदूर्य्यगोमेदान् वज्रविद्रमौ। पुष्परागं मरकतं नीलञ्चेति न्यसेत् क्रमात्” इत्युक्तानां रत्नानां नवत्वात् तथा। वर्गाणामकचटतपयशलरूपाणाम् नवत्वात् तथा लोके लक्षरूपलवर्गस्याभावात् अष्टसंख्याबोधक इति भेदः। प्राणरक्षकदुर्गाभेदरूपाणाम् शा० ति० २३ प० उक्तानां प्राणदूतीनाम्, नवत्वात्तथा। भा० व०। सामधेनी तस्याश्च यथा नवत्वं तथा नी० क० व्या० दर्शितं प्रकृतिसंयोगः स्य च सृष्टौ यथा नवधा योगस्तथोक्तं प्राक्।

ईश्वरलक्षणम् जगज्जन्मस्थितिप्रलयेषु प्रत्येकं ज्ञानचिकीर्षाप्रयत्नात्मतया नवत्वात्तथा। “विश्वसर्गविसर्गादिनवलक्षणलक्षितम्” श्रीधरः। पत्रिका कदली दाडिमी धान्यं हरिद्रामानकं कचुः। विल्वोऽशोको जयन्ती च विज्ञेया नव पत्रिकाः” इत्युक्तानां पत्रिकाणां नवत्वात् तथा। नवपत्रिकास्थदेवीरूपा दुर्गा ब्रह्माणीरक्तदन्तिकालक्ष्मीजयन्तीचामुण्डाकालिकाशिवा शोकरहिताकार्त्तिकीरूपाणां नवत्वात् तथा। कविश्रेष्ठार्थकरत्नशब्दः “धन्वन्तरिः क्षपणकोऽमरसिंहशङ्कुर्वेतालभट्टघटकर्परकांलिदासाः। ख्यान्तोवराहमिहिरोनृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य” ज्योतिर्वि० उक्तानां विक्रमादित्यसभास्थकविश्रेष्ठानां नवत्वात् तथा। विष्णुभक्तिः “श्रवणं कीर्त्तनं विष्णोःस्मरणं पादसेवनम्। अर्चनं बन्दनं दास्यं सख्यमात्यनिवेदनम्। इति पुंसाऽर्पिता विष्णौ भक्तिश्चेन्नवलक्षणा” भाग० ७, ५ उक्तश्रवणादिरूपा नवत्वात् तथा। तुष्टिः “आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः। बाह्या विषयोपरमात् पञ्च नव तुष्टयो भवन्तीह” सां० का० उक्तानां नवत्वात् तथा। अभ्यागतेऽव्ययकार्य्यम्। “नवैतानि गृहस्थेन कार्याण्यभ्यागते सदा। अन्ययानि च यत् सौम्यं वाक्यं १ चक्षु २ र्मनो३ मुखम् ४। अभ्युत्थान ५ सिहायाते सस्नेहं ६ पूर्वभाषणम् ७। उपासन ८ मनुव्रज्या ९” काशी० उक्तानि नवत्वात् तथा। अभ्यागते ईषद्व्ययसाध्य कार्य्याणि। “तथेषद्व्यययुक्तानि कार्य्याण्यभ्यागते नव। आसनं १ पादशौचं २ च यथाशक्त्यशनं ३ क्षितिः ४। शय्या ५ तृणं ६ जला ७ भ्यङ्क ८ दीपा ९ गार्हस्थ्यसिद्धिदाः” काशी० दर्शितानि नवत्वात्तथा। गृहस्थावश्यत्याज्यनिन्द्यकार्य्याणि “तथा नव विकर्माणि त्याज्यानि गृहमेधिना। पैशुन्यं परदाराश्च द्रोहः क्रोधानृताप्रिये। द्वेषीदम्भश्च माया च स्वर्गमार्गार्गलाणि च” काशी० उक्तानि नवत्वात्तथा। अवश्यकर्त्त- व्यानि “नवावश्यककर्म्माणि कार्याणि प्रतिवासरम्। स्नान सन्ध्या जपोहोमः स्वाध्यायो देवतार्चनम्। वैश्वदेवं तथातिथ्यं नवमं पितृतर्पणम्” काशी० उक्तानि नवत्वात् तथा। गोप्यानि “जन्मर्क्षं मैथुनं मन्त्रो गृहच्छिद्रञ्च वञ्चनम्। आयुर्धनापमानं स्त्री न प्रकाश्यानि सर्वथा” काशी० उक्तानि नवत्वात्तथा। प्रकाश्यानि “नवैतानि प्रकाश्यानि बहुपापमकुत्सितम् १। प्रायोग्य २ मृणशुद्धिश्च ३ स्वान्वयः ४ क्रय ५ विक्रयौ ६। कन्यादानं ७ गुणो८ त्कर्षः ९” काशी० दर्शितानि नवत्वात्तथा। अक्षयदानपात्राणि। “पात्रमित्रविनीतेषु दीनानाथोपकारिषु। पितृमातृगुरुष्वेतन्नवकं दत्तमक्षयम्” काशी० उक्तानि नवत्वात्तथा। निष्फलदानपात्राणि “निष्फलं नवकं सृष्टं चाटचारणतक्षसु। कुवैद्ये कितवे धूर्त्ते शठे मन्दे च बन्दिनि” काशी० उक्तानि नवत्वात्तथा। अदेयवस्तूनि “आपत्स्वपि न देयानि नव वस्तूनि मर्वदा। अन्वये सति सर्वस्वं दाराश्च शरणागताः। न्यासाधी कुलवृत्तिश्च निक्षेपः स्त्रीधनं सुतः” काशी० उक्तानि नवत्वात्तथा। साधारणकर्म्म “सत्यं शौचमहिंसा च क्षान्तिर्ज्ञानं दया दमः। अस्तेयमिन्द्रियाकोचः कर्म्म साधारणं मतम्” काशी० उक्तानि नवत्वात् तथा। द्रव्यं क्षितिजलतेजोवाय्वाकाशकालदिन्मनआत्मरूपं नवत्वात् तथा। तमसोद्रव्यत्वमते दशत्वबोधकमिति भेदः। स्थायिभावः “रतिर्हाश्चश्च शोकश्च क्रोधोत्साहौ भयं तथा। जुगुप्सा विस्मयश्चेत्यमष्टौ प्रोक्ताः शमोऽपि च” सा० द० उक्तरत्यादीनां नवत्वात्तथा।