ऋदूदर = त्रि० मृदु उदरं यस्य वेदे पृ० मलोपः। मृदूदरे निरु०। “ऋदूदरः सुहवो मा नो अस्यै” ऋ० २, ३३, ५, ऋदूदरेण सख्या सचेय” ऋ० ८, ४८, १०।

ऋदूपा = त्रि० पृषी०। १ अर्द्दनपातिनि २ गमनपातिनि ३ दूरपातिनि निरु०। “उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा” ऋ० ८, ७७, ११। इमामेवर्चमधिकृत्य यास्केन तथार्थतया निर्वचनं कृतम्।

ऋदूवृध = पु० पृषो०। १ मर्मण्यर्द्दनवेधिनि २ गमनवेधिनि २ शब्दवेधिनि ४ दूरवेधिनि च निरु०। ऋदूपाशब्दे उदा०। तामेवर्चमधिकृत्य यास्केन तथार्थतया निरुक्तम्।

ऋद्ध = न० ऋध–क्त। १ पक्वम र्दतधान्ये २ सिद्धान्ते ३ वृद्धौ च। ४ समृद्धे ५ सम्पन्ने त्रि “इयमृद्धवनी वृथाऽवनी” नैष०। अवाप्य भूमावसपत्नमृद्धंराज्यं सुराणामपि चाधिपत्यम्” गीता “धमज्ञानवैराग्यादिभिः सम्पन्ने प्रपञ्चरूपेण विवर्त्तमाने च ६ विष्णौ पु०। “ऋद्धः स्पष्टाक्षरो मन्त्रः” विष्णुस० धर्मादिभिरुपेतत्वात् ऋद्धः” भा०। “सहर्द्धिरृद्धो वृद्धात्मा” विष्णुस०। “प्रपञ्चरूपेण वर्द्धमान ऋद्धः” भा०

ऋद्धि = स्त्री ऋध–भावे क्तिन्। १ वृद्धौ २ सम्पत्तौ ३ सिद्धौ च। “परिच्छन्नप्रभावर्द्धिर्न मया न च विष्णुना” कुमा०। “ऋद्ध्या भवान् ज्योतिरिव प्रकाशते” भा० व० १११। कर्त्तरि क्तिच्। ४ पार्व्वत्यां शब्दरत्ना०। ५ लक्ष्म्यां ६ देवभेदे। करणे क्तिच्। ७ ओषधिभेदे स्त्री राजनि०।

तल्लक्षणं यथा। “ऋद्धिर्वृद्धिश्च कन्दौ द्वौ भवतः कीशयामले। श्वेतलोमान्वितः कन्दोलताजालैः सरन्ध्रकः। स एव ऋद्धिर्वृद्धिश्च भेदमप्येतयोर्ब्रुवे। तूलग्रन्थिसमा ऋद्धिर्वामावर्त्तफला च सा। वृद्धिस्तु दक्षिणावर्त्त फला प्रोक्ता महर्षिभिः। “ऋद्धिर्बल्या त्रिदोषघ्नी शुक्रला मधुरा गुरुः। प्राणैश्वर्य्यकरी मूर्च्छा रक्तपित्तविनाशिनी” भावप्र०। “काकोली क्षीरकाकोली जीवकर्बभकावुभौ। तथा मेदा महामेदा ऋद्धिर्वृद्धिर्मधूलिका। निरूहेषु ययालाभमेष वर्गो विधीयते” सुश्रु०। तयोरलाभे वर्गमध्ये वाराही देया ऋषभशब्दे प्रमाणम्। ८ कुवेरपत्न्याञ्च। तरौ तत्र निबध्याथ कश्यपं प्रददौ शुभा। अदितिर्मम पुण्यार्थं सौभाग्यार्थं तथैव च। निष्क्रयेण मया मुकः कश्यपस्तु तपोधनः। इन्द्रीदत्तस्तथेन्द्राण्या सौभाग्यार्थं ततो मम! सोमश्चाप्यथ रोहिण्या ॠद्ध्या च धनदस्तथा। एव सौभाग्यदोवृक्षः पारिजातो न संशयः” हरिवं० १२६। “ऋद्धिः कुवेरकान्ता च जलेश महिषी तथा” हरिवं० १३६ अ०। “सावित्री ब्रह्मणःसाध्वी कौशिकस्य शची सती। मार्त्तण्डेयस्य धूमोर्ण्णा ऋद्धिर्वैश्रवणस्य च” भा० अनु० १४६ अ०। “शक्रः शचीपतिर्देवोयमोधूमोर्ण्णया सह। वरुणः सह गोर्य्या च सहर्द्ध्या च धनेश्वरः” हरि० १५ अ०। साऽस्यास्ति मतुप्। ऋद्धिमत् वृद्धियुक्ते त्रि० स्त्रियां ङीप्। “तमृद्धिमद्धन्धुजनाधिरूढैः” कुमा०। “धारागृहेष्वातपमृद्धिमन्तः” रघुः तन्त्रोक्ते ९ खकारे। “अथाभिधास्ये त्वरितां त्वरितं फलदायिनीम्। “तारो रमा वर्म्मवीजमृद्धिरीशस्वरान्विता” ऋद्धिः खकारः” तन्त्रसारः।

ऋध = वृद्धौ दिवा० स्वा० च पर० अक० सेट् उदित् इरिच्च। दि० ऋध्यति ऋध्यात् ऋध्यतु आर्द्ध्यत् स्वा० ऋध्नोति ऋध्नुवन्ति ऋध्नुयात् ऋध्नेतु ऋध्नुहि आर्ध्नोत्। उभयतः। आर्द्धत्–आर्द्धीत्। आनर्द्ध आनृ धतुः। आर्द्धिता ऋध्यात् अर्द्धिष्यति आर्द्धिष्यत्। अर्द्धितव्यः अर्द्धनीयः। ऋध्यः। ऋद्धः ऋद्धिः। ऋध्यन् ऋध्नुवन् अर्द्धः। उदित्त्वात् वेट् अर्द्धित्वा–ऋद्ध्वा। समृध्य। “नाब्रह्म क्षत्रमृध्नोति नाक्षत्रं ब्रह्म वर्द्धते” ममुः “सपत्नानृध्यतो दृष्ट्वा हीनमात्मानमेव च। सोऽहं न स्त्री नचाप्यस्त्री न पुमान् नापुमानाप” भा० स० ४६ अ०। “पृथिव्यामग्नये समनमन्त् स आर्घ्नोत्” अथ० ४, ३९, १। ये भक्षयन्तो न वसून्यानृधुः” २, २५, ८। आत्मनेपदित्वमपि “ते च लोमश! लोकेऽस्मिन्नृध्यन्ते केन हेतुना” भा० व० ९४। वेदे गणव्यत्यासात् श्नम्। “य एषां भृत्यानृणधत् स जीवात्” ऋ० १, ८४, १६। मन्मानि धीतिरुत यज्ञमृन्धन्” १०, ११०, २। अन्तर्भूतण्यर्थत्वात् सक०। णिचि अर्द्धयति ये “त्वां यज्ञैर्यज्ञिये अर्द्धयन्ति” अ० ७, ८३, ४। सनि वेट् अर्द्दिधिषति ईर्त्सति। वेदे गणव्यत्यासात् श तेन। “इन्धानास्त्वा शतं हिमा ऋधेम” अथ० १९, ५५, ४। ऋधच्छब्दे उदा०। “ऋधद्यस्ते धिया मर्त्तः शशमते” ऋ० ६, २, ४। स्वा० तर्पणे वर्द्धने च सक०। “आदृध्नोति हविष्कृतिम्” ऋ० १, १८, ८। “अन्तत एव तद्देवानृध्नुवन्ति” ऐ० ब्रा०। “सोऽहं प्राग्भवतैव मूतजननीमृध्नोमि” भवभूतिः।अधि + अधिकवृद्धौ। “यदस्मिन्निदं सर्वमध्यार्ध्नोत्तेनाध्यर्द्धः” इति शत० ब्रा० १४, ६, १०।आ + समृद्धौ। “ऋणान्नोनर्ण्णमेर्त्समानो यमस्य लोकेऽधिररज्जुरायत्” अथ० ६, ११८, २। ताच्छील्ये चानश्उप + उपगमे। “तस्मादेतत् क्षत्रिय एव नक्षत्रमुपेर्त्सेज्जिघांसतीव” शत० ब्रा० २, १, २, १७। “उपर्त्सेत् स्वीकुर्य्यात्” भा०। “एतेषामेव संवत्सरमुपेर्त्सेत्” २, ३, २, १४।वि + ऋद्धिविगमे विगतायां वृद्धौ “अथ यस्मान्न कृत्तिकास्वादधीतर्क्षाणां वा एता अग्रे पत्न्य आसुः सप्तर्षीनु ह स्म वै पुरर्क्षा इत्याचक्षते ता मिथुनेन व्यार्द्धन्तामी ह्युत्तराहि सप्तर्षय उद्यन्ति पुर एता अशमिव वै तद्योमिथुनेन व्यृद्धः स नेन्मिथुनेन व्यृद्धा” इति शत० ब्रा० २, १, २, ४। “व्यार्द्धन्त विगतर्द्धिका अभवन्” भा०। गणव्य० साधुः। “यद्यज्ञमुखे यज्ञमुखे जुहुयात् पशुभिर्व्यृध्येत पापीयान्त्स्यात्” १३, १, ३, ८। “अव्ययं विभक्तीत्यादि” पा० सूत्रे विगता ऋद्धिः व्यृद्धिः” सि० कौ०।सम् + ऋद्धेराधिक्ये अतिशयितर्द्धौ। “अव्ययं विभक्तीत्यादि” पा० “ऋद्धेराधिक्य समृद्धिः” सि० कौ०। “कः क्षिण्वंस्तान् समृध्नुयात्” मनुः। “शत्रुपक्षं समृध्यन्तं यो मोहात् ससुपेक्षते” भा० व० ५४ अ० “अयं कामः समृध्यताम्” यजु० २६, २। पदव्यत्यासः।

ऋधज्(क्) = अव्य० ऋध–बा० अजि(कि)क् स्वरा०। १ सत्ये, २ वियोगे, ३ शैध्र्ये, ४ सामीप्ये, ५ लाघवे, च प्रौढम०। वियोगः पृथक्करणम्। “ऋधग्द्वेषः कृणुत” ऋ० ८, १, ८, ११। “ऋथक् पृथक् कृणुत कुरुत” भा०। “यदि- न्द्रो दिवि पर्य्यो यदृधक्” ऋ० ६, ४०, ५। “ऋधक् सा वो मरुतः” ७, ६७, ४। “ऋधग्देवा इह यजा चिकित्वः” ३, २५, १। “ऋधगित्था स मर्त्यः” ऋ० ८, १०१, १। “ऋधक् सत्यम्” भा०। “ऋधग्यतो अनिमिषं रक्षमाणाः” ६१, ३। “ऋधग्यतः सत्येन गच्छतः” भा०। कर्त्तर अजिक्। ६ समृद्धे, ७ वर्द्धके च त्रि०। “ऋधगया ऋधगुताशमिष्ठाः” यजु० ८, २०। “ऋधक् समृद्धमयाः” “ऋधक् यज्ञं समर्द्धयन्” वेददी०। “ऋधक् सोम! स्वस्तये” ऋ० ९, ६४, ३०। “ऋधक् ऋध्न वन् तथा च” यास्क० “ऋधगिति पृथग्भावस्यानुप्रवचनम् भवति अथाप्यृध्नोत्यर्थे दृश्यते” भा०। “ऋधग्घुवेम कविनेषितासः” ऋ० ६, ५९, १०। “ऋधक् समृद्धं यथा तथा हुयेम” भा०।

