उपरि = अव्य० ऊर्द्ध + रिल् उपादेशश्च। प्रथमापञ्चमीसप्तम्यन्तार्थवृत्तेः ऊर्द्धशब्दस्यार्थे। ऊर्द्ध्वंपुरम् उर्द्ध्वा वा वसतिः ऊर्द्ध्वात् पुरात् ऊर्द्ध्वायावा वसतेरागतः ऊर्द्ध्वेपुरे ऊर्द्ध्वायां वा वसतौ वसति इत्याद्यर्थे सर्व्वत्र उपरीत्येव। “तदुपर्य्यपि वादरायणः” शा० सू०। “नीचानाः स्थुरुपरि वुध्नएषामस्मे” ऋ० १, २४, ७, “अधः स्विदासीदुपरि स्विदासीत्। १०, १२९, ५, “तत्पाणिमात्मोपरिपातुकन्तु” नैष०। “त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्याः” मेध०। “अवाङ्मुखस्योपरि पुष्पवृष्टिः” “परस्परस्योपरि पर्य्यचीयत” रघुः। “छित्त्वा मांसानिशस्त्रेण यदिवोपरिजोभवेत्” सुश्रु०। “उपरिजतरुजानि याचमानाम्” किरा०। “मिथ्या तत्सत्यादुपरिप्रुता भङ्गेन” यजु० ७, ३, अस्य सामीप्ये द्वित्वं उपर्य्युपरि समीपोर्द्ध्वे अव्य० “उपय्युपर्य्यम्बुमुचां वितानैः” माघः। “अभिसर्व्वतसोःकार्य्या धिक्युपर्य्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु तथान्यत्रापि दृश्यते” इत्युक्तेः तद्योगे सम्बन्धिनि द्वि तीया। “उपर्य्युपरि लोकं हरिः” सि० कौ०। उपर्य्यु परि गच्छन्तः शैलराजमुदङ्मुखाः” भा० आ० ४३४ अ०। बाहुलकात् क्वचिन्न। “उपर्य्युपरि वुद्धीनां चरन्तीश्वरबुद्धयः”।

उपरिचर = त्रि० उपरि + चर–ट। १ ऊर्द्धचरे विहगादौ। २ राजभेदे सु०। स च वसुनामा चेदिदेशपतिः शक्रध्वजपूजा- प्रवर्त्तकः। तस्येतिवृत्तं च भा० आ० ६३ अ०। “राजोपरिचरोनाम धर्म्मनित्योमहीपतिः” इत्युपक्रम्य तुष्टेन शक्रेण तस्मै आकाशगं विमानं दत्तं तत्र चरणादुपरिचरनामेःत्युक्तं यथा “देवोपभोग्यं दिव्यञ्च आकाशे स्फाटिकं महत्। आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते। त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः। चरिष्यस्युपरिष्ठो हि देवो विग्रहवानिव। ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम्। धारयिष्यति संग्रामे या त्वां शस्त्रैरविक्षतम्। लक्षणं चैतदेवेह भविता ते नराधिप। इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत्। वैशम्पायन उवाच। यष्टिञ्च वैणवीं तस्मै ददौ वृत्रनिसूदनः। इष्टप्रदानमुद्दिश्य शिष्टानां प्रतिपालनीम्। तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा। प्रवेशं कारयामास गते संवत्सरे तदा। ततः प्रभृति चाद्यापि यष्टेः क्षितिपसत्तमैः। प्रवेशः क्रियते राजन्! यथा तेन प्रवर्त्तितः। अपरेद्युस्ततस्तस्याः क्रियतेऽत्युच्छ्रयो नृपैः। अलङ्कृतायाः पिटकैर्गन्धैर्म्माल्यैश्च भूषणैः। माल्यदामपरिक्षिप्ता विधिवत् क्रियतेऽपि च। मगवान् पूज्यते चात्र हंसरूपेण शङ्करः। स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः। स तां पूजां महेन्द्रस्तु दृष्ट्वा देवः कृतां शुभाम्। वसुना राजमुख्येन प्रीतिमानब्रवीत् प्रभुः। ये पूजयिष्यन्ति नरा राजानश्च महं मम। कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः। तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति। तेषां स्फीतो जनपदो मुदितश्च भविष्यति। एवं महात्मना तेन महेन्द्रेण नराधिपः। वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः। उत्सवं कारयिष्यन्ति मदा शक्रस्य ये नराः। भूमिरत्नादिभिर्द्दानैस्तथा पूज्या भवन्ति ते। वरदानमहायज्ञैस्तथा शक्रोत्सवेन च। संपूजितो मघवता वसुश्चेदीश्वरो नृपः। पालयाम्मस धर्म्मेण चेदिस्थः पृथिवीमिमाम्। इन्द्रप्रीत्या चेदिपतिश्चकारेन्द्रमहं वसुः। पुत्त्राश्चास्य महावीर्य्याः पञ्चासन्नमितौजसः। नानाराज्येषु तान् पुत्त्रान् स सम्राडभ्यषेचयत्। महारथो मागधानां विश्रुतो यो वृहद्रथः। प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम्। मावेल्लश्च यदुश्चैव राजन्यश्चापराजितः। एते तस्य सुता राजन्राजर्षेर्भूरितेजसः। न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च। वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः। वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम्। उपतस्थु- र्महात्मानं गन्धर्वाप्सरसोनृपम्। राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम्। पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः। अरौत्सीच्चेतनायुक्तः कामात् कोलाहलः किल। गिरिं कोलाहलं तन्तु पदा वसुरताडयत्। निश्चक्राम ततस्तेन प्रहारविवरेण सा। तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम्। तस्माद्विमोक्षणात् प्रीता नदी राज्ञे न्यवेदयत्। यः पुमानभवत्तत्रतं स राजर्षिसत्तमः। वसुर्वसुप्रदश्चक्रे सेनापतिमरिन्दमः। चकार पत्नीं कन्यान्तु तथा ता गिरिकां नृपः”।

उपरितन = त्रि० उपरि भवः ट्युल् तुट् च स्त्रियां ङीप्। ऊर्द्धभवे।

उपरिमर्त्य = अव्य० वेदे बा० अव्ययी०। मत्यस्योपरीत्यर्थे “अवोदेवमुपरिमर्त्यं कृधि” ऋ० ८, १९, १२, “उपरि मर्त्यं मर्त्यानामुपरि” इति भा०। लोके तु वा ६ त०। मर्त्योपरीत्येव। अतएव “तदुपर्य्यपि वादवरायणः” शा० सू०। “आत्मोपरिपातुकन्तु” नै० इत्यादौ वा षष्ठीसमासप्रयोगः।

उपरिमेखल = पु० उपरि ऊर्द्धा मेखला यस्य। गोत्रप्रवर्त्तके ऋषिभेदे ततः गोत्रार्थे इञ् औपरिमेखलि तद्गोत्रे पुंस्त्री बहुषु तु अस्त्रियाम् यस्कादि० तस्य लुक्। उपरिभेखलाः

उपरिवृहती = स्त्री वैदिके वृहतीच्छन्दोभेदे “चतुर्थं वृहती तृतीयो द्वादशकः। आद्यश्चेत् पुरस्ताद्वृहतो द्वितीयश्चेन्न्यङ्क्षुसारिणी उपरिवृहती स्कन्धग्रीवा वा अन्त्यश्चेदुपरिष्टाद्वृहती” सर्वानुक्रमणिका० ५ अ०। एवमुपरिष्टाद्वृहतीत्यपि वैदिके वृहतीछन्दोभेदे।

उपरिष्टात् = अव्य० ऊर्द्ध + नि० रिष्टातिल् उपादेशश्च। उपरिशब्दस्यार्थे “उपरिष्टादाज्यस्याभिघारयति” शत० ब्रा० १, ६, १, २१, “पुरुष उपरिष्टात् पशूनतितिष्ठति” १३, ३, ६, ४, “तस्योपरिष्टाद् वृक्षस्य बलाका संन्यलीयत” भा० व० २०५ अ० क्षिप्रस्योपरिष्टादुभयतः कूर्चः” सुश्रु०।

उपरिसद् = पु० उपरि सीदति सद–क्किप्। राजसूययज्ञे सोमनेतृके द्रुवस्वन्नामके १ देवभेदे। “सोम्नेत्रेभ्यो देवेभ्य उपरिसद्भ्यो द्रुवस्वद्भ्यः स्वाहा” “ये देवा सोमनेत्रा उपरिसदो द्रुवस्वन्तस्तेभ्यः स्वाहा” यजु० ९, ३५, ३६। २ ऊर्द्धस्थे त्रि०

उपरिसद्य = न० उपरि सद्यं सदनमुपवेशनम् सद–भावे बा० यत्। ऊर्द्धोपवेशने अन्तरिक्षोपवेशने “उपरिसद्यं वा एष जयति योजयन्तरित्यक्षसद्यम्” शत० ब्रा० २, १, २२, उपरिसद्यम् अन्तरिक्षसद्यमाकाशे उपवेशनम्” भा०।

उपरीतक = पु० “एकपादमूरौ कृत्वा द्वितीयं स्कन्धसंस्थितम्। नारीं कामयते कामी बन्धः स्यादुपरोतकः” रतिम० उक्ते शृङ्गारबन्धभेदे

उपरुद्ध = त्रि० उप + रुध + क्त। १ निरुद्धे २ आवृते च “अलघुविलम्बिपयोधरोपरुद्वाः” माघः “उपरुद्धाः निरुद्धा आवृताश्च” मल्लि० ३ प्रतिरुद्धे च। “वृत्तं हि राज्ञामुपरुद्धवृत्तम्” रघुः ४ मूत्रादिवेगयुक्ते च।

उपरूपक = न० उपगतं रूपकं दृश्यकाव्यम् सादृश्येन अत्या० स०। नाटकभेदे तद्भेदाश्च अष्टादश यथाह सा० द० “नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम्। प्रस्थानोल्लाप्यकाव्यानि प्रेङ्क्षणं रासकं तथा। संलापकं श्रीगदितं शिल्पकञ्च विलासिका। दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च” अष्टादश प्राहुरुपरूपकाणि मनीषिणः। विना विशेषं सर्वेषां लक्ष्म नाटकवन्मतम्” तल्लक्षणानि तत्तच्छब्दे वक्ष्यन्ते

उपरोघ = पु० उप + रुध–घञ्। १ आवरणे “शरत्प्रमृष्टाम्बुधरोपरोधम्” रघुः। २ प्रतिबन्धे च “अन्येषामपि भैक्षोपजीविनां वृत्त्युपरोधं करोषि” भा० आ० ३ अ०। “तपोधन निवासिनामुपरोधो मा भूत्” शकु० ३ अनुरोधे च। भावे ल्युट् उपरोधनमप्युक्तार्थेषु न०।

उपरोधक = न० उप + रुध–ण्वुल्। १ वासगृहे शब्द रत्ना०। २ उपरोधकर्त्तरि ३ आवरके ४ प्रतिबन्धके ५ अनुरोधकर्त्तरि च त्रि० स्त्रियां टाप् अत इत्त्वम्।

उपल = पु० उप + ला–आदाने क उपलीयते गिरिरस्मिन् वा ली वा० ड, पल–गतौ अच् पलः ओः शिवस्य पलः बोधक इत्यपरे। १ पाषाणे “रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्ण्णाम्” मेघ० “परिगृह्य शतघ्नीश्च सचक्राः सगुडोपलाः” भा० व० २८३ अ० २ वालुकायाम् “भिषगुपलप्रक्षिणी नना” ऋ० ९, ११२, ३। “उपलेषु वालुकासु प्रक्षिणन्ति” भा० ३ रत्नमात्रे मेदि० “वलयार्पितासितमहोपलप्रमाः “शुकाङ्गनीलोपलनिर्म्मितानाम्” “नीलोपलस्यूतविचित्रधातुः” माघः “मध्यमोपलनिभे लसदंशौ” किरा०। ४ शर्करायां स्त्री। उपराति वारि रा–दाने क वा रस्य लः। ५ मेघे निरु०। लत्वाभावे उपरोऽपि मेघे

