ऋच् = स्तुतौ तुदा० पर० सक० सेट्। ऋचति आर्चीत्। आनर्च। कर्मणि ऋच्यते आर्चि। “याभ्यां गायत्रमृच्यते” ऋ० ८, ३८, १० “ब्रह्माण्यृच्यन्ते युवभ्याम्” ७, ७०, ६,

ऋच् = स्त्री ऋच्यते स्तूयतेऽनया ऋच–करण क्विप्। वेदमन्त्र भेदे “यत्रार्थवशेन पादव्यवस्थितिः सा ऋक्” जै०। “ऋचो यजूषि सामानि निगदामन्त्राः” कात्या० १, २, १,। “ऋगादयो निगदान्ताश्चत्वारोमन्त्राः। तत्रार्थवशेन वृत्तवशेन बा यत्र पादव्यवस्था, सा ऋक् तत्र “समिधाग्निं दुवस्पत” इत्यादी यत्र प्रत्यक्षेण समाप्तोऽर्थोदृश्यते तत्रार्थ वशेन पादव्यवस्था यत्र च क्रियापदानुपादानात् “सुससिद्धाय शोचिषे तं त्वा समिद्भिरङ्गिरः” इत्यादौ अपर्यबसितोऽर्थस्तत्र वृत्तवशेन पादव्यवस्था भवति अतश्च यत्र नियताक्षराणि नियताश्च पादानियतानि वावसानानि सा ऋगित्युच्यते। अनियताक्षरपादावसानं यजुः यद्यपि व्रगीतं मन्त्रवाक्यं सामेत्यभियुक्तप्रयोगः तथापि तत्र विशेषणं गोतिः विशेष्याण्यृगक्षराणि नागृहीतविशेषणा विशेष्ये वुद्धिरिति प्रथमं प्रतीयमानत्वात् गीतिरेव सामेत्युच्यते तथा च “कवतीषु रथन्तरं गायति” “यद्योन्यां तदुत्तरयोर्गायति” “ऋच्यध्यूढ साम गायति” प्रजापतेर्हृदयमनृच गायतीत्याद्युपपन्नं भवति अत ऋगक्षरातिरिक्तं यद्गीतिशब्दवाच्यं तत् सामशब्दे नोच्यते। ननु यदि रथन्तरादिशब्दा गीतेरेव वाचकाः तदा “रथन्तरेण स्तुवीतेति” कथं स्तुतिसाधनत्वम् गुणगुणिसम्बन्धकीर्त्तनं हि स्तुतिः सा च गीतिरूपेण साम्ना न सम्भवति। उच्यते गीतेः स्वयंस्तुतिवाचकत्वाभावादृगक्षरप्रकटनद्वारा स्तुतिसाधनत्वं भवतीति नोक्तदोषः। निगदाः प्रैषाः परसम्बोधनार्थाः “प्रोक्षणीरासादय” “अग्नीदग्नीन्विहर” इत्येवमादयः। ननु निगदा अपि यजूंष्येव ततः किमर्थं पृथगुक्ताः। उच्यते “उपाशु यजुषा ऊच्चैर्निगदेनेति” धर्म्मभेदेन यजुःष्वनन्त- र्भावशङ्कया पृथग्वचनम्। वस्तुतस्तु निगदानां यजुष्ट्वमेव परसम्बोधनार्थत्वात्तु उच्चैर्निगदेनेति धर्म्मभेदः न च धर्म्मभेदाद्भेदः ऋकसामयोरपि क्वचिदुपांशुप्रयोगविधानात् अतस्त्रैविध्यमेव मन्त्राणाम्। तथाचोक्तम् “अहेर्बुध्न्यमन्त्रं मे गोपाय यमृषयस्त्रैविदा विदुः” ऋचः सामानि यजूंषीति त्रीन्वेदान्विदन्तीति त्रिविदः त्रिविदां सम्बन्धिनोऽध्येतारस्त्रैविदाः ते च यं मन्त्रभागमृगादिरूपेण त्रिविधमाहुस्तं गोपायेति योजना। ऋग्यजःसामात्मको मन्त्रभेदोऽभिहितः तदबान्तरभेदाकाङ्क्षायामृचां च साम्नां चाध्येतृप्रसिद्ध्यैव भेदे सिद्धे लक्षणं न क्रियते” कर्कः। “ऋचैव हौत्रमकरोद्यजुषाध्वर्यवं साम्नीद्गीथम्” ऐत० “त्रिधा विहिता वागृचो यजूंषि सामानि” शत० ब्रा० ६, ६, ३, ४। “ऋचः सामानि जज्ञिरे पुरुषसू०। “तदेतदृचाभ्यनूक्तम्” छा० उ०। २ विश उत्तरे निरु०। समासे तदन्तात् अच्। अर्द्धर्चः एकर्चम् द्व्यृचं षडृचम् इत्यादि। बहु०। अध्येतर्य्येव अच्। अनृचः बह्वृचः इत्यादि ग्रन्थे तु न अच्। अनृक् साम। प्राचुर्य्ये मयट्। ऋङ्मय तत्प्रचुरे त्रि० स्त्रियां ङीप्। “एतं यज्ञमृङ्मयं यजुर्मयम् साममयमाहुतिमयम्” शत० ब्रा० ४, ३, ४, ५। भावे क्विप्। ३ स्तुतौ ४ पूजायाञ्च।

ऋचस् = त्रि० ऋच–वा० कसुन्। स्त्रोतरि। “गा अर्वतोर्नॄनृचसे रिरीहि” ऋ० ६, ३९, ५। “ऋचसे स्तोत्रे” भा०

ऋचसे = अव्य० ऋच–तुमर्थे कसेन्। स्तोतुमित्यर्थे। “प्र वां मन्मान्यृचसेन वानि” ऋ० ७, ६१, ६।

ऋचीक = पु० ऋच–ईकक्। १ दिवःपुत्रे सवितृभेदे। “दिवः पुत्रो वृहद्भानुश्चक्षुरात्मा विभावसुः। सविता स ऋचीकोऽर्कोभानुराशावहोरविः” भा० आ० १ अ०। भृगुवंश्ये २ जमदग्निपितरि ऋषिभेदे। “तस्मिन्नियुक्ते विघिना योगक्षेमायभार्गवे। अन्यमुत्पादयास पुत्रं भृगुरनिन्दितम्। च्यवनं दीप्ततपसं धर्म्मात्मानं यशस्विनम्। यः सरोषाच्च्युतोगर्भा न्मातुर्मोक्षाथ भारत!। आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः। और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः। महातेजाः महावीर्य्योबाल एव गुणैर्युतः। ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत्” भा० आ० ६६ अ०। तस्य चरितम्। भा० अनु० प० ४ अ० विस्तरेण वर्ण्णितम् संक्षेपतस्तु हरिवंशे २८ अ० यथा “गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा। तां गाधिर्भृगुपुत्त्राय ऋचीकाय ददौ प्रभः। तस्याः प्रीतोऽभव- द्भर्त्ता भार्गवो भृगुनन्दनः। पुत्त्रार्थं कल्पयामास चरुं गाधेस्तथैव च। उवाचाहूय तां भर्त्ता ऋचीकी भार्गवस्तदा। उपयोज्यश्चरुरयं त्वया मात्रा त्वयंतव। तस्यां जनिष्यते पुत्त्रो दीप्तिमान् क्षत्त्रियर्षभः। अजेयः क्ष त्त्रियैर्लोके क्षत्त्रियर्षभसूदनः। तवापि पुत्त्रं कल्याणि! धृतिमन्तं तपोधनम्। शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति। एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः। तपस्यभिरतो नित्यमरण्य प्रविवेश ह। गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात्। तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः। चरुद्वयं गृहीत्वा तदृषेः सत्यवती तदा। चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत्। माता व्यत्यस्य दैवेन दुहित्रे स्वं चरुं ददौ। तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह। अथ सत्यवती गर्भं क्षत्त्रियान्तकरं तदा। धारयामास दीप्तेन वपुषा घोरदर्शमम्। तामृचीकस्ततो दृष्ट्वा योगेनाभ्यनुसृत्य च। तामब्रवीद्द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम्। मात्राऽसि वञ्चिता भद्रे! चरुव्यत्यासहेतुना। जनिष्यते हि पुत्रस्ते कूरकर्माऽतिदारुणः। भ्राता जनिष्यते चापि ब्रह्मभूतस्तपोधनः। विश्वं हि ब्रह्म तपसा मया तस्मिन् समर्पितम्। एवमुक्ता महाभागा भर्त्त्रा सत्यवती तदा। प्रसादयामास पतिं पुत्त्रो मे नेदृशो भवेत्। ब्राह्मणापसदःक्षात्र इत्युक्तो मुनिरब्रवीत्। नैष सङ्कल्पितः कामो मया भद्रे! तथाऽस्त्विति। उग्रकर्मा भवेत् पुत्त्रः पितुर्मातुश्च कारणात्। पुनः सत्यवती वाक्यमेवमुक्ताऽब्रवीदिदम्। इच्छन् लोकानपि मुने! सृजेथाः किं पुनः सुतम्। शमात्मकमृजुं त्वं मे पुत्त्रं दातुमिहार्हसि। काममेवंविधः पौत्त्रो मम स्यात्तव च प्रभो!। यद्यन्यथा न शक्यं वै कर्त्तुमेतद्द्विजोत्तम।। ततः प्रसादमकरोत् स तस्यास्तपसो बलात्। भद्रे! नास्ति विशेषो मे पौत्त्रे च वरवर्णिनि। त्वया यथोक्तं वचनं तथा भद्रे! भविष्यति। ततः सत्यवती पुत्त्रं जनयामास भार्गवम्। तपस्यभिरतं दान्तं जमदग्निं शमात्मकम्। भृगोश्चरुविपर्यासे रौद्रवैष्णवयोः पुरा। यजनाद्वैष्णवेऽथांशे जमदग्निरजायत। सा हि सत्यवती पुण्या सत्यधर्मपरायणा। कौशिकीर्ति समाख्याता प्रवृत्तेयं महानदी। इक्ष्वाकुवंशप्रभवो रेणुर्नाम नराधिपः। तस्य कन्था महाभागा कामली नाम रेणुका। रेणुकायान्तु कामल्यां तपोविद्यासमन्वितः। आर्च्चीको जनयामास जामदग्न्यं सुदारुणम्। सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम्। रामं क्षत्त्रियहन्तारं प्रदीप्तमिव पावकम् और्वस्येवमृचीकस्य सत्यवत्यां महायशाः। जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदांवरः। मध्यमश्च शुनः शेफः शुनःपुच्छः कनिष्ठकः। विश्वामित्रन्तु दायादं गाधिः कुशिकनन्दनः। जनयामास पुत्त्रन्तु तपोविद्याशमात्मकम्। प्राप्य ब्रह्मर्षिसमतां योऽयं सप्तर्षितां गतः। विश्वामित्रस्तु धर्मत्मा नाम्ना विश्वरथः स्मृतः। जज्ञे भृगुप्रसादेन कौशिकाद्वंशवर्द्धनः”। “अथर्चीकादयोऽभ्येत्य पितरो राममब्रुवन्। राम! राम! महाभाग! प्रीताःस्म तव भार्गव!” भा० आ० ३ अ० ३ भरतसुतभुमन्युसुते नृपभेदे। “ततोमहद्भिः क्रतुभिरीजा नो भरतस्तदा। लेभे पुत्रं भरद्वाजाद् भूमन्युं नाम भारत! इत्युपक्रम्य “पुष्करिण्यामृचीकश्च भूमन्योरभवत् सुतः” भा० आ० ९४ अ०।

ऋचीष = न० ऋच्–कीषन्। पिष्टपचनपात्रे हेम०।

ऋचीषम = पु० ऋचा स्तुत्या समः वेदे नि० ईत्त्वं षत्वञ्च। ऋग्वशेषेण समानगुणे। “इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्यृचीषमः” ऋ० १०, २२, २। ऋचीषमः। “यद्व्याव इन्द्र! ते शतं भूमीरुत स्युः। न त्वा वज्रिन्” इत्यादिकया ऋ० ८, ७०, ५। स्तुत्या समानगुणकः” भा० “परोमात्रमृचीषममिन्द्रमुग्रम्” ऋ० ८, ६८, ६। ऋचीषमम् ऋचा स्तुत्या समम् यद्यप्यपरिच्छिन्नस्तथापि स्तुतिर्यावन्मात्रं विषयीकरोति तत्समम्” इत्यर्थः भा०। “अवचष्ट ऋचीषमः” ऋ० ८, ६२, ६। “वृत्रहा परमज्या ऋचीषमः” ८, ९०, १। “२ दीप्त्या समे च “अहन् वृत्तमृचीषमः ऋचा दीप्त्या समः” भा०।

ऋचेयु = च० राजभेदे। पूरुवंशवर्णने “रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः” इत्युपक्रम्य “ऋचेयुरथ काक्षेयुः कृकणेयुश्च वीर्य्यवान्” भा० आ० ९४ अ०।

ऋच्छ = मोहे मूर्त्तौ (कठिनीभावे) अक० गमने सक० तुदा० पर० सेट्। ऋच्छति आर्च्छीत् आनर्च्छ। उपसर्गात् अस्यादे र्वृद्धिः प्रार्च्छति अपार्च्छति। “उपसर्गाः क्रियायोगे” पा० इत्युक्तेः यत्क्रियया योगस्तत्व्रियायामेवोपसर्गत्वम् तेन प्रगतः ऋच्छकोऽस्मात् वाक्ये प्रादि० ब०। प्रर्च्छकः इत्यादौ न वृद्धिः अत्र प्रस्य गमेरुपसर्गत्वेन ऋच्छोपसर्गत्वाभावात्।

ऋच्छरा = स्त्री ऋच्छ–कर्मणि करणे वा घञ्। वेश्यायाम्। उज्ज्वल० साधारणत्वेन सर्वैर्गम्यत्वात् इन्द्रियभोहजननसाधनत्वाच्च तस्यास्तथात्वम्।

ऋज = गतौ ऊर्जने (बलाधाने) अर्ज्जुने च भ्वा० आत्म० मक० स्थैर्य्ये अक० सेट्। ऊर्ज्जते आर्ज्जिष्ट आनृजे।

ऋज = भर्ज्जने इदित् भ्वा० आ० सक० सेट्। ऋञ्जते आर्ञ्जिष्ट। ऋञ्जां बभूव आस चक्रे। ऋञ्जसानः।

ऋजिप्य = त्रि० ऋजु आप्नोति गच्छति आप–यत् पृ०। ऋजुगामिनि “ऋजिप्यं श्येनं प्रुषितप्सुम्” ऋ० ४, ३८, २। “ऋजु आप्नोति गच्छतीत्यृजिप्यः” भा०। “ऋजिप्य इमिन्द्रावतः” ४, २७, ४।

ऋजिश्वन् = पु० राजभेदे “अपमृष्यमृजिश्वने दात्रं दाशुषे” ऋ० ६, २०, ७। ऋजिश्वने एतन्नामकाय राज्ञे” भा०।

ऋजीक = त्रि० ऋज–गतौ ईकन् किच्च। १ इन्द्रे २ धूमे च उज्ज्व०। उपार्जीकशब्दे उदा० करणे ईकन्। ३ साधने च “आविरृजीको विदथा” ऋ० ४, ३८, ४। “आविरृजीका आविर्भूतसाधना” भा०।

ऋजीति = पु० ऋजु गच्छति ई–गतौ क्तिच् पृ०। ऋजुगामिनि वाणे “ऋजीते! परि वृन्धि नोऽश्मा” ऋ० ६, ७५, १२। “ऋजु गच्छति ऋजीतिरिषुः” भा०।

