—ऊ—

= ऊकारः स्वरवर्णभेदः “ओष्ठजावुपू” इत्युक्तेः ओष्ठस्थानोच्चारणीयः स च उदात्तानुदात्तस्वरितभेदात् त्रिविधः दीर्घएव द्वाभ्यां मात्राकालाभ्यामुच्चार्यत्वात् तस्य प्लुतत्वोक्तिश्चिन्त्या त्रिमात्रकालस्यैव प्लुतत्वात् व्यञ्जकाकारभेदाच्च प्लुतस्य पार्श्वस्थत्र्यङ्कचिह्नितह्रस्वाकारेणैव लेखनसमाचारात्। त्रिविधोऽपि अनुनासिकाननुनासिकभेदात् द्विधा तेन षड्विधः तस्योच्चारणे विवार आन्तरप्रयत्नः “स्वराणामूष्णणाञ्चैव विवृतं करणं स्मृतम्” शिक्षोक्तेः विवृतञ्च जिह्वाग्रादेः स्पर्शाभावः। “अचोऽस्पृष्टायणस्त्वीषत्, नेमस्पृष्टाः शलः स्मृताः” इति शिक्षोक्तेः तस्य तन्त्रे शुक्लाद्याकारतया ध्येयतोक्ता यथा “शुक्लकुन्दसमाकार ऊकारः परकुण्डली” कामधेनुतन्त्रम्। तस्य वामकर्णे सविन्दु कतया निर्वन्दुकतया वा मातृकान्यासे न्यासः। अतएव वामकर्णशब्देन तस्याभिधेयता “ईशानः सेन्दुवामश्रवणपरिगतो वीजमन्यन्महेशि!” कर्पूरस्तवे हूङ्कारमन्त्रोद्धारः। ततः स्वरूपे कारप्रत्ययः। तप्रत्ययश्च। अधिकं स्वरवर्ण्णसमाप्तौ वक्ष्यते।

= अव्य० वेञ् क्विप्। १ सम्बोधने, २ वाक्यारम्भे, ३ दयायां, ४ रक्षायाञ्च मेदि० उञः स्थाने इतौ परे अनुनासिक ऊ~ इति आदेशे तदर्थे तस्य प्रगृह्यत्वादितौ न सन्धिः।

= पु० अवतीति अव–क्विप् ऊठ्। १ महादेवे २ चन्द्रे च। ३ पालके त्रि० शब्दरत्ना०

ऊढ = पु० वह–प्रापणे ज्ञानार्थत्वात् १ कर्त्तरि क्त। १ कृतविवाहे पुंसि “परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात्” अमरः क्तवतु ऊढवत् तत्रैव पु०। कर्मणि क्त। कृतविवाहायां स्त्रियाम् स्त्री। “भार्योढं तमवज्ञाय तस्थे सौमित्रयेऽसकौ” भट्टिः “कन्या पितुर्धनहरी यद्यनूढा मवेत्तदा” स्मृतिः “ऊढानूढासमवायेऽनूढैव प्रथमं धनहारिनी” दायक्र०। ऊढमाख्यत्” इति वाक्ये औजढत् त सि० कौ० औडढत् त इत्यन्ये। ३ कृतवहने धृते त्रि०। अस्य प्रशब्देन प्रा० स० वृद्धिः। प्रौढः “प्रौढकन्यायादोषदर्शनात्” रघु० “अथवद्ग्रहणेनार्थकस्येति” परिभाषया प्रोढवानित्यत्र न वृद्धिः

ऊढकङ्कट = पु० ऊढो धृतः कङ्कटःकवचोयेन। धृतकवचे वर्म्मिते।

ऊढि = स्त्री वह–भावे क्तिन् संप्र०। १ वहने २ विवाहे च। प्र + ऊढि प्रा० स० वृद्धिः। प्रौढिः। ऊढिमाख्यत् औजिढत् त सि० कौ० औडिढत्त इत्यन्ये।

ऊत = त्रि० वेञ्–क्त संप्र० दीर्घः। १ कृतवयने २ ग्रथिते। ऊयीतन्तुसन्ताने क्त। ३ स्यूते “यस्मिन्नोतञ्च प्रोतञ्च” श्रुतिः। अव–क्त ऊठ्। ४ रक्षिते त्रि०।

ऊति = स्त्री अव–क्तिन् ऊठ्। १ रक्षणे। “देवस्य यन्त्यूतयो विविधाः” ऋ०३, १४, ६, “शतमस्मान् सहस्रमूतयः” ४, ३१, १०, कर्त्तरि क्तिच् ऊठ्। २ रक्षितरि “उरुष्यन्तम्माध्वीदस्रा न ऊतीः” ऋ० ४४, २, “ऊतीःऊतयःरक्षन्तः” भा० ऊय–वेञ् वा क्तिन्। ३ सीवने (सेलाइ) ४ वयने (वोना) ५ क्षरणे शब्दचि०। ६ लीलायाम् “नचास्य कश्चिन्निपुणेन धातुरवैति जन्तुः कुमनीष ऊतीः” भा० १, ५, ३८, “ऊतीर्लीलाः” श्रीधरः वेञ्–कर्मणि कर्त्तरि वा क्तिन् क्तिच् वा। पु राणलक्षणमध्ये ७ कर्म्मवासनारूपे तल्लक्षणभेदे। “तस्मादिदं भागवतं पुराणं दशलक्षणम्” इत्युक्त्वा “अत्रसर्गोविसर्गश्च स्थानं पोषणमूतयः। मन्वन्तरेशानुकथा निरोधोमुक्तिराश्रयः” इति दश लक्षणान्युद्दिश्य तेषां लक्षणान्युक्तानि यथा “भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः। ब्रह्मणो गुण्यवैषम्यात् विसर्गः पौरुषः स्मृतः। स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः। मन्वन्तराणि सद्धर्म्मऊतयः कर्म्मवासनाः। अवतारानुचरितं हरेश्चास्यानुवर्त्तिनाम्। पुंसामीशकथाः प्रोक्ताः नानाख्यानोपवृंहिताः। निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः। मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिः। आभासश्च निरोधश्च यतोऽस्त्यध्यवसीयते। स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते” भाग० २, १०, २, ८ “कर्म्मणां वासनाः ऊयन्ते कर्मभिः संतन्यन्ते इत्यूतय यद्वा वृद्ध्यर्थात् संश्लेषार्थाद्वा वयतेर्धातोरिदं रूपम्। ऊयन्ते कर्मभिर्वर्द्धन्ते संश्लिष्यन्ते वा ऊतयः” श्रीधरः

ऊधन् = न० ऊषस् + पृषो० सस्य नः। स्त्रीपशोः दुग्धाधीरस्थाने (मेड) “वत्सो न मातुरुप सर्ज्यूधनि” ऋ०९, ६९, १। “यदा पीतासो अंशवो गावो न दुह्र ऊधभिः” ८, ९, १९। “प्र धेनवः सिस्रते वृष्ण ऊध्नः” ऋ० ८, २२, ६।

ऊधर = न० ऊधस् + पृ० सस्यरः। स्त्रीगव्यादेः ऊघसि (मेढ) “ऊधर्नलग्ना जरन्ते” ऋ० ८, २, १२।

ऊधस् = न० उन्द–क्लेदने असुन् किच्च दीर्घः। स्त्रीगव्यादेः दुग्धा धारे स्थाने(मेढ) “गवामूधस्सुवक्षणासु” ऋ० १०, ४९, १०। “यदैव स्त्रियै स्तनावाप्यायेते ऊधः पशूनाम्” शत० ब्रा० २, ५, १, ५। अस्य बहु० स० अनङ् समा० ङीप्। पीनोघ्नी घटोघ्नी। “भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि” रघुः। अस्त्रियान्तु न कुण्डोधेधैनुकम्” सि० कौ०। अनन्तत्वेनेवोपपत्तौ अनङ्विधानं समासे सान्तप्रयोगवारणार्थम्। समासान्तविधेरनित्यत्वात् क्वचिन्न “मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम्। अमिनन्द्य स तां राजन्नन्दिनीं गाधिनन्दनः” भा० आ० १७५ अ०। आर्षत्वाद्वा तथा प्रयोगः। लोके तु न तथा। तत्र भवः शरीरावयवत्वात् यत्। ऊधस्य तद्भवे दुग्धे न०। “ऊधस्यमिच्छामि तवोपभोक्तुम्” रघुः। प्राशस्त्ये मतुप् मस्य वः ङीप्। ऊधस्वती प्रशस्तोधोयुक्तायां गवि। “सिषिचुःस्म व्रजान् गावः पयसोधस्वतीर्मुंदा” भा० १, १०, ५। ऊधसे हितम् गवादि० यत् अनङ् च। ऊधन्य ऊधसोहिते द्रव्यभेदे, यद्भोजने आपीनं पीनं भवति तस्मिन् द्रव्ये त्रि०। २ रात्रौ निरु० तस्याश्च हि मकरकरसम्पर्केण क्लेदयोगात्तथात्वम्।

ऊन = परिहाणे अदन्तचुरा० उभ० सक० सेट्। ऊनयति ते औनिनत् त लुङि वा चङ् औनयीत् औनयिष्ट। ऊनः ऊनितः। “मा त्वायतोजरितुर्मामूनयीः” ऋ० १, ५, ३, ३।

ऊन = त्रि० ऊन–हानौ अच्। १ हीने, २ असंपूर्णे च। “ऊनं न सत्वेष्वधिकोबबाधे” “किञ्चिदूनमनूनर्द्धेः शरदामयुतं ययौ” रघुः। “ऊने दद्याद्गुरूनेव यावत् सर्व्वलघुर्भवेत्” वृ० र०। “ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः” मनुः “ऊनं वाप्यधिकं वापि लिखेद्यो राजशासनम्” याज्ञ०। ऊनार्थशब्दयोगे तृतीया। एकेनोनः। ऊनार्थकशब्देन वा तृतीयास०। माषेणोनः माषोनः कलोनः कलयोनः। एकोनविंशतिः एकोनत्रिंशत् एकोनचत्वारिंशत् एकोनपञ्चाशत् एकोनषष्टिः एकोनसप्ततिः एकोनाशीतिः एकोननवतिः एकोनशतम्। तत्तत्संख्याया एकैकोनसंख्यायाम्। एवं द्व्यूनविंशत्यादयोपि अष्टादशादिसंख्यासु। संख्यासु एकत्वस्य प्रथमोपस्थितत्वात् एकशब्दाप्रयोगेऽपि एकत्वेनैवोनत्वाबगमात् ऊनविंशत्यादिशब्दानामेकोनविंशत्यादीनांवोधकत्वम्। “एकेन द्वाभ्यामित्यूनके निचृतः” सर्वानु०।

ऊनचत्वारिंश = त्रि० ऊनचत्वारिंशतः पूरणः डट्। ऊनचत्वारिंशद्संख्यापूरणे एवमूनविंश उनत्रिंश उनपञ्चाश इत्यादयः तत्तत्संख्यापूरणेषु। स्त्रियां ङीप्। तत्रार्थे तमप्। ऊनचारिंशत्तम तदर्थे। एवसूनविंशतितमादयस्तत्तत्संख्यापूरणेषु स्त्रियां ङीप्।

ऊबध्य = न० ऊ–ईषदर्थे बध्यं जीर्ण्णम्। ईषज्जीर्ण्णे तृणादौ “यदूबध्यमुदरस्यापयाति” ऋ० १, १६२, १० “ऊबध्यम् अजोर्ण्णं तृणादि” भा० “अपामतिं दुर्मतिं बाधमाना ऊबध्यं वातं सर्व्वं तदारात्” यजु० १९, ८४, “ऊबध्यमामाशयगतम् वेददी०। २ तत्स्थाने च “एतद्वोऽत्र तद्धरध्वमिति सर्पेभ्योयत्तत्रासृगूबध्यं वावस्रुतं भवति तद्धरन्ति सर्पाः” आश्व० गृ० ४, ९, २६। अस्य अन्तःस्थ व मध्यत्वमित्येके।

ऊबध्यगोह = पु० ऊबध्यस्य गोहः प्रच्छादनं यत्र। आन्त्रप्रच्छादनस्थाने। “सव्यावृतः शामित्रोबध्यगोहचात्वालोत्करास्तावान्” आश्व० गृ० श्रौ० ५, ३, १६, “ऊबध्य गोहोनाम आन्त्रप्रच्छादनस्थानम्” नारा० वृ०।

ऊम् = अव्य० ऊय–मुक्। १ रोषोक्तौ, २ प्रश्ने, ३ निन्दायां, ४ स्पर्द्धायाञ्च।

ऊम = न० अव–मन् कित् ऊठ् च। नगरभेदे उज्ज्वलद०। कर्त्तरि मन्। २ रक्षितरि त्रि०। “परि व ऊमेभ्यः सिञ्चता मधु” ऋ० १०, ३२, ५, “ऊमेभ्यो रक्षितृभ्यः” भा०। भावे मन्। ३ रक्षणे न०। “ये मर्त्यं पूतनयान्तमूभैः” १, १६९, ७, ऊमैः अल्परक्षणैः” भा०। उज्ज्वलदत्तस्तु तस्य वा० ह्रस्व प्रकल्प्य उमाशब्दमाह। स च उमाशब्दार्थे। वेञोरूपम् यदि वाऽवतेः रूपमुभयथापि बा० ह्रस्व इति बोध्यम्

ऊय = तन्तुसन्ताने भ्वा० ईदित् आत्म० सक० सेट्। ऊयते औयिष्ट। ईदित्त्वात् निष्ठायां नेट् ऊतः ऊतवान् ऊतिः

ऊररी = अव्य० ऊय–बा० ररीक्। १ अङ्गीकारे, ३ विस्तारे च। कृञि गतिस० ऊररीकृत्य। क्त ऊररीकृत अङ्गीकृते विस्तीर्णे च त्रि०। घञ् ऊररीकारः अङ्गीकारे विस्तारे च पु०।

ऊरव्य = पुंस्त्री ऊरौ भवः शरीरावयवत्वात् यत्। १ वैश्यें तज्जातिस्त्रियां टाप् योपधत्वात् न ङीप्। वैश्यानां ब्रह्मण ऊरुजातत्वञ्च “ब्राह्मणोऽस्य मुखमासीत् बाहू राजन्यः कृतः। ऊरू तदस्य यद्धैश्यः पद्भ्यां शूद्रो अमायत” यजु० ३१, ११, उक्तेः “लोकानां स विवृद्ध्यर्थं सुखबाहूरुपादतः। ब्राह्मणं क्षत्रियं वैश्यं शूद्रञ्च निरवर्त्तयत्” मनूक्तेश्च। तस्य वृत्तिरपि तत्रोक्ता। “मुखबाहूरुपज्जानां पृथक् कार्य्याण्यतन्त्रितः” इत्युपक्रम्य” “पशूनां रक्षणं दानमिज्याध्ययनमेव च। बणिक्पथं कुमीदञ्च वैश्यस्य कृषिमेव च”। २ ऊरुभवमात्रे त्रि०।

ऊरी = अव्य० ऊय–बा० रीक्। १ अङ्गीकारे, २ विस्तारे च। ऊर्य्यादि० कृञि गतिसमासादि ऊररीवत् द्रष्टव्यम्।