उपलक्षक = त्रि० उप + लक्ष–ण्वुल्। १ उद्भावके “मेधावी वाक्पटुः प्राज्ञः परचित्तोपलक्षकः। धीरो यथोक्तवादी च एष दूतो विधीयते” नीतिः उपादानलक्षणया स्वस्वेतर बोधके २ शब्दे च यथा काकेभ्योरक्ष्यतामन्नमित्यादौ काकशब्दः उपघातकत्वे न काकतदितरबोधकत्वात् उपलक्षकः।

उपलक्षण = न० उपलक्ष्यते स्वंस्वेतरच्चानेन उप + लक्ष–करणे ल्युट्। स्वस्य स्वान्यस्य च अजहत्स्व र्थया लक्षणया बोधके शब्देयया काकेभ्योदधि रक्ष्यताभित्यत्र काकपदं स्वस्य स्वान्यस्य श्वादेश्च बोधकम्। तल्लक्षणञ्च स्वप्रतिपादकत्वे सति स्वेतरप्रतिपादकत्वम्। भवति चोक्तोदाहरणे उपघातकत्वेन काकाकाकोभयवृत्तित्वं काकशब्दस्येति तथात्वम् ततश्च शक्यतावच्छेदकधर्म्मपरित्यागेन इतर धर्म्मरूपेण स्वस्वेतरवोधकं हि पदमुपलक्षणं भवति “मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम्” सि० कौ०। उप + लक्ष–भा वे ल्युट्। २ तादृशज्ञाने। “ऋणग्रहणं नियोगोपलक्षणार्थम्” सि० कौ०।

उपलधिप्रिय = पु० बालधिः प्रियोऽस्य पृषो०। चमरनाममृगभेदे राजनि०।

उपलब्ध = त्रि० उप + लभ–क्त। १ प्राप्ते, २ ज्ञाते च। आख्यायिकोपलब्धार्था” अमरः। क्ततुवतु। उपलब्धवत् प्राप्तरि ज्ञातरि च स्त्रियां ङीप् “उपलब्धवती दिवच्युतम्” रघुः।

उपलब्धि = स्त्री उप + लभ–क्तिन्। १ प्राप्तौ “वृथा हि मे स्यात् स्वपदोपलब्धिः” रघुः। २ प्रत्यक्षादिज्ञाने च। “नाभाव उपलब्धेः” शा० सू०। योग्यानुपलब्धिः “अनपायिपदोपलब्धये” रघुः।

उपलब्धृ = त्रि० उप + लभ–तृच् स्त्रियां ङीप्। १ प्राप्तरि २ ज्ञातरि ज्ञानाश्रये ३ आत्मनि पु०।

उपलभेदिन् = पु० उपलं भिनत्ति भिद–णिनि ६ त०। पाषाणभेदे वृक्षे राजनि०।

उपलभ्य = त्रि० उप + लभ–कर्ग्मणि यत्। १ प्राप्ये “आरम्भसिद्धौ समयोपलभ्यम्” रघुः। २ ज्ञेये च प्रशंसायां मुम् उपलम्भ्यः

उपलम्भ = पु० उप + लभ–घञ् मुम् च। १ लाभे, २ ज्ञाने च। “कर्त्तृता तदुपलम्भतोऽभवत्” माघः। “ज्ञातौ सुतस्पर्शसुखोपलम्भात्” रघुः।

उपलिङ्ग = न० उपमितं लिङ्गेन अवा० स०। लोकनिद्धसाधनभावेन लिङ्गेनानुमापकेन सदृशे अलौकिकसाधनभावके अरिष्टसूचके मूकम्पादौ उपद्रवे।

उपलेप = पु० उप + लिप–घञ्। १ गोसयादिना आलेपने “गात्रेषु सर्वेन्द्रियाणामुपलेपोऽवसादनमिति” सुश्रुतोक्ते २ सर्वेन्द्रियावसादने च। “कासोपलेपस्वरभेदनिद्रातन्त्रास्यदौर्गन्ध्यविषोपसर्गाः” सादोपलेपबलकृत्” सुश्रु०। भावे ल्युट् उपलेपन गोमयादिना आलेपने न० “मण्डलालेपनादिकं कर्म समाज्ञापयति” पञ्चत०।

उपवक्तृ = पु० उपवक्ति उपदिशति उपपश्यति वा उप + वच तृच्। यज्ञे कृताकृतावेक्षके ऋत्विग्भेदे १ ब्रह्मणि २ सदस्ये च “वेषि ह्यध्वरीयतामुपवक्ता जनानाम्” ऋ० ४, ९, ५, “उपवक्ताऽध्वर्य्युप्रभृतीनां सर्वेषां कर्मणामनुज्ञार्थमित्थं प्रणयेत्यादिरूपस्य वाक्यस्य वक्ता सन् ब्रह्मासि, सर्वेषां कर्मणामवैकल्यार्थमुपद्रष्टा सदस्यो वासि” भा०

उपवङ्ग = पु० उपगतोवङ्गम् अत्या० स०। वङ्गदेशसमीपस्थे देशभेदे देशशब्दे विवृतिः।

उपवट = पु० उपमितो वटेन अवा० स०। वटवृक्षसदृशे प्रियासालवृक्षे राजनि०

उपवन = न० उपमितं वनेन अवा० स०। वनतुल्ये कृत्रिमे आरोपितवृक्षसमूहे १ उद्याने। “पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैः” मेघ० “साकेतमालोपवना वृहन्ति” रघुः आरामशब्दे पृ० ८०१ विवृतिः वनस्य सामीप्यम् वने वा अव्ययी०। २ वनसामीप्ये ३ वने इत्यर्थे च अव्य० “कुसुमयन् फलिनीरलिनीरवैर्मदविकाशिभिराहितहुङ्कृतिः। उपवनं निरभर्तृसयत प्रियान्” माघः।

उपवर्णन = न० उप + वर्ण–ल्युट्। सम्यक्कीर्त्तने स्वरूपलक्षणगुणादिभिः प्रतिपादने “अतिशयोपवर्णनं व्याख्यानम्” सुश्रु०

उपवर्त्तन = न० उपेत्य वर्त्तन्तेऽत्र उप + वृत–आधारे ल्युट्। जनपदे १ विषये “तस्योपवर्त्तनेऽप्येको न श्रुतो गोत्रभित् क्वचित्” काशी० तदेकदेशे २ सजलस्थले भरतः।

उपवर्ष = पु० षाणिनिकात्यायनव्याडिप्रभृतीनामध्यापके ऋषिभेदे तत्कथा वृहत्कयायाम् द्रष्टव्या “वर्णा एव तु भगवानुपवर्षः” शा० सू०

उपवर्ह = पु० उप + वृह–उद्ययने करणे घञ्। शिरोधाने (वालिश) हेम० तत्र हि स्थापयित्वा शिर उद्यम्यते इति तस्य तथात्वम्। ल्युट्। उपवर्हणमप्यत्र न०

उपवल्लिका = स्त्री उप उत्कर्षे प्रादिस०। अमृतस्रवलतायाम् राजनि०।

उपवल्ह = पु० उप + वल्ह–प्राधान्ये घञ्। प्राधान्ये उत्कर्षे “तत् पूर्वेषांवृतानां धास्यतामेव धनमुपाहितं भवत्युपव ल्हाय बिभ्यताम्” शत० ब्रा०१, ४, २, १,

उपवसथ = पु० उपेत्य वसत्यत्र उप + वस–अधारे अथ। १ ग्रामे हेमच०। “यद्याहिताग्निरुपवसथे म्रियते कथमस्य यज्ञः स्यात्” ऐत० “यजमानस्य समीपे वसन्ति देवा अस्मिन्नह्नि आधारे अथ। २ यागपूर्व्वदिवसे। तन्निर्वचनादिकं शत० ब्रा० १, ११, १, ७, २, दर्शितं यथा “अथातोऽशनानशनस्यैव। तदुहाषाढः सावयसोऽनशन मेव व्रतं मेने मनोहवै देवा मनुष्यस्याजानन्ति तत् एनमेतद्व्रतमुपयन्तं विदुः प्रातर्नो यक्ष्यत इति तेऽस्य विश्वे देवा गृहानागच्छन्ति तेऽस्य गृहेषूपवसन्ति स उपवसथः। तत्त्वेवानवक्लुप्तम्। यो मनुष्येष्वनश्नत्सु पूर्व्वोऽ- श्नीयादथ किमु यो देवेष्वनश्नत्सु पूर्ब्बोऽश्नीयात्तस्मादु नैवाश्नीयात्। तदुहोवाच याज्ञवल्क्यः। यदि नाश्नाति पितृदेवत्योभवति यद्यु अश्नाति देवानत्यश्नातीति स यदेवाशितमनशितं तदश्नीयादिति यस्य वै हविर्न गृह्णन्ति तदशितमनशितं स यदश्नाति तेनापितृदेवत्यो भवति यद्यु तदश्नाति यस्य हविर्न गृह्णन्ति तेनो देवान्नात्यश्नाति। स वा आरण्यमेवाश्नीयात्” “व्रतप्रसङ्गादागतं तद्विसर्जनं समाप्य पूर्व्वेद्युर्यजमानेन व्रतानन्तरं यत् कर्त्तव्यं तद्वक्तव्यं प्रतिजानीते अथेति। यतो ब्रतानन्तरमशनानशनापरनामकमारण्याद्यशनमेव यजमानेन कर्त्तव्यम् अतस्तदनन्तरमेव तस्य निरूपणं क्रियत इत्यर्थः। प्रतिज्ञा तस्याशनानशनपक्षस्य प्रशंसार्थम्। केवलानशनपक्षं निरसितुमुपन्यस्यति तदु हेति। तत्तस्मिन्नशनाशननविषये अनशनं सर्व्वात्मना अशनत्यागम्। उपवसथनामनिर्वचनेन देवानामागभनं द्रढयति तेऽस्येति उपसमीपे यजमानस्य वसन्ति देवा अस्मिन्निति पूर्व दिवस उपवसथनामक इत्यर्थः। गृहे मनुष्येष्वागतेष्वन श्नत्सु पूर्ब्बोऽश्नीयादिति यत्तस्यानवकॢप्तिः किमु वक्तव्या? अषाढेन चेन्मुनिना निर्णीतोऽनशनपक्षः तर्हि स एव परमार्थः। कथमशनानशनपक्षः? इति चेत् अनेन मुनिनैव स्वमतसमर्थनाय प्रत्येकपक्षौ दूषयित्वा याज्ञवल्केन सोपपत्तिना नोभयावित्युक्तम्। यदीति अशनानशनलक्षणं यदीति। दैविके हि कर्म्मणि देवान् प्रत्युद्दिष्टस्यैव हविषः प्रथममनुपयोगः काममन्यस्य, पित्र्ये पुनरनिय माद्धविषोऽन्यदाप अनुपयोग्यमिति पितृदैवत्थतामापादयतीति याज्ञवल्क्यस्याशयः। तत् किं दैविके कर्म्मणि प्रागपि भोक्तव्यमिति यस्तमाशयमजानानः शङ्कते तमाह यद्यु इति यदि तु अश्नाति तदा अशिशिषतो देवानतिक्रम्य स्वयं भुक्तवान् स्यात्। अशनानशनपक्षयोरुभयोरपि दोषश्चेत् का गतिरिति यद्द्रव्यमशित मप्यनशितवद्भवति तदश्नीयात्। यस्य द्रव्यस्य संबन्ध्यन्नं हविष्ट्वेन देवा न गृह्णन्ति तदशितमपि सदनशित वद्भवति। तथात्वे यथोदीरितदोषद्वयाभावमाह स यदिति। आरण्यग्रहणं प्राकृतदर्शपूर्णमासहविर्व्यतिरिक्तोपलक्षणम्” भा०। तत्र विहितः ठञ् भावे अथ। वैदिके कर्मभेदे तच्च कर्म कात्या० ८, ८, ८, दर्शितम्। नवमाध्यायादौ “उक्तमौपवसथ्यं कर्मेति” कर्कः।