ऋजीष = न० अर्ज्यते रसोऽस्मिन् अर्ज्ज आधारे कीषन् ऋजादेशः। १ पिष्टपचनपात्रे २ नरकभेदे पिष्टपचनाकारपात्रभेदेन पापिनां पचनहेतुत्वेन तस्य तथात्वम्। नरकगणनायाम मनुः। “लोहशङ्कुमृजीषञ्च” नरकशब्दे विवृतिः। ३ नीरसे सोमलताचूर्ण्णे “सोमोराजामृतं सुत ऋजीषेणाजहान्मृत्युम्” यजु० १९, ७२ “ऋजीषं नीरसं सोमलताचूर्ण्णम्” वेददी०। ४ गतसारे सोमे पु०। “समुद्रे त इति ऋजीषकुम्भं प्लावयति” कात्या० १०, ९, १। “गतसारः सोमः ऋजीषस्तेन पूर्णकुम्भम्” कर्कः। यथा मादकद्रव्यस्याभिषवणेन सारांशे गृहीते अवशिष्टः नीरसभागः (सिटि) अवतिष्ठते एवं मोमस्याभिषवणे निःमारांश ऋजीष इत्युच्यते। कर्मणि कीषन्। ५ अभिषुते सोमे च “कुविद्राजानं मघवन्नृजीषिन्”! ऋ० ३, ४३, ५। “ऋजीषिन्! सोमवन्!” भा०। “अन्तरिक्षादृजीषी” ३, ४६, ३। “ॠजीषी सोमवान्” भा०। तैत्ति० अस्य निरुक्तिर्दर्शिता “तेनांशुमद्यद्यभिषुणोति तेनेर्जीषि” ततः जातार्थे तारका० इतच्। ऋजीषित नीरसतया जाते त्रि०। ऋजीषं द्रव्यं देयत्वेनास्त्यस्य इनि। ऋजीषिन् गतसारसोमद्रव्यसम्प्रदाने देवे “इन्द्र! सोमं सोमपते पिबेमं माध्यन्दिनं सवनं चारु यत्ते। प्रप्रुथ्या शिप्रे मघयन्नृजीषिन्! विमुच्या हरी इह मादयस्व” ऋ० ३, ३२ १, ऋजीषशब्देन गतसारं सोमद्रव्यमुच्यते” भा०।

ऋजु = त्रि० अर्जयति गुणान् अर्ज्ज–कु नि० ऋजादेशः। १ प्रगुणे २ सरले अवक्रे। सरलस्य बहुगुणार्ज्जकत्वात तथा त्वम्। स्त्रियां गुणवचनत्वात् वा ङीष्। “ऋज्वीर्दधानैरवतत्य कन्धराः” माघः। “ऋज्वायताः स्नेहमिव स्रवन्तीः” भट्टिः “उमां स पश्यन् ऋजुनैव चक्षुषा” कुमा० “ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः” मनुः ते दण्डाः। “ऋजवोदर्भाः” गोभि० सू०। नान्दीमुखादौ दैवे पैत्रे च दर्भा ऋजवः कार्य्याः। “धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः” या०। ततः वेदे बा० प्रकारे धाच। ऋजुधा सरलप्रकारे अव्य० “यज्ञमेव तदृजुधा प्रतिष्ठापयति” ऐत०। भावे पृथ्वा० इमनिच्। ॠजिमन् सारल्ये अकौटिल्ये पु०। भावे तल्। ऋजुता तदर्थे स्त्री “ऋजुतां नयतः स्मरामि ते” कमा०। त्व। ऋजुत्व न० गुणवचनत्वात् अण् आर्ज्जव न० तत्रार्थे। ४ अनुकूले ५ कल्याणे। “ऋजुहस्ता ऋजुवनिः” ऋ० ५, ४१, १५। “ऋजुहस्तास्तदनुकूलहस्ता ऋजुवनिः कल्याणदाना” भा०। ६ शोभने च “धारवाकेष्वृजुगाथः”। ऋ० ५, ४४, ५ “ऋजुगाथ! शोभनस्तुतिकः” भा०। ७ वसुदेवपुत्रभेदे पु०। “वसुदेवस्तु देवक्यामष्ट पुत्रानजीजनत्। कीर्त्तिमन्तं सुघेणञ्च भद्रसेनमुदारधीः। ऋजुं संमर्द्दनं भद्रं सङ्कर्षणमहीश्वरम्। अष्टमस्तु तयोरासीत् स्वयमेव हरिः किल। सुभद्रा च महाभागा तव राजन्! पितामही” भाग० ९, २४, अ० २५, २६। अजुत्वञ्च आर्ज्जवशब्दे ८०६ पृष्ठे व्याख्यातम् वाक्यस्य तत्त्वञ्च स्पष्टार्थत्वम। “धर्मशास्त्रमृजुभिर्मिताक्षरैः” मिता०।

ऋजुकाय = पृ० ऋजुः कायोऽस्य। १ कश्यपमुनौ त्रिका० २ अकुटिलदेहमात्रे त्रि०। “तस्मिन् स्वस्तिकमासीन ऋजुकायः समभ्यसेत्” भाग० ३, २८, ९।

ऋजुग = त्रि० ऋजु यथा तथा गच्छति गम ड। १ सरलव्यव-

ऋजुरोहित = न० कर्म्म०। सरले इन्द्रधनुषीति केचित् वस्तुतः “रोहितं रुधिरे प्रीक्तमृजुशक्रशरासने” विश्वोक्तेः उतपातसूचके सरले इन्द्रधनुषि रोहितशब्दस्यैव वृत्तिः तेन “इन्द्रायुधं शक्रधनस्तदेव ऋजु रोहितम्” अमरे “सन्तानश्च धनुर्देवायुध तदृजु रोहितम्” हेमचन्द्रे च तदेव ऋजु लेत रोहितमिति व्याख्यानात न बिशिष्टनामेत्यवधेयम्।

ऋजुसर्प = पु० कृष्णपर्पवत् नित्यसमा०। सुश्रुतोक्ते दर्व्वीकरविशेषे सर्पभेदे। “तत्र दव्वींकरा इत्युपक्रम्य ऋजुसर्पः श्वेतोदरो महाशिरा अलगर्द्दआशीविव” इति उक्तम्।

ऋजूक = पु० ऋज–बा० ऊकङ्। देशभेदे विपाशानदीजन्मभूमौ। ऋजूके भवा छण्–पृषो०। आर्जीकीया तत्प्रभवायां विपाशायाम् “इमं मे गङ्गे! यमुने! सरस्वति! शतद्रि! स्तोमं सचतां परुष्णया। आसिक्न्यामरुद्वृधे “वितस्तयार्जीकीये! शृणुह्या सुषोमया” ऋ० १०, ७५, ५, इमामुदाहृत्य निरुक्ते आह। “आर्जकीयां विपाडित्याहुः अजूकप्रभवा ऋजगामिनी वा” तेन विपाशानद्युत्पत्तिस्थानमृजूक इति गम्यते।

ऋजूकरण = न० अनृजुः क्रियतेऽनेन ऋजु + अभूततद्भावे च्वि + कृ–करणे ल्युट्। १ सरलतासम्पादनसाधने सुश्रुतोक्ते १ यन्त्रव्यापारभेदे। “यन्त्रकर्म्माणि तु निर्घातनपूरणबन्धनव्यपवर्त्तनचालनविवर्त्तनविवरणपीडनमार्गविशोधन विकर्षणाहरणोञ्छनोन्नमनविनमनभञ्जनोन्मथनाचूषणैषण दारणर्ज्जूकरणप्रक्षालनप्रधावनप्रमार्जनानि चतुर्विंशतिः” सुश्रु०। २ तथाभूतव्यापारमात्रे च।

ऋजूयत् = त्रि० अजु गच्छति ऋतुं गच्छति वा ऋजु + अतु + -बा क्यच् ऋजूय–पृषो० तस्य जो वा शतृ। १ ऋजुगामिनि २ ऋतुगामिनि च “देवानां भद्रा सुमतिरृजूयतां देवानां रातिरभि नो निवर्त्तताम्” ऋ० १, ८९, १, श्रुतिमाश्रित्य “ऋजूयतामृजुगामिनामृतुगामिनां वेति” निरुक्तम्।

ऋज्र = पु० ऋज–गत्यादिषु रन् नि०। १ नायके उज्ज्वल०। २ ऋजुगामिनि त्रि०। “स्यू मन्थू ऋज्रा वातस्याश्वा” ऋ० १, १७४, ५। “ऋज्रा ऋजुगामिनौ” भा०। “ऋज्रा वाजं न गध्यम्” ऋ० ४, १६, ११।

ऋज्वी = स्त्री ऋजु + स्त्रियां वा ङीष्। १ आर्ज्यववत्यां स्त्रियाम् ऋजुशब्दे उदा०। सू० सि० उक्ते ग्रहाणां २ गतिभेदे। “वक्रानुवक्रा कुटिला मन्दा मन्दतरा समा। तथा शीघ्रा शीघ्रतरा ग्रहाणामष्टधा गतिः। तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा। अज्वीति पञ्चधा ज्ञेया या वक्रा सानुवक्रगा” सू०। “तत्राष्टविधगतिषु अतिशोघ्रेत्यादिः समेत्यन्ता इत्येवं पञ्चधा गतिः ऋज्वीमार्गी गतिर्ज्ञेया या गतिः सानुवक्रगा अनुवक्रगमनेन सह वर्त्तमाना पूर्ब्बश्लोकेऽऽनुवक्रगतेर्वक्रकुटिलमध्येऽभिधानात् उभयासन्नत्वाच्च सानुवक्रा कुटिलेति गतिर्वक्रा ज्ञेया तथा च ग्रहाणां मार्गी वक्रेति गतिद्वयम्” रङ्ग०।

ऋञ्जसान = पु० ऋजि–असानच्। मेघे उज्ज्वल०।

ऋण = गतौ तना० उभ० सक० सेट्। अर्ण्णोति ऋणोति, ऋणुते आर्णीत् आर्णिष्ट। आनर्ण्ण आनृणतुः आनृणे। ऋणः।

ऋण = त्रि० ऋण–क। १ गन्तरि। “धवीयानृणो न तायुरति धन्वा राट्” ऋ० ६, १२, ५ “ॠणः शीघ्रगन्ता” भा० “उष ऋणेव यातय” १०, १२७, ७। ऋ–क्त नि०। २ अवश्यदेये (धार) अर्द्धर्चा० पुंन०। “ऋतावानश्चयमाना ऋणानि” ऋ० २, २७, ४। “ऋणानि स्तोतृभिरन्येभ्यो देयानि” भा०। “पर ऋणा सावीरध मत्कृतानि” ऋ० २, २८ ९। “ऋणानि पित्रादिभिः कृतानि अस्माभिर्देयानि। अथ मत्कृतानि ऋणानि” भा० तच्च अवश्यशोध्यत्वेन लौकिकमलौकिकञ्च। तत्र देवादित्रयाणां चतुर्ण्णां पञ्चानां वा अवश्यशोध्यत्वादलौकिकर्णत्वम् अशोधने पापहेतुत्वात्तस्य तथात्वम्। ऋणानपक्रियाया उपपातकशब्दे उक्तशास्त्रेण पापहेतुत्वम्। “देवानाञ्च पितॄणाञ्च ऋषीणाञ्च तथा नरः। ऋणवान् जायते यस्मात् तन्मोक्षे प्रयतेत् सदा। देवानामनृणो जन्तुर्यज्ञैर्भवति मानवः। अल्पवित्तश्च पूजाभिरुपवासव्रतैस्तथा। श्राद्धेन प्रजया चैव पितॄणामनृणो भवेत्। अषीणां व्रह्मचर्य्येण श्रुतेन तपसा तथा” विष्णु धर्म्मो० पु०। “जायमानो वै ब्राह्मणस्त्रिभिरृणैरृणी भवति ब्रह्मचर्य्येण ऋषिभ्यो, यज्ञेन देवेभ्यः, प्रजया पितृभ्यः” मिता० श्रुतिः। “न च जातमात्रोऽकृतदाराग्निपरिग्रहोयज्ञादिष्वधिक्रियते। तस्मादधिकारी जायमानो ब्राह्मणादिर्यज्ञादीननुतिष्ठेत्” मिता०। “ऋणानि त्रीण्यपाकृत्य मनोमोक्षे निवेशयेत्। अनपाकृत्य मोक्षं तु सेवमानः पतत्यधः”। “महर्षिपितृदेवानां गत्वानृण्यं यथाविधि। पुत्रे सर्व्वं समासज्य वसेन्माध्यस्थ्यमाश्रितः” मनुना क्रमेण चातुराश्रम्यपक्षमाश्रित्योक्तम्। यथा च ब्रह्मचर्य्यादेव प्रव्रज्याधिकारस्तथा आश्रमशब्दे ८३९ पृ० उक्तम्। अवश्यदेयत्वेन चतुर्विधं पञ्चविधञ्चर्ण्णं दर्शितं भा० आ० १२० अ०। “ऋणैश्चतुर्भिः संयुक्ता जायन्ते मानवा भुवि। पितृदेवर्षिमनुजैर्देयं तेभ्यश्च धर्म्मतः” इत्युपक्रम्य “यज्ञैस्तु देवान् प्रीणाति स्वाध्यायतपसा मुनीन्। पुत्रैः श्वाद्धैः पितॄंश्चापि आनृशंस्येन मानवान्” “ऋणमुन्मुच्य देवानामृषीणाञ्च तथैव च। पितॄणामथ विप्राणामतिथीनाञ्च पञ्चमम्” अनु० ३७ अ०। “ऋणाभिधानात् स्वयमेव केवलं तदा पितॄणां मुमुचे स बन्धनात्” “असह्यपीडं भगवन्नृणमन्त्यमवेहि मे” “नचोपलेभे पूर्वेषामृण निर्मोक्षसाधनम्” रघुः। लोकिकमृणम् (धार) (कर्ज्ज) ऋणादानशब्दे वक्ष्यते। ३ दुर्गे ४ भूमौ ५ जले च सि० कौ० प्रवत्सरकम्बलवसनर्ण्णदशपूर्वकात् अस्यादेर्वृद्धिः प्रार्णम् वत्सरार्ण्णं कम्बलार्ण्णं वसनार्ण्णम् दशार्ण्णोदेशो दशार्ण्णा नदी। ऋणशोधनार्थमृणमृणार्ण्णम्। अङ्कशास्त्रोक्ते कुतश्चित् राश्यन्तरादवश्यं वियोज्यसंख्यान्विते पदार्थे। तत्सूचकसंख्यायाः सजातीयेन विजातातीयेन धनेन च योगवियोगादिक्रियादिकं वीजग० उक्तं यथा।

“धनर्णसङ्कलने करणसूत्रं वृत्तार्द्धम्। योगे युतिः स्यात् क्षययोःस्वयोर्वा धनर्णयोरन्तरमेव योगः। उदा०। रूपत्रयं रूपचतुष्टयं च क्षयं धनं वा सहितं वदाशु। स्वर्णं क्षयं स्वं च पृथक् पृथङ्मे धनर्णयोः सङ्कलनामवैषि। अत्र रूपाणामव्यक्तानां चाद्याक्षराण्युपलक्षणार्थं लेख्यानि। यानि ऋणगतानि तान्यूर्द्धविन्दूनि। न्यासः रू ३ं रू ४ं योगे जातं रू ७ं न्यासः रू ३ रू ४ योगे जातं रू ७। न्यासः रू ३ रू ४ं योगे जातं रू १ं। न्यासः रू ३ं सू ४ योगे जातं रू १। एवं विभिन्नेष्वपि। धतर्णव्यवकलने करणसूत्रं वृत्तार्द्धम्। संशोध्यमानं स्वमृणत्वमेति स्वत्वं क्षयस्तद्युतिरुक्तवच्च। उदा० त्रयाद्द्वयं स्वात् स्वमृणादृणं च व्यस्तं च संशोध्य वदाशु शेषम्। न्यासः रू ३ रू २ अन्तरे जातं रू १। न्यासः रू ३ं रू २ं अन्तरे जातं रू १ं। न्यासः रू ३ रू २ं अन्तरे जातं रू ५ न्यासः रू ३ं रू २ अन्तरे जातं रू ५ं।