ऊरु = पु० ऊर्णूयते आच्छाद्यते ऊर्णु–कर्मणि कु नुलोपश्च। जानूपरिभागे तस्य वस्त्रादिभिराच्छादनीयत्वात् तथात्वम्। “निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषुलोलचक्षुषः” “करभकरोरुभिरूरुभिर्दधानैः” माघः। “कदली कदली, करभः करभः करिराजकरः करिराजकरः। भुवनत्रितये न बिभर्त्ति तुलामिदमूरुयुगं न चमूरुदृशः” प्रसन्नरा०। “धात्रीकराभ्यां करमोपमोरुः” “भुजमूर्द्धोरुबाहुल्यादेकोऽपि धनदानुजः” रघुः अस्य उपमानपूर्ब्बकत्वे उत्तरपदस्थस्य बहु० स० स्त्रियाम् ऊङ्। करभोरूः “करभोरु! रतिप्राज्ञे द्वितीये पञ्चमेऽप्यहम्” विद्यासुन्द० संहितशफलक्षणवामपूर्वकस्यापि ऊङ्। संहितोरूः सम्यघितोरुका इत्यर्थः शफाविव संश्लिष्टौ ऊरू यस्याः शफोरूः। लक्षणयुक्तावूरू यस्याः लक्षणोरूः। वामौ मनोहरौ ऊरू यस्याः वामोरूः “त्रस्यन्तो चलशफरीविघट्टितोरुर्वामोरूरतिशयमाप विभ्रमस्य” किरा०। सहितसहपूर्व्वकस्यापि तादृशस्य ऊङ्। सहितौ हितयुतौ ऊरू यस्याः सहितीरूः। भारं सहेते सहावूरू यस्याः सहोरूः। ऊरौ भवः शरीराबयवत्वात् यत्। ऊरव्य ऊरुभवे वैश्ये पुंस्त्री तद्भवमात्रे त्रि०। स्वाङ्गतयाऽस्मात् निष्ठान्तात् बहु० स स्त्रियां ङीष्। ऊरुभिन्नी।

ऊरुग्राह = पु ऊरू गृह्णाति स्तभ्राति ग्रह–अण् उप० स०। ऊरुस्तम्भरोगे ऊरुस्तम्भशब्दे विवृतिः। “ऊरुग्राहगृहीताश्च केचित्तत्राभवन् भुवि” भा० द्रो० १४६ अ०।

ऊरुज = पुंस्त्री ऊरोर्जायते जन–ड। वैश्ये स्त्रियां जातित्वात् ङीष्। २ ऊरुजातमात्रे त्रि० ऊरुजातोरुजन्मादयोप्युभयत्र। ३ भृगुवंश्ये और्वे ऋषिभेदे पु० तस्य ऊरुतोजन्मकथा भा० आ० १७८, ७९ पु० “कृतवीर्य इति ख्यातो बभूव पृथिवीपतिः। याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः। स तानग्रभुजस्तात। धान्येन च घनेन च। सोमान्ते तर्पयातास विपुलेन विशाम्पते!। तस्मिन्नृपतिशार्द्दूले स्वर्यातेऽथ कथञ्चन। वभूव तत्कुलेयान। द्रव्यकार्यमुपस्थितम्। भृगूणान्तु धनं ज्ञात्वा राजानः सर्व्व एव ते। याचिष्णवोऽभिजम्मुस्तांस्ततो भार्गवसत्तमान्। भूमौ तु निदधुः केचित् भृगवो धनमक्षयम्। ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्त्रियतो भयम्। भृगवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम्। क्षत्त्रियाणां तदा तात! कारणान्तरदर्शनात्। ततो महीतलं तात! क्षत्रियेण यदृच्छया। खन- ताधिगतं वित्तं केनचिद्भृगुवेश्मनि। तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः। अवमन्य ततः क्रोधाद्भृगूंस्ताञ्छरणागतान्। निजघ्नुः परमेष्वासाः सर्वांस्तान्नि शितैः शरैः। आगर्भादवकृन्तन्तश्चेरुः सर्वां वसुन्धराम्। तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा। भृगुपत्न्यो गिरिं दुर्गं हिमवन्तं प्रपेदिरे। तासामन्यतमा गर्भं भयाद्दध्रे महौजसम्। ऊरुणैकेन वामोरूर्भर्त्तुः कुलविवृद्धये। तद्गर्भमुपलभ्याशु व्राह्मण्यास्तु भयार्द्दिता। गत्वैका कथयामास क्षत्रियाणामुपह्वरे। ततस्ते क्षत्रिया जग्मुस्तं गर्भं हन्तुमुद्यताः। ददृशुर्ब्राह्मणीं तेऽथ दीप्यमानां स्वतेजसा। अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह। मुष्णन् दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः। ततश्चक्षुर्विहीनास्ते गिरिदुर्गेषु बभ्रमुः। ततस्ते मोहमापन्ना राजानो नष्टदृष्टयः। ब्राह्मणीं शरणं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम्। ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः। ज्योतिःप्रहीणा दुःखार्त्ताः शान्तार्च्चिष इवाग्नयः। भगवत्याः प्रसादेन गच्छेत् क्षत्रं सचक्षुषम्। उपरम्य च गच्छेम सहिताः पापकर्मणः। सपुत्त्रात्वं प्रसादं नः मर्त्तुमर्हसि शोभने!। पुनर्दृष्टिप्रदानेन राज्ञः सन्त्रातुमर्हसि। ब्राह्मण्युवाच। नाहं गृह्णामि वस्ताता! दृष्टीर्नास्मि रुषान्विता। अयन्तु भार्गवो नूनसूरुजः कुपितोऽद्य वः। तेन चक्षूंषि वस्ताता! व्यक्तं कोपान्महात्मना। स्मरता निहतान् बन्धूनादत्तानि न संशयः। गर्भानपि यदा नूनं भृगूणां घ्नत पुत्त्रकाः!। तदायमूरुणा गर्भो मया वर्षशतं धृतः। षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव ह। विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया। सोऽयं पितृबधाद्व्यक्तं क्रोधान्धो हन्तुमिच्छति। तेजसा तस्य दिव्येन चक्षूंषि मुषितानि वः। तमिमं ताता। याचध्वमौर्वं मम सुतोत्तमम्। अयं वः प्रणिपातेन तुष्टो दृष्टीः प्रमोक्ष्यति। वसिष्ठ उवाच। एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम्। ऊचुः प्रसीदेति तदा प्रसादञ्च चकार सः। अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः। स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत। चक्षूंषि प्रतिलब्ध्वा च प्रतिजग्मुस्ततो नृपाः”।

ऊरुदघ्न = त्रि० ऊरु + “प्रथमश्च द्वितीयश्च ऊर्द्धमाने मतौ मम” वार्त्तिकोक्तेः ऊर्द्धमाने दघ्नच्। ऊरुपर्य्यन्तोर्द्धमानान्विते खातादौ। “यावानुद्वाहुःपुरुषस्तावत् क्षत्रियस्य कुर्य्यात् मुस्वदघ्न ब्राह्मणस्योपस्थदघ्नं स्त्रिया ऊरुदघ्नं वैश्यस्याष्टीवद्दघ्नं शूद्रस्यैवंवीर्य्याह्येते” शत० ब्रा० १३, ८, ३, ११। “ऊरुदघ्नो द्वितीयोजानुदघ्नस्तृतीयः १२, २, १, ३। अत्रार्थे द्वयसच् तत्परिमाणे उभयत्र स्त्रियां ङीप्।

ऊरुपर्व्वन् = पु० ऊर्वोः पर्बेव। जानुनि (हांटु)।

ऊरुरी = अव्य० ऊय–रुरीक्। १ अङ्गीकारे २ विस्तारे च ऊर्यादि० गतित्वात् कृञि स०। ऊरुरीकृत्य। घञ्। ऊरुरीकारः अङ्गीकारे विस्तारे च पु०। क्त। ऊरुरीकृत अङ्गीकृते विस्तीर्णे च त्रि०।

ऊरुस्तम्भ = पु० ऊरू स्तभ्राति स्तन्भ–अण् उप० स०। १ रोगभेदे स च रोगः भावप्र० सनिदानपूर्वरूपादिर्दर्शितः यथा “शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्निषेवितैः। जीर्णाजीर्णतयायाससंक्षोभस्वप्नजागरैः। सश्लेष्ममेदःपवनः साममत्यर्थसञ्चितम्। अभिभूयेतरं दोषमूरू चेत् प्रतिपद्यते। शक्थ्यस्थिनी प्रपूर्य्यान्तः श्लेष्मणा स्तिमितेन सः। तदा स्तभ्नाति तेनोरूस्तब्धौ शीतावचेतनौ। परकीयाविव गुरू स्याता मतिशयव्यथौ। ध्यानाङ्गमर्द्दस्तैमित्यतन्च्छर्द्यरुचिज्वरैः। संयुतौ पादसदनकृच्छ्रोद्धरणसुप्तिभिः। तमूरुस्तम्भमित्याहु राढ्यपादमथाप” “प्राग्रूपं तस्य निद्राऽतिध्यानं स्तिमितता ज्वरः। रोमहर्षोऽरुचिच्छर्द्दिर्जङ्घोर्वोः सदनं तथा। वातशङ्किभिरज्ञानात्तत्र स्यात् स्वेहनात् पुनः। पादयोः सदनं सुप्तिः कृच्च्राद्युद्धरणं तथा। जङ्घोरुग्लानिरत्यर्थं शश्वदादाहवेदना। पदं च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च। संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः। अन्यनेयौ हि सम्भग्नाषूरुपादौ च मन्यते। यदा दाहार्त्तितोदादौ वेपनः पुरुषो भवेत्। ऊरुस्तम्भस्तदा हन्यात् साधयदन्यथा नवम्” अन्यथा दाहाद्युक्तोपद्रवरहितं तमपि नवमुत्पन्नमात्रं साधयेत्। सात्विकभावेन २ ऊर्वोःस्तम्भे च। “करिणीवोरुस्तम्भविधृता” काद०।

ऊर्ज्ज = बलाधाने जीवने वा अदन्तचु० पक्षे भ्वा० अक० तत्करणे सक० सेट्। उर्ज्जवत्। नाभयो वाजिनमूर्जयन्ति” ऋ०९, ८९, ४, “यो ह्येबान्नमत्ति स प्राणिति तमूर्ज्जयति” शत० ब्रा०७, ५, १, १८, “तां वो देवाःसुमतिमूर्ज्जयन्तीमिषमश्याम” ऋ०५, ४१, १८।

ऊर्ज्ज = स्त्री ऊर्ज्ज–भावे क्विप्। १ बले। करणे क्विप्। २ अन्ने न०। ३ अमृतरसाभिधेयेऽन्नस्य अत्यन्तसारभूते रसभेदे स्त्री “विश्वेदेवा यामूर्ज्जं मदन्ति” ऋ० ७, ४९, ४, “यास्त ऊर्ज्जस्तन्वः सम्बभूवुः” अथ०१२, १, १२, इह पृथिव्याः सम्बोधनेन तस्या विकारान्नसूक्ष्मांशत्वमूर्जामुक्तम्। “स ऊर्जमुपजीवतीति” वृ० उ० “ऊर्ज्जं सूक्षितिं सूम्नम्” ऋ० २, २०, “उर्गस्वाङ्गिरस्यूर्णम्रदा ऊर्ज्जं मयि धेहि” यजु० ४, ४०, “ऊर्क् अन्नरसरूपा” वेददी० ऊर्ज्जं बलं धेहि इत्यर्थः “अन्नमूलं बलं पुंसाम्” इत्युक्तेः अन्नरसस्य वलाधायकत्वम्। “तमःसमूहाकृतिमप्यशेषादूर्जा जयन्तं प्रथितप्रकाशान्” भट्टिः ऊर्ज्जा बलेन “बलमूर्ज्जञ्च यच्छति” मनुः अत्र बलोर्जोभेदोदैहिकमानसिकत्वाभ्यां शारीरिकं बलमूर्क् इति बोध्यम्। ४ जले स्त्री। “ऊर्जो नपातं स हि नायमस्मयुः” यजु० २७, ४४, ऊर्क्शब्देनाप उच्यन्ते अद्भ्योवृक्षाजायन्ते ततोऽग्निः इत्यग्नेरप्पौत्रत्वम्। वेददी०। “जर्ज्जांपते पाहि” यजु०२७, ४३।

ऊर्ज्ज = पु० ऊर्जति रसादिकं सोमोऽत्राधारे अच्। १ कार्त्तिके मासि तस्य शरदृतोरुत्तरावयवत्वात् तत्र सोमेन रसवीर्याधिक्यवर्द्धनेन तथात्वम्। “इषोर्जौ शरत्” इत्युपक्रम्य अयने विभज्य च “तयोर्दक्षिणं वर्षाशरद्धेमन्तास्तेषु भगवानाप्यायते सोमोऽम्ललवणमधुररसा बलवन्तो भवन्त्युत्तरोत्तरं च सर्वप्राणिनां बलमभिवर्द्धते” सुश्रुते शरदृतोरन्तिमस्य कार्त्तिकस्य उत्तरोत्तरबलाधिक्याभिधानेनास्य तथा त्वम्। करणे अच् घञ् वा सेट्कत्वान्न कुत्त्वम्। २ उत्साहे। भावे अच् घञ् वा। ३ बले ४ जीवने च। करणे अच् घञ् वा। ५ जले न० “ऊर्जं वहन्तीरमृतं घृतं पयः कीलालम्” यजु० २, ३४। जलस्योर्जाधायकतात् अन्नस्य जलाधीनतयैव बलहेतुत्वाच्च तथात्वम् “ऊर्जसन! ऊर्ज्जं धाः” ऋ०६, ४, ४, “ऊर्जस्य सने! अन्नस्य दातः!” भा० “ऊर्जाद उत यज्ञियासः” ऋ०१०, ५३, ४। ऊर्जादः अन्नादाः भा० “अत्र ऊर्जशब्दःअन्नगतं रसमभिधत्ते तेन तदाधायकत्वात् तथा त्वम्। “तदक्षितर्पणादेघ लभेतोर्जमसंशयम्” सुश्रु० कर्त्तरि अच्। ६ बलान्विते त्रि० “कृतजगत्त्रयभूर्जमतङ्गजम्” माघः।

ऊर्ज्जयोनि = पु० ऋषिभेदे “ऊर्ज्जयोनिरुदापेक्षी नारदोऽपि महानृषिः” भा० अनु० ४ अ०।

ऊर्ज्जव्य = पु० राजभेदे “सिषेक्तु न ऊर्ज्जव्यस्य पृष्ठेः” ऋ० ५, ४१, २०, ऊर्ज्जव्यस्य एतन्नामकस्य राज्ञः” भा०

ऊर्ज्जस् = न० ऊर्ज्ज–असुन्। १ उत्साहातिशयाधायके बले २ अन्नरसभेदे च। ततोऽस्त्यर्थे विनि उर्ज्जस्विन्, बलच् ऊ- र्जस्वल, मतुप् मस्यवः। ऊर्ज्जस्वत्। तद्वति त्रि० तत्र विन्यन्तस्य मतुबन्तस्य च स्त्रियां ङीप्। “ऊर्ज्जस्वन्तं हविषोदत्त भागम्” ऋ० १०, ५१, ८, “ऊर्ज्जस्वती चासि पयस्वती च” थजु० १, २७, “ऊर्जस्वन्तं मन्यमानम् आत्मानं भगवानजः” भाग० ३, २०, ४२, “ऊर्ज्जस्वलं हस्तितुरङ्ग मेतत्” भट्टिः “भोक्तारमूर्ज्जस्वलमात्मदेहम्” रघुः “ऊर्ज्जस्विन्य ऊर्ज्जमेधाश्च यज्ञे” भा० अनु० ७६ अ०। “अन्नमूर्ज्जस्करं लोके दत्त्वोर्ज्जस्वी भवेन्नरः” भा० अनु० ११२ अ० ऊर्जः करोति। ऊर्जस् + कृ–अच् ६ त०। अमृतायमानरसाधायके त्रि०। “ऊर्ज्जस्करान् हव्यवाहान्” भा० व० २२ अ०।

ऊर्जा = स्त्री भ्वा० ऊर्ज–भावे अ। १ बले २ उत्साहे ३ अन्नरसविकारे ४ वृद्धौ च। ३ ऊर्ज्जास्त्यस्य मतुप् मस्य वः। ऊर्जावत् बलान्विते वृद्धिमति च त्रि० स्त्रियां ङीप्। “ऊर्जावतीं महापुण्यां मधुमतीं त्रिवर्त्मगाम्” भा० अनु० २६ अ०।

