उ(ऊ)र्ज = जीवने वा चु० उभ० अक० पक्षे भ्वा० पर० सेट्। उ(ऊ)र्ज्जयति ते उ(ऊ)र्ज्जति। और्ज्जिजत्–त और्ज्जीत्। उ(ऊ)र्ज्जयाम् बभूव आस चकार चक्रे पक्षे उ(ऊ)र्जाम् बमूव आस चकार। क्त उ(ऊ)र्ज्जित, वृद्धे बलान्विते। णिणन्तत्वे वर्द्धिते त्रि० दीर्घादिरयमिति बहवः

उ(ऊ)र्ण्णनाभ = पु० उर्णेव सूत्रं नाभौ गर्भेऽस्य अच् समा० ह्रस्वः। लूतायाम् (माकङसा) दीर्घादिरयमिति केचित्।

उ(ऊ)र्णा = स्त्री ऊर्णूयते आच्छाद्यते ऊर्णु–ड ह्रस्वः। १ मेषादि लोम्नि २ ललाटस्थलोगसमूहात्मके चिह्नभेदे। “ललाट पट्टे नवनलिननालभङ्गतन्वीयमूर्ण्णा परिस्फुरति” काद०। दीर्घादिरयमिति बहवः

उ(ऊ)र्द्द = दाने स्वादे सक० क्रीडायाम् अक० भ्वा० आत्म० सेट्। उ(ऊ)र्दते और्द्दिष्ट दीर्घादिरयमिति बहवः।

उ(ऊ)र्द्र = पु० उर्द–रक्। जलविडाले (उद्विराल) दीर्घादिरमिति बहवः।

उ(ऊ)र्व = हिंसायां भ्वा० पर० सक० सेट्। उ(ऊ)र्वति और्वीत्। क्विपि वलोपे ऊः उरौ दीर्वादित्वे ऊरौ इति भेदः।

उर्व्व = पु० उर्वी पृथिवी सञ्चारस्थानत्वेनास्त्यस्य अर्श० अच्। १ पृथिवीसञ्चारिणि पितृभेदे ताण्ड्य० ब्रा० दृश्यः। २ ऋषिभेदे ततः विदा० अञ्। ओर्व तदपत्ये पुंस्त्री।

उर्वट = पु० उरु यथा तथाऽटति अट + अच् ६ त०। बत्से त्रिका०। तस्य दीर्घोल्लम्फादिना अटनात् तथात्वम्।

उर्वरा = स्त्री उरु शस्यादिकमृच्छति ऋ–अच् ६ त०। १ सर्वशस्याद्यभूमौ “पततां गर्णः पिवतु सार्द्धमुर्वरा” माघः २ भूमिमात्रे विश्वः ३ अधिकेंत्रि० उर्वरमधिवं जातमस्य तारका० इतच्। उर्वरित आधिक्ययुक्ते (उपचान) अधिके। उरून् महत ऋच्छति ऋ–अच् ६ त०। अप्सरोभेदे “कलानिधिर्गुणनिधिकर्पूरतिलकोर्व्वरा” काशीस्व०।

उर्वरासा = त्रि० उर्वरां भूमिं सनोति सन–विट् ङा। मूमिविभाजके पुत्रादौ “क्षेत्रासां ददथुरुर्वरासाम्” ऋ० ४, ३८, १, उर्वरासां पुत्रम्” भा०। २ उर्व्वराविभाजके त्रि० “त्वं नः सहस्रभरमुर्वरासाम्” ६, २०, १। “उर्वराणां भूमीनां सनितारं संभक्तारम्” भा०।

उर्वरी = स्त्री ऋ–गतौ वनिप् ङीप् वनोरश्च। आधिक्यप्राप्तायां स्त्रियाम् “ओषधीनामहं वृण उर्वरीरिव साधुया” अथ० १०, ४, २, अन्यलिङ्गे उर्वन् इत्येव

उर्वर्य = त्रि० उर्वरायां भवः यत्। १ सर्वशस्याढ्यभूमिभवे रुदभेदे “नम उर्वर्याय खल्याय” यजु० १६, ३३, रुद्राध्यायः।

उर्वशी = स्त्री उरून् अश्नुते वशीकरोति उरु + अश–क गौरा० ङीष्। स्वर्गवेश्याभेदे। अप्सरोभेदाश्च अप्सरः शब्दे उक्ताः इयञ्च नारायणोरुं भित्त्वा जाता यथोक्तं हरिवं० ८५ अ० “नारायणोरुं निर्भिद्य सम्भूता वरवर्णिनी। ऐलस्य दयिता देवी योषिद्रत्नं किमुर्वशी” ततश्च ऊरुं नारायणोरुं कारणत्वेनाश्नुते प्राप्नोति अश–क ङीष् पृ० ह्रस्वः। इति विग्रहः। इयमेव पुरूरवसःपत्नी आसीत्। “पुत्रोबुधस्योत्तमवीर्यकर्मा पुरूरवा युस्य सुतो सुदेवः। तथैव पश्चाच्चकमे महात्मा पुरोर्वशीमप्सरसां वरिष्ठाम” १५४ अ० “पुरूरवाः सुतोविद्वानिलायां समपद्यत” इत्युपकम्य “षट् सुता जज्ञिरे चैलादायुर्धीमानमावसुः। दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः” भा० आ० ७५ अ०। सा च इन्द्रलोकगतार्ज्जुनस्य समीपे रिरंसया गत्वा तेन प्रत्याख्याता तस्मै शापं ददाविति कथा भा० व० ४६ अ० “तव पित्राभ्यनुज्ञातां स्वयञ्च गृहमागताम्। यस्मान्मां नाभिनन्देथाः क मवाणवशंगताम्। तस्मात्त्वं नर्त्तनः पार्थ! स्त्रीमध्ये मानवर्जितः। अपुमानिति विख्यातः षण्डवद्विचरिष्यसि” २ नदीभेदे उर्वशीतीर्थशब्दे उदा०।

उर्वशीतीर्थ = न० मारतोक्ते तोर्थभेदे। “उर्व्वशीतीर्थमासाद्य ततः सोमाश्रमं बुधः” भा० व० ८४। तच्च नदीरूपम्। “उर्वशीं कृत्तिकायोगे गत्वा चैव समाहितः लौहित्ये विधिवत् स्नात्वा पुण्डरीकफलं लभेत्” भा० अनु० २५ अ०।

उर्वशीरमण = पु० उर्वशीं रमयति रम–ल्य ६ त०। चन्द्रवंश्ये बुधपुत्रे पुरूरवसि नृपे उर्वशीवल्लभादयोऽप्यत्र।

उर्वारु = पु० उरु–यया तथा ऋच्छति ऋ–उण्। कर्कट्याम्। स्वार्थे कन् अत्रैव। “उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्” ऋ० ७, ५९, १२,। यजु० ३, ६, “उर्वारुकमिव बन्धनादितो मुक्षीय मामुतः” ३, ७, अस्य स्त्रीत्वमपि अप्राणिजातिवचनत्वात् ऊङ्। उर्वारूः तदर्थे “छिन्ध्यस्य बन्धनं मूलमूर्वार्वा इव” अथ० ६, १४, १,

उर्वी = स्त्री उरु + गुणवचनत्वात् स्त्रियां वा ङीप्। १ वृहत्त्वयुक्तायां स्त्रियाम् “उर्व्वीं स्रजम्” उरुशब्दे उदा० २ पृथिव्यां च तस्यावृहत्त्वात् तथात्वम्। “तैरुर्वीनिहितचलत्पदं प्रचेले माघः। “अनन्यशासनामुर्वीं शशासैकपुरीमिव” “स्थितः सर्व्वोन्नतेनोर्वीम्” रघुः वेदे “सुपांसुलुगित्यादिना” पा० सर्वविभक्तौ डियजादेशः “सिन्धुर्नक्षोद उर्विया व्यश्वैत्” ऋ०१, ९२, १२, “उर्विया महती” भा० “प्रतीची चक्षुरुर्विया विभाति” १, ९२, ९। ३ नद्याम् निरु०।

उर्वीधर = पु० उर्वी धरति ऋ–अच् ६७०। पर्व्वते तेषां कीलकरूपेण अवष्टम्भनेन पृथिव्याधारकत्वात् तथात्वम् भूधरादयोप्यत्र “गर्भोऽभवत् भूधरराजपत्न्याः” कुमा०

उर्वीधव = पु० ६ त०। पृथिवीनाथे राजनि। उर्वीशोर्वीश्वर तन्नाथादयोत्यत्र

उर्वीभृत् = पु० उर्वीं बिभर्त्ति धारयति पालयति वा भृ–क्विप् तुक् ६ त०। १ पर्वते २ राजनि च एवं पृथिवीभृद्धरणीभृदादयोऽप्यत्र। “उदयति स्म तदद्भुतमालिभिर्धरणीभृद्भुवि तत्र विमृष्य यत्। अनुमितोऽपि हि बाष्पनिरीक्षणात् व्यभिचकार न तापकरोऽनलः” नैष० तत्र धरणीभृत् राजा पर्वतश्च अत्र व्यभिचारश्च साधनसमानाधिकरणाभावप्रतियोगित्वरूपः तेन साध्ये तत्सम्भवः तादृशव्यभिचारश्च उपाधिवादे चिन्तामणौ अङ्गीकृतः तच्च उपाधिशब्दे दर्शितम्

उर्वीरुह = पु० उर्व्यां रोहति रुह–क ७ त०। वृक्षे “हिरण्मयोर्वीरुहवल्लितन्तुभिः” माघः

उर्व्या = स्त्री उरोर्भाव बा० व्यत् उलोपश्च। महत्त्वे “रुद्राणामुर्व्यायां स्वादित्याः” शत० ब्रा० १, ५, १, १७, “उर्व्यायां महत्त्वे” भा०

उल = दाहे (सौत्रः) पर० सक० सेट्। ओलति औलीत्

उल = पु० उल–दाहे कर्मणि घञर्ये क। मृगभेदे “उलोहलिक्ष्णो वृषदंशस्ते धात्रे” यजु० २४, ३१। “उलोमृगभेदः” वेददी०। ततः चतुरर्थ्यां बला० य। उल्य मतकसन्निकृष्टदेशादौ त्रि०।

उ(ओ)लड = उत्क्षेपे इदित् वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट्। उ(ओ)लण्डयति ते उ(ओ)लण्डति औलिलण्डत् त औलण्डीत् अयं लडि ओदित् इत्येके।

उलन्द्र(न्द) = पु० राजभेदे तेन निर्वृत्तम् अरोहणादि० वुञ्। औलिन्द(न्द्र)क तन्निर्म्मितपुरादौ त्रि०

उलप = पु० न० वल–कपच् संप्रसारणम्। १ शाखापत्रप्रचययुतायां लतायाम् २ कोमले तृणभेदे न० (उलुखड)। “नवोलपालङ्कृतशैबलाभः” “उत्तीर्ण्णभारलघुनाप्यलघूलपौघसौहित्य निःसहतरेण तयोरधस्तात्” माघः।

उलप्य = पु० उलपे भवः यत्। रुद्रभेदे। “नमोलोप्याय चोलप्याय” यजु० १६, ४५, रुद्राध्यायः

उलिन्द = पु० वल–बा० किन्दच् संप्र०। देशभेदे उणादिकोषः।

उलु = त्रि० उरु रस्य लः। १ वृहति २ वृद्धियुक्तशब्दे च विवाहादौ स्त्रीभिरुच्चार्य्ये शब्देभेदे “प्रकारे गुणवचनस्य” पा० प्रकारे द्वित्वम्। उलूलु उरुप्रकारे। “उच्चैरुलूलुध्वनिरुच्चचार” नैष० “यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उलूलवोऽनूदतिष्ठन् सर्व्वाणि च भूतानि सर्व्वे च कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवीऽनुतिष्ठन्ति” छा० उ०। “उलूलवः उरूरवः विस्तीर्ण्णरवाः” शा० भा०।

उलुप = पु० उरु पायते रक्ष्यते अस्मात् पा रक्षणे–अपादाने घञर्थे क रस्य लः। उलपतृणे। “तृणोलुपपुलाकचिह्नानुमेयैर्जरत्कान्तारकूपैरिव” काद०

उलुलि = पु० उल–उलि। वृद्धिसूचकशब्दे। “पृथग् घोषा उलूलयः केतुमन्त उदीरताम्” अथ० ४, १९, ६,

उलूक = पु० बल–समवाये ऊक संप्रसारणम्। १ पेचके, जातित्वात् स्त्रियां ङीष् उलूकीसा च ताम्रायाः कन्यायाः श्येन्याः कन्या “षट् सुतास्तु महासत्वास्ताम्रायाः परिकीर्त्तिताः” इत्युपक्रम्य “शुकीशुकानजनयदुलूकीं प्रत्युलूककान्” विष्णुपु०। २ इन्द्रे, कैतव्ये ३ दुर्य्योधनदूतभेदे ४ तृणभेदे। (उलुखड) “त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः” माघः “श्वगोधोलूक काकांश्च शूद्रहत्याव्रतं चरेत्” मनुः “यदुलूको वदति मोघमेतत्” ऋ०१०, १६५, ४, “विविधाश्चैव सम्पीडाः काकोलूकैश्च भक्षणम्” मनुः। अत्र काकोलूकैरित्युक्तेः कालोलूकमित्यादि विरोधे समाहारैकत्वविधानं प्रायिकमिति गम्यते। “उलूकान् सुषुवे काकी श्येनी श्येनान् व्यसूयत” भा० आ० ६३। उलूकनामा दूतश्च युधिष्ठिरादीनां समीपे दुर्य्योधनेन प्रेषितः यथा “आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत्। उलूक! गच्छ कैतव्य! पाण्डवान् सहसोमकान्” इत्यादिना भा० उ० ५० १ अ०। उलूकश्च कैतव्यः कितव्यस्यापत्यम्। तदागमनमधिकृत्यैव उलूकदूतगमनपर्व उद्योगपर्वान्तर्गतं पर्व्व। ४ देशभेदे। “उलूकवासिनं राजन् वृहन्तमुपजग्मिवान्”। “उलूकानुत्तरां श्चैव तांश्च राज्ञः समानयत्” भा० स० अ०। अयञ्च देशः “प्रययावुत्तरां तत्माद्दिशं धनदपालिताम्” इत्युपक्रम्य तस्य कीर्त्तनात् धनञ्जयस्य उत्तरदिग्विजय एव तस्य उलूकदेशस्य वर्ण्णनाच्च उत्तरदेशवर्त्तीति गम्यते। ५ तद्देश नृपे च “उत्तरं पर्वतोद्देशं ये ते दुर्गसहा नृपाः। आरोहन्तु विमर्द्दन्तो वज्रप्रतिमगौरवाः। उलूकः कैतवेयश्च” हरिवं० ९९।