ऋधत् = त्रि० ऋध० शतृ वेदे गणव्यत्यासः। वर्द्धमाने। “दश श्यावा ऋधद्रयोवीतबारास आशवः” ऋ० ८, ४६, २३। “ऋधद्रयोवृद्धवेगाः” भा०। रयशब्दो वेगवाची जसः स्थाने प्रथमा। “शमाभिरृधद्वारायाग्नये ददाश” ६, ३, २। “ऋधद्वाराय ऋधत् समृद्धं वारं वरणीयं धनं यस्य” भा०।

ऋन्फ(म्फ) = हिंसायां तुदा० मुचा० सक० पर० सेट्। ऋम्फति आर्म्फीत्–आर्फीत् ऋम्फाम्–बमूव आस चकार आनर्फ

ऋफ = दाने हिंसायां निन्दायां युद्धेच सक० श्लाघायाम् अक० तुदा० पर० सेट्। ऋफति आर्फीत्। कविकल्पद्रुमे ऋफधातुस्तदर्थे पा० मते रिफधातुस्तेष्वर्थेषु ऋफधातुस्तु हिंसायामिति भेदः। आनर्फ आनृफतुः।

ऋबीस = न० ऋ + वर्जने भास–अच् पृ०। १ पृथिव्यां निरु० तत्स्थे २ अग्नौच। “हिमेनाग्निं घ्रंसमवारयेथां पितुमतीसूर्ज्जमस्मा अधत्तम्। “ऋबीसे अत्रिमश्विनावनीतमुन्निन्यतुः सर्वगणं स्वस्ति” ऋ० १, ११६, ८। इमामृचमधिकृत्य यास्केन ऋबीसमपगतभासमन्तंर्हितभासं गतभासम् वा इति निरुच्योक्तम् “योऽयं ऋबीसे पृथिव्यामग्निरन्तरोबधिवनस्पतिष्वप्सु तमुन्निन्यतुः” “युवमृबीसमुत तप्तमत्रये” ऋ० १०, ३९, ९। “तप्तमृबीसमग्निकुण्डम्” भा०। “अत्रिर्यद्वामवरोहदृबीसम्” ऋ० ५, ७८, ४। “ऋबीसं तुषाग्निम्” भा०। “अनृतातिथ्यपनोदपूतिदार्वाधानर्वीसपक्वनाव्युदकानि वर्ज्जयेत्” कात्या० ४, १०१, ५। “ऋबोसशब्दः पृथिवीवाची “योऽयमृबीसे पृथिव्यामिति” यास्कोक्तेः ऋवीसे यत् पक्वं तिन्दुकादि” कर्कः।

ऋभु = पु० अरि स्वर्गे अदितौ वा भवति ऋ + + भू–ड। १ देवे। तेन ऋशब्दस्य स्वर्गवाचित्वं द्रष्टव्यं तच्च प्रमादात् पूर्वमनुक्तमिति तस्य च स्वर्गे पुंस्त्वम् बोध्यम्। “समीचीभास ऋभवः समस्वरन्” ऋ० ८, ३, ७। “तं नेमिमृभवो यथा” ऋ० ७५, ५। २ मेधाविनि निरु०। “अग्नये ब्रह्म ऋभवस्ततक्षुः” ऋ० १०, ८०, ७। “ऋषिर्विप्रः पुर एता जनानामृभुर्धीर उशना काव्येन” ऋ० ९, ८७, ३। ३ देवानामपि यष्टव्ये देवे। “ऋभवोनाम तत्रान्ये देवानामपि देवताः। तेषां लोकाः परतरे यान् यजन्तीह देवताः” भा० व० १५ ४५९। चाक्षुषमन्वन्तरीये ४ देवगणभेदे च। “चाक्षुषस्यान्तरे तात! मनोर्देवानिमान् शृणु। आप्याः प्रभूताः ऋभवः पृथुकाश्च दिवौकसः। लेखानाम महाराज! पञ्च देवगणाः स्मृताः” हरिवं० ७। त्रैवर्णिकहीने ५ जातिभेदे “ऋभूणां त्वेति रथकृतः” कात्या० ४, ९, ५, “ऋभुः सौधन्वन सात्वतापरपर्यायस्त्रैवर्ण्णिकेभ्यो हीनो नियतः कश्चिज्जाति विशेषः इति पार्थसारथिमिश्राः” कर्कः। तृतीयसवनीये सुधन्वनः पुत्ररूपे ६ देवभेदे च। “इहोपयात शवसो नपातः सौधन्वना ऋभवो माप भूत” ऋ० ४, ३५, १, एतत्सूक्ते च नवर्चैस्तस्यैव गुणादिवर्णनम्। ऋ + भा–डु। ७ उरुभासमाने त्रि० “ऋभुमृभुक्षणो रयिम्”। ऋ० ४, ३७, ५, “ॠभुमुरुभासमानम्” भा० ऋभुरस्त्यस्य उ द्देश्यतया मतुप्। ऋभुमत् ऋभुदेवताके त्रि०। “ऋभुमन्तं वाजवन्तं त्वा कवे”! ऋ० ३, ५२, ६। ऋगुणा दृष्टं साम अण्। आर्भव तद्दृष्टे सामभेदे आर्भवशब्दे उदा०। क्विप्। ऋभूरपि देवे पु०।

ऋभुक्ष = पु० ऋभवो देवाः क्षियन्ति वसन्त्यत्र क्षि + आधारे बा० ड। १ स्वर्गे २ वज्रे २ इन्द्रे च रायमुकुटः। ऋभुनाम्नाक्षीयते गम्यते कर्म्मणि बा० ड। ऋभुनामके देवे “उप नोवाजा अध्वरमृभक्षाः” ऋ० ४, ३७, १, “ऋभुक्षा ऋभवः” भा०

ऋभुक्षन् = पु० ऋभुनाम्ना क्षायते क्षै–क्षये धातूनामनेकार्थत्वात् ख्यातौ कर्मणि कनिन्। ऋभुनामख्याते देवभेदे “स्तोमोवाजा ऋभुक्षणो ददे वः। “ऋभुमृभुक्षणो रयिम्” ऋ० ४, ३७, ३, ५।

ऋभुक्षिन् = पु० ऋभुक्षः वज्रं स्वर्गोवाऽस्यास्ति इनि। इन्द्रे स्वादौ ॠभुक्षा ऋभुक्षाणौ शसाद्यजादौ टिलोपः ऋभुक्ष इत्यादि “इन्द्रो विभ्वां ऋभुक्षा वाजो अर्य्यः” ऋ० ७, ४८, ३, “ऋभुक्षेवाचरति ऋभुक्षिन् + आचारे क्विप् अनुनासिकदीर्घः ऋभुक्षीणति। ततः क्विप् ऋभुक्षीन् तद्वदाचारान्विते त्रि०।

ऋभ्व = त्रि० उरुभूतः पृषो०। महति उरुभूते निरु०। “स्तुषेय्यं पुरुवर्पसमृभ्वमिनतममाप्त्यमाप्त्यानाम्” ऋ० १०, १२०, ६, अस्या ऋवः यास्केन “स्तोतव्यं बहुरूपमुरुभूतमीश्वरतममाप्तव्यमाप्तव्यानामिति” क्रमेण पदानि निरुक्तानि। ऋभ्वः उरुभूत इवाचरति ऋभ्व + आचारे क्विप् ततो बा० अतु। ऋभ्वत् उरुभूते महति। “पुरुहूतोयः पुरुगूर्त्त ऋभ्वा~ एकः पुरुप्रशस्तः” ऋ० ६, ३ ४, २, “ऋभ्वान् महान् भा० अत्वन्तत्वान्नान्त्यलोपः। कनिन्। ऋभ्वन् तत्रार्थे “जुषद्धव्या मनुषस्योर्द्ध्वस्तावृभ्वा यज्ञे” ऋ० १०, २०, ५ बा० असच्। ऋभ्वस अतिवृद्धे। “सत्यशबसमृभ्वसम्” ऋ० ५, ५ २, ८, “ऋभ्वसम् अतिप्रवृद्धमिति” भा० “इन्द्रं न यज्ञैर्विश्वगूर्त्तमृभ्वसमधृष्टम्” ॠ० ८, ७०, ३,

ऋश = हिंसायां गतौ च सौ० पर० सक० सेट्। अर्शति आर्शीत् आनर्श आनुशतुः अर्शः। ऋश्यः।

ऋश्य = त्रि० ऋश–कर्मणि क्यप्। १ हिंस्ये ३ मृगे पुंस्त्री शब्दरत्ना०। स्त्रियां जातित्वेऽपि योपधत्वात् टाप्। “ऋश्यो न तृष्यन्नवपानमा गहि” ऋ० ८, ४, १०, “ऋश्य ऋश्याख्योमृग इव तृष्यन् भा० “वसुभ्य ऋश्यानालभेत” यजु० २४, २७, “ऋश्यो मयूरः सुपर्ण्णस्ते गन्धर्वाणाम्” यजु० ३४, २७, ततः चतुरर्थ्याम् ऋश्या० क। ॠश्यक तत्सन्निकृष्टदेशादौ। भावे क्यप्। ३ हिंसायां न०। ऋश्यं हिंसां पतनेन ददाति दा–क। ऋश्यद कूपे पु० “युवं बन्दनमृश्यदादुदूपथुः” ऋ० १०, ३९, ८। “ऋश्यदात् कूपात्” भा०।

ऋश्यपाद् = त्रि० ऋश्यस्येव पादावस्य अन्त्यलोपः समा०। मृगसदृशपादयुक्ते स्त्रियां ङीष् पद्भावश्च। “ऋश्यपदीं वृषंदतीं गोषेधां विधमाम्युत” अथ० १, १८४।

ऋश्यादि = पु० पाणिन्युक्ते चतुरर्थ्यां कप्रत्ययनिमित्ते शब्दगणेस च गणः। “ऋश्य, न्यग्रोध, शर, निलीन, निवास, निवात, निधान, निबन्ध, विबद्ध, परिगूढ, उपगूढ, अशनि, सित, मत वेश्मन्, उत्तराश्मन्, अश्मन्, स्थूल, बाहु, खदिर, शर्करा, अनडुह्, अरडु, परिवंश, बेणु, वीरण, खण्ड, दण्ड, परिवृत्त, कर्दम, अंशु”।

ऋष = गतौ बधे च तुदा० पर० सक० सेट्। ऋषति आर्षीत्। आनर्ष आनृषतुः अर्षिता ऋष्यात् अर्षिष्यति आर्षिष्यत्। अर्षितव्यः अर्षणीयः ऋष्यः। अर्षिता ईदित् ऋष्टः ऋष्टवान् ऋष्टिः। “शृङ्गाभ्यां रक्ष ऋषत्यवतिम्” अथ० ९, ४, १७। अथ दाक्षणायुग्यमुपार्षति” शत० ब्रा० ५, ४, ३, ८। “ह्रदं न हित्वान्यृषन्त्यूर्म्मयः” ऋ० १, ५२, ७, “यदुदर्य्यस्य मेदस्य परिशिष्यते तद्गुदे न्यृषेत्” शत० ब्रा० २, ८, ४, ५। “अथ पर्ष्यृषति” इत्युपक्रम्य “समं भूमि पर्यर्षणं करोति” ३, ६, १, १८। अस्य वेदे भ्वादित्वमपि दृश्यते। गणव्यत्यासात् साधुः। “अर्षन्त्वापस्त्वयेह प्रसूताः” ऋ० ३, ३०९। “ऋषी गतौ व्यत्ययेन शप्” भा० “तस्माआपोघृतमर्षन्ति सिन्धवः” १, १२५, ५। “मही न धारात्यन्धो अर्षति” ९, ८६, ४४। “एता अर्षन्त्यनला भवन्ती” ४, १८, ६। “एता स्वर्षन्ति हृद्यात् समुद्रात्” ४, ५८, ५। “शशमास्कन्दमर्षति” यजु० २३, ५५।अभि + आभिमुख्येन गतौ “अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु” ऋ० ४, ५८, १०। “कृण्वन्ति वरिवो गवे अभ्यर्षन्ति सुष्टुतिम्” ९, ६२, ३।नि + परि + सम् + इत्यादौ गत्यर्थधातोरिवार्थे। “गुहाकरिन्द्रं याता वीर्य्येण न्यृष्टम्” ऋ० ४, १८, ०। “न्यृष्टं नितरां प्राप्तम्” भा०। “अयं निधिः सरमे अद्रिबुध्नोगोभिरश्वेभिर्वसुभिर्न्यृष्यः” १०, १०८, ७।