ऊर्ज्जित = त्रि० ऊर्ज्ज–कर्त्तरि क्त। १ बलान्विते २ वृद्धियुक्ते च। “मातृकं च धनुरूर्ज्जितं दधत्” रघुः। “विनिहत्य वलमूर्ज्जितश्रीः” माघः। भावे क्त। ३ बले ४ सामर्थ्ये ५ उत्साहे च न०। “उपपत्तिमदुर्ज्जिताश्रयम्” किरा० णिच् क्त। कृतवृद्धौ ६ वर्द्धिते त्रि०। “हिमकरोमकरोर्ज्जितकेतनम्” रघुः।

ऊर्ण्ण = न० ऊर्णा अस्त्यस्य कारणत्वेन अर्श० अच्। मेषलोमरचितवस्त्रादौ “ऊर्ण्णञ्च राङ्कवं चैव कीटजं पट्टजं तथा। कुटीकृतं तथैवात्र कमलानां सहस्रशः। श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम्” भा० स० ५० अ०। २ मेषलोम्नि स्त्री। “माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य” रघुः “कार्पासकीटजोर्णानां द्विशफैकशफस्य च” मनुः। ३ ललाटस्थचिह्नभेदे उर्ण्णाशब्दे उदा०। स च चक्रवर्त्तित्वसूचकः भ्रूद्वयमध्यगत मृणालतन्तुसूक्ष्मांशुनिभः प्रशस्तायतः। नरलक्षणशब्दे वक्ष्यते।

ऊर्ण्णनाभ = पु० उर्ण्णनाभवत्। (माकडशा) १ लूतायाम् “यस्तूर्णनाभ इव तन्तुभिः प्रधानजैः” छा० उ०। गोत्रप्रवर्त्तके २ ऋषिभेदे ततः अपत्ये शिवा० अण्। और्णनाभ तदपत्ये पुंस्त्री। स्त्रियां ङीप्। तस्य परिशीलितोदेशः राजन्या० वुञ्। और्णनाभक तच्छीलितदेशे। समासान्तंविधेरनित्यत्वात् क्वचित् अच् न। “नाचारेण विना सृष्टिरूर्णना- भेरपीष्यते। न च निःसाधनः कर्त्ता कश्चित् सृजति किञ्चन” शब्दा० धृतवाक्यम्। “यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति” मुण्डकोप०।

ऊर्ण्णम्रदस् = त्रि० ऊर्ण्णमिव ऊर्ण्णानिर्म्मितवस्त्रमिव म्रदीयः अतिशयेन मृदु वेदे म्रदीयस् + नि० ईयसोरीयोलोपः। ऊर्णतुल्यातिमृदौ “ऊर्ण्णम्रदा युवतिर्दक्षिणावतः” ऋ०१०, १८, १०, “ऊर्ण्णम्रदसं त्वा स्तृणामि” यजु०२, २, “ऊर्गस्याङ्गिरस्यूर्णम्रदा ऊर्जं मयि धेहि ४, १०। अत्र मृदुत्वेनोर्ण्णाया उपमानतोक्तेः काश्मीरदेशजस्य (पशम) प्रसिद्धस्य आविकलोमम्र एव ऊर्ण्णत्वं तस्यैवातिमृदुत्वात्।

ऊर्ण्णवाभि = पु० ऊर्णनाभिः पृ० परोक्षे वा नस्य वः। (माकडसा)। लूतायां “यथोर्ण्णवाभिस्तन्तुनोच्चरेत्” शत० ब्रा० १४, ५, १, २३।

ऊर्ण्णामय = ऊर्ण्णा + विकारे मयट्। मेषलोभविकारे सूत्रादौ “ऊर्णामयं कौतुकहस्तसूत्रम्” कुमा०।

ऊर्ण्णायु = त्रि० ऊर्ण्णा–अस्त्यर्थे युस् सित्त्वात् भत्वाभावेन न आतो लोपः। १ ऊर्ण्णाविशिष्टे “हंसमूर्ण्णायुं वरुणस्य नाभिम्” यजु०१३, ५० “ऊर्ण्णायुमूर्णावन्तम्” वेददी०। २ गन्धर्वभेदे “ऊर्ण्णायुश्चित्रसेनश्च हाहा हुहूश्च भारत! हरिवं० १२८ अ० “बहुभिः सह गन्धर्वैः प्रागास्वत च तुम्बरुः। महाश्रुतिश्चित्रशिरा ऊर्ण्णायुतनयस्तथा” भा० २६१ अ०। “सोमदा नाम गन्धर्वी उर्ण्णायुदु हताऽभवत्” रामाय०।

ऊर्ण्णावन = त्रि० ऊर्ण्णा अस्त्यर्थे बा० वनच्। उर्ण्णायुक्ते। “अ थावेः इममूर्ण्णायुमित्यूर्ण्णावनं इत्येतद्वरुणस्य नाभिम्” शत० ब्रा०७, ५, २, ३५।

ऊर्ण्णास्तुक = त्रि० अस्तीति विभक्तिप्रतिरूपवस् अव्यावम् ऊर्ण्णास्त्यत्र बा० ऊक। ऊर्ण्णायुक्ते “ऊर्ण्णास्तुके केशपक्षयोर्बद्धे भवतः” आश्व० गृ० १, ७, १७,

ऊर्ण्णु = आच्छादने अदा० उभ० सक० सेट्। ऊर्ण्णौति ऊर्ण्णोति ऊर्ण्णुतः ऊर्णुवन्ति ऊर्णुते। ऊर्ण्णुयात् ऊर्णुवीत। ऊर्ण्णोतु ऊर्ण्णौतु ऊर्णुहि ऊर्ण्णुताम्। और्ण्णौत् और्ण्णोत्। और्णुत। और्ण्णवीत् और्ण्णावीत् और्ण्णुवीत् और्ण(र्णा)(र्णु) विष्ट उर्ण्णुनाव उर्ण्णुनुवतुः। उर्ण्णुनुविरे। ऊर्ण्णु(र्ण) विता। ऊर्णूयात् ऊर्ण्णु(र्णु)विषीष्ट। ऊर्ण(र्ण्णु)विष्यति ते और्ण्णु(र्ण)विष्यत् त। ऊर्ण्णुवन् ऊर्ण्णुवानः ऊर्ण्णुतः। “स द्यामौर्ण्णोदन्तरिक्षम्” अथ० ७, १, २, “उर्णुनाव दिशः शस्त्रैः” “दृष्ट्वोर्ण्णवानान् ककुभो बलौघान्” भट्टिः “ऊर्ण्णना- भिर्यथोर्णुते” भा० २, ९, २७,। सनि ऊर्ण्णुनूषति ते ऊर्ण्णुनुविषति ते ऊर्ण्णुनविषति ते।अप + अपसृतावरणे “अपीवृता अपोर्ण्णुवन्तो अस्थुः” ऋ० १ १९०, ६, “अपोर्ण्णुवन्तः अपगतनिरसनवन्तः” भा०।अभि + आभिमुख्येन आच्छादने। “अभ्यूर्ण्णोति यन्नग्नं भिषक्ति” ऋ० ८, ७९, २,आ–समगाच्छादने। “इन्द्रं सोमैरोर्ण्णुत जूर्ण्णवस्त्रैः” ऋ० २, १४, ३प्र–प्रच्छादने। प्रौर्ण्णुवन् शरवर्षेण तानपौहीन्निशाचरः”। “प्रोर्णुवन्तं दिशोवाणैः” भट्टिः।वि–विगतापवरणे प्रकाशने। “सवितर्व्यूर्णुषेऽनुचीना” ऋ०४, ५४, २, “व्यूर्णुसे प्रकाशयसि” भा०

ऊर्द्द = उर्द्दधातुवत्।

ऊर्द्द = त्रि० ऊर्द्द–अच्। क्रीडायुक्ते स्त्रियां गौ० ङीष्।

ऊर्द्दर = न० ऊर्ज्जा बलेन दृणाति दृ–“ऊर्ज्जि दृणातेरलचौ पूर्ब्बान्त्यलोपश्च” उणा० अल् अच् वा ऊर्ज्जोऽन्त्यलोपश्च ३ त०। १ शूरे २ राक्षसे च उज्ज्वल०। उद्दीर्ण्णम् पूर्ण्णम् उद् दृ–अच् वृषो० उद ऊरादेशः। धान्याधारभेदे कुसूले माधवः। “ऊर्द्दरं पृणता यवे नेद्धम्” ऋ०३, १४, ११। उद्दीर्णम् ऊर्द्दरं कुसूलम्” भा०

ऊर्द्ध(र्द्ध्व) = त्रि० उद्–हाङ्–ड पृषो० ऊरादेशः। १ उच्चे २ उपरि ३ उपरितने च “प्रबोधयत्यूर्द्धमुखैर्मयूखैः” कुमा० “नीलोर्द्धरेखाशवलेन शंसन्”। “व्यक्तोर्द्धरेखाभ्रुकुटीर्वहद्भिः” “गङ्गेवोर्द्धप्रवर्त्तिनी” रघुः। ४ उत्पाटिते उर्द्धकचः हेम०। ५ अनुपविष्टे दण्डायमाने “आसीनः ऊर्द्धः प्रह्वो वा नियमोयत्र नेदृशः” छन्दो० “ऊर्द्ध्वः अनुपविष्टः” श्रा० त० रघु०। ६ उत्क्षिप्ते “ऊर्द्धग्रावाणः” ऋ० ३, ५४, १२। ऊर्द्धग्रावाणः सोमाभिषणार्थमुद्धृतग्रावाणः भा०। ह्वयतेर्वा ड तेन सवकारत्वमपि तत्रार्थे

ऊर्द्ध(द्ध्व)क = पु० ऊर्द्धः सन् कायति शब्दायते। मृदङ्गभेदे स च गोपुच्छ्ववदाकारस्त्रितालपरिमितः मुखेऽष्टाङ्गुलः ऊर्द्धं धृत्वा वाद्यते। “ऊर्द्धकोगोपुच्छ्वसमस्त्रितालोऽष्टाङ्गुलो मुखे। धृत्वोर्द्ध्वं वाद्यते” शब्दार्ण्णवोक्तेः। “हरीतक्याकृतिस्थङ्क्यस्तथालिङ्ग्योयवाकृतिः। ऊर्द्धकोदण्डतुल्यः स्यात् सुरजाभेदतोमताः” शब्दचि०।

ऊर्द्ध(र्द्ध्व)कच = त्रि० ऊर्द्ध्वा उत्पाटिता कचा यस्य। विकचे हेम० स्त्रियां स्याङ्गत्वात् वा ङीष्।

ऊर्द्ध(र्द्ध्व)कण्ठ = त्रि० ऊर्द्ध्वः कण्ठोऽस्य। १ उन्नतकन्धरे स्त्रियां वा ङीष। २ महाशतावरीलतायां स्त्री ङीप् राजनि०।

ऊर्द्ध(र्द्ध्व)कर्म्मन् = न० ऊर्द्धं ऊर्द्ध्वदेशप्राप्त्यर्थं कर्म क्रिया। उत्थानक्रियायाम् उदोऽनूर्द्ध्वकर्मणि” पा०। ऊर्द्ध्वचेष्टोर्द्धक्रियादयोऽय्यत्र। बहु० स०। तत्कर्म्मवति त्रि० स्त्रियां वा डाप्।

ऊर्द्ध्वकाय = पुंन०। ऊर्द्ध्व्वं कायस्य एकदे ३ त०। देहस्योर्द्धभागे

ऊर्द्ध्वकेतु = त्रि० ऊर्द्ध्वः उच्छ्रितः केतुर्यस्य यत्र वा। १ ऊच्छ्रितध्वजे राजादौ तथाभूतपुर्य्यां स्त्री। २ जनकवंशजे नृपभेदे पु०। “ऊर्द्धकेतुःसनद्वाजादजोऽथ पुरजित्सुतः” भाग० ९, १३, १३।

ऊर्द्ध्वकेश = पु० ऊर्द्ध्वः केश इव कुशाग्रं यस्य। “ऊर्द्ध्वकेशो भवेद् ब्रह्मा लम्बकेशस्तु विष्टरः” स्मृत्युक्ते कुशमयब्राह्मणे। उन्नताग्रकेशयुक्ते त्रि० स्त्रियां वा ङीष्

ऊर्द्ध्वग = त्रि० ऊर्द्ध्व्वं गच्छति गम–ड। १ उपरिगते। “भुवा सहोद्माणममुञ्चदूर्द्ध्वगम्” कुमा० शरांश्चाशीविषाकारानूर्द्ध्वगान् दीप्ततेजसः” भा० व० २२ अ०। ऊर्द्धगतदेहस्थवायुकृते २ रोगभेदे “ऊर्द्ध्वगे रक्तपित्ते च शीतमम्भः प्रशस्यते” सुश्रु० “तस्योर्द्धगोऽनिलः कार्श्यं दौर्बल्यं पाण्डुगात्रता” सुश्रु०। सर्वेषामुपरिगतत्वात् ३ परमेश्वरे पु० “ऊर्द्ध्वगः सत्पथाचारः” विष्णुसह०। “सर्वेषामुपरि तिष्टन्नूर्द्ध्वगः” शा० भा०। ऊर्द्धगतिशालिनि ४ धार्म्मिके त्रि० “धर्म्मेण गमनमूर्द्धमधस्ताद्भवत्यधर्म्मेण” सां० का० धर्म्मेणोर्द्धगत्यभिधानात् धार्म्मिकस्य तथात्वम्। ऊर्द्ध्वगतादयोऽप्यत्र। ५ ऊर्द्धगतियुक्ते उत्थायिनि त्रि०।

ऊर्द्ध्वगति = स्त्री० ऊर्द्ध्वं गतिः। १ ऊर्द्ध्वगमने। यथा ज्वलनादेः यथोक्तं सुश्रु० “उष्णतीक्ष्णरूक्षखरलघुविशदं रूपगुणबहुल मीषल्लवणं कटुकरसप्रायम् विशेषतश्चोर्द्धगतिस्वभाव मिति तैजसं ससूहनपचनदारणतापप्रकाशनप्रभावर्ण्णकरमिति”। ऊर्द्धज्वलनादयोऽप्यत्र। “भ्रमणं रेचनं स्यन्दनोर्द्ध्वज्वलनमेव च। तिर्यग्गमनमप्यत्र गमनादेव लभ्यते” भाषा०। “प्रसिद्धमूर्द्धज्वलनं हविर्भुजः” माघः ऊर्द्धगतिश्च लाघवातिशवेन भवति सत्वस्य च लघुत्वामूर्द्ध्वगतिहेतुत्वमुक्तम्” सा० का० “सत्वं लघु प्रकाशकमिष्टमुपष्टम्भकञ्चलञ्च रजः”। “तत्र कार्योद्गमने हेतुर्लाघवं गौरवप्रतिद्वन्द्वि, यतोऽग्नेरूर्द्धज्वलनं भवति” सा० कौ०। २ ऊर्द्धलोके खर्गादौ गमने च तद्धेतुश्च धर्मः “धर्मेण गमनमूर्द्धमिति” सा० का० उक्तेः “ऊर्द्ध्वं गच्छन्ति सत्वस्थाः” इति गीतोक्तेश्च सात्विकभावमात्रस्यापि तद्धेतुत्वम्। ऊर्द्धम् देहात् ३ उत्क्रमणे। ऊर्द्धं गतिर्यस्य ४ ऊर्द्धगामिति त्रि०।