उलूकयातु = पु० उलूकरूपेण याति या–तुन्। असुरभेदे। “उलूकयातुं शुशूलूकयातुं जहि” ऋ० ७, १०४, १२। “उलूकरूपेण यातमुलूकयातुम्” भा०।

उलूखल = न० ऊर्द्ध्वं खम् उलूखं पृषो० तत् लाति गृह्णाति ला–क। धान्यादिकण्डनसाधने काष्ठमये १ पात्रे (उखरी) तच्च यज्ञियपात्रभेदः। तल्लक्षणमुक्तम् “उलूखलमुषले अरत्निमात्रे औदुस्वरे प्रादेशमात्रे चतुरस्रमुलूखलं मध्यसंगृहीतमूर्द्ध्वं वृत्तम्, मुषलं दक्षिणमुलूखलात्” कात्या० १७, ५, ३। तदुत्तरत्र सूत्रेऽऽपि उदा०। “वनस्पतिभ्य इत्येव मुषलोलूखले हरेत्” मनुः “स्फ्यशूर्पशकटानाञ्च मुषलोलूखलस्य च। अद्भिस्तुंप्रोक्षणं शौचं बहूनां धान्यवाससाम्” तस्य मनूक्ताशौचं ज्ञेयम् उलूखलंशब्दस्य यास्केनान्यथा निरुक्तिर्दर्शिता यथा। “उलूखलमुत्करं वोर्करं वोर्द्ध्वकं वोरु मे कुर्वित्यब्रवीत्तदुलूखलमभयमुत्करं वै तदुलूखलमित्याक्षते परोक्षेण”। स्वार्थे कन् तत्रार्थे “गृहे गृह उलूखलके” ऋ० १, १२८, ५। तदस्य साधनत्वेनास्त्यस्य ठत्। उलूखलिकः। तत्साधनके जने “दन्तोलूखलिकोऽपि व” मनुः। २ गुग्गुलौ पु०

उलूखलसुत = पु० ३ त०। उलूखलेनाभिषुते सोमरसे “उलूखलसुतानामवेद्विन्द्रः” ऋ० १, २८, १, २, ३।

उलूत = पु० उल–बा० ऊतच्। अजगरसर्पे त्रिका०।

उलूपिन = पु० ओ शम्भोः रूपमस्त्यस्य इनि रस्य लः। शिशुमारे अमरः। पृ० ह्रस्वपाठोऽपि तत्रैव उलपिन् इत्यपि पाठः क्वचित् तत्रार्थे।

उलूपी = स्त्री कौरव्यनागकत्याभेदे तत्कया भा० आ० २४१ अ०। “उलूप्यवाच ऐरावतकुले जातः कौरव्यो नाम पन्नगः। तस्याऽस्मि दुहिता राजन्! उलूपी नाम पन्नगी। साहित्वामभिषेकार्थमवतीर्णं समुद्रगाम्। दृष्ट्वैव पुरुषव्याघ्र! कन्दर्पेणाभिमूर्च्छिता। तां मामनङ्गग्लपितां त्वत्कृते कुरुनन्दन!। अनन्यां नन्दयस्वाद्य प्रदानेनात्मनोऽनघ!। अर्जुन उवाच। ब्रह्मचर्य्यमिदं भद्रे! मम द्वादशवार्षिकम्। धर्म्मराजेन चादिष्टं नाहमस्मि स्वयंवशः। तव चापि प्रियं कर्त्तुमिच्छामि जलचारिणि!। अनृतं नोक्तपूर्वञ्च मया किञ्चन कर्हिचित्। कथञ्च गानृतं मे स्यात्तव परिप्रियं भवेत्। न च पीड्येत मे धर्म्मस्तथा कुर्य्यां भुजङ्गमि!। उलूप्युवाच। जानाम्यहं पाण्डवेय! यथा चरसि मेदिनीम्। यथा च ते ब्रह्मचर्य्यमिदमादिष्टवान् गुरुः। परस्परं वर्त्तमानान् द्रुपदस्यात्मजां प्रति। यो नोऽनुप्रविशेन्मोहात्स वै द्वादशवार्षिकम्। वने चरेद्ब्रह्मचर्य्यमिति वः समयः कृतः। तदिदं द्रौपदीहेतोरन्योऽन्यस्य प्रवासनम्। कृतवांस्तत्र धर्म्मार्थमत्र धर्मो न दुष्यति। परित्राणञ्च कर्त्तव्यमार्त्तानां पृथुलोचन!। कृत्वा मम परित्राणं तव धर्म्मो न लुप्यते। यदि वाऽप्यस्य धर्म्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः। स च ते धर्म्म एव स्याद्दत्त्वा प्राणान्ममार्जुन!। भक्ताञ्च भज मां पार्थ! सतामेतन्मतं प्रभो!। न करिष्यसि चेदेवं मृतां मामुपधारय। प्राणदानान्महाबाहो! चर धर्म्ममनुत्तमम्। शरणञ्च प्रपन्नाऽस्मि त्वामद्य पुरुषोत्तम। दीनाननाथान् कौन्तेय! परिरक्षसि नित्यशः। साऽहं शरणमभ्यैमि रोरवीमि चदुःखिता। याचे त्वां चाभिकामाऽहं तस्मात्कुरु मम प्रियम्। स त्वमात्मप्रदानेन सकामां कर्त्तुमर्हसि। वैशम्पायन उवाच। एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया। कृतवांस्तत्तथा सब्ब धर्ममुद्दिश्य कारणम्। स नागभवने रात्रिं तामुषित्वा प्रतापवान्। उदितेऽभ्युत्थितः सूर्य्ये कौरव्यस्य निवेशनात्। आगतस्तु पुनस्तत्र गङ्गाद्वारं तया सह। परित्यज्य गता साध्वी उलूपी निजमन्दिरम्। दत्त्वा वरमजेयत्वं जले सर्व्वत्र भारत!। साध्या जलचराः सर्व्वे भविष्यन्ति न संशयः”।

उल्का = स्त्री उष–दाहे क नि० षस्य लं। रेस्वाकारे गगनात् पतत्तेजःपुञ्जे। अग्न्युत्पातशब्दे ६२ पृष्ठे तत्स्वरूपफलादिकमुक्तम्। “बाधेतोलकाक्षपितचमरीबालभारोदवाग्निः” मेघ०। “उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च”। “उल्कापाते द्रिशां दाहे गोमायुविरुते तथा” “विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे” मनुः। “स्फुर- लकाकृति विक्षिपन्वनेषु” किरा०। उल्काकारणमुक्तम् श्रीपतिना “यासां गतिर्दिवि भवेद्गणितेन गम्या तास्तारकाः सकलखेचरतोऽतिदूरे। तिष्ठन्ति या अनियतोद्गतयश्च ताराश्चन्द्रादधोहि निवसन्ति तदन्वितास्ताः। शीतांशुवज्जलमयास्तपनात् स्पुरन्ति ताश्चावहपवहमारुतसन्धिसंस्थाः। पूर्ब्बानिलैस्तिमितभावमपागतेऽस्मिंस्ताराः पतन्ति कुहचिद्गुरुतावशेन”। (ज्वलन्तखटेरनुडा) २ शुष्कवृणवस्त्रादिदोपिते (मशाल) इति प्रसिद्धे ३ दीपभेदे च। “तुलाराशिं गते भानौ अमावास्यां नराधिपः। स्नात्वा देवान् पितॄन् भक्त्या संपूज्याथ प्रणम्य च। कृत्वा तु पार्वणश्राद्धं दधिक्षीरगुडादिभिः। ततोऽपराह्णसमये घोषयेन्नगरे नृपः। लक्ष्मीः संपूज्यतां लोका! उल्काभिश्चापि वेष्ट्यताम्” ति० त० ज्यो० उल्कादाने दर्शद्वैधे निर्णयः। “तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्शयोः। उल्काहस्ता नराः कुर्युः पितॄणां मार्गदर्शनम्” ति० त० ज्यो० वचनात् प्रदोषव्यापिदर्शे कार्यम्। उभयत्र प्रदोषप्राप्तौ परदिने एव, युग्मादिशास्त्रात्। “दण्डैकरजनीयोगोदर्शस्य स्यात् परेऽहनि। तदा विहाय पूर्वेद्यु परेद्युः सुखरात्रिका” ज्योतिर्वचनाच्च। उभयत्र प्रदोषाप्राप्तावपि उल्कादानं पूर्वोक्तपार्वणानुरोधात्, न पूर्ब्बदिने भूताहे ये प्रकुर्बन्ति उल्काग्रहमचेतसः। निराशाः पितरो यान्ति शापं दत्त्वा सुदारुणम्” ज्योतिर्वचनात्। उल्काग्रहणादि पितृकृत्यत्वात् प्राचीनावीतिना दक्षिणाभिमुखेन कार्यम्। “प्राचीनवीतिना सम्यगपसव्यमतन्द्रिणा। पित्र्यमा निधनात् कार्यं विधिवद्दर्भपाणि ना” मनूक्तेः। तद्दानमन्त्रादि ति० त० दृश्यम्। ४ ज्योतिषोक्ते नाक्षत्रिकदशाभेदे। “मङ्गला पिङ्गला धान्या भ्रामरी भद्रिका तथा। उल्का सिद्धा सङ्कटा च ह्यष्टौज्ञेया महादशाः” ज्यो०। तदानयनञ्च “वह्निभान्मीननक्षत्राज्जन्मर्क्षाच्छिवभादथ” इत्युक्तेः मतभेदेन कृत्तिकानक्षत्रात् पूर्व्वभाद्रपदचतुर्थपादात् जन्मनक्षत्राद्वाऽऽरम्य एवैकास्तात्रिरावृत्त्या क्रमेण मङ्गलादिका दशा भवन्ति इत्येवं चतुर्विंशतिनक्षत्रेप त्रिरावृत्त्या अष्टौ दशा अवसेयाः ततोऽन्तिमत्रिभेषुमङ्गंलाद्यास्तिस्रो भवन्ति। एवमन्यत्राप्यूह्यम्। तासां भोगकालश्चं। “एकाद्येकोत्तरा अष्टयोगिनीवत्सरा मताः इत्युक्त्या मङ्गलायाः १ एकोवर्षः पिङ्गलायाः २ द्वौ, धान्यायास्त्रयः, भ्रामर्याः ४ वर्षाः, भद्रिकायाः पञ्च, उल्कायाः षट्, सिद्धायाः सप्त, सङ्कटायाः अष्टौ वर्षाः, तेषां योगेन ३६ वर्षामङ्गलाद्यानां भोगकाला, इत्येबं त्रिरावृत्त्या अष्टोत्तरशतर्षास्तासां भोगकालः। अन्तर्दशादिकं योगिनीशब्दे वक्ष्यते।

उल्काचक्र = न० रुद्रयामलोक्ते ग्राह्यमन्त्रशुभाशुभज्ञापक चक्रभेदे “उल्काचक्रं सर्वसारं मन्त्रदोषादिनिर्णयम्। मत्स्याकारमूर्द्ध्वमुखं सर्वमन्त्रादिविग्रहम्। स्कन्धदेशावधि नाथ! पुच्छपर्यन्तमेव च। अकाराक्षरमारभ्य द्वादशाक्षरमातृकम्। विलिखेत् पृष्ठदेशं तु शुभाशुभविशुद्धये। त्रयोदशाक्षरान्नाथ! एकविंशाक्षरान्तकम्। नेतव्यंसाधकैर्मन्त्रं पृष्ठस्थं समुदाहृतम्। तथा श्रीशुभदं प्रोक्तं कण्ठादिपुच्छकान्तकम्। द्वाविंशादि चतुस्त्रिंशदक्षरान्तं शुभं मनुम्। पुच्छस्थं नापि गृह्णीयान्मुखस्थञ्च तथा ध्रुवम्। शीर्षस्थञ्चापि गृह्णीयात् तदक्षरं शृणु प्रभो!। पञ्चत्रिंशादि द्वाचत्वारिंशद्वर्णान्तमेव च। मस्तकस्थं शुभं प्रोक्तं मुखवर्णान् शृणु प्रभो। त्रिचत्वारिंशवर्णादि एकपञ्चाशदन्तकम्। मुखस्थमन्त्रं मन्त्री तु न गृह्णीयात् कदाचन। पुच्छस्थं शृणु यत्नेन निरर्थकमहार्त्तिदम्। भ्रमो गात्रस्य पीडाभिः देवता कुप्यतेऽनिशम्। द्विपञ्चाशदक्षरादि एकपष्टितमान्तिकान्। वर्णान् पुच्छस्थितान् प्रोक्तान् नेत्रस्थान् शृणु वल्लभ!। द्विषष्टितमवर्ण्णादि चतुषष्ठ्यक्षरान्तकम्। अङ्गं लोचनमन्त्रञ्च ततोऽन्यत् रसनास्थितम्। तत् सर्वं शुभदं प्रोक्तं एतदन्यतम शृणु। वैष्णवानाञ्च शैवानां शाक्तानां मन्त्रजापनम्। अन्यदेवेषु भक्तानां भक्तिमुक्तिप्रदं नृणाम्”। “एतच्च चतुषष्टिस्त्रिषष्टिर्वा वर्ण्णाः सम्भवतोमताः। स्वराविंशतिरेकश्च स्पर्शानां पञ्चविंशतिः। यादयश्च स्मृताश्चाष्टौ चत्वारश्च यमास्तथा। अनुस्वारो विसर्गश्च + क~पौ चापि पराश्रितौ। दुस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव च” इति शिक्षोक्तविभागाभिप्रायं चतुःषष्टेरन्यकथनम् कॢकारस्य दीर्घसत्त्वमतेनेति बोध्यम्।

