उपपुर = ब० समीपस्थं पुरं प्रा० स०। पुरसमीपस्थे शाखानगरे। उपपुरे भवः अण् उत्तरपदवृद्धिः। उपपौर तद्भवे त्रि०।

उपपुराण = न० उपतमनुगतं पुराणम् अत्या० स०। व्यासोक्तादष्टाशपुराणसदृशेषु नानामुनिप्रणीतेषु नानाविधेषु पुराणेषु। तानि यथा। आद्यं सनत्कुमारोक्तं नारसिंहमतः परम्२। तृतीयं वायवीयञ्च ३ कुमारेणानुभाषितम्। चतुर्थं शिवधर्माख्यं ४ साक्षान्नन्दीश भाषितम्। दुर्वासोक्तमाश्चर्य्यं ५ नारदीयमतः परम् ६। नन्दिकेश्वरयुग्मञ्च७, ८ तथैवोशनसेरितम् ९, कापिलं वारुणं १० शाम्बं ११ कालिकाह्वयमेव च १२। माहेश्वरं १३ तथा पाद्मं १४ दैवं १५ सर्व्वार्थसाधकम् पराशरोक्तमपरं १६ मारीचं १७ भास्कराह्वयम् १८। मल० कूर्मपु०। हेमाद्रौ तु एतद्वचनमन्यया पठितम् यथा “अन्यान्युपपुराणानि मुनिभिः कथितानि तु। आद्यं सनत्कुमारोक्तं नारसिंहमतःपरम्। तृतीयं नारदप्रोक्तं कुमारेण तु भाबितम्। चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम्। दुर्वाससोक्तमाश्चर्य्यं नारदोक्तमतःपरम्। कापिलं मानवं चैव तथैवोशनसेरितम्। ब्रह्माण्डं वारुणं चाथ कालिकाह्वयमेव च। माहेश्वरं तथा शाम्वं सौम्यं सर्वार्थसञ्चयम् पराशरोक्तमप्रवरं तथा भागवताह्वयम्। इदमष्टादशं प्रोक्तं पुराणं कौर्मसंज्ञितम्। चतुर्द्धा संस्थितं पुण्यं संहितानां प्रभेदतः”। अत्र मुद्रितपुस्तके भागवत- द्वयमिति पाठोऽसङ्गत उपपुराणेषु भागवतद्वयाप्रसिद्धेः। तच्चाग्रे व्यक्तीभविष्यति। पुराणोपपुराणलक्षणं च १२ स्क० भागवते सामान्यत उक्तं यथा “सर्गोऽस्याथ विसर्गश्च वृत्तीरक्षान्तराणि च। वंशोवंशानुचरितं संस्था हेतुरपाश्रयः। दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो बिदुः। केचित् पञ्चविधं ब्रह्मन्। महदल्पव्यवस्थया”। “अव्याकृतगुणक्षोभान्महतस्त्रिवृतोऽहमः। सूतसूक्ष्मेन्द्रियार्थानां सम्भवः सर्ग १ उच्यते। पुरुषानुगृहीतानामेतेषां वासनामयः। विसर्गोऽयं २ समाहरोवीजाद्वीजं चराचरम्। वृत्ति ३ र्भृतानि भूतानां चरणामचराणि च। कृता तेन नृणां त्वत्र कामाच्चोदनयापि वा। रक्षा४ऽच्युतावतारेहा विश्वस्यानुयुगे युगे। तिर्य्यङ्मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विषः। मन्वन्तरं ५ मनुर्देवा मनुपुत्राः सुरेश्वराः। ऋषयोऽंशावताराश्च हरेः षड्विधमुच्यते। राज्ञां ब्रह्मप्रसूतोनां वंशस्त्रैकालिकोऽन्वयः६। वंशानुचरितं ७ तेषां वृत्तं वंशधराश्च ये। नैमित्तिकः प्राकृतिकोनित्य आत्यन्तिकोलयः। संस्थेति ८ कविभिः प्रोक्तश्चतुर्द्धास्य स्वभावतः। हेतु ९ र्जीवोऽस्य