ऊर्द्ध्वगपुर = न० कर्म०। अम्बरस्थपुरे खपुरे हरिश्चन्द्रपुरे त्रिका०। हरिश्चन्द्रशब्दे तत्पुरस्योर्द्धत्वं वक्ष्यते। २ त्रिपुरासुरपुरे च तत्पुरस्याम्बरस्थत्वमुक्तम् हरिवं० ३२४ अ० यथा “त्रिपुरं पुरुषव्याघ्र! वृहद्धातुसमीरितम्। विक्रामति नभोमध्ये मेघवृन्दमिवोत्थितम्। प्राकारेण प्रवृद्धेन काञ्चनेन विराजता। मणिभिश्च प्रकाशद्भिः सर्वरत्नैश्च तोरणैः। बभासे नभसो मध्ये श्रिया परमया ज्वलत्। गन्धर्बाणामिवोदग्रं कर्म्मणा साधितं पुरम्। वाजिनः पक्षसंयुक्ता वहन्ति बलदर्पिताः। पुरं प्रभाकरं श्रेष्ठ मनोभिः कामचारिणः। धावन्तो हेषमाणाश्च विक्रमैः प्राणसंभृतैः। आह्वयन्त इवाकाशं खुरैः शष्पदलप्रभैः। वायुवेगसमैर्वेगैः कम्पयन्त इवाम्बरम्। सर्वतः समदृश्यन्त चक्षुर्भिर्विदितात्मभिः। ऋषिभिर्ज्वलनप्रख्यैस्तपसा दग्धकिल्विषैः। गीतवादित्रबहुलं गन्धर्वनगरोपमम्। चित्रायुधसमाकीर्णैः प्रतप्तकनकप्रभैः। भवनैर्बहुवर्णैश्च पांशुभिः समलङ्कृतैः। देवेन्द्रभवनाकारैः शुशुभे तन्महाद्युति। प्रासादाग्रैः प्रवृद्धैश्च कैलासशिखरप्रभैः। शुशुभे दैत्यनगरं बहुसूर्य्यमिवाम्बरम्। चयाट्टालकसम्पन्नं तप्तकाञ्चनसप्रभम्। क्ष्वेडितोत्कुष्टबहुलं सिंहनादविनादितम्। बभौ वल्गुजनाकीर्णं वनं चैत्ररथं यथा। समुद्धतपताकं तदसिभिश्च विराजितम्। रराज त्रिपुरं राजन्। महाविद्युदिवाम्बरे”।

ऊर्द्ध्वचरण = पु० ऊर्द्ध्व उर्द्धस्थः श्चरणोऽस्य। १ तपस्विभेदे ऊर्द्ध्व्वपादादयोऽप्यत्र। २ अष्टपादे शरभे च तस्याष्टानां पादानां मध्ये चतुर्ण्णामूर्द्धस्थत्वात् तथात्वम्।

ऊर्द्ध्वजानु = त्रि० उर्द्धमुच्चम् जानु यस्य। उच्चजानुके वा कप् ऊर्द्धजानुक नदर्थे। कवभावपक्षे वा जानुनोज्ञुः ऊर्द्धज्ञु तदर्थे “क्षणमयममुभूय स्वप्नमूर्द्धज्ञुरेव” माघः अत्रार्थे ऊर्द्ध्वज्ञः इति द्विरूपकोषः पृषो० साधु।

ऊर्द्ध्वथा = अव्य० उद्ध + बा० थाल्। ऊर्द्ध्व्वप्रकारे उर्द्ध इत्यर्थे च “प्र श्मश्रु दोधुवदूर्ध्वथाऽभूत्” ऋ० १०, २३, १।

ऊर्द्ध्वदंष्ट्रकेश = पु० उर्द्धदष्ट्रकाणामुन्नतदंष्ट्राणां भूतानामीशः। १ महादेवे “नमोर्द्धदंष्ट्रकेशाय शुक्लायावतताय च। विलोहिताय धूम्राय नोलग्रीवाय वै नमः” भा० शा० २८६ अ० नमोर्द्धेत्यत्र “सैषदाशरथी रामः” इति वत् पादपूरणाय सन्धिः।

ऊर्द्ध्वदृष्टि = स्त्री ऊर्द्ध्व्वा भ्रुबोर्मध्यस्था दृष्टिः। उपासनाङ्गे योगार्थं भ्रुवोरन्तरालस्थदृष्टौ २ ऊर्द्धोत्क्षिप्तदृष्टौ च ऊर्द्धा दृष्टिरस्य बहु०। ३ तादृशदृष्टियुते ४ ऊर्द्धेत्क्षिप्तदृष्टि युक्ते च ऊर्द्ध्वनेत्रोर्द्धदृगादयोऽप्यत्र।

ऊर्द्ध्वदेव = पु० ऊर्द्ध्व उच्चो देवः। १ पञ्चमेश्वरे २ विष्णौ शब्दरत्ना०

ऊर्द्ध्वदेह = पु० ऊर्द्ध्वःमरणोत्तरं भावी देहः। मरणोत्तरभाविनि देहे “ऊर्द्धदेहनिमित्तार्थमहं दातुं जलाञ्जलीन्” रामा० ऊर्द्धदेहाय साधु “ऊर्द्धन्दमाच्च देहाच्च लोकोत्तरपदस्य च” का० ठञ्। और्द्धदेहिक मरणोत्तरकर्त्तव्ये श्राद्धादौ तच्च कर्म्म स्मृतिषु प्रसिद्धम् और्द्धदेहिकशब्दे विवृतिः।

ऊर्द्ध्वनभस् = पु० उर्द्धं नभोयस्य। नभोमध्ये वर्त्तमाने वायौ “स्वाहाकृते ऊर्द्ध्वनभसं मारुतं गच्छतम्” यज० ६, १६,

ऊर्द्ध्वन्दम = त्रि० ऊर्द्ध्व्वम् + दम–अच्। ऊर्द्ध्व्वस्थे त्रिका० ततो भवाद्यर्थे ठञ्। और्द्ध्वन्दमिक तद्भवादौ त्रि०।

ऊर्द्ध्वपात्र = न० ऊर्द्ध्व्वं नेतव्यं पात्रम्। यज्ञपात्रे उलूस्वलादौ “सौवर्णरजदीनामूर्द्धपात्रग्रहाश्मनाम्” याज्ञ० “ऊर्द्धपात्रम् यज्ञियोलुखलादि ग्रहादिसाहचर्य्यात्” मिता०

ऊर्द्ध्वपुण्ड्र = पु० ऊर्द्ध्व ऊर्द्ध्वमुखः पुण्ड्रः इक्षुयष्टिरिव। ललाटस्थे ऊर्द्ध्वमुखे पुण्ड्रेक्षवत् रेखात्मके तिलकभेदे। तद्धारणे विधिनिषेधादिकं निरूप्यते। “ऊर्द्धपुण्ड्रं मृदा कृर्यात् त्रिपुण्ड्रं भस्मना सदा। तिलकं वै द्विजः कुर्याच्चन्दनेन यद्दृच्छया” श्रा० त० पु०। “ऊर्द्ध्वपुण्ड्रं द्विजः कुर्यात् क्षत्रियस्तु त्रिपुण्ड्रकम्। अर्द्धचन्द्रन्तु वैश्यश्च वर्त्तुलं शुद्रयोनिजः” आ० त० ब्रह्मा० पु०। “अशुचिर्वाप्य नाचारो मनसा पापमाचरन्। शुचिरेव भवेन्नित्यमूर्द्धपुण्ड्राङ्कितोनरः” ऊर्द्धपुण्ड्रधरो मर्त्योम्रियते यत्र कुत्रचित्। श्वपाकोऽपि विमानस्थो मम लोके महीयते” इति ब्रह्मपु०। तद्धारणे वैदिकद्विजातिरिक्तस्यैवाधिकारः यथोक्तं देवीभागवते श्रीनारायणेन “ऊर्द्धपुण्ड्रं त्रिशूलञ्च वर्त्तुलं चतुरस्रकम्। अर्द्धचन्द्रादि वा लिङ्गं वेदनिष्ठो न धारयेत्! जन्मना लब्धजातिस्तु वेदपन्थानमाश्रितः। पुण्ड्रान्तरं भ्रमाद्वापि ललाटे नैव धारयेत्। ख्यातिकान्त्यादिसिद्ध्यर्थमपि विष्ण्वावगमादिषु। स्थितं पुण्ड्रान्तरं नैव घारयेद्वैदिकोजनः”। नि० सि० सूतसं० “विष्ण्वागमादितन्त्रेषु दीक्षितानां विधीयते। शङ्खचक्रगदापद्मैरङ्कनं नान्यदेहिनाम्। वेदमार्गैकनिष्ठस्तु मोहेनाप्यङ्कितोयदि। पतत्येव न सन्देह स्तथा पुण्ड्रान्तरादपि। शङ्खचक्राद्यङ्कनं च गीतनृत्यादिकं तथा। एकजातेरयं घर्म्मो नं जातु स्यात् द्विजन्मनः”। “शङ्खचक्रमृदा यस्तु कुर्य्यात् तप्तायसेन वा। स शूद्रवद्बहिः कार्य्यः सर्व्वस्मा- द्द्विजचर्म्मणः” यथा श्मशानजं काष्ठमनर्हं सर्व्वकर्म्मसु। द्विजस्तु तप्तशङ्खादिलिङ्गाङ्किततनुस्तथा। संभाष्य कौरवं याति यावदिन्द्राश्चतुर्दश” वृहन्ना०। “शिवकेशवयोरङ्कान् शूलचक्रादिकान् द्विजः। न धारयेत मतिमान् वैदिके वर्त्मनि स्थितः” ततश्च त्रिपुण्ड्रादिधारणविधायकवाक्यं वैदिकेतरद्विजविषयम् शूद्रविषयञ्च। यदपि ब्राह्मणस्य तद्धारणविधानम् “अग्निहोत्रं यथा नित्यं वेदस्याध्ययनं यथा। ब्राह्मणस्य तथेवेह तप्तमुद्रादिधारणम्” पद्मपु०। “ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यदि वेतरः। शङ्खचक्राङ्किततनुस्तुलसीमञ्जरीधरः। गोपीचन्दनलिप्ताङ्गोदृष्टश्चेत्तदघं कुतः” काशी०। तदपि वैदिकेतवविप्रपरम् सर्वसामञ्जस्यात् एवं शस्त्रार्थेस्थितेऽपि कुलाचारात् तस्यसर्वैः कर्त्तव्यता। तथैव भारतटीकायां नीलकण्ठेन निर्ण्णीतम् यथा “श्रोणामेक उदकं गामवाजति मांसमेकः पिंशति सूनया भृतम् आ निम्रुचः शकृदेको अपाभरत् किं स्वित् पुत्रेभ्यः पितरावुपावतुः” श्रुतिः। “अस्यार्थःहे ऋभवः! भवतां मध्वे एकः श्रोणां श्लक्ष्णां गां मृदं गोपीचन्द्रनादिरूपां तीर्थ निकटस्थां मुख्यकर्मभूतां प्रति उदकं जलं गौणकर्म अवाजति अवगमयति अन्तर्भावितण्यर्थोऽजतिः। श्रीणां गाम् उदकेन मिश्रयतीत्यर्थः श्रोणां गां रक्तचन्दनादिरूपां वा तथा। एकः सूनया हिंसया तत्कर्त्त्रा आभृतं आहृतं मांसं गोरोचनाख्यं पिंशति पिनष्टि उदकेन सह इति शेषः निम्रुचः नितरामस्तं गच्छतो दग्धेन्धनस्याग्नेः सम्बन्धि शकृत् गोमयं शुष्कगोमयोत्थं भस्मेति यावत् अपाभरत् अपाहृतवान् अत्राप्युदकेन सहेति शेषः व्यवहिताश्चेतिछन्दसि व्यवहितेनाप्युपसर्गेण क्रियायाः सम्बन्ध। हृग्रहो र्भश्छन्दसीति हस्यभ। एतानि मन्त्रपदानि असंपूर्णार्थत्वात् स्वार्थलाभाय ब्राह्मणमपेक्षन्ते इषे त्वोर्जे त्वेत्यादिमन्त्रवत् तत्र यथा “इषे त्वेति शाखां छिनत्ति ऊर्जे त्वेत्यनुमार्ष्टीति” ब्राह्मणानुसारात् हे शाखे त्वा त्वाम् इषे अन्नाय छिनद्मीति ऊर्जे पशुभ्यः अनुमाज्र्मीति व्याख्यातम् एवमिहापि वासुदेवोपनिषद्ब्राह्मणतन्त्रपुराणोपवृंहणानुसारात् ऊर्द्धपुण्ड्रार्थं श्लक्ष्णां मृदं जलेन मिश्रयेदिति व्याख्येयं तथा कालाग्निरुद्रवृहज्जाबालाद्युपनिषद्ब्राह्मणतन्त्रपुराणोपवृंहणानुसारात् त्रिपुण्ड्रकर्त्तुः निम्रुचः शकृदपाभरदिति च व्याख्येयम् एवमितरस्यापि पदस्य ब्राह्मणमन्त्रलिङ्गाद्युपवृंहणे स्मृतिभ्यश्चाष्टकाप्रपा विधिवदनुमेयं तथाच श्रोणामिति पदस्य रक्तामिति व्याख्याने सौरशाक्तगाणेशानां रक्तमेव पार्थिवं द्रव्य पुण्ड्रार्थे तत्तत्तन्त्रे विधीयते वैष्णवानां पीतं शैवानां भस्मेति अनेन तत्तत्पुण्ड्रविशेषोपलक्षिततत्तद्देवता भजनेनापि देवताभावं प्राप्नुवन्तीति विघीयते। केवलवैदिकानां तु श्रोणां श्लक्ष्णामिति व्याख्यानेन त्रितयस्यापि समुच्चयः “स्नात्वा पुण्ड्रं मृदा कुर्यात् धुत्वा चैब तु भस्मना। देवान् विप्रान् समभ्यर्च्य चन्दनेन समाचरेदिति” स्मृतिभ्यः अत्र गोरोचनाग्रहणं चन्दनाद्यष्टगन्धोपलक्षणार्थम् एतेषां विकल्पसमुच्चयपक्षाणां पितृपैताह परंपराक्रमेण व्यवस्थामाह किं स्वित् पुत्रेभ्यः पितरा वुपावतुरिति पुत्रहितार्थे यत्किञ्चिद्व्रतं पितरौ माता पितरौ पितृपितामहौ वा उपेत्य स्वीकृत्य अवतुः व्रतं सम्यक् परिपालयामासतुः तदेव तस्य श्रेयः साधनति त्यर्थः एवं सति तीर्थानि यज्ञादयस्तन्त्रमार्गेण सूर्य्याद्यन्यतमोपास्तिः केवलवैदिकता चेति देवताभावप्राप्तिसाधनानि” इत्यन्तेन। श्राद्धकर्म्मणि तु त्रिपुण्ड्रादौ विधिनिषेधयोर्व्यवस्था नि० सि० उक्ता यथा। “जपे होमे तथा दाने स्वाध्याये पितृकर्मणि। तत्सर्वं नश्यति क्षिप्रमूर्द्ध्वपुण्ड्रबिनाकृतमिति” हेमाद्रावुक्तेः। “यज्ञोदानं जपो होमः स्वाध्यायः पितृकर्म च। वृथा भवति विप्रेन्द्रा! ऊर्द्ध्वपुण्ड्रविनाकृतमिति” वृहन्नारदीयात् “ऊर्द्ध्वञ्च तिलकं कुर्य्याद्दैवे पित्न्ये च कर्मणीति” वृद्धपराशरोक्तेश्च ऊर्द्धपुण्ड्रधारणं पैत्रे विहितम्। अन्ये तु “ऊर्द्ध्वपुण्ड्रोद्विजातीनामग्निहोत्रसमोविधिः। श्राद्धकाले च संप्राप्ते कर्त्ता भोक्ता च वर्जयेदिति” वामहस्ते च ये दर्भा गृहे रङ्गबलिन्तथा। ललाटे तिलकं दृष्ट्वा निराशाः पितरो गताः” इति संग्रहोक्तेः “ऊर्द्ध्वपुण्ड्रं त्रिपुण्ड्रंवा चन्द्राकारमथापि वा। श्राद्धकर्त्ता न कुर्वीत यावत् पिण्डान्न निर्वपेत्” इति विश्वप्रकाशे वचनाच्च न धार्य्यमित्याहुः। अत्र कुलाचारादेव व्यवस्था। अत एव वृहन्नारदोयेः “ऊर्द्ध्वपुण्ड्रञ्च तुलसीं श्राद्धे नेच्छन्ति केचन” इत्यत्रृकेचनेत्युक्तम् ऊर्द्ध्वपुण्ड्रविधिः श्राद्धभोक्तृपरः, निषेधः कर्तृपरः इति पृथ्वीचन्द्रः। यत्तु हेमाद्रौ देवलः “ललाटे पुण्ड्रकं वृष्ट्वा स्कन्धे माल्यं तथैव च। निराशा पितरो यान्ति दृष्ट्वा च वृषलीपतिमिति”। तद्गन्धत्रिपुण्ड्रविषयम्। “प्राकिपण्डदानात् गन्धाद्यैर्नालङ्कुर्य्यात्स्वविग्रहम्” इत्याश्वलायनोक्तेः पुण्ड्रं वर्त्तुलमित्यपरार्के मदनरत्ने च। पृथ्वीचन्द्रस्तु “पुण्ड्रं त्रिपुण्ड्रम् ऊर्द्ध्वञ्च तिलकं कुर्य्यान्न कुर्य्याद्वै त्रिपुण्ड्रकम्। निराशाः पितरो यान्ति दृष्ट्वा चैव त्रिपुण्ड्रकमिति” वृद्धपराशरोक्तेः। भोक्तुस्तिर्य्यग्लपो भवत्येव। “वर्जयेत्तिलकं भाले श्राद्धकाले च सर्वदा। ऊर्द्ध्वपुण्ड्रंत्रिपुण्ड्रं वा धारयेत्तु प्रयत्नतः” इति व्यासोक्तेरित्याह”। पृथ्वीचन्द्रोदये ब्राह्मे “सहदर्भेण हस्तेन यः कुर्य्यात्तिलकं बुधः। आचम्य स विशुध्येत दर्भत्यागेन चैव हि”।