उपवस्त = न० उप + वसु स्तम्भे उपमृष्टत्वादभोजने भावे क्त। उपवासे अमरः।

उपवस्ति = स्त्री उप + वसु–स्तम्भेभावे क्तिन्। उपष्टम्भे आलम्बने तेन जीवति वेतना० ठञ्। औपवस्तिक तदुपजीविनि त्रि०।

उपवाक = पु० उप + वच–घञ् कुत्वम्। उपेत्य वचने १ परस्परालापे “नमस्वन्त इदुपवाकमीयुः” ऋ० १, १६४, ९, “उपवाकमुपेत्य वचनं परस्परवचनम्” भा०। उपवाति उप + वा–भावे क्विप् तस्यै कं जलं यत्र। २ यवे पु० “सक्तूनां रूपं वदरमुपवाकः करम्भस्य” यजु० १९०, २२, “सरस्वत्युपवाकैर्व्यानम्” १९, ९०, “उपवाका यवाः” वेददी० “अथ नासिकयोर्लोमानि तान्युपवाकसक्तवश्च वदरसक्तवश्च श्रोत्रे एवास्येन्द्रौ ग्रहौ” शत० ब्रा० १२, ९, १, ५, भ्रष्टयवैर्हि जलस्य शोषणात् तथात्वम्। ३ इन्द्रयवे स्त्री ङीप् “वदरैरुपवाकीभिर्भेषजं तीक्मभिः” यजु० २१, ३०, तस्मिन् हितः यत्। उपवाक्य तत्साधने वह्नौ उप + वचकर्मणि ण्यत् कुत्वम्। सम्भाषणीये “अयमग्निर्व्रध्न्यश्वम्य वृत्रहा सनकात् प्रेद्धो नमसोपवाक्यः” ऋ० १०, ६९, १२, कुत्वाभावे उपवाच्य स्तुते प्रणम्ये च “अहन्निस्स्वो यथा विदे शीर्ष्णाशीर्ष्णोपवाच्यः” ऋ० २, १, १३२,

उपवाद = पु० उप + वद–घञ्। अपवादे निन्दायाम् “पशूपवादाश्च” कात्या० “पशूपवादः पशुदाननिन्दा” कर्कः णिनि उपवादिन्। तत्कारिणि “तस्मान्नोपवादी स्यादुत ह्येवंवित्परो भवति” ऐत० “येऽल्पाः कलहिनः पिशुना उपवादिनः” छा० उ०।