ऋषद्गु = पु० यदुवंश्ये राजभदे। “यदुस्तस्मान्महासत्वः क्रोष्टा तस्माद्भविष्यति” इत्युपक्रम्य “वृजिनीवतस्तु भविता ऋषद्गुरपराजितः। ऋषद्गोर्भविता पुत्रस्तश्चित्ररथस्तथा” भा० अनु० १४७ अ।

ऋषभ = पु० ऋ–अभक्। १ ओषधिभेदे ओषधिभेदश्च ष्ट्रव्यगणान्तर्गत। स च सुश्रु० दर्शितः यथा “अथातो द्रव्यसंग्रहणीयमध्यायं वाख्यास्यामः। समासेन सप्तत्रिंशद्द्रव्यगणा भवन्ति। तद्यथा विदारीगन्धा विदारी सहदेवा विश्वदेवाश्वदंष्ट्रा प्रत्यकपर्णी शताबरी सारिवा कृष्णसारिवा जीवकर्षभकौ महासहा क्षुद्रसहा वृहत्यौ पुनर्णवैरण्डो हंसपादी वृश्चिकाल्यृषभी चेति”। तल्लक्षणाद्युक्तं भावप्र० “ऋषभातिविषा कृष्णा काकनासाच चामरैः। जीवकर्षभकौ ज्ञेयौ हिमाद्रिशिस्वरोद्भवौ। रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्रकौ। जीवकः कूर्चकाकार ऋषभो वृषशृङ्गवत्। जीवकोमधुरः शृङ्गी ह्रस्वाङ्गः कूर्चशीर्षकः। ऋषभो वृषभोवीरो विषाण्णी ब्राह्म इत्यपि। जीवकर्षभकौ बल्यौ शीतौ शुक्रकफप्रदौ। मधुरौ पित्तदाहघ्नौ काशवातक्षयापहौ”। अयञ्चाष्टवर्गान्तर्गतः। जीवकर्षभकौ मेदे काकोल्यौ ऋद्धिवृद्धिके। अष्टवर्गोऽष्टभिर्द्रव्यैः कथितश्चरकादिभिः” भावप्र०। “राज्ञामप्यष्टवर्गस्तु यतोऽयमतिदुर्णभः। तस्म दस्य प्रतिनिधिं गृह्णीयात्तद्गुणं भिषक्। मेदा जीवककाकाली ऋद्धिर्वृद्धिस्तथाऽसती। वरीविदार्य्यश्वगन्धावाराहीस्तु क्रमात् क्षिपेत्” भावप्र०। २ मुनिभेदे च। ऋषभकूटशब्दे मुनिभेदो दृश्यः। वर्षति रेतः वृष–अभक् पृ० बलोपः। ३ वृषभे “ते ते भवन्तूक्षण ऋषभासो वशा उत” ऋ० ६, १६, ४७। ॠवभासो रेतोवर्षकावृषभाः” भा०। “उप ऋषभस्य रेतस्युपेन्द्र! तव वीर्य्ये” २८, ८ “ततो नियुक्ताः पशवो यथा शास्त्रं मनीषिभिः। तं तं देवं समुद्दिश्य पक्षिणश्च यथाविधि ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये” सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि” भा० आश्व० ८८। अश्वमेधस्य वृषभादयश्च सलक्षणा अश्वमेधशब्दे दर्शिताः अस्य व्याध्रादिषु पाठात् उपमितसमासः। नरःऋषभ इव वाक्ये नरर्षंभः एवं राजर्षभः पुरुषर्नभ इत्यादि। सर्वत्र प्राशस्त्यं तेन द्योत्यते। “स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः। सिंहशार्द्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः” अमरोक्तेः। क्वचिद्वाक्येऽपि श्रेष्ठत्वं द्योत्यते। “सात्वतामृषभं सर्वे मूतावासममंसत” भाग० ३०२, १०। “स्वलक्षणा प्रादूरभूत् किलास्यतः स मे ऋषीणामृषभः प्रसीदतु” भाग० २, ४, २३। गोलक्षणान्तर्गतवृषभलक्षणमुक्तं वृहसं० “सास्राबिलरूक्षाक्ष्यो मूषकनयनाश्च न शुभदा गावः। प्रचलच्चिपिटविषाणाः करटाः खरसदृशवर्णाः। दशसप्तचतुर्दन्त्यः प्रलम्बमुण्डानना विनतपृष्ठाः। ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च। श्यावातिदीर्घजिह्वा गुल्फैरतितनुभिरतिवृहद्भिर्वा। अतिककुदाः कृशदेहा नेष्टा हीनाधिकाङ्ग्यश्च। वृषभोऽप्येवं स्थूलातिलम्बवृषणः सिराततक्रोडः। स्थूलासिराचितगण्डस्त्रिस्थानं मेहते यश्च। मार्जाराक्षः कपिलः करटो वा न शुभदो द्विजस्येष्टः। कृष्णौष्ठतालुजिह्वः श्वसनो यूथस्य घात करः। स्थूलशकृन्मणिशृङ्गः सितोदरः कृष्णसारवर्ण्णश्च। गृहजातोऽपि त्याज्यो यूथावनाशावहो वृषभः। श्यामकपुष्पचिताङ्गो भस्मारुणसन्निभो विडालाक्षः। विप्राणामपि न शुभं करोति वृषभः परिगृहीतः। ये चोद्धरन्ति पादान् पङ्कादिव योजिताः कृशग्रीवाः। कातरनयना हीनाश्च पृष्ठतस्ते न भारसहाः। मृदुसंहतताम्रोष्ठास्तनुस्फिचस्ताम्रतालुजिह्वाश्च। तनुह्रस्वोच्चत्रवणाः सुकुक्षयः स्पष्टजङ्घाश्च। आताम्रसंहतखुरा व्यूढोरस्का वृहत्ककुदयुक्ताः। स्निग्धश्लक्ष्णतनुत्वग्रीमाणस्ताम्रतनुशृङ्गाः। तनुभूस्पृग्वालधया रक्तान्तविलोचना महो- च्छ्वासाः। सिंहस्कन्धास्तन्वल्पकम्बलाः पूजिताः सुगताः। वामावर्तैर्वामे दक्षिणपर्श्वे च दक्षिणावर्तैः। शुभदा भवन्त्यनडुहो जङ्घाभिश्चैणकनिभाभिः। वैदूर्य्यमल्लिकाबुद्बुदेक्षणाः स्थूलनेत्रवर्माणः। पार्ष्णिभिरस्फुटिताभिः शस्ताः सर्वेऽपि भारवहाः। घ्राणोद्देशे सबलिर्मार्जारमुखः सितश्च दक्षिणतः। कमलोत्पललाक्षाभः सुवालधिर्वाजितुल्यजवः। लम्बैर्वृषणैर्मेषोदरश्च सङ्क्षिप्तवङ्क्षणक्रोडः। ज्ञेयो भाराध्वसहो जवेऽश्वतुल्यश्च शस्तफलः। सितवर्णः पिङ्गाक्षस्ताम्रविषाणेक्षणो महावक्त्रः। हंसो नाम शुभफलो यूथस्य विवर्धनः प्रोक्तः। भूस्पृग्बालधिराताम्रवङ्क्षणो रक्तदृक् ककुद्मी च। कल्माषश्च स्वामिनमचिरात् कुरुते पतिं लक्ष्म्याः। यो वा सितैकचरणो यथेष्टवर्णश्च सोऽपि शस्तफलः। मिश्रफलोऽपि ग्राह्यो यदि नैकान्तप्रशस्तोऽस्ति”। “ऋषभाख्यमेतदुदितं सजसाः सयौ चेत्” इत्युक्ते ४ छन्दोभेदे ५ कर्णच्छिद्रे ६ कुम्भीरपुच्छे मेदि० ७ पर्वतभेदे धरणी। ८ वराहपुच्छे ९ जिनभेदे च हेम० “नाभिमूलात् यदा वर्ण उत्थितः कुरुते ध्वनिम्। वृषभस्येव निर्वाति हेलया ऋषभः स्मृतः” इति सङ्गीतदा० उक्ते १० स्वरभेदे। “निषधर्षभगान्धारषड्जमध्यमधैवताः। पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठो त्थिताःस्वराः” अमरः। ११ भगवदवतारभेदे स च नाभेर्मेरुर्देव्यामजान भाग० ५। ६ अ०। “नाभिरपत्यकामो मेरुदेव्या भगवन्तं यज्ञपुरुषमवहितात्माऽयजत्” इत्युपक्रम्य तपःप्रसन्नो भगर्वास्तयोः पुत्रतयावतीर्ण्णः इत्युक्तं तत्रैव। यथा “भवद्भिरवितथगीर्भिर्वरममुमभियाचितो यदमष्यात्मजो मया सदृशो भूयादिति” १८। यथाहमेवाभिरूपश्च कैवल्यात् १९ अथापि ब्रह्मवादो न मृषा भवितुमर्हति ममैब हि मुखं यद् द्विजदेवकुलम्। तत आग्निध्रीयेऽंशकलयाऽवतरिष्यन्नात्मतुल्यमनुपलभमान इति निशामयन्त्या मेरुदेव्याः पतिमभिधायान्तर्द्दधे भगवान्! वर्हिषि तस्मिन्नेवं विष्णुदत्त भगवान् परमर्षिभिः प्रसादितोनाभेः प्रियचिकीर्षया तदवरोधायने मेरुदेव्यां धर्मान् प्रदर्शयितुकामो वातवसनानां श्रमणानामृषीणामूर्द्धमन्थिनां शुक्लया तन्वाऽवततार” ६ अ० “शुक उवाच अथ तमुत्पत्त्यैवाभिव्यज्यमानभगबल्लक्षणं साम्योपशमवैराग्यैश्वर्य्यमहाबिभूतिभिरनुदिनमेधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा दवताश्चावानतलसमवनायातित रां जगृधुः। तस्य ह वा इत्थं वर्ष्मणा वरीयसा वृहच्श्लो- केन च ओजसा बलेन श्रिया यशसा वीर्य्यशौर्य्याभ्याञ्च पिता ऋषभ इतीदं नाम चकार। यस्य हीन्द्रः स्पर्द्धमानो भगवान् वर्षे न ववर्ष तदवधार्य्य भगवानृषभदेवोयोगेश्वरः प्रहस्यात्मयोगमायया स्वं वर्षमजनाभं नामाभ्य वर्षत्। नाभिस्तु यथाभिलषितं सुप्रजास्त्वनवरुध्याति प्रमोदभरविह्वलोगद्गदाक्षरया गिरा स्वैरं गृहीतनरलोकसाधर्म्यं भगवन्तं पुराणपुरुषं मायाविलसितमतिर्वत्स तातेति सानुरागमुपलालयन् परां निर्वृतिमुपगतः। विदितानुरागमापौरप्रकृतिजनपदोराजानाभिरात्मजं समयसेतुरक्षायामभिषिच्य ब्राह्मेणेषू पनिधाय सह मेरुदेव्या विशालायां प्रसन्ननिपुणेन तपःसमाधियोगेन नरनारायणाख्यं भगवन्तं वासुदेवमुपासीनः कालेन तन्महिमानमवाप। यत्र ह पाण्डवेय! श्लोकावुदाहरन्ति। कोनु तत् कर्म राजर्षेर्नाभेरन्वाचरेत् पुमान्। अपत्यतामगाद्यस्य हरिः शुद्धैन कर्मणा। ब्रह्मण्योऽन्यः! कुतोनाभेर्विप्रा मङ्गलपूजिताः। यस्य बर्हिषि यज्ञेशं दर्शयामासुरोजसा। अथ ह भगवानृषभदेवः स्वं वर्षं कर्मक्षेत्रमनुमन्यमानः प्रदर्शितगुरुकुलवासोलब्धवरैर्गुरुभिरनुज्ञातो गृहमेधिनां धर्माननुशिक्षमाणोजयन्त्यामिन्द्रदत्तायामुभयविधलक्षणं कर्मसमाम्नायमभियुञ्जन्नात्मजानामात्मसमानानां शतं जनयामास। येषां खलु महायोगी भरतोज्येष्ठः श्रेष्ठगुण आसीत् येनेदं वर्षेति भारतमिति व्यपदिशन्ति”। १२ राजकर्त्तव्ये ऋषभसहस्रादिदक्षिणके एकाहसाध्ये यागभेदे “ऋषभगोसवौ” कात्या० २२, ११, २, “ऋषभश्च गोसवश्च क्रतू भवतः” कर्कः “पूर्वोराज्ञः” ४। “पूर्वः ऋषभसंज्ञोराज्ञः” कर्कः “दक्षिण ऋषभसहस्रं द्वादशं वा शतम्” ५। “ऋषभाणां सहस्रं द्वादशाधिकं शतं वा” संग्रहः। १३ यज्ञतुरपुत्रे नृपभेदे च। “एकविंशस्तोमेन ऋषभो याज्ञतुर ईजे शिक्नानां राजा तदेतद्गाथयाऽभिगीतम्। याज्ञतुरे यजनाने ब्रह्माण ऋषभे जनाः। अश्वमेधे धनं विप्रा विभजन्तेस्म दक्षिणाः” शत० १३, ५, ४, १५,