ऊर्द्ध्वपृश्नि = पु० ऊर्द्ध्व्वाः पृश्नयोविन्दवोऽस्य। पशुभेदे। अश्वमेधे तृतीययूपे बन्धनोयमारुतपशुकीर्त्तने “पृश्निस्तिरश्चीनपृश्निरूर्द्ध्वपृश्निस्ते मारुताः” यजु० २४, ४,

ऊर्द्ध्वबर्हिस् = पु० ऊर्द्ध्वं प्रागग्रं बर्हिर्येषाम्। सोमपाख्ये पितृभेदे “स्वाहा पितृभ्य ऊर्द्ध्वबर्हिर्भ्यो धर्म्मपावभ्यः” यजु० ३, १५, “ऊर्द्ध्वबर्हिर्भ्यः सोमपाभ्यः” वेददी०

ऊर्द्ध्वबाहु = पु० ऊर्द्ध्व उत्तोलितो बाहुः कर्म्म०। १ ऊर्द्धोत्तोलिते बाहौ “तद्यदेनमूर्द्धबाहुमभिषिञ्चति” शत० ५, ४, १, १७,। बहु०। २ प्रसारितबाहुके त्रि० ऊर्द्ध्वबाहुः प्राञ्चं प्रगृह्णात्यूर्द्ध्व ऊ षू ण इति” कात्या० १६, ३, ८, ऊर्द्ध्वबाहुः प्रसारिबाहुः” कर्कः “पञ्चमोरैवतो नाम मनुस्तामससोदरः” इत्युपक्रम्य “हिरण्यरेतावेदशिरा ऊर्द्ध्वबाह्वादयो द्विजाः” इति” भाग० ८, ५, ३, श्लोकोक्ते ३ रैवतमन्वन्तरीयसप्तर्षिभेदे ते च “वेदबाहुर्य्यदुध्रश्च मुनिर्व्वेदशिरास्तथा। हिरण्यरोमा पर्जन्य ऊर्द्धबाहुश्च सोमजः। सत्यनेत्रस्तथाऽत्रेय एते सप्तर्षयोमताः” हरिवं० ७ अ० विशेषत उक्ताः। ऊर्द्ध्वमुत्क्षिप्तो बाहुर्ये न। ४ तपस्यार्थमूर्द्धोत्क्षिप्तबाहौ तपस्विभेदे।

ऊर्द्ध्वबुघ्न = पु० ऊर्द्ध्वं बुध्नं शिरोऽस्य। ऊर्द्धशिरस्के चमसे “अर्वाग्विलश्चमस ऊर्द्धबुध्नस्तस्मिन् यशोनिहितं विश्वरूपम्। तस्यासतः सप्त धीराः वागष्टमी ब्रह्मणा संविदानेति” “अर्वाग्विलश्चमस ऊर्द्वबुध्न इति तच्छिरः एष ह्यर्वाग्बिलश्चमस ऊर्द्धबुध्नस्तस्मिन् यशोनिहितं विश्वरूपमिति प्राणा वै यशोनिहितं विश्वरूपं प्राणानेतदाह तस्यासतः ऋषय सप्त धोरा इति प्राणा वा ऋषयः प्राणानेतदाह वृ० उ०। “देहस्य चसमरूपेण रूपकमिदम् अर्वाग्बिलश्चमस ऊर्द्धबुध्नः इद तच्छिरः चमसाकारं हि तत् कथम्? एष ह्यर्वाग्बिलः मुखस्य विलरूपत्वात्, शिरसोबुध्नाकारत्वात् ऊर्द्धबुध्नः तस्मिन् यशोनिहितं विश्वरूपमिति यथा सोमश्चमसे एव तस्मिन् शिरसि विश्वरूपं नानारूपं निहितं भवति, किं पुनस्तद्यशः? पाणा वै यशोविश्वरूपम्। प्राणाः श्रोत्रादयः सप्त ऋषयः धीराः (श्रोत्रे द्वे नासिके द्वे नेत्रे द्वे रसना चैकेति सप्त) तेषां परिस्पन्दात्मकशब्दादिज्ञानहेतुत्वात्”। ऋषिधातोर्गत्यर्थतया परिस्पन्दात्मकवृत्तिमत्त्वम् ज्ञानहेतुत्वेन धीरत्वमिति बोध्यम्।

ऊर्द्ध्वभाग = पु० ऊर्द्ध्वः उपरिस्थोभाग एकदेशः कर्म्म०। उपरितनदेशे “ताल्वादिषु सभागेषु ऊर्द्धभागे निष्पन्नोऽजुदात्तः” सि० कौ०।

ऊर्द्ध्वभाज् = त्रि० ऊर्द्ध्वं भजते भज–ण्वि। १ उपरिभागस्थे २ ऊर्द्धदेशस्थे वह्निभेदे पु०। “ऊर्द्धभागूर्द्धभाङ् नाम कविः प्राणाश्रितस्तु यः” भा० व० २१८ अ० अग्निनामतत्कर्म्मभेदकथने।

ऊर्द्ध्वम् = अव्य० उद्–ह्वेञ् डमु आदेरूरादेशश्च। ऊर्द्ध्वशब्दार्थे। “ऊर्द्ध्वं प्राणाह्युत्क्रामन्ति यूनःस्थविर आयति” “तिष्ठन्नूर्द्ध्वं रजः पिबेत्” मनुः “अधश्चोर्द्धञ्च प्रसृतास्तस्य शाखाः” गीता।

ऊर्द्ध(र्द्ध्व)मन्थिन् = पु० ऊर्द्धं ब्रह्मचर्य्यादुत्तराश्रमं गार्हस्थ्यादि मथ्नाति मन्थ–णिनि ६ त०। नैष्ठिकब्रह्मचारिणि स हि ब्रह्मचर्य्योत्तरगार्हस्थ्याद्याश्रमं त्यजतीति तस्य तथात्वम्। “घर्म्मान् प्रदर्शयितुकामोवातवसनानां श्रमणानामृषीणामूर्द्धमन्थिनां शुक्लया तत्व्याऽवततार” भाग० ५, ३, २१,

ऊर्द्ध(र्द्ध्व)मान = न० ऊर्द्ध्वमारोप्य मीयते येन मा–करणे ल्युट्। पलकर्षादिमिते पाषाणादौ (वाटखारा)। तेन हि तुलादावारोपितेन खर्णादेर्गुरुत्वमुन्मीयते। भावे ल्युट्। २ उच्चतापरिच्छेदकपरिमाणे च “ऊर्द्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः। आयामस्तु प्रमाणं स्यात् संख्या बाह्या तु सर्वतः” व्या० का०। अयमर्थः। तुलादावारोपितस्य स्वणादेर्गुरुत्वमितिःतुलापरकोटिदेशे आरोपाद्यदुन्मीयते तदुन्मानम्। प्रस्थादिना स्वगताभ्यामारोहपरिणाहाभ्यां व्रीह्यादेः सर्वतोमानात् परिमाणम्। आयामोदैर्घ्यं वस्त्रादेर्जलादेश्च मितिर्हस्तदण्डादिना यत् मीयते तत् प्रमाणम्। सर्व्वतः उक्तप्रकारमानत्रयाद्बाह्या बहिर्भूता संख्या द्वित्वादिरित्यर्थः। “प्रमाणे द्वयसज्दघ्नञ्मात्रचः” पा० विहितौ द्वयसज्दघ्नचौ प्रत्ययौ ऊर्द्धमानादेव “प्रथमश्च द्वितीयश्च ऊर्द्धमाने मतौ मम” वार्त्तिकोक्तेः।

ऊर्द्ध्वमुख = त्रि० ऊर्द्धं मुखमस्य। १ ऊर्द्धगतप्रथमप्रसरे “प्र- बोधयत्यूर्द्धमुखैर्मयूखैः” कुमा० २ ऊर्द्धस्थिताग्रभागे “अधोमुखैरूर्द्धमुखैश्च पत्रिभिः” रघुः। ३ उन्नमितवदने च स्वाङ्गत्वात् स्त्रियां ङीप्। ऊर्द्ध मुखस्य एक० त०। ४ मुखस्योर्द्धभागे न० “दन्तान्तोर्द्धमुखं सशेषदहनम्” तन्त्रसा०। मातृकान्यासे मुखस्योर्द्धभागे विन्दोर्न्यस्यत्वादभेदोपचारात् विन्दुवर्ण्णैह तदर्थः।

ऊर्द्ध्वमूल = त्रि० ऊर्द्ध्वं मूलमस्य। १ ऊर्द्ध्वस्थितमूलभागे कुशादौ ऊर्द्ध्वः क्षरादुत्कृष्टः पुरुषोत्तमो मूलमस्य। २ संसारे च “ऊर्द्धमूलमधःशाखमश्वत्थं प्राहुरव्ययम्” गीता।

ऊर्द्ध्वरेतस् = पु० ऊर्द्ध्वमूर्द्धगं नाधःपतत् रेतो यस्य। १ महादेवे, २ सनकादिमुनौ ३ तपस्विभेदे, ४ भीष्मे च। रेतो हि पुंचिह्नेन प्रायः सर्वेषामधो गच्छति यस्तस्य अधेगतिं संरुणद्धि स ऊर्द्धरेता इत्युच्यते। सनकादीनां निवृत्तिधर्म्मपरत्वेन नैष्ठिकब्रह्मचारितया तथात्वम् “अष्टाशीतिसहस्राणि ऋषीणामूर्द्धरेतसाम्” भा० स० ११ अ०। “इत्युक्त्वा चोर्द्ध्वमनयद्रेतोवृषभवाहनः। ऊर्द्धरेताः समभवत् ततः प्रभृति चापि सः” भा० अमु० ८४ अ०। “ऊर्द्धरेता ऊर्द्धलिङ्ग उर्द्धशायी नभ स्थलः” भा० अनु० १७० अ० शिवस्तुतौ। भीष्मस्य च कृतसमावर्त्तनस्यापि पितृकाम्यविवाहार्थं सत्यवतोसमीपे गार्हस्थ्यपरित्यागप्रतिज्ञानात् तथात्वम् तत्कथा “अद्यप्रभृति मे दाश! ब्रह्मचर्य्यं भविष्यति” भा० आ० १०० अ० दृश्या।

ऊर्द्ध्वरोमन् = पु० ऊर्द्ध्वानि रोमाण्यस्य। १ ऊर्द्ध्वमुखतया विकटरोमिण् यमदूतादौ “स पाशहस्तांस्त्रीन् दृष्ट्वा पुरुषान् भृशदारुणान्। वक्रतुण्डानूर्द्धरोम्ण आत्मानं नेतुमागतान्” भा० ६, १, २६। २ कुशद्वीपसीमापर्व्वतभेदे च। कुशद्वीपवर्णने “तेषां वर्षेषु सीमागिरयोनद्यश्चाभिज्ञाताः सप्तैव। चक्रबभ्रुश्चतुःशृङ्गः कपिलश्चित्रकूटोदेवानीक ऊर्द्धरोमा द्रविणः” इति भाग० ५, २०, ११। ऊर्द्धमुखरोमयुक्ते त्रि०। ३ रक्ताक्षमूर्द्धरोमाणं काकजङ्घाक्षिनासिकम्” भा० अनु० ६८ अ०। स्त्रियां वा डाप्।

ऊर्द्ध्वलिङ्ग = पु० ऊर्द्ध्वमुत्कृष्टं लिङ्गं चिह्नमस्य। १ महादेवे ऊर्द्ध्व्वलिङ्गं बिरूपाक्षमिति” सन्ध्याङ्गमन्त्रः “ऊर्द्धरेता ऊर्द्ध्वलिङ्ग ऊर्द्धशायी नभःस्थलः! त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्विभुः”। भा० अनु० १७०।

ऊर्द्ध्वलोक = पु० कर्म्म०। स्वर्गे।

ऊर्द्ध्ववात = पु० ऊर्द्ध्वगतो वातः। सुश्रुतोक्ते स्वाभाविकगतिरोधेन ऊर्द्ध्वगते वायौ। स च मूत्रादिवेगधारणाद्भवति यथोक्तं सुश्रु०। “अधश्चोर्द्धञ्च भावानां प्रवृत्तानां स्वभावतः। न वेगान् धारयेद्धीमान वातादीनां जिजीविषुः”। अधिकमुदावर्त्तशब्दे ११६३ पृ० उक्तम्। “आटोपशूलौ परिवर्त्तनञ्च सङ्गः पुरीषस्य तथोर्द्धवातम्” सुश्रु० २ सप्तमारुतान्तर्गते परीवहे वायौ तस्य सर्ववायूनामुपरिस्थत्वात् तथात्वम् आवहशब्दे विवृतिः।

ऊर्द्ध्ववृत = त्रि० ऊर्द्धगत्या वेष्टनेन वृतः। ऊर्द्ध्वमावर्त्तनेनावृते दक्षिणावर्त्तनेनावर्त्तिते सूत्रादौ “कार्पासदुपवीतं स्यात् विप्रस्योर्द्धवृतं त्रिवृत्” मनुः। यथा च दक्षिणावर्त्तितस्यैव तथात्वम् तथोपवीतशब्दे उक्तम्।

ऊर्द्ध्ववृहती = स्त्री वैदिके छन्दोभेदे। “चतुर्थं वृंहती”। इत्युपक्रम्य “अष्टिनोर्मध्ये दशकोविष्टारवृहती त्रिजागतोर्द्धवृहती” सर्व्वानु० ५ अ०।

ऊर्द्ध्वशायिन् = त्रि० ऊर्द्ध्वः सन् शेते शी–णिनि। १ उत्तानशायिबालके। स्त्रियां ङीप्। २ महादेवे पु०। ऊर्द्धलिङ्गशब्दे उदा०।

ऊर्द्ध्वशोषम् = अव्य० ऊर्द्ध्वः सन् शुष्यति ऊर्द्ध्व + शुष–णमुल्। ऊर्द्धतया शुष्के कसादिषु यथाविध्यनुप्रयोगनियमात् शुषधात्वनुप्रयोग एवास्य माधुत्वम्। “ऊर्द्धशोषं शुष्यति वृक्षः ऊर्द्धः सन् शुष्यतीत्यर्थः” सि० कौ०। “यद्वोर्द्धशोषं तृणवद्विशुषकः” भट्टिः।

ऊर्द्ध्वसानु = पुंन० कर्म्म०। १ पर्वतादीनामुपरिस्थे सानौ। ऊर्द्ध्वं स्वति सो–नु। २ उपर्य्युपर्य्युच्चे कनिक्रदत् पतयदूर्द्धसानुः” ऋ० १, १५२, ५। “ऊर्द्धसानुरुपर्य्युपरिसमुच्छयणः” भा०।