१० दशत्वबोधकाः। कवि० व० उक्ताः। हस्ताङ्गुलीनां, दशभुजशम्भुबाहूनां, दशमुखरावणमौलीगां, मीनकूर्म्मवराह नृसिंहवामनपरशुरामदाशरथिबलभद्रबुद्धकल्किरूपाणां कृष्णावताराणाम्, पूर्व्वाग्नेयीदक्षिणनैरृतीपश्चिमावायव्योत्तरैशान्यूर्द्धाधोरूपाणां दिशां गविश्वेषां देवानां गणदेवताभेदानां, क्रतुदक्षवसुसत्यकामकालध्वनिरोचकपुरूरवो माद्रवसोरूपाणाम्, दशाश्वरघचन्द्राश्वानाञ्च दशत्वात्तथा शा० ति०। शक्तितत्त्वानि “निवृत्त्याद्याः कलाः पञ्च ततो विन्दुकला पुनः। नादः शक्तिः सदापूर्वः शिवश्च प्रकृतेर्विदुः” इत्युक्तनिवृत्त्यादिरूपाणि दशत्वात्, तथा। नाडीनाम् इडापिङ्गलासुपुम्णासहितानाम् “गान्धारीहस्तिजिह्वाख्या सप्तषालम्बुषा मता। यशश्विनी शङ्खिनी च कुहूः स्युः सप्त नाडिकाः” इत्युक्तानां दशत्वात् तथा। भा० व०। पुरुषस्य वागादोनामधिदैवमधिभूतं स्थितानां विषयसर्पण वर्त्मात्मकदिशां दशचात्तथा “ता वा एता दशैव भूतमात्रा अधियज्ञं प्रज्ञामात्रा अधिमूतमिति” श्रुतेस्तथात्वम्। गर्भमासानाम्, उपनिषद्भेदेन उपदेशकमहावाक्यानाम् “ब्रह्माहमस्मीति” एवमादोनां तद्विनेयानां तद्विक्षेपकाणाञ्च दशत्वात्तथा। महाविद्या “काली तारा महाविद्या षोडशी भुवनेश्वरी। भैरवी छिन्नमस्ता च विद्या धूमावती तथा। वगला सिद्धविद्या च मातङ्गी कमलात्मिका। एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः” इत्युक्तकाल्यादीनां दशत्वात्तथा। ब्राह्मणः सारस्वतकान्यकुब्जगौडमैथिलोत्कलद्राविडमहाराष्ट्रतैलङ्गगुर्जरनागररूपतया दशत्वात्तथात्वम्। पापानि “अदत्तानामपादानं हिंसा चैवाविधानतः। परदारोपसेवा च कायिकं त्रिविधं स्मृतम्। पारुष्यमनृतं चैव पैशुन्यं चापि सर्व्वशः। असम्बन्धप्रलापश्च वाङ्मय स्याच्चतुर्विधम्। परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम्। वितथाभिनिवेशश्च त्रिविधं कर्म्म मानसम्। एतानि दश पापानि” इत्युक्तानां दशत्वात्तथा योगाङ्ग रूपो यमः “अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यं कृपार्जवम्। क्षमा धृतिर्मिताहारः शौचं चेति यमा दश” इत्युक्ताहिंसा दीनां दशत्वात्तथा। नियमः “तपः सन्तोषआस्तिक्यं दानं देवस्य पूजनम्। सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपोहुतम्। दर्शते नियमाः प्रोक्ताः” शा० ति० उक्ततपआदीनां दशत्वात् तथा। रूपककाव्यम् “नाटकमथ प्रकरणं भाणव्यायोगसमकारडिमाः। ईहामृगाङ्गवीथ्यः प्रहसन मिति रूपकाणि दश” इत्युक्तनाटकादीनां दशत्वात्तथा लास्याङ्गम् “गेयं पदं स्थितपाद्यमासीनं पुष्पगण्डिका। प्रच्छेदकान्तर्गूढं च सैन्धवाख्यं द्विगूढकम्। उत्तमोत्तमकं चान्यदुक्तप्रत्युक्तमेव च। लास्ये दशविधं ह्येतदङ्गमुक्तं मनाषिभिः” इत्युक्तगेयादीनां दशत्वात्तथा। धर्म्मलक्षणम् “धृतिःक्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः। धीर्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणम्” इत्युक्तधृत्यादीनां दशत्वात् तथा। पञ्चमूलद्वयम् “उभाभ्यां पञ्चमूलाभ्यां दशमूलमुदाहृतम्” इत्युक्तानां दशत्वात्तथा। पञ्चमूले च “श्राफलः सर्व्वतोभद्रा पाटला गणिकारिका। शोनाकः पञ्चभिश्चैतैः पञ्चमूलमुदाहृतम्। शालपर्ण्णी पृश्निपर्ण्णी वृहतो कण्ठकारिका। गोक्षुरः पञ्चभिश्चैतैः कनिष्ठं पञ्चमूलकम्” भा० प्र० परिभाषिते। तेन प्रत्येक मूलशब्दः पञ्चार्थकत्वात् पञ्चत्वस्य बोधक इति भेदः। उपनिषद् “ईशाकेनकठः प्रश्नोमुण्डमाण्डूक्यतित्तिरिः। ऐतरेयं च छान्दोग्यं वृहदारण्यक दश” इत्युक्तेशादीनां प्रधानोपनिषदां दशत्वात्तथा। मन्त्रसंस्कारः तन्त्रोक्तदशविधतया दशविधत्वात्तथा।

न्यायावयवः केषांचिन्मते जिज्ञासासंशयशक्यप्राप्ति प्रयोजनसंशयव्युदाससहितानां प्रतिज्ञाहेतूदादरणोपनयनिगमानां दशत्वात्तथा। मघा राशिचक्रे तस्या दशमत्वात्तथा तदभेदात् तदधिपपितृशब्दोऽपि तथा। पङ्क्तिः दशाक्षरपादत्वात्तथा दशरथ इत्यर्थे पङ्क्तिरथः इत्यादिः। बौद्धबलम् “दानं शीलं क्षमा वीर्य्यं ध्यानं प्रज्ञा बलानि च। उपायः प्रणिधिर्ज्ञानं दश बुद्धबलानि वै” इत्युक्तदानादीनां दशत्वात्तथा। वह्निकला “धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गनी। सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि” इत्युक्तधूम्रार्चिरादीनां दशत्वात्तथा। योगभङ्गः “तिथ्यङ्कवेदैकदशोनविंशभैकादशाष्टादशविंशसंख्याः। इष्टोडुना सूर्य्ययुतोडुयोगाद्योगाअमूश्चेत् दश योगभङ्गाः” ज्यो० उक्तयोगजातपञ्चदशाद्यङ्कानां