सर्गादेरविद्याकर्म्मकारकः। यं चानुशयिनं प्राहुरव्याकृतमुतापरे। व्यतिरेकान्वयौ यस्य जाग्रत्स्वप्नसुषुप्तिषु। मायामयेषु तद्ब्रह्म जीववृत्तिष्वपाश्रयः १०। पदार्थेषु तथा द्रव्यं तन्मात्रं रूपनामसु। वीजादिपञ्चतान्तासु ह्यवस्थासु युतायुतम्। विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम्। योगेन वा तदात्मानं विदेहा त्मा निवर्त्तते। एवंलक्षणलक्ष्याणि पुराणानि पुराविदः। मुनयोऽष्टादश प्राहुः खुल्लकानि महान्ति च”। अत्र खुल्लकानीत्युक्तेः उपपुराणस्यापि उक्तदशलक्षणवत्त्वं पञ्चलक्षणादिमत्त्वं बोध्यम्। तेषाञ्च संख्यादिनिरूपणम् पञ्चलक्षणवत्त्वञ्च मत्स्यपुराणे उक्तं यथा। “पाद्मे पुराणे या प्रोक्ता नरसिंहोपवर्णना। तत्राष्टादश साहस्रं नारसिंहमिहोच्यते। नन्दाया यत्र माहात्म्यं कार्त्तिकेयेन वर्ण्यते। नन्दीपुराणं तल्लोके व्याख्यातमिति कीर्त्त्यते। यत्र शाम्बं पुरस्कृत्य भविष्यति कथानकम्। प्रोच्यते तत्पुनर्लोके शाम्बमेव मुनिव्रताः!। एवमादित्य संज्ञञ्च तत्रैव परिपट्यते” इत्युपक्रम्य अष्ट्रादशभ्यस्तु पृथक् पुराणं यत् प्रदृश्यते। विजानीध्वं द्विजश्रेष्ठास्तदेतेभ्यो विनिर्गतम्। पञ्चाङ्गवत् पुराणं स्यादाख्यानमितरत् स्मृतम्। सर्गश्च प्रतिसर्गश्च वंशोमन्वन्तराणि च। वंशानुचरितञ्चेति पुराणं पञ्चलक्षणम्। ब्रह्मविष्ण्वर्करुद्राणां माहात्म्यं भुवनस्य च। ससंहार प्रदृश्येत पुराणे पञ्चवर्णता। धर्म्मश्चार्थश्च कामश्च मोक्षश्चपरिकीर्त्तते। सर्वेष्वपि पुराणेषु तद्विरुद्धे च यत्फलम्। सात्विकेषु च कल्पेषु माहात्म्यमधिकं हरेः। राजसेषु कल्पेषु च माहात्म्यं ब्रह्मणो विदुः। तद्वदग्नेश्च माहात्म्यं तामसेषु शिवस्य च। सङ्कीर्णेषु सरस्वत्याः पितॄणाञ्च निगद्यते”। “हेमाद्रौ कालिकापुरा० कस्य किंमूलकत्वमिति कथनप्रस्तावे नारसिंहस्य पाद्ममूलकत्वमुक्ता “इदम् यत् कालिकाख्यन्तु मूलं भागवतन्तु तत्” इत्युक्तं तत्र भागवतं तत्तस्य कालिकाख्यस्य मूलमित्यर्थः। भागवतशब्देनात्र देवीभागवतं ग्राह्यं तयोरुभयोरपि कालिकादेवीमाहात्म्यकीर्त्तनेन एकदेवताप्रतिपादकत्वेन एकमूलत्वौचित्यात्। न तु वैष्णवभागवतं तस्य विष्ण देवताकत्वेनैकदेवताकत्वाभावेन तन्मूलत्वासम्भवात्। एवञ्च देवीभागवतमेव महापुराणमिति केचित्। विष्णुभागवतमेव महापुराणमिति तु वहवः। तत्र हेमाद्रौ मत्स्यपुरा० “वृत्तासुरबधोपेतं तद्भागवतमुच्यते। सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः। तद्वृत्तान्तोद्भवं लोके तद्भागवतमुच्यते। लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम्। पौर्ण्णमास्यां