ऊर्द्ध्वस्थिति = स्त्री ऊर्द्ध्वं स्थितिर्यत्र यस्य वा। १ अश्वपृष्ठभागे त्रिका०। २ ऊर्द्धस्थे त्रि०। ऊर्द्ध्वं स्थितिः। ३ ऊर्द्धस्थाने स्त्री

ऊर्द्ध्वस्रोतस् = पु० ऊर्द्ध्वम् ऊर्द्धगतं नाधोगामि स्रोतः रेतसः प्रवाहोऽस्य। १ ऊर्द्धरेतसि योगिभेदे स हि उत्पतनहेतुसत्वाधिक्येन रेतः प्रवाहमूर्द्धमानयतीति तस्य तथात्वम् सत्वबाहुल्ये एव यथोर्द्धस्रोतस्त्वं तथा सां० कौ० उक्तम् यथा “केचित् खलु सत्वबहुलाः सत्त्वनिकाया यथोर्द्धस्रोतस इति” ऊर्द्ध्वं स्रोत आहारसञ्चारोऽस्य २ वनस्पत्यादिषु “वनस्पत्योषधिलतात्वक्सारवीरुधोद्रुमाः। उत्स्रोतसस्तमःप्रायाः अन्तःस्पर्शाविशेषिणः” भाग० १, ८, २०, तेषां तथात्वोक्तेः “ऊर्द्धं स्रोत आहारसञ्चारोयेषाम्” श्रीधरः। मूले सिक्तजलादीनां मूलेनैवोर्द्धमाकर्षणात् तेषामूर्द्धस्रोतस्त्वम्।

ऊर्द्ध्वायन = त्रि० ऊर्द्ध्वमयनं यस्य। १ ऊर्द्ध्वगत प्लक्षद्वीपस्थे २ वैश्यवर्णस्थानीये पक्षिभेदे। प्लक्षद्वीपवर्णने अरुणादिसप्तनदीरुक्त्वा “यासां जलीपस्पर्शनविधूतरजस्तमसो हंसपतङ्गोर्द्धा यनसत्यसंज्ञाश्चत्वारोवर्ण्णाः” भाग० ५, २०, ७। “हंसादयः पक्षिणः ब्राह्मणादिस्थानीयाः” श्रीधरः। ३ ऊर्द्धगतौ न०

ऊर्द्ध्वाम्नाय = पुं ऊर्द्ध्वमाम्नाय्यते आ + म्ना–कर्म्मणि घञ्। वेदमार्गातिरिक्तबोधके तन्त्रभेदे

ऊर्द्ध्वावर्त्त = पु० ऊर्द्ध्वमावर्त्ततेऽत्र आ + वृत आधारे घञ्। १ अश्वपृष्ठस्थाने त्रिका० भावे घञ् ६ त०। २ दक्षिणावर्त्ते च

ऊर्द्ध्वासित = पु० ऊर्द्ध्वमुपरिगागे असितः कृष्णः आसितो वा। १ कारवेल्ले (करेला) त्रिका० २ ऊर्द्धोपवविष्टे त्रि०।

ऊर्द्ध्वेह = पु० ऊर्द्ध्वमीहा चेष्टा। उत्थानानुकूलायामूर्द्ध्वचेष्टायाम् “उदोऽनूर्द्धेहे” मुग्ध० ऊर्द्धेहाप्यत्र स्त्री।

ऊर्म्मि = पुंस्त्री० ऋ–मि–अर्त्तेरुच्च। १ तरङ्गे, “व्योमगङ्गोर्म्मिवायुभिः” रघुः “महोर्म्मिभिर्व्याहतवाञ्छितार्थैः” २ प्रकाशे, ३ वेगे, ४ वस्त्रसङ्कोचरेखायाम्, ५ पीडायाम्, ६ उत्कण्ठायाम्, ७ बुभुक्षादिषु, षट्सु देहमनःप्राणानां यथायथं धर्म्मेषु ते च “बुभुक्षा च पिपासा च प्राणस्य, मनसः स्मृतौ। शोकमोहौ, शरीरस्य जरामृत्यू षडूर्म्मयः” शा० ति० विभज्योक्ताः “पङ्क्तीकृतानामश्वानां नमनोन्नमनाकृतिः। अतिवेगसमायुक्ता गतिरूर्म्मिरुदाहृता” वैजयन्त्यु क्तलक्षणायाम् ८ अश्वगतौ स्त्री “तूर्णं पयोधय इवोर्म्मिभिरापतन्तः” माघः “क्षिपद्भिरुर्म्मीनपरैरिवोर्म्मिभिः” माघः “पक्षे ऊर्मिभिरश्वगतिभिरित्यर्थः।

ऊर्म्मो भवः यत्। ऊर्म्य ऊर्म्मिभवे त्रि० रात्रौ स्त्री निरु० “तिरस्तमोददृश ऊर्म्यासु” ऋ० ६, ४८, ६, “ऊर्म्यासु रात्रिषु” भा०। रुद्रभेदे पु० “नम ऊर्म्याय चावन्याय च” यजु० १६, ३१।

ऊर्म्मिका = स्त्री ऊर्म्मिरिव कायति कै–क। १ तरङ्गवत् प्रकाशमाने अङ्गुरीयके। स्वार्थे कन्। २ तरङ्गादौ च। ३ उत्कण्टायाम् ४ भृङ्गनादे ५ वस्त्रभङ्गे च हेम०

ऊर्म्मिन् = त्रि० ऊर्म्मिरस्त्यस्य बा० इनि। ऊर्म्मियुक्ते स्त्रियां ङीप्। “सम्पृच्यध्वमृतावरीरुर्म्मिणा मधुमत्तमाः” कात्या० ४, २, ३२, “प्रस्नापयन्त्यूर्म्मिणम्” ऋ० ९, ९८, ६, २ समुद्रै पु० “ततः सागरमासाद्य कुक्षौ तस्य महोर्म्मिणः” भा० व० २० अ०।

ऊर्म्मिमत् = त्रि० कर्म्मिरिव वकतास्त्यस्य मतुप् यवा० मस्य न वः। १ वक्रे। “दीर्घेषु नीलेष्वथ चोर्म्मिमत्सु जग्राह केशेषु नरेन्द्रपत्नीम्” भा० स० ६५ अ० २ तरङ्गवति च।

ऊर्म्मिमालिन् = पु० ऊर्म्मिमालाऽस्त्यस्य इनि। समुद्रे “चन्द्रं प्रवृद्धोर्म्मिरिवोर्म्मिमाली” रघुः

ऊर्म्मिला = स्त्री लक्ष्मणपत्न्याम् जनकस्यौरस्यां कन्यायाम् “पार्थिवीमुदवहद्रघूद्वहो लक्ष्मणस्तदनुजामथोर्मिलाम्” रघुः

ऊर्य्यादि = पु० पाणिन्युक्ते गतिसंज्ञानिमित्ते शब्दसमूहेस च गणः ऊरी, ऊररी, तन्थी, ताली, आताली, वेताली, धूली, धूसी, शकला, संशकला, ध्वंसकला, भ्रंसकला, गुलुगुधा, सजूः, फल, फली, विक्ली, आलोष्ठी, केवाली, केवासी, पर्याली, शेवाली, वर्षालि, अत्यूमशा, वश्मसा, मम्मसा, मसमसा, श्रौषट्, वौषट् वषट्, स्वाहा, स्वधा, बन्धा, प्रादुस, अत्, आविस्, अत्र पाठान्तरम् ऊरुरी उरीति ऊरीकृत्य।

ऊर्व = पु० ऊरुःकारणत्वेनास्त्यस्य अर्श० अच् संज्ञापूर्वकवियेतनित्वेन स्वायम्भुववत् न गुणः। १ और्व्वे ऋषिभेदे उपचारात् तज्जाते २ याडानले “ऊर्व इव प्रथे” ॠ० ३, ३, १९, ऊर्वः बाडवानलः भा० ३ तद्वति समुद्रे “अपार ऊर्वेऽमृतं दुहानाः” ऋ०३, १, १६, समानमूर्वं नद्यः पृणन्ति” ऋ० २, ३५, ३, ऊर्वः सादृश्येनास्त्यस्य अच्। बाडवानलतुल्ये ४ महति “दिव ऊरुरूर्वा~ अभितः” २, १३, ७, “ऊर्वान महतः” भा० तत्तुल्ये ५ विस्तृते च “महश्चिदग्न एगसो अभीव् ऊर्वात् ४, १२, ५, “ऊर्वात् विस्तृतात्” भा०।

ऊर्वङ्ग = न० ऊरुरिव अङ्गम् यस्य। छत्रिकायाम् शिलीन्ध्रे हारा०

ऊर्वशी = स्त्री ऊरुं नारायणोरुं कारणत्वेनाश्नुते अश–अच् ६ त० गौरा० ङीष्। ऊर्वश्याम्। पृ० अस्य दन्त्यसवत्त्वमपि।

ऊर्वष्ठीव = न० ऊरू च अष्टीवन्तौ च समा० द्वन्द्वः नि०। ऊर्वोरष्ठीवतोश्च समाहारे

ऊर्वी = स्त्री ऊरू मध्यस्थत्वेनास्त्यस्य अर्श० अच् स्वायम्भुववत् न गुणः गौरा० ङीष्। ऊरुमध्यस्थाने “ऊरुमध्ये ऊर्वी नाम तत्र शोणितक्षयात् शकिथशोषः “ऊर्व्या ऊर्द्धमधोवङ्क्षणसन्धेरूरुमूले लोहिताक्षमिति” लोहिताक्षाणि जानूर्वी कूर्चाः विटकूर्परा” इति च सुश्रु०।

ऊर्व्य = पु० ऊर्वे वाडवानले भवः यत्। अधिष्ठातृतया वाडवानल स्थिते रुद्रे “नम ऊर्व्याय च सूर्व्याय च” यजु० १६, ४,

ऊर्षा = स्त्री उर–स नि० नेट्। देवताडतृणे शब्दच०।

ऊलुपिन् = पु० उलुपिन् + पृ० दीर्घः। १ जलजन्तुभेदे २ मत्स्यभेदे च

ऊलूक = पुंस्त्री० उल–ऊकच् दीर्घश्च। पेचके स्त्रियां ङीप्।

ऊष = पु० रूजायाम् भ्वा० पर० सक० सेट्। ऊषति औषीत् ऊषाम् बमूव आस चकार। ऊषितः व्यूषः ऊषणः।

ऊष = पु० ऊष–रुजायां क। १ क्षारे, २ कर्णरन्ध्ने, ३ चन्द्रनाद्रौ च। “कौशेयाविकयोरूषैः” मनुः। “सोषैरुदकगोमूत्रैः शुध्यत्याविककौषिकम्” या०। तत्र चन्दनाद्रेः विरहितापकत्त्वात् कर्णच्छिद्रस्य अल्पजजादिप्रवेशेन उद्वेगहेतुत्वात् क्षारमृत्तिकाया मलापहारकत्वात् तथात्वम् इति भेदः। ऊषति अन्धकारं पेचकत् वा। ४ प्रभाते ५ रेतसि न०। तस्य च क्षारवत्तीव्रत्वात् उष्णत्वाच्चतथात्वम्। यथा च रेतस ऊषत्वम् तथाह “रेतो वा ऊषाः प्रजननं तदेनं प्रजनन आभजत्येतद्ध वै पितरः प्रजननाभक्ता भवन्ति यदेषां प्रजाभवति” शत० ब्रा० १३, ८, १, १४। ५ क्षारमृत्तिकायां स्त्री

ऊषक = न० ऊषति अन्धकारं पेचकं वा ऊष–ण्वुल। प्रत्यूषे शब्दच०।

ऊषण = न० ऊष–ल्यु। १ मरिचे, २ पिप्पलीसूले, ३ शुण्ठ्याञ्च। (चिता) ४ चित्रके पु०। ५ पिप्ल्यां ६ चव्ये च(चै) स्त्री। मरीच्यादीनां कदुत्वेन जिह्वोद्वेजकतया तथात्वम्। त्र्यूषणं त्रिकटुशुण्ठी पिप्पली मरिचं च यथाह “विश्वोपकुल्या मरिचं त्र्यूषं त्रिकटु कथ्यते। कटुत्रिकं त्रिकटुकं त्र्यूषणं व्योषमुच्यते। त्र्यूषणं दीपनं हन्ति श्वासकासत्वगामयान्। गुल्ममेहं च त्वक्स्थौल्यं मेदसा सह पीनसान्” भावप्र०। त्र्यूषणं सकणामूलं कथितं यद्त्र्यूषणकम्। व्योषस्यैव गुणाः प्रोक्ता अधिक श्चतुरूषणे” भा० प्र०। षडूषणम्। “पिप्पली पिप्पलीमूलम् चव्या चित्रकनागरैः। पञ्चभिः कोलमात्रञ्च पञ्चकोलम् तदुच्यते। पञ्चकोलं समरिचं षडूषणमिहेष्यते” भावप्रकाशः।

ऊषर = त्रि० ऊष + मत्वर्थीयो रः, ऊषं क्षारमृत्तिकां राति ददाति कः वा। क्षारमृत्तिकायुक्ते देशे यस्मिन्नुप्तं वीजं न प्ररोहति। “अनूषरमविवदिष्णु भूम” आश्व० गृ० २, ७, २। आधानाङ्गोषरमृद्ग्रहणम् शत० व्रा० २, १, १, ६। उक्तम् यथा “अथोषान् सम्भरति। “असौ ह वै द्यौरस्यै पृथिव्या एतान् पशून् प्रददौ तस्मात् पशव्यमूषरमित्याह”। “वर्षुकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्य्यमूषरम्” माघः। “तत्र विद्या न वप्तव्या शुभं वीजमिवोपरे” मनुः “नचोषरां न निदेग्धां महीं दद्यात् कदाचन” भा० अनु० ३३४।

ऊषरज = न० ऊषराज्जायते जन–ड। (पाङ्गा) लवणभेदे। तद्गुणादि सुश्रु० “उषसूतं बालुकेलं शैलं मूलाकरोद्भवम्” लवणं विभज्य “लवणं कटुकंछेदिविहितं पटु चोच्यते” सुश्रु०

ऊषवत् = त्रि० ऊष–मतुप् मस्य वः। ऊषरस्थाने। स्त्रियां ङीप्

ऊषा = स्त्री बाणराजसुतायाम् उषाशब्दे तत्कथीक्ता।

ऊष्म = पु० ऊष–म। १ शीतविरोघिनि स्पर्शे। अर्श–अच्। २ तद्वति त्रि०। ३ निदाघकाले अमरः।

ऊष्मण = त्रि० पामादि० अस्त्यर्थे न। ऊष्मयुक्ते मतुप् मस्य वः ऊष्मवत् तदर्थे त्रि० स्त्रियां ङीप्।

ऊष्मण्य = त्रि० उष्मा निवारणीयत्वेनास्त्यस्य यत्। ऊष्मनिवारणार्हे “उष्मण्या पिधानां वरूणामङ्काः” ऋ० १, १६२, १३। “उष्मण्य ऊष्मनिवारणार्हाणि पात्राणि” भा०।