दशत्वात्तथा। विप्राशौचदिनम् “शुध्येद्विप्रोदशाहेन” मनूक्तेःविप्राशौचस्य दशदिनव्यापित्वात्तथा। लघुर्द्विजसंस्कारः गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्म्मनामकरणनिष्क्रामणान्नाशनचूडोपनयनविवाहरूपतया दशत्वात्तथा। वृहत्संस्कारस्तु अष्टचत्वारिंशच्छब्दे उक्तचत्वारिंशत्त्वावबोधक इति भेदः। महापुराणलक्षणम् “सर्गोऽस्याथ विसर्गश्च वृत्तीरक्षान्तराणि च। वंशोवंशानुचरितं संस्था हेतुरपाश्रयः। दशभिर्लक्षणैर्युक्तं पुराणं तद्विदोविदुः। कोचित् पञ्चविधं चख्युर्महदल्पव्यवस्थया” भाग० १२, ७। महामोहः दिव्यादिव्यशब्दादीनां तद्विषयाणां दशत्वात्तथा। “दशविधो महामोहः” सा० का०। देहस्थवायुः प्राणादिपञ्चकसहितनागकूर्म्मधनञ्जयकृकलदेवदत्ताख्यानाम् देहस्थानां दशत्वात्तथा। वह्निः “भ्राजकोरञ्जकश्चैव स्वेदकः स्नेहकस्तथा। वारकोबन्धकश्चैव द्रावकाख्यश्च सप्तमः। व्यापकः पावकश्चैव श्मेष्मकः दशमःस्मृतः” इति पदार्थादर्शोक्तानाम् देहस्थाग्नीनां “तेजकोदीपकश्चैव विभ्रमम्रमशोषणाः। आवसथ्याहवनीयौ दक्षिणाग्निस्तथैव च। अन्वाहार्य्यो गार्हपत्य इत्येते दश वह्नयः” इति तत्रैवोक्तानां बाह्यवह्नीनां वा दशत्वात्त- था। दिक्पालवाहनम् ऐरावतछागमहिषसिंहमकरहरिणाश्ववृषभहंसपद्मरूपम् दशत्वात् तथा। मतान्तरे सोमस्थाने कुवेराधिपतित्वे तस्य नरवाहनत्वमिति भेदः। दिक्पालास्त्रम् वज्रशक्तिदण्डखड्गपाशाङ्कशगदात्रिशूलचक्रपद्मरूपम् दशत्वात् तथा। दुर्गाभुजःतस्या दशभुजत्वात्तथा। सामान्यगुणः संख्यापरिमितिपृथक्त्वसंयोगविभागपरत्वापरत्वनैमितिकद्रवगुरुत्ववेगरूपो दशत्वात् तथा। तेषाञ्च अनेकद्रव्यगुणत्वात् सामान्यत्वम्। अमूर्त्तगुणः “धर्माधर्मौ भावना च शब्दो बुद्ध्यादयोऽपि च। एतेऽमूर्त्तगुणाः सर्वे” इत्युक्तधर्मादीनां दशत्वात् तथा। बुद्ध्यादयश्च षट् बुद्धिसुखदुःखेच्छाद्वेषयत्नरूपा इति दशत्वम्। मूर्त्तगुणः “रूपं रसःस्पर्शगन्धौ परत्वमपरत्वकम्। द्रवोगुरुत्वं स्नेहश्च वेगो मूर्त्तगुणा अमी” इत्युक्तरूपादीनां दशत्वात् तथा।एकादशबोधकाः कवि० ल० उक्ताः रुद्राणाम् “अजैकपादहिबुध्नोविरूपाक्षश्च रेवतः। हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः। रुद्रा एकादश प्रोक्ता जयन्तश्चापराजितः” इत्युक्ताजादिकानामेकादशत्वात् तथा। दुर्य्योधनसेनानामेकादशाक्षौणीमितत्वात् तथा।

भा० व० उक्ताः। पशुयागे स्तोमभेदानां, तत्रत्ययूपानां चैकादशत्वात्तथा मनसासहितज्ञानकर्मेन्द्रियाणां तद्ग्राह्यविषयाणाञ्च एकादशत्वात् तथा।

इन्द्रियघातः “बाधिर्य्यं कुष्ठितान्धत्वं जडताऽजिघ्रता तथा। मूकता कौण्यपङ्गुत्वक्लैवोदावर्त्तमन्दताः” इत्युक्त बाधिर्य्यादीनामेकादशत्वात्तथा। “एकादशेन्द्रियबधाः” सां० का०। पूर्वफाल्गुनो तस्याः ऋक्षचक्रे एकादशत्वात् तदधिपोभगश्च तथा। तेजोगुणः रूपस्पर्शसंख्यापरिमाण पृथक्त्वसंयोगविभागपरत्वापरत्ववेगनैमित्तिकद्रवरूपतया एकादशत्वात् तथा। कारणोद्भवगणः अपाकजरूपरसगन्धस्पर्शापाकजद्रवस्नेहवेगगुरुत्वैकपृथक्त्वपरिमाणस्थितिस्थापकसंस्काररूपत्वात् एकादशत्वबोधकः। अव्याप्यवृत्तिगुणः बुद्धिसुखदुःखेच्छाद्वेषथत्नादृष्टभावनाशब्दसंयोगविभागरूपतया एकादशत्वात् तथा।द्वादशबोधकाः कवि० ल० उक्ताः “धाता मित्रोऽर्य्यमा रुद्रो वरुणः सूर्य्यएव च। भगोविवस्वान् पूषा च सविता दशमः स्मृतः। एकादशन्तथा त्वष्टा विष्णुर्द्वादश उच्यते” विष्णुधं० उक्तधात्रादीना चान्द्रचैत्रवैशाखज्यैष्ठाषाढश्रावणभाद्राश्विनकार्त्तिकम्मर्गपौषमाषफाल्गूनरूपाणां मासानां, मेषवृष- मिथुनकर्कटसिंह कन्यातुलावृश्चिकधनुर्मकरकुम्भमीनरूपाणां राशीनां, तेषु सूर्य्यादिसंक्रान्तीनाञ्च द्वादशत्वात् तथा। कार्त्तिकबाहूनां, तन्नेत्राणां शारीफलककोष्ठानाम् अरिशब्दे दर्शितराजमण्डलस्य च द्वादशत्वात् तथा शा० ति०। आदित्यानां विष्णुधर्ममूर्त्तीनाञ्च तथात्वम्। तत्रैव १५ प० “द्वादशादित्यसहितामूर्त्तीर्द्वादश विन्यसेत्। केशवाद्याः क्रमाद्देहे वक्ष्यमाणविधानतः। ललाटे केशवं १ धात्रा, कुक्षौ नारायणं २ पुनः। अर्यम्णा हृदि मित्रेण ३ माधवं ३ कण्ठदेशतः। वरुणेन ४ च गोविन्दं ४, पुनर्दक्षिणपार्श्वके। अंशुना ५ विष्णु ५ मंसस्थं भगेन ६ मधुसूदनम् ६। गण्डे विवस्वता ८ युक्तं त्रिविक्रम ७ मनन्तरम्। वामपार्श्वस्थमिन्द्रेण ८ वामनाख्य ८ मथांसके। पूष्णा ९ श्रीधरनामानं ९ गले पर्जन्य १० संयुतम्। हृषीकेषाह्वयं १० पृष्ठे पद्मनाभं ११ ततःपरम्। त्वष्ट्रा ११ दामोदरं १२ पश्चात् विष्णुना १२ ककुदि न्यसेत् १२” इत्युक्तानां द्वादशत्वात् तथा। भा० व०। जगती तस्याः द्वादशाक्षरपादत्वात्तथा। प्राकृतयज्ञसाधनाहः तस्य द्वादशाहसाध्यत्वात् तथा।