प्रोष्ठपद्याम् स याति परमं पदम्। अष्टादश सहस्राणि पुराणं तत् प्रकीर्त्तितम्” इति महापुराणान्तर्गतभागवतलक्षणमुक्तं वैष्णवे भागबते तु सारस्वतकल्पोद्भवनरादिकथाऽभावात् तल्लक्षणाऽभावेन नैतत् महापुराणं किन्तु उपपुराणम्। देवीभागवतं तु सारस्वतकल्पोद्भवनरादिकथावर्ण्णनेन उक्तलक्षणवत्त्वेन महापुराणमिति पूर्वेषामाशयः। देवीभागवतं विष्णुभागवतञ्चोभयमपि अष्टादशसाहस्रं द्वादशस्कन्धयुक्तञ्चेति द्वयोर्महापुराणत्वसंशये विष्णुभागवतस्य तथात्वे बहूनां विवादात् तन्निर्ण्णयाय देवीभागवतटीकायां यथा व्यवस्थापितं तत् प्रदर्श्यते “तत्र तावत् पुराणेषु भागवतद्वयं प्रसिद्धमेकं महापुराणान्तर्गतमपरमुपपुराणान्तर्गतं लोकेऽप्युपलम्भोद्वयोर्देवी भागवतनाम्ना विष्णुभागवतनाम्ना चास्त्येव तत्रैकं महापुराणान्तर्गतमन्यदुपपुराणान्तर्गतमित्यपि निर्विवाद मेव। तथापि किन्देवीभागवतं महापुराणमन्यदुपपुराण मथ वा विष्णुभागवतं महापुराणमन्यदुपपुराणमिति संशये केचिद्विष्णुभागवतमेव महापुराणमिति वदन्ति केचिद्देवीभागवतमेव महापुराणमिति वदन्ति। तत्र प्रथमपक्षैकदेशिनः केचिदुपपुराणेषु द्वितीयम्भागवतं नास्त्येव महापुराणेष्वेवैक भागवतं प्रसिद्धं तच्च विष्णु भागवतमेव न देवीभागवतं देवीभागवतं तु निर्मूलमेवेति वदन्ति। द्वितीयपक्षैकदेशिनोऽपि विष्णुभागवतं वोपदेव कृतमिति वदन्ति। वस्तुतस्तूभयोरपि पुराणयोः पुराण मतभेदेन महापुराणत्वमुपपुराणत्वञ्च। ननु पुराणेष्वेवैकम्भागवतं प्रसिद्धं न तूपपुराणेषु द्वितीयमस्तीति चेन्न कूर्मगरुडपाद्मादिषु द्वितीयस्य स्पष्टपरिगणनात् तथा हि हेमाद्रौ दानप्रस्तावे कूर्मपुराणे” अष्टादश पुराणान्युक्त्वा “अन्यान्युपपुराणानि मुनिमिः कथितानि तु। आद्यं सनत्कुमारोक्तं नारसिंहमतः परमित्यादि” पराशरोक्तं प्रवरन्तथा भागवताह्वयमिति” तथा गारुडे तत्त्वरहस्ये द्वितीयांशेऽष्टमकाण्डे प्रथमाध्याये प्रथमतो महापुराणानां सात्विकादिभेदेन विभागमुक्त्वा लघुपुराणानां सात्विकादि भेदेन विभागप्रदर्शनपरे ग्रन्थेऽप्युक्तं “पुराणम्भागवतन्दौर्गं नन्दीप्रोक्तं तथैव च। पाशुपत्यं रैणुकञ्च भैरवं च तथैव चेति”। तथा तत्पूर्ब्बमपि “विष्णुधर्मोत्तरंचैव तत्र भागवतन्तथेति”। तन्त्रम्भागवतन्तथेति पाठेऽपि तन्त्रं शास्त्रमित्यर्थः तद्विशेषणेन चोत्तमत्वं सूचितं तथा पाद्मेशकुनपरीक्षायां “ब्राह्मम्पाद्मं वैष्णवञ्च मार्तण्डं नारदेरितमित्यादि”। तथैव गदितंराम चराणाङ्कापिलन्तथा। वाराहं ब्रह्मवैवर्तं शकुनेषु