उपवास = पु० उप + वस–घञ्। भोजनाभावे भोजननिवृत्तौ स च वैधः अवैधश्चेति भेदात् द्विविधः। तत्र वैधस्य व्रतरूपत्वम्। तस्य संकल्परूपत्वं निरस्य एका० त० संकल्पजन्यत्वमुक्तम् यथा “दीर्घकालानुपालनीयः सङ्कल्पोर्व्रतमिति नारायणोपध्यायानां स्वरसः। स्वकर्त्तव्यविषयोनियतः सङ्कल्पोब्रतमिति श्रीदत्तहरिनाथवर्द्धमानप्रभृतयः। सङ्कल्पश्च भावे मयैतत् कर्त्तव्यमेव, निषेधे न कर्त्तव्यमिति ज्ञानविशेषः अतएव मङ्कल्पः कर्म्ममानसमित्याभिधानिकाः। वस्तुतस्तु पूर्ब्बोक्तवराहपुराणवचनेनैकादश्युपवासस्य व्रतत्वाभिधानात् “एकभक्तेन नक्तेन तथैवायाचितेन च। उपवासेन चैकेन पादकृच्छ्र उदाहृतः” इत्यादियाज्ञवल्क्याद्युक्तेषु एकभक्तनक्तायाचितभोजनोपवासादिषु पादकृच्छ्रादित्वाभिधानाच्च न ससङ्कल्पोव्रतं किन्तु सङ्कल्पषिषयतत्तत्कर्म्मैव व्रतमिति। अतएवंव्रतानां सङ्कल्पसम्भवत्वमाह मनुः “सङ्कल्पपूलः कामोवै यज्ञाः चङ्कल्पसम्भवाः। ब्रतनियमधर्म्माश्च सर्व्वे सङ्कल्पजाः स्मृताः”। अनेन कर्म्मणा इद मिष्टं फलं साध्यते इत्येवंविषया वुद्धिः सङ्कल्पस्तदनन्तरमिष्टसाधन तया अवगते तस्मिन् इच्छा जायते ततस्तदर्थं प्रयत्नं कुर्व्वीत इत्येवं यज्ञा सङ्कल्पसम्भवाः। ब्रतनियमरूपाधर्म्माश्चतुर्थाध्याये वक्ष्यमाणाः। सर्व्वे इत्यनेन अन्येऽपि शास्त्रार्थाः सङ्कल्पादेव जायन्तैति कुल्लूकभट्टः। सङ्कल्पमाह वराहपुराणम्। “प्रातःसङ्कल्पयेद्विद्वानुपवासब्रतादिकम्। नापराह्णे न मध्याह्ने पित्र्यौ कालौ हि तौ स्मृतौ” अत्र संकल्पोव्रतारम्भः”। तत्र भोजनाभावश्च अहोरात्रकालावच्छिन्नः। यथोक्तं स्मृतौ “तपनोदयमारभ्य यामाष्टकमभोजनम्। उपवासः सविज्ञेयः प्रायश्चित्ते विधीयते” प्रायश्चित्ते इत्युपलक्षणम्। प्राजापत्यादौ त्रिरात्राद्युपोषणमस्यैवावृत्त्या बोध्यम्। उपवासशब्दस्य निरुक्त्यन्तरं भवि० पु० दर्शितं यथा “उपावृत्तस्य पापेभ्योयश्च वासोगुणैः सह। उपवासः स विज्ञेयः सर्वभोगविवर्जितः” वैधोपवासस्य यथा निवृत्ति रूप यत्नपरतया भावरूपत्वं तथा एका० त० समर्थितम् यथा एवञ्च सङ्कल्पविषयस्य अनन्तं पूजयेद्धरिमित्यादौ भावत्वं, नेक्षेतोद्यन्तमादित्यमित्यदौ चाभावरूपत्वम्। ननु तर्हि वत्रस्य क्वचिदप्यभावरूपत्वात् “निषेधः कालमात्रके” इत्यस्यैव विषयत्व स्यादिति चेन्न तस्य केवलनिषेधविषयकत्वात् अस्य तु सङ्कल्पादीतिकर्त्तव्यतायोगित्वेन भावघटितत्वात् “तत्र पूज्य विधेर्वृत्तिः” इत्यस्यैव विषयत्वमिति। जोमूतवाहनेनापि “एकादश्यां भोजने दोषं दर्शयन्नुपवासं नियमयति। नचायं निषेधः इतिकर्त्तव्यताविधानात् निषेधे चेतिकर्त्तव्यताविर हाद्व्रतपदाप्रयोगाच्च” इत्युक्तम्। यत्तु निषेधप्रकरणस्थदेवलवचने “म शङ्खेन पिबेत्तोयं न खादेत् कूर्म्मशूकरौ। एकदश्यां न भुञ्चीत पक्षयोरुभयोरपि” इत्यत्र नञोनिषेधे मुख्यत्वाद्भोजनाभावः प्रतीयते नत्वभोजनसङ्कल्परूपं व्रतं लक्षणाप्रसङ्गात्। मत्स्यपुराणे “दशम्यां नियताहारो मांसमैथुनवर्ज्जितः। एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि” इति दशमीनियमपूर्बकं व्रतमभिधाय “रटन्तीह पुराणानि भूयोभूयोवरानने!। न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे” इत्यादिविधेरनन्यगतिकतया निषेधकत्वमवश्यं वाच्यम्। तथाच निषिद्धे भोजने दोषश्रवणं निषेधातिक्रमजन्यतयैवोपपद्यमानं न फलश्रुत्या काम्यतया निरूढस्य व्रतस्य नित्यत्वे प्रमाण- मिति तच्चिन्त्यं न खलु “न शङ्खेन पिवत्तोयमित्यादिभिः” प्रतिपन्ननिषेधभावैः साहचर्य्येणैकादशीभोजननिषेधकमात्रमुत्तरार्द्धं किन्तु “एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि। वनस्थयतिधर्म्मोऽयं शुक्लामेव सदा गृही” इति गोभिलवचने धर्म्मशब्दसममिव्याहारेणैकादश्यामुपवसेदित्यनेनैकवाक्यतया चोपवासविधायकमपि नहि निषिद्धानां ब्रह्महत्यादीनां त्यागेन कश्चिद्धर्म्मोजायते किन्तु भावरूपाङ्गानुगृहीतोनिषिद्धोधर्म्मोभवेदिति, वैधोपवासे च “उपावृत्तस्य पापेभ्योयश्च वासोगुणैः सह। उपवासः स विज्ञेयः सर्वभोगविवर्ज्जितः” इति भविष्यपुराणवचनेन भोगमात्रस्यैव वर्जने प्राप्ते वचनान्तरादहोरात्राभोजनस्यैव पापनिवृत्तगुणवासयुक्तस्य प्राधान्यमन्यभोगवर्जनस्याङ्गत्वम्। तथाच “सूतके मृतके चैव प्रणम्य मनसा हरिम्। एकादश्यां न भुञ्जीत व्रतमेतद्धि वैष्णवम्”। अत्र एकादश्यामुपवासमात्रस्य व्रतत्वमुक्तम् एकादश्यां न भुञ्जीतेत्यस्य व्रतपरत्वेन नाभोजनपरता तस्याश्च पूर्बं दूषितत्वात्। ततश्च यथा एकादश्यां न भुञ्जीत इत्यत्र वचनान्तरादुपवासरूपव्रतपरत्वं तथा न भोक्तव्यमित्यत्रापि। वस्तुतस्तु वराहपुराणे एकादशीव्रतसन्दंशमध्ये “न शङ्खेन पिबेत्तोयमिति” न भोक्तंव्यं न भोक्तव्यमिति वचनद्वयमभिधाय व्रत्ताकरणे प्रत्यवाय उक्तः। नच पौनरुक्त्यभिया तस्य निषेधकत्वमिति वाच्यम् तथात्वे एतद्वचन एव न भोक्तव्यमिति पुनरुपादानं व्यर्थं स्यात् किन्तु वीप्सया तस्यैव व्रतस्य नित्थत्वख्यापनमिति। अन्यथा “निषेधः कालमात्रकः” इत्यनेनैव एकादशीक्षण एव भोजननिषेधः स्यात्”। “एकादश्यां प्रकुर्वन्ति उपवासं मनीषिणः” इति भविष्यपुराणे उपवासपदान्निराहारपदं नैकादशीकालमात्राभोजनपरम् किन्तु तद्युक्ताहोरात्राभोजनपरम्। तत्रैवोपवासपदव्यवहारात्। नच वैपरीत्यम् उपवासपदस्याहाराभावमात्रपरत्वे लक्षणाप्रसङ्गात्। निराहारपदस्योपवासपरत्वे तु न लक्षणा सामान्यशास्त्रस्य विशेषतात्पर्य्यकत्वात्। तथाच कात्यायनः “नित्योपवासी योमर्त्यः सायं प्रातर्भुजिक्रियाम्। सन्त्यजेन्मतिमान् विप्रः संप्राप्ते हरिवासरे”। सायं प्रातरिति रात्रिदिवोपलक्षणम् “मुनिभिर्द्विरशनमुक्तं विप्राणां मर्त्यवासिनां नित्यम्। अहनि च तथा तमस्विन्यां सार्द्धप्रहरयामान्तः” इति छन्दोगपरिशिष्टैकवाक्यत्वात्। प्रतएव खण्डतिथेरप्यहोरात्रत्वकीर्त्तनम् अहोरात्रसाध्यकर्म्माङ्गत्वार्थम्। तथाच विष्णुधर्मोत्तरे। “सा तिथिस्तदहोरात्रं यस्यामभ्युदितोरविः। तया कर्माणि कुर्वीत ह्रासवृद्धी न कारणम्। सा तिथिस्तदहोरात्रं यस्यामस्तमितोरविः। तया कर्माणि कुर्वीत ह्रासवृद्धी न कारणम्। शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितोरविः। कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितोरविः”। तच्च तिथ्यन्तरसहायभावं विना प्रायोन सम्भवति अतएव गृह्यपरिशिष्टे युग्माग्नीत्याद्यभिधाय “तिथ्योर्युग्मं महाफलम्” इत्युक्तं अस्य प्रयोजनन्तु तिथेः खण्डविशेषनियमनम्, स्वतिथ्या क्रर्मानिर्वाहे सहायभावेनान्यतिथ्यनुप्रवेशेनाहोरात्रसाध्योपवासाद्याचरणञ्च। एवञ्च प्रातःकाले तत्तिथ्यलाभे तिथ्यन्तरेऽप्युऽपवाससङ्कल्पः अहोरात्राभोजनरूपस्य तस्य प्रातरारम्भार्हत्वात्। संवत्सरप्रदीपेऽपि “प्रातःसन्ध्यां ततः कृत्वा सङ्कल्पं बुध आचरेत्” इत्युक्तम्। अत्र च कर्म्मणस्तावदपूर्व्वजनकत्वेन विधियत्वेन प्राधान्यम् तिथ्यादेर्गुणत्वेन क्वचिदुपलक्षणत्वमाह गर्गः। “तिथिनक्षत्रवारादि साधनं पुण्यपापयोः। प्रधानगुणभावेन स्वातन्त्र्येण न ते क्षमाः” इति प्रधानम्य कर्म्मणोगुणभावेनाङ्गत्वेन। एवञ्च निराहारपदस्योपवासपरत्वे न कलञ्चाधिकरणन्यायान्नैकादशीक्षणमतिवाह्य भोजनम्। किन्त्वेकादश्यामिति विहितैकादशीयुक्ताहोरात्रपरम्। अथ कलञ्जाधिकरणम्। तत्र श्रुतिः “न कलञ्जंभक्षयेत्” इति कलञ्जभक्षणाभावविषयकं कार्य्यमित्यर्थः। तत्र कालविशेषानुपादानान्निषिध्यमानक्रियायां प्रवृत्तिमतोनिषेधविधावघिकाराद्यावत्कालमेव तस्यां तस्य निवृत्तिः। न हि कलञ्जभक्षणाद्यतः कुतश्चित् कारणान्निवृत्तस्य निषेधानुपालनं सकृद्वृत्तमिति कलञ्जभक्षणनिषेधो न पुनस्तं निवर्त्तयति किन्तु भक्षणप्र-आ वृत्तिमत्तामात्रमधिकारिविशेषणं यदा यदा भवति तद तदा एव निषेधविधिरपि तं निवर्त्तयति। न हि कलञ्जस्यभक्षणमुपक्रम्य यावत्कालं तद्भक्षयति। अतस्तदितरकाले निवृत्तिः सिद्धैवेति भवति विफलोविधिः। ननु नासौ निवृत्तिरप्रवृत्तस्य निवृत्त्यनुपपत्तेः, सत्यं प्रवृत्त्युपाधिना विनाशं प्राप्स्यन् प्रागभावएव प्रवृत्तिनिराकरणात् साध्यमानोनिवृत्तिरुच्यते न तु प्रवृत्तिरपि साध्यतयोपदिश्यते किन्तु रागप्राप्तप्रवृत्तिमतएव निषेधविधावधिकारः। यत्तु “मनसा तु प्रवृत्तस्य भूतचेष्टावतोऽपि वा। यदनागतभावस्य वर्ज्जनं तन्निवर्त्तनम्” इति तत्रापिशब्देनाप्रवृत्तमात्रसमुच्चयान्न विरोधः भूतत्रेष्टावत इति। “भूतं क्ष्मादौ पिशाचादौ जन्तौ क्लीवं त्रिषूचिते। प्राप्ते वृत्ते समे सत्ये देवयोन्यन्तरे तु ना” इति मेदिन्युक्तेः भूते प्राप्ते निषेध्ये चेष्टावत इत्यर्थः। ततश्च प्रागभाव एव कालान्तरसम्बन्धितया साध्यत्वेनोपदिश्यते। प्रागभावश्चानादिसंसर्गाभावमात्रपरः सचाप्रवृत्तस्य भक्षणकारणमननुतिष्ठतः सिध्यत्येव। तस्मात् सकृत्क्रियापर्य्यवसायित्वे विफलोविधिः कादाचित्काकरणस्य निषेधमन्तरेणापि प्राप्तेः। न च स्वर्गकामादिवत् साध्यतया प्रवृत्तिमत्कर्त्तृकत्वमप्यङ्गं विषयमात्राननुष्ठानाधीनसिद्धत्तत्वान्निषेधनियोगानामितिकर्त्तव्यताऽऽकाङ्क्षाविरहात् अतएव शुचित्वमपि तत्र नाङ्गम्। तस्मान्निषेधविधिषु काकवन्तोदेवदत्तस्य गृहाइत्यादिवत्तटस्थत्वेनाधिकारिविशेषणीभूतायाः प्रवृत्तेर्यावत्कालमनुवृत्तिस्ता वत्कालमेव निवृत्तौ साफल्यं पुनर्निमित्तान्तरवन्न सकृदनुष्ठानेनैव शास्त्रार्थसिद्धिः”। गदाधरस्तु विघिस्वरूपे उपवासादिव्रतादेर्निषेधविधिवोध्यतवा वैधत्वं कलञ्ज भक्षणादेश्च निषेधविषयतया निषिद्धत्वमङ्गीचकार। तस्यायमाशयः। विधिप्रत्ययार्थस्येष्टसाधनत्वादेर्धात्वर्थे एवान्वय व्युत्पत्तेः एकादश्यापुपवसेदित्यादिवाक्येन उपवासे लिङाद्यर्थेष्टसाधनत्वस्यान्वयबोधनात् भोजनाभावरूपोपवासस्य निषेधरूपतया तत्र च विध्यर्थान्वयात् निषेधविधित्वम् तदेक वाक्यतया च एकादश्यां न भुञ्जीतेत्यादौ भुजधातोरुपषासपरत्वकल्पनं नञ् तु तत्र तादृशलक्षणाग्राहकः एवञ्च तत्र निषेधरूपभोजनाभावे इष्टसाधनत्वबीधनान्निषेधविधित्वम्। प्रकृत्यर्थे एव प्रत्ययार्थान्वयनियमेन तथान्वयस्यैवौ चित्यम्। न कलञ्जं भक्षयेदित्यादौ तु णञा कलञ्जभक्षण एव विध्यर्थेष्टसाधनत्वस्याभावबोधनात् निषेधरूपत्वम्। नञसमभिव्याहृतस्थले यत्र यस्यान्ययः तत्सममिव्याहारे तु तत्र तस्याभावान्वयनियमात् मैत्रः पचतीत्यादौ मैत्रे पाचकर्त्तृत्वान्वयेन मैत्रो न पचतीत्यादौ तत्रैव कर्त्तृत्वाभावान्वयदर्शनात्। ननु एकादश्यां न भुञ्जीतेत्यत्रापि कुतो न तथान्वय इति चेत् तत्र तथान्वयसम्भवेऽपि एकादश्यामुपवसेत् इत्यादौ तथान्वयासम्भवात् तत्र धातुनैव भोजनाभावस्योपस्थापनात् तत्रैव विध्यर्थान्वयौचित्यात् न च तत्र स्यातन्त्र्येणाभावबोधकपदमस्ति येन विध्यर्थान्वयस्तत्र स्यात्। तदेकवाक्यतया च न भुञ्जीतेत्यादौ उक्तनिबेय विधित्वमुचितमिति। निषेधविधेश्च इष्टसाधमताज्ञानजननद्वारा प्रवर्त्तकत्वम् निषेधस्य तु उदीच्यानिष्टसाधनत्वज्ञारोपजन- नात् निवर्त्तकत्वमिति भेदः विस्तरस्तु विधिस्वरूपे दृश्यः। प्रागुक्त भवि० पु० वाक्यव्याख्यायाम् एका० त० रघु० “उपावृत्तस्य निवृत्तस्य पापेभ्यः पापकर्म्मभ्यः। मैथिलास्तु दोषेभ्य इति पठित्वा दोषेभ्योरागद्वेषमात्सर्य्यादिनिषिद्ध्वात्मधर्म्मेभ्यैत्यर्थमाहुः। गुणानाह गोतमः। “दया सर्व्वभूतेषु क्षान्तिरनसूया शौचमनायासोमङ्गलमकार्पण्यमस्पृहा चेति”। दयादिलक्षणान्याह वृहस्पतिः। “परे वा बन्धवर्गे वा मित्रे द्वेष्टरि वा सदा। आत्मवद्वर्त्तितव्यंहि दयैवैषा प्रकीर्त्तिता”। परे उदासीने। आत्मवदित्यत्र आपत्सु रक्षितव्यमितिकल्पतरौ पाठः। व्यक्तमाह दक्षः। “यथैवात्मां परस्तद्वद्द्रष्टव्यः सुखमिच्छता। सुखदुःखानि तुल्यानि यथात्मनि तथा परे”। वृहस्पतिः। “बाह्ये चाध्यात्मिके चैव दुःखे चोत्पादिते क्वचित्। न कुप्यति न वा हन्ति सा क्षमा परिकीर्त्तिता। न गुणान् गुणिनोहन्ति स्तौति मन्दगुणानपि। नान्यदोषेषु रमते साऽनसूया प्रकीर्त्तिता। अभक्ष्यपरिहारस्तु संसर्गश्चाप्यनिन्दितैः। स्वधर्मे च व्यवस्थानं शौचमेतत् प्रकीर्त्तितम्। शरीरं पीड्यते येन सुशुभेनापि कर्मणा। अत्यन्तं तन्न कुर्वीत अनायासः स उच्यते। प्रशस्ताचरणं नित्यमप्नशस्तविवर्जनम्। एतद्धि मङ्गलं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः। स्तोकादपि च दातव्यमदीनेनैव चात्मना। अहन्यहनि यत् किञ्चिदकार्पण्यं हि तत् स्मृतम्। यथोत्पन्नेन सन्तोषः कर्त्तव्योऽप्यल्पवस्तुना। परस्याचिन्तयित्वार्थं साऽस्पृहा परिकीर्त्तिता”। देवीपुराणम। “वद्ध्यानं तज्जपः स्नानंतत्कथाश्रवणादिकम्। उपवासकृतो ह्येते गुणाः प्रोक्ता मनोषिभिः” सर्वभोगविवर्जतः शास्त्राम नुमतनृत्यगीतादिसुखरहितः” अत्र दन्तधावने मैथिलमतमुत्थाप्य दूषितं तत्रैव। “अत्र र्मतिलाः वृद्धशातातपोभोगविशेषान् प्रतिप्रसूते। “गन्धालङ्कारवस्तूनि पुष्पमाल्यानुलेपनम्। उपवासे न दुष्येत दन्तधावनमञ्जनम्”। गौडीयस्मृतिः “उपवासे तथा श्राद्धे न स्वादेद्दन्तधावनम्। दन्तानां काष्ठसंयोगोदहत्यासप्तमं कुलम्” तत्र योगीश्वरः “तस्मात् सर्वप्रयत्नेन भक्षयेद्दन्तधावनम्” इत्यभिधाय दन्तकाष्ठसंयोगं निषिध्य मृल्लोष्टादिना दन्तधावनमिति विरोधं परिजहारेति वदन्तोनञर्थं व्याचक्रुः तन्न वृद्धशातातपेन “मुखे पर्य्युषिते नित्यं भवत्यप्रयतोनरः। तस्मात् सर्वप्रयत्रेन भक्षयेद्दन्तधावनम्” इत्यभिधाय तद्वचनाभिधानेम दन्तधावने दोषएवोक्तः। अन्यथा पौनरुक्त्या- पत्तेः “अञ्जनं रोचनञ्चापि गन्धान् सुमनसस्तथा। पुण्यके चोपवासे च नियमेव विवर्जयेत्” इति हरिवंशात् मिताक्षरायाम्। “गात्राभ्यङ्गं शिरोभ्यङ्गं ताम्बूलं चानुलेपनम्। व्रतस्थोवर्जयेत् सर्वं यच्चान्यद्बलरागकृत्” इत्यनेनानुलेपनरागकृन्निषेधाच्च। अतएव प्रायश्चित्तविवेककृद्भिः सुष्ठूक्तमुपवासेन हेतुनेति”।