नाटकीयमुखाङ्गम् “उपक्षेपः परिकरः परिन्यासो विलोभनम्। युक्तिः प्राप्तिः समाघानं विधानं परिभावना। उद्भेदः कारणं भेद एतान्यङ्गानि वै मुखे” मा० द० उक्तोपक्षेपादिरूपतया तथा। बौद्धमतसिद्धमायतनम् “अर्थानुपार्ज्य बहुशो द्वादशायततानि वै। परितः पूजनीयानि किमन्यैरिह पूजितैः। ज्ञानेन्द्रियाणि पञ्चैव तथा कर्मेन्द्रियाणि च। मनोतुद्धिरिति प्रोक्तं द्वादशायतनं बुधैः” इत्युक्तायतनानां द्वादशत्वात् तथा। उत्तरफाल्गुनी राशिचक्रे तस्या द्वादशत्वात् अभेदोपचारात् तदधिपार्य्यमापि तथा। तुषितः “प्राणापानसमानाश्च उदानोव्यान एव च। चक्षुः श्रोत्ररसाघ्राणस्पर्शोबुद्धिर्मनस्तथा। द्वादशैते च तुषिता देवाः स्वायम्भुवेऽन्तरे” इत्युक्तप्राणादिनामकगणदेवात्मकत्वात्तथा। जटाधरमते “षट्त्रिंशत्तुषितामताः” इत्युक्तेः षट्त्रिंशत्त्वस्येति भेदः। क्षत्रियाशौचदिनम् “द्वादशाहेन भूमिपः” इति मनूक्तेस्तस्याशौचस्यद्वादशाहसमाप्यत्वात्तथा। साध्यः “मनोमन्ता तथा प्राणो नरोऽपानश्च वीर्य्यवान्। विनिर्भयोनयश्चैव दंशो नारायणो वृषः। प्रभुश्चेति समाख्याताः साध्याः द्वादश पौर्विकाः” इत्युक्तमनादिगणदेवात्मकः द्वादशत्वात्तथा। सूर्य्यकला “तपिनी तापिनी धूम्रा मरीपि- र्ज्वालिनी रुचिः। सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा” शा० ति० उक्ततपिन्यादीनां द्वादशत्वात्तथा मद्यम् “पानसं द्राक्षमाधूकं खार्ज्जूरं तालमैक्षवम् माक्षिकं टाङ्कमाध्वीकमैरेयं नारिकेलजम्। समानानि विजानीयान्मद्यान्येकादशेव तु। द्वादशन्तु सुरामद्यं सर्वेषामधमं स्मृतम्”। पुलस्त्योक्तपानसादीनां द्वादशत्वात्तथा१३ त्रयोदशसंख्याबोधकाः। कवि० ल० उक्ताः ताम्बूलगुणः ताम्बूलशब्दे वक्ष्यमाणत्रयोदशविधत्वात्तथा। भा० व०। महीद्वीपः ऊर्द्धलोकषट्काधोलोकसप्तकरूपत्रयोदशद्वीपतुल्ययोगात्तथा। अतिच्छन्दः गायत्र्यादिवैदिकच्छब्दःसप्तकातिक्रान्तातिजगतीच्छन्दोरूपम् त्रयोदशाक्षरपादतया तथा। प्रतिमुखाङ्गं “विलापः परिसर्पश्च विधृतं तापनं तथा। नर्म्म नर्म्मद्युतिश्चैव तथा प्रशमनं पुनः। विरोधश्च प्रतिमुखे तथा स्यात् पर्य्युपासनम्। पुष्पं वज्रमुपन्यासोवर्ण्णसंहार इत्यपि” सा० द० उक्तविलासादीनां तथात्वात्तथा। गर्भाङ्गम् “अभूताहरणं मार्गोरूपोदाहरणे क्रमः। संग्रहश्चानुमानञ्च प्रार्थनाक्षिप्तिरेव च। त्रोटकाधिबलोद्वेगा गर्भेस्युर्विद्रवस्तथा” तत्रोक्ताभूताहरणादीनां तथासंख्यत्वात्तथा। विमर्षाङ्गम् “अपवादोऽथ संफेठो व्यवसायोद्रवः स्मृतिः। शक्तिः प्रसङ्गः खेदश्च प्रतिषेधोविरोघनम्। प्ररोचना विमर्षे स्यादादानं छादनं तथा” सा० द० उक्तापवादादीनां त्रयोदशत्वात्तथा। हस्तनक्षत्रं तस्य राशिचक्रे त्रयोदशत्वात्तथा तदभेदात् तदधिपदिनकृदपि तथा। करणं “करणं त्रयोदशविधम्” सा० का० उक्तज्ञानकर्म्मेन्द्रियदशकमनोबुद्ध्यहङ्काररूपं त्रयोदशत्वात्तथा।चतुर्द्दशसंख्याबोधकाः कवि० ल० उक्ताः। विद्या “अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। धर्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्द्दश” इत्युक्ताङ्गविद्यादिरूपा” मनुः “स्वायम्भुवो मनुरभूत् प्रथमस्ततोऽमी स्वारोचिषोत्तमजतामसरैवताख्याः। षष्ठस्तु चाक्षष इति प्रथितः पृथिव्यां वैवस्वतस्तदनु सम्प्रति सप्तमोऽयम्” सि० शि० उक्तानां “सार्णिर्दक्षसावर्ण्णिर्ब्रह्मसावर्ण्णिकस्तथा। धर्म्मसावर्ण्णिकोरुद्रपुत्रोरौच्यश्च भोत्यकः” पुराणोक्तानां च चतुर्द्दशत्वात्तथा। इन्द्रः इन्द्रशब्दे मन्वन्तरभेदे उक्तनासयुक्तः, भुवनम् भूरादिसप्तकातलादिसप्तकरूपं ध्रुवतारकयीगताराश्च चतुर्द्दशत्वात् तथा। एवं यममूर्त्तिः यमधर्मराजमृत्य्वन्तक