प्रशस्यते। शैवम्भागवतन्दौर्गम्भविष्योत्तरमेव चेति”। तथा पाद्मे भागवतमाहात्म्ये एकोनविंशेऽध्याये उपपुराणेषु “शैवमादिपुराणञ्च देवी भागततन्तथेति” तथा मधूसूदनसरस्वतीकृतसर्व्वशास्त्रार्थ संग्रहेऽप्युपपुराणमध्ये भागवतम्परिगणितं नागोजीभट्टादिभिश्च, धर्म्मशास्त्रग्रन्थेषु एवमन्यैरपि निबन्धकारै रिति। ननु देवीभागवतस्य “तत्र भागवतम्पुण्यं पञ्चमं वेदसंमितम्” इति प्रथमाध्यायस्थस्ववचनेनाष्टादश महापुराणेषु पञ्चममिदं पुराणमिति स्वस्य महापुराणत्वं बोधयतस्तस्य कथमन्यपुराणवचनमुपपुराणत्वं बोधयेन्नह्येवं कचित् दृष्टचरमिति चेन्न नारदीयशिववायव्यादित्य पुराणानां स्वष्टुखेनान्यमुखेन वा महापुराणत्वेन ज्ञाय मानानामन्यपुराणेषूपपुराणत्वस्य व्यवस्थापनात् पुराण मतभेदेनैकस्यापि पुराणस्य महापुराणत्वोपपुराणत्व सिद्ध्या तद्विरोधाभावात्। पुराणभेदेन मतभेदस्त बहुशः प्रसिद्धः। वैष्णवपुराणेषु सात्विकत्वं शैवपुराणेषु ताम सत्वं, वैष्णवपुराणमतेन, शैवपुराणेषु सात्विकत्वं, वैष्णव पुराणेषु तामसत्वं “दश शैवपुराणानि सात्विकानि विदुर्वुधाः। तामसानि च चत्वारि वैष्णवानि प्रचक्षते”। इति स्कान्दे शैवपुराणमतेनेत्येवंप्रकारेणेति”।

ततः प्रसङ्गागतमन्यदुक्त्वा वृत्रामुवबधोपेतमित्यनेन पुराणे प्रतिपाद्यदेवकर्त्तृकबध एवाभिप्रेत इति व्यवस्थाप्य तत्रैवोक्तं यथा “देवीभागवतातिरिक्तसर्वपुराणेषु देवीकृतोवृत्तासुरबधो न क्कचिदप्यस्ति इन्द्रकृतस्यैव तस्य सत्त्वात् केवलं देवीभागवत एव देवीकृतः सोऽस्ति तद्ग्रहणेन तु देवीभागवते स्वसम्मतिर्दर्शितेति युक्तमेव, अनन्तरं च तत्रैव पुराणदानप्रस्तावे “ददाति सूर्य्यभक्ताय यस्तु भागवतं द्विजाः। सर्वपापविनिर्मुक्तः सर्वव्याधिविवर्ज्जितः। जीवेद्वर्षशतं साग्रमन्ते वैवस्वतं पदमिति” पठितम्। अत्र च स्वसम्मतं मागवतमेव ग्रहीतुमुचितम्। किञ्चेदं वचनं देवीभागवतपक्षे एव स्वरसतः संगच्छते प्रथमश्लोके, एकादशद्वादशस्कन्धयोश्च सविस्तरं गायत्रीविधानसहस्रनामादेः कथनात् सूर्य्यस्य च गायत्रीदेवतात्वात्। श्रीभागवतपक्षे तु वैकुण्ठं गच्छेदित्येव वदेदिति किञ्च “यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः”। इत्यादिमात्स्यवचनमपि देवीभागवतस्यैव महापुराणत्वं बोधयति वेदे “त्रिपदा गायत्रीति” गायत्रीलक्षणं श्रूयते तेन च त्रिपाच्छन्दोधिकृत्य यत्र धर्मविस्तरो वर्ण्यते यद्भागवतमिति तदर्थः। त्रिपाच्छब्दश्च देवीभागवते प्रथमश्लोके “सर्वचैतन्यरूसान्तामाद्यां विद्यां च धीमहि। बुद्धिं या नः प्रचोदयादिति” श्रूयते। न च विष्णुभागवते