ऋषभकूट = पुं० हेमकूटपर्वते भा० व० ११० अ०। “पर्वतं स समासाद्य हेमकूटमनामयम्। अचिन्त्यानद्भुतान् भावान् ददर्श सुबहून् नृप!” इत्युपक्रम्य तदाश्चर्य्यमूलप्रश्ने युधिष्ठिरं प्रति लोमशवाक्यं यथा

“अस्मित् नृषभकूटेऽभूदृषभोनम तापसः। अनेकशतवर्षायुस्तपस्वी कोपनोभृशम्। स वै सम्भाष्यमाणोऽन्यैः कोपाद्गिरिमुवाच ह। य इह व्याहरेत् कश्चिदुपलानु- त्सृजेस्त्वमु। वातञ्चाहूय मा शब्दमित्युवाच स तापसः। व्याहरंश्चेह पुरुषो मेघशब्देन वार्य्य ताम्। एवमेतानि कर्माणि राज~स्तेन महर्षिणा। कृतानि कानि चित् क्रोधात् प्रतिषिद्धानि कानि चित्। नन्दां त्वभिगता देवा पुरा राजन्निति श्रुतिः। अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः। ते दर्शनं त्वनिच्छन्तो देवाः शक्रपुरोगमाः। दुर्गञ्चक्रुरिमं देशं गिरिप्रत्यूहरूपकम्। तदा प्रभृति कौन्तेय! नरा गिरिमिमं सदा। नाशक्नु वन्नभिद्रष्टुं कुत एवाधिरोहितुम्। नातप्ततपसा शक्यो द्रष्टुमेष महागिरिः। आरोढुं वाऽपि कौन्तेय। तस्मान्नियत्वाग्भव। इह देवास्तदा सर्वे यज्ञानाजह्रुरुत्तमान्। तेषामेतानि लिङ्गानि दृश्यन्तेऽद्यापि भारत!। कुशाकारेव दूर्वेयं संस्तीर्णेव च भूरियम्। यूपप्रकाराबहवो वृक्षाश्चेमे विशाम्पते!। देवाश्च ऋषयश्चैव वसन्त्यद्यापि भारते!।”

ऋषभगजविलसित = न० “भत्रिनगैः स्वरात् खमृषभगजविलसितमिति” पृ० र० उक्ते षोडषाक्षरपादके वर्णवृत्तभेदे।

ऋषभतर = पु० तनुः ऋषभः तनुत्वे ष्टरच्। भारवहने मन्द शक्तौ वृषभे। जातित्वेन षित्त्वात् स्त्रियां ङीष्। वृषभतरी।

ऋषभद्वीप = पु० न० ऋषभ इव श्वेतः द्वीपः। द्वीपभेदे श्वेतद्वीपे यत्र क्रौञ्च पर्वतोऽस्ति स च कुमारेण विदारितः “ऋषभद्वीपमासासाद्य सेव्यं क्रोञ्चनिसूदकम्” भा० व० ८४ अ०।

ऋषभध्वज = पु० ऋषभोवृषभोध्वजोऽस्य। वृषवाहने १ महादेवे। ऋषभकेतनादयोऽप्यत्र। २ अर्हद्विशेषे मेदिनिः।

ऋषभी = स्त्री ऋषभ + गौरा० ङीष् जातौ वा ङीष्। १ नराकारायां स्त्रियाम् २ शूकशिम्ब्याम् ३ सिरालायाम् ४ विधवायाञ्च मेदिनिः। ५ ऋषभजातिस्त्रियां स्त्रीगव्याम् ६ कपिकच्छ्वाञ्च। ऋषभशब्दे उदा०।