वस्वतकालसर्वभूतक्षयौडुम्बरदध्ननीलपरमेष्ठिवृकोदरचित्र- चित्रगुप्तात्मिका चतुर्द्दशत्वात्तथा। क्षितिगुणः रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्ववेगगुरुत्वद्रवत्वात्मकः, जलगुणः गन्धहीनस्नेहसहितक्षितिगुणात्मकः, आत्मगुणश्च बुद्धिसुखदुःखेच्छाद्वेषयत्नसंख्यापरिमाण पृथकत्वसंयोगविभागभावनाधर्माधर्मात्मकः चतुर्द्दशत्वात्तया। चित्रा तस्याराशिचक्रे चतुर्द्दशत्वात्तथा तदभेदात्तदधिपत्वष्टापि तथा। शक्करी तस्याश्चतुर्दशाक्षरपादक त्वात् तथा। श्रीविद्यायन्त्रबाह्यकोणम् तन्त्रे तेषां चतुर्द्दशत्वोक्तेस्तथा। निर्वहणाङ्गम्। “सन्धिर्विबोधोग्रथनं निर्ण्णयः परिभाषणम्। कृतिः प्रमादआनन्दः समयोऽप्युपगूहनम्। भाषणं पूर्ववाक्यञ्च काव्यसंहार एव च। प्रशस्तिरिति संहारे उक्तान्यङ्गानि नामतः” सा० द० उक्तसन्ध्यादीनां चतुर्द्दशत्वात्तथा।पञ्चदशसंख्याबोधकः विशेषव्यवहार्य्या चन्द्रकलाक्रियात्मिका तिथिः उभयपक्षोयप्रतिपदादिरूपा पञ्चदशत्वात्तथा। चन्द्रस्यामाकलायाः सामान्यतिथित्वेऽपि तस्या विशेषतो व्यवहाराभावात् न पञ्चदशत्वव्यघागः। स्वातिनक्षत्रं तस्यर्क्षचक्रे पञ्चदशत्वात् तदभेदात् तदधिपपवनोऽपि तथा अतिशक्करी तस्याः पञ्चदशाक्षरपादकत्वात् तथा। वैश्याशौचाहः “वैश्यः पञ्चदशाहेन” मनूक्तेस्तस्याशौचस्य पञ्चदशाहव्यापकत्वात्तथा। पक्षमानं तस्य पञ्चदश तिथिरूपत्वात् तथा। कालीयन्त्रकोणं “त्रिपञ्चारे पीठे” इत्युक्तेस्तेषां पञ्चदशत्वात्तथा।षोडशसंख्यावोधकाः इन्दुकला “अमृता मानदा पूषा तुष्टिः पुष्टीरतिर्धृतिः। शशिनश्चन्त्रिका कान्तिर्ज्योतस्ना श्रीः प्रीतिरङ्गदा। पूर्णा पूर्णामृता कामदायिन्यः स्वरजाः कलाः” शा० ति०। उक्तामृतादिरूपा, कलाशब्दे वक्ष्यमाणा दिगादिरूपा ब्रह्मकला च षोडशत्वात् तथा। स्वरवर्णः तन्त्रमते अकारादिविमर्गान्तकः षोडशत्वात् तथा। शिक्षामते “स्वरा विंशतिरेकश्चेति” इत्युक्ते। एकविंशतित्वस्येति भेदः। अष्टिः षोडशाक्षरपादत्वात् तथा। विशाखा राशिचक्रे तस्याः षोडशत्वात् तथा। तदभेदात् तदद्भिपौ इन्द्राग्नी अपि तथा। तत्त्वज्ञानोपयोगितया ज्ञातव्यपदादार्थः “प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानरूपः गौतमोक्तः षोडशत्वात्तथा। प्रेतश्राद्धम् आद्यद्वादशमासिकषाण्मासिकद्वयसपिण्डीकरणरूपं षोडशत्वात्तथा। नृप षोडशराजिके प्रसिद्धमरुत्तादिरूपः षोड- त्वात्तथा। ते च नृपाः “मरुत्तः, १ सुहोत्रः २ पौरवोंऽङ्गः ३ औशीनरशिविः ४ दाशरथिरामः ५ भगीरथः ६ ऐलविलटिलीपः ७, यौवनाश्वोमान्धाता ८, नाहुषययातिः ९ नाभागोऽम्बरीषः १० शशविन्दुः ११, गयः १२ साङ्कृतिः रन्तिदेवः १३, दौष्मन्तिर्भरतः १४, वैण्यः १५, जामदग्न्योरामः १६ इत्येते भा० द्रो० ५५, ७० अ० दर्शिताः। तत्त्वान्तरानुपादानलक्षणः सांख्योक्तः विकारः एकादशेन्द्रियपञ्चमहाभूतात्मकत्वेन षोडशत्वात्तथा। “षोडशकस्तु विकारः” सां० का०।१७ सप्तदशसंख्याबोधकाः। अनुराधा राशिचक्रे तस्याः सप्तदशत्वात् तथा तदभेदात्तदधिपमित्रोऽपि तथा। अत्यष्टिः सप्तदशाक्षरपादत्वात् तथा। लिङ्गदेहावयवः “पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम्। अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम्” इत्युक्तानां सप्तदशत्वात् तथेति वेदान्तिनः। सांख्यमते तु पञ्चप्राणस्थाने पञ्चतन्मात्राणीति भेदः “स सप्तदशकेनापि युज्यते नात्र संशयः”। “सप्तदशैकं लिङ्गम्” सां० सू०।१८ अष्टादशसंख्याबोधकाः कवि० ल० सप्त द्वीपाः महाद्वीपा जम्बुप्रभृतयः एकादश उपद्वीपा इत्यष्टादशत्वात् तथा। “अष्टादशद्वीपनिखातयूपः” रघुः “नवद्वयद्वीपपृथग्जयश्रियामिति” नैष०। विद्या धनुर्वेदायर्वेदगान्धर्ब्बार्थ शास्त्रसहितचतुर्द्दशविद्यारूपा अष्टादशत्वात् तथा। महापुराणम् उपपुराणशब्दे दर्शितब्राह्म्यादिरूपम् अष्टादशत्वात् तथा। स्मृतिः अष्टादशस्मृतिकारिशब्देदर्शितविष्णुप्रभृतिप्रणीता अष्टादशत्वात् तथा। धान्यम् अष्टादशधान्यशब्दे दर्शितयवादिरूपम् तथा। महालक्ष्मीभूजाः तस्या अष्टादशभुजत्वात्तथा। ज्येष्ठा राशिचक्रे तस्या अष्टादशत्वात्तथा तदभेदात् तदधिप इन्द्रोऽपि तथा। धृतिः तस्या अष्टादशाक्षरपादत्वात्तथा। विवादः