तच्छन्दोऽस्ति मुख्यार्थसम्भवे गायत्रीपदस्य लक्षणया धीमहीत्यर्थकरणेन विष्णुभागवतपरत्वकल्पनमस्य वचनस्य तु साहसमेव। क्वचित् पुराणेषु यदि तादृशान्येव विष्णुभागवतपराणि वचनानि सन्ति तत्र गत्यन्तराभावादस्तु लक्षणा उदासीने मात्स्यवाक्ये तु मुख्यविषयत्वसम्भवे साऽनुचिता। यत्तु गायत्र्यर्थश्च विष्णुध्यानं न तु शिवशक्तिसूर्य्यादिध्यानमित्युक्तं तत्तु नास्तिकत्वमूलकमेव मैत्रायणीयानां “भर्गोवैरुद्र” इति श्रुतौ प्रपञ्चसारादिसर्वतन्त्रेषु पुराणादिषु च शिवसूर्य्यशक्त्यादिरूपार्थस्योक्तत्वाच्च। किञ्च “हयग्रीवब्रह्मविद्या यत्र वृत्रबधस्तथा। गायत्र्या च समारम्भस्तद्वै भागवतं विदुरिति” पुराणान्तरवाक्यमपि देवीभागवतस्यैव महापुराणत्वबोधकं तथा हि हयग्रीवनामासुरो देवीभागवते प्रथमस्कन्धे निबद्धस्तेनोपासिता ब्रह्मप्रतिपादिका विद्या स्त्रीदैवत्यो मन्त्रःसा विद्या यत्र वर्त्तते तद्भागवतमित्यर्थः। स दैत्यस्तदुपासिता विद्या चेत्य्रभयमपि तत्रैव प्रथमस्कन्धे दर्शितम् “जपन्नेकाक्षरं मन्त्रं मायावीजात्मकं ममेत्यादिना”। ननु विष्णुमागवते पञ्चमस्कन्धेऽपि हय- ग्रीवमन्त्रस्य सत्त्वादिदं वचनमुभयभागवतसाधारणमिति चेन्न नारदीये शारदातिकादिनिबन्धेषु च “मन्त्राः पुंदेवताः प्रोक्ता विद्याः स्त्रीदेवताः स्मृताः” इत्यादिवचनैः स्त्रीदैवत्यमन्त्रेष्वेव विद्यापदप्रयोगो न पुंदैवत्य मन्त्रेष्विति प्रतिपादानात्” क्वचित् पुंदैवत्यमन्त्रे तथा प्रयोगस्तु गौणः न च गौणार्थमादाय तद्वचनस्य विष्णुभागवतपरत्वं कल्पयितुमुचितं लक्षणारूपदोषापत्तेः तस्मान्न तद्वचनमुभयसाधारणमिति देवीभागवतस्यैव महापुराणत्वं बोधयति किञ्च “सारस्वतस्य कल्पस्येति” मात्स्यवचनादपि देवीभागवतमेव महापुराणं अत्र ह्येवं प्रकरणशुद्धिः ऋषय ऊचुः। “पुराणसंख्यामाचक्ष्व सूत! विस्तरतः क्रमादिति” मुनिप्रश्नोत्तरं “ब्रह्मणाभिहितं पूर्ब्बं यत्तद्ब्राह्मं, पद्मकल्पवृत्तान्ताश्रयं पाद्मं, वराहकल्पवृत्तान्ताश्रयं वैष्णवं श्वेतकल्पवृत्तान्ताश्रयं वायवीयमित्येवं तत्तत्कल्पवृत्तायान्ताश्रयाणि पुराणान्युक्त्वा तदुत्तरं “यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मबिस्तर इत्युपक्रम्य “सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः। तद्वृत्तान्तोद्भवं लोके तद्भागवतमिष्यते” इत्युक्त्वा ततोऽन्यान्यपि महापुराणान्येव तत्तत्कल्पवृत्तान्ताश्रयाणि दर्शिताति पश्चादुपपुराणकथनार्थम् “उपभेदान् प्रवक्ष्यामीति” प्रतिज्ञाय पद्मपुराणान्नारसिंहं निर्गतमेवं