गुणनभागे करणसूत्रं वृत्तार्द्धम्। स्वयोरस्वयोःखं बधः स्वर्ण्णधाते क्षयोभागहारेऽपि चैवं निरुक्तम्। उदा०। धनं धनेनर्णमृणेन निघ्नं द्वयं त्रयेण स्वमृणेन किं स्यात्। न्यासः रू २ रू ३ धनं धनघ्नं धनं स्यादिति। रू ६। न्यासः रू २ं रू ३ं ऋणमृणघ्नं धनं स्यादिति जातं रू ६। न्यासः रू २ रू ३ं धनमृणगुणमृणं स्यादिति जातं रू ६ं। न्यासः रू २ं रू ३ ऋणं धनगुणमृणं स्यादिति जातं रू ६ं। इति धनर्णगुणनम्।

भागहारेऽपि चैवं निरुक्तमिति। उदा०। रूपाष्टकं रूपचतुष्टयेन धनं धनेनर्णमृणेन भक्तम्। ऋणं धनेन स्वमृणेन किं स्याद्द्रुतं वदेदं यदि बोबुधीषि। न्यासः रू ८ रू ४ धनं धनहृतं धनं स्यादिति जातं रू २। न्यासः रू ८ं रू ४ं ऋणमृणहृतं धनं स्यादिति जातं रू २। न्यासः रू ८ं रू ४ ऋणं धनहृतम् ऋणं स्यादिति जातं रू २ं। न्यासः रू ८ रू ४ं धनमृणहतमृणं स्यादिति जातं रू २ं। इति धनर्णभागहारः। वर्गमूलयोः करणसूत्रं वृत्तार्द्धम्। कृतिः स्वर्णयौःस्वं स्वमूले धनर्णे न मूलं क्षयस्यास्ति तस्याकृतित्वात्। उदा०। धनस्य रूपत्रितयस्य वर्गः क्षयस्य च ब्रूहि सखे ममाशु। न्यासः रू ३ रू ३ं जातौ वर्गौ रू ९ रू ९। धनात्मकानामधनात्मकानां मूलं नवानां च पृथग्वदाशु। न्यासः रू ९ मूलं रू ३ वा रू ३ं। न्यासः रू ९ं एषामवर्गत्वान्मूलं नास्ति। इति धनर्णवर्गमूले।

खसङ्कलव्यवकलने करणसूत्रं वृत्तार्द्धम्। खयोगे वियोगे धनर्णं तथैव च्युतं शून्यतस्तद्विपर्य्यासमेति। उदा० रूपत्रयं स्वं क्षयगं च खं च किं स्यात् खयुक्तं वद खाच्च्युतं च। न्यासः रू ३ रू ३ं रू० एतानि खयुतान्यविकृतान्येव। रू ३ रू ३ं रू० एतानि खाच्च्युतानि रू ३ं रू ३ विप्रर्य्यस्तानि”। “छेदं गुणं गुणं छेदं वर्गं मूलं पदं कृतिम्। ऋणं स्वं स्वमृणं कुर्य्याद्दृश्ये राशिप्रसिद्धये” लीला०।

ऋणकाति = त्रि० ऋणवदवश्यफलप्रदा कातिः स्तुतिर्यस्य। अवश्यफलदायकस्तुतिशालिनि “सासहिमृणकातिमदाभ्यम्” ऋ० ८, ६१, १२। ऋणकातिः ऋणवदवश्यफलप्रदस्तुतिकः भा०।

ऋणञ्चय = पु० नृ पभेदे “ऋणञ्चयस्य प्रयता मघानि” ऋ० ५, ३०, १२, “ऋणञ्चयस्यैतन्नामकस्य राज्ञः” भा० ऋणञ्चये राजनि रुशमानाम्” ऋ० ५, ३०, १४।

ऋणचित् = पु० ऋणमिव चिनोति चि–क्विप्। ऋणस्येव स्तोतृकामस्याधायके यजमाने। “स ऋणचिदृणया ब्रह्मणस्पतिः” ऋ० २, २३, १७। ऋणचित् स्तोतृकाममृणमिव चिनोति” भा०।

ऋणदास = पु० ऋणात् मोचनेन कृतोदासः। दासभेदे। “गृहजातस्तथा क्रीतो लब्धोदायादुपागतः। अनाकालमृतस्तद्वदाहितः स्वामिना च यः। मोक्षितो महतश्चर्णाद्युद्धे प्राप्तः पणे जितः। तवाहमित्युपगतः प्रब्रज्यावसितः कृतः। भक्तदासश्च विज्ञेयस्तथैव बडवाहृतः। विक्रेता चात्मनःशास्त्रे दासाःपञ्चदश स्मृताः” नारदः। “गृहे दास्याञ्जातो गृहजातः। क्रीतोमूल्येन, लब्धः प्रतिग्रहादिना। दायादुपागतः पित्रादिदासः। अनाकालभृतोदुर्भिक्षे यो दासत्वाय मरणाद्रक्षितः। आहितः खामिना धनग्रहणेनाधितां नीतः। ऋणमोचनेन दासत्वमभ्युपगतः ऋणदासः” मिता०।

ऋणमत्कुण = पु० ऋणं परकृतर्णं ममैवेति कुणति कुण–क सुप्सुपेति स०। प्रतिभुवि (जामिन्) शब्दर०। स हि परकीयर्णस्य मदीयत्वेन ख्यापयतीति तस्य तथात्वम्।

ऋणमार्गण = पु० ऋणं मार्गयते परर्णं स्वगतत्वेन प्रार्थयते मार्ग–ल्यु ६ त०। (जामिन) प्रतिभुवि हारा०।

ऋणमुक्ति = स्त्री ऋणान्मुच्यतेऽनया मुच–करणे क्तिन्। ऋणशोधने त्रिका०। ॠणमोक्षोऽप्यत्र हारा०।

ऋणमोचन = न० ऋणात् मोचयति मुच–णिच्–ल्यु ५ त०। काशीस्थे तीर्थभेदे काशीखण्डे प्रसिद्धम्।

ऋणलेख्य = न० ऋणसूचकं लेख्यं लेखपत्रम्। ऋणग्रहणसूचके व्यवहारोपयोगिनि (स्वत) (तमःसुक) इत्यादि प्रसिद्धे पत्रभेदे। तल्लेखनप्रकारादि मिता० दर्शितं यथा “तत्र लेख्यं द्विबिधं शासनं जानपदं चेति। शासनं निरूपितं जानपदमभिधीयते। तच्च द्विविधम् स्वहस्तकृतमन्यकृतं चेति। तत्र स्वहस्तकृतमसाक्षिकम्, अन्यकृत ससाक्षिकम्। अनयोश्च देशाचारानुसारेण प्रामाण्यम् यदाह नारदः। “लेख्यन्तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा। असाक्षिमत्साक्षिमच्च सिद्धिर्द्देशस्थितेस्तयोरिति” तत्रान्यकृतमाह। “यः कश्चिदर्थोनिष्णातः स्वरुच्या तु परस्परम्। लेख्यन्तु साक्षिमत् कार्यं तस्मिन् धनिकपूर्वकम्” या०। धनिकाधमर्णयोर्योऽर्थो हिरण्यादिः परस्परं स्वरुच्या इयता कालेनैतावद्देयमितीयती च प्रतिमासं वृद्धिरिति निष्णातो व्यवस्थितः तस्मिन्नर्थे कालान्तरे विप्रतिपत्तौ वस्तुतत्त्वनिर्णयार्थं लेख्यम् साक्षिमदुक्तलक्षणसाक्षियुक्तम् धनिकं पूर्वो यस्मिन् तद्धनिकपूर्वकम् धनिकनामलेखनपूर्वकमिति यावत् कार्यं कर्त्तव्यम्। उक्तलक्षणाः साक्षिणो वा कर्त्तव्याः “कर्त्रा तु यत्कृतं कार्यं सिद्ध्यर्थन्तस्य साक्षिणः। प्रवर्त्तन्ते विवादेषु स्वकृतं वाप्यलेखकमिति” स्मरणात्। अपि च “समामासतदर्द्धाहर्नामजातिस्वगोत्रकैः। सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम्” या० समा संवत्सरः मासः चैत्रादिस्तदर्द्धः पक्षः शुक्लः कृष्णी वा अहस्तिथिः प्रतिपदादिः। नाम धनिकाधमर्णयोः। जातिः ब्राह्मणादिः स्वगोत्रं वाशिष्ठादिगोत्रमेतैः समादिभिश्चिह्नितम्। तथा सब्रह्मचारिकं बह्वृचादिशाखाप्रयुक्तं गुणनाम बह्वृचः कठ इति। आत्मीयपितृनाम धनिकर्णिकपितृनाम। आदिग्रहणाद्द्रव्य जाति संख्याचारादेर्ग्रहणम्। एतेश्चिह्नितं लेख्यं कार्यमिति गतेन सम्बन्धः। किञ्च “समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत्। मतं मेऽसुकपुत्रस्य यद- त्रोपरि लेखितम्” या० धनिकाधमर्णयोर्योऽर्थः स्वरुच्या व्यवस्थितः तस्मिन्नर्थे समाप्ते लिखिते ऋणी अधमर्णोनामात्मीयं स्वहस्तेनास्मि~ल्लेख्ये यदुपरि लेखितं तन्ममामुकपुत्रस्य मतमभिप्रेतमिति निवेशयेत् पत्रे विलिखेत्। तथा “साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम्। अत्राहममुकः साक्षी लिखेयुरिति ते समाः” या०। तस्मिन् लेख्ये ये साक्षिणो लिखिताः तेऽप्यात्मीयपितृनामलेखनपूर्वकमस्मिन्नर्थे अहममुको देवदत्तः साक्षीति स्वहस्तेनैकैकशो लिखेयुस्ते च समाः संख्यातो गुणतश्च कर्त्तव्याः। यद्यधमर्णः साक्षी वा लिपिज्ञो न भवति तदाऽधमर्णोऽन्येन साक्षी च साक्ष्यन्तरेण सर्वसाक्षिसन्निधौ स्वमतं लेखयेत्। यथाह नारदः “अलिपिज्ञ ऋणी यः स्यात् स्वमतं तु स लेखयेत्। साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः” इति अपि च “उभयाभ्यर्थितेनैतन्मयाह्यमुकसूनुना। लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत्” या०। ततो लेखको धनिकाधमर्णिकाभ्यामुभाभ्यां प्रार्थितेन मयाऽमुकेन देवदत्तेन विष्णुमित्रसूनुना एतल्लेख्यं लिखितमित्यन्ते लिखेत्” साम्प्रतं स्वकृतं लेख्यमाह। “विनापि साक्षिभिर्ल्लेख्यं स्वहस्तलिखितं तु यत्। तत्प्रमाणं स्मृतं लेख्यं बलोपधिकृतादृते” या०। यल्लेख्यं स्वहस्तेन लिखितं अधमर्णेन तत् साक्षिभिर्विनापि प्रमाणं स्मृतं मन्वादिभिः। बलोपधिकृतादृते। बलेन बलात्कारेण, उपधिना छललोभक्तोधभयमदादिलक्षणेन यत्कृतं तस्माद्विना। नारदोऽप्याह “मत्ताभियुक्तस्त्रीबालबलात्कारकृतं च यत्। तदप्रमाणं लिखितं भयोपधिकृतन्तथेति”। तच्चैतत् स्वहस्तकृतं परहस्तकृतञ्च यल्लेख्यं देशाचारानुसारेण सबन्धकव्यवहारे बन्धकव्यवहारयुक्तमर्थक्रमापरिलोपेन लिप्यक्षरापरिलोपेन च लेख्यमित्येतावन्न पुनः साधुशब्दैरेव प्रातिस्विकदेशभाषयापि लेखनीयम् यथाह नारदः “देशाचाराविरुद्धं यद्व्यक्ताधिविधिलक्षणम्। तत्प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरमिति”। विधानं विधिराधेर्विधिराधीकरणन्तस्य लक्षणम् गोप्याधिभोग्याधिकालकृतमित्यादि तद्व्यक्तं विस्पष्ट यस्मिंस्तद्व्यक्ताधिविधिलक्षणम्। अविलुप्तक्र माक्षरम् अर्थानां क्रमः क्रमश्चाक्षराणि च क्रमाक्षराणि अविलुप्तानि क्रमाक्षराणि यस्मिंस्तटविलुप्तक्रमाक्षरम्। तदेवं भूतं लिखितं प्रमाणम्। राजशासंनवन्न साधुशब्दनियमोऽत्रेत्यभिप्रायः। लेख्यप्रसङ्गेन लेख्यारूढमप्यृणं त्रिभि- रेव देयमित्याह “ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु। यथा साक्ष्यादिकृतमृणं त्रिभिरेव देयम् तथा लेख्यकृतमप्याहर्तृपुत्रतत्पुत्रैस्त्रिभिरेव देयम्। न चतुर्थादिभिरिति नियम्यते। ननु पुत्रपौत्रैरृणन्देयमित्यविशेषेणर्ण्णमात्रं त्रिभिरेव देयमिति नियतमेव। बाढमस्यैवोत्सर्गस्य पत्रारूढर्णविषये स्मृत्यन्तरप्रभबामपवाद शङ्कामपनेतुमिदं वचनमारब्धम्। तथा हि पत्रलक्षणमभिधाय कात्यायनेनाभिहितम् “एवं कालमतिक्रान्तं पितॄणां दाप्यते ऋणमिति”। इत्थं पत्रारूढमतिक्रान्तकालमपि पितॄणां सम्बन्धि दाप्यते। अत्र पितॄणामिति बहुवचननिदशात् कालमतिक्रान्तमिति वचनाच्चतुर्थादिर्दाप्यत इति प्रतीयते। तथा हारीतेनापि “लेख्यं यस्य भवेद्धस्ते लाभन्तस्य विनिर्दिशेदिति”। अत्रापि यस्य हस्ते पत्रमस्ति तस्यर्ण्णलाभ इति साभान्येन चतुर्थादिभ्योप्यृणलाभोऽस्तीति प्रतीयते। अतश्चैतदाशङ्कानि वृत्त्यर्थम् एतद्वचनमिति युक्तम्। वचनद्वयन्तु योगीश्वरवचनानुसारेण योजनीयम्। अस्यापवादमाह “आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते”। सबन्धकेऽपि पत्रारूढे ऋणे त्रिभिरेव देयमिति नियमादृणापकरणानधिकारेणाऽऽध्याहरणेऽप्यनधिकारप्राप्ताविदमुच्यते। यावच्चतुर्थेन पञ्चमेन वा ऋणं न दीयते तावदेवाधिर्भुज्यत इति वदता सबन्धकर्ण्णापाकरणे चतुर्थादेरप्यधिकारो दर्शितः। नन्वेतदप्ययुक्तमेव। “फलभोग्यो न नश्यतीति” सत्थम्। तदप्ये तस्मिन्नसत्यपवादवचने पुरुषत्रयविषयमेव स्यादिति सर्वमनवद्यम्। प्रसिङ्गिकं परिसमाप्य प्रकृतमेवानुसरति। “देशान्तरस्थे दुर्ल्लेख्ये नष्टोन्मृष्टे हृते तथा। भिन्ने दग्धेऽथवा छिन्नेलेख्यमन्यत्तु कारयेत्” या०। व्यवहाराक्षमे पत्रे पत्रान्तरं कुर्यादिति विधीयते। व्यवहाराक्षमत्वं चात्यन्तव्यवहितदेशान्तरस्थे पत्रे दुर्ल्लेख्ये दुष्टानि सन्दिह्यमानानि अवाचकानि वा लेख्यानि लिप्यक्षराणि पदानि वा यस्मिंस्तस्मिन् दुर्ल्लेख्ये नष्टे कालवशेन, उन्मृष्टे मसीदौर्बल्यादिना, मृदिते लिप्यक्षरे, हृते तस्करादिभिः, भिन्ने विदलिते, दग्धे अग्निना, छिन्ने द्विधाभूते सति द्विर्भवति। एतच्चार्थिप्रत्यर्थिनोः परस्परानुमतौ सत्यां विमत्यान्तु व्यवहारप्राप्तौ देशान्तरस्थपत्रानयनाध्वापेक्षया कालोदातव्यः दुर्देशावस्थिते नष्टे वा पत्रे साक्षिभिरेव व्यवहारनिर्ण्णयः कार्यः। यथा ह नारदः “लेख्ये देशान्तरन्यस्ते शीर्ण्णेदुर्ल्लिखिते हृते। सतस्तत्कालक- रणमसतोद्रष्टृदर्शनमिति”। सतो विद्यमानपत्रस्य देशान्तरस्थस्यानयनाय कालकरणं कालावधिर्दातव्यः असतः पुनरविद्यमानस्य पत्रस्य पूर्वं ये द्रष्टारः साक्षिणस्तैर्दर्शनं व्यवहारपरिसमापनं कार्यम्। यदा तु साक्षिणो न सन्ति तदा दिव्येन निर्ण्णयः कार्यः। “अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेदिति” स्मरणात्। एतच्च जानपदं व्यवस्थापत्रं सन्दिग्धं चेत् स्वहस्तलिखितादिभिः शोधनीयम् “सन्दिग्धलेख्यशुद्धिः स्यात् स्वहस्तलिखितादिभिः क्तिप्राप्तिक्रियाचिह्न संबन्धागमहेतुभिः” या० उक्तेः।