ऋषि = पु० ऋषति ज्ञानेन संसारपारं ऋषी गतौ कि। ज्ञानेन संसारपारगते १ वशिष्ठादौ २ शास्त्रकृदाचार्य्ये ३ वेदे ४ किरणे च तस्यव्युत्पत्तिर्यथा। ऋषी हिंसा गतौ धातुर्विद्यासत्यतपःश्रुतिः। एष सन्निचयो यस्मात् ब्राह्मणश्च ततस्त्वृषिः। विवृत्तसमकालंतु बुद्ध्व्या वृत्तिमृषिस्त्वयम्। ऋषन्ति परमां यस्मात् परमर्षिस्तत, स्मृतः। गत्यर्थादृषते र्धातोर्नामनिर्वृत्तिकारणम्। यस्मादेतत् स्वतम्भूतस्तस्माच्च ऋषिता मतेति” मत्स्या० पु० १२० अ० “अजान् ह वै पृश्नीं स्तपस्यमानान् ब्रह्म स्वयम्भ्वभ्यानर्षत्ते ऋषयोऽपवतु तदृषीणामृषित्वम्” ऐत० ब्रा० हलादिरप्यत्र “विद्याविदरधमतयोविषयः प्रसिद्धाः” भरतः। “सप्त ब्रह्म र्षिदेवर्षिम- हर्षिपरमर्षयः। काण्डर्षिश्च श्रुतर्षिश्च राजर्षिश्च क्रमावराः” रत्नकोषोक्ते सप्तविध ऋषिर्भवति। तेषां विशेषः त्रिका० उक्तः यथा “व्यासाद्यास्तु महर्षयः। परमर्षयस्तु भेलाद्याः देवर्षयः कणादयः। ब्रह्मर्षयो वसिष्ठाद्याः सुश्रुताद्याः श्रुतवर्षयः। ऋतपर्णादयो राजर्षयः काण्डर्षयस्त्वमी। जैमिन्य द्याः” वसिष्ठाद्याश्च मरीच्याद्याः दश। “भृगुर्मरीचिरत्रिश्च अङ्गिरा पुलहः क्रतुः। मनुर्दक्षो वसिष्ठश्च पुलस्त्यश्चेति ते दश। ब्रह्मणो मानसाह्येते उत्पन्नाः स्वयमीश्वराः। परत्वेनर्षयस्तस्माद्भूतास्तस्मान्महर्षयः” मत्स्य० १२० अ०। तेषां पुत्राणां तु तपसैव ऋषित्वं यथोक्तं तत्रैव “ईश्वराणां सुतास्तेषामृषयस्तान् निबोधत। काव्यो वृहस्पतिश्चैव कश्यपश्च्यवनस्तथा। उतथ्यो वामदेवश्च अगस्त्यः कौशिकस्तथा। कर्द्दमो बालखिल्याश्च विश्रवाः शक्तिवर्चसः। इत्येते ऋषयः प्रोक्तास्तपसा ऋषितां गताः”। किन्तु मरीच्यादीनामेव ऋषित्वं भूरि प्रसिद्धम्। तएव भोगसमाप्तौ नक्षत्ररूपेण गगनमण्डले उत्तरस्यां सारुन्धतीकाः स्थिताबभ्रंम्यन्ते तेषां च गति कालसहितचारादि निरूपितं वृह० सं० यथा “सैकावलीव राजति ससितोत्पलमालिनी सहासेव। नाथवतीव च दिग्यैः कौबेरी सप्तभिर्मुनिभिः। ध्रुवनायकोपदेशान्नरिनर्त्तीवोत्तरा भ्रमद्भिश्च। यैश्चारमहं तेषां कथयिष्ये वृद्धगर्गमतात्। आसन्मघासु मुनयः शासति पृथ्वीं युधिष्ठिरे नृपतौ। षड्द्विकपञ्चद्वियुतः (२५२६) शककालस्तस्य राज्ञश्च। एकैकस्मिन्नृक्षे शतं शतं ते चरन्ति वर्षाणाम्। प्रागुत्तरतश्चैते सदोदयन्ते ससाध्वीकाः। पूर्वे भागे भगवान् मरीचिरपरे स्थितो वसिष्ठोऽस्मात्। तस्याङ्गिरास्ततोऽत्रिस्तस्यासन्नः पुलस्त्यश्च। पुलहः क्रतुरिति भगवानासन्नानुक्रमेण पूर्वाद्याः। तत्र वसिष्ठं मुनिवरमुपाश्रितारुन्धती साध्वी। उल्काशनिधूमाद्यैर्हता विवर्णा विरश्मयो ह्रस्वाः। हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश्च तद्वृद्ध्यै। गन्धर्वदेवदानवमन्त्रौषधिसिद्धयक्षनागानाम्। पीडाकरो मरीचिर्ज्ञेयो विद्याधराणां च। शकयवनदरदपारतकाम्बोजांस्तापसान् वतोपेतान्। हन्ति वसिष्ठोऽभिहतो विवृद्धिदो रश्मिसम्पन्नः। अङ्गिरसो ज्ञानयुता धीमन्तो ब्राह्मणाश्च निर्दिष्टाः। अत्रेः काजारभवा जलजान्यम्भोनिधिः सरितः। रक्षःपिशावदानवदैत्यभुजङ्गाः स्मृताः पुलस्त्यस्य। पुलहस्य तु मूलफलम् क्रतोस्तु यज्ञाः सयज्ञभृतः”। एते च स्वायम्मुव मन्वन्तरे सप्तर्षय आसन् ततोऽधिकारसमाप्तौ नक्षत्ररूपेण नभोमण्डले स्थिताः। मन्वन्तरभेदे तु अन्ये एव सप्तर्षयोभवन्ति यथाह हरि०। १ “मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः। पुलस्त्यश्च वशिष्ठश्च सप्तैते ब्रह्मणः सुताः। उत्तरस्यां दिशि तथा राजन्। सप्तर्षयः स्मृताः। नाभा नाम तथा देवास्त्वासन् स्वायम्भुवेऽन्तरे”। २ और्वो वशिष्ठपुत्रश्च स्तम्बः काश्यप एव च। प्राणोवृहस्पतिश्चैव दत्तोनिश्च्यवनस्तथा। एते महर्षयस्तात! वायुप्रोक्ता महाव्रताः। ३ वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः। हिरण्यगर्भस्य सुता ऊर्ज्जानाम सुतेजसः। ऋषयोऽत्र मया प्रोक्ताः कीर्त्त्यमानान्निबाध तान्। ४ काव्यः पृयुस्तथैवाग्निर्जन्तुर्धामा च भारत। कपीवान कपीवांश्च तत्र सप्तर्षयोऽपरे। ५ वेदबाहुर्य्यदुध्रश्च मुनिर्वेदशिरास्तथा। हिरण्यरोभापर्जन्य ऊर्द्धबाहुश्च सोमजः। सत्यनेत्रस्तथाऽत्रेय एते सप्तर्षयोऽपरे ६ भृगुर्नभो विवस्वांश्च सुधामा विरजस्तथा। अतिनामा सहिष्णुश्च सप्तैते तु महर्षयुः। चाक्षुषस्यान्तरे तात! मनोर्द्देवानिमान् शृणु ७ अत्रिर्वशिष्ठो भगवान् कश्यपश्च महानृषिः गौतमश्च भरद्दाजोविश्वामित्रस्तथैव च। तथैव पुत्रो भगवानृचीकस्य महात्मनः। सप्तमोजमदग्निश्च ऋषयः साम्प्रत्रं दिवि। मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः। कृत्वा कम दिवं यान्ति ब्रह्मलोकमनामयम्। ततोऽन्ये तपसा युक्ताः स्थानं तत्पूरयन्त्युत। अतीतावर्त्तमानाश्च क्रमेणैतेन भारत!। एतान्युक्तानि कौरव्य! सप्तातीतानि भारत! ८ रामो व्यासस्तथात्रेयो दीप्तिमानिति विश्रुतः। भारद्वाजस्तयाद्रोणिरश्वत्थामा महाद्युतिः। गौतमस्यात्मजश्चैव शरद्वान्नाम गौतमः। कौशिको गालवश्चैव रुरुः काश्यप एव च। एते श्चप्त महात्मानोभविष्या मुनिसत्तमाः। ब्रह्मणः सदृशाश्चैते धन्याः सप्तर्षयः स्मृताः। ९ मेधातिधिस्तु पौलस्त्वोवसुः काश्यप एव च। ज्योतिष्मान् भार्गवश्चैव द्युतिमानङ्गिरास्तथा। सवनंश्चैव वाशिष्ठ आत्रेयो हव्यवाहनः। पौलहः सत्यः इत्येते मुनयो रौहितेऽन्तरे १० दशमे त्वथ पर्य्याये द्वितीयस्यान्तरे मनोः। हविष्मान पौलहश्चैव सुकृतिश्चैव भार्गवः। आपोमूर्त्तिस्तथात्रेयो वाशिष्ठश्चाष्टकः स्मृतः। पौलस्त्यः प्रमतिश्चैव नभोगश्चैव कश्यपः। अङ्गिरानभसः सत्यः सप्तैव परमर्षयः। ११ एकादशे तु पर्य्याये तृतीयस्पान्तरे मनोः। तस्य सप्त ऋर्षीश्चापि कीर्त्त्य मानान्निबाध मे। हविष्मान् काश्यपश्चापि हविष्मान् यश्चं भार्गवः। तरुणश्च तथात्रेयोवासिष्ठ स्तनयस्तथा। अङ्गिराश्चोदधिष्ण्यश्च पौलस्त्योनिश्चरस्तथा। पुलहश्चाग्नितेजाश्च भव्याः भप्त महर्षयः। १२ चतुर्थस्याथ सावर्ण ऋषीन् सप्तशृणुष्व मे। द्युतिर्वशिष्ठ पुत्रश्च आत्रेयः सुतपास्तथा। अङ्गिरास्तपसोमूर्त्ति स्तपस्वी काश्यपस्तथा। तपोधनश्च पौलस्त्यः पौलहश्च तपोरविः। भार्गवःसप्तमस्तेषाम्” १३ त्रयोदशेऽथ पर्याये भव्ये मन्वन्तरे मनोः। अङ्गिराश्चैव धृतिमान् पौलस्त्यो हव्यपस्तु यः। पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सुकः। निष्प्रकम्पस्तथात्रेयो निर्म्मोहः काश्यपस्तथा। वेतपाश्चैव वासिष्ठः सप्तैते तु महर्षयः। १४ चतुर्द्दशेऽथ पर्य्याये भौत्यस्यैवान्तरे मनोः। अग्नीध्रः काश्यपश्चैव पौलस्त्यो भार्गवस्तथा। भार्गवोह्यतिबाहुश्च शुचिराङ्गिरसस्तथा। युक्तश्चैव तथात्रेयः शुक्रोवाशिष्ठ एवच। अजितः पौलहश्चैव अन्त्याः सप्तर्षयश्च ते। सप्तर्षीणां उत्तराह्युदयश्च” शत० ब्रा० २, १, २, १। उक्तः यथा “सप्तर्षीनुह स्म वै पुरर्क्षा इत्याचक्षते अमीह्युत्तराहि सप्तर्षय उद्यन्ति”। विश्वामित्रसृष्टाः सप्तर्षयस्तु दक्षिणस्यां नभोमण्डले स्थिताः तदुक्तं “ततो ब्रह्मतपोयोगात् प्रजापतिरिवापरः। ससर्ज दक्षिणे भागे सप्तर्षीनपरान् पुनः”। “मनुमेकाग्रमासीनमभिगम्य महर्षयः”। “ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुयुः”। “ऋषयःसंयतात्मानः इति च” मनुः। “वसन्नृ षिकुलेषु सः” “आकीर्ण्णमृषिपत्नीनाम्” रघुः। “ऋषीन् ज्योतिर्मयान् सप्त” “सप्तर्षिहस्तावचितावशेषाण्यधो विवस्वान् परिवर्त्तमानः” कुमा०। वेदमन्त्रस्य प्रथमं १४ द्रष्टरि च। “थेन यदृषिणा दृष्टं सिद्धिः प्राप्ता च येन वै। मन्त्रेण, तस्य तत् प्रोक्तमृषिभावः स उच्यते” योगि या०। येन ऋषिणा कल्पादौ योमन्त्रोदृष्टस्तस्य मन्त्रस्य स ऋषिः। तज्ज्ञानावश्यकत्वमार्षशब्दे दर्शितम् तत्र वैदिकमन्त्राणामृषिनिरूपणञ्च सर्वानुक्रमणिकादौ दृश्यं संक्षेपेण तत्रोक्तमत्रोच्यते। “सर्वमाग्नेयं” गायत्रं गौतमीयम्, सर्वं सावित्रमौष्णिहं भारद्वाजीयम्, सर्वं सौम्यमानुष्टुभमाथर्व्वणिकम्। सर्वं वार्हस्पत्यं वार्हतमाङ्गिरसम्, सर्वं वारुणं पाङ्क्तमालम्बायनीयम्, सर्वमैन्द्रं त्रैष्टुभं याज्ञवल्कीयं, सर्वमादित्यदैवतं जागतम् कौत्सम्। ज्योतिष्टोमे दीक्षाप्रभृति वक्ष्यमाण दीक्षायां भृगुरग्नाविष्णूगायत्री। प्रायणीये, आङ्गिरसोऽदितिरुष्णिक्, क्रये विश्वामित्रः सोमोऽनुष्टुप्। आतिथ्यै वसिष्ठो विष्णुर्वृहती, प्रवर्ग्ये कश्यप आदित्यः पङ्क्तिः। उपसत्स्वात्रेय उपसद्देवता त्रिष्टुप्। अग्नीषोमीयेऽगस्त्योऽग्नीषोमौ जगती। प्रायणीयेऽतिरात्र आग्निवेश्योऽहोरात्रे अतिजगती, चतुर्विंशत्यहे सौकरायणः संवत्सरः शक्वरी। अतिप्लवे षडहे सावर्णोऽर्द्धमासा मासाश्चेति शक्वरी, पृष्ठ्ये षडहे सावकायन ऋतवोऽष्टिः, अभिजिति, प्रियव्रतोऽग्निरत्यष्टिः, स्वरसामसु सरस्वत्यापि धृतिः, विषुवति रौहिणायण आदित्योऽतिधृतिः, विश्वजिति सौभर इन्द्र निरृतिः कृतिः, गो आयुषोर्वार्क्कलिर्मित्रावरुणौ प्रकृतिः, दशरात्र आचार्यो विश्वेदेवा आकृतिः, दशरात्रिके पृष्ट्ये षडहे मावेयो दिशो विकृतिः, छन्दोगेषु श्वौल्वायन इमे लोकाः संकृतिः, दशमेऽहनि पराशरः संवतसरोऽतिकृतिः, महाव्रते शैलिनः प्रजापतिरुत्कृतिः, उदयनीयेऽतिरात्रे भौवनायनो वायुश्छन्दांसि सर्वाणि, ऋषिभिरुपलक्षितं वाक्यमृषयः”। अधिकं हेमा० व्रत० दृश्यम्। भावे कि। १५ दर्शने १६ ज्ञाने च। ऋषिकृत् ऋषिमनाः। १७ तन्त्रोक्तमन्त्रस्य प्रथमोपासानेन सिद्धे ऋष्यादिशब्दे पु० उदा०।

ऋषिकुल्या = स्त्री ऋषीणां कुल्येव। १ नद्यां त्रिका०। ऋषीणां कृतिमा सरित्। मानससरोऽन्तिकस्थे ऋषिनिर्म्मितसरोवरे “तांस्तु सान्त्वेन निर्ज्जित्य मानसं सर उत्तमम्। ऋषिकुल्यास्तथा सर्व्वा ददर्श कुरुनन्दनः। सरो मानस मासाद्य हाटकानभितः प्रभो!। गन्धर्वरक्षितं देश मजयत् पाण्डवस्ततः” भा० स० २७ अ०। ३ तीर्थभेदे “ऋषिकुल्यां समासाद्य वासिष्टञ्चैव भारत! वासिष्ठी समभिक्रम्य सर्वे वर्ण्णा द्विजातयः। ऋषिकुल्यां समासाद्य नरःस्नात्वा विकल्मषः। देवान् पितॄंश्चार्चयित्वा ऋषिलोकं प्रपद्यते” भा० व० ८४ अ०। “भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च। ऋषिकुल्यास्तथामेध्या नदी चित्रवहातथा” भा० अनु० १६५ अ०। ऋषिकुलाय हितं यत्। ४ ऋषिकुलहिते त्रि०। “उभयोरृषिकुलपायाः सरस्वत्याः सुरोधसोः” भाग० ३, २२, २६। “ऋषिकुल्यायाः ऋषिकुलहितायाः सरस्वत्याः” श्रीधरः। ऋषिकुलतर्हीत् यत्। ५ऋषिकुलयोग्ये त्रि०। “अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम्” भाग० ३, १६, १३,। सा च “भूम्न ऋषिकुल्यायामुद्गीथस्ततः प्रस्तारो देवकुल्यायाम्” भाग० ५, १५, ६। भारतवर्षस्थे ६ महानदीभेदे तत्रत्यमहानदीकीर्त्तने भा० ५, १९, १८। चन्द्रवशा ताम्रपर्ण्णीत्युपक्रम्य “ऋषिकुल्याऽद्रिसामा कौशिकी मन्दाकिनीति ताः प्रदर्श्य इति महानद्य इत्युक्तम्।

ऋषिकृत् = त्रि० ऋषिं दर्शनं करोति कृ–क्विप् ६ त०। सर्व्वद्रष्टरि। “ऋषिमनाश्च ऋषिकृत् स्वर्षाः” ऋ० ९, ९६, १८,

ऋषिगिरि = पु० गिरिव्रजाख्यमागधदेशस्थजरासन्धपुरसन्निकृष्टस्थेषु पञ्चसु पर्व्वतेषु मध्ये पर्वतभेदे “एष पार्थ! महान् भाति पशुमान्नित्यमम्बुमान्। निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः। वैहारोविपुलः शैलो वराहो वृषमस्तथा। तथा ऋषिगिरिस्तात! शुभाश्चैत्यकपञ्चमाः। एते पञ्च महाशृङ्गाः पर्व्वता शीतलद्रुमाः। रक्षन्तीवाभि संहत्य संहताङ्गागिरिव्रजम्” भा० स० २० अ०