उल्काजिह्व = पु० उल्केव जिह्वाऽस्य। रामा० प्रसिद्धे राक्षसभेदे

उल्काप्रुख = पु० उल्केव मुखमस्य। प्रेतभेदे “वान्ताश्युल्कामुखः प्रेतो विप्रोधर्म्मात् स्वकात् च्युतः” मनुः (ख्याङ सेओयालि) इति प्रसिद्धे जन्तुभेदे स्त्री ङीष्।

उल्कुषी = स्त्री उल्–दाहे क्विप् उला दाहेन कुष्णाति कुष्–क गौ० ङीष्। उल्कायाम्। “अशनिरेव प्रथमोऽवुयाजः ह्रादुनिर्द्वितीय उल्वषी तृतीयः”। “उल्कुष्यमुं जहीति तृतीयम्” “उल्कुषीह तमनयाजोहन्ति” उल्- कुष्यन्तस्तस्माद्वै देवानां यज्ञः” इति शत० ब्रा० ११, २, ७, २१, २५, “उल्कुषी उल्का” भा०। “अभिचरन्ननुयाजानुमन्त्रणमशन्यमुं जहि ह्रादुन्यमुं जहि उल्कुष्यमुं जहि” कात्या० ३, ५, १४,

उल्ब = न० उला दाहेन बणति वण–बा० ड। जरायौ गर्भ वेष्टनचर्म्मणि। “यथोल्बेनावृतीगर्भस्तथा तेनेदमावृतम्” गीता। “तस्योत जायमानस्योल्ब आसीद्धिरण्ययः” अथ० ४, २, ८, “गर्भो वा एष यद्वीक्षित उल्बं वासः प्रोर्णुते”। “तस्माद्गर्भाः प्रावृता उल्बेन जायन्ते तैत्ति० सं० “उल्वे गर्भवेष्टने तिष्ठति” यजु० ५, ३, ४, १८, “गर्भोजरायुणावृतः उल्वं जहाति जन्मना” १९, ७६,

उल्बण = त्रि० उला बणति अच्। १ उत्कटे २ प्रकाशान्विते ३ नतोन्नते च। “त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा नृपैः। तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः” रघुः “प्रववर्ष च तत्रैव सहसा तोयमुल्बणम् भा० व० ९ अ०।

उल्मुक = न० उष–दाहे मुक, षस्य लः। १ ज्वलदङ्गारे अमरः। २ वृष्णिभेदे “उल्मुकोनिशठश्चैव वीरश्चाङ्गावहस्तथा भा० स० ३३ अ० ३ अग्न्याधानार्थे ज्वलदङ्गारे च। “अन्वहार्य्यपचनादुल्मुकमादायोदङ् परेत्य जुहोति” शत० ब्रा० २, ६, २, ७ “उद्यत एवैष आग्नीध्रीयोऽग्निर्भवत्यथैत एकैकमेवोल्मुकमादाय यथाधिक्यं विपरायन्ति तैरेव तेषामुल्मुकैः प्रघ्नन्तीति” ४, ६, ८, ७। उल्मुके भवः यत्। उल्मुखसाध्ये त्रि०। “अथ हैक उल्मुक्येन दहन्ति” शत० ब्रा० १२, ५, १, १६।

उल्लङ्घन = न० उद् + लघि–भावे ल्युट्। अतिक्रमे, ऊर्द्ध्वभागगमनादिना अतिक्रमणे (डिङ्गान)।

उल्लल = त्रि० उत् + लल–अच्। १ बहुरोगयुक्तं हारा०। २ उच्चलिते त्रि०।

उल्ललित = त्रि० उद् + लल–क्त। १ उच्चलिते २ तरलिते, ३ आन्दोलिते च।

उल्लसन = न० उद् + लस–ल्युट्। १ उल्लासे हर्षजनकव्यापारे आधारे ल्युट्। संज्ञायां कन्। २ रोमाञ्चे हेम०।

उल्लसित = त्रि० उद् + लस–क्त। १ स्फुरिते २ उद्धते ३ हृष्टे च।

उल्लाघ = त्रि० उद् + लाघ–क्त नि०। १ रोगनिर्मुक्ते, २ दक्षे, ३ शुचौ, च। ४ मरिचे पु०।

उल्लाप = पु० उद् + लप–घञ्। १ काकुवाक्ये, २ शोकरोगादिना विकृतस्वरयुक्तवाक्ये ३ दुष्टवाक्ये “खलोल्लापाः सोढाः कथमपि तदाराधनपरैः” वारा०। ४ सूचने च ततोऽस्त्यर्थेठन्। सूचके त्रि० “लाजोल्लापिकधूमाढ्य- मुच्चप्राकारतोरणम्” भा० उ० १९२ अ०

उल्लापन = न० उद् + लप–णिच्–ल्युट्। वृत्त्यादिना व्याख्याने।

उल्लास = पु० उद्–लस–घञ्। १ प्रकाशे, २ आह्लादे, “निपतन्ति कन्दलवनोल्लासाः पयोविन्दवः” अमरुशत०। “सौहित्यवचनोल्लाससहासप्रतिभादिकृत्” सा० द०। ग्रन्थस्याध्यायस्थानीये ३ परिच्छेदे च यथा काव्यप्रकाशे। ४ प्रारम्भे च

उल्लासिन् = त्रि० उद + लस–णिनि। १ उल्लासयुक्ते प्रभान्विते ३ आह्लादिनि स्त्रियां ङीप्। “सुमनसामुल्लासिनीमानसे” चन्द्रालोकः।

उल्लिखित = त्रि० उद् + लिख–क्त। १ उत्कीर्णे २ तनूकृते “त्वष्ट्रेव यन्त्रोल्लिखितो विभाति” रघुः। ३ उपरि लिखिते। ४ चित्रिते ५ कर्त्तव्यतया कृतोल्लेखे पदार्थे च।

उल्लुञ्चन = न० उद् + लुचि–अपनयने ल्युट्। १ उत्कर्त्तने (उपडान) २ उन्मूलने च “पादकेशांशुककरोल्लुञ्चने च पणान् दश” या०

उल्लुण्ठन = न० उद् + लुठि–ह्नुतौ। स्वाभिप्रायापह्नवेन अन्यथाभाषप्रकाशने (ठाट्टा) अ। उल्लुण्ठाऽप्यत्र स्त्री। “धीराधीरा तु सोल्लुण्ठभाषितैः संतुदेदमुम्” यथा “अनलङ्कृतोऽपि सततं हरसि मनोमे यतः प्रसभम्। किं पुनरलङ्कृतस्त्वं सम्प्रति नखरक्षतैस्तस्याः” सा० द० अत्र सपत्नीनखक्षतदर्शनजातेर्ष्यापह्नवेन मनोहर्षजनकत्वोक्तिस्तदभावद्योतनार्था”।

उल्लू = त्रि० उद् + लू–क्विप्। उत्पाटके

उल्लेख = पु० उद् + लिख–घञ्। इदं कर्त्तव्यमित्यादिना संकल्पितार्थप्रतिपादकशब्दोच्चारणे “संज्ञाशब्दस्येदमेव प्रयोजनम् यत्तयोल्लेखः” ति० त०। अलङ्कारभेदे पु० स च ३९८ पृ० उक्तः। २ घर्षणे च। “असकृन्निशितशस्त्रोल्लेखविषमितशिखरेण” काद०। ३ उत्कीर्त्तने च

उल्लेखन = न० उद् + लिख–ल्युट्। १ वमने, २ खनने, कर्त्तव्यतया ३ संकाल्पतार्थकवाक्योच्चारणे “मासपक्षतिथीनाञ्च निमित्तानाञ्च सर्व्वशः। उल्लेखनमकुर्व्वाणोन तस्य फलभाग् भवेत्” ति० त० व्र० पु०। “संकल्पेन विना राजन्। यत्किञ्चित् कुरुते नरः। फलं चाल्पाल्पकं तस्य धर्म्मस्यार्द्धक्षयो भवेत्” ति० त० ब्र० पुराणाच्च संकल्पवाक्ये मासादीनामवश्यं कीर्त्तनीयताऽवगम्यते। “मनसा सङ्कल्पयति वाचाऽभिलपतीत्युक्तेरपि अभिलापस्यावश्यकता। अभिलापवाक्ये च मासादिनिमित्तानामिव आत्मसम्बन्धित्वेन तत्तत्कर्मादिकस्यापि कीर्त्तनं कर्त्तव्यम्” “प्रत्येकं नि- यतं कालमात्मनोव्रतमादिशेत्” प्रा० त० संव० उक्तेः। “सेकादुत्ल्लेखनाल्लेपात् गृहं मार्ज्जनलेपनात्” “सम्मार्ज्जतोपाञ्जनेन सेकेनोल्लेखनेन च” मनुः। यज्ञे वह्निस्यापनाङ्गस्थण्डिलादिस्थबालुकादौ रेखाभिः ४ चिह्नकरणे। “ओल्लेखनात् करोति मेखलादि चेत्” कात्या०७, ४, ९। तदा मूमौ प्राच्यां रेखया उल्लेखनान्तं कर्म्म कुर्य्यात्” कर्क। ५ घर्षणे च।

उल्लोच = पु० ऊर्द्ध्वं लोच्यते उद् + लोच–कर्मणि घञ् निष्ठायां सेटकत्वात् न कुत्वम्। चन्द्रातपे विताने।

उल्लोप्य = न० उद् + लुप–यत्। लौकिकगीतिभेदे। तच्च मिताक्षरायां दर्शितं यथा। “यस्य पुनश्चित्तवृत्तिर्न्निराकारालम्बनतया समाधौ नाभिरमते तेन शब्दब्रह्मोपासनं कार्य्यमित्याह। “यथाविधानेन पठत् सामगायमविच्युतम्। सावधानस्तदभ्यासात्परं ब्रह्माधिगच्छति” या०। “स्वाध्यायावगतमार्गानतिक्रमेण सामगायं साम्नोगानात्मकत्वेऽपि गायमिति विशेषणम् अगोतमन्त्रव्युदासार्थम्। अविच्युतमक्खलितम्। सावधानः समाध्यनुष्यूतात्मैकाग्य्रचित्तवृत्तिः। पठन् तदभ्यासवशात्तत्र निष्णातः। शब्दाकारशून्योपासने परम्ब्रह्माधिगच्छति। तदुक्तम्। “शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छतीति”। यस्य पुनर्वौदक्याङ्गीतौ चित्तं नाभिरमते तेन लीकिकगीतानुष्यूतात्मोपासनङ्कार्य्यमित्याह। “अपरान्तकमुल्लोप्यं मद्रकम्प्रकरीन्तथा। औवेणकं सरोविन्दु मुत्तरङ्गीतकानि च। ऋग्गाथापाणिकादक्ष विहिता ब्रह्मगीतिका। गेयमेतत्तदभ्यासकरणान्मोक्ष संज्ञितम्” या०। “अपरान्तकोल्लोप्यभद्रकप्रकर्य्यौवेणकानि सरोविन्दुकसहितञ्चोत्तरमित्येतानि प्रकरणाख्यानि सप्त गीतकानि। चशब्दादासारितबर्द्धमानकादि गीतकानि गृह्यन्ते। गाथाद्याश्चतस्रोगीतकानि गृह्यन्ते। ऋग्गाथाद्याश्चतस्रोगीतिका इत्येतदपरान्तकादिगीतजातमध्यारोपितात्मभावम्मोक्षसाधनत्वान्मोक्षसंज्ञितं मन्तव्यम्। तदभ्यासस्यैकाग्रतापादनद्वारेणात्मैकतापत्तिहेतुत्वात्। “चित्तविक्षेपाद्यन्तरायहतस्य गीतज्ञस्य फलान्तरमाह। “गीतज्ञो यदि योगेन नाप्नोति परमम्पदम्। रुद्रस्यानुचरोभूत्वा सह तेनैव मोदते” या०। “गीतज्ञोयदि कथञ्चिद्योगेन परमम्पदन्न प्राप्नोति। तर्हि रुद्रस्य सचिवोभूत्वा तेनैव सह मोदते”।

उल्लोल = पु० उद + लोल–घञ्। १ महातरङ्गे अमरः। २ अतिचञ्चले त्रि०।

उल्व = पु० उच–समवाये आधारे वन् “उल्वादयश्च” उणा० नि० चस्य लः गुणाभावश्च। गर्भवेष्टनचर्म्मणि “उल्वावृतोगर्भोदश वा मासान्नन्तः शयित्वा यावद्वाऽथ जायते” छा० उ०। “उल्वावृत इत्यादि वैराग्यहेतोरिदमुच्यते। कष्टं हि मातुः कुक्षौ मूत्रपुरीषवातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य गर्भस्योल्वाऽशुचिपूयावृतस्य लोहितरेतोऽशुचिवीजस्य मातुरशितपीतरसानुप्रवेशेन विवर्द्धमानस्य निरुद्धशक्तिबलवीर्य्यतेजः प्रज्ञाचेष्टस्य शयनं, ततो योनिद्वारेण पीड्यमानस्य कष्टतरा निःसृतिर्जन्मेति वैराग्यं ग्राहयति मुहूर्त्तमप्यसह्यं दश वा मासानतिदीर्घकालमन्तःशयित्वेति” इति शा० भा०। कर्त्तरि वन्। २ गर्भे

उल्वण = त्रि० उला दाहेन वलति पचाद्यक् पृषो। व्यक्ते स्पष्टे उल्बणशब्दे उदा०।

उश = त्रि० वश–क। कामयमाने “अपो यदग्न उशधग् वनेषु” ऋ० ३, ६, ७। “कामयमानदाही” भा०

उशत् = त्रि० वश–शतृ सम्प्र०। कामयमाने। “उशन् हवै वाजश्र यः सर्वसदेवसं ददौ” कठ उ० स्त्रियां ङीप्। “उशतीरिव मातरः” अघमर्षणसूक्तम्। सा च अकल्याणायां वाचि” शब्दरत्ना०। तत्र रुशतीत्येव पाठोयुक्तः रुश सिंहायामित्यादिकस्यैव शत्रन्तस्य तद् रूपम्। इति अमरटीकायां भानुजदीक्षितः। उशतीति पाठस्तु लिपिकरप्रमादात्। तन्मूल एव शब्दकल्पद्रुमोऽपि चिन्त्यः वशधातोरिच्छार्थकतया तथार्थत्वासम्भवात्।