ऋणादान = न० ऋणमादीयते यत्र। स्मृत्युक्ते अष्टादशविवादान्तर्गते व्यवहारभेदे “तेषामाद्यमृणादानमित्यादीनि अष्टादश व्यवहारपदानि मनुना दर्शितानि। तल्लक्षणादि नारदादिवाक्येन मिता० दर्शितं यथा “अधुनाष्टादशानां व्यवहारपदानामाद्यमृणादानपदं दर्शयति। “अशीतिभागो वृद्धिः स्यादित्यादिना मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने” इत्येवमन्तेन। तच्चार्णादानं सप्तबिधम्। ईदृशमृणन्देयमीदृशमदेयमनेनाधिकारिणा देयमस्मिन् समये देयमनेन प्रकारेण देयमित्यधमर्णे पञ्चविधमुत्तमर्णे दानविघिरादानविधिश्चेति द्विविधमिति। एतच्च नारदेन स्यष्टीकृतम् “ऋणन्देयमदेयञ्च येन यत्र यथा च यत्। दानग्रहणधर्मश्च ऋणादानमिति स्मृतमिति” तत्र प्रथममुत्तमर्णस्य दानबिधिमाह तत्पूर्वकत्वादितरेषाम्। “अशीतिभागो वृद्धिः स्यान्मासिमासि सबन्धके। वर्णक्रमाच्छतं द्वित्रिचतुष्पञ्चकमन्यथा” या० “मासिमासि प्रतिमासं विश्वासार्थं यदाधीयते आधिरिति यावत् बन्धकेन सह वर्त्तत इति सबन्धकः प्रयोगस्तस्मिन् सबन्धके प्रयोगे प्रयुक्तस्य द्रव्यस्याशीतितमोभागो वृद्धिर्द्धर्म्या भवति। अन्यथा बन्धकरहिते प्रयोगे वर्णानां ब्राह्मणादीनां क्रमेण द्वित्रिचतुःपञ्चकं शतं धर्म्यं भवति। ब्राह्मणेऽधमर्णे द्विकं शतम्, क्षत्रिये त्रिकं, वैश्ये चतुष्कं, शूद्रे पञ्चकं, मासिमासीत्येव। द्वौ वा त्रयो वा चत्वारो वा पञ्च वा द्वित्रिचतुःपञ्चाः द्वित्रिचतुःपञ्चा अस्मिन् शते वृद्धिर्द्दीयते इति द्वित्रिःचतुपञ्चकं शतम्। “तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते इति (पा०) कन्। इयं वृद्धिर्मासिमासि गृह्यत इति कालिका। इयमेव वृद्धिर्द्दिवसगणनया विभज्य प्रतिदिवसं गृह्यमाणा कायिकाभवति तथा च नारदेन। “कायिका कालिका चैव कारिता च तथाऽपरा। चक्रवृद्धिश्च शास्त्रेषु तस्य वृद्धिश्चतुर्विधा” इत्युक्त्वोत्तम् “कायाविरोधिनी शश्वतणपादादिः कायिका। प्रतिमासं स्रवन्ती या वृद्धिस्सा कालिका मता। वृद्धिःसा कारिता नाम यर्णिकेन स्वयं कृता। वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धिरुदाहृतेति”। गृहीतृविशेषेण वृद्धेः प्रकारान्तरमाह। “कान्तारगास्तु दशकं सामुद्रा विंशकं शतम्” या०। कान्तारमरण्यन्तत्र गच्छन्तीति कान्तारगाः ये वृद्ध्या धनं गृहीत्वाधिकलाभार्थमतिगहनं प्राणधनविनाशशङ्कास्थानं प्रविशन्ति ते दशकं शतं दद्युः। ये च समुद्रगास्ते विंशकं शतं मासिमासीत्येव। एतदुक्तम्भवति कान्तारगेभ्यो दशकं शतं सामुद्रेभ्यश्च विंशकं शतम् उत्तमर्ण आदद्यात् मूलविनाशस्यापि शङ्कितत्वात् इति। इदानीं कारितां वृद्धिमाह। “दद्युर्वा स्वाकृतां वृद्धिं सर्वे सर्वासु जातिषु” या०। “सर्व्वे ब्राह्मणादयोऽधमर्णा अबन्धके सबन्धके वा स्वकृतां स्वाभ्युपगतां वृद्धिं सर्वासु जातिषु दद्युः। क्वचिदकृतापि वृद्धिर्भवति यथाह नारदः “न वृद्धिः प्रीतिदत्तानां स्यादनाकारिता क्वचित्। अनाकारितमप्यूर्द्धं वत्सरार्द्धाद्विवर्द्धत” इति। यस्तु याचितकं गृहीत्वा देशान्तरं गतस्तं प्रति कात्यायनेनोक्तम्। “यो याचितकमादाय तददत्त्वा दिशं व्रजेत्। ऊर्द्ध्वं संवत्सरात्तस्य तद्धकं वृद्धिमाप्नुयादिति” यश्च याचितकमादाय याचितोऽप्यदत्त्वा देशान्तरं याति तम् प्रति तेनैवोक्तम्। “कृतोद्धारमदत्त्वा यो याचितस्तु दिशं व्रजेत्। ऊर्द्ध्वं मासत्रयात्तस्य तद्धनं वृद्धिमाप्नुयादिति” यः पुनः स्वदेशे स्थित एव याचितो याचितकं न ददाति तं याच नकालादारभ्य वृद्धिं दाषयेद्राजा। यथा ह “स्वदेशेऽपि स्थितो यस्तु न दद्याद्याचितः क्वचित्। तन्ततोऽकारितां वृद्धिमनिच्छन्तं च दापयेदिति”। अनाकारित वृद्धेरपवादो नारदेनोक्तः “षण्यमूल्यम्भृतिर्न्यासोदण्डोयश्च प्रकल्पितः। वृथादानाक्षिकपणा वर्द्धन्ते नाविवक्षिताः”। अविवक्षिता अनाकारिता इति। अधुना द्रव्यविशेषे वृद्धिविशेषमाह। “सन्ततिस्तु पशुस्त्रीणाम्” या० “पशूनां स्त्रीणां सन्ततिरेव वृद्धिः पशूनां स्त्रीणा म्पोषणासमर्थस्य तत्पुष्टिसन्ततिकामस्य प्रयोगः सम्भवति। ग्रहणञ्च क्षीरपरिचर्यार्थिनः। अधुना प्रयुक्तस्य द्रव्यस्य वृद्धिग्रहणमन्तरेण चिरकालावस्थितस्यकस्य द्रव्यस्य कियती परा वृद्धिरित्यपेक्षिते आह “रसस्याष्टगुणा परा। वस्त्रधान्यहिरण्यानाञ्चतुस्त्रिद्विगुणा परा” या०। “रसस्य तैलघृतादेर्वृद्धिग्रहणमन्तरेण चिरकालावस्थितस्य स्वकृतया वृद्ध्या वर्द्धमानस्याष्टगुणा वृद्धिः परा नातः परं वर्द्धते। तथा वस्त्रधान्यहिरण्यानां यथासंख्यं चतुर्गुणाः त्रिगुणाद्विगुणा च वृद्धिः परा। वसिष्ठेन तु रसस्य त्रैगुण्यमुक्तम् “द्विगुणं हिरण्यं त्रिगुणं धान्यम् धान्येनैव रसा व्याख्याताः पुष्पमूलफलानि च तुलाधृतं त्रितयमष्टगुणमिति”। मनुना तु धान्यस्य पुष्पमूलफलादीनाञ्च पञ्चगुणत्वमुक्तम्। “धान्ये शदे लवे वाह्ये नातिक्रामति पञ्चतामिति” शदः क्षेत्रफलं पुष्पमूलफलादि। लवोमेषोर्णा चमरीकेशादि। वाह्योवलीवर्दतुरगादिः। धान्यशदलववाह्यविषया वृद्धिः पञ्चगुणत्वन्नातिक्रामतीति। तत्राधमर्णयोग्यतावशेन दुर्भिक्षादिकालवशेन च व्यवस्था द्रष्टव्या। एतच्च सकृत्प्रयोगे सकृदाहरणे च वेदितव्यम्। पुरुषान्तरसङ्क्रमणेन प्रयोगान्तरकरणे तस्मिन्नेव वा पुरुषे अनेकशः प्रयोगान्तरकरणे सुवर्णादिकं द्वेगुण्याद्यतिक्रम्य पूर्ववद्वर्द्धते। सकृत्प्रयोगेऽपि प्रतिदिनम् प्रतिमासम्प्रति वत्सरं वा वृद्ध्याहरणेऽधमर्णदेयस्य द्वैगुण्यसम्भवात् पूर्वाहृतवृद्ध्या सह द्वैगुण्यमतिक्रम्य वर्द्धत एव यथाह मनुः “कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता”। सकृदाहितेत्यपि पाठोऽस्ति। उपचयार्थं प्रयुक्तं द्रव्यं कुसीदन्तस्य वृद्धिः कुसीदवृद्धिर्द्वैगुण्यं नात्येति नातिक्रामति यदि सकृदाहिता सकृत्प्रयुक्ता पुरुषान्तरसंक्रमणादिना प्रयोगान्तरकरणे द्वैगुण्यमत्येति। सकृदाहृते ति पाठे शनैः प्रतिदिनम्प्रतिमासं प्रतिवत्सरं वाऽधमर्णादाहृता द्वैगुण्यमत्येतीति व्याख्येयम्। तथा गौतमेनाप्युक्तम् “चिरस्थाने द्वैगुण्यम् प्रयोगस्येति” प्रयोगस्येत्येकवचननिर्देशात् प्रयोगान्तरकरणे द्बैगुण्यातिक्रमोऽभिप्रेतः। चिरस्थान इति निर्देशाच्छनैः शनैर्वृद्धेर्ग्रहणे द्वैगुण्यातिक्रमोदर्शितः। ऋणप्रयोगधर्मा उक्ताः साम्प्रतम् प्रयुक्तस्य धनस्य ग्रहणधर्मा उच्यन्ते। “प्रपन्नं साधयन्नर्थं न वाच्यो नृपतेर्भवेत्। साध्यमानोनृपङ्गच्छन् दण्ड्योदाप्यञ्च तद्धनम्” या०। प्रपन्नमभ्युपगतमधमर्णेन धनं साक्ष्यादिभिर्भावितं साधयन् प्रत्याहरन् धर्मादिभिरुपायैः उत्तमर्णी नरपतेर्न वाच्योनिवारणीयो न भवति। धर्मादयश्चोपाया मनुना दर्शिताः। “धर्मेण व्यवहारेण, छलेनाचरितेन च। प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन चेति” धर्मेण प्रीतियुक्तेन सामवचनेन, व्यवहारेण साक्षिलेखाद्युपायेन, छलेन उत्सवादिव्याजेन भूषणादेर्ग्रहणेन, आचरितेन अभोजनेन। पञ्चमेनोपायेन बलेन निगटबन्धबादिना उपचयार्थं प्रयुक्तं द्रव्यमेतैरुपायैरात्मसात्कुर्य्यादिति। प्रपन्नं साधयन्नथं न वाच्य इति वदन्नप्रतिपन्नं साधयन् राज्ञा निवारणीय इति दर्शयति। एतदेव स्पष्टीकृतङ्कात्यायनेन “पीडयेद्योधनी कञ्चिदृणिकं न्यायवादिनम्। तस्मादर्थात् स हीयेत तत्समं प्राप्नुयाद्दममिति”। यस्तु धर्मादिभिरुपाथैः प्रपन्नमर्थं साध्यमानो याच्यमानो नृपं गच्छेत्। राजानमभिगम्य साधयन्तमभियुङ्क्ते स दण्ड्यो भवति शक्त्यनुसारेण। धनिने तद्धनन्दाप्यञ्च। राज्ञा दापने च प्रकारादर्शिताः “राजा तु स्वामिने विप्रं सान्त्वेनैव प्रदापयेत्। देशाचारेण चान्यांस्तु दुष्टान् सम्पीड्य दापयेत्। रिक्थिनं सुहृदं वापि छलेनैव प्रदापयेदिति” या०। साध्यमानो नृपङ्गच्छेदित्येतत् स्मृत्याचारव्यपेतेनेत्यस्य प्रत्युदाहरणं बोद्धव्यम्। बहुषूत्तमर्णिकेषु युगपत्प्राप्तेम्बेकोऽधमर्णिकः केन क्रमेण दाप्योराज्ञेत्यपेक्षित आह! “गृहीतानुक्रमाद्दाप्योधनिनामधमर्णिकः। दत्त्वा तु ब्राह्मणायैव नृपतेस्तदनन्तरम्” या०। समानजातीयेषु येनैव क्रमेण धनं गृहीतन्तेनैव क्रमेणाधमर्णिको दाप्योराज्ञा, भिन्नजातीयेषु तु ब्राह्मणादिक्रमेण। यदा तु पुनरुत्तमर्णो दुर्बलः प्रतिपन्नमर्थन्धर्मादिभिरुपायैः साधयितु मशक्नुवन् राज्ञा साधितार्थोभवति तदाऽधमर्णस्य दण्डसुत्तमर्ण्णस्य च भृतिदानमाह “राज्ञाऽधमर्णिकोदाप्यः साधिताद्दशकं शतम्। पञ्चकञ्च शतन्दाप्यः प्राप्तार्थोह्युत्तमर्णिकः” या०। “अधमर्णिकोराज्ञा प्रतिपन्नार्थात्साधिताद्दशकं शतं दाप्यः” पतिपन्नस्य साधितस्यार्थस्य दशमगंशं राजाधमर्णिकाद्दण्डरूपेण गृह्णीयादित्यर्थः। उत्तमर्णिकस्तु प्राप्तार्थः पञ्चकं शतं भृतिरूपेण दाप्यः साधितस्यार्थस्य विंशतितमम्भागम् उत्तमर्ण्णाद्राजाभृत्यर्थं गृह्णीयादित्यर्थः। अप्रतिपन्नार्थसाधने तु दण्डविभागो दर्शितः “निह्नवे भावितोदद्यात्” इत्यादिना। सधनमधमर्णिकम्प्रत्युक्तमधुना निर्द्धनमधमर्णिकम्प्रत्याह। “हीनजातिम्परिक्षीणमृणार्थं कर्म कारयेत्। ब्राह्मणस्तु षरिक्षीणः शनैर्द्दाप्यो यथोदयम्” या०। ब्राह्मणादिजातिरुत्तमर्ण्णो हींनजातिं क्षत्रियादिम्परिक्षीणं निर्द्धनमृणार्थमृणनिवृत्त्यर्थं कर्म्म स्वजात्यनुरूपं कारयेत्तत्कुदुम्बाविरोधेन। ब्राह्मणः पुनः परिक्षीणो निर्द्धनः शनैर्यथोदयं यथासम्भवमृणन्दाप्यः। अत्र हीनजातिग्रहणं समजातेरप्युपलक्षणमतश्च समजातिमपि परिक्षीणं यथोचितं कर्म्म कारबेत्। ब्राह्मणग्रहणं च श्रेयोजाते रुपलक्षणमतश्च क्षत्रियादिरपि क्षीणो वैश्यादेःशनैःशनै र्द्दाप्योयथोदयम् एतदेव स्पष्टीकृतं मनुना “कर्म्मणापि समङ्कुर्य्याद्धनिकेनाधमर्ण्णिकः। समाऽपकृष्टजातिश्च दद्यच्छ्रेयांस्तु तच्छनैरिति”। उत्तमर्ण्णेन समं निवृत्तोत्तमर्ण्णाधमर्ण्णव्यपदेशमात्मानमधमर्णः कर्म्मणा कुर्य्यादित्यर्थः। किञ्च “दीयमानं न गृह्णाति प्रयुक्तं यः स्वकन्धनम्। मध्यस्थस्थापितं तत्स्याद्वर्द्धते न ततः परम्” या० उपचयार्थं दत्तं धनमधमर्ण्णेन दीयमानमुत्तमर्णोवृद्धिलोभाद्यदि न गृह्णाति तदाऽधमर्ण्णेन मध्यस्थहस्ते स्थापित स्यात्तदा ततःस्थापनादूर्द्धन्न वर्द्धते। अथ स्थापितमपि याच्यमानो न ददाति ततः पूर्ब्बवद्वर्द्धत एव। इदानीन्देयमृणं यदा येन च देयन्तदाह। “अविभक्तै कुटुम्बार्थे यदृणन्तु कृतम्भवेत्। दद्युस्तद्वक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि” या० अविभक्तैर्बहुभिः कुटुम्बार्थमेकैकेन वा यदृणं कृतन्तदृणं कुटुम्बी दद्यात्तस्मिन् प्रेते प्रोषिते वा तदृक्थिनः सर्वे दद्युः। येन देय मित्यत्र प्रत्युदाहरणमाह। “न योषित् पतिपुत्राभ्यान्न पुत्रेण कृतम्पिता। दद्यादृते कुटुम्बार्थान्न पतिः स्त्रीकृतन्तथा” या०। पत्या कृतमृणं योषिद्भार्य्या नैव दद्यात्। पुत्रेण कृतं योषित् माता न दद्यात्। तथा पुत्रेण कृतम्पिता न दद्यात्तथा भार्य्याकृतम्पतिर्न दद्यात्कुटुम्बार्थादृत इति सर्व्वशेषमतश्च कुदुम्बार्थं येन केनापि कृतं तत्कुटुम्बिना देयम् “कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं समाचरेत्। स्वदेशे वा विदेशे वा तन्न विद्वान् विचालयेत्” इति मनु (अध्यधीनः दासः)। तदभावेतद्दायहरैर्देयमिति उक्तमेव। पुत्रपौत्रैरृणन्देयमिति वक्ष्यति तस्य पुरस्तादपवादमाह “सुराकामद्यूतकृतन्दण्डशुल्कावशिष्टकम्। वृथादानन्तथैवेह पुत्रोदद्यान्न पैतृकम्” या०। सुरापाणेन यत् कृतमृणं कामकृतं स्त्रीव्यसनेन कृतम्। द्यूते पराजयनिर्वृत्तं दण्डशुल्कयोरवशिष्टं वृथादानं धूर्त्तवन्दिमल्लादिभ्यो यत् प्रतिज्ञातम् “धूर्त्ते वन्दिनि मल्ले च कुवैद्ये कितवे शठे चाटचारणचौरेषु दत्तं भवति नि फलमिति” स्मरणात्। एतदृणम् पित्रा कृतं पुत्रादिः शौण्डिकादिभ्यो न दद्यात्। अत्र दण्डशुल्कावशिष्टकमित्यवशिष्टग्रहणात् सर्वं दातव्यमिति न मन्तव्यम् “दण्डं वा दण्डशेषं वा शुल्कन्तच्छेषमेव वा। न दातव्यन्तु पुत्रेण यच्च न व्यवहारिकम्” इत्यौशनः स्मरणात्। गौतमेनाप्युक्तम् “मद्यशुल्कद्यूतदण्डा न पुत्रामध्यावहेयुरिति”। न पुत्रस्योपरि भवन्तीत्यर्थः। अनेनादेयमृणमुक्तम्। न पतिः स्त्रीकृतं तथेत्यस्यापवादमाह। “गोपशौण्डिकशैलूषरजकव्याधयोषिताम्। ऋणं दद्यात् पतिस्तासां यस्माद्वृत्तिस्तदाश्रया” या०। गोपो गोपालः शौण्डिकः सुराकारः शैलूषोनटः रजकोवस्त्राणां रञ्जकः। व्याधोमृगयुः एषां योषिद्भिर्यदृणं कृतन्तत्पतिभिर्देयं यस्मात्तेषां वृत्तिर्जीवनं तदाश्रया योषिदधीना। यस्माद्वृत्तिस्तदाश्रयेति हेतुव्यवदेशादन्येऽपि ये योषिदधीनजीविनस्तेऽपि योषित्कृतमृणं दद्युरिति गम्यते। पतिकृतम्भार्या न दद्यादित्यस्यापवादमाह “प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतम्। स्वयंकृतं वा यदृणं नान्यत स्त्री दातुमर्हति” या०। “मुमूर्षुणा प्रवत्स्यता वा पत्या नियुक्तया ऋणदाने यत्प्रतिपन्नन्तत्पतिकृतमृणन्देयं यच्च पत्या सह भार्यया कृतन्तदपि भर्त्रभावे भार्यया अपुत्रया देयम्। यच्च स्वयमेव कृतमृणं तदपि देयम्। ननु प्रतिपन्नादित्रयं स्त्रिया देयमिति न वक्तव्यम् सन्देहा भावात् उच्यते। “भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः। यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनमिति” वचनान्निर्धनत्वेन प्रतिपन्नादिष्वदानशङ्कायामिदमुच्यते। प्रतिपन्नं स्त्रिया देयमित्यादि। न चानेन वचनेन स्त्र्यादीनां निर्धनत्वमभिधीयते पारतन्त्र्यमात्रप्रतिपादनपरत्वात्। एतच्च विभागप्रकरणे स्पष्टीकरिष्यते। नान्यत् स्त्रीदातुमर्हतीत्येतत्तर्हि न वक्तव्यम् विधानेनैवान्यत्र प्रतिषेधसिद्धेः। उच्यते “प्रतिपन्नं स्त्रिया देय पत्या वा मह यत् कृतम्” इत्यनयोरपवादार्थमुच्यते। अन्यच्च सुराकामादिवचनोपात्तं प्रतिपन्नमपि पत्या सहकृतमपि न देयमिति। पुनरपि यदृणं दातव्यं येन च दातव्यं यत्र च काले दातव्यं तत्त्रितयमाह “पितरि प्रोषिते प्रेते व्यसनाभिपरिप्लुते। पुत्रपौत्रैरृणन्देयं निह्नवे साक्षिभावितम्” या०। पिता यदि दातव्यमृणमदत्त्वा प्रेतो दूरदेशङ्गतोऽचिकित्सनीयव्याध्याद्यभिभूतो वा तदा ततकृतमृणमवश्यन्देयं पुत्रेण पौत्रेण वा पितृधनाभावेऽपि पुत्रत्वेन पौत्रत्वेन च। तत्र क्रमोऽप्ययमेव पित्रभावे पुत्रः पुत्राभावे पौत्र इति। पुत्रेण पौत्रेण वा निह्नवे कृतेऽर्थिना साक्ष्यादिभिर्भावितमृणन्देयं पुत्रपौत्रैरित्यन्वयः। अत्र पितरि प्रोषित इत्येतावदुक्तं कालविशेषस्तु नारदेनोक्तो द्रष्टव्यः। “नार्वाक् संवत्सराद्विंशात् पितरि प्रीषिते सुतः। ऋणं दद्यात् पितृव्ये वा ज्येष्ठे भ्रातर्य्यथापि वेति” प्रेतेऽप्यप्राप्तव्यवहारकालस्तु न दद्यात् प्राप्तव्यवहारकालस्तु दद्यात् स च कालस्तेनैव दर्शितः। “गर्भस्थैः सदृशो ज्ञेय आष्टमाद्वत्सराच्छिशुः। बाल आषोडशाद्वर्षात् पौगण्डश्चेति शब्द्यते। परतो व्यवहारज्ञः स्वतन्त्रः पितरावृत इति”। यद्यपि पितृमरणादूर्द्धं बालोऽपि स्वतन्त्रोजातस्तथापि न ऋणभाग् भवति। यथा ह “अप्राप्तव्यवहारश्चेत् स्वतन्त्रोऽपि हि नर्णभाक्। स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृतमिति”। तथा आसेधाह्वाननिषेधश्च दृश्यते। “अप्राप्तव्यवहारश्च दूतोदानोन्मुखो व्रती। विषमस्थश्च नासेध्यो न चैतानाह्वयेन्नृपः” इति तस्मात्। “अतः पुत्रेण जातेन स्वार्थमुत्सृज्य यत्नतः। ऋणात् पिता मोचनीयोयथा नोनरकं व्रजेदिति”। पुत्रेण व्यवहारज्ञतया जातेन निष्पन्नेनेति व्याख्येयम्। श्राद्धे तु बालस्यापि अधिकारः “न ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनादिति” गौतमस्मरणात्। पुत्रपौत्रैरिति बहुवचननिर्देशाद्बहवः पुत्रा यदि विभक्ताः, स्वांशानुरूपेणर्णं दद्युः। अविभक्ताश्चेत् सम्भूय समुत्थानेन गुणप्रधानभावेन वर्त्तमानानां प्रधानभूतएव दद्यादिति गम्यते यथाह नारदः “अत ऊर्द्धं पितुः पुत्रा ऋणं दद्युर्यथांशतः। अविभक्ता विभक्ता वा यस्तां चोद्वहते धुरमिति”। अत्र च यद्यपि पुत्रपौत्रैरृणं देयमित्यविशेषेणोक्तम्। तथापि पुत्रेण यथा पिता सवृद्धिकन्द दाति तथैव देयं पौत्रेण तु समं मूलमेव दातव्यं न वृद्धिंरिति विशेषोऽवगन्तव्यः। “ऋणमात्मीयवत् पित्र्यं पुत्रैर्देयं विभावितम्। पैतामहं समं देयमदेयं तत्सुतस्य तु” इतिवृहस्पतिवचनात्। अत्र विभावितमित्यविशेषोपादानात् साक्षिभावितमित्यत्र साक्षिग्रहणं प्रमाणोपलक्षणम्। समं यावद्गृहीतं तावदेव देयं न वृद्धिः तत्सुतस्य प्रपौत्रस्यादेयमगृहीतधनस्य। एतच्चोत्तरश्लोके स्पष्टयिष्यते। ऋणापकरणे ऋणी तत्पुत्रः पौत्र इति त्रयः कर्त्तारोदर्शिताः तेषाञ्च समवाये क्रमोऽपि दर्शितः।