ऋषिजाङ्गलिकी = स्त्री ऋषिप्रिया जाङ्गलिकी। ऋक्षगन्धावृक्षे रत्नमा०

ऋषितर्पण = न० ऋषीणां तर्पणम्। ऋषीनुद्दीश्य जलाञ्चलि दाने तद्विधिः आ० त० “कृतोपवीतो देवेभ्यो निवीती च भवेत्ततः। मनुष्यांस्तर्पयेद्भक्त्या ऋषिपुत्रानृषींस्तथा। सनकश्च सनन्दश्च तृतीयश्च सनातनः। कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा। सर्वेते तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा। मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्। प्रचेत सं वसिष्ठञ्च भृगुं नारदमेव च। देवान् सर्वानृषीन् सर्वान् तर्पयेदक्षतोदकैः” अक्षता अत्र यवाः “अक्षताश्च यवाः प्रोक्ताः” इत्युक्तेः। तच्च स्नानकाले नित्यं कर्त्तव्यम् यथाह शाता० “तर्पणञ्च शुचिः कुर्यात् प्रत्यहं स्नातकोद्विजः। देवेभ्यश्च ऋषिभ्यश्च पितृभ्यश्च यथाक्रमम्। “नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणम्” मनुः। तर्पणस्य प्रधानाङ्गभेदेन द्विविधता तर्पणशब्दे वक्ष्यते।

ऋषिपञ्चमी = स्त्री ऋषीणां सप्तर्षीणां पूजाङ्गं पञ्चमी। भाद्रशुक्लपञ्चम्याम्। तत्र हि सप्तर्षीन् प्रतिमास्थान् पूजयित्वाऽकृष्टभूमिजशाकेन वर्त्तनम् कार्यम्। सप्त वर्षाण्येवं कृत्वा अष्टमेऽब्दे सप्तकुम्भस्थितासु प्रतिमासु सप्तर्षीन् संपूज्य तन्मन्त्रेणाष्टोत्तरशतं तिलैर्हुत्वा सप्त ब्राह्मणान् भोजयेदिति विधिः। सूलं हेमाद्रौ व्रतखण्डे दृश्यम्। मा च मध्याह्नव्यापिनी ग्राह्या “पूजाव्रतेषु सर्वेषु मध्याह्नव्यापिनी तिथिरिति” माधवीये हारीतोक्तेः दिनद्वये तथालाभे हेमाद्रिमते परा ग्राह्या “परासिता स्यात् पञ्चमीति” दीपिकोक्तेः माधवमते पूर्व्वा “सर्वत्र पञ्चमी पूर्वा” इत्युक्तेः युग्मशास्त्राच्च। “ऋषिपञ्चमी षष्ठीयुतैव ग्राह्येति” दिवोदासः।

ऋषिप्रोक्ता = स्त्री ऋषिणा धन्वन्तरिणाभैषज्याय प्रोक्ता। माषपर्ण्याम्” रत्नमा०।

ऋषिबन्धु = पु० ॠषिर्बन्धुः उत्पादकोऽस्य। १ ऋषिवंशजाते अकृष्टर्षौ २ शरभनामके ऋषौ च। “वस्वपावृणोः शरभाय ऋषिवन्धवे” ऋ० ८, १००, ५। ६ त०। ३ ऋषिमित्रे च।

ऋषिमनस् = पु० ऋषिर्सर्वार्थदर्शि मनोऽस्य। सर्वार्थदर्शिमनस्के ऋषिकृच्छब्दे उदा०।

ऋषियज्ञ = पु० ऋष्युद्देश्यको यज्ञः ऋषिर्वेदस्तदध्ययनरूपो यज्ञो वा। नित्यं गृहस्थकर्त्तव्यपञ्चयज्ञान्तर्गते वेदाध्ययनरूपे ब्रह्मयज्ञे “ऋषियज्ञं देवयज्ञं भूतयज्ञञ्च सर्वदा। नृयज्ञं पितृयज्ञञ्च यथाशक्ति न हापयेत्। एतानेके महायज्ञान् यज्ञशास्त्रविदो जनाः”। स्वाध्यायेनार्चयेतर्षीन् होमैर्देवान् यथाविधि। पितॄन् श्राद्धैश्च नॄनन्नैर्भूतानि बलिकर्मणा” मनुः

ऋषिलोक = पु० ऋषिभिर्भोग्योलोकः। सत्यलोकसन्निकृष्टस्थे ऋषीणां भोगस्थानभेदे ऋषिकुल्याशब्देउदा०। स च लोकः शनिलोकादूर्द्ध्वं ध्रुवलोकादधोवर्त्तमानः यथाह काशीखण्डे शनिलोकवर्णनानन्तरं “नेत्रयोः प्राघुणीचक्रे ततः सप्तर्षि मल्यलम्” इत्युपक्रम्य “शिवशर्म्मन्! शिवमते! सदा सप्तर्षयोऽमलाः। वसन्तीह प्रजाः स्रष्टुं विनियुक्ताः प्रजासृजा। मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः। वसिष्ठश्च महाभागा ब्रह्मणोमानसाः सुताः। सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः। संभूतिरनसूया च क्षमा प्रीतिश्च सन्नतिः। स्मृतिरूर्ज्जा क्रमादेषां पत्न्योलोकस्य मातरः। एतेषां तपसा चैतद्धार्य्यते भुवनत्रयम्। उत्पाद्य ब्रह्मणा पूर्व्वमेतत् प्रोक्ता महर्षयः। प्रजाः सृजत रे पुत्रा! नानारूपाः प्रयत्नतः” इत्यादिकमुपवर्ण्य “व्रुवतोरिति संकथां तथा गणयोर्वैष्णवयोर्मुदावहाम्। ध्रुवलोक उपागतस्तयोर्नयनातिथ्यमतथ्यवर्ज्जितः” १८ अ०।

ऋषिश्राद्ध = न० ६ त०। ऋषोणां कर्त्तव्ये श्राद्धे। तत्र हि बह्वारम्भे लघुक्रिया तदुक्तम् “अजायुद्धे ऋषिश्राद्धे प्रभाते मेघडम्बरे। दम्पत्योः कलहे चैव बह्वारम्भे लघुक्रिया”।

ऋषिसाह् = त्रि० ऋषीन् सहते अभिभवति सह–ण्वि ६ त०। ऋषीणां द्रष्टृणामभिभावके। “ॠतस्य धीतिमृषिषाडवीवशत्” ऋ० ९, ७६, ४। “सहेसाड” पा० षत्वपक्षे षत्वमन्यत्र ऋषिसाहौ इत्यादौ न षत्वमिति भेदः।

ऋषिषाण = पु० ऋषिभिः सायते भज्यते षण–संभक्तौ कर्मणि घञ् वेदे षत्वम्। ऋषिभिः संभक्ते। “ये त्वा सृजन्त्यृषिषाण! वेधसः” ऋ० ९, ८६, ४। “ऋषिषाण! ऋषिभिः संभक्त” भा०। लोके तु न षत्वम्।

ऋषि(ष्टि)षेण = पु० नृपभेदे। ततो विदा० अञ्। आर्षि (र्ष्टि)षेणः। तद्गोत्रापत्ये पुंस्त्री० स्त्रियां ङीप्।

ऋषिष्टुत = त्रि० ऋषिभिः स्तुतः वेदे षत्वम्। ऋषिभिः स्तुते “ऋषिष्टुता जरयन्ती” ऋ० ७, ७५, ५। २ अग्नौ च “ऋषिष्टुत इति ऋषयोह्येतमग्रेऽस्तुवंस्तस्मादाहर्षिष्टु त इति” शत० १, ४, २, ६। लोके तु न षत्वम्। क्वचिल्लोकेऽपि षत्वम्। “ऋषिष्टुतां विष्णुपदीं पुराणाम्” भा० अनु० २७

ऋषिस्तोम = पु० एकाहसाध्ये यागभेदे। “ऋषिस्तोमा व्रात्यस्तोमाश्च पृष्ठ्याहानि” आश्व० श्रौ० २५। “ऋषिस्तोमा नाम सप्त एकाहाः। उभयत्र सप्तमोज्योतिष्टोमः प्रकृतिः” नारा०।

ऋषिस्वर = पु० ऋषिभिः स्वूर्य्यते शब्द्यते स्तूयते स्वॄ–कर्मणि अप् ६ त०। ऋषिभिः स्तुत्ये। “ऋषिस्वरं चरति यासु नाम ते” ऋ० ५, ४४, ८। “ऋषिस्वरमृषिभिः स्तुत्यम्” भा०।

ऋषिसर्ग = पु० ऋषिभिः कृतः सर्गः। ब्रह्मणानियुक्तैरृषिभिः कृते जगत्सर्जने।

ऋषी = स्त्री ऋषि + गौरा० स्त्रियां ङीष्। ऋषिपत्न्याम्।

ऋषि(षी)क = पु० ऋष्यां भवः क वा ह्रस्वः। ऋषिपत्नी गर्भजाते ऋषेरौरसे पुत्रे। “ऋषिपुत्रा ऋषीकास्तु मैथुनात् गर्भसम्भवात्। परत्वेनर्षयस्ते वै भूताये ऋषिकास्ततः। ऋषीकाणां सुताये वै विज्ञेषा ऋषिपुत्रकाः” इत्युपक्रम्य कतिचिदृषीनुक्त्वा “तेषां पुत्रानृषीकांस्तु गर्भोत्पन्नान्निवोधत” इत्युपक्रम्य ऋषीणामौरसान् कतिचिनुक्त्वा “इत्येते ऋषिकाः सर्वे सत्येन ऋषितां गताः” मत्स्यपु० १२० अ०।

ऋषीवत् = त्रि० ऋषिः स्तोतृत्वेनास्त्यस्य मतुप् “छन्दसीरः” पा० मस्य वः दीर्घः। ऋषिस्तोतृके ऋषिस्तुते। “शिप्रिन्नृषीवः शचीवो” ऋ० ८, २, २८, “ऋषीवः! ऋषिमिर्युक्त” भा०। अत्र “मतुवसोरु सम्बुद्धौ छन्दसिं” पा० सम्बुद्धौ नस्थाने रुः। ऋषीवःशब्दकल्पनं पामादिकमेव। लोके तु ऋषिमत् इत्येव।

ऋषीवह = त्रि० ऋषीन् वहति पचा० अच् ६ त० “इकोवहेः पीलौ” पा० दीर्घः। ऋषिवाहके

ऋषु = पु० ऋष–गतौ कु। “अनवरतगतियुक्ते सूर्य्यरश्मौ “ज्येष्ठे भिर्यो भानुभिरृषूणां पर्योति” ऋ० १०, १, “ऋषूणां सूर्य्यरश्मीनाम्” भा० १ गन्तृमात्रे २ महति ३ बलवति ४ ज्ञातृमात्रे च “अग्रेरेभोन जरत ऋषूणां जूर्णिर्होत ऋषूणाम्” ऋ० १, १२०, “ऋषूणामागन्तॄणाम्” “ऋषूणां महताम् ज्ञानवताञ्च” भा०। ५ मन्त्रद्रष्टरि ऋषौ च “हव्योभुवद्वस्तुरृषूणाम्” ऋ० ८, ७१, १५, ऋषूणामृषीणां सूक्तादिद्रष्टॄणाम्” भा०।