उशनस् = पु० वश–कनसि सम्प्र०। भार्गवे शुक्रे। सौ उशना संबुद्धौ उशनन्–उशन,–उशनः। “अध्यापितस्योशनसापि नीतिम्” कुमा०। उशनसा प्रोक्तम् अण्। औशनस तत्कृते धर्मशास्त्रे “मन्वत्रिर्विष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः” इत्युपक्रम्य “धर्मशास्त्रप्रयोजकाः याज्ञ०। तस्येदम् अण्। तदीये त्रि० स्त्रियां ङीप् औशनसी नीतिः। अयञ्चासुराणां पुरोहितः यथोक्तम् “सुराणामसुराणाञ्च समजायत वै मिथः। ऐश्वर्य्यं प्रति संघर्षस्त्रैलोक्ये सचराचरे। जिगीषया ततो देवावव्रिरेऽङ्गिरसं मुनिम्। पौरहित्येन याज्यार्थे काव्यं तूशनसं परे। ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्द्धिनौ नृप!” भा० आ० ७६ अ०। “असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत्। ख्याता उशनसः पुत्राश्चत्वारोऽसुरयाजकाः” भा० आ० ६५ अ०। सच भृगुपुत्रः भा० आ० ६६ अ० उक्तः “भृगोः पुत्रः कविर्विद्वान् शुक्रः कविसुतो ग्रहः। त्रैलोक्य प्राणयात्रार्थं वर्षावर्षे भयाभये। स्वयम्भुवा नियुक्तः सन् भुवनं परिधावति। योगाचार्य्योमिताहारो दैत्यानामभवद्गुरुः”। तस्य नक्षत्रविशेषगत्या वर्षादिफलादिकम् वृ० सं० ९ अ० उक्तम् “नागगजैरावतवृषभगोजरद्गवमृगाजदहनाख्याः। अश्विन्याद्याः कैश्चित् त्रिभाः क्रमाद्वीथयः कथिताः। नागा तु पवनयाम्यानलानि पैतामहात्त्रिभात्त्रिस्त्रः। गोवीथ्यामश्विन्यः पौष्णं द्वे चापि भाद्रपदे। जरद्गव्यां श्रवणात् त्रिभं मृगाद्यात् त्रिभं च मैत्राद्यम्। हस्तविशाखात्वाष्ट्राण्यजेत्यषाढाद्वयं दहना। तिस्रस्तिस्रस्तासां क्रमादुदङ्मध्ययाम्यमार्गस्थाः। तासामप्युत्तरमध्यदक्षिणावस्थितैकैका। वोथीमार्गानपरे कथयन्ति यथा स्थिता भमार्गस्य। नक्षत्राणां तारा याम्योत्तरमध्यमांस्तद्वत्। उत्तरमार्गो याम्यादिर्निगदितो मध्यमस्तु भाग्याद्यः। दक्षिणमार्गोऽषाढादिः कैश्चिदेवं कृता मार्गाः। ज्योतिषमागमशास्त्रं विप्रतिपत्तौ न योग्यमस्माकम्। स्वयमेव विकल्पयितुं किन्तु बहूनां मतं वक्ष्ये।

उत्तरवीथिषु शुक्रः सुभिक्षशिवकृद्गतोऽस्तमुदयं वा। मध्यासु मध्यफलदः कष्टफलो दक्षिणस्थासु। अत्युत्तमोत्तमोनं सममध्यन्यूनमधमकष्टफलम्। कष्टतमं सौम्याद्यासु वीथिषु यथाक्रमं ब्रूयात्। भरणीपूर्वं मण्डलमृक्षचतुष्कं सुभिक्षकरमाद्यम्। वङ्गाङ्गमहिषवाह्लीककलिङ्गदेशेषु भयजननम्। अत्रोदितमारोहेद्ग्रहोऽपरो यदि सितं ततो हन्यात्। भद्राश्वशूरसेनकयौधेयककोटिवर्षनृपान्। भचतुष्टयमार्द्रादां द्वितीयममिताम्बुशस्यसम्पत्त्यै। विप्राणामशुभकरं बिशेषतः क्रूरचेष्टानाम्। अन्यनात्राक्रान्ते म्लेच्छाटविकाश्वजाविगोमन्तान्। गोनर्दनीच शूद्रान् वैदेहांश्चानयः स्पृशति। विचरन् मघादिपञ्चकमुदितः शस्यप्रणाशकृच्छुक्रः। क्षुत्तस्करभयजननो नीचोन्नतिसङ्करकरश्च। चित्राद्येऽवष्टब्धो हन्त्ययेनाविकाञ्छबरशूद्रान्। पुण्ड्रापरान्तशूलिकवनवासिद्रविडसामुद्रान्। स्वात्याद्यं भत्रितयं मण्डलमेतच्चतुर्थमभयकरम्। ब्रह्मक्षत्रसुभिक्षाभिवृद्धये मित्रभेदाय। अत्राक्रान्ते मृत्युः किरातभर्तुः पिनष्टि चेक्ष्वाकून्। प्रत्यन्तावन्तिपुलिन्दतङ्गणाञ्छूरसेनांश्च। ज्येष्ठाद्यं पञ्चर्क्षं क्षुत्तस्कररोगदं प्रबाधयते। काश्मीराश्मकमत्स्यान् सचारुदेवानवन्तींश्च। आरोहेऽत्राभीरान् द्रविडाम्बष्ठत्रिगर्तसौराष्ट्रान्। नाशयति सिन्धुसौवीरकांश्च काशीश्वरस्य बधः। षष्ठं षण्नक्षत्र शुभमेतन्मण्डलं धनिष्ठाद्यम्। भूरिध- नगोकुलाकुलमनल्पधान्यं क्वचित् सभयम्। अत्रारोहे शूलिकगान्धरावन्तयः प्रपीड्यन्ते। वैदेहबधः, प्रत्यन्तयवनशकदासपरिवृद्धिः। अपरस्यां स्वात्याद्यं ज्येष्ठाद्यं चापि मण्डलं शुमदम्। पित्र्याद्यं पूर्वस्यां शेषाणि यथोक्तफलदानि। दृष्टोऽनस्तगतेऽर्के भयकृत् क्षुद्रोगकृत् समस्तमहः। अर्धदिवसं च सेन्दुर्नृपवलपुरभेदकृच्छुक्रः। भिन्दन् गतोऽनलर्क्षं कूलातिक्रान्तवारिवाहाभिः। अव्यक्ततुङ्गनिम्ना समा सरिद्भिर्भवति धात्री। प्राजापत्ये शकटे भिन्नेकृत्वेव पातकं वसुधा। केशास्थिशकलशवला कापालमिव व्रतं धत्ते। सौम्योपगतो रसशस्यसङ्क्षयायोशनाः समुद्दिष्टः। आर्द्रागतस्तु कोशलकलिङ्गहा सलिलनिकरकरः। अश्मकवैदर्भाणां पुनर्वसुस्थे सिते महाननयः। पुष्ये पुष्टा वृष्टिर्विद्याधरगणविमर्दश्च। अश्लेषासु भुजङ्गमदारुणपीडावहश्चरञ्छुक्रः। भिन्दन् मघां महामात्रदोषकृद्भूरिवृष्टिकरः। भाग्ये शवरपुलिन्दप्रध्वंसकरोऽम्बुनिवहमोक्षाय। आर्यम्णे कुरुजाङ्गलपाञ्चालघ्नः सलिलदायी। कौरवचित्रकराणां हस्ते पीडा जलस्य च निरोधः। कूपकृदण्डजपीडा चित्रास्थे शीभना वृष्टिः। स्वातौ प्रभूतवृष्टिर्दूतबणिग्नाविकान् स्पृशत्यनयः। ऐन्द्राग्न्येऽपि सुवृष्टिर्बणिजां च भयं विजानीयात्। मैत्रे क्षत्रविरोधो ज्येष्ठायां क्षत्रमुख्यसन्तापः। मौलिकभिषजां मूले त्रिष्वपि चैतेष्वनावृष्टिः। आप्ये सलिलजपीडा विश्वेशे व्याधयः प्रकुप्यन्ति। श्रवणे श्रवणव्याधिः पाषण्डिभयं धनिष्ठासु। शतभिषजि शौण्डिकानामजैकपे द्यूतजीविनां पीडा। कुरुपाञ्चालानामपि करोति चास्मिन् सितः सलिलम्। अहिर्बुध्न्ये फलमूलतापकृद्यायिनां च रेवत्याम्। अश्विन्यां हयपानां याम्ये तु किरातयवनानाम्। चतुर्दशे पञ्चदशे तथाष्टमे तमिस्रपक्षस्य तिथौ भृगोः सुतः। यदा व्रजेद्दर्शनमस्तमेति वा तदा मही वारिमयीव लक्ष्यते। गुरुर्भृगुश्चापरपूर्वकाष्ठयोः परस्परं सप्तमराशिगौ यदा। तदा प्रजा रुग्भयशोकपीडिता न वारि पश्यन्ति पुरन्दरोज्झितम्। यदा स्थिता जीवबुधारसूर्यजाः सितस्य सर्वेऽग्रपथानुवर्त्तिनः। नृनागविद्याधरसङ्गरास्तदा भवन्ति वाताश्च समुच्छ्रितान्तकाः। न मित्रभावे सुहृदो व्यवस्थिताः क्रियासु सम्यग्नरता द्विजातयः। न चाल्पमप्यम्बु ददाति वासवो भिनत्ति वज्रेण शिरांसि भूभृताम्। शनैश्चरे म्लेच्छबिडालकुञ्जराः खरा महिष्योऽसितधान्यशूकराः। पुलिन्दशूद्राश्च सदक्षिणापथाः क्षयं व्रजन्त्यशिवमरुद्गदीद्भवैः। निहन्ति शुक्रः क्षितिजेऽग्रतः प्रजा हुताशशस्त्रक्षुदवृष्टितस्करैः। चराचरं व्यक्तमथोत्तरापथं दिशोऽग्निविद्युद्रजसा च पीडयेत्। वृहस्पतौ हन्ति पुरःस्थिते सितः सितं समस्तं द्विजगोसुरालयान्। दिशं च पूर्वां करकासृजोऽम्बुदा गलेगदा भूरि भवेच्च शारदम्। सौम्योऽस्तोदययोः पुरो भृगुसुतस्यावस्थितस्तोयहृद् रोगान् पित्तजकामलांश्च कुरुते पुष्णाति च ग्रैष्मिकम्। हन्यात् प्रव्रजिताग्निहोत्रिकभिषग्रङ्गोपजीव्यान् हयान् वैश्यान् गाः सह वाहनैर्नरपतीन् पीतानि पश्चाद्दिशम्। शिखिभयमनलाभे शस्त्रकोपश्च रक्ते कनकनिकषगौरे व्याधयो दैत्यपूज्ये। हरितकपिलरूपे श्वासकासप्रकोपः पतति न सलिलं खाद्भस्मरूक्षासिताभे। दधिकुमुदशशाङ्ककान्तिभृत् स्फुटविकसत्किरणो वृहत्तनुः। सुगतिरविकृतो जयान्वितः कृतयुगरूपकरः सिताह्वयः” “उशने काव्याय” ऋ० ६, २०, ११। “उशने उशनसे” भा० छान्दसम्।

उशनसस्तोम = पु० उशनसः स्तोमो यत्र अलुक्समा० वा विसर्गस्य लुक्। एकाहसाध्ये यागभेदे “उशनसस्तोमेन गरगीर्ण्णमिवात्मानं मन्यमानो यजेत” आ० श्रौ० ९, ५, १। “उशनसस्तोमोनाम एकाहसाध्यः पुनः स्तोम इति चास्यैव संज्ञा गरोविषं गीर्णो येन स गरगीर्ण्णः यो बहुप्रतिग्रहादिना पापादिभयात् गरगीर्णमिवात्मानं मन्यते स एतेन यजेत” नारा० वृ० “उशना यत् सहस्यैरयातं त्वमपोयदवेतुर्वशायेति सूक्तमुखीये” इति तत्रैव सूक्तप्रारम्भः २ सूत्रे उक्तः।

उशाना = स्त्री वश–ताच्छील्येचानश्। सोमसाधनभूतायां गिरि जातायामीषधौ। “यद्यदाप्यायन्ति देवो वै सोमो दिवि हि सोमो वृत्रो वै सोम आसीत् तस्यैतच्छरीरं यद्गिरयः यदश्मानस्तदैषोशाना नामौषधिर्जायत इति स्माह श्वेतकेतुरुद्दालकिस्तामेतदाहृत्याभिषुण्वन्ति” शत० ब्रा० ३, ४, ३, ३०। “उशानाख्या ओषधिर्जायते इत्येवं श्वेतकेतुराह अतस्तामेव गिरावुत्पन्नाम् इदानीन्तना यज माना अभिषुण्वन्ति न साक्षात् सोमम्” भा०।

उशिज् = पु० वश–इजि किच्च संप्र०। १ अग्नौ २ घृते च उज्ज्व० तत्र वह्नेः हविःकामयमानत्वात्, घृतस्य तु काम्यमानत्वात् तथात्वम्। ३ कामयमाने त्रि०। “उशिगसि कविरिति” “उशिगसि वसुभ्य इति” च ता० ब्रा० “वृषन्नुशिजोययाविथः” ऋ० १, १३१, ५, “उशिजः कामयमानान् यजमानान्” भा०। उशिजोमनीषिणः” ऋ० २, २१, २, “उशिज इन्द्रं कामयमानान्” भा०। “स हव्यवाडमर्त्य उशिग्दूतश्च लोहितः” ३, ११, २। “उशिक् हविःकामयमानः” भा० उशिजोयविष्ठो वह्नितमानाम्” ३, १५, ३३। “प्र पूर्वादिगुरुशिजः” यजु० “उशिजः हवींषि कामयमानान्” वेददी० ४ काम्ये “उशिक् त्वं देव! सोमाग्नेः प्रियं पार्थेऽपीहि” यजु० ८, ५५ “उशिक् काम्यमानः” वेददीपः। “उशिगसि कविः” ५, ३२,। उशिक्काम्यमानः” वेददी० ५ अन्ने तस्य काम्यमानत्वात्तथात्वम्। “उशिजा वसुभ्योवसून् जिन्वः” यजु० १५, ६। उशिजा दश कान्तौ इति उशिगन्न तेन” वेददी०। ततः प्रज्ञा स्वार्थेण। औसिजः उक्तार्थे। करणेइजि। ६ इच्छा हेतौ मेधायाम् निरु०। मेधारूपज्ञानस्येच्छाहेतुत्वात् तथात्वम्। ततः अस्त्यर्थे अर्श० अच्। उशिजः मेधाविनि त्रि० निरु०