ऊष्मन् = पु० ऊष–मनिन्। १ ग्रीष्मे २ तेजोद्रव्यस्य सूक्ष्मावयवे (भाप) “भुवा सहोष्माणममुञ्चदूर्द्ध्वगम्” कुमा० “यथाग्नेर्धूम उदयते एवमेषामूष्मोदयते” शत० ब्रा० १, ६, २, १, ५। व्यारणोक्तेषु सोष्मवायुनोच्चार्य्यमाणेषु शषसहरूपेषु वर्णेषु। “स्वराणामूष्मणाञ्चैव विवृतं करणं मतम्” शिक्षा। “शषसहा ऊष्माणः” सि० कौ०। “सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्याः इन्द्रे बलं ददानीति। सर्व्वऊष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजापतेरात्मानं परिददानीति” छा० उ०। “सर्व्व ऊष्माणोऽग्रस्ता अन्तरप्रवेशिता अनिरस्ता अबहिराक्षिप्ता विवृता विवृतप्रयत्नोच्चारिताः प्रजापतेरात्मानं परिददानि प्रयच्छामि” शा० भा०। “अथ यद्येनमूष्मसूपालभेत प्रजापतेः शरणोऽभूवं स त्वा प्रतिपेक्ष्यतोत्येनं ब्रूयात्” छा० उ०। “स्पर्शस्तस्याभवज्जीवः स्वरोदेह उदाहृतः। उष्माणमिन्द्रियाण्याहुरन्तस्था बलमात्मनः। स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः” भाग० ३, १२, ३०, ऊष्माणं शषसह इति चतुष्टयम् अन्तः स्था यरलवाः सप्त स्वराः षड्जादयः विहारेण क्रीडया” श्रीधरः। “खे खानि वायौ निश्वासां स्तेजःसूष्माणमात्मवान्। अप्स्वसृक्श्लेष्मशुक्राणिक्षितौ शेषं यथोद्भवम्” भाग० ७, १२, २४,। अत्र तेज रूष्माण मिति स्वकारणे लयाभिधानात् तस्य तेज कार्य्यता गम्यते। सुश्रुते च तस्य तेजः कार्य्यत्वदुक्तं तच्च उष्णशब्दे दर्शितम्। देहस्योष्मां च ब्रह्माभिन्न कौक्षेयानलोपाधिकजीवसंयोगेनैवभवति यथोक्तं छा० उ० भाष्ययोः। “अथ यदतः परोदिवोज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्व्वतः पृष्ठेषु अनुत्तमेषूत्तमेषु लोकेष्विदः वाव तद्यदिद मस्मिन्नन्तः पुरुषे ज्योतिस्तस्यैषा दृष्टिः विजानाति” उप०। “इदं वावेदमेव तद्यदिदमस्मिन् पुरुषेऽन्तर्मध्ये ज्योतिः चक्षुःश्रोत्रग्राह्येन लिङ्गेनोष्णिम्रा शब्देन वावगम्यते। यत्त्वचा स्पर्शरूपेण गृह्यते तच्चक्षुषैव। दृढप्रतीतिकरत्वात्त्वचोऽविनामूतत्वाच्च रूप- स्पर्शयोः। कथं पुनस्तस्य ज्योतिषो लिङ्गं त्वग्दृष्टिगोचरत्वमापद्यते? इत्याह यत्र यस्मिन् काले एतदिति क्रियाविशेषणं अस्मिन् शरीरे हस्तेनालभ्य संस्पर्शेनोष्णिमानं रूपसहभाविनमुष्णस्पर्शभावं विजानाति स ह्युष्णिमा नामरूपव्याकरणाय देहमनुप्रविष्टस्य चैतन्यात्मज्योतिषो लिङ्गमव्यभिचारात्। न हि जीवन्तमात्मानमूष्णिमा व्यभिचरति। “उष्ण एव जीविष्यन् शीतो मरिष्यन्निति” हि विज्ञायते। मरणकाले च “तेजः परस्यां देवतायामिति” परेणाविभागत्वोपगमादतोऽसाधारणं लिङ्गमौष्ण्यमग्नेरिव धूमः। अतस्तस्य परस्यैषा दृष्टिः साक्षादिव दर्शनं दर्शनोपाय इत्यर्थः”। एतद्वाक्यञ्च कौक्षेयानलोपाघिकजीवाभिन्नब्रह्मपरं तस्यैव ज्योतिःशब्दाभिधेयत्वेन तत्सम्पर्कादेव देहस्यौष्ण्यसम्भवः तदेतत् शा० सू० भाष्ययोः समर्थितं यथा “ज्योतिश्चरणाभिधानात्” शा० सू० “इदमामनन्ति अथ यदतः परोदिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिरिति” तत्र संशयः किमिह ज्योतिःशब्देनादित्यादिकं ज्योतिरभिधीयते? किं वा पर आत्मेति?। अर्थान्तरविषयस्यापि शब्दस्य तल्लिङ्गाद्ब्रह्मविषयत्वमुक्तम् इह तल्लिङ्गमेवास्ति नास्ति वेति विचार्यते किन्तावत् प्राप्तं आदित्यादिकमेव ज्योतिःशब्देन परिगृह्यते इति। कुत? प्रसिद्धेः तमो ज्योतिरिति हीमौ शब्दौ परस्परप्रतिद्वन्द्विविषयौ प्रसिद्धौ। चक्षुर्वृत्तेर्निरोघकं शार्वरादिकन्तम उच्यते। तस्याएवानुग्राहकमादित्यादिकं ज्योतिः। तथा दीप्यते इतीयमपि श्रुतिरादित्यादिविषया प्रसिद्धा न हि रूपादिहीनं ब्रह्म दीप्यत इति मुख्यां श्रुतिमर्हति। किञ्च द्युमर्यादत्वश्रुतेश्च। न हि चराचरवीजस्य ब्रह्मणः सर्बात्मकस्य द्यौर्मर्य्यादा युक्ता कार्यस्य तु ज्योतिषः परिच्छिन्नस्य द्यौर्मर्यादा स्यात् “परोदिवो ज्योतिरिति” च ब्राह्मणम् ननु कार्यस्यापि ज्योतिषः सर्व्वत्र गम्यमानत्वात् मर्यादावत्त्वमसमञ्जसं अस्तु तर्ह्यत्रिवृत्कृतन्तेजः प्रथमजम्। न अत्रिवृत्कृतस्य तेजसः प्रयोजनाभावादिति। इदमेव प्रयोजनं यदुपास्यत्वमिति चेन्न प्रयोजनान्तरप्रयुक्तस्यैवादित्यादेरुपास्यत्वदर्शनात्। “तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति” चाविशेषश्रुतेः। नचात्रिवृत्कृतस्यापि तेजसोद्युमर्यादत्वं प्रसिद्धम्। अस्तु तर्हि त्रिवृत्कृतमेव तेजो ज्योतिः शब्दम्। ननूक्तमर्वागपि दिवो गम्यतेऽग्न्या- दिकं ज्योतिरिति नैष दोषः सर्वत्रापि गम्यमानस्य ज्योतिपः परोदिव इत्युपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते न तु निःप्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पनाभागिनी। सर्व्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विति चाधारबहुत्वश्रुतिः कार्ये ज्योतिष्युपपद्यतेतराम्। “इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिरिति” च कौक्षेये ज्योतिषि परं ज्योतिरध्यस्यमानं दृश्यते सारूप्यनिमित्ताश्चाध्यासा भवन्ति यथा “तस्य भूरिति शिरः एकं शिर एकमेतदक्षरमिति” कौक्षेयस्य तु ज्योतिषः प्रसिद्धमब्रह्मत्वं तस्यैषा दृष्टिस्तस्यैषा श्रुतिरिति चौष्ण्यघोषविशिष्टत्वश्रवणात् “तदेतद्दृष्टञ्च श्रुतञ्चेत्युपासीतेति” च श्रुतेः। “चक्षुष्यश्च श्रुतो भवतीति य एवं वेदेति” चाल्पफलश्रवणादब्रह्मत्वं महते हि फलाय ब्रह्मोपासनमिष्यते। नचान्यदपि किञ्चित् स्ववाक्ये प्राणाकाशवत् ज्योतिषोस्ति ब्रह्मलिङ्गम्। न च पूर्वस्मिन्नपि वाक्ये व्रह्म निर्दिष्टमस्ति। “गायत्री वा इदं सर्वं भूतमिति” छन्दोनिर्देशात्। अथापि कथञ्चित् पूर्व्वस्मिन् वाक्ये व्रह्म निर्दिष्टं स्यात् एवमपि न तस्येह प्रत्यभिज्ञानमस्ति। तत्र हि त्रिपादस्यामृतं दिवीति द्यौरधिकरणत्वेन श्रूयते। अत्र पुनः परोदिवो ज्योतिरिति द्यौर्मर्यादात्वेन। तस्मात् प्राकृतं ज्योतिरिह ग्राह्यमित्येवं पाप्ते ब्रूमः। ज्योतिरिह ब्रह्मग्राह्यं कुतः? चरणाभिघानात् पादाभिधानादित्यर्थः। पूर्व्वस्मिन् ह वाक्ये चतुष्पाद् ब्रह्म निर्दिष्टं “तावानस्य महिमा ततोज्यायांश्च पुरुषः पादोऽस्य सर्वाभूतानि त्रिपादस्यामृतं दिविं” इत्यनेन मन्त्रेण। तत्र यत् चतुषपदो ब्रह्मणः त्रिपादमृतं द्युसम्बन्धिरूपं निर्दिष्टं तदेवेह द्युसम्बन्धान्निर्दिष्टमिति प्रत्यभिज्ञायते तत् परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येतायाम्। न केवलं ज्योतिर्वाक्य एव ब्रह्मानुवृत्तिः परस्यामपि हि शाण्डिल्य विद्यायामनुवर्त्तिष्यते ब्रह्म। तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम्। यत्तूक्तं ज्योतिर्दीप्यते इति चैतौ शब्दौ कार्ये ज्योतिषि प्रसिद्धाविति, नायन्दोषः प्रकरणाद्ब्रह्मावगमे सत्यनयोः शब्दयोरविशेषकत्वात् दीप्यमान कार्यज्योतिरुपलक्षिते ब्रह्मण्यपि प्रयोगसम्भवात् “येन सूर्यस्तपति तेजसेद्धः” इति च मन्त्रवर्ण्णात्। यद्वा नाय ज्योतिःशब्दश्चक्षुर्वृत्तेरेवानुग्राहके तेजसि वर्त्तते। अन्यत्रापि प्रयोगदर्दनात् “वाचैवायं ज्योतिषास्ते” मनोज्योतिर्जुषतामिति” च। तस्माद्यद्यत्कस्य चिदवभासकन्तत्तत् ज्योतिःशब्देनाभिवीयते। तथा सति ब्रह्मणोपि चैतन्यस्वरूपस्य समस्तजगदवभासहेतुत्वादुपपन्नो ज्योतिशब्दः “तमेव भान्तमनुभाति सर्वं तस्य भासा सर्व्वमिदं विभाति”। “तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्” इत्यादिश्रुतिभ्यश्च। यदप्युक्तंद्युमर्यादत्वंसर्व्वगतस्य ब्रह्मणोनोपपद्यते इति। अत्रोच्यते सर्व्वगतस्यापि ब्रह्मणौपासनार्थः प्रदे शविशेषपरिग्रहो न विरुध्यते। ननूक्तं निःप्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पना नोपपद्यत इति। नायं दोषः निष्प्रदेशस्यापि ब्रह्मण उपाधिविशेषसम्बन्धात् प्रदेशविशेषकल्पनोपपत्तेः। तथार्हि आदिव्ये चक्षुषि हृदय इति प्रदेशविशेषसम्बन्धीनि ब्रह्मण उपासनानिश्रूयन्ते। एतेन “विश्वतः पृष्ठेष्वित्याघारबहुत्वमुपपादितम्। यदप्येतदुक्तं औष्ण्यघोषाभ्यामनुमिते कौक्षेये कार्ये ज्योतिष्यध्यस्यमानत्वात् परमपि दिवः कार्य्यं ज्योतिरेवेति। तदप्ययुक्तं परस्यापि ब्रह्मणोनामादि प्रतीकत्ववत् कौक्षेयज्योतिःप्रतीकत्वोपपत्तेः। “दृष्टञ्च श्रुतञ्चेत्युपासीतेति” तु प्रतीकद्वारकं दृष्टत्वं श्रुतत्वञ्च भविष्यति। यदप्यल्पफलश्रवणान्न ब्रह्मेति तदप्यनुपपन्नम्। न हि इयते फलाय ब्रह्माश्रयणीयमियते नेति नियमे हेतुरस्ति। तत्र हि निरस्तसर्वविशेषसम्बन्धं परं ब्रह्मात्मत्वेनोपदिश्यते तत्रैवंरूपमेव फलं मोक्ष इत्यवगम्यते यत्र तु गुणविशेषसम्बन्धं प्रतीकविशेषसम्बन्धं वा ब्रह्मोपदिश्यते तत्र संसारगोचराण्येवोच्चावचानि फलानि दृश्यन्ते “अन्नादो वसुदानोविन्दते वसु य एवंवेद” इत्याद्यासु श्रुतिषु। यद्यपि न स्ववाक्ये किञ्चित् ज्योतिषो ब्रह्मलिङ्गमस्ति तथापि पूर्वस्मिन् वाक्ये दृश्यमानं ग्रहीतव्यं भवति। तदुक्तं सूत्रकारेण ज्योतिश्चरणाभिधानादिति। कथं पुनर्वाक्यान्तरगतेन ब्रह्मसन्निधानेन ज्योतिःश्रुतिः स्वविषयात् प्रच्याव्य शक्या व्यावर्त्तयितुम्। नैष दोषः। “यदतः परोदिवो ज्योतिरिति” प्रथमतरपठितेन यच्छब्देन सर्व्वनाम्नाद्युसम्बन्धात् प्रत्यभिज्ञायमाने पूर्व्ववाक्यनिर्दिष्टे ब्रह्मणि स्वसामर्थ्येन परामृष्टे सत्यर्थात् ज्योतिःशब्दस्यापि तद्विषयत्वोपपत्तेः। तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम्” भा०। श्रुत्यन्तरे तु कौक्षेयाग्निसंबन्धात् देहस्यौष्ण्यमुक्तम्। तत्रापि कौक्षे याग्नेरपि जीवस्थितिनियतत्वात् जीवाधीनत्वं कल्प्यमित्याकरे प्रपञ्चः