अष्टादशविवादपदशब्दे दर्शितर्ण्णादानादीनामष्टादशत्वात्तथा। कुण्डसंस्काराः “अष्टादश स्युः संस्काराः कुण्डानां तन्त्रनोदिताः। वीक्षणं मूलमन्त्रेण ह्यस्त्रेण प्रोक्षणं मतम्। तेनैव ताडनंदर्भैर्वर्म्मणाभ्युक्षणं स्मृतम्। अस्त्रेण खननोद्धारौ तन्मन्त्रेण प्रपूरणम्। समीकरणमस्त्रेण सेचनं वस्त्रेणा मतम्। कुट्टनं हेतिमन्त्रेण वर्म्ममन्त्रेण मार्जनम् विलेपनं कलारूपं कल्पनं तदनन्तरम्। त्रिसूत्रीक णं पश्चाद्धृदयेनार्च्चनं मतम्। अस्त्रेण वञ्जीकरणं हन्मन्त्रेण कुशैः शुभैः। चतुपथं तनुत्रेण तनुयान्नेत्रपाटनम्” शा० ति० उक्तानाम् अष्टादशत्वात्तथा। भाषा संस्कृता शौरसेनी महाराष्ट्री मागधी अर्द्धमागधी आवन्तिका दाक्षिणात्या शाकरी वाह्लिकी द्राविडी आभीरी चाण्डाली शावरी पैशाची प्राकृता चेतिसा० द० उक्तानां षोडशानां राक्षसीपाश्चात्त्यासहितानामष्टादशत्वात् तथा “अष्टादशभाषावारविलासिनी” सा० द० व्यसनम् “दश कामसमुत्थानि तथाष्टौ क्रोधजानि च। व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत्। मृगयाऽक्षोदिवास्वप्नः परिवादः स्त्रियोमदः। तौर्य्यत्रिकं वृथाट्या च कामजोदशकोगणः। पैशुन्यं साहसं द्रोह ईर्ष्याऽसूयाऽर्थदूषणम्। वाग्दण्डजञ्च पारुष्यं क्रोधजोऽपि गणोऽष्टकः” मनूक्तमृगयादीनामष्टादशत्वात्तथा। भारत पर्व्व तेषामष्टादशत्वात्तथा।१९ ऊनविंशतिबोधकाः। धर्म्मशास्त्रकारकः “मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः। यमापस्तम्बसंवर्त्ताः कात्यायनवृहस्पती। पराशरव्यासशङ्खालिखोतो दक्षगौतमौ। शीतातपोवसिष्ठश्च धर्म्मशास्त्रप्रयोजकाः” इत्युक्त मन्वादीनामूनविंशतित्वात्तथा। मूलनक्षत्रम् तस्य राशिचक्रे ऊनविंशतितमत्वात्तथा। तदभेदात् तदधिपनिरृतिरपि तथा। अतिधृतिस्तस्या ऊनविंशत्यक्षरपादत्वात्तथा। अभिजिन्मानम् तस्याः उत्तराषाढापञ्चदशदण्डश्रवणचतुर्दण्डरूपतयोनविंशतिदण्डात्मकत्वात्तथा।२० विंशतिबोधकः रावणभुजानां, नखानाम्, अङ्गुलीनां च हस्तपादयोस्तावन्मितत्वात् तथा। पूर्व्वाषाढा राशिचक्रे तस्या विंशत्वात्तथा। तदभेदात् तदधिपजलमपि तथा। छन्दोरूपा कृतिस्तस्याः विंशत्यक्षरपादत्वात्। शनेस्तुतायामुच्चांशः मेषे नीचांशश्च तथा। तत्र तस्य विंशांशे एव परमोच्चनीचयोः ज्यो० उक्तत्वात्। ताजकोक्तग्रहोच्चबलम्

“त्रिंशत्स्वभे विंशतिरुच्चभे स्वे” नी० क० उक्तेस्तस्य विंशतितमत्वात्तथा।२१ एकविंशतिसंख्यातोधकाः। परशुरामक्षितिजयस्तस्य एकबिंशतिमितत्वात् तथा। उत्तराषाढा तस्या ऋक्षचक्रे एकविंशत्वात्तथा। तदभेदात् तदधिपविश्वोऽपि तथा। कन्दोरूपा प्रकृतिस्तस्या एकविंशत्यक्षरपादत्वात्तथा। मूर्च्छना “मूर्च्छनाश्चैकविंशतिः” भरतोक्तेः सप्तस्वराणाम् आरोहावरोहक्रमरूपैस्त्रित्वात् एकविंशतिरूपतया तथा। स्वरवर्ण्णः “स्वरा विंशतिरेकश्चेति” शिक्षोक्तेस्तन्मते स्तराणां तत्संख्यत्वात्तथा।२२ द्वाविंशतिसंख्याबोधकाः। श्रवणा तस्या ऋक्षचक्रे द्वाविंशत्वात्तथा। तदभेदात् तदधिपहरिरपि तथा। आकृतिः तस्याद्वाविंशत्यक्षरपादत्वात्तथा। निग्रहस्थानम् “प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासोहेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्तकालं न्यूनमधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभाक्षेपो मतानुज्ञा पर्य्यनुयोज्योपक्षेपणम् निरनुयोज्यानुयोगोऽपसिद्धान्तोहेत्वाभासाश्च” गौ० सू० उक्तानां प्रतिज्ञाहान्यादीनां द्वाविंशतित्वात् तथा।२३ त्रयोविंशतिसंख्याबोधकाः। धनिष्ठा तस्या ऋक्षचक्रे त्रयोविंशत्वात्तथा। तदमेदात् तदधिपवसुरपि तथा। विकृतिः तस्याः त्रयोशिंशत्यक्षरपादत्वात् तथा।