उशी = स्त्री वश–ई–संप्र०। इच्छाभेदे उशीनरः।

उशीनर = पु० १ वृष्णिवंशोद्भये क्षत्रियभेदे। “उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्त्तिताः” भा० आ० १८६ अ०। २ पौरवे नृपभेदे “शृणु पूरोर्महाराज! वंशमुत्तमपौरुषम्” इत्युपक्रम्य “सृञ्चयस्याभवत् पुत्रो वीरो राजा पुरञ्जयः। जनमेजयी महाराजो पुरञ्चयसुतोऽभवत्। जनमेजय यस्य राजर्षेर्महाशीलोऽभवत् सुतः। महामना नाम सुतो महाशीलस्य धार्मिकः। महामनास्तु द्वौ पुत्रौ जनयामास भारत!। उशीनरं च धर्मज्ञंतितिक्षुञ्च महाबलम्” हरिवं० ३१ अ० तस्य चरितं वर्णितम्” भा० व० “अत्रागच्छन्नृपवरं ज्ञातुमग्निः सवासवः। जिज्ञासमानी वरदो महात्मानमुशीनरम्। इन्द्रःश्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः। ऊरुं राज्ञः समासाद्य कपोतः श्येनजाद्भयात्। शरणार्थी तदा राजन्! निलिल्येभयपीडितः” १३० अ०। “श्येन उपाच। धर्म्मात्मानं त्वा रेकं सर्व्वे राजन्महीक्षितः। स वै धर्म्मविरुद्धं त्वं कस्मात् कर्म्म चिकीर्षसि?। विहितं भक्षणं राजन्! पीड्यमानस्य मे क्षुधा। मा रक्षीर्धर्म्मलोभेन धर्म्ममुत्सृष्टवानसि। राजोवाच। सन्त्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज!। मत्सकाशमनुप्राप्तः प्राणगृध्नुरयं द्विजः। एवमभ्यागतस्येह कपोतंस्याभयार्थिनः। अप्रदाने परं धर्म्मं कथं श्येन! न पश्यसि?। प्रस्पन्दमानः संभ्रान्तः कपोतः श्येन! लक्ष्यते। मत्सकाशे जीवितार्थी तस्य त्यागो विगर्हितः। यो हि कश्चिद्द्विजान् हन्याद्गां वा लोकस्य मातरम्। शरणागतञ्च त्यजते तुल्यं तेषां हि हि पातकम्। श्येन उवाच। आहारात् सर्व्वभूतानि सम्भवन्ति महीपते!। आहारेण विवर्द्धन्ते तेन जीवन्ति जन्तवः। शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम्। न तु भोजनमुत्सृज्य शक्यं वर्त्तयितुं चिरम्। भक्ष्याद्वियोजितस्याद्य मम प्राणा विशाम्पते!। विसृज्य कायमेष्यन्ति पन्थानमकुतोभयम्। प्रमृते मयि धर्म्मात्मन्! पुत्रदारं विनङ्क्ष्यति। रक्षमाणः कपोतं त्वं बहून् प्राणान्न रक्षसि। धर्म्मं यो बाधते धर्म्मो न स धर्म्मः कुधर्म्मवत्। अविरोधात्तु यो धर्म्मः स धर्म्मः सत्यविक्रम!। विरोधिषु महीपाल! निश्चित्य गुरुलाघवम्। न बाधा विद्यते यत्रतं धर्म्मं समुपाचरेत्। गुरुलाघवमादाय धर्म्माधर्म्मविनिश्चये। यतो भूयांस्ततो राजन्! कुरुष्व धर्म्मनिश्चयम्। राजोवाच। बहुकल्याणसंयुक्तं भाषसे विहगोत्तम!। सुपर्णः पक्षिराट् किं त्वं धर्म्मज्ञश्चास्यसंशयम्। तथा हि धर्म्मसंयुक्तं बहु चित्रञ्च भाषसे। न तेऽस्त्यविदितं किञ्चिदिति त्वां लक्षयाम्यंहम्। शरणैषिपरित्यागं कथं साध्विति मन्यसे। आहारार्थं समारम्भस्तव चायं विहङ्गम!। शक्यश्चाप्यन्यथा क्वर्त्तुमाहारोऽप्यधिकस्त्वया। गीवृषो वा वराहो बा मृगो वा महिषोऽपि वा। त्वदर्थमद्य क्रियतां यद्वान्यदिह काङ्क्षसि। श्येन उवाच। न वराहं न चोक्षाणं न मृगान् विविधांस्तथा। भक्षयामि महाराज! किं ममान्येन केनचित्। यस्तु मे दैवविहितो भक्ष्यः क्षत्रियपुङ्गव!। तमुत्सृज महीपाल! कपोतमिममेव मे। श्येनः कपोतमत्तीति स्थितिरेषा सनातनी। मा राजन्! सारमज्ञात्वा कदलीस्कन्धमासजः। राजोवाच। राष्ट्रं शिवीनामृद्धं वै ददानि तव खेचर!। यं वा कामयसे कामं श्येन! सर्वं ददानि ते। विनेमं पक्षिणं श्येन! शरणार्थिनमागतम्। येनेमं वर्जयेथास्त्वं कर्म्मणा पक्षिसत्तम!। तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम्। श्येन उवाच। उशीनर! कपोते ते यदि स्नेहो नराधिप!। आत्मनो मांसमुत्कृत्य कपोततुलया धृतम्। यदा समं कपोतेन तव मांसं नृपोत्तम!। तथा देयन्तु तन्मह्यं सा मे तुष्टिर्भविष्यति। राजोवाच। अनुग्रहमिमं मन्ये श्येन। यन्माभियाचसे। तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम्। लोमश उवाच। उत्कृत्य स स्वयं मांसं राजा परमधर्म्मवित्। तुलयामास कौन्तेय! कपोतेन समं विभो। ध्रियमाणः कपोतस्तु नांसेनाप्यतिरिच्यते। पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः। न विद्यते यदा मांसं कपोतेन समं धृतम्। तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम्। श्येन उवाच। इन्द्रोऽहमस्मि धर्मज्ञ! कपोतो हव्यवाडयम्। जिज्ञासमानौ धर्मे त्वां यज्ञवाटमुपागतौ। यत्ते मांसानि गात्रेभ्य उत्कृत्तानि विशाम्पते!। एषा ते भास्वरी कीर्त्तिर्लोकानभिभविष्यति। यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव!। तावत् कीर्त्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः। इत्येवमुक्त्वा राजानमारुरोह दिवं पुनः। उशीनरोऽपि धर्म्मात्मा धर्म्मेणावृत्य रोदसी। विराजमानो वपुषा प्रारुरोह त्रिपिष्टपम्” १३१ अ०। उशीपूरको वाञ्छापूरको नरो यत्र। ३ तदधिकृतदेशे जटाधरः।

उशीर = पु० न० वश–ईरन् किच्च। वीरणमूले (खसखस्) तस्य गुणाः “उशीरं पाचनं शीतं स्तम्भनं लघु तिक्तकम्। मधुरं ज्वरहृद्वान्तिमलनुत् कफपित्तनुत्। तृष्णार्त्तिविषवीसर्पदाहकृच्छ्रव्रणापहम्” भावप्र० “अगरुपृक्कोशीरभद्रदारु कुङ्कुमानि पुन्नागकेशरञ्चेति” “चन्दनकुचन्दनह्रीवेरोशीरमञ्जिष्ठापयस्याविदारीशतावरीहिङ्गुभिः” सुश्रु० स्वार्थे कन् तत्रैव। उशीरं पण्यमस्य किशरादि ष्ठन्। उशोरिक तद्विक्रेतरि स्त्रियां षित्त्वात् ङीष्। उशीनरस्यापत्यम् अण्। औशीनर तदपत्ये शिविप्रभूतौ।

उशीरवीज = पु० उशीरस्य वीरणमूलस्य वीजं योनिरत्र। उत्तरदिक्स्थेपर्वतभेदे “उशीरवीजं मैनाकं गिरिं श्वेतञ्च भारत!। समतीतोऽसि कौन्तेय! नीलशैलञ्च पार्विव!” इत्युपक्रम्य “श्वेतं गिरिं प्रवेक्ष्यामो मन्दरञ्चैव पर्वतम्। यत्र माणिवरोयक्षः कुवेरश्चैव यक्षराट्” भा० व० १३० अ० उक्तेस्तस्य उत्तरदिक्स्थत्वं मन्दरगिरिसन्निकृष्टत्वञ्च “तुषारचयसङ्काशो मन्दरश्चैव पर्वतः। उशोरवीजश्च गिरीरुद्रोपस्थस्तथाद्रिराट्” हरि० २३६ अ० उक्तेः कैलाशसन्निकृष्टत्वमषि

उशीरादि = न० चक्रदत्तेन ज्वरातिसाराधिकारोक्ते पाचनभेदे। “उशीरं बालकं सुस्तं धान्यकं विश्वभेषजम्। सभङ्गाधातकी लोध्रं विल्वं दीपनपाचनम्। हन्त्यरोचकपिच्छामं विबन्धं सातिवेदनम्। सशोणितमतीसारं सज्वरं वाथ विज्वरम्”।

उशेन्य = त्रि० वश–बा० केन्य संप्र०। कमनीये। “आ येमात्रोरुशेन्योजनिष्ट” ऋ० ८, ३, ९, “उशेन्यःकमनीयः” भा०

उष = दाहे बधे च भ्वा० पर० सक० सेट्। ओषति औषीत् औषाम् बभूव आस चकार उवोष ओषित्वा। णोषितः–उषितः। उष्मा। कर्म्मणि उष्यते ओषामासे ऊषे “ओषामासे मत्सरो त्पातवाताश्लिष्यद्दन्तक्ष्मारुहाम्” माघः। “हिरण्यमायुरन्नञ्च भूर्गौश्चाप्योषतस्तनुम्” मनुः। “दण्डेनैव तमप्योषेत् स्वकाद्धर्म्माद्धि विच्युतम्” मनुः ओषाञ्चकार कामाग्निर्दशवक्त्रमहर्निशम्” भट्टिः “चिचेत रामस्तत्कृच्छ्रमोषाञ्चक्रे शुचेश्वरः” भट्टिः तस्य “मूत्रप्रतीघातादुष्यते चूष्यते दह्यते पच्यते इव” सुश्रुतः।

उष = दाहे बधे च भ्वा० पर० सेट् उदित् सक० सेट्। ओषति औषीत् ओषाम् बमूव–आस–चकार उवोष। उदित्त्वात् ओषित्वा उष्ट्वा वेट्। क्त। उष्टः। ओषणः।अभि–सर्व्वतो दाहे। “योऽभ्युष्टमिश्र इव” शत० ब्रा० ११, २, ७, २३। अभित ओषणं अभ्युष्ट सर्व्वतोदाहः तेनभिश्र इव” भा०।अव–अधःसन्तापनेन दाहे। अवोषः अधोभागे दग्धो अन्नभेदः अपूपादि०।उद्–आधिक्येन दाहे। “मा मोदोषिष्टम् मा मा हिंसिष्टम्” शत० ब्रा० १, ५, १, २५। “युवां मामुत्कृष्टमाधिक्येन वा उदोषिष्टं दाहं काष्टम्” भा०।उप–सामीप्येन दाहे। “अग्निना वा कक्षमुपोषेत्” आश्व० गृ० २, ४, ९। तमग्निभिः समुपोषेत्तदेनम्” शत० ब्रा० १२, ५, १, १३। उपवासे च उपोषणम्।प्रति–प्रतिदाहे। “स त्वमग्ने प्रतीकेन प्रत्योषः यातुधान्यः” ऋ० १०, ११८, ८। प्रत्येकदाहे च “प्रत्युष्टं रक्षः प्रत्युष्टा अरातयः” यजु० १, ७, “प्रत्युष्टं प्रत्येकं दग्धम्” वेददी०।

उषस् = प्रभातीभावे कण्ड्वा० पर० सक० सेट्। उषस्यति औषस्यीत् औषसीत् उषस्याम् साम् बभूव आस चकार।

उष = त्रि० उष–क। १ दाहके २ सन्ध्यात्रयसमये ३ कामिनि ४ गुग्गुलौ। ५ रात्रिशेषे पु० मेदि०। रात्रिशेषश्च मुहूर्त्तात्मककालः पञ्चपञ्चाशदघटिकोत्तरसूर्यार्द्धोदयपर्यन्तकालः। ६ दिवसे पु०।

उषङ्गु = पु० उष बा० अङ्गु। रुद्रे तस्य संहर्त्तृत्वात्तथात्वम्। “उषङ्गुश्च विधाता च मान्धाता भूतभावनः” भा० अनु० १७

उषण = न० उष–क्युन्। १ मरिचे २ पिप्पलीमूले च ३ शुण्ठ्यां, ४ चव्यिके(चै)। पिप्पल्यां च स्त्री। ऊषणशब्दे विवृतिः

उषती = स्त्री उष–शतृ–बा० नुम् गुणभावः रायमुकुटः। अकल्याण्यायां वाचि। “ययाऽस्य वाचा पर उद्विजेत न तां वदेदुषतीं पापलोक्याम” भा० स० ६४ आ० ८७ अ०। शब्दे पु० उषन् शब्दः वाक्ये न० उषत् वाक्यं तेनास्य त्रिलिङ्गता