इदानीं कर्त्रन्तरसमवाये च क्रममाह। “ऋक्थग्राह ऋणं दाप्योयोषिद्ग्राहस्तथैव च। पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य ऋक्थिनः” या०। अन्यदीयं द्रव्यमन्यस्य क्रयादिव्यतिरेकेण यत् स्वीयं भवति तदृक्थं विभागद्वारेण ऋक्थं गृह्णातीति ऋक्थग्राहः स ऋणं दाप्यः। एतदुक्तम् भवति यो यदीयन्द्रव्यं रिक्थरूपेण गृह्णाति स तत्कृतम् ऋणं दाप्यो न चौरादिरिति। योषितं भार्यां गृह्णातीति योषिद्ग्राहः स तथैव ऋणं दाप्यः। यो यदीयां योषितं गृह्णाति स तत्कृतमृणं दाप्यः योषितोऽविमाज्यद्रव्यत्वेन ऋक्थव्यपदेशानर्हत्वाद्भेदेन निर्देशः। पुत्रश्चानन्याश्रितद्रव्य ऋणं दाप्यः अन्यमाश्रितमन्याश्रितम् मातृपितृसम्बन्धिद्रव्यं यस्यासावन्याश्रितद्रव्यः न अन्याश्रितद्रव्योऽनन्याश्रित द्रव्यः पुत्रहीनस्य ऋक्थिन ऋणं दाप्य इति सम्बन्धः। एतेषां समवाये क्रमश्च पाठक्रमएव ऋक्थग्राह ऋणं दाप्यस्तदभावे योषिद्ग्राहस्तदभावे (तथाभूतः) पुत्र इति। नन्वेतेषां समवाय एव नोपपद्यते। “न भ्रातरो न पितरः, पुत्रा ऋक्थहराः पितुरिति” पुत्रे सत्यन्यस्य ऋक्थग्रहणासम्भवात्। योषिद्ग्राहोऽपि नोपपद्यते “न द्वितीयश्च साध्वीनां क्वचिद्भर्त्तोपदिश्यते” इति स्मरणात्। तदर्णं पुत्रो दाप्य इत्यप्ययुक्तं पुत्रपौर्त्रैरृणं देयमित्युक्तत्वात्। अनन्याश्रितधन इति विशेषणमप्यनर्थकम् पुत्रे सति द्रव्यस्यान्याश्रयणासम्भवात् सम्भवे च ऋक्थग्राह इत्यनेनैव गतार्थत्वात् पुत्रहीनस्य ऋक्थिन इत्येतदपि न वक्तव्यम्। पुत्रे सत्यपि ऋक्थग्राह ऋणं दाप्य इति स्थितमसति पुत्रे ऋक्थग्राहः सुतरां दाप्यः इति सिद्धमेवेति। अत्रोच्यते। पुत्रे सत्यप्यन्य ऋक्थग्राही सम्भवति क्लीवान्धबधिरादीनां पुत्रत्वेऽपि ऋक्थहरत्वाभावात्। तथा च क्लीवादीननुक्रम्य “भर्त्तव्यास्तु निरंशकः” इति वक्ष्यति तथा “सवर्णापुत्रोऽप्यन्यायवृत्तो न लभेतेति केषामिति” गौतमवचनात्। अतश्च क्लीवादिषु पुत्रेषु सत्स्वन्यायवृत्ते च सवर्णापुत्रे सति ऋक्थग्राही पितृव्यतत्पुत्रादिः। योषिद्ग्राहो यद्यपि शास्त्रविरोधेन न सम्भवति तथाप्यतिक्रान्तनिषेधः पूर्वपतिकृतर्णापकरणाधिकारी भवत्येव। योषिद्ग्राहोयश्चतसृणां स्वैरिणीनामन्तिमां गृह्णाति, यश्च पुनर्भ्वान्तिसृणां प्रथमाम्, यथाह नारदः “परपूर्वास्त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम्। पुनर्भूस्त्यिविधा तासां स्वैरिणी तु चतुर्विधा। कन्यैवाऽक्षतयोनिर्या पाणिग्रहणदूषिता। पुनर्भूः प्रथमा प्रोक्ता पुनःसंस्कारकर्मणा। देशधर्मानपेक्ष्य स्त्री गुरुभिर्या प्रदीयते। उत्पन्नसाहसाऽन्यस्मै सा द्वितीया प्रकीर्त्तिता”। उत्पन्नसाहसा उत्पन्नव्यभिचारा। “असत्सु देवरेषु स्त्री बान्धवैर्या प्रदीयते। सवर्णाय सपिण्डाय सा तृतीया प्रकीर्त्तिता। स्त्री प्रसूताऽप्रसूता वा पत्यावेव तु जीवति। कामात् समाश्रयेदन्यं प्रथमा स्वैरिणी तु सा। कौमारं पतिमुत्सृज्य या त्वन्यं पुरुषाश्रिता। पुनःपत्युर्गृहं यायात् सा द्वितीया प्रकीर्त्तिता। मृते भर्त्तरि तु प्राप्तान् देवरादीनपास्य या। उपगच्छेत् परं कामात् सा तृतीया प्रकीर्त्तिता। प्राप्ता देशाद्धनक्रीता क्षुत्पिपासातुरा तु या। तवाहमित्युपगता सा चतुर्थी प्रकीर्त्तिता। अन्तिमा स्वैरिणीनां या प्रथमा च पुनर्भुषाम्। ऋणन्तयोः प्रतिकृतं दद्याद्यस्ते उपाश्रितः” इति। तथान्योऽपि योषिद्ग्राहः ऋणापाकरणाधिकारी तेनैव दर्शितः “या तु सप्रधनैव स्त्री सापत्या वात्यमायेत्। सोऽस्या दद्यादृणं भर्त्तुरुत्सृजेद्वा तथैव ताम्”। प्रकृष्टेन धनेन सह वर्त्तत इति सप्रधना बहुधनेति यावत्। तथा “अधनस्य ह्यपुत्रस्य मृतस्योपैति यः स्त्रियम्। ऋणं वोढुः स भजते सैव चास्य धनं स्मृतमिति”। पुत्रस्य पुनर्वचनं क्रमार्थम्। अनन्याश्रितद्रव्य इति बहुपुत्रेषु ऋक्थाभावेऽप्यंशग्रहणयोग्यस्यैवर्णापाकरणाधिकारोनायोग्यस्यान्धादेरित्येवमर्थम्। “पुत्रहीनस्य ऋक्थिन” इत्येतदपि पुत्रपौत्रहीनस्य प्रपौत्रादयो यदि ऋक्थं गृह्णन्ति तदर्णं दाप्यानान्यथेत्येवमर्थम्। पुत्रपौत्रौ तु ऋक्थग्रहणा भावेऽपि दाप्यावित्युक्तम् यथाह नारदः “क्रमादभ्यागतं प्राप्तं पुत्रैर्यन्नर्णमुद्धृतम्। दद्युः पैतामहं पौत्रास्तच्चतुर्थान्निवर्त्तते” इति सर्वं निरवद्यम्। यद्वा योषिद्ग्राहाभावे पुत्रोदाप्य इत्युक्तन्तस्याभावे योषिद्ग्राहो दाप्य इत्युच्यते। पुत्रहीनस्य ऋक्थिशब्देन योषिदेवोच्यते “सैव चास्य धनं स्मृतमिति” स्मरणात् “यो यस्य हरते दारान् स तस्य हरते धनमिति” च। ननु योषिद्ग्राहाभावे पुत्र ऋणं दाप्यः पुत्राभावे योषिद्ग्राह इति, परस्परं विरुद्धम् उभयसद्भावे न कश्चिद्दाप्य इति, नैष दोषः अन्तिमस्वैरिणीग्राहिणः प्रथमपुनर्भूग्राहिणः सप्रधनस्त्रीहारिणश्चाभावे पुत्रोदाप्यः। पुत्राभावे तु निर्द्धननिरपत्ययोषिद्ग्राहो दाप्य इति। एतदेबोक्तं नारदेन “धनस्त्रीहारिपुत्राणामृणभाग् यो धनं हरेत्। पुत्रोऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः”। धनस्त्रीहारिपुत्राणां समवाये यो धनं हरेत् स ऋणभाक्। पुत्रोऽसतोः स्त्रीधनिनोः स्त्री च धनञ्च स्त्रीधने ते विद्येते ययोः तौ स्त्रीधनिनौ तयोः स्त्रीधनिनोः असतोः पुत्र एवर्णभाक्। धनिपुत्रयोरसताः स्त्रीहार्य्येवर्णभाक् स्त्रीहार्य्यभावे पुत्र ऋणभाक्। पुत्रभावे स्त्रीहारीति विरोधप्रतिभासपरिहारः पूर्ववत्। पुत्रहीनस्य ऋकथिनः इत्यस्यान्या व्याख्या, एते धन स्त्रीहारिपुत्रा ऋणं कस्य दाप्याः? इति विवक्षायामुत्तम- र्णस्य दातुस्तदभावे तत्पुत्रादेः पुत्राद्यभावे कस्य दाप्या इत्यपेक्षायामिदमुपतिष्ठते। पुत्रहीनस्य ऋक्थिन इति पुत्राद्यन्वयहीनस्योत्तमर्णस्य य ऋक्थी ऋक्थग्रहणयोग्यः सपिण्डादिस्तस्य ऋक्थिनो दाप्याः। तथा च नारदेन “ब्राह्मणस्य तु यद्देयं सान्वयस्य न चास्ति सः। निर्वापयेत् सकुल्येषु तदभावेऽस्य बन्धुषु” इत्यभिधायाभिहितम् “यदा तु न सकुल्याः स्युर्न्न च सम्बन्धिबान्धवाः। तदा दद्याद्द्विजेभ्यस्तु तेष्वसत्स्वप्सु विनिक्षिपेदिति”। अधुना पुरुषविशेषे ऋणग्र हणप्रतिषेधनप्रसङ्गादन्यदपि पतिषे धति। “भ्रातॄणामथ दम्पत्योः पितुः पुत्रस्य चैव हि। प्रातिभाव्यमृणं साक्ष्यमविभक्ते न तु स्मृतम्” या०। प्रतिभुवो भावः प्रातिभाव्यम्। भ्रातॄणां दम्पत्योः पितापुत्रयोश्च। अविभक्ते द्रव्येद्रव्यविभागात् प्राक् प्रातिभाब्यमृणं साक्ष्यञ्च न स्मृतं मन्वादिभिः। अपि तु प्रतिषिद्धं साधारणघनत्वात् प्रातिभाव्यसाक्षित्वयोः पक्षे द्रव्यव्ययावसानत्वात् ऋणस्य चावश्यप्रतिदेयत्वात्। एतच्च परस्पराऽननुमत्या अनुमत्या त्वविभक्तानामपि प्रातिभाव्यादि भवत्येव। विभागादूर्द्धन्तु परस्परानुमतिव्यतिरेकेणापि भवति। ननुदसात्योर्विभागात् प्राक् प्रातिभाव्यादिप्रतिषेधो न युज्यते तयोर्विभागाभावेन विशेषणानर्थक्याद्विभागाभावश्च आपस्तम्बेन दर्शितः “जायापत्योर्न्न विभागो विद्यत” इति। सत्यं श्रौतस्मार्त्ताग्निसाध्येषु कर्म्मसु तत्फलेषु च विभागाभावो न पुनः सर्वकर्मसु द्रव्येषु च। तथा हि “जायापत्योर्न विभागो विद्यते” इत्युक्त्वा किमिति न विद्यत इत्यपेक्षायां हेतुमुक्तवान् “पाणिग्रहणाद्धि सहत्वङ्कर्मसु तथा पुण्यफलेषु चेति” हि यस्मात् पाणिग्रहणादारभ्य कर्मसु सहत्वं श्रूयते “जायापती अग्निमादधीयातामिति”। तस्मादाधाने सहाधिकारादाधानसिद्धाग्निसाध्येषु कर्मसु सहाधिकारः। तथा “कर्म स्मार्त्तं विवाहाग्नावित्यादि” स्मरणात् विवाहसिद्धाग्निसाध्येष्वपि कर्मसु सहाधिकार एव। अतश्चोभयविधाग्निनिरपेक्षेषु कर्मसु पूर्त्तेषु जायापत्योः पृथगेवाधिकारः सम्पद्यते। तथा पुण्यानां फलेषु स्वर्गादिषु जायापत्योः सहत्वं श्रूयते “दिवि ज्योतिरजरमारभेतामित्यादि”। येषु पुण्यकर्मसु सहाधिकारस्तेषां फलेषु सहत्वमिति बोद्धव्यम्। न पुनः पूर्त्तानां भर्त्तुनुज्ञयानुष्ठितानां फलेष्वपि। ननु द्रव्यस्वामित्वेऽपि सहत्वमुक्तम् “द्रव्यपरिग्रहेषु च न हि मर्त्तुर्विप्रवासे नैमित्तिकदाने स्तेयसुपदिशन्तीति” सत्यं द्रव्य- स्वामित्वं पत्न्या दर्शितमनेन न पुनर्विभागाभावः यस्माद्द्रव्यपरिग्रहेषु चेत्युक्त्वा तत्र कारणमुक्तम्भर्त्तुर्विप्रवा से नैमित्तिकेऽवश्यकर्त्तव्यदानेऽतिथिभोजनभिक्षादानादौ हि यस्मान्न स्तेयमुपदिशन्ति मन्वादयः तस्माद्भार्य्याया अपि द्रव्यस्वामित्वमस्ति अन्यथा स्तेयं स्यादिति तस्माद्भर्त्तुरिच्छया भार्य्याया अपि द्रव्यविभागोभवत्येव न स्वेच्छया यथा वक्ष्यति “यदि कुर्य्यात् समानांशान् पत्न्यः कार्य्याः समांशिकाः” इति। अधुना प्रातिभाव्यं नि रूपयितुमाह। “दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते। आद्यौ तु वितथे दाप्यावितरस्य सुता अपि” या० प्रातिभाव्यं तिश्वासार्थं पुरुषान्तरेण सह समयः, तच्च विषयभेदात् त्रिधा भिद्यते। यथा दर्शने दर्शनापेक्षायामेनं दर्शयिष्यामीति, प्रत्यये विश्वासे मत्प्रत्ययेनास्य धनं प्रयच्छ नायं त्वां वञ्चयिष्यते यतोऽमुकस्य पुत्रोऽयमुर्वराप्रायभूरस्य ग्रामवरोऽस्तीति, दाने यद्ययं न ददाति तदानीमहमेव धनं दास्यामीति, प्रातिभाव्यं विधीयत इति प्रत्येकं सम्बन्धः। आद्यौ तु दर्शनप्रत्ययप्रतिभुवौ वितथे अन्यथाभावे अदर्शने विश्वासव्यभिचारे च दाप्यौ राज्ञा प्रस्तुतं (अवृद्धिकम्) धनमुत्तमर्णस्य। इतरस्य दानप्रतिभुवः सुता अपि दाप्याः। वितथे इत्येव शाठ्येन निर्द्ध्वनत्वेन वा अधमर्णेऽप्रतिकुर्व्वति। इतरस्य सुता अपीति वदता पूर्व्वयोः सुता न दाप्याः इत्युक्तम्। सुता इति वदता न पौत्रा दाप्या इति दर्शितम्। एतदेव स्पष्टीकर्त्तुमाह। “दर्शनप्रतिभूर्य्यन्त्र मृतः प्रात्ययिकोऽपि वा। न तत्पुत्रा ऋणं दद्युर्द्दद्युर्दानाय यः स्थितः” या० यदा दर्शनप्रतिभूः प्रात्ययिको वा प्रतिभूर्दिवंगतः तदातयोः पुत्राः प्रातिव्यायातं पैतृकम् ऋणं न दद्युः। यस्तु दानाय स्थितः प्रतिभूर्दिवं गतस्तस्य पुत्रा दद्युर्न पौत्राः। ते च मूलमेव दद्युर्न्न वृद्धिम्। “ऋणं पैतामहं पौत्राः प्रातिभाव्यागतं सुतः। समं दद्यात् तत्सुतौ तु न दाप्याविति निश्चयः” इति व्यासवचनात्। प्रातिभाव्यव्यतिरिक्तं पैतामहमृणं पौत्रः समं यावद्गृहीतं तावदेव दद्यान्न वृद्धिम्। तथा तत्सुतोऽपि प्रातिभाव्यागतं पित्र्यमृणं सममेव दद्यात्तयोः पौत्रपुत्रयोः सुतौ प्रपौत्रपौत्रौ च प्रातिभाव्यायातमप्रातिभाव्यायातं चर्णं यथाक्रममगृहीतवित्तौ न दाप्याविति। यदपि स्मरणम् “स्वादकोवित्तहीनः स्याल्लग्नकोवित्तवान् यदि। मूलं तस्य भवेत्देयं न वृद्धिं दातुमर्हतीति” तदपि लग्नकः प्रतिभूः खादकोऽध- मर्णः, लग्नको यदि वित्तवान् मृतस्तदास्य पुत्रेण मूलमेव दातव्यं न वृद्धिरिति व्याख्येयम्। यत्र दर्शनप्रतिभूः प्र त्ययप्रतिभूर्वा बन्धकपर्याप्तं गृहीत्वा प्रतिभूर्जातः तत्पुत्रा अपि तस्मादेव बन्धकात् प्रातिभाव्यायातमृण दद्युरेव। यथा ह कात्यायनः “गृहीत्वा बन्धकं यत्र दर्शनेऽस्य स्थितो भवेत्। विना पित्रा धनात्तस्मात् दाप्यः स्यात् तदृणं सुतः” इति। दर्शनग्रहणं प्रत्ययोपलक्षणम् विना पित्रा पितरि प्रेते दूरदेशङ्गते वेति। यस्मिन्ननेकप्रतिभू सम्भवस्तत्र कथं दातव्यमित्याह। “बहवः स्युर्य्यदि स्वांशैर्दद्युः प्रतिभुवोधनम्। एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचि” या०। यद्येकस्मिन् प्रयोगे द्वौ बहवो वा प्रतिभुवस्तदर्णं विभज्य स्वांशेन दद्युः। एकच्छायाश्रितेषु प्रतिभूषु एकस्याधमर्णस्य छाया सादृश्यं तामाश्रिताः एकच्छायाश्रिताः अधमर्णो यथा कृत्स्नद्रव्यदानायस्थितस्तथा दानप्रतिभुवोऽषि प्रत्येकं कृत्स्नदानाय स्थिताः एवं दर्शनप्रत्यये च तेष्वेकच्छायाश्रितेषु प्रतिभूषु सत्सु धनिकस्योत्तमर्ण्णस्य यथारुचि यथाकामम्। अतश्च धनिको वित्ताद्यपेक्षया स्वाथं यं प्रार्थयते स एव कृत्स्नं दद्यान्नांशतः। एकच्छायाश्रितेषु यदि कश्चिद्देशान्तरं गतस्तत्पुत्रश्च सन्निहितस्तदा धनिकेच्छया स सर्वं दाप्यः मृते तु कस्मिंश्चित् स्वपित्र्यमंशमवृद्धिकं दाप्यः। यथाह कात्यायनः “एकच्छायाप्रविष्टानां दाप्योयस्तत्र दृश्यते। प्रोषिते तत्सुतः सर्वं पित्र्यमंशं मृते सति” प्रातिभाव्यर्णदानविधिमुक्त्वा प्रतिभूदत्तस्य प्रतिक्रियाविधि माह। “प्रतिभूर्दापिती यत्तु प्रकाशं धनिनो धनम्। द्विगुणं प्रतिदातव्यमृणिकैस्तस्य तद्भवेत्” या०। यदृणं प्रतिभूस्तत्पूत्रो वा धनिकेनोपपीडितः प्रकाशं सर्वजनसमक्षं राज्ञा धनिनो दापितो न गनर्द्वैगुण्यलोभेन स्वयमुपेत्य दत्तम्। यथाह नारदः यच्चर्णं प्रतिभूर्दद्याद्धनिकेनोपपीडितः। ऋणिकन्तं प्रतिभुवे द्विगुणं प्रतिदापयेदिति”। ऋणिकैरधमर्ण्णैस्तस्य प्रतिभुवस्तद्द्रव्यं द्विगुणं प्रतिदातव्यं स्यात्। तच्च कालविशेषमनपेक्ष्य सद्य एव द्विगुणं दातव्यम् वचनारम्भसामर्थ्यात्। एतच्च हिरण्यविषयम्। नन्विदं वचनं द्वैगुण्यमात्रं प्रतिपादयति तच्च पूर्वोक्तकालकलाक्रमाबाधेनाप्युपपद्यते यथा जाते ष्टिविधानं शुचित्वाबाधेन। अपि च सद्यः सवृद्धिकदानपक्षे पशुस्त्रीणां सद्यःसन्तत्य भावान्मूलदानमेव प्राप्नोतीति तदसत् “वस्त्रधान्यहिरण्यानां चतुस्त्रिद्वि- गुणा परा” इत्यनेनैव कालकलाक्रमेण द्वैगुण्यसिद्धेर्द्वैगुण्यमात्रविधान इदं वचनमनर्थकं स्यात्। पशुस्त्रीणान्तु कालक्रमपक्षे सन्तत्यभावे स्वरूपदानमेव। यदा प्रतिभूरपि द्रव्यदानानन्तरं कियता कालेनाधमर्णेन संघटते तदा संततिरपि सम्भवत्येव यद्वा पूर्ब्बसिद्धसन्तत्या सह पशुस्त्रियोदास्यतीति न किञ्चिदेतत्। अथ प्रातिभाव्यं प्रीतिकृतमतश्च प्रतिभुवा दत्तं प्रीतिदत्तमेव न च प्रीतिदत्तस्य याचनात् प्राक्वृद्धिरस्ति यथाह “प्रीतिदत्तं तु यत्किञ्चिद्वर्द्धते न त्वयाचितम्। याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकं शतमिति”। अतश्च प्रीतिदत्तस्यायाचितस्यापि दानदिवसादारभ्य यावत् द्विगुणं कालक्रमेण वृद्धिरित्यनेन वचनेनोच्यत इति। तदप्यसत् अस्यार्थस्यास्माद्वचनादप्रतीतेः द्विगुणं प्रतिदातव्य मित्येतावदिह प्रतोयते तस्मात् कालक्रमनपेक्ष्यैव द्विगुणं प्रतिदातव्यं वचनारम्भसामर्थ्यादिति सुष्ठूक्तम्। प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्राप्तेऽपवादमाह “सन्ततिः स्त्रीपशुष्वेव धान्यं त्रिगुणमेव च। वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तथा” या०। हिरण्यद्वैगुण्यवत् कालानादरेणैव स्त्रीपश्वादयः प्रतिपादितवृद्ध्या दाप्याः श्लोकस्तु व्याख्यातएव यस्य द्रव्यस्य यावती वृद्धिः पराकाष्ठोक्ता तत्द्रव्यं प्रतिभूदत्तं खादकेन तया वृद्ध्या सह कालविशेषमनपेक्ष्य सद्यो दातव्यमिति तात्पर्य्यार्थः। यदा तु दर्शनप्रतिमूः सं प्रतिपन्ने कालेऽधमर्णं दर्शयितुमसमर्थस्तदा तदन्वेषणाय तस्य पक्षत्रयं (अवधिभूतम्) दातव्यम्। तत्र यदि दर्शयति तदा मोक्तव्योऽन्यथा प्रस्तुतं धनं दाप्यः “नष्टस्यान्वेषणार्थन्तु देयं पक्षत्रयं परम्। यद्यसौ दर्शयेत् तत्र मोक्तव्यः प्रतिभूर्भवेत्। काले व्यतीते प्रतिभूर्य्यदि तं नैव दर्शयेत्। निबन्धं दापयेत्तन्तु प्रेते चैष विधिः स्मृतः” इति कात्यायनवचनात्। लग्नके विशेषनिषेधश्च तेनैवोक्तः। “न स्वामी न च वै शत्रुः स्वामिनाधिकृतस्तथा। निरुद्धो दण्डितश्चैव संदिग्धश्चैव न क्वचित्। नैव ऋक्थी न मित्रञ्च नचैवात्यन्तवासिनः। राजकार्य्यनियुक्तश्च ये च प्रव्रजिता नराः। न शक्तो धनिने दातुं दण्डं राज्ञेच तत्समम्। जीवन्वापि पिता यस्य तथैवेच्छाप्रवर्त्तकः। नाविज्ञातो ग्रहीतव्यः प्रतिभूः स्वक्रियां प्रतीति” सन्दिग्धोऽभिशस्त्रः। अत्यन्तवासिनीनैष्ठिकब्रह्मचारिणः। इति प्रतिभूविधिः। धनप्रयोगे द्वौ “विश्वासहेतू प्रतिभूराधिश्च यथाह नारदः। विश्रम्भहेतू द्वावत्र प्रतिभूराधिरेव चेति”। प्रतिभूर्निरूपितः” मिता० आधिस्तु विस्तरेक्षाधिशब्दे ७११ पृष्ठादौ निरूपितः।