जीमूतवाहनेनापि उपवासे चेति पठित्वा चकारादनुक्तादिष्वपीति व्याख्यातम्। तस्माद्गन्धेत्यादि सर्व्वभोगस्यैव पृदर्शकं तेन विलासार्थगन्धादिवर्ज्जनं कार्य्यम्। देवलः “उपवासः प्रणश्येत दिवास्वापाक्षमैथुनैः। अत्यये चाम्बुपाने च नोपवासः प्रणश्यति”। उपवासोऽपि नश्येतेति कल्पतरुपाठे अपिनान्यद्व्रतं समुच्चीयत इति विशेषः। अक्षैर्द्यूतैः। अत्यये नाशे सम्भाव्यमाने। मैथुने विशेषमाह देवलः। “उपवासे तथा यौनं हन्ति दृप्तकुलानि वै। स्त्रीणां संप्रेक्षणात् स्पर्शात्तामिः सङ्कथनादपि। ब्रह्मचर्य्यं विपद्येत न दारेष्वृतुसङ्गमात्” संप्रेक्षणात् संकथनादित्यत्र सरागत्वं संशब्दस्यार्थः साह चर्य्यात् स्पर्शोऽपि तथेति प्रायश्चित्तविवेकः। कात्यायनोऽपि “रेतःसेकात्मकं भोगमृतेऽप्यत्र क्षयः स्मृतः। तथाच दक्षः। “स्मरणं कीर्त्तनं केलिः प्रैक्षणं गुह्यभाषणम्। सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च। एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः। अनुरागात् कृतञ्चैव ब्रह्मचर्य्यविरोधकम्”।

अनुकल्पपक्षप्रधानपक्षयोर्यथायोगम् अन्थान्यपि वर्ज्यानि कालमा० उक्तानि यथा “कांस्यं मांसं मसूरांश्च चणकान् कोरदूषकान्। शाकंमधु परान्नञ्च त्यजेदुपवसन् स्त्रियम्” कूर्म्मपु०। “असकृज्जलपानञ्च दिवास्वापञ्च मैथुनम्। ताम्बूलचर्वणं मांसं वर्ज्जयेद्ब्रतवासरे” विष्णु ध०। “पतितपाषण्डिनास्तिकसम्भाषणमनृताश्लीलादिकमुपवासादिषु वर्ज्जयेत्” हारीतः। “बहिर्ग्रामान्त्यजान् सूतिं पतितं च रजस्वलाम्। न स्पृशेन्नाभिभाषेत नेक्षेत व्रतवासरे” कूर्म्म पु० “स्मृत्यालोकनगन्धादिसेवनं परि कीर्त्तनम्। अन्नस्य वर्जयेत् सर्व्वं ग्रासानाञ्चाभिकाङ्क्षणम्। गात्रात्यङ्गं शिरोभ्यङ्गं ताम्बूलं चानुनेपनम्। व्रतस्थोवर्ज्जवेत् सर्व्वं यच्चान्यत्र निराकृतम्” विष्णुर०। तत्रैकादस्युश्चुपवासे “यानि कानि च पापानि व्रह्महत्यादिकानि च। अन्नमाश्रित्य तिष्ठन्ति संप्राप्ते हरिवासरे, इति भवि० पु० अन्नमात्रस्य निषेधेऽपि माषमसूरादिनिषोधोऽ- नुकल्पपक्षेऽधिकदोषाय। अतएव “अन्नं तु धान्य संमूतं गिरिजे! भुवि जायते। धान्यानि विविधानीहजगत्यां शृणु यत्नतः। श्याममाषमसूराश्च धान्यकोद्रव सर्षपाः यवगोधूममुद्गाश्च तिलकल्ककुलत्थकाः” इत्यादीन्यष्टादश धान्यान्युक्त्वा “एतैरेव समुद्भूतमन्नं भवति शोभने!। अन्नत्थागे ब्रते भक्ष्येष्वेतान्येव विवर्ज्जयेदिति” शाम्बोत्तर खण्डे धान्यमात्रसंभूतान्नस्य निषेधात्। अतएव नक्तं हविष्यान्नमनोदनं वेत्यनेन अनोदनपदेन सिद्धान्नमात्रभिन्नस्यानुकल्पतोक्ता।

एकादश्युवासेऽधिकारिण एकादशीशब्दे वक्ष्यते। सभर्तृकायान्तु भर्त्रनुमतिं विनोपवासे नाधिकारः। “नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्युपोषणम्। पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते” मनूक्तेः सावित्रीव्रतादौ विशेषविधानात् भर्त्रनुज्ञयाऽधिकारः। अतएव शङ्खेन सामान्यत उक्तम् “कामं मर्त्रनुज्ञया ब्रतोववासनियमेज्यादीनाम भ्यासः स्त्रीधर्म्मः” “पत्यौ जीवति या नारी उपोष्य ब्रतसाचरेत्। आयुः संहरते पत्युः सा नारी नरकं व्रजेत्” इति विष्णुवाक्यन्तु अनुमत्यभावविषषयकम्।

स च उपवासः नित्यः काम्यः नैमित्तिकश्चेति त्रिधा तत्रैकाशीशिवरात्र्याद्युपवासोनित्यः। एकादशीशब्देशिवरात्र्यादि शब्दे च तत्प्रमाणं दृश्यम्। काम्यस्तु “अमावस्या द्वादशी च संक्रान्तिश्च विशेषतः। एताः प्रशस्तास्तिथयो मानुवारस्तथैव च। अत्र स्नानं जपोहो मोदेवतानाञ्च पूजनम्। उपवासस्तथा दानमेकैकं पावनं स्मृतम्” संव० “सप्त वारानुपोष्यैव सप्तधा संयतेन्द्रियः। सप्तजन्मकृतं पापं तत्क्षणादेव नाशयेत्” सं० प्रदी० “नित्यं द्वयोरयनयोर्नित्यं विषुवतोर्द्वयोः। चन्द्रार्कयोर्ग्रहणयोर्व्यतीपातेषु पर्वसु। अहोरात्रोषितः स्नानं दानं होमं तथा जपम्। यः करोति प्रसन्नात्मा तस्य स्यादक्षयञ्च तत्” ब्रह्मपु० इत्यादौ विहितः तत्रायनविषवत्सुनित्य इति भेदः। नैमित्तिकः प्रायश्चित्तरूपः “त्र्यहं प्रातस्त्यहं सायं त्र्यहमद्यादयाचितम्। त्र्यहं परञ्च नाश्नीयात् प्राजापत्यं चरन् द्विजः” मन्वादिविहितः एवमन्यान्यपि प्रायश्चित्तविधायकानि वाक्यानि स्मृतितोज्ञेयानि

तत्र काम्ये सर्व्वशक्तिमानधिकारी भवतीत्युक्तेः सर्व्वाङ्गो पेतस्यैवाधिकारः। नित्ये तु यथाकथञ्चिदनुष्ठानमिति समर्थितम् एका० त० “एवञ्चैकादशीव्रतस्य नित्यत्वात् किञ्चिदङ्गवैकल्येऽपि प्रधानोपवासादेराचरणं यावज्जीवा- धिकरणत्यायात्। स च न्यायोयथा “यावज्जीवमग्निहोत्र जुहुयादिति श्रूयते तत्र किं सर्वाङ्गोपसंहारेणैवाधिकारः उत यावज्जीवपदेन यावन्ति शक्नोतीत्युपसंरर्त्तुं यदा तदा तावद्भिरङ्गैरुपेतं प्रधानं कुर्वन्नधिकरोतीति संशयः। तत्राद्ये सर्वाङ्गोपेतस्य प्रधानस्य फलसाधसत्वादङ्गवैकल्ये फलानुदयात् सर्वाङ्गोपसंहार इति पूर्वपक्षः तत्र सिद्धान्तः “सायं प्रातर्जुहोतीति” श्रुतेः सायं प्रातःकालावच्छित्रं जीवनमग्निहोत्रस्य निमित्ततया श्रूयते नत्वङ्गानां, सति निमित्ते नैमित्तिकमवश्यंभावि अन्यथा निमित्तत्वासम्भवात्। अतोऽशक्याङ्गपरित्यागेन प्रधानं कर्त्तव्यम् तावतैव शास्त्रवशात् फलसिद्धिरिति अतएव नैमित्तिकाधिकारे श्रीधरस्वामिधृता श्रुतिः “यथा शक्नुयात्तथा कुर्य्यादिति”। गौधायनोऽपि स्मरति। “यथा कथञ्चिन्नि त्यानि शक्यवस्तुनिरूपतः। येन केनापि कार्य्याणि नैव नित्यानि लोपयेत्”।