उषत् = पु० यदुवंश्ये नृपभेदे। क्रोष्टुवंशवर्णने “अनन्तरं सुयज्ञस्तु सुयज्ञतनयोऽभवत्। उषन् यो यज्ञमखिलं स्वधर्म्ममुषतांवरः। शिनेयुरभवत् पुत्र उषतः शत्रुतापनः” हरि० ३७

उषद्गु = पु० यदुवंश्ये नृपभेदे। “स्वाहेः पुत्रोऽभवद्राजा उषद्गुर्वदतांवरः। महाक्रतुभिरीजे योविविधैर्भूरिदक्षिणैः। ततः प्रसूतिमिच्छन् वै उषद्गुःसोऽग्र्यमात्मजम्” हरि० ३७

उषद्रथ = पु० पौरवे नृपभेदे उशीनरस्य भ्रातुस्तितिक्षोःसुतभेदे। “तैतिक्षवोऽभवद्राजा पूर्व्वस्यां दिशि भारत। उष द्रयो महाराज! फेनस्तस्य सुतोऽभवत्” हरि० ३१ अ०।

उषप = पु० उष–दाहे कपन्। १ वह्नौ २ सूर्य्ये च तयोस्तापकत्वात्तथात्वम्। ३ चित्रकवृक्षे च।

उषर्बुध् = त्रि० उषसि वुध्यते बुध–क्विप अहरादि० नित्यं रः। अग्निहोत्रकाले प्रबुद्धे। “मर्त्येषूषर्भुद्भूदतिथिर्जात वेदाः” ऋ०६, ४, २। “आर्का~ सूर्य्यस्य रोचनाद्विश्वान् देवानुषर्बुधः” १, १४, ९ “आ दाशुषे, जातवेदो वहाद्या देवा उषर्बुधः” ऋ० १, ४४, १।

उषर्बुध = त्रि० उषसि बुध्यते बुध–क अहरा० नित्यं रः। अग्निहोत्रकाले प्रबुद्धे। “इममू षुवो अतिथिमुषर्बुधम्” ऋ० ६, १५, १। २ अग्नौ पु० ३ चित्रकवृक्षे च अमरः।

उषस् = न० ओषत्यन्धकारम् उष–असुन् किच्च। १ प्रत्यूषे, “उष उषो हि वसो अग्रमेषि” १०, ८, ४। स च कालः। “पञ्चपञ्च उषःकालः” स्मृतेः पञ्चपञ्चाशद्वटिकोत्तरः। “आसीदासन्ननिर्वाणः प्रदीपार्च्चिरिवोषसि” रघुः। “पुनरुषसि विविक्तैर्मातरिश्वावचूर्ण्य” माघः २ सन्ध्यात्रये स्त्री “इह स्युरिन्द्राय पूर्व्वीरुषसोदुहानाः” ऋ० ६, २८, १। तेन उषा उषसौ–उषस इत्यादि भकारादौ परे वेदे सस्य दः उषद्भिः सि० कौ०। “निम्रुच उषसस्तक्ववीरिव” ऋ० १, १५१, ५, ३ तदभिमानिदेवताभेदे अस्य देवताद्वन्द्वे पूर्ब्बापरयोः उषासादेशः। “नक्तोषासा सुपेशसा” ऋ० १, १४२, ७। तदभिमानिदेवताभेदाभिधायित्वेन देवताद्वन्द्वः। “जिगीषोषासानक्ता सुदुघेव धेनुः” १, १८६४,। आदिपदलोपोऽपि उषासावश्विना” यजु० २१, ५०। नक्तोषासाविति प्राप्ते आदिपदलोपः वेददी०। “उषासा वां सुहिरण्ये” यजु० २९, ६। नक्तोषासावित्यर्थः वेददी०। “साऽस्य देवता यत्। उषस्य तद्देवताके पश्वादौ” कृष्णाञ्जिरल्पाञ्जिर्महाञ्जिस्त उषस्यः” यजु० २४, ४, उषस्या उषादेवताकाश्चतुर्थे यूपे नियोज्याः” वेददी०४ ब्राह्ममुहूर्त्ते “उषावै अश्वस्य मेध्यस्य विव्याध” वृ० उ०। “उषा ब्राह्मो मुहूर्त्तकालः” श० भा०। ५ दिवोदुहितृदेवतायाम् स्त्री प्रौढमनोरमा।

उषसी = स्त्री उषं तापकत्वात् दिवसं स्यति सो–क गौरा० ङीष्। सायं सन्ध्यायाम् मदिनिः।

उषस्ति = पु० ऋषिभेदे “उषस्तिर्ह चाक्रायणः” छा० उ०। उगस्तोऽप्यत्र “अथ हैनमुषस्तश्चाक्रायणः पपच्छ” “ततो होषस्तश्चाक्रायण उपरराम” इति च शत० ब्रा०१४, ६, ५, १।

उषा = स्त्री ओषत्यन्धकारम् उष + क। १ प्रातरादिसन्ध्यासु “वेनीरनुव्रतमुषास्तिस्रः” ऋ० ८, ४१, ३। तिस्रप्रातःसायं मध्याह्नप्ररूपा उषाः” भा०। “उषा विभातीरनु भासि पूर्व्वीः” ३, ६, ७, “तेजःपरिहानिरुषा भानोरर्द्धोदयं यावत्” वृ० सं० उक्ते २ काले नक्षत्रप्रभाक्षयः काल उषा। तेन पञ्चपञ्चाशद्घटिकोत्तरमारभ्य सूर्य्यार्द्धोदयपर्य्यन्तः स कालः। लग्नाद्यलाभे उषाकाले यात्रा शस्ता यथाह ज्यो० “प्रत्युष्टद्युतितारका स्फुटतटी प्राची भवेन्निर्म्मला त्वीषद्रक्तविलोहितान्तशवला देवैः सदा वाञ्छिता। नो वारं न तिथिं न योगकरणं लग्नञ्च नापेक्षते हत्वा दोषसहस्र सञ्चयमुषा नूनं करोत्युन्नतिमिति”। “तिथ्यादिषु निषिद्धेषु चन्द्रताराविलोमतः। उषां गोधूलियोगं वा स्वीकृत्य गमनं चरेत्। प्राच्यामुषां प्रतीच्याञ्च गोधूलिं वर्जयेन्नृप। दक्षिणेऽभिजितं चैवसुत्तरे च निशां तथा”। “आरक्तविम्बं रजनीविरामं वदन्त्युषायोगमिह प्रवीणाः। व्यासः” “आहुः प्रयातुः सकलार्थसिद्धिः संलक्ष्यते हस्ततलस्थितेव” ज्यो० त० व्यासः। अन्धकारेण सन्तापकारिण्यां ३ रात्रौ मेदि० “अधिकरुचिरशेषामप्युषां जागरित्वा” माघः। ४ क्षारभूमौ। ततः क्वचित् गौरा० ङीष्। “भस्मन् हुतं कुहकराद्धमिवोप्तमुष्याम्” भाग० ५ स्त्रीगव्यां हेम० ६ उखायां विश्वः ७ स्थाल्यां रमानाथः। ८ वाणराजसुतायाञ्च तत्र दीर्घादित्वमपि भारतादौ तथैव निर्द्देशात्। तया च यथा अनिरुद्धः पतित्वेनाप्तः तथा वर्ण्णितं भाग० १० स्क० ६२ अ० यथा (वाणस्य) “तस्योधा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम्। कन्या लम्मतकान्तेन प्रागदृष्टश्रुतेन सा। सा तत्र तमपश्यन्ती क्वासि कान्तेति वादिनी। सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम्। वाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता। सख्यपृच्छत् सखीं मूथः कौतूहलसमन्विता। कं त्वं मृगयसे सुभ्रु! कीदृशस्ते मनोरथः। हस्तग्राहं न तेऽद्यापि राजपुत्र्युपलक्षये। ऊषोवाच। दृष्टः कश्चिन्नरः स्वप्ने श्यामः कमललोचनः। पीतवासा वृहद्बाहुर्योषितां हृदयङ्गमः। तमहं मृगये कान्तं पाययित्वाऽधरं मधु। क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे। चित्रलेखोवाच। व्यसनमपकर्षामि त्रिलोक्यां यदि भाव्यते। तदानेष्ये नरं! यस्ते मनोहर्त्ता तभादिश। इत्युक्त्वा देवगन्धर्व्वसिद्धचारणपन्नगान्। दैत्यविद्याधरान् यक्षान् मनुष्यांश्च तथाऽलिखत्। मनुजेषु च सा वृष्णीन् शूरमानकदुन्दुभिम्। व्यलिखत् रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता। अनिरुद्धं विलिखितं वीक्ष्येषाऽवाङ्मुस्वी ह्रिया। सोऽसावसाविति प्राह स्मयमाना महीपते!। चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी। ययौ विहायसा राजन। द्वारकां कृष्णपालिताम्। तत्र सुप्तं सुपर्यङ्के प्राद्युम्निं योगमास्थिता। गृहीत्वा शोणित पुरं सख्यै प्रियमदर्शयत्। सा च तं सुन्दरवरं विलोक्य मुदितानना। दुष्प्रेक्ष्ये स्वगृहे पुंसा रेमे प्राद्युम्निना समम्। परार्द्ध्यवासःस्रग्गन्धधूपदीपासनादिभिः। पानभोजनभक्ष्यैश्च वाक्यैः सुश्रूषयार्च्चितः। गूढः कन्यापुरे शश्वत् प्रवृद्धस्नेहया तया। नाहर्गणान् स वुबुधे ऊषयोपहृतेन्द्रियः” विस्तरस्तु हरिवं० १७६ अ०। प्रातःकाले अव्य० मेदि० अव्ययत्वात् ततो भवार्थे ट्युल् तुट च्। उषातन तद्भवे त्रि० स्त्रियां ङीप्।

उषाकल = पु० उषायां कलोरवो पस्य। कुक्कुटे।

उषापति = पु० ६ त०। कृष्णपौत्रे प्रद्युम्रपुत्रे यदुवंश्ये अनिरुद्धे तत्पतित्वप्राप्तिकथा उषाशब्दे उक्ता उषानाथादयोप्यत्र, अमरे “अनिरुद्ध उषापतिरिति” ह्रस्वपाठः भारतादौ तु दीर्घपाठः।

उषित = त्रि० वस क्त। १ पर्य्युषिते २ कृतवासे च। उष–दाहे क्त। ३ दग्धे मेदि०। ४ क्षरिते घरणिः। भावे क्त। ५ वासे न० “चाण्डालैरुषितं यत्र” शु० त० देवलः।

उषीर = पुंन० उष–कीरच्। वीरणमूले रायमुकुटः।

उष्टृ = पु० उक्ष–सेचने तृन् वेदे नेट्। १ सम्यक्सेक्तरि बलीवर्द्धे। तस्यामोघवीर्य्यत्वात् तथात्वम् “ओष्टारौ वा” कात्या० ५, ११, १३। “ओष्टारौ महावलीवर्द्दौ” कर्कः। आ + सम्यक् उष्टारौ इति विग्रहः। “उष्टारेव फर्वरेषु श्रयेथे” ऋ० १५, १०६, २। लोके तु उक्षितृ इत्येव। सेक्तरि त्रि० स्त्रियां ङीप्।

उष्ट्र = पुंस्त्री० उष + ष्ट्रन् किच्च। (उट) प्रसिद्धे पशुभेदे स्त्रियां जातित्त्वात् ङीष्। “हस्तिगोऽश्वोष्ट्रदमकोनक्षत्रैर्यश्चजीवति” “नाधीयीताश्वमारूढो न रथं न च हस्तिनम्। न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः” मनुः। तद्याननिषेधमाह “उष्ट्रयानं समारुह्य खरयानं तु कामतः। स्नात्वा तु विप्रो दिग्वामाः पाणायामेन शुध्यति” मनुः। काततः” इत्यक्त्या कर्म्मभेदे तद्याने न दोष इति सूचितम् अतएव “उष्ट्रमारोक्ष्यन्नभिमन्त्रयते त्वाष्ट्रोऽसि” पार० गृ० सू० मन्त्रलिङ्गेन तद्यानं विहितम्। तस्य मांसं न भक्ष्यम् “भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः” मनूक्तेः। तेनास्य एकदन्तपङ्क्तियुक्तत्वम्। “गौरजो महिषः कृष्णः शूकरो गवयोरुरुः। द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम!” भाग० उक्तेः गवादयः उष्ट्रान्ता द्विशफाः इति बोध्यम्। वृथा तद्घाते दोषः “मनुष्यमारणे क्षिप्रं चौरवत् किल्विषं भवेत्। प्राणभृसु महत्स्वर्द्धं गोगजोष्ट्रहयादिषु” मनूक्तेः। ब्रह्महत्याशेषपापेन तज्जातिर्भवति यथाह मनुः “यां यां योनिन्तु जीवोऽयं येन येनेह कर्म्मणा। क्रमशो याति लोकेऽस्मिंस्तत्तत् सर्वं निबोधत। बहून् वर्षगणान् घोरान्नरकान् प्राप्य दारुणान्। संसारान् प्ततिपद्यन्ते महापातकिनस्त्विमे। श्वशूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम्। चण्डालपुक्कसानाञ्च ब्रह्महा योनिमृच्छति”। यानहरणपापेऽप्युष्ट्रयोनिप्राप्तिमाह हृत्वेत्यनुवृत्तौ मनुः “स्त्रीमृक्षः स्तोककोवारि, यानान्युष्ट्रः, पशूनजः। तद्बधे प्रायश्चित्तमाह “हयच्छागाविकोष्ट्रेषु गर्द्दभेषु च मारणात्। प्राजापत्यार्द्धमेवेह प्रायश्चित्तं विधीयते” प्रा० वि० विष्णुः। तद्भक्षणे प्रायश्चित्तमाह भुक्त्वेत्यनुवृत्तौ प्रा० वि० शङ्खः “गामश्वं कुञ्जरौष्ट्रौ च सर्वं पञ्चनखं तथा। क्रव्यादं कुक्कुटं ग्राम्यं कुर्य्यात् संवत्सरव्रतम्” “अथोष्ट्रवामीशतवाहितार्थः” रघुः। “वृतिञ्च तत्र कुर्व्वीत यामुष्ट्रोनावलोकयेत्” मनुः। “अन्योन्यतः पथि वताबिमीतामिभोष्ट्रौ” माघः। तन्मूत्रगुणाः सुश्रु० उक्ताः। “अथ मूत्राणि गोमहिषाजाविगजहयखरोष्ट्राणां तीक्ष्णानि कटून्युष्णानि तिक्तानि लवणानुरसानि लघूनि शोधनानि कफवातकृमिभेदोविषगुल्मार्शौदरकुष्ठशोफारोचकपाण्डुरोगहराणि हृद्यानि दीपनानि च सामान्यतः। भवन्ति चात्र। तत्सर्वं कटु तीक्ष्णोष्णं लवणानुरसं लघु। शोधनं कफवातघ्नं कृमिमेदोविषापहम्। अर्शोजठरगुल्मघ्नं शोफारोचकनाशनम्। पाण्डुरोगहरं भेदि हृद्यं दीपनपाच- नम्”। सामान्यत उक्त्वा “अर्शोघ्नं कारभं मूत्रमिति” विशेषगुण उक्तः। तन्मांसगुणाःसुश्रुते उक्ताः तच्च उरभ्रशब्दे दर्शितम्। तस्य ग्राम्यत्वं तत्रोक्तम्। तच्च उरभ्रशब्दे दर्शितम्। किन्तु तस्यारण्यत्वमपि अतएव “उष्ट्रमारण्यमनु ते दिशामि” यजु० १३, २४, तस्यारण्यत्वमुक्तम्। तस्य त्वष्टृदेवतायै अश्वमेधे देयतोक्ता “वृहस्पतये गवयांस्त्वष्ट्र उष्ट्रान्” यजु० २४, २८, द्वित्वे गोयुगच् उष्ट्रगोयुग उष्ट्रद्वित्वे न० शालायां गोष्ठच्। उष्ट्रगोष्ठ उष्ट्रशालायां न० षट्के षड्गवच्। उष्ट्रषड्गव उष्ट्रषट्के न०। तस्येदमण्। औष्ट्र तत्सम्बन्धिमांसादौ त्रि०। “परं चौष्ट्रं मैषं नरमहिषयोश्छागमपि वा” कर्पूरस्तवः।