अत्र विशेषः वीरमि० व्यासः “सबन्धे भाग आशीतः षष्टोभागः सलग्नके। निराधाने द्विकशतं मासलाभ उदाहृतः” अत्र आधानपदं प्रतिभुवोऽभ्युपलक्षणम्। तत्रैव नारदः। “स्थानलाभनिमित्तं यद्दानग्रहणमिष्यते। तत्कुसीदमिति ज्ञेयम् तेन वृत्तिः कुसीदिनाम्” स्थानं मूलधनस्यावस्थानं लाभो वृद्धिः तन्निमित्त ततप्रयोजनम्। कुसीदशब्दार्थ माह वृह०। “कुत्सितात् सीदतश्चैव निर्विशङ्कैः प्रगृह्यते। चतुर्गुणं वाष्टगुणं कुसीदाख्यमृणात्ततः”। कतमितात सीदतश्च अधमर्ण्णात् इत्यर्थः। वृद्धौ विशेषमाह स एव। “वृद्धिश्चतुर्विधा प्रोक्ता पञ्चधान्यैः प्रकीर्त्तिता। षड्विधान्यैः समाख्याता तत्त्वतस्ता निबोधत। कायिका कालिका चैव चक्रवृद्धिरतीऽपरा। कारिता सशिखा वृद्धिर्भोगलाभस्तथैव च। कायिका कर्म्मसंयुक्ता मासग्राह्या तु कालिका। वृद्धेर्वृद्धिश्चक्रवृद्धिः कारिता ऋणिना कृता। प्रत्यहं गृह्यते या तु शिखा वृद्धिस्तु सा स्मृता। गृहात्तोषः फलं क्षेत्रात् भोगलाभः प्रकीर्त्तितः” कर्म्मसंयुक्ता कायिका यत्र बन्धकीकृतस्य गवाश्वादेर्दोहनवहनादिकं कर्म्म वृद्धित्वेन स्थापितं तत्र सा कायिका। यथाह व्यासः “दोह्यवाह्यकर्मयुता कायिका समुदाहृता” प्रत्यहं गृह्यते या तु शिखा वृद्धिस्तु सा स्मृता। शिखेव वर्द्धते नित्यं शिरश्छेदान्निवर्त्तते। मूले दत्ते तथैवैषा शिखावृद्ध्विर्निवर्त्तते”। परमवृद्धौ विशेषस्तत्रैव वृह० “हिरण्ये द्विगुणा वृद्ध्विस्त्रिगुणा वस्त्रकुप्यके। धान्ये चतुर्गुणा प्रोक्ता शदवाह्यलवेषु च। उक्ता पञ्चगुणा शाके वीजेक्षौ षड्गुणा स्मृता। लवणस्नेहमद्येषु वृद्धिरष्टगुणा मता। गुडे मधुनि चैवोक्ता प्रयुक्ते चिरकालिके” कुप्यं त्रपुसीसादि शदः क्षेत्रफलं धान्यस्य पृथग्ग्रहणात्तद्व्यतिरिक्तं पुष्पफलादि। कात्या० “तैलानाञ्चैव सर्वेषां मद्यानामथ सर्थिषाम्। वृद्धिरष्टगुणा ज्ञेया गुडस्य लवणस्य च”। सर्वेषां सर्वप्रकाराणां सर्वत्रान्वयः। गुडादौ विभक्तिव्यत्ययेन सर्वस्येत्यन्वयः। वसिष्ठः “वज्रशुक्तिप्रवालानां हेम्नश्च रजतस्य च। द्विगुणा त्विष्यते दृद्धिः कृतकालानुसारिणी” कात्या० “मणिमुक्ताप्रवालानां सुवर्ण्णरजतस्य च। तिष्ठतो द्विगुणा वृद्धिः फलकैटाविकस्य च” फलं फलजं कार्पासादि आविकसाहचर्य्यात् कैटं कीटोद्भवं पट्टसूत्रादि आविकं कम्बलादि। वसिष्ठः “ताम्रायःकांस्यरीतीनां त्रपुणः सीसकस्य च। त्रिगुणा तिष्ठतो वृद्धिः कालात् चिरकृतस्य तु” विष्णुः “अनुक्तानां त्रिगुणा”। देशाचारभेदादुक्तायाः सवप्रकारवृद्धेरन्यथात्वमाह नारदः “ऋणानां सार्वभौमोऽवं विधिर्वृद्धिकरः स्मृतः। देशाचारस्थितिस्त्वन्या यत्रर्ण्णमवतिष्ठते। द्विगुणं त्रिगुणञ्चैव तथात्यस्मिंश्चतुर्गुणम्। तथाष्टगुणमन्यस्मिन् तत्र देशेऽवतिष्ठते”। द्रव्यभेदेऽक्षयवृद्धिमाह वृह० “तृणकाष्ठेष्टकासूत्रकिण्वचर्मास्थिवर्म्मणाम्। हेतिपुष्पफलानाञ्च वृद्धिस्तु न निवर्त्तते। किण्वं सुराद्रव्योपकरणं द्रव्यविशेषः। वसिष्ठः “दन्तचर्मास्थिशृङ्गाणां मृण्मयानां तथैव च। अक्षयावृद्धिरेतेषां पुष्पमूलफलस्य च” पुष्पादौ पूर्वापरविरोधः अधमर्ण्णशक्त्यपेक्षानपेक्षाभ्यां समाधानीयः। शिखावृद्ध्यादौ वृद्धेररक्षयमाह वृह० “शिखावृद्धिं कालिकाञ्च फलभोगं तथैव च। धनी तावत् समादद्यात् यावन्मूलं न शोधितम्” “क्वचिदनङ्गीकृताऽपि वृद्धिर्भवतीत्याह” विष्णुः “यो गृहीत्वा ऋणं पूर्वं श्वोदास्यामीति सामकम्। न द द्याल्लोभतः पश्चात् तदहाद्वृद्धिमाप्नुयात्” सामकं सममेवावृद्धिकं श्वोदास्यामीति प्रतिश्रुत्येर्थः श्व इति पदं दानकालोपलक्षणम्। अङ्गीकाराभावे क्वचित् विषये वृद्ध्यभावमाह संव० “न वृद्धिः स्त्रीधने लाभे निःक्षिप्ते च यथास्थिते। सन्दिग्धे प्रतिभावो च यदि न स्यात् स्वयं कृता” स्त्रीधने “अधिविन्नस्त्रियै देयमाधिवेदनिकं समम्” इत्युत्याद्युक्तेः स्त्रियै दातव्ये धने स्त्रीशुल्कधने च लाभे कृष्याद्याये बाणिज्याद्युत्पन्ने आये च कालातिक्रमेऽपि न बृद्धिः। कात्या० “धर्म्मकृत्यासवद्यूते पण्यमूल्ये च सर्वदा। स्त्रीशुल्केषु न वृद्धिः स्यात् प्रातिभाव्यागतेषु च” धर्म्मकृत्ये प्रतिश्रुत्यादत्ते, द्यूते कृतर्ण्णे पराजितर्णे च सुरापाणार्थमृणे क्रीतद्रव्यस्य पण्यस्य मूल्ये प्रातिभाव्यागतेषु सन्दिग्धप्रातिभाव्यागतेषु प्रागुक्तसंवर्त्तवाक्यैवाक्यत्वात् अत्र सर्वदेति विशेषणम् याचनेऽपि न वृद्धिरिति सूचनार्थमं। व्यासः “न वर्द्धते चिरस्थं च मद्यशुल्कप्रतिश्रुतम्”। शुल्कं घट्टादिदेयं राजकरादि। पूर्ण्णावधौ ऋण दानासामर्थ्ये विशेषमाह मनुः “ऋणं दातुमशक्तोयः कर्त्तुमिच्छेत् पुनः क्रियाम्। स दत्त्वा निर्जितां वृद्धिं करणं परिवर्त्तयेत्। अदर्शयित्वा तत्रैव हिरण्यं परिवर्त्तयेत्। यावती, सम्भवेद्वृद्धिस्तावतीं दातुमर्हति। चक्रवृद्धिं समारूढो देशकालव्यवस्थितः। अतिक्रामन् देशकालौ न तत्फलमयाप्नुयात्”। निर्जितां लभ्यत्वेनात्माधीनत्वं नीताम्। करणमन्यदृणलेख्यं कुर्यात्। अदर्शयित्वा साक्षिभ्यो देयद्रव्यमदर्शयित्वैव अधमर्ण्णेन मया एतावती वृद्धिरियन्मूलमित्येवमङ्गीकारणेन देयमृणं परिवर्त्तयेत् सवृद्धिकत्वेनाधिकतया अन्यथाभावभापादयेत् तदेव पत्रे साक्षिमल्लेख्यम् एतच्च यावर्ती वृद्धिं तदा दातु शक्नोति तावतीं दत्त्वा लेख्यं कार्यं तथाकृते सति द्विगुणातिक्रमेण वृद्धिर्भवतीत्यर्थः तथाकृते च वृद्धेरपि वृद्धिः तस्य सवृद्धिकस्य मूलस्थानीयत्वात् यथाह वृह० “पूर्ण्णावधौ शान्तलाभमृणमुद्ग्राहयेद्वनी। कारयेद्वा ऋणी लेख्यं चक्रवृद्धिव्यवस्थया। द्विगुणस्योपरि यथा चक्रवृद्धिः प्रगृह्यते। भोगलाभस्तथा तत्र सूलं स्यत् सोदयमृणम्” ऋणग्रहणोपायाश्च मिता० उक्ताः उपायशब्दे च १३५५ पृ० विस्तरेण दर्शिताः। अवधिमध्ये सवृद्धिकसर्वर्णदानासम्भवे क्रमेण दाने सलेख्यप्रयोगे लेख्यपृष्ठे लिखित्वैव दानप्रकारमाह याज्ञ०। “लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्वादत्त्वर्ण्णिको घनम्। धनी वोपगतं दद्यात् स्वहस्तपरिचिह्नितम्” उपगतशब्दे १२०१ पृ० व्याख्यातम्। विष्णुः “असमग्रदाने लेख्यासन्निधाने चोत्तमर्ण्णः स्वलिखितं दद्यात्” (रसिंद) प्रवेशपत्रादाने विशेष माह नारदः। “गृहीत्वोपगतं दद्यादृणिकायोदयं धनी। अददद्याच्यमानश्च शेषहानिमवाप्नुयात्” “उदयं प्राप्तम्। सर्वर्ण्णदाने तु ऋणलेख्यच्छेदनमाह “दत्त्वर्ण्णं पाटयेल्लेख्यं शुद्ध्यै वान्यत्तुकारयेत्। साक्षिमच्च भवेद्यद्वा तद्दातव्यं ससाक्षिकम्” या०। तत्राशक्तौ विशेषमाह कात्या० “धनदानासहं वुद्ध्वा स्वाधीनं कर्म्म कारयेत्। अशक्तौ बन्धनागारे प्रवंश्यो ब्राह्मणादृते”। अशुभकर्मकारणं बन्धनागारप्रवेशनञ्च राजावेदनपूर्वकमेव कार्य्यमन्यथा दण्डमाह कात्या०। “यदि ह्यादावनादिष्टमशुभं कर्म कारयेत्। प्राप्नुयात् साहसं पूर्बमृणान्मुच्येत चर्ण्णिकः” अनादिष्टम् राज्ञाऽनिवेदितम्। ऋणदातृपुत्रं विशेषयति कात्या० “ऋणं तु दापयेत् पुत्रम् यदि स्यान्निरुपद्रवः। द्रविणार्हश्च धुर्यश्च नान्यथा दापयेत् सुतम्। व्यसनाभिप्लुते पुत्रे बाले वा यत् प्रदृश्य ते। द्रव्यहृद्दापयेत्तं तु तस्याभावे पुरन्ध्रीहृत्” कुटम्बार्थे कृतर्ण्णे विशेषमाह वृह० “पितृव्यभ्नातृपुत्रस्त्रीदासशिष्यानुजीविभिः। यत् गृहीतं कुटुम्बार्थे तद् गृही दातुमर्हति”। नारदः “शिष्यान्तेवासिदासस्त्रीप्रैष्य कृत्यकरैश्च यत्। कुटुम्बहेतोर्यत् क्षिप्तं दातव्यं तत् कुटुम्बिना” शिष्यः वेदशिष्यः अन्तेवासी शिल्पशिष्यः।