नन्दिशाम्बादित्यसंज्ञकान्युक्त्वा अन्योपपुराणान्यपि महापुराणेभ्य एव निर्गतानीति “अष्टादशभ्यस्तु पृथक्पुराणं यत् प्रदृश्यते। विजानीध्वं द्विजश्रेष्ठास्तदा तेभ्यो विनिर्गतमिति वचनेन” सूत ऋषिरुक्तवान्। ततः “सर्गश्च प्रतिसर्गश्च वंशोमन्वस्तराणि च” इत्यादिना पुराणलक्षणमुक्त्वा “सात्विकेषु च कल्पेषु माहात्म्यमधिकं हरेः। राजसेषु च कल्पेषु माहात्म्यं ब्रह्मणो विदुः। तद्वदग्नेश्च माहात्म्यन्तामसेषु शिवस्य च। सङ्कीर्णेषु सरस्वत्याः पितॄणाञ्च निगद्यते” इति वचनेन पुराणप्रतिपाद्यहरिब्रह्माग्निहरसरस्वतीपितॄणां माहात्म्यसम्बन्धात् कल्पानां सात्विकराजसतामससङ्कीर्णत्वभेदैश्चातुर्विध्यत्वमुक्तवानिति तत्र कल्पानां तत्तद्देवतासम्बन्धज्ञानं तु तत्तत्कल्पाश्रिंततत्तत्पुराणप्रतिपाद्यमुख्यदेवताज्ञानेनैव वोध्यम् अन्यप्रकारस्य क्वचिदपि पुराणेषु अनुपलम्भात्। तत्रैवं सति “सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः इत्यादि वचनं भागवतस्य लक्षणप्रतिपादकं प्रतिपादितम्। तदर्थस्तु “यथा गारुडकल्प इत्यत्र गरुडस्यायं गारुडः यथा च वाराहकल्प इत्यत्र वराहस्यायं वाराह इति व्युत्पत्तिः प्रसिद्धा तद्वदेव “सरस्वत्यास्तथा कल्पोगौरीकल्पस्तथैव चेति” कल्पनामसु सरस्वतीकल्पत्वेनैव कथितत्वात्, मत्स्यपुराणे उपान्त्याध्याये “सङ्कीर्णेषु सरस्वत्याः पितॄणां कल्प उच्यते” वचनेन तथैवीक्तत्वाच्च व्रह्मविष्णुरुद्राणां कल्पवद्गोरी लक्ष्म्यो कल्पवच्च सरस्वतीकल्पस्यार्थतः प्राप्तत्वाच्च तादृशसारस्वतकल्पसम्बन्धिनो ये देवमनुष्यास्तद्वृत्तान्तस्योद्भव उत्पत्तिर्यस्मात् तत्पुराणं भागवतं विदुः तद्वृत्तान्तप्रदर्शकं यत्पुराणं तद्भागवतसंज्ञकमिति यावत्। अत्र च तत्तद्देवतानामाविर्भावाश्रया ये ये कल्पास्ते तत्तन्नाम्ना व्यवह्रियन्ते एतच्च तत्तन्नामककल्पाश्रितेषु पुराणेषु तत्तद्देव ताया एव नुख्यत्वेनोत्पत्तिप्रदर्शकवाक्यैर्लक्ष्मीकल्पादिकल्पाश्रितकूर्म्मपुराणादिषु सर्वत्र प्रसिद्धमेव तथा च मुख्यत्वेन सरस्वत्या आविर्भावप्रतिपादकं पुराणं यत्तद्भागवतमित्यतिरहस्यार्थः। तत्र सारस्वतकल्प इति पदेनैव कल्पस्य सरस्वतीसम्बन्धे बोधिते तस्य सङ्कीर्णत्वं “सङ्कीर्णेषु सरस्वत्याः” इति वचनेन ईश्वरप्रेरणां विनापि गृहागतमेव। अस्मिश्च वचने भागवतपदेन विष्णुभागवतस्य ग्रहणं बन्ध्यापुत्रोपममेव तत्र मुखत्वेन सरस्वत्याविर्भावस्यासत्त्वात् विष्णुभागवते द्वितीयस्कन्धे “पाद्मं कल्पमथो शृणु” इति वचनेन स्वमुखेनैव स्वस्य पाद्मकल्पकथाश्रयत्वस्योक्तत्वात् तद्विरोधाच्च। न