उष्ट्रकर्णिक = पु० उष्ट्रस्य कर्णः भेदनम् कर्ण + भिदि–अच्। सोऽस्मिन्नस्तिठन्। दक्षिणस्थे यवनदेशभेदे तद्देशवासिभिर्हि भोजनार्थम् उष्ट्रभेदनात् तद्देशस्य तथात्वम्। सहदेवदक्षिणदिग्विजयवर्णने “अन्ध्रांस्तालवनांश्चैव कलिङ्गानुष्ट्र कर्ण्णिकान्। आटवीं च पुरीं रम्यां यवनानां पुरीं तथा” भा० स० २० अ० उष्ट्रतुल्यकर्णजनवत्त्वाद्वा तथात्वम्।

उष्ट्रकाण्डी = स्त्री उष्ट्र इव काण्डोऽस्य जातित्वात् ङीष् (उटाटी) पुषषभेदे राजनि०।

उष्ट्रग्रीव = पु० उष्ट्रग्रीवा आकारत्वेनास्त्यस्य अर्श० अच्। सुश्रुतोक्ते पैत्तिके भगन्दररोगभेदे। तन्निदानस्वरूपादि तत्रोक्तं यथा “वातपित्तश्लेष्मसन्निपातागन्तुनिमित्ताः शतपोनकोष्ट्रग्रीवपरिस्राविशम्बूकावर्त्तोन्मार्गिणो यथासङ्ख्यं पञ्च भगन्दरा भवन्ति। ते तु भगगुदवस्तिप्रदेशदारणाच्च भगन्दरा इत्युच्यन्ते। अपक्वाः पिडकाः पक्वास्तु भगन्दराः। तेषान्तु पूर्वरूपाणि कटीकपालवेदना गुदकण्डूर्द्दाहः शोफश्च गुदस्य भवति” इत्युपक्रम्य। “पित्तन्तु प्रकुपितमनिलेनाधःप्रेरितं पूर्ववदवस्थितं रक्तां तन्वीमुच्छ्रितामुष्ट्रग्रीवाकारां पिडकां जनयति। साऽऽस्यचोषादीन्वेदनविशेषानु जनयत्यप्रतिक्रियमाणा च पाकमुपैति वक्षश्चाग्निक्षाराभ्यामिव दह्यते दुर्ग्गन्धमुष्णमास्रावं स्रवत्युपेक्षितश्च वातमूत्रपुरीषरेतांसि विसृजति, तं भगन्दरमुष्ट्रग्रीवमित्याचक्षते”। उष्णशिरोधरोऽप्यत्र “प्रकोपणैः पित्तमतिप्रकोपितः करोति रक्तां पिडकां गुदागताम्। तदानुपाकाहिमपूतिवाहिनीम् भगन्दरं तूष्ट्रशिरोधरं वदेत्” निदानम्।

उष्ट्रधूसरपुच्छी = स्त्री उष्ट्रस्येव धूसरः पुच्छ इव मञ्जरी अस्याः जातित्वात् ङीष्। (विछाति) वृक्षभेदे रत्नमाला स्वार्थे कन् ह्रस्वः। तत्रार्थे।

उष्ट्रपादिका = स्त्री उष्ट्रस्य पादा इव पादोमूलमस्याः कपि अत इत्त्वम्। (मदनमाली) भूमिलतायाम् रत्नमा०

उष्ट्रस्थान = न० ६ त०। उष्ट्रस्य शालायाम्। तत्र भवः अण्। स्थानान्तत्वात् तस्य लुक्। उष्ट्रस्थान तत्रभवे त्रि० तद्धित लकि विशेष्यलिङ्गत्वनियमात् त्रिलिङ्गत्वम्।

उष्ट्रासिका = स्त्री आसनम् आसिका आस–भांवे ण्वुच् उष्ट्रस्येवासिका। उष्ट्रस्येव आसने। “उष्ट्रासिकाः आस्यन्ते” पा० भाष्यम् अत्र क्रियाविशेषणस्यापि यथा बहुवचनान्तताऽक्लीवता च तथाकारे समर्थितम् तच्च शब्दार्थरत्ने अस्माभिर्दर्शितम्।

उष्ट्रिका = स्त्री उष्ट्रस्याकारः पृष्ठावयव इव आकारोऽस्त्यस्याः ठन्। मृण्मये मद्यभाण्डभेदे विश्वः “धूर्भङ्गविक्षेपविदारितोष्ट्रिका” माघः। उष्ट्री + स्वार्थे कन्। उष्ट्रजातिस्त्रियाञ्च।

उष्ण = पु० उष + नक्। १ ग्रीष्मे, ऋतौ, २ आतपे, ३ पलाण्डौ ४ नरकभेदे, ५ शीतविरोधिस्पर्शेच। अर्श० अच्। ६ तद्वति, ७ आलस्यरहिते ८ दक्षे च त्रि०। “सूतके मृतके चैव न स्नायादुष्णवारिणा” स्मृतिः “आददे नातिशीतोष्णः नभ स्वानिव दक्षिणः” रघुः “अभीक्ष्णमुष्णैरपि तस्य सोष्मणः” “म्लापयन्नभिमानोष्णैर्वनमालां सुखानिलैः” माघः ९ तापे पु० मुष्णन्तमुष्णं ततिभिस्तरूणाम्” माघः “उष्णं तापम्” मल्लि०। तत्र ग्रीष्मस्य सूर्य्यतापाधिक्यवत्त्वात् उष्णत्वम् “ग्रीष्मातीव्रकरोभानुर्न हेमन्ते तथाविधः” इति मयप्रश्ने “अत्या सन्नतया तेन ग्रीष्मेतीव्राः कराः रवेः। देवभागेऽसुराणान्तु हेमन्ते मन्दताऽन्यथा” सू० सि० तथैवोक्तेः। विवृतञ्चेदं रङ्गनाथेन “तेन उत्तरदक्षिणगोलयोः सूर्यस्योत्तरदक्षिणसञ्चाररूपकारणेनेत्यथैः। देवभागे जम्बूद्वीपे अत्यासन्नतया सूर्यस्यात्यन्तनिकटस्थत्वेन ग्रीष्मे ग्रीष्मर्त्तौ सूर्य्यस्य तेजोगोलकस्थकिरणास्तीक्ष्णा अत्युष्णाः। असु राणां देवभाग इत्यस्य समन्वयाद्दैत्यानां भागे समुद्राद्दक्षिणप्रदेशे हेमन्ते हेमन्तर्त्तो तुकारात् सूर्य्यस्यात्युष्णाः किरणाः सूर्य्यस्यात्यासन्नत्वात्। अन्यथा सूर्य्यस्य दूरस्थत्वे मन्दता किरणानामुष्णताभावः। देवभागे हेमन्तर्त्तौ कराणां मन्दता। अतएव तत्र शीताधिक्यम्, दैत्यभागे ग्रीष्मे कराणां मन्दता शीताधिक्य च। तथाच देवभागे दक्षिणगोले सूर्य्यस्य दूरस्थत्वमुत्तरगोले निकटस्थत्वं मध्यगतदेशानां क्रमेणाघिकाल्पत्वादीति भावः”। अतएवोक्तं मेषकर्कटयोर्मध्ये गाढं तपति भास्करः” ति० त० पु०। एतच्च देवभाग एव नासुरभागे, ग्रीष्म ऋतुश्च ज्यैष्ठाषाडात्मकः। “मधुश्च माधवश्च वासन्तिकावृतुः शुक्रश्च शुचिश्च ग्रीष्मर्त्तुः” काल० मा० इष्टकोपधानमन्त्रोक्तेः। ततो भावे इमनिच्। उष्णिमन् पु० तल् उष्णता स्त्री त्व उष्णत्व न० ष्यञ् औष्ण्य न०। उष्णस्पर्शे स्वार्थे कन् उष्णस्पर्शाद्यर्थे। उष्णस्पर्शस्तु तेजसोगुणः “स्पर्श उष्णस्तेजसस्तु” भाषोक्तेः जलादीनां तेजःसंयोगविशेषादौपाधिकः। देहस्य तथात्वे कारणमूष्मन्शब्दे वक्ष्यते गुणवचनत्वात् प्रकारे द्वित्वम् उष्णोष्ण उष्णप्रकारे। “उष्णोष्णशीकरसृजः” माघः

उष्णक = त्रि० उष्णमिव करोति कन्। १ अनलसे, क्षिप्रकारिणि क्षिप्रकारी हि जाड्याधायकमालस्यमनादृत्य स्वकर्त्तव्ये व्याप्रियते इति तस्य तथात्वम्। उष्णं करोति उष्ण + णिच्–ण्वुल्। २ ज्वरे पु०।

उष्णकर = च० उष्णः करः किरणोऽस्य। १ सूर्य्ये। उष्णकिरणोष्णदीधिति प्रभृतयोऽप्यत्र। उष्णं करोति कृ–अच् ६ त०। २ उष्णकारके त्रि०

उष्णकाल = पु० कर्म्म० ६ त० वा। ग्रीष्मे ऋतौ। “तक्रं नैव क्षतेदद्यात् नोष्णकाले न दुर्व्वले” सुश्रुतः।

उष्णग = पु० उष्णमुष्णस्पर्शं गच्छति यत्र गम–बा० आधारे ड। ग्रीष्मे काले “मातङ्गोन्यपतत् भूमौ नदीरोधैवोष्णगे” भा० उ० ३२३ अ०। आधारे घञ् उष्णगमोऽप्यत्र हेम०।

उष्णगु = पु० उष्णागावः कराः अस्य ह्रस्यः। सूर्य्ये। उष्णरश्म्यादथोऽप्यत्र “कुवेरगुप्तां दिशमुष्णरश्मौ” कुमा०।

उष्णङ्करण = न० ६ त० करणे परे मुम्। उष्णसाधने।

उष्णनदी = स्त्री कर्म्म०। “यमद्वारे महाघोरे तप्ता वैतरणी नदी” इत्युक्तायाम् तप्तायां वैतरण्याम् नद्याम्।

उष्णवारण = न० उष्णं वारयतिवृ–णिच्–ल्यु ६ त०। आतपत्रे, छत्रे “यदर्थमम्भोजमिवोष्णवारणम्” कुमा० अस्योत्पत्त्यादिकम् आतपत्रशब्दे ६४९ पृ० उक्तम्। तल्लक्षणं वृह० सं० दर्शितं यथा “निचितं तु हंसपक्षैः कृकवाकुमयूरसारसानां च। दौकूलेन नवेन तु समन्ततश्छादितं शुक्लम्। मुक्ताफलैरचितप्रलम्बमालाविलं स्फटिकसूलम्। षड्ढस्तशुद्धहैमं नवपर्व नगैकदण्डं च। दण्डार्धविस्तृतं तत् समावृतं रत्नविभूषितमुदग्रम्। नृपतेस्तदातपत्रं कल्याणकरं विजयदं च। युवराजनृपतिपत्न्याः सेनापतिदण्डनायकानां च। दण्डोऽर्धपञ्चहस्तः समपञ्चकृतार्धविस्तारः। अन्येषामुष्णघ्वं प्रसादपट्टैर्विभूषितशिरस्कम्। व्यालम्बिरत्नमालं छत्रं कार्य्यं च मायूरम्। अत्येषां च नराणामातपवारणं तु चतुरस्रम्। समवृत्तदण्डयुक्तं छत्रं कार्य्यं तु विप्राणाम्” उष्णघ्नादयोऽप्यत्र। तद्धारणे गुणाः सुश्रुते उक्ता यथा “वर्षानिलरजीघर्महिमादीनां निवारणम्। बल्यं चक्षुष्यमौजस्यं शङ्करं छत्रधारणम्”।

उष्णवीर्य्य = पु० उष्णमुग्रं वीर्य्यमस्य। १ शिशुमाराख्ये जलजन्तौ। २ उग्रवोर्य्यवति त्रि० हेम०। उष्णवीर्य्यद्रव्याणि च सुश्रुते नानास्थाने उक्तानि तानि तत एवावगम्यानि

उष्णांशु = पु० उष्णाः अंशयोयस्य। सूर्य्ये।

उष्णागम = पु० उष्ण आगम्यतेऽत्र गम + आधारे–अप्। निदाघकाले। उष्णाभिगमोऽप्यत्र शब्दच०।