ऊह = वितर्के भ्वादि० आत्म० सक० सेट्। ऊहते औहिष्ट। ऊहां बभूव आस चक्रे। ऊहितः ऊहमानः ऊहितुम् ऊहः। “औहिष्ट तान् वीतविरुद्धबुद्ध्वीन्” भट्टिः। कर्मणि ऊह्यते औहि णिच्। ऊहयति ते औजिहत् त। “रूपेण तावौजिहतां नृसिंहौ” भट्टिः अस्य ऊहशब्दे वक्ष्यमाणेऽर्थेऽपि वृत्तिः। परस्मैपदित्वमप्यस्य ऊहति, इत्युहेत्द्विदैवतं दैविकेषु” कात्या० १०१, ३, १, १७, यादौ उपसर्गात् परस्यादेर्ह्रस्वः। समुह्यतेअति–एकदेशस्थितस्य तद्विपरीतदेशप्रेरणे “द्रोणकलसमत्यूह्य” कात्या० ९, २, १६। “अत्युह्य प्राञ्चमेव प्रतीच्यां प्रेर्य्य” कर्कः।अधि + अञ्जने। “अग्निमग्नीत् संमृढ्ढीति यथाधुरमध्यूहे देवं तद्यत् पूर्वमाघार माघार यत्यध्युह्य हि धुरं युञ्जन्ति” शत० ब्रा० १, ४, ४, १३,अप + निरसने दूरीकरणे। “अपोह्य बर्हींषि” कात्या० २, २, १७, “एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः” मनुः। “सर्वान् रसानपोहेत कृतान्न च तिलैः सह” मनुः प्रतिकूलतर्केण प्रकृतर्तर्कापनमने अपोहः।अप + वि + निवारणे “व्यपोहत शरांस्तस्य सर्वानेव धनञ्जयः” भा० आ० ४७०।अभि + आच्छादने। “अथाङ्गारैरभ्यूहति” शत० ब्रा० १, २, ४, ३८। “अभ्यूहति आच्छादयति” भा०।उत् + उत्कर्षणे। “रशनामुदुह्य प्राच्याम्” कात्या० १, ६, १। “उदुह्य उत्कृष्य” कर्कः निरसने च। “तेन प्राचोऽङ्गारानुदूहति” शत० ब्रा० १, २, १, ४।प्रति + उद् + प्रक्षेपणे “दक्षिणतः पुरीषं प्रत्यूहेत” शत० ब्रा० १, ३, ५, १७।वि + उद् + अन्ते विवर्द्धने। “चतुङ्गुलमुभमयतो बाह्यतो व्युदूहति” शत० ब्रा० १०२, १, ४। व्युदूहति अन्ते विवर्द्धयति” भा०उप + अधस्तात् प्रवेशने। “पश्चाच्छम्यामुपोहति” कात्या० २, ५, ४। “उपोहति अधस्तात् प्रवेशयति” कर्कः।निर् + निष्काश्य ग्रहणे पृथक्करणे च। गार्हपत्यादुष्णं भस्म निरुह्य” शत० व्रा० १३, ४, २, २। “शिरः श्रियमस्य निरौहत्” शत० ब्रा० १०, ५, ४। वपान्तेऽनपेक्षमध्वर्युः प्रेष्यति निरूहैतं गर्भमिति” “निरुह्यमाणमभिमन्त्रयीत” कात्या० २५, १०, ४, ५। निरुह्यमाणं पृथक्क्रियमाणम् वेददी० निरूहणम्परि + परितः खातपूरणे। “अरत्निमात्रे संतृण्णे वोपदधातिपर्यूहति च” कात्या० ८, ५, २५। पर्यूहति पांशुभिरन्तरालं परितः पूरयति” कर्कः। पर्य्यूहणम्।प्र + देशान्तरनयने। “प्रोह्य द्रोणकलसम्” कात्या० ९, ५, १४। “प्रोह्य प्रेर्य्य” कर्कः। पातने च “कृष्णाजिने प्रोहति” कात्या० २, ५, ७। प्र + ऊहस्यादेर्वृद्धिः प्रौहः।प्रति + उपरिस्थापने। “दीक्षितोरौ दक्षिणे प्रत्यह्य वासः” कात्या० ७, ८, २३। “प्रत्युह्य उपरि स्थापयित्वा” वेददी० निवारणे च। “प्रत्यौहतमश्विनी मृत्युमुखात्” यजु० २७, “प्रत्यौहतं न्यवर्त्तयताम्” वेददी०।वि + विपरीततया प्रेरणे “जुहूपभृतौ व्यूहति” कात्या० ३, ५, १७। सैन्यानां सन्निवेशविशेषेण स्थापने च। व्यूहः। “प्रहर्षयेद्बलं व्यूह्यतांश्च सम्यक् परीक्षयेत्” मनुः। समवेतभवने। “योवैम्रियते ऋतवोऽस्य व्युह्यन्ते” शत० ब्रा० ८, ७, १२, ११,प्रति–वि प्रतिरूपव्यूहकरणे। “वार्हस्पत्यविधिं कृत्वा प्रतिव्यूह्य निशाचरम्” भा० व०३८४ अ०। विरोधाचरणे च प्रत्यूहःसम्–समवेतभवने संहनने सम्यक्प्रापणे च। “यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि” ऋ० १, १३१, ३, ससूहसि प्रापयसि भा०। सम्यक्पूरणे “अङ्गारैरभि समूहति” शत० ब्रा० ४, ५, २, १८, समूहःउप + सम् समीपे सङ्कोचने “पक्षाउपसमूहन्ते” शत० ब्रा० १०, २, १, १, “समूहन्ते मध्यमागसमीपे सङ्कोचयन्ति” भा०।परि–सम्–समन्तात् परिमार्जने “वेदिं परिसमुह्य” कात्या० २, ६, १, २, “परिसमुह्य सर्म्माज्य” कर्कः। “अग्निं प्रतिष्ठाप्यान्वाधाय परिसमुह्य” आश्व० गृ० १, ३, १, “परिसमूहनं नाम चाग्नेः समन्तात् परिमार्जननम्” नारा० वृ०। समूढव्यूढनिरूढादिकमस्यैव रूपमाहुः केचित्। अस्यसेट्कत्वात् ऊहित इत्यादय एव स्युः। अतस्तानि उपसृष्टस्य वहतेरेव रूपाणीत्यन्ये। अस्यैव आङ्पूर्ब्बकस्य ओहते इति रूपम्। न तु केवलस्य, दीर्घोपधत्वेन गुणाप्रसक्तेः।

ऊह = पु० ऊह–घञ्। १ वितर्के आगमाविरोधिना तर्केण आगमार्थस्य संशयपूर्व्वपक्षनिवारणपूर्वकोत्तरपक्षव्यवस्थापनेन निर्णयरूपे २ परीक्षणे, ३ अनन्वितार्थकविभक्तिलिङ्गुत्यागपूर्व्वके अन्वययोग्यविभक्त्यादिकल्पने, यथा पार्वणे सौम्यास इति बहुवचनमन्वितमपि एकोद्दिष्टे अनन्वितत्वात् सौम्य इत्येकवचनान्ततया कल्पनम्। ४ पदान्तरेणाकाङ्क्षापूरणार्थेअध्याहारे च। “ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः। दानञ्च सिद्धयोऽष्टौ सिद्ध्वेः पूर्व्वोऽङ्कुशस्त्रिविधः” सा० का० उक्ते ताराख्ये ५ सिद्धिमेदे “ऊहस्तर्कः आगमा- विरोधिन्यायेनागमार्थपरीक्षणम्। संशयपूर्व्वपक्षनिराकरणेनोत्तरपक्षव्यवस्थापनं तदिदं मननमाचक्षते आगमिनः सा तृतीया सिद्धिस्तारमुच्यते” सा० कौ० “रक्षोहागमलघ्वसन्देहाः प्रयोजनम्” का० वार्त्ति०। “ऊहः खल्वपि न सर्व्वैर्लिङ्गैर्नच सर्व्वाभिर्विभक्तिभिर्वेदे मन्त्रा निगदितास्ते चावश्यं यज्ञगतेन पुरुषेण यथायथं विपरिणमयितव्याः तान्नावैयाकरणः शक्नोति विपरिण मयितुम् तस्मादध्येयं व्याकरणम्” महाभा०। “ऊहः खल्वपोति। इह यस्मिन् यागे इतिकर्त्तव्यतोपदिष्टा यागान्तरेणोपजीव्यते सा प्रकृतिः येन चोपजीव्यते सा विकृतिः प्रकृतिवद्विकृतिः कर्त्तव्येति मीमांसकैर्व्यवस्थापिते न्याये प्रकृतिप्रत्ययादीनामूहं वैयाकरणस्मम्यग्विजानाति। तत्र अग्नेर्मन्त्रोऽस्ति “अग्नये त्वा जुष्टन्निर्वपामीति” तत्र “सौर्य्यं चरुं निर्वपेत् ब्रह्मवर्चसकाम” इति सौर्य्ये चरौ मन्त्र ऊह्यते सूर्य्याय त्वा जुष्टं निर्वपामीति। विस्तरेण भर्त्तृहरिणा प्रदर्शित ऊहः” कै०। “ऊहः खल्वपीत्यस्य प्रयोजनमिति शेषः। ननु यत्र प्रकरणे ये मन्त्राः पठितास्तत्र तेषां तथैव प्रयोग इष्ट इति नोहेन प्रयोजन मित्याशङ्क्य प्रकृतावूहाभावेऽपि विकृतावूह इति दर्शयितुम् प्रकृतिशब्दार्थ माह। इहेति। यस्मिन्नाग्नेयादौ। यागा न्तरेण सौर्य्यादिना। प्रकृतिविकृत्यवगमश्च द्विदैवत्य त्वैकदेवत्यत्वादिसाम्येन बोध्यः। अन्यत्र पठितमन्त्राणाङ्कथमन्यत्र गमनमत आह प्रकृतिवदिति। यथा सोपकारा प्रकृतिरनुष्ठीयते तथा विकृतिरपीति तदर्थः तदनेनोपकारातिदेशे तत् पृष्ठभायेन पदार्था अप्यतिदिश्यन्ते इतिकर्त्तव्यताय्यम्भावनायास्साकाङ्खत्वादेतन्मूलकमेव प्रकृतिवदितीति मीमांसकसरणिः। यागान्तर्गताश्च मन्त्राः। तत्र अग्निसम्बन्धिनिर्वापप्रकाशक मन्त्रस्थाग्निपदस्य सूर्य्यसम्बन्धिनिर्वापप्रकाशनासमर्थत्वात्तदपहाय तत्स्थाने सूर्य्यायेत्यूह्यमित्याह तत्राग्नेरिति। मन्त्र ऊह्यत इति। यद्यप्यूहे न मन्त्रत्वं तथाप्येकदेशस्योहेऽपि अनेकपदसमुदाये मन्त्रत्वप्रत्यभिज्ञानात्तद्घटिते समुदाये मन्त्रत्वव्यवहारः, कर्म्मण स्साङ्गत्वञ्चेति बोध्यम्। सोऽयम्प्रकृत्यूहः अन्येऽप्यूह्याः। ऊहज्ञस्य हि आर्त्विज्यलाभेन द्रव्यप्राप्तिद्वारा ऐहिकसुख सिद्धिःफलमिति बोध्यम्। भाष्ये लिङ्गपदञ्च प्रकृत्यादेरुपलक्षणम्। यथायथमिति। अर्थप्रकाशनसामर्थ्यानतिलङ्घनेनेत्यर्थः” उद्योतः।

तादृशोहभेदस्तु अधिकरणमालादौ दृश्यः। द्रव्यप्रति निधौ तु नोहः। “तैलं प्रतिनिधिं कुर्य्यात्घृतार्थे याज्ञिकोयदि। प्रकृत्यैव तदा होता ब्रूयात् घृतवतीमिति” मीमां० कात्यायनसूत्रादौ प्रतिनिधिविषये ऊहाभावोदर्शितो यथा

“अथेदं चिन्त्यते विहितद्रव्यस्याभावे द्रव्यान्तरे प्रतिनिधित्वेनोपात्ते छागाभावे मेषरूपे अनुवाचनप्रेषादौ किमूहं कृत्वा प्रतिनिहितद्रव्यशब्दस्य प्रयोगः कार्य्यः “अग्नीषोमाभ्यां मेषस्य वपाया” इत्येवम् उत विहितद्रव्य शब्दस्यैव अग्नीषोभाभ्यां छागस्येत्येवमेवेति। तत्र मन्त्रेण द्रव्यमभिधेयम् न चानूहितः प्रतिनिहितं द्रव्यं शक्नोत्यभिधातुम् तस्मादूहित्वा प्रतिनिहितद्रव्यवाचिशब्दस्य प्रयोगे प्राप्त आह” “शब्देऽविप्रतिपत्तिः” कात्या० १, ४, ९, “प्रतिनिधावुपात्तेऽपि विहितद्रव्यवाचिनिशब्दे अविप्रतिपत्तिरविपरिणामः अनूहो भवति अग्नीषोमाभ्यां छागस्य वपाया इत्यनूहितमेव मेषेऽपि प्रयोज्यम् न तु मेषस्येत्येवं विपरिणतरूपमित्यर्थः कुतः? प्रतिनिधिः श्रुतद्रव्यबुद्ध्या गृह्यते न तु द्रव्यान्तर बुद्ध्या अतश्छाग एवायमिति बुद्ध्या गृहीतत्वात्तच्छब्देनैवाभिधानम्। यद्यत्र मेषश्छागवत् साधनं भवेत्ततस्तत्प्रकाशकम् मेषपदं प्रक्षिप्येत न त्वेवम्, किं तर्हि मेषगता ये छागांशास्त एवात्र साधनम् ते च छागगता इव मेषगता अपि छागशब्देनैव प्रकाशयितुं शक्यन्त्य इत्यनूहेनैव प्रयोगः। यत्र तु द्रव्यान्तरं वचनेन विधीयते यथा “सारस्वतीं मेषीमिति” “ऐन्द्रं मेषमिति” “ऐन्द्र औरभ्रः” इति तत्र द्रव्यान्तरबुद्धिर्भबति तत्र ऊहोऽपि भवति। नचात्रेवंविधं किमपि वचनमस्ति तस्माद्बहूनामवयवानां सामान्याच्छ्रुतद्रव्यमेवेदमितिबुद्ध्या मेषादिद्रव्यस्य छागादिप्रतिनिधित्वेनोपादानम्। तेन श्रुतद्रव्यशब्देनैवाभिधानं युक्तमिति साधूक्तम् शब्देऽविप्रतिपत्तिरिति। यत्र तु वचनेन द्रव्यान्तरं विधीयते तत्र ऊहो भवतीत्युक्तम् तेन सोमाभावे पूतीकानभिषुणुयादिति पूतीकानां वाचनिकत्वादूहो भविष्यतीत्याशङ्याह” कर्कः “सोमेन जात्यभावात्” का० सू०१० “सोमेनेति तृतीयैकवचनम्। सोमाभावे पूतीकेषूपात्तेषु सोमशब्देनैव पूतीकानामभिधानं कर्त्तव्यम्। “अंशुरंशुष्टे देव! सोम! पायतामित्येवम् न तु पूतीकाशब्देन। अथ वा सोमे इति सप्तम्येकवचनम् नेनि निषेधः। सोमप्रतिनिधित्वेनोपात्तेषु अर्ज्जुनश्येनहृतपूतोकादिषु सोमे सोमशब्दे ऊहो न भवति कुतः जात्यभावात् जात्यन्तरबुद्ध्यभावात् नह्यत्र वचनेन द्रव्यान्तरं विधीयते किं तर्हि सोमाभावे यागस्यावश्यकर्त्तव्यत्वादनेकेषु सुसदृशेष्वीषत्सदृशेषु च प्राप्तेषु पूतीकादेर्नियमः क्रियते तेनैन्द्रमेषैतिवद् वाचनिक जात्यन्तराभावादतोऽप्यूहो न भचति” कर्कः। “छाग! त्वं बलिरूपेणेत्यादिमन्त्रे च बहुपशुघाते न बहुत्वोहः। तदेततत्” ति० त० “बहुपशुघातेऽपि मन्त्रे एकवचनान्त एव प्रयोज्यः न बहुवचनोहः। “नरं पञ्चत्वमागतम्” इत्यत्र नार्य्यां स्त्रीत्वोहाभाववत् अतएव सपत्नीकयजमानप्रयोगेऽपि “पत्नीं सन्नह्येति” मन्त्र एकवचनान्त एवेति। ऊहं प्रकृत्य “प्रकृतावपूर्ब्बत्वात्” कात्यायनेनोहस्य प्रकृतो प्रतिषेधात्। विकृतावेवोहः। “ऊहोऽपूर्ब्बोत्प्रेक्षणमिति” जै० तल्लक्षणात् न वान्वयबाधःवैभक्तिकार्थापेक्षया प्राथमिकत्वेन बलवतः प्रातिपदिकार्थस्य समन्वितत्वेनाविरोधात्। एवञ्च प्रकृतौ नररूपबहुपशौ बहुवचनोहाभावात् छागादौ विकृतिभूतेऽपि न बहुवचनोहः किन्तु एकवचनमात्रमिति” वदता रघुनन्दनेन तथा समर्थितम्। संकल्पादिवाक्ये तु ऊह इति भेदः। ऋत्विगादिप्रयोगे च अस्मदादिपदघटिते “दातारोनोऽभिवर्द्धन्तामित्यादि” मन्त्रेऽपि नोहः तैस्तथा प्रयोगेऽपि यजमानगतानामेव तत्तत्फलानामवगम इत्याकरे प्रपञ्चः। तथाचासमवेतार्थस्य समन्वयाय मन्त्रे समवेतार्थकरणरूपमपूर्ब्बस्योत्प्रेक्षणमूहः। ५ आरोपे ६ समूहने च। “इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः” भा० अमु० १४५ अ० “ऊहापोहाभ्यां तत्त्वावधारणम्” पातञ्ज० भा०।

ऊहगान = न० सामगानग्रन्थभेदे ऊहगीतिरप्यत्र स्त्री।

ऊहा = स्त्री ऊह अ स्त्रीत्वात् टाप्। १ अध्याहारे २ ऊहशब्दार्थे

ऊहिनी = स्त्री ऊह–णिनि। समवेतायाम् “अक्षात् परस्य तस्यादेर्वृद्धिः अक्षौहिणी सेना।

ऊह्य = त्रि० ऊह–ण्यत्। १ तर्कणीये २ उद्भावनीये ३ अध्याहार्य्ये ४ मीमांसकोक्तोहविषये च। अनीयर्। ऊहनीय तदर्थे त्रि०

ऊह्यगान = न० सामगानग्रन्थभेदे। इति वाचस्पत्ये ऊकारादिशब्दार्थसङ्कलनम्।

***