च पाद्मकल्प एव सारस्वतः सरस्वान् समुद्रस्तस्माज्जातं कमलं सारस्वतं तस्य कल्प इति व्युत्पत्त्येति वाच्यं “पद्मकल्पञ्च वृत्तान्तं तत्र यस्मादुदाहृतम्। तस्तात् पाद्मं समाख्यातं इति” पूर्वोदाहृतशिवपुराणवचनेन “एतदेव यदा पद्ममभूद्धैरण्मयं जगत्। तद्वृत्तान्ताश्रयं तद्वत् पाद्ममित्युच्यते बुधैः। पाद्मं तत्पञ्चपञ्चाशत्सहस्राणीह कथ्यते” इति मत्स्यपुराणवचनेन “सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः” इति वचनेन च पाद्मकल्पसारस्वतकल्पयोः पृथक्कथनात् किञ्च सारस्वतकल्पपाद्म कल्पयोरेकत्वे पद्म कल्पप्रतिपादकं पुराद्वयं पाद्मं भागवतं चेत्येव वदेत् किञ्च पद्मकल्पस्य वृत्तान्तमित्यत्र “अभिव्यक्तपदार्था ये स्वतन्त्रालोकविश्रुता” इति न्यायेन पूर्व्वं बुद्ध्यारूढं प्रसिद्धं पद्मशब्दं विहायाप्रसिद्धं सारस्वतशब्दं पाद्मशब्दस्य वाचकं कृत्वा सारस्वतपदघटितकल्पने प्रयोजनाभावः। किञ्च “सरस्वत्यास्तथा कल्प इत्यादेः” पूर्वोक्तस्य सारस्वतपदनिरुक्त्यर्थकस्यवचनससूहस्य विरोधश्च। न च पाद्मकल्पसारस्वतकल्पयोः पृथक्त्वे, त्रिंशत्कल्पेषु मत्स्यपुराणान्तिमाध्याये कीर्त्ति- तेषु सारस्वतपदेन पाद्मस्य ग्रहणं न स्यादिति वाच्यम् प्रभासखण्डे त्रिंशत्कल्पेषु विष्णुजकल्पार्चिषकल्प सुपुङ्कल्पानां ग्रहणेऽपि तेषां कल्पानां यथा मात्स्यान्तिमाध्याये न ग्रहणं तथा पाद्मस्यापि न ग्रहणमित्यस्य तुल्यत्वात्। यदि तेषां पर्य्यायत्वेन कुत्रचिदन्तर्भावः क्रियते तर्ह्यस्यापि कुत्रचिदन्तर्भावोऽस्तु अतएव विष्णुभाग वतस्यप्रबन्धटीकाकारेण “पितृकल्पे एव पूर्वार्धान्ते पद्मस्योद्भवात् पितृकल्पपदेन पाद्मत्वग्रहो वेदितव्यः” इत्युक्तम् पुराणकथनप्रस्तावे सारस्वतकल्पपाद्मकल्पयोः पृथक्करणेन सारस्वतपदेन पाद्मस्य सर्वथा न ग्रहणम्। वस्तुतस्तु त्रिंशत्कल्पाब्रह्मणस्त्रिंशत्तिथ्यात्मकाः त्रिंशत्तिथिषु प्रतिपदादिषूत्पद्यन्ते “भवः धुवः सुवः भूर्भुवः सुव इत्यादयस्त्रिंशत्कल्पाः “पाद्मादयश्च पुराणोक्ता दिनकल्पा ब्रह्मणः प्रतिदिवसेषूत्पद्यन्ते इति दिनकल्पतिथिकल्पानां सुतरां भेदात् तिथिकल्पेषु दिनकल्पानां पाद्मादीनां न ग्रहणमिति सिद्धान्तः। यत्तु विष्णुभागवतस्यारम्भतः पाद्मकल्पकथाश्रयत्वेऽपि कृष्णजन्मखण्डस्यैव सारस्वतकल्पभवत्वेन तस्य च दशमस्कन्धे सत्त्वात् “सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः इति” वचनस्य विष्णुभागवतं विषयोऽस्त्वित्याहुस्तदसत् कृष्णजस्मखण्डस्य सारस्वतकल्पभवत्वप्रतिपादकानां