असमर्थस्यानुकल्पेनाप्यचरणम् अनुकल्पश्च कर्त्तृद्रव्यादिषु प्रतिनिधिरूपः तत्राह मनुः। “विश्वैश्च देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः। आपत्सु मरणाद्भीतैर्विधिः प्रतिनिधिः कृतः। प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्त्तते। म साम्परायिकं तस्य दुर्मतेर्विद्यते फलम्”। अत्रापत्प्रतिनिध्यनुकल्पानांपर्यायता। कालविवेकधृतवराहपुराणे “उपवासासमर्थस्तु किञ्चिद्भक्ष्यं प्रयोजयेत्” तथा एकादशीमधिकृत्य स्मृतिः “एकभक्तेन नक्तेन भक्षन् वृद्वातुरः क्षिपेत्” नारदीये “अनुकल्पोनृणां प्रोक्तः क्षीणानां वरवर्णिनि!। मूलं फलं पयस्तोयमुपभोग्यं भवेच्छुभम्। नत्वेव” भोजनं कैश्चिदेकादश्यां प्रकीर्त्तितम्”। एवमनुकल्पासामर्थ्ये ब्रह्मवैवर्त्तः। “उपबासासमर्थश्चेदेकं विप्रन्तु भोजयेत। तावद्धनानि वा दद्यात् यद्भक्ताद्द्विगुणं भवेत्। सहस्रसम्मितां देवीं जपेद्वा प्राणसंयमान्। कुर्य्याद्द्वादशसंख्याकान् यथाशक्ति व्रते नरः”। देवीं गायत्रीम्। वायुपुराणे “उपवासनिषेधे तु किञ्चिद्भक्ष्यं प्रकल्पयेत्। न दुष्यत्युपवासेन उपवासफलं भवेत्। नक्तं हविष्यान्नमनोदनं वा फलं तिलाः क्षीरमथाम्बु वाज्यम्। यत् पञ्चगव्यं यदि वाथ वायुः प्रशस्तमत्रोत्तरमुत्तरञ्च”। उपवासनिषेघेतु असामर्थ्यैव हविष्यादिरनुकल्पः। तानि च “अष्टौ तान्यव्रतघ्नानि ह्यापोमूलं फलं पयः। हविर्ब्राह्मण काम्या च गुरोर्वचनमौषधम्” वौधायनः। एकादश्यतिरिक्तोपवासे अनुकल्पपक्षे विशेषः नि० सि०। “नित्य- स्नायी मिताहारो गुरुदेवद्विजार्चकः। क्षारं क्षौरञ्च लवणम् मधुमांसानि वर्जयेत्” पृथ्वीच० अग्निपु०। क्षाराश्च तत्रैवीक्ताः “तिलमुद्गादृते शिम्ब्यः शस्ये गोधूमकोद्रवौ। धन्याकं देवधान्यञ्च शमीधान्यं तथैव च। स्विन्नधान्यं तथा पण्यं मूलं क्षारगणाः स्मृताः” गोधूमस्य क्षारत्वेऽपि उपवासानुकल्पे प्रतिप्रसवस्तत्रैव “व्रीहिषष्टिकमुद्गाश्च कलायः सतिलं पयः। श्यासाकश्चैव नीवारा गोधूमाद्या व्रते हिताः”। कुष्माण्डालावुवार्त्तकुपालङ्गीज्योत्स्निकास्त्यजेत्। चतुर्भैक्षं सक्तुकणाः शाकं दधि घृतं मधु। श्यामाकशालिनीवारा यावकं मूलतत् फलम्। हविष्यं व्रतनक्तादावग्निकार्यादिके हितम्। मधुमांसं विहायान्यव्रते वा हितमीरितम्”। “चतुर्भैक्षं सक्तुकणायावकशाकपयोदधिघृतमूलफलोदकानि हवींष्युत्तरोत्तरं प्रशस्तानि” मिता० गौत०। निर्णया० संग्र०। स्तेनहिंसकयोः सख्यम् कृत्वा स्तैन्यञ्च हिंसनम्। प्रायश्चित्तं व्रती कुर्यात् जपन्नामशतत्रयम्। मिथ्यावादे दिवास्वापे बहुशोऽम्बुनिषेवणे। अष्टाक्षरं व्रती जप्त्वा शतमष्टोत्तरं शुचिः”। अतएव समर्थस्य किञ्चिद्भक्षणमपि भङ्ग्या निषिद्धम्। “उपवासो यदा राम! श्राद्धं नैमित्तिकं भवेत्। उपवासं तदा कुर्य्यादाघ्राय पितृसेवित मिति” कात्या०।

अथ कर्त्तृप्रतिनिधिः स्वयमशक्तौ प्रतिनिधिनाऽपि उपवासादिव्रतं कार्य्यमित्याह स्कन्दपु०। “पुत्रञ्च विनयोपेतं भगिनीं भ्रातरन्तथा। एषामभाव एवान्यं ब्राह्मणं विनियोजयेत्” गरुडपुरा०। “भार्या भर्त्तुर्व्रतं कुर्याद्भार्यायाश्च पतिस्तथा। असामर्थ्ये द्वयोस्ताभ्यां व्रतभङ्गोन जायते”। वराहपुराणे “पितृमातृपतिभ्रातृस्वसृगुर्वादिभूभुजाम्। अदृष्टार्थमुपोष्यैव स्वयञ्च फलभाग्भवेत्”। अत्र नि० सि० त्रिकाण्डमण्डने विशेषः “काम्ये प्रतिनिधिर्नास्ति नित्ये नैमित्तिके च सः। काम्येऽप्युपक्रमादूर्द्ध्वं केचित् प्रतिनिधिं विदुः। न स्यात् प्रतिनिधिर्मन्त्रस्वामिदेवाग्निकर्म्मसु। स देशकालयोर्नास्ति नारणेरग्निरेव सा। नापि प्रतिनिधातव्यं निषिद्धं वस्तु कुत्रचित्”। ततश्च शक्तौ उपोषणादिकमनुकम्पादिना कार्य्यं पूजादिकं तु स्वयमसामार्थ्ये अन्येन कारयेदिति एका० त० रघु०।

नित्यकाम्ययोरुपवासयोरय मेदः “उपवासफलं प्रेप्सुस्त्यजेत् भक्तचतुष्टयमिति” कालमा० भारतम् “जह्याद्भक्तद्वयं निये काम्ये भक्तचतुष्टयम्। सायमाद्यन्तयोर्भक्तमेकैकं मध्यमे द्वयम्” एका० त० स्मृति। अत्र सायमित्यस्य एकमोजनमात्रपरत्वम् तेन दैवात् पूर्व्वदिने दिववाऽभोजने रात्रिभोजनेऽपि न फलाप्राप्तिः “अह्नोराद्यन्तयोरुक्तमेकैकं मध्यतो द्वयम्। उपवासफलप्रेप्सोर्वर्ज्यं भक्तचतुष्टयमिति” वाराहात्।