२४ चतुर्विंशतिसंख्याबोधकाः। तत्त्वम् प्रधानमहदहङ्कारशब्द स्पर्शरूपरसगन्धतन्मात्रैकादशेन्द्रियपञ्चस्थूलभूतरूपं चतुर्विंशतित्वात् तथा। पुरुषसहितप्रधानादिपरत्वे पञ्चविंशतित्वस्य पुरुषेश्वरयुततत्परत्वे षड्विंशतित्वस्य बोधकमिति भेदः। गायत्र्यक्षरम् तस्या षडक्षरपादत्वाच्चतुष्पाद्यां तथासंख्यायोगात् तथात्वम्। जिनः ऋषभाजितसम्भवाभिनन्दनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभसुविधिशीतलश्रेयोंशवासुपूज्यविमलानन्ततीर्थकृद्धर्मशान्तिकुन्थुररमल्लिमुनिसुव्रतनिमिनेमिपार्श्ववीरात्म कश्चतुर्विंशतित्वात् तथा। ज्या क्रान्तिश्च सि० शि० चतुर्विंशतिमितत्वोक्तेस्तथा। शतभिषा तस्याराशिचक्रे चतुर्विंशत्वात्तथा तदभेदात् तदधिपवरुणोऽपि। स्वगततारासमुदायपरत्वे शतत्वस्येति भेदः। संकृतिस्तस्याश्चतुर्विंशत्यक्षरपादत्वात्तथात्वम्। जातिः न्यायोक्तदोषभेदरूपा प्रतिषेधहेतुः चतुर्विंशतित्वात् तथा। सा च गौ० सू० दर्शिता यथा “साधर्म्यबैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्य्यसमाः” इति। वैशेषिकोक्तः द्रव्याश्रितः गुणः रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषयत्नगुरुत्वद्रवस्नेहसंस्कारपुण्यापुण्यशब्दात्मकत्वात् चतुर्विंशतित्वस्य बोधकः। अन्यार्थपरत्वेत्रित्वादीनां बोधक इत्युक्तं प्राक्। विष्णुमूर्त्तिः शङ्खचक्रगदापद्मानां दक्षवामहस्तेषु विन्यासविशेषेण जातचतुर्विंशतिभेदा तथा। तस्य मूर्त्तभेदोध्यानशब्दे वक्ष्यते।२५ पञ्चविंशतिसंख्याबोधकाः “मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकस्तुविकारो न प्रकृतिर्न विकृतिः पुरुषः” सा० का० उक्तपुरुषसहितप्रधानादि पञ्चविंशतितत्त्वानामङ्गीकारात् तथा। “पञ्च पञ्चजनाः” इति श्रुतिरेव तत्र मानतया तैरङ्गीकृता। शा० भा० तु तस्याः श्रुतेः देवपितृगन्धर्व्वासुरयक्षादीनां पञ्चप्राणादीनां पञ्चविंशतित्वपरतेत्युक्तम्। पूर्वभाद्रपदा तस्याराशिचक्रे पञ्चविंशत्वात्तथा। तदभेदात् तदधिपः अजैकपादपि तथा। उत्कृतिः तस्याः पञ्चविंवत्यक्षरपादत्वात्तथा। स्पर्शः कादिमावसानवर्णानां पञ्चविंशतित्वात् तथा। “स्पर्शानां पञ्चविंशतिः” शिक्षा।२६ षड्विंशतिसंख्याबोधकाः तत्त्वम् जीवेश्वरसहितप्रकृत्यादिरूपं तस्य षड्विंशत्वात्तथा। उत्तरभाद्रपदा तस्याः राशिचक्रे षड्विंशत्वात् तथा तदभेदात् तदधिपाहिबुध्नोऽपि तथा। संकृतिस्तस्याः षड्विंशत्यक्षरपादात्तथा।२७ सप्तविंशतिः। नक्षत्रं उडुचक्रशब्दे दर्शितराशिचक्रस्था श्विन्यादिसप्तविंशतिरूपत्वात् तथा। रेवती तस्या राशिचक्रे सप्तविंशत्वात्तथा। शुक्रस्य मीने सूच्चं कन्यायां सुनीचं च तथा।२८ अष्टाविंशतिसंख्याबोधकाः साभिजिन्नक्षत्रम् तस्थाष्टावि शत्वात्तथा। सात्विकनार्य्यलङ्कारः “यौवने सत्वजास्तासामष्टाविंशतिसंख्यकाः। अलङ्कारास्तत्र भावलावहेलास्त्रयोऽङ्गजाः। शोभा कान्तिश्च दीप्तिश्च माधुर्य्यञ्च प्रगल्भता।

औदार्य्यं धैर्य्यमित्येते सप्तैव स्युरयत्नजाः। लीला विलासो विच्छित्तिर्विव्वोकः किलकिञ्चितम्। मोट्टायितं कुट्टमितं विभ्रमोललितं मदः। विकृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम्। हसितं चकित केलिरित्यष्टादशसंख्यकाः” सा० द० उक्तदशस्वभावजभावसहितलीलादीनामष्टाशानामष्टाविंशतित्वात्तथा।३२ द्वात्रिंशत्त्वबोधकाः दन्तः तस्य नरमुखे द्वात्रिंशत्संख्यकत्वात्तथा। भगवदपराधः अपराधशब्दे २३२ पृ० दर्शितानां यानगमनादीनां क्षत्रियसिद्धान्नभोजनादीनां वा द्वात्रिंशत्त्वात्तथा।३३ त्रयत्रिंशत्त्वबोधकः। नाठ्यालङ्कारः “आशीराक्रन्द कपटाऽक्षमागर्वोद्यमाश्रयाः। उत्प्रासनं स्पृहाक्षोभ पश्चात्तापोपपत्तयः। आशंसाऽध्यवसायौ च विसर्पोल्लेख संज्ञितौ। उत्तेजनं परीवादो नीतिरर्थविशेषणम्। प्रोत् साहनञ्च साहाय्यमभिमानोऽनु र्त्तनम्। उत्कीर्त्तन तथा याच्ञा परीहारोनिवेदतम्। प्रवर्त्तनाख्यान युक्तिप्रहर्षाश्चोपपदेशनम्” सा० द० उक्ताशीरादीनां तत्संख्यकत्वात्तथा। व्यभिचारिभावः “निर्वेदावेगदैन्यश्रममदजडता औग्र्यमोहौ विबोधः स्वप्नापस्मारगर्व्वामरणमलसताऽमर्षनिद्राबहित्याः। औत्सुख्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसंत्रासलज्जा हर्षासूयाविषादाः सधृतिचपलताग्लानिचिन्तावितर्काः” सा० द० उक्तानां तत्संख्यत्वात्तथा।६ षट्त्रिंशत्संख्याबोधकाः। रागिणी “रानाः षट् त्रिंशच्च भार्य्याः इति भरतोक्तेः वसन्तादिरागभार्य्याणां तत्संख्यकत्वात् तत्संख्याबोधकता। रागिणीशब्दे ताश्चवक्ष्यन्ते। नाटकलक्षणम् सा० द० “षट्त्रिंशलक्षणान्यत्र” इत्युपक्रम्य “भूषणाक्षरसंघातौ शोभोदाहरणं तथा। हेतुसंशयदृष्टान्तास्तुल्यतर्कः पदोच्चयः। निदर्शनाभिप्रायौ च प्राप्तिर्विचार एव च। दिष्टोपदिष्टे च गुणातिपाता तिशयौ तथा। विशेषणनिरुक्ती च सिद्धिर्भ्रंशविपर्य्ययौ। दाक्षिण्यानुनयौ मानार्थापत्तिर्गर्हणा तथा। पृच्छा प्रसिद्धिः सारूप्यम् संक्षेपोगुणकीर्त्तनम्। लेशो मनोरथोऽनुक्तसिद्धिः प्रियवचस्तथा” इत्युक्तभूषणादीनां षट्त्रिंशत्त्वात्तथा।