ऋष्टि = स्त्री ॠष–करणे क्तिन्। उभयतो धारायुक्ते १ खड्गे। २ खड्गमात्रे अमरः। ३ आयुधमात्रे च “चित्रोवोयामः प्रयतास्वृष्टिषु” ऋ० १, १६६, ४, “ऋष्टिषु युद्धस्थहेतिषु” भा०। “अंशेष्वेषां निमिमृक्षुरृष्टयः” ऋ० १, ६४, ४, “ऋष्वा ऋष्टीरसृक्षत” ऋ० ५, ५२, ६, “ऋष्टीरायुषविशेषान्” भा० “वाशीमन्त ऋष्टिमन्तो मनीषिणः” ऋ० ५, ५७, २, “ऋष्टिर्नाम छुरिका” भा० “शरशक्त्यृष्टि वृष्टिभिः” देवोमा० “धनूंषि चाग्र्याणि शराश्च चित्रा शक्त्यृष्टयः काञ्चनभूषणाश्च” भा० आ० १९४ अ० “कोवोऽन्तर्मरुत ऋष्टिविद्युतः” ऋ० १, १६८, ५, “ऋष्टिविद्युत ऋष्ट्या मेघभेदनायुधविशेषेण विद्योतमानाः” भा० भावे क्तिच्। ४ हिंसायाम् ५ अनिष्टोत्पादने। “हिरण्यनिर्णिगुपरा ऋष्टिः” ऋ० १, १६७६, रिष हिंसायां रिष्टिरप्यत्र “गोचरे वा विलग्ने वा ये ग्रहा रिष्टिसूचकाः” ज्योति० ६ दीप्तौ च। ऋष्टिरस्त्यस्य मतुप्। रिष्टियुक्ते दीप्तियुक्ते त्रि० स्त्रियां ङीप् “विद्युद्रथा मरुत ऋष्टिमन्तो दिवोमर्या” ऋ० ३, ५४, १३ “ऋष्टिमन्तो दीप्तिमन्तः” भा०

ऋष्टिषेण = पु० नृपभेदे ततः पाठान्तरे विदा० अञ् शिवा० अण् वा। आर्ष्टिषेण तत्पुत्रे। “आर्ष्टिषेणोहोत्र मृषिर्निषीदन्देवापिर्देवसुमतिं चिकित्वान्” एतामृचमधिकृत्य यास्केनेतिहासो वर्ण्णितः यथा “तत्रेतिहासमाचक्षते देवापिश्चार्ष्टिषेणः शान्तनुश्च द्वौ कौरव्यौ भारतौ बभूवतुः स शान्तनुः कनीयानभिषेचयाञ्चक्रे देवापिस्तपः प्रपेदे ततः शान्तनोराज्ये द्वादश वर्षाणि देवो न ववर्ष तमूचुर्ब्राह्मणाः अधर्मस्त्वया चरितो ज्येष्ठं भ्रातरमन्तरेत्यभिषेचितं तस्मात्ते देवो न वर्षतीति” ऋष्टिषेणस्य नामान्तरं प्रतीप इति। “प्रतिश्रवसः प्रतीपः खलु शैव्यामुपयेमे मनुं नाम तस्यां पुत्रानुत्पादयामास देवाप्रिं शान्तनुं वाह्लीकं चेति देवापिः खलु वाल एवारण्यं विवेश शान्तनुस्तु महीपालो बभूवेति” भा० आ० ९५। “ऋक्षस्तस्माद्दिलीपोऽभूत् प्रतीपस्तस्य चा- त्मजः। देवापिः शान्तनुस्तस्य बाह्लीक इति चात्मजाः। पितृराज्यं परित्यज्य देवापिस्तु वनं गतः। अभवच्छान्त नूराजा प्राङ्महाभिषसंज्ञितः। समा द्वादश तद्राज्ये न ववर्ष यदा विभुः। शान्तनुर्ब्राह्मणैरुक्तः परिवेत्ता यदग्रभृक्। राज्यं देह्यग्रजायाशुपरं राष्ट्रविवृद्धये। एवमुत्तौ द्विजैर्ज्येष्ठं छन्दयामास सोऽब्रवीत्। नाहं राजा त्वमेवाङ्ग विप्रान् वृष्टौ वृणु! प्रभो। तन्मन्त्रिप्रहितैर्विप्रैर्वेदाद्विभ्रंशितोगिरा। वेदवादातिवादान् वै ततो देवो ववर्ष ह। देवापिर्योगमास्थाय कलापग्राममास्थितः। सोमवंशे कलौ नष्टे कृतादौ स्थापतिष्यति” भाग० ९, २२, १३ श्लो०। अष्टिषेणशब्दस्यावयवार्थो निरु० दर्शितो यथा “आर्ष्टिषेण ऋष्टिषेणस्य पुत्रः इषितसेनस्येति वा। सेना सेश्वरा समानगतिर्वा। पुत्रः पुरु त्रायते निपरणाद्वा पुन्नरकं ततस्त्रायते इति वा”।

ऋष्य = पु० ऋष–हिंसायां कर्नणि क्यप् अघ्न्यादि० यत् नि०। “ऋष्योनीलाण्डकोलोके सरोष इति कीर्त्तितः” इत्युक्ते १ मृगभेदे।

ऋष्यकेतु = पु० अनिरुद्धे त्रिका०। ऋष्यकेतनादयोऽप्यत्र।

ऋष्यगता = स्त्री ऋष्यैव गता ज्ञाता। ऋष्यप्रोक्तावृक्षे शब्दरत्ना०

ऋष्यगन्धा = स्त्री ऋष्यस्य गन्ध इव गन्धो यस्याः। १ वृद्धदारके वृक्षे। २ क्षीरविदार्यां ३ महाश्वेतायाम्।

ऋष्यजिह्व = न० सुश्रुतोक्ते महाकुष्ठरोगभेदे। सुश्रुते। “सप्त महाकुष्ठानि” इत्युपक्रम्य “तत्र महाकुष्ठान्यरुणौ डुम्बरर्ष्यजिह्वकपालकाकणपुण्डरीकदद्रव इति” विभज्य। तत्र “वातेनारुणं, पित्तेनौडुम्बरर्ष्यजिह्वकपालकाकणानि। श्लेष्मणा पौण्डरीकं दद्रुकुष्ठञ्चेति” तन्निदानमुक्त्वा “ऋष्यजिह्वाप्रकाशखरत्वानि ऋष्यजिह्वानि” लक्षितम्।

ऋष्यप्रोक्ता = स्त्री ऋषिभिरप्रोक्ता ऋष्य इव प्रोक्ता इति वा। १ शताबर्याम्, २ अतिबलायाम्, ३ शूकशिम्बीवृक्षे च। “ऋष्यप्रोक्ता वयस्था च” सुश्रु०।

ऋष्यमूक = पु० ऋष्यो मृगो मूको यत्र। “ऋष्यमूकस्तु पम्पायाः पुरतः पुष्पितद्रुमः” इति रामायणोक्ते पम्पासरोऽन्तिकस्थे पर्वतभेदे “ऋष्यमूकमगात् कपिः” भट्टिः अयञ्च पर्वतः कूर्मविभागे वृह० दक्षिणस्थतयोक्तः “अथ दक्षिणेन लङ्केत्युपक्रप्य “क्रौञ्चद्वीपजटाधरकावेर्य ऋष्यमूकश्च”।

ऋष्यशृङ्ग = पु० ऋष्यस्य मृगभेदस्य शृङ्गमिव शृङ्गमस्य। विभाण्डकमुनिपुत्रे लोमपादराजकन्यायाः शान्तायाः पत्यौ ऋषिभेदे तस्योत्पत्त्यादि भा० व० ११० अ० उक्तं यथा। “विभाण्डकस्य विप्रर्षेस्तपसा भावितात्मनः। अमोघवीर्थ्यस्य सतः प्रजापतिसमद्युतेः। शृणु पुत्रो यथा जात ऋष्यशृङ्गः प्रतापवान्। महार्हस्य महातेजा बालः स्थविरसम्मतः। महाह्रदं समासाद्य काश्यपस्तपसिस्थितः। दीर्घकालं परिश्रान्त ऋषिः स देवसम्मतः। तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम्। अप्सूपस्पृशतो राजन्! मृगी तच्चापिबत्तदा। सह तोयेन तृषिता गर्भिणी चाभवत्ततः। सा पुरोक्ता भगवता ब्रह्मणा लोककर्त्तृणा। देवकन्या मृगी भूत्वा मुनिं सूय विमोक्ष्यसे। अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्म्मितात्। तस्यां मृग्यां समभवत्तस्य पुत्रो महानृषिः। ऋष्यशृङ्गस्तपोनित्यो वन एवाभ्यवर्त्तत। तस्यर्षेः शृङ्गं शिरसि राजन्नासीन्महात्मनः। तेनर्ष्यशृङ्ग इत्येवं ततः स प्रथितोऽभवत्। न तेन दृष्टपूर्ब्बोऽन्यः पितुरन्यत्र मानुषः। तस्मात्तस्य मनो नित्यं ब्रह्मचर्य्येऽभवन्नृप। एतस्मिन्नेव काले तु सखा दशरथस्य वै। लोमपाद इति ख्यातो अङ्गानामीश्वरोऽभवत्। तेन कामात् कृतं मिथ्या ब्राह्मणस्येति नः श्रुतम्। स ब्राह्मणैः परित्यक्तस्तदा वै जगतः पतिः। पुरोहितापचाराच्च तस्य राज्ञो यदृच्छया। न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः। स ब्राह्मणान् पर्य्यपृच्छत्तपोयुक्तान्मनीषिणः। प्रवर्षणे सुरेन्द्रस्य समर्थान् पृथीवीपते!। कथं प्रवर्षेत् पर्जन्य उपाषः परिदृश्यताम्। तमूचुर्नोदितास्तेन स्वमतानि मनीषिणः। तत्र त्वेको मुनिवरस्तं राजानमुवाच ह। कुपितास्तव राजेन्द्र! ब्राह्मणां निष्कृतिं चर। ऋष्यशृङ्गं मुनिसुतमानयस्व च पार्थिव!। वानेयमनभिज्ञञ्च नारीणामार्जवे रतम्। स चेदवतरेद्राजन् विषयं ते महातपाः। सद्यः प्रवर्षेत् पर्जन्य इति मे नात्र संशयः। एतच्छ्रुत्वा वचो राजन्! कृत्वा निष्कृतिमात्मनः। स गत्वा पुनरागच्छत प्रसन्नेषु द्विजातिषु। राजानमागतं श्रुत्वा प्रतिसंजहृषुः प्रजाः। ततोऽङ्गपतिराहूय सचिबान्मन्त्रकोविदान्। ॠष्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चयम्। सोऽध्यगच्छदुपायन्तु तैरमात्यैः सहाच्युत!। शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च परिनिष्ठितैः। तत आनाययामास वारमुख्या महीपतिः। वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः। ऋष्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः। लोभयित्वाभिविश्वास्य विषयं मम शोभनाः!”। ततोवेश्याभिश्छलेन तस्योपहरणमुपवर्ण्य “ततो राजन्! क श्यपस्यैकपुत्त्रं प्रवेश्य योगेन विमुच्य नावम्। प्रमोदयन्त्यो विविधैरुपायैराजग्मुरङ्गाधिपतेः समीपम्। संस्थाप्य तामाश्रमदर्शने तु सन्तारितां नावमथातिशुभ्राम्। तीरादुपादाय तथैव चक्रे नाव्याश्रमं नाम वनं विचित्रम्। अन्तःपुरे तं तु निवेश्य राजा विभाण्डकस्यात्मजमेकपुत्रम्। ददर्श देवं सहसा प्रवृष्टमापूर्य्य माणञ्च जगज्जलेन। स लोमपादः परिपूर्णकामः सुतां ददावृष्यशृङ्गाय शान्ताम्” अनेनैव याजयित्वा दशरथेन पुत्रचतुष्टयं लेभे इति कथा रामायाणादिस्थानुसन्धेया “मान्योमुनिः स्वां पुरमृष्यशृङ्गः” भट्टिः।