उष्णालु = त्रि० उष्णं न सहते आलु। उष्णाऽसहने। “उष्णालुः शिशिरे निषीदति तरोर्मूलालवाले शिखी” विक्रमो०।

उष्णासह = पु० उष्ण आसह्यतेऽत्र आ + सह–अच्। १ हेमन्ते ऋतौ। उष्णं न सहते अच्। २ असह्योष्णे त्रि०।

उष्णिका = स्त्री अल्पमन्नमस्याम् अल्पार्थे कन् नि० अन्नस्य उष्णादेशः। १ यवाग्वाम् (याउ)। उष्णकशब्दात् स्त्रियां टाप् अत इत्त्वम्। २ दक्षायाम् स्त्रियाम्।

उष्णिज् = पु० उष–इजिक् बा० नुद्। उष्णस्पर्शयुक्ते ततप्रज्ञा० स्वार्थेण। औष्णिज तदर्थे।

उष्णिह् = स्त्री उत्स्निह्यति क्विन् नि० उदोऽन्त्यलेपे षत्वम्। सप्ताक्षरपादके १ छन्दोभेदे। स्वादौ कुः उष्णिक्। उष्णिग्भ्याम्। “गायत्र्युष्णिगनुष्टुप् च वृहती पङ्क्तिरेव च” वृ० र०। “अथ छन्दांसि गायत्र्युष्णिगनुष्टुव् वृहती” इत्युपक्रम्य “द्वितीयमुष्णिक् त्रिपदान्त्योद्वादशकः। आद्यश्चेत् पुरौष्णिक्, मध्यमश्चेत् ककुप्। त्रैष्टुभ जागतचतुष्काः ककुब्न्यङ्कुशिरैकादशिनोः परः षट्कस्तनुशिराः मध्ये चेत् पिपीलिका मध्याद्यपञ्चकस्त्रयोऽष्टका अनुष्टुब्गर्भा चतुःसप्त कोष्णिगेव” सर्वानु० ५ अ०। “एवमेवोष्णिहं सवितारं ग्रीवास्वनूके” इति सर्वानु० ४ अ० उक्तेः तस्याः सवितृदेवताकत्वेन ग्रीवासु अनूके च न्यासः। तस्या उपधानप्रकारः शत० ब्रा० ८, ६, २, ३, आदौ दर्शितं तत एवावसेयः। २ तदभिमानिदेवभेदे च। अश्वमेधे “त्रिवत्सा अनुष्टुभे तुर्य्यवाह उष्णिहे” यजु० २५, १२१। पशुविशेषाणामुक्तदेवताविशेषोद्देशेन यूपादौ बन्धनमुक्तम्। अस्य हलन्तत्वेऽपि अजादि० टाप्। उष्णिहा “उष्णिहा छन्द इन्द्रियम्” यजु० २१, १३, “वृहत्युष्णिहा ककुप् सूचीभिः शन्त्युत्वा २३, ३३, “शूणातु ग्रीवाः प्र शृणा तूष्णिहा वृत्रस्येव शचीपतिः” अथर्ववेदे ६, १३४, १,

उष्णीगङ्ग = न० उष्णीभूता गङ्गा नदीभेदो यत्र मध्यपदलोपः। भृगुतुङ्गपर्वतस्ये तीर्थभेदे “अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम्। उष्णोगङ्गे च कौन्तेय! सामात्यः समुपस्पृश” भा० व० १३५ अ०।

उष्णीष = पु० न० उष्णमीषते हिनस्ति ईष–क शक० पररूपम्। १ शिरोवेष्टनवस्त्रे(पागडि) २ किरीटे च “अथास्मा अध्वर्युरुष्णीषं प्रयच्छति तदञ्जलिना प्रतिगृह्य त्रिःप्रदक्षिणं शिरः सम्मुखं वेष्टयित्वा” आ० श्रौ० सू० ६, ७। सन्नद्धा लोलितोष्णीषा निस्त्रिंशिनो याजयेयुः” आ० श्रौ० ९, ७, ४। “लौहितोष्णोषा ऋत्विजश्चरन्तीति” श्रुतिः। समावर्त्तनकाले च तस्य धारणमाचार्य्याय दानं च विहितम्। “अथैतान्युपकल्पयीत समावर्त्तमाने मणिकुण्डले वस्त्रयुगं छत्रमुपानद्युगं दण्डं स्रजमुन्मर्दनमनुलेपनमाञ्जनमुष्णीषमित्यात्मने आचार्य्याय च”। “यद्युभयोर्न विन्देताचार्य्यायैव” आ० गृ० ३, ८, १, २। तद्धारणगुणः सुश्रु० उक्तः “पवित्रं केश्यमुष्णीषं वातातपरजोऽपहम्। वर्षानिलरजोघर्महिमादीनां निबारणम्”।

उष्णीषिन् = त्रि० उष्णीष + अस्त्यर्थे इनि। १ उष्णीषधारिणि स्त्रियां ङीप् २ महादेवे पु०। “उष्णीषी च सुवक्त्रश्च उदग्रोविनतस्तथा” शिवस्तौ” भा० अनु० १७। “उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे” भा० अनु० ८।

उष्णोदक = न० कर्म्म०। अग्निना तप्तजले काथ्यभानपादशेषार्द्धावशेषपादादिहीनके जले तद्गुणादि भावप्र० “अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा। अथवा क्वथनेनैव सिद्धमुष्णोदकं वदेत्” तद्गुणाः “श्लेष्मामवातमेदोघ्नं वास्तशोधनदीपनम्। कासश्वासज्वरान् हन्ति पीतमुष्णोदकं निशि। क्वाथ्यमानन्तु निर्वेगं निष्फेनं निर्म्मलन्तथा। अर्द्धावशिष्टं यत्तोयं तदुष्णोदकमुच्यते। ज्वरकास कफश्वासवातपित्ताममेदसाम्। नाशनं वस्तिसंशोधिपथ्यमुष्णोदकं सदा। त्रिपादशषं सलिलं ग्रीष्मे शरदि शस्यते। हिमेऽर्द्धशेषं शिशिरे तथा वर्षावसन्तयोः” अन्ये तु “निदाघे त्वर्द्धपादोनं पादहीनन्तु शारदम्। शिशिरे च वसन्ते च हिमे चार्द्धावशेषितम्। अष्टमांशा वशेषन्तु वारि वर्षासु शस्यते” केचित्तु “विधिष्वङ्गेषु वाणेय वेदेषु त्रिषु पक्षयोः। एकभामावशेषं स्यादम्बु वर्षादिषु क्रमात्”। अत्र दोषाणां ययोल्वणता हीनता वा तथा व्यवस्था कल्पनीया। “तत् पादहीनं पित्तघ्नम- र्द्धहीनन्तु वातनुत्। त्रिपादहीनं श्लेष्मघ्नं संग्राह्यग्निकरं लघु”। त्रिपादहीनस्य तन्त्रान्तरे आरोग्याम्बुसंज्ञा। तस्य लक्षणगुणास्तु। “पादशेषन्तु यत्तोयमारोग्याम्बु तदुच्यते। आरोग्याम्बु सदा पथ्यं कासश्वासकफापहम्। सद्योज्वरहरं ग्राहि दीपनं पाचनं लघु। आनाहपाण्डुशूलार्शोगुल्मशोथोदरापहम्” भा० प्र० “दिवा शृतन्तु यत् तोषं रात्रौ तद्गुरुतां व्रजेत्” वैद्यकम्। “संक्रान्तौ वर्षवृद्धौ च ग्रहणे चन्द्रसूर्य्ययोः। सूतके मृतके चैव न स्नायादुष्णवारिणा” स्मृतिः। “क्षेत्रस्थमुद्धृतं वापि शीतमुष्णमथापि वा। गाङ्गं पयः पुनात्याशु पापमामरणान्तिकम्” मरीचिः। “नित्यं नैमित्तिकञ्चैव क्रियाङ्गं मलकर्षणम्। तीर्थाभावे च कर्त्तव्यमुष्णोदकपरोदकैः” यमः। “उष्णाम्बुनाधःकायस्य परिषेको मलापहम्। तेनैव षोत्तमाङ्गस्य बलनुत् केशचक्षुषोः” आ० त० आयुर्वेदः। उष्णोदकेनाचमननिषेध आचमनशब्दे उक्तः।

उष्णोपगम = पु० उष्ण उपगम्यतेऽत्र आधारे घञ् अवृद्धिः। निदाघकाले। ग्रीष्मर्त्तौ

उष्म = पु० उष–मक्। १ घर्मे, २ आतपे, १ ग्रीष्मे ऋतौ च। स्वार्थे कन्। तत्रैव आतपे च।

उ(ऊ)ष्मन् = त्रि० ऊष–आधारे मनिन् वा० वा ह्रस्वः। १ ग्रीष्मर्त्तौ कर्त्तरि मनिन्। २ आतपे “नोपतापि मनः सोष्म” “उष्णोष्णशीकरसृजः प्रबलोष्मणोऽन्तः” “अभीक्ष्णमुष्णैरपि तस्य सोष्मणः” माघः। दीर्घादिः ३ शषसहवर्णेषु।

उ(ऊ)ष्मप = पु० उष्माणं पिबति पा–क्विप्। भृगोः पुत्रे १ पितृगणभेदे “शुकालिनो बर्हिषद उ(ऊ)ष्मपा आज्यपास्तथा” पितृगणनायां स्मृतिः। २ उ(ऊ)ष्मपानकर्त्तरि तपस्विभेदे त्रि०। “उर्द्धमुखैरिव रविनिविष्टदृष्टिभिरु(रू)ष्मपैः” काद०।

उ(ऊ)ष्मागम = पु० उ(ऊ)ष्मा आगम्यतेऽत्र आ + गम–आधारे घञ् अवृद्धिः। निदाघकाले।

उ(ऊ)ष्माय = नामधा० उ(ऊ)ष्माणमुद्वमति उ(ऊ)ष्मन् + क्यङ्। उ(ऊ)ष्मायते औष्मायिष्ट उ(ऊ)ष्मायमाणः।

उस्र = पु० वसन्ति रसा अत्र वस–रक् नि० न षत्वम्। १ किरणे, सूर्य्यकिरणानां जलाकर्षकत्वेन रसवत्त्वात्तथात्वम्। २ अन्येषां यथायथं रसवत्त्वम् बोध्यम्। २ वृषे। ३ सुरभ्यां ४ लतायां ५ पृथिव्यां च स्त्री निरु०। देवमात्रे पु० उज्ज्व० “उस्रावेतं धूर्षाहौ” यजु० ४, ३३। “उस्रौ अनड्वाहौ” वेददी० “क्रत्वा नार्वोस्रः पितेव” ऋ० ६, १२, ४। “उस्रौ वृषभः” भा० “शरैरुस्रैरिवोदीच्यान्नुद्धरिष्यन् रसानिव” रघुः “यो धर्त्ता भुवनानां य उस्राणामपीछा” ऋ० ८, ४१, ५। ७ सूर्ये “प्रमित्रासो न ददुरुस्रो अग्रे” ३, ५८, ४। “वसति नभसीत्युस्रुः सूर्य्यः” भा०। सूर्य्यरश्मिसम्पर्कात् ८ दिवसे च। “वसुमा~ उस्रयामा” ऋ० ७, ७१, ४, उस्रयामा दिवसं प्रति गन्ता” भा० उस्रमिच्छति उस्रीयति “उस्र्योमाङ्क्षाटः प्रतिषेधः” वार्त्ति० लङादौ नाट उस्रीत्युक्तेः षत्वाभावश्च ओस्रीयत्। ९ सहवासिनोः अश्विनीकुमारयोः द्वि० व०। “अग्नयः उस्रा जरन्ते” ऋ० ४, ४, ५, ५, उस्रा सहनिवसन्तावश्विनीसुतौ” भा०।

उस्रि = स्त्री वस–बा० कि षत्वाभावः। गन्त्र्याम् “हिन्वन्ति सूर मुस्रयः” ऋ० ९६५, १, “उस्रयः सर्व्वत्रगन्त्र्यः” भा०।

उस्रिक = पु० उस्र + अल्पार्थे स्वार्थे वा ठन्। अल्पवाहके १ जीर्ण्णवृषभे अल्पक्षीरस्राविण्यां २ स्त्रीगव्याम् स्त्री

उस्रिय = पु० उस्र + स्वार्थे अल्पार्थे वा घ। १ जीर्णवृषभे “उस्रियो वृषभः क्रन्दतु द्यौः” ऋ०५, ५८, ६, २ स्त्रीगव्याम् स्त्री निरु०। “गवामूर्व्वमुस्रियाणाम्” ऋ० ५, ३, ४, उस्रियाणां क्षीरमुत्सारयन्तीनाम्” भा०।

उह = अर्दने भ्वादि० पर० सक० सेट् इरित्। ओहति औहत्, औहीत्, उवोह ऊहतुः। अप अपसारणे तानपौहीत् निशाचरः” भट्टिः “अपौहदुत्तरः” रघुः

उह = अव्य० उ च ह च द्व०। १ संबोधने, २ एवार्थे च।

उहह = अव्य० उह च ह च। सम्बोधने।

उहू = स्त्री उह–कू। १ खेदसूचके शब्दे “नखानि विधुशङ्कया करतलेन तत्व्यावृणोत् ततः किसलयभ्रमात् करमथाक्षि पद्दूरतः। ततीवलयशिञ्जितेभ्रमरगुञ्जिताशङ्कया उहूरिति कुहूरवध्वनिभियाऽपतत् मुर्च्छिता”। वह–कू। वाहके त्रि०। “हिरण्य पर्ण्णा उहुव उषर्वुधः” ऋ० ४, ४५, ४, उहुवः वाहकाः” भा० उवङ् छान्दसः

उह्यमान = त्रि० वह–कर्म्मणि शानच्। यस्य वहनं क्रियते तस्मिन् “यथीह्यमानःकिल भोगिवैरिणा” नैषध०।

उह्र = पु० वह–रक्। वृषभे शब्दार्थचिन्तामणिः इति वाचस्पत्ये उकारादिशब्दार्थसङ्कलनम्।

***