३८ अष्टत्रिशत्संख्याबोधकाः सोमसूर्य्याग्निकला “सोमसूर्य्याग्निभेदेन मातृकावर्ण्णसम्भवाः अष्टत्रिंशत्कलास्तत्तन्मण्डणेषु व्यवस्थिताः” शा० ति० उक्तानां सोमषोडशकला सूर्य्यद्वादशकलावह्निदशकलारूपाणामष्टत्रिंशत्त्वात्तथा।४० चत्वारिंशत्संख्याबोधकः। तानः “चत्वारिंशत्ततामताः” इति भरतोक्तेः ततशब्दवाच्यतानानां तत्संख्यत्वात्तथा।४९ ऊनपञ्चात्संख्याबोधकः। अनिलः अनिलशब्दे दर्शितोनपञ्चाशद्भेदत्वात्तथा।५० पञ्चाशत्संख्याबोधकः। मातृकालिपिः तस्याः तन्त्रमते पञ्चाशद्वर्ण्णात्मकत्वात्तथा। “पञ्चाशल्लिपिभिर्विभक्तेत्यादि” शा० ति०।५१ एकपञ्चाशद्बोधकः महापीठः महापीठशब्दे वक्ष्यमाण भेदानां महापीठविशेषाणां तत्संख्यकत्वात्तथा।६४ संख्याबोधकाः। वर्ण्णाः शिक्षामते “चतुःषष्टिस्त्रिषष्टिर्वा वर्ण्णाः सम्भबतोमताः। स्वराविंशतिवेकश्च स्पर्शानां पञ्चविंशतिः। यादयश्च स्मृताह्यष्टौ चत्वारश्च यमाः स्मृताः। अनुस्वारोविसर्गश्च + क~पौ चापि पराश्रितौ। दुस्पृष्टश्चेति विज्ञेय ऌकारः प्लुतएव वा” इति शिक्षोक्तेस्तथा। कला कलाशब्दे वक्ष्यमाणभेदानां तासां चतुःषष्टित्वात्तथा। महादेवीपोठम् “मायामङ्गलनागवामनमहालक्ष्मीचरित्रा भृगुच्छायाच्छत्रहिरण्यहास्तिनमहेन्द्रोड्डोशचम्पापुरम्। पद्मं क्षीरकमञ्जनेश्वरपटेलीचन्द्रपूः श्रीगिरिः कोलाकुल्लकपूर्ण्णपर्व्वतकुरुक्षेत्रैकलिङ्गार्बुदाः। काश्मीरैकाम्रकाञ्चीमलयगिरिवरेकारकुन्भूतदेवीकौ दाम्नालेशजालन्धरसुरभिमणीशाद्रिकाशीप्रयागाः। त्रिस्रोतःकाककोट्योज्जयिनिसमथुरं कोशलाकान्यकुब्जौ ड्राणैङ्काराट्टहासा विरज इह ततः कुण्डिनं राजगेहम्। नेपालं पुण्डवर्द्धन मालवपारसीकामरूपकेदाराः। विन्ध्यमहामठगोश्रुतिकम्पिल्लाश्रीपीठमरुदेशाः” पदार्थादर्शोक्तानां तत्संख्यकत्वात्तथा।१०० शतसंख्याबोधकाः पुरुषायुषम् “शतायुर्वै पुरुषः इति श्रुतेस्तथा। रावणहस्ताङ्गुलिः तस्य विंशतिबाहुत्वेन प्रत्येकं बाहौ पञ्चाङ्गुलियोगात् शतत्वेन तथात्वम्। इन्द्रयज्ञः तस्य शतयज्ञत्वेन तद्यज्ञानां शतत्वात् तथा।१००० सहस्रबोधकाः। इन्द्रनेत्रः तस्य सहस्रनेत्रतया तन्नेत्राणां सहस्रत्वेन तथा। विराट्पुरुषचक्षुः तत्पादः तद्बाहुस्तन्मूर्द्धा च तथा। “सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्” श्रुतिः। कार्त्तवीर्य्यार्जुनबाहुः वाणासुरबाहुश्च तयोः सहस्रबाहुत्वात् तथा। अनन्तशीर्षम् तस्य सहस्रशीर्षतया तथा। गङ्गास्रोतोमुखम् समुद्रसङ्गमसमीपस्थाने सहस्रमुखतया तस्याः प्रवहनात्तथात्वम्। सामवेदशाखा तद्वेदस्य सहस्रशाखत्वात् तथा।१००० अयुतसंख्याबोधकः रामराज्यकाल “दश वर्षसहस्रा णि रामोराज्य मकारयत्” रामा० उक्तेस्तथा। अत्रेदं बोध्यम। शास्त्रकारैः ये ये पदार्था यद्यत्संख्यकतया उक्तास्तत्तच्छब्दास्तत्तत्संख्याबोधकाः। तेषु दिङ्मात्रमत्र दर्शितम अनयैव रीत्यान्येषामपि सुश्रुताद्युक्तभेदयुक्ततत्तत्पदार्थपराणां शब्दानां तत्तत्संख्यार्थकत्वं कल्पनीयम्। शब्दार्थयोरभेदाच्च क्वचिच्छब्दस्य तदर्थकता उक्ता क्वचिच्चार्थस्यैव तत्तत्संख्यायोगौक्तः तेनैव तत्तदर्थकशब्दस्य तत्तत्संख्याबोधकता उन्नेया। इयांस्तु विशेषः समुदायवर्त्तिपदार्थस्यैकदेशवृत्तित्वाभिप्रायेण बहुसंख्यान्वितपदार्थबोधकानामपि एकवचनादिप्रयोगोऽपि। यथा “रामोऽगवेदैर्जलधिस्तु मैत्रैरित्यादौ” रामजलध्योः त्रित्व चतुष्ट्वबोधकत्वेऽपि एकवचनान्तता अगवेदैरित्यादौ सप्तत्वचतुद्धबोधकयोः बहुवचनान्तता। एवमन्यत्रापि। उक्तशब्दानां कचित्संख्यापरत्वम् क्वचित्संख्येयपरत्वम क्वचिच्च पूरणार्थताऽपि यथा “दिग्भिर्गुणैरष्टयमैः शरैकै र्वाणैभसंख्यैर्नखसंमितैश्च” नी० क० दिगादिशब्दानां दशमाद्यंशपरत्वम्। एवं “युग्माग्नी कृतभूतानि षण्मुनी वसुन्त्रयोः” इत्यादौ युग्माग्निप्रमृतीनां तत्तत्संख्यापूरणी द्वितीयादिपरत्वम्। अत्र च ये शब्दा उक्तास्तत्पर्य्यायशब्दा अपि तत्तत्संख्याबोधकाः इति।

***