“कुटुम्बार्थमृणं दर्शयति” कात्या० “कुटुम्बार्थमशक्ते तु गृहीतं व्याधिते तथा। उपप्लवनिमित्तं च विद्यादापत्कृतन्तु तत्। कन्यावैवाहिके चैव प्रेतकार्य्येषु यत् कृतम्। एतत् सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः”। पुत्रकृते विशेषमाह नार० “पितुरेव नियोगाद्वा कुटुम्बभरणाय वा। कृतं वा यदृणं कृच्छ्रे दद्यात् पुत्रस्य तत्पिता”। स्त्रियाः पतिकृ तर्ण्णदाने विशेषमाह कात्या० “मर्त्तुकामेन या भर्त्त्रा उक्ता देयमृणं त्वया। प्रतिप्रन्ना च सा दाप्या धनं यद्याश्रितं स्त्रियाम्”। नार० “दद्यादपुत्रा विधवा नियुक्ता या मुसूर्षुणा। या वा तद्रिक्थमादद्यात् यतोरिक्थमृणं ततः”। मातुर्निर्धनत्वेऽपि तत्कृतर्ण्णं पुत्रेण देयमाह” नारदः “पुत्रिणी तु समुत्सृज्य पुत्रंस्त्री यान्यमाश्रयेत्। तस्य ऋणं हरेत् सर्वं निःस्वाया पुत्रएव तु”। सधनत्वे तामद्वोढैव दद्यात” यथाह कात्या० “बालपुत्राधिकार्था स्यात् भर्त्त्रारं यान्यमाश्रिता। आश्रितस्तमृणं दद्यात् बालपुत्राविधिः स्मृतः”। अविभक्तर्ण्णे विशेषमाह विष्णुः अविभक्तैः कृतमृणं यस्तिष्ठति स दद्यात्”। नारदः “पितृव्येणाविभक्तेन भ्रात्रा वा यदृणं कृतम्। मात्रा वा यत् कुटुम्बार्थे दद्युस्तत् सर्व ऋक्थिनः” अविभ्रक्तकाले कुटुम्बार्थे कृतमृण विभक्तैरपि देयमह मनुः। “ग्रहीता यदि नष्टः स्यात् कुटुम्बार्थे कृतोव्ययः। दातव्यं बान्धवैस्तत् स्यात् प्रविभक्तैरपि स्वतः”। कामकृतर्ण्णमाह कात्या०। “लिखितं मुक्तकं वापि देयं यत्तु प्रतिश्रुतम्। परपूर्वस्त्रियै तत्तु विद्यात् कामकृतं नृणाम्” मुक्तकं लेखरहितम्। अनेकधनिसमवाये विशेषमाह कात्या०। “नानर्ण्णसमवाये तु यद्यत् पूर्बकृतं भवेत्। तत्तदेवाग्रतो देयं राज्ञः स्याच्छ्रोत्रियात् परम्। एकाहे लिखितं यत्र तत्र कुर्यादृणं समम्। ग्रहणं रक्षणं लाभमन्यथा तु यथाक्रमम्”। भिन्नदिवसे कृतं श्रोत्रियपूर्वकं देयम्। एकदिनकृतननर्ण्ण समवाये युगपद्देयम् धनाल्पत्वबहुत्वयोस्तु तदनुसारेण भागं परिकल्प्य देयमित्यर्थः। अत्र विशेषमाह कात्या “यस्य द्रव्येण यत्पण्यं साधितं यो विभायेत्। तद्द्रव्यमृणिकेनैव दातव्यं तस्य नान्यथा” यदुत्तमर्ण्णात् द्रव्यं गृहीत्वा वाणिज्यादिकं करोति तस्मात् लब्धधनं तस्मै एव देयं तत्सत्त्वे नान्यस्मै इत्यर्थः। पैतामहपित्रर्ण्णयोरग्रे देयतामाह वृह० “पित्र्यं पूर्वमृणं देयं पश्चादात्मीयमेव च। तयोः पैतामहं पूर्वं देयमेवमृणं सदा। पित्रर्ण्णे विद्यमाने तु न च पुत्रो धनं हरेत्। देयं तद्धनिके द्रव्यं मृते पौत्रैस्तु दाप्यते”। एवं मातृकर्णेऽपि “मातुर्दुहितरः शेषमृणात्ताभ्य ऋतेऽन्वयः” या० उक्तेः। पुत्रपौत्रादिभिर्देय ऋणे विशेषमाह विष्णुः “धनग्राहिणि प्रेते प्रव्रजिते वा द्विदशाः समाः प्रोषिते वा तत्पुत्रपौत्रैर्देयं नातः परमनीप्लुभिः” प्रेते अप्राप्त व्यवहारस्य विंशतिवर्षोत्तरं, संन्यस्ते प्रोषिते च सर्वस्यैव तत् कालोत्तरं देयम्। एतच्च अप्राप्तधनस्य गृहीतधनस्य तु तत् क्षणाद्देयता ऋणावशेषधनग्रहणस्यैव प्रागुक्तशास्त्रसिद्धेः। ऋणापकरणाभावे दोषमाह व्यासः “तपस्वी वाग्निहोत्री वा ऋणवान् म्रियते यदि। तपर्श्चवाग्निहोत्रञ्च सर्वं तद्धनिनो भवेत्”। अन्यकृतपुण्यस्यान्यत्र संक्रमाप्रसप्तोरस्य चिन्दार्थवादता तेन तत्तत्पुण्यनाशकतेति पर्य्यवमितोऽर्थः। कात्या० “उद्धारादिकमादाय स्वामिने न ददाति यः। कन्तस्य दासो भृत्यः स्त्री पशुर्वा जायते गृहे” तथा नारदः “याच्यमानं न दद्याद्य ऋणं वापि प्रतिग्रहम्। तद्द्रव्यं वर्द्धते तस्य यावत् कोटिशतं भवेत्। ततः कोटिशते पूर्ण्णे वेष्टितस्तेन कर्म्मणा। अश्वः स्वरो वृषो दासो भवेज्जन्मनि जन्मनि” तेनर्ण्णानपक्रियाया उक्तपश्वादियोनिप्राप्तिहेतुदुरदृष्टजनकत्वम्। ऋणग्रहणमेव पापहेतुः तच्छोधनस्य तन्नाशकतेति गदाधर आह स्म।<