ऋष्यादि = पु० ऋषिरादिरस्य। वैदिकमन्त्रस्यावश्यज्ञातव्ये ऋषिप्रभृतिपञ्चके तच्च पञ्चकं यथा “आर्षं छन्दश्च दैवत्यं विनियोगस्तथैव च। वेदितव्यं प्रयत्नेन ब्राह्मणेन विपश्चिता” योगिया०। ब्राह्मणेन सह आर्षादिकमित्यर्थः व्यक्तमाह स एव “यस्तु जानाति तत्त्वेन आर्षं छन्दश्चदैवतम्। विनियोगं ब्राह्मणञ्च मन्त्रार्थज्ञानकर्म च। एकैकस्या ऋचः सोऽभिवन्द्यीह्यतिथिवद्भवेत्। देवतायाश्च सायुज्यं गच्छत्यत्र न संशयः। पूर्वोक्तेन प्रकारेण ऋष्यादीन् वेत्ति यो द्विजः। अधिकारोभवेत्तस्य रहस्यादिषु कर्मसु। मन्त्रे मन्त्रे प्रयत्नेन ज्ञातव्यं ब्राह्मणेन तु। विज्ञानपरिपूर्णस्तु स्वाध्यायफलमश्नुते। छन्दांस्ययातयामानि भवन्ति फलदान्यपि। श्रेयश्च लभते सोऽत्र धर्ममायुश्च बिन्दति। दिव्यं वर्षसहस्रन्तु स्वस्थाने ऋषिभिः सह। तिष्ठन्ति तत्र तैः सार्द्धं तत्तुल्यश्चैव जायते”। ऋष्यादिपदार्थानाह स एव। “येन यदृषिणा दृष्टं सिद्धिः प्राप्ता च येन वै। मन्त्रेण, तस्य तत्प्रोक्तमृषिभावस्तदात्मकः। छादनाच्छन्द इत्युक्तं वाससीबाऽथ वा कृते। आत्मातु च्छादितोदेवैर्मृत्योर्भीतेस्तु वै पुरा। आदित्यैर्वसुभीरुद्रैस्तेन च्छन्द इतीरितम्। यस्य यस्य च देवस्य उद्दिष्टा या च देवता। तदाकारं भवेत्तस्य दैवतं देवतोच्यते। पुरा कल्पे ससुत्पन्नामन्त्राः कर्मार्थमेव च। अनेनेदं तु कर्त्तव्यं विनियोगः स उच्यते। निरुक्तं यस्य मन्त्रस्य समुत्पत्तिः प्रयोजनम्। प्रतिष्ठानं स्तुतिश्चैव ब्राह्मणं त्वभिधीयते। एवं पञ्चविधं प्रोक्तं जपकालेष्वनुस्मरेत्। होमे वान्तर्जले योगे स्वाध्याये याजने तथा”।

ऋष्यादिन्यास = पु० ऋष्यादीनां न्यासः। तन्त्रीक्ते मूर्द्धादिषु ऋष्यादीनां न्यासे। ऋष्यादिशब्दार्थप्रदर्शनपूर्ब्बकं तन्न्यासप्रकारः तन्त्रसा० उक्तः। “महेश्वरमुखाजज्ञात्वा यः साक्षात्तपसा मनुम्। संसाधयति शुद्भात्मा स तस्य ऋषिरोरितः। गुरुत्वात् मस्तके चास्य न्यासस्तु परिकीर्त्तितः। सर्वेषां मन्त्रतत्त्वानां छादनात् छन्द उच्यते। अक्षरत्वात् पदत्वाच्च मुखे छन्दः समीरितम्। सर्वेषामेवं जन्तूनां भावनात् प्रेरणात्तथा। हृदयाम्भोजमध्यस्था देवता तत्र तां न्यसेत्। ऋषिच्छन्दोऽपरिज्ञानान्न मन्त्रफलभाग्भवेत्। दौर्बल्यं याति मन्त्राणां विनियोगमजानताम्”। तन्त्रान्तरे “ऋषिं न्यसेन्मूर्द्ध्नि देशे छन्दस्तु मुखपङ्कजे। देवतां हृदये चैव वीजन्तु गुह्यदेशके। शक्तिञ्च पादयोश्चैव सर्वाङ्गेकीलकं न्यसेत्”। “आदावृष्यादिकन्यासः करशुद्धिस्ततःपरम्। अङ्गुलिव्यापकन्यासौ हृदादिन्यास एव च। तालत्रयञ्च दिग्बन्धः प्राणायामस्ततःपरम्। ध्यानं पूजा जपश्चेति सर्वतन्त्रेष्वयं विधिः” तन्त्रम्”। तत्तद्देवमन्त्राणां विशेषत ऋष्यादयस्तु तन्त्रसारादौ दृश्याः।

ऋष्व = त्रि० ऋष व–उल्वादयश्च नि०। महति महन्नामसु निरु०। “अजा इन्द्रस्य गिरयश्चिदृष्वाः” ऋ० ६, २४, ८, “ऋष्वा महान्तः” भा०। “गम्भीरय ऋष्वया यः” ऋ० ६, १८, १०। “गिरिर्न यः स्वतवा~ ऋष्व इन्द्रः” ऋ० ४, २०, ६। “त्वं भुवा प्रतिमानं पृथिव्याः ऋष्ववीरस्य पतिर्भूः” ऋ० १, ५२, १३। “प्रास्तौदृष्वौजा ऋष्वेभिस्ततक्ष” ऋ० १०, १०५, ६। “ऋष्वा ऋष्टीः” ऋष्टिशब्दे

ऋहत् = त्रि० रह–शतृ पृ० साघु। ह्रस्वकायादौ। “वृहन्तं चिदृहते रन्धयानि” १०, २८, ९। “ऋहते ह्रस्वकायाल्पाय” भा०। इति वाचस्पत्ये ऋकारादिशब्दार्थसङ्कलनम्।

—ॠ—

= ॠकारः स्वरवर्णविशेषः मूर्द्धन्यः स च दीर्घः उदात्तानुदात्तस्वरितभेदात् त्रिचिधः नुनः अनुनासिकानुनासिकभेदेन प्रत्येकं द्विधेति षट्। मातृकान्यासे वामनासायां तस्य न्यस्य तया वामनासाशब्देनाप्यभिधेयता। तस्य कामधेनुतन्त्रे ध्येयस्वरूपमुक्तं यथा। “ॠकारं परमेशानि! स्वयं परमकुण्डलीम्। पीतविद्युल्लताकारं पञ्चदेवमयं सदा। चतुर्ज्ञानमयं वर्ण्णं पञ्चप्राणयुतं सदा। त्रिशक्तिसहितं वर्णं प्रणमामि सदा प्रिये!”। अस्य प्लुतत्वोक्तिश्चिन्त्या दीर्घस्य द्विमात्रत्वेन त्रिमात्रोच्चार्य्यप्लुताद्भिन्नत्वात् आकारभेदाच्च।

= गत्यां क्र्यादि० प्वादि० पर० सक० सेट्। प्वादि० श्नाप्रत्यये ह्रस्वः। ऋणाति ऋणीतः ऋणन्ति। ऋणीयात् ऋणातु ऋणीहि। आर्ण्णात् आर्णीताम् आर्णन्। आरीत्। आर! आरतुः। अरिता। ईर्य्यात्। अरिष्यति। आरिष्यत्। अरितव्यः अरणीयः आर्य्यः। अरिता। ऋणन्। ईर्ण्णः। अरः।

= अव्य० ॠ–क्किप् बा० इत्वाभावः। १ वाक्यारम्भे २ रक्षायां मेदि०। ३ निन्दायां ४ भये च शब्दरत्ना०। ५ देवमातरि ६ दानवमातरि ७ स्मृतौ ८ गतौ च स्त्री० वक्षसि न० मेदि०। ९ भैरवे १० दनुजे पु० मेदि०। इति वाचस्पत्ये ॠकारादिशब्दार्थसङ्कलनम्।

—ऌ—

= ऌकारः स्वरवर्ण्णभेदः स च दन्तमूलीयः। उदात्तानुदात्तस्वरितभेदात् त्निविधः अनुनासिकाननुनासिकभेदात् प्रत्येकं पुनर्द्विधेति षड्विधः। तस्य मातृकान्यासे दक्षगण्डे न्यस्यतया तच्छब्देनाप्यभिधानम्। तस्य ध्येयरूपं कामधेनुतन्त्रे उक्तं यथा। “ऌकारश्चञ्चलापाङ्गि! कुण्डली परदेवता। अत्र ब्रह्मादयः सर्व्वे त्रयोऽस्ति सततं प्रिये!। पञ्चदेवमयं वर्ण्णं चतुर्ज्ञानमयं सदा। पञ्च प्राणयुतं वर्ण्णं तथागुणत्रयात्मकम्। विन्दुत्रयात्मकं वर्ण्णं पीतविद्युल्लता यथा”। अस्य प्लुतत्वोक्तिश्चिन्त्या एकमात्र त्रिमात्रत्वाभ्यां तयोर्भेदात्। तकाररहितस्तु द्वादशानां बोधक इति सि० कौ० ऋशब्दे विवृतिः।

= अव्य० ऋगतौ ऋ–क्विप् तुगभावः लत्वम्। १ देवमातरि २ भूमौ ३ पर्व्वते च मेदि०। इति बाचस्पत्ये ऌकारादिशब्दार्थसङ्कलनम्।

—ॡ—

= ॡकारः तन्त्रमते मुग्धबोधमते च स्वरवर्ण्णभैदः पा० मते तस्य दीर्घत्वं नास्ति तेन उदात्तानुदात्तस्वरित भेदात् अनुनासिकानुनासिकभेदाच्च षड्विधः। अत्रेदं बोध्यम् ऌवर्ण्णस्य दीर्घत्वाभावेऽपि “ऌति ॡवा” वार्त्ति० उक्तेः लकारद्वययुत ऌवर्ण्णएव तत्र विधेयः तत्र लकारद्वयरूपव्यञ्जनद्वयस्य एका मात्रा अचश्चापरा इति द्विमात्रत्वं तेन होॡकारः इत्यादौ दीर्घत्वव्यवहारः। मुग्धबोधे ऌत्रयमित्युक्तिरपि एकमात्रद्विमात्रत्रिमात्रत्वभेदापेक्षया। तेन न विरोधः। अतएव शिक्षायां “दुस्पुष्टश्चेति विज्ञेय ऌकारः प्लुतएव वेति” ऋकारऌकारयोः दुःस्पृष्टत्वोक्तिः। दुःस्पृष्टत्वञ्च ईषत्स्पृष्टत्वं तस्य रकारलकारादित्वे एव सम्भवति “अचोऽस्पृष्टायणस्त्वीषन्नेमस्पृष्टाःशलस्तथा” शिक्षाणां यवरलानामीषत्स्पृष्टत्वोक्तेः। “तेन ऋकार ऌकारयोरीषत्स्पृष्टत्वात् दुःस्पृष्टत्वम्। एवं सर्वसामञ्जस्ये ऌवर्णस्य न दीर्घत्वकल्पनमिति सूक्ष्ममीक्षणीयम्। अस्य च लकारद्वयघटितत्वात् दन्त्यता। अन्ते च स्वरवर्णयोगात् अस्पृष्टत्वम्। तस्य च उदात्तादिभेदैः षड्विधत्वमपि। मातृकान्याशे च तस्य वामगण्डे न्यस्यता तेन तच्छब्देनाप्यस्याभिधानम्। कामधेनुतन्त्रे तस्य ध्येयस्वरूपमुक्तम् यथा “ॡकारं परमेशानि पूर्णचन्द्रसमप्रभम्। पञ्चदेवात्मकं वर्णं पञ्चप्राणात्मकं तथा। ऋणत्रयात्मकं वर्णं तथाविन्दुत्रयात्मकम्। चतुर्वर्गप्रदं देवि! ध्यायेत् परमकुण्डलीम्”।

= अव्य० ऋ–रस्य लः। १ देवनार्याम् २ दैत्यस्त्रियाम् ३ दनुजमातरि ४ कामधेनुमातरि च स्त्री एकाक्षरकोषः। ५ महादेवे पु० एकाक्षरकोषः। इति वाचस्पत्ये ॡकारादिशब्दार्थसङ्कलगह्।

***