उपवास व्रतस्य वैधतया तत्तत्तिथेः पूज्यखण्डएव कर्त्तव्यता तन्निरूपणाय प्रतिपदमारभ्य खण्डविशेषनियमनं कालमा० दर्शितं तत्रादौ प्रतिपत्प्रकरणे यथोक्तं तदुच्यते ततो “मार्गशिरे मासि प्रतिपद्यपरेऽहनि। इष्ट्वा गुरुञ्चोपवसेन्महादेवं स्मरन्मुहुरिति”। ननु पूर्वविद्धायां शुक्लप्रतिपदि योऽयदुपवासौ विहितस्तस्य संकल्पः किं प्रातः कार्यः किं वा परत्र, नाद्यः प्रातस्तदभावेन संकल्पायोगात्। अतएव बौधायनः “योयस्य विहितः कालः कर्मणस्तमुपक्रमे। तिथिर्याऽभिमता सा तु कार्या नोपक्रमोज्झितेति” स्कन्दपुराणेऽपि “योयस्य विहितः कालः कर्मणस्तदुपक्रमे। विद्यमानो भवेदङ्गं नोज्झितोपक्रमेण तु” (सन्धिरार्षः)। न द्वितीयः प्रातःकालस्यैव संकल्पाङ्गत्वात् तथा च स्मर्यते “प्रातः संकल्पयेद्विद्वानुपवासव्रतादिकमिति”। तथा “प्रातरारभ्यमतिमान् कुर्यान्नक्तव्रतादिकम्। नापराह्णेन मध्याह्णे पित्र्यौ कालौ हि तौ स्मृताविति”। अत्रोच्यते यथोक्तवचनबलात् प्रातरेव संकल्पः कार्यः तदानीं ज्योतिःशास्त्रप्रसिद्धप्रतिपदभावेऽपि स्मृतिभिरापादितायाः प्रतिपदः सत्त्वात् अतएव देवलः “यान्तिथिं समनुप्राप्य अस्तं याति दिवाकरः। तिथिः सा सकला ज्ञेया दानाध्ययनकर्मस्विति” अत्र दानाध्ययनयोरुपवासादिनिखिलदैवोपलक्षणार्थत्वविवक्षया कर्म्मस्विति बहुवचनं निर्दिष्टम्। अत्रास्तमयात् पूर्ब्बं मुहूर्त्तत्रयव्यापिनीं तिथिं समनुप्राप्येति व्याख्येयम्। न तु ततोऽल्पव्याप्तिर्विवक्षिता तथा सति पूर्वोत्तरवेधाभावेनोत्तरतिथेरेव ग्राह्यत्वप्रसङ्गात् तथा च त्रिमुहूर्त्त व्याप्तिः स्वन्दपुराणे दर्शिता। “यान्तिथिं समनुप्राप्ययात्यस्तं पद्मिनीप्रियः। सा तिथिस्तद्दिने प्रोक्ता त्रिमुहूर्त्ता यदा भवेदिति”। शिवरहस्यसौरपुराणयोरपि “यां प्राप्यास्तमुपैत्यर्कः सा चेत् स्यात्त्रिमुहूर्त्तिका। धर्म्मकृत्येषु सर्वेषु संपूर्णां तां विदुर्बुधाः” इति। वृहद्वशिष्ठोऽपि “यस्यान्तिथावस्तमियात् सूर्य्यस्तु त्निमुहूर्त्तकैः। यागदानजपादिभ्यस्तामेवोपक्रमेत् तिथिमिति”। ननु सातन्तनत्रिमुहूर्त्तशुक्लप्रतिपदुपेतायां तिथौ प्रातरेव संकल्प्य प्रतिपदुपवासः कार्य इति युग्मादिवचनमाश्रित्य निर्णीतं तत्तिथिक्षये तथाऽस्तु ह्रासवृद्ध्योस्तु खर्वादि वाक्यात्परेद्युरुपवासः प्रोप्नोतीति चेत् भैवं स्वर्वादिवा क्यस्यैकोद्दिष्टादिविषयत्वात् तथा च व्यासः “द्वितीयादिक युग्मानां पूज्यता नियमादिषु। एकोदिष्टादि वृद्ध्यादौ ह्रास वृद्ध्यादि नोदनेति” नियमादिष्वित्यादिशब्देन पित्र्यकर्मव्यतिरिक्तव्रतोपवासादिसकलकर्मणोग्रहणम्, एकोदिष्टादीत्यादिशब्देन विवाहादिमङ्गलाङ्गभूतश्राद्धव्यतिरिक्तपार्वणश्राद्धस्य, वृद्ध्यादावित्यादिशब्देन माङ्गलिकश्राद्धस्य, ह्रासवृद्ध्यादीत्यादिशब्देन ययास्तमित्यादिशास्त्रस्य”। पूर्वाह्णवाक्यस्य सामान्यरूपत्वेन परविद्धोपवासविषयतया संकोचनीयत्वादिति तत्रोक्ते र्न पूर्वाह्णांदिशास्त्र वैवर्थ्यम्। एतदेवाभिप्रेत्य निगमे श्रूयते। “पूर्वविद्धासु तिथिषु भेषु च श्रवणं विना। उपोष्य विधि वत् कुर्य्यात्तदन्ते चैव पारणमिति”। भेषु नक्षत्रेशु स्कन्दपुराणेऽपि। “तिथीनामेव सर्वासामुपवासव्रतादिषु। तिथ्यन्ते पारणं कुर्याद्विना शिवचतुर्दशीम्”। अत्रोपवास व्रतादिष्वित्यादिशब्द नैकभक्तानक्तयाचितानि गृह्यन्ते। यान्तिथिमुद्दिश्यैतानि पूर्वेद्युर्विहितानि परेद्युस्तत्तिथिभागे समाप्ते पश्चाद्भोजनं कार्यम् अन्यथा पूर्ब्बदिनानुष्ठितैकभक्तादिव्रतानां वैकल्यं स्यादित्यभिप्रायः। अस्य च तिथिभान्तपाणस्यापवादः क्वचित् स्मर्यते। “तिथ्यन्ते चैव भान्ते च पारणं यत्र नोद्यते। यामत्रयोर्द्धगामिन्यां प्रातरेव हि पारणमिति”। तदलाभे उदयगामिन्याः पूज्यता यथाह तत्रैव देवलः। “यान्तिथिं समनुप्राप्य उदयं याति भास्करः। सा तिथिः सकला ज्ञेया स्नानदानजपादिष्विति” व्यासोऽपि “उदयन्नेव सविता यां तिथिं प्रतिपद्यते। सा तिथिः सकला ज्ञेया दानाध्ययनकर्म्मस्विति”। भविष्योत्तरपुराणेऽपि। “व्रतोपवासनियमे घटिकैका यदोदये। सा तिथिः सकला ज्ञेया पित्रर्थे चापराह्णिकीति”। पद्मपुराणेऽपि “व्रतोपवासनियमे घटिकैका यदा भवेत्। उदये सा तिथिस्तत्र विपरीता तु पैतृके” इति। स्कन्दपुराणेऽपि “व्रतोपवासस्नानादौ घटिकैका यदा भवेत्। उदये सातिथिर्ग्राह्या विपरीता तु पैतृक” इति। विष्णुधर्मोत्तरेऽपि व्रतोपयासस्नानादौ घटिकैका यदा भवेत्। उदये सा तिथिर्ग्राह्या श्राद्धादावस्तगामिनी”। बौधायनोऽपि “आदित्योदयवेलायां याऽल्पापि च तिथिर्भवेत् पूर्ण्णा इत्येव सा ज्ञेया प्रभूता नोदयं विनोत” अत्रमा०। “नन्वस्त्वेवं कृत्स्नदिवसाभ्यनुज्ञा। तथाप्युत्तरविद्वायास्तिथेर्ग्रहणे कियत्परिमाणमुदयेऽपेक्षणीयमिति विवेचनोयम्। तत्र बौधायनेनाल्पापीत्यभिधानात् निमेषमात्र प्रतिभाति। तथा व्यासवाक्येऽपि प्रतिभाति उदयन्नेवेत्यभिधानात्। भविष्यत्पुराणादिवचनेषु षटिकामात्रं प्रतीयते। वचनान्तरे तु विष्णधर्म्मोत्तरबौधायनप्रोक्तं घटिकाचतुष्टयं प्रतिभासते। तथा च पठ्यते। “उदिते दैवतं भानौ पित्र्यं चास्तमितेरवौ” द्विमुहूर्त्ता त्रिमुहूर्त्ता सा तिथिर्हव्यकव्ययोरिति”। अस्यार्थः। भानावुदिते सत्युत्तरकालेऽऽह्नो मुहूर्त्तद्वयं दैवत्यं तस्मिंश्चास्तमिते ततः पूर्वकालीनमह्नोमहूत्तत्रयं पितृदैवत्यम् अतस्तावत्कालव्यापिनी यातिथिर्भवति सैव क्रमेण हव्यकव्ययोर्ग्राह्या भवतीति”। तत्रैवान्यत्र “पौर्बह्णिकादिवचनेन दैवे पूर्वाह्णव्याप्तायास्त्रिमूहूर्त्तपरिमितायास्तिथेर्ग्रहणं त्रिमूहूर्त्तन्यूनायास्तिथेः पूर्बाह्णव्याप्त्यभावात् पूर्बाह्णस्य पञ्चधा विभक्त स्य मुख्यत्वादुदिते भानौ त्रिमूर्त्ता तिथिर्ग्रहीतव्या। यत्तु दक्षेणोक्तं “त्रिमूहूर्त्ताऽपि नोकार्य्या यातिथ्युदयगामिनीति” न तत् त्रिमूहूर्त्तव्याप्तेर्बाधकं प्रत्युतोपोद्वलकमेव। तथा हि प्रतिषेधः सर्वत्र प्रसक्तिपूर्बकः प्रसक्तिश्च यथोक्तरीत्या पौर्बाह्णिकवाक्याद्वा त्रिमुहूर्त्तवेधविधायिपैठोनसिवाक्याद्वा भवति तच्च प्रसक्तं त्रिमुहूर्त्तत्वं समतिथौ वाधकाभावात्तथैव व्यवतिष्ठते तिथिक्षये त्वधिकव्याप्तिविवक्षया प्रतिषिध्यते। अतश्च तत्र चतुर्थमुहूर्त्तस्पर्शिनी तिथिर्ग्राह्या तिथिसाम्यवत्तिथिवृद्धावपि मुहूर्त्तत्रयमेव मुख्यं मुहूर्त्तद्वयं त्वनुकल्पः। एतदेव सूचयितुं त्रिभूहुर्त्तापीत्यपिशब्दः पठ्यते”। तत्रैव स्थलान्तरे स्मृत्यन्तरे “एकादशी तथा षष्ठी अमावास्या चतुर्थिका। उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः”। शिवगीतायाम् वृहद्वशिष्ठः “द्वितीया पञ्चमी वेधाद्दशमी च त्रयोदशी। चतुर्द्दशी चोपवावे हन्युः पूर्वोत्तरे तिथी” द्वितीयादयः स्ववेधेन पूर्वामुत्तराञ्च हन्युरित्याह। तेन प्रतिपद् द्वितीयायुक्ता उपवासे निषिद्धा। “प्रतिपत् सद्वितीया स्याद्–द्वितीया प्रतिपद्युतेति” आपस्तम्बवाक्यं कृष्णप्रतिपद्विषयम् उपवासातिरिक्तदैवकर्मपरं चेति माधवः। उपवासस्याहोरात्र साध्यत्वेन स्वण्डतिथौ संपूर्णकालव्याप्त्यसम्भवेन व्याप्ति बाहुल्यं पूर्वविद्धायामेव सम्भवति अह्नोऽपरभागे सकलरात्रौ च तद्वाप्तेः। “उदये सा तिथिर्ग्राह्येति सामान्य शास्त्रस्य विशेषशास्त्राद्दुर्वलत्वम् ततश्च अप्रराह्णद्वित्रि मुहूर्त्तव्यापिन्येव पूर्वविद्धा उपोष्येति माधवमते स्थितम्। रघुनन्दनभते तु “पञ्चमी सप्तमी चैव दशमी च त्रयोदशी। प्रतिपन्नवमी चैव कर्त्तव्या साम्मुखी तिथिः”। पैठी० उक्तेः “साम्मुख्यं नाम सायाह्नव्यापिनी दृश्यते यदा” इतिस्कन्दपुराणोक्तसाम्मुख्ययुक्तायाः प्रतिपदोग्राह्यता सायाह्नव्याप्तिश्च मुहूर्त्तान्यूनत्वेन ग्राह्यमिति। उभयदिने तत्प्राप्तौ त्रिसन्ध्यव्यापिचे तु परैवोपोष्या “त्रिसन्ध्यव्यापिनी या तु सैव पूज्या सदा तिथिः। न तत्र युग्मादरणमन्यत्र हरिवासरादिति” पराशरवाक्येन तदपवादः एतच्च जयन्तीशिवरात्र्यादि विशेषेतरपरमिति ति० त० तेनोक्तम्। अत्र प्रागुक्तबिशेषवचनानुसारिमाधवमतमेव ज्यायः। गौडादृतमपि रघुनन्दनमतन्तु सामान्यशास्त्रानुसारित्वाद् दुर्बलमिति सुधीभिरपक्षपातिभिर्विवेच्यम्। अन्यासु तिथिषु व्यवस्था तु तत एवावगन्तव्या दिङ्मात्रमिह दर्शितम् तिथिशब्दे विवृतिः। उपवासे दीयते कार्यं वा व्युष्टा० अण्। औपवास तत्र देये तत्र कार्योच त्रि०। तस्मै प्रभवति विमुक्ता० ठञ्। औपवासिक तस्मै पर्याप्ते त्रि०।

उपवासक = त्रि० उप + वस–ण्वुल्। १ अनाहारकारिणि। उपवासे हितम् कन्। २ व्रतभेदे त्रि० “नैव यज्ञक्रियाः काश्चिन्न श्राद्धं नोपवासकम्” भा० २०४ अ०।

उपवासन = न० उप + वास–उपसेवायाम् भावे ल्युट्। उपसेवने। “यदा सन्ध्यामुपाधाने यद्वोपवासने कृतम्” अथ० १४, २, ६३।

उपवासिन् = त्रि० उप + वस–णिनि। अनाहारकर्त्तरि “दिनोपवासी तु निशामिषाशी जटाधरः सन् कुलटाभिलाषी” हास्यार्ण्णवः “विमानैर्हंससंयुक्तैर्यान्ति मासीपवासिनः” भा० व० १९९ अ०।

उपवाहन = न० उप + वह–णिच्–भावे ल्युट्। समीपनयने।

उपवाह्य = यु० उप उत्कर्षे प्रा० स०। राजवाह्यहस्तिनि हेम०

उपविद् = स्त्री उप + विन्दतेः वेत्तेर्वा सम्प० क्विप्। १ उपलम्भे प्राप्तौ २ ज्ञाने च “उपविदा वह्निर्विन्दते वसु” ऋ० ८, २३, ३। “उपविदा उपवेदनेनैते हवींषि देवार्थं न प्रयच्छन्तीत्येतज्ज्ञानेन” भा०। कर्त्तरि क्विप्। ३ प्राप्तरि ४ बोद्धरि च त्रि०।

उपविन्दु = पु० उपगतो विन्दुम् अत्या० स०। राजभेदे तस्यापत्यम् बाह्वा० इञ्। औपविन्दवि तदपत्ये पुंस्त्री०।

उपविष = पु० उपमितं विषेण अवा० स०। “अर्कक्षीरं स्नुहीक्षीरं तथैव कलिहारिका। धस्तूरः करवीरश्च पञ्च चोपविषाः स्मृताः” इत्युक्तेषु १ अर्कक्षोरादिषु २ कृत्रिमविष न० हेम०। ३ अतिविषायां (आतैच्) स्त्री।

उपविष्ट = त्रि० उप + विश–कर्त्तरि क्त। कृतोपवेशने “उपविष्ट होमाः स्वाहाकारप्रदाना झोतयः” कात्या० १, २, ७,।

उपवीणि = वीणया उपगायति उप + वीणा + णिच् नामधातुः सक० उभ० सेट्। उपवीणयति ते उपाविवीणत् त। उपवीणयाम् बभूव आस चकार चक्रे उपवीणितः “श्रितगोकर्ण्णनिकेतमीश्वरम् उपवीणयितुं ययौ रवेरुदयावृत्तिपथेन नारदः” रघुः।

उपवीत = न० उप + व्ये–क्त संप्र०। बहिर्भूतदक्षिणहस्ततया वामांसस्थापिते कार्पासादि १ यज्ञसूत्रे। तच्च त्रिगुणोकृतस्य सूत्रस्य पुनस्त्रैगुण्ये भवति यथाह छन्दो०प० “ऊर्द्ध्वं तु त्रिवृतं कार्य्यं तन्तुत्रयमधोवृतम्। त्रिवृतञ्चोववीतं स्यात् तस्यैकोग्रन्थिरिष्यते”। तथा च प्रथमं ऊर्द्ध्वावर्त्तनेन सूत्रत्रयमेकाकृत्य पुनस्तथाभूतसृत्र त्रयस्याध आवर्त्तनेन नवमूत्रात्मकमेकत्र पिण्डीकृतं भवति तच्च पुनस्तिवृतमसंहतरूपेण पिण्डीकृतमेकग्रन्थियुक्तमेक मपवीतं भवति। व्यक्तमाह देवलः “यज्ञोपवतीतकं कुर्य्यात् सूत्राणि नव तन्तवः” इति। सद्द्वयमेव सर्व्वदा धार्य्य मुत्तरीयवस्त्रालाभे तु तत्तित्रयं धार्य्यम् “यज्ञोपवीते द्वे धाय्यश्रौते स्मात्ते च कर्म्मणि। तृतीयमुत्तरीयार्थं वस्त्रालाभेऽतिदिश्यते” आ० त० स्मृतेः। तद्ग्रन्थिश्च सावित्रीमन्त्रण कार्य्यः “सावित्रीग्रन्थिसंयुक्तमुपवीतं तवाच्यत” विष्णुपूजने व्रह्मपुराणात् “लौकिकास्तु सावित्री ग्रन्थिःप्रवरसंख्ययावेष्टितग्रन्थिरित्याहुः” आ० त० रघु० अत्र सावित्रीग्रन्थिरित्युक्तेः देवपूजादौ सावित्रीग्रन्थिः रेवान्यत्र सावित्रीग्रन्थि ब्रह्मग्रन्थिर्वेति शाखिभेदाद्व्यवस्था। तत्सूत्रभेदश्च मनुना वर्णभेदेन उक्तः “कार्पासमुपवीतं स्यात् विप्रस्योर्द्धवृतं त्रिवृत्। शणसूत्रमयं राज्ञो वैश्यस्या विकसौत्रिकम्”। “ऊर्द्ध्ववृतं दक्षिणावर्त्तितम्” कुल्लू०। इदञ्चोपनयनकाले उत्तरकाले तु सर्वेषामेव कार्पासमयमिति भेदः। ऋषीणान्तु यथेच्छसूत्रमयम् अत एव माषे

“विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितन्तुभिः। कृतोपवीतं हिमशुभ्रमुच्चकैः” “मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः कुमारे च वर्ण्णितम्। यद्यप्युपनयनप्रकरणे उपवीतधारणं गृह्यसूत्रादौ न विहितं तथापि प्रागुक्तमनुवचने “मेखलामजिनं दण्डमुपवीतं कमण्डलुम्। अप्सु प्रास्य विनष्टानि गृह्णोतान्यानि मन्त्रवत्” इति मनुवचने समन्त्रकधारणविधानात् “सदोपवातिना भाव्य मिति स्मृतेः “दण्डाजिनोपवीतञ्च मेखलाञ्चैव धारयेत्” याज्ञ० वाक्यात् “पवित्रं चास्मै प्रयच्छतीति” जातूकर्ण्णवाक्यात् तद्धाहरणमवश्यं कार्य्यमिति गम्यते। किञ्च गृह्यकारेणापि कर्मबिशेषे यज्ञोपवीतधारणनियमोऽभिहितः “यज्ञोपवीतशौचे च” आश्व० गृ० १, १, १० “मानुषपैतृकव्यतिरिक्ते कर्ममात्रे उपवीतधारणनियमः” ना० वृ०। “यज्ञोपवीतिना आचान्तेन कृत्यमिति” गोभिल सूत्रे च तथा नियम्यते। “यज्ञोपवीतमसि यज्ञस्य त्वोपवीतेनोपनेह्यामि” भट्टभाष्यधृतमन्त्रलिङ्गात् “यज्ञोपवीतिनं कुर्य्यादिति” सांख्यायनगृह्याच्च “वेणुवीं धारयेद्यष्टिं सोदकञ्च कमण्डलुम्। यज्ञोपवीतं वेदञ्च शुभे रौक्मे च कुण्डले” इति मानवाच्च तद्धारणविधिः। “यज्ञोपवीतं परमं पवित्रम् वृहस्पतेर्यत् सहजं पुरस्तात्। आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः” इति मन्त्रोक्तफलमेव तद्धारणे ज्ञेयम्। तथाधृते २ वस्त्रे च

न केवलं यज्ञसूत्रस्यैव तथात्वं तथानिवेशितस्य वस्त्रस्यापि तथात्वम् “दक्षिणं बाहुमुद्धृत्य शिरोऽवधाय सव्येऽंसे प्रतिष्ठापयति दक्षिणं कक्षमवलम्बनं भवति एवं यज्ञोपवीती भवति सव्यं बाहुमुद्धृत्य शिरोऽवधाय दक्षिणेऽंसे प्रतिष्ठापयति सव्यं कक्षमवलम्बनं भवत्येवं प्राचीनावीती भवति, निवीती कण्ठसज्जन इति” गोभिलेन सामान्यतोऽभिधानात् “शिरोऽवधाय दक्षिणादिपाणावनुद्धृते कण्ठादेव सज्जने ऋजुप्रालम्बे यज्ञसूत्रे वस्त्रे च निवाती भवति” कुल्लू० उक्तेः मनुना “उद्ध्रते दक्षिणे पाणा वुपवीत्युच्यते द्विजः। सव्येतु प्राचीनावीती निवीतो कण्ठमज्जने” इति सामान्यतोऽभिधानाच्च। उपवीतमस्यास्ति इनि। उपवीतिन् तथासन्निवेशितसूत्रवस्त्रधारिणि। उपवीतस्य वस्त्रादिसंनिवेशविशेषरूपस्य प्राकरणिकाङ्गता मोमांसायां ३ अ० १ पादे निर्णीता यथा “दर्शपौर्ण्णमासयोः ७। ८ ब्राह्मणानुवाकयोः सामचेन्य उक्ता नवमे निविदः दशमे काम्याः सामधेनीकल्पाः, एकादशे यज्ञोपवीतमाम्नातम्। “उपव्ययते देवलक्ष्मैव तत् कुरुते” इति श्रुतिवाक्यार्थस्य उपवीतं सामधेनीनां प्रकरणे निवृत्तेऽनिवृत्ते वा इति सन्देहे सामधेनीप्रकरणमनिवृत्तं तत्र उपवीतं समाम्रातमिति कुतः? काम्यानां सामधेनीकल्पानामानन्तर्य्यवचनात् हृदयमनुविपरिवर्त्तमानासु सामधेनीषु उपवीतमामनन्ति कर्त्तुश्च वासो वित्यासमात्रं गुणो भवति उपवीतं नाम, किं कुर्वता तत्कर्त्तव्यमिति? भवति तत्र पदार्थाकाङ्क्षा तत्र बुद्धौ सन्निहितेनाविप्रकृष्टेन सामधेनीवाक्येन एकवाक्यतामुपगम्य सामधेनीषु उपवीतम् उपव्ययते इति शब्दोविदधाति इति गम्यते इति पूर्व्वपक्षः। सिद्धान्ते तु निविदा व्यवधानात् बुद्ध्या विप्रकृष्टत्वाच्च वाक्यभेदभिया च न सामधेनीभिः सहैकवाक्यतीपवीतस्य, तस्मात् दर्शादिप्रकरणे यदनुष्ठेयं तदुपवीतिना कार्य्यम् इति”। श्रुतौ उपव्ययते इति श्रवणात् उपपूर्बकात् व्येञ एव रूपमुपवीतमिति तु न्याय्यमित्यन्यदुपेक्षितम्। अजधातुरूपोक्तिः श्रुत्यदर्शनात् प्रामादिकी।

उपवृंहित = त्रि० उप + वृन्ह–णिच्–कर्म्मणि क्त। १ बर्द्धिते बहुलं करोति बहुल + णिच्–वृंहादेशे क्त। २ बहुलीकृते अत्रार्थे वर्ग्यबादिरयमिति भेदः।

उपवेणा = स्त्री उपगता वेणाम् अत्या० स०। नदीभेदे “वेणोपवेणा भोमा च बडवा चैव भारत”! भा० व० २२१ अ०।

उपवेद = पु० उपमितः वेदेन अवा० स०। वेदसदृशे आयुर्वेदादौ। स च वेदभेदेन चतुर्द्धा “तत्रर्ग्वेदस्यायुर्वेद उपवेदः, यजुर्वेदस्य धनुर्वेदः, सामवेदस्य गान्धर्ववेदः, अथर्ववेदस्य शस्त्रशास्त्राणीति” शौनकोक्तचरणव्यूहोक्तदिशावसेयः। भावप्रकाशमते तु “विधाताथर्वसर्वस्वमायुर्वेद प्रकाशयन्” इत्युक्तेः अथर्ववेदोपवेदत्वमायुर्वेदस्येति भेदः। अतएव सुश्रुते “इह खल्यायुर्वेदोनाम यदुपाङ्गमथर्ववेदस्येत्युक्तम्”

उपवेश = पु० उप + विश–भावे षञ्। (वसा) १ स्थितौ “प्रातः स वने जुहोति संवेशायोपवेशाय गायत्र्यै छन्दसेऽभिभूत्यै स्वाहा” कात्या० २५, ४१६, उपमितोवेशेन अवा० स०। आहार्यरूपवेशसदृशे २ वेशे। तेन जीवति ३ वेतनादि० ठञ्। औपवेशिक तेनोपजीविनि त्रि० स्त्रियां ङीप्।

उपवेशन = न० उप + विश–भावे ल्युट्। (वसा) १ आसने “प्रायोपयेशनमतिर्नृपतिर्बभूव” रघुः। “अन्वासितमरुन्धत्या” रचुव्या० “पश्चादुपवेशनेनोपसेवितम्” मल्लि०। “प्रादेशोपवेशने” आश्व० श्रौ० ४, ८, ३, “ब्रह्मोपवेशने विनियोगः” भवदेवः णिच्–भावे ल्युट्। निवेशने २ स्थापने च

उपवेशि = पु० उप + विश–इन्। यजुर्वेदसम्प्रदायप्रवर्त्तके ऋपिभेदे “अरुणादरुण उपवेशेरुपवेशिः” शत० ब्रा० १४, ९, ४, ३३, वंशवर्णने उक्तम्।

उपवेशिन् = त्रि० उप + विश–णिनि। उपवेशनकर्त्तरि उपविष्टे।

उपवेष = पु० उप + विष–करणे घञ्। अङ्गारविभजनार्थे काष्ठे “स उपवेषमादत्ते धृष्टिरसीति” शत० ब्रा० १, २, १३, अङ्गारविभजनार्थं काष्ठविशेषः उपवेषः” भा० सचारत्निसात्रः प्रा- देशमात्रो वा तत्करणप्रकारः “मूलादुपवेषं करोति” का० ४, १, १२, दर्शितः “प्रथमं तुष्णीं शाखामूलमरत्निप्रमाणाधिकप्रमाणं छित्त्वा पृथक् कार्यं ततस्तस्मादुपवेषं करोति उपवेषश्चारत्निमात्रः प्रादेशमात्रो वा पराशरोक्तः” कर्कः। स च हस्ताकृतिः “धृष्टिरसीत्युपवेषमादायापाग्न इत्यङ्गारान् प्राचः करोति” कात्या० २, ४, २६, व्या० उपवेषोऽङ्गारापोहनसमर्थं हस्ताकृति काष्ठम्” कर्कोक्तेः “शृतावभिवासयति भस्मना वेदेनोपवेषेण वा” कात्या० २, ५, २५,

उपवैणव = न० उपवेणु–अण् उत्तरपदवृद्धिः। त्रिसन्ध्ये हेम०

उपव्याख्यान = न० उप + वि + आ + ख्या–ल्युट्। फलमाहात्म्योपासनप्रकारादिकथने। “ओमित्युद्गायति तस्योपव्याख्यानम्” छा० उ० “तस्याक्षरस्योपव्याख्यानम् एवमुपासनम्, एवंविभूति, एवंफलमित्यादिकथनम्” शा० भा०। “आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानम्” “ओमित्ये तदक्षरं सर्वं तस्योपव्याख्यानम्” इति च छा० उ०।

उपव्याघ्र = पु० उपमितो व्याघ्रेण अवा० स०। १ व्याघ्रतुल्ये मृगान्तके (चितावाघ) चित्रकाख्ये पशुभेदे। सामीप्ये अव्ययी०। २ व्याघ्रसमीपे अव्य०।

उपव्युषस = अव्य० विगता ऊषाः व्युषाः प्रा० स० ततः विभक्त्यर्थे सामीप्ये वा अव्ययी० अच् समा०। विगतायामुषसीत्यर्थे “उपव्युषसं सशरीरा दक्षिणा गच्छन्ति” कात्या० २१, ३, १३, “उषसि विगच्छन्त्याम्” कर्कः। २ विगच्छत्या उषसः समीपे च।

***