ऋणावन् = त्रि० ऋण–वनिप् दीर्घश्च। ऋणवात। “ऋणावानं न पतयन्त सर्गैः” ऋ० १, १६९, ७। ऋणावानमृणवन्तम्” भा०। “ऋणावा बिभ्यद्धनम्” ऋ० १०, ३४, १०।

ऋणान्तक = पु० ऋणमन्तयति अन्ति–नामधा० ण्वुल्। मङ्गलग्रहे शब्दरत्ना० तत्सेवने ऋणमोचनात्तस्य तथात्वम्।

ऋणापकरण = न० ६ त०। ऋणशोधने ऋणापनयनादयोऽप्यत्र।p>

ऋणिक = त्रि० ऋणमस्त्य स्य ठन्। ऋणयुक्ते (खातक) “द्बिगुणं प्रतिदातव्यमृणिकैस्तस्य तद्धनम्” या०।

ऋणिन् = त्रि० ऋणमस्त्य स्य इनि स्त्रियां ङीप्। ऋणयुक्ते (खातक) “ऋणी न स्यात् यथा पिता” स्मृ०। “समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेद्”। “जायमानोवै ब्राह्मणस्त्रिभिरृणैरृणी भवति” श्रुतिः।

ऋणिधनिचक्र = न० तन्त्रोक्ते ग्राह्यमन्त्रशु भाशुभज्ञानार्थे चक्र भेदे तच्चक्रलेखनप्रकार उक्तः तन्त्रसारे “अथ ऋणिधनिचक्रम्। तद्यथा रुद्रया० “कोष्ठन्येकादशैवेह वेदेन पूरितानि च। अकारादिहकारान्तं लिखेत् कोष्ठेषु तन्त्रवित्। प्रममं पञ्चकोष्ठेषु ह्रस्वदीर्घक्रमेण तु। द्वयं द्वयं लिखेत् तत्र विचारे खलु साधकः। शेषेष्वेकैकशोवर्णान् क्रमतस्तु लिखेत् सुधीः। षट्कालकालवियदग्निसमुद्र वेदखाकाशशून्यदहनाः खलु साध्यवर्णाः। युग्मद्विप ञ्चवियदम्बरयुक्शशाङ्कव्योमाब्धि वेदशशिनः खलु साध्यकार्णाः। नामाज्झलादकठबाद्गजभक्तशेषं ज्ञात्वोभयोरधिकशेषमृणं धनं स्यात्”। अस्यार्थः साध्यवर्णान् स्वरव्यञ्जनरूपेण पृथक्कृतान् षट्कालाद्यङ्कैर्गणितान् (मिलितान्) तथा साधकनामाक्षराणि स्वरव्यञ्जनरूपेण पृथक्कृतानि युन्माद्यैरङ्कैर्गणयित्वा (सकङ्कलय्य) अष्टसंख्याभिर्हृत्वा उभयोः साध्यसाधकयोश्चाधिकम् ॠणंशेषं धनं ज्ञात्वा मन्त्रं दद्यात्। मन्त्रश्चेदृणी भवति तदा मन्त्रः शुभदायको भवति धनी चेन्न। तन्त्रान्तरे “मन्त्रस्त्वृणी शुभफलोऽप्यशुभो धनी च तुल्यो यदा समफलः कथितो मुनीन्द्रैः”। अन्यच्च “शून्ये मृत्युमवाप्नोति धने च विफलोभवत्। ऋणे तु प्राप्तिमात्रेण सर्वसिद्धिस्तु जायते” तथा रुद्रयामले “मन्त्रे यद्यधिकाङ्कः स्यात्तदा मन्त्रं जपेत् सुधीः। समेऽपि जपेन्मन्त्रं न जपेत् तु ऋणाधिके। शून्ये मृत्युं विजानीयात् तस्मात् शून्यं विवर्ज्जयेत्। “तथा इन्द्रर्क्षनेत्र रविपञ्चदशर्त्तुवेदवह्न्यायुधाष्टनवभिर्गुणितानथ साध्यवर्णान्। दिग्सूगिरिश्रुतिगजाग्निमुनीषुवेदैः षड्वह्निभिस्तु गुणितानथ साधकार्णान्” इदन्तु वचनं विष्णुविषयम् रामार्चनचन्द्रिका धृतत्वादिति केचित्। वस्तुतस्तु पूर्वस्यैव विवरणं तथा हि इन्द्रर्क्षनेत्रेत्याद्यनन्तरं “नामार्णकोष्ठाङ्मथाभिहन्यात् एकादिरुद्राङ्कगतक्रमेण”। व्यक्तं रुद्रयामसे “साध्याङ्कान् साधकाङ्कांश्च पूरयेद्ग्रहसंख्यया। गुणिते तु हृतेऽष्टाभिर्यच्छेषं जायते स्फुटम्। तदङ्कं कथयाम्यत्र एकादशगृहस्थितम्” इत्युक्त्वा षट्कालेत्याद्युक्तम्। प्रकारान्तरं यथा “नामाद्यक्षरमारभ्य यावत् मन्त्रादिमाक्षरम्। त्रिधाकृत्वा स्वरैर्भिन्नं तदन्यद्विपरीतकम्”। अस्यार्थः साधकनामाद्यक्षरतोगणनया यावत् मन्त्रादिमाक्षरम् तत्संख्यां त्रिधा कृत्वा सप्तभिर्हृत्वा अधिकम् ऋणं शेफंधनं स्यात्। तदन्यदिति मन्त्राद्यक्षरमारभ्य यावत् साधकाद्यक्षरं भवेत् तावत् संख्यां सप्तगुणां कृत्वा त्रिभिर्हरेत्। अन्यच्च “साध्यनाम द्विगुणितं साधकेन समन्वितम्। अष्टभिश्च हरेच्छेषं तदन्यद्विपरीतकम्”। अस्यार्थः साध्यनामस्वरव्यञ्जनभेदेन द्विगुणीकृत्य साधकनाम्ना स्वरव्यञ्जनभेदेन मिलितं कृत्वा अष्टभिर्हरेत् अधिकम् ऋणं शेषं धनम्। तदन्यदिति साधमनाम खण्व्यंञ्जनभेदेन द्विगुणीकृत्य साध्यं न युक्तं कृत्वा अष्टभिर्हरेत्। नामग्रहणप्रकारमाह पिङ्गलामते। “प्रसिद्धं यद्भवेन्नाम किं वास्य जन्मनामतः। यवीनां पुष्पपातेन गुरुणा यत् कृतं भवेत्। लोकप्रसिद्धमथ वा मात्रा पित्रा तथा कृतम्”। यामले “सुप्तोजागर्त्तियेनासौ दूरस्थश्च प्रभाषते। वदत्यन्यमनमस्कोऽपि तन्नाम ग्राह्यमत्र तु”। सनत्कुमारीये “पितृमातृकृतं नाम त्यक्त्वा शर्मादिदेवकान्। श्रीवर्ण्णञ्च ततो विद्वान् चक्रेषु योजयेत् क्रमात्”

***