वचनानां निर्मूलत्वात् समूलत्वेऽपि यस्मिन् पुराणे यस्य कल्पस्य प्रथमतः प्रतिपादनं तत्कल्पप्रतिपादकमेव तत्पुराणभिति नियमः। सर्वपुराणे तथा दृष्टत्वात् तथा च कृष्णजन्मखण्डस्य दशमस्कन्धे विद्यमानत्वेऽपि प्रथमतस्तत्कथाया अभावात् पाद्मकल्पकथायाः प्रथमतो विद्यमानत्वस्य स्वेनैवोक्तत्वाच्च न “सारस्वतस्य कल्पस्येति” वचनस्य विष्णुभागवतं विषयः। किं च कृष्णजन्मखण्डस्य यथा दशमस्कन्धे कथनं तथा सर्वपुराणेषु तत्कथनं वर्तत एवेति सर्वपुराणानां तद्वचनविषयत्वं स्यात्तथा च सर्वपुराणानि भागवतपदवाच्यानिस्युस्तस्मात् सारस्वतकल्पस्य यत्र प्रथमतः प्रतिपादनं स एव तद्वचनस्य विषयो वक्तव्यस्तादृशं च देवीभागवतमेवास्तीति देवीभागवतमेव तद्विषयो वक्तव्य इति। किं च शिवपुराणे उमासंहितायाम् “ब्रह्मणा संस्तुता सेयं मधुकैटभनाशने। महाविद्या जगद्धात्री सर्वविद्याधिदेवता। द्वादश्यां फाल्गुनस्यैव शुक्लायां समभून्नृपेति” वचनात् फाल्गुनशुक्ल द्वादश्यां देव्या उद्भवस्तद्दिन एव च सारस्वतकल्पोद्भवस्तदुक्तं हेमाद्रौ” कल्पश्राद्धप्रकरणेनागरखण्डे “सारस्वतस्तु द्वादश्या शुक्लायां फाल्गुनस्य चेति” तथा च सरस्वत्याः कल्प इत्यर्थकस्य “सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः” इति वचनस्य सर्वथा देवीभागवतमेव विषयो न विष्णुभागवतमिति बोध्यं किं च तस्य ग्रहणे तस्य हरिमाहात्म्यप्रतिपादकत्वात् तदाश्रितकल्पस्य सात्विकत्वमेव यास्यति “सात्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेरिति” वचनात्। ततश्च “संकीर्णेषु सरस्वत्या” इति वचनेन सारस्वतकल्प इति नाम्ना च परमहंस्य सामग्र्येव कर्त्तव्या स्यात् अतो विष्णुभागवतं विहाय देवीभागवतमेवास्य वचनस्य विषयोऽनिच्छतापि वक्तव्यस्तस्मात् सारस्वतस्य कल्पस्येति वचनात् देवीभागवतमेव महापुराणम् अस्ति चात्र सरस्वत्याविर्भावप्रतिपादकं वचनं तदुक्तं देवीभागवते प्रथमस्कन्धे “तस्यास्तु मात्विकी शक्तीराजसी तामसीतथा। महालक्ष्मीः सरस्वती महाकालीति ताः स्त्रियः। तासां तिसृणां शक्तीनां देहाङ्गीकारलक्षणः। सृष्ट्यर्थञ्च समाख्यातः सर्गः शास्त्रविशारदैरिति” “अम्बरीष शुकप्रोक्तं नित्यं भागवतं शृणु” इति वचनमपि शुकाय प्रीक्तमिति व्युत्पत्त्या देवीभागवतपरमपि संगच्छते। भवति हि देवीभावतं शुकायैव प्रोक्तं व्यासेनेति। किं च अष्टादशपुरणानि कृत्वा सत्यवतीसुतः। भारताख्यानमखिलं चक्रे तदुपबृंहणमिति” मात्स्यवचनमपि देवीभागवतस्यैव महापुराणत्वं बोधयति अष्टादशपुराणोत्तरं भारतस्य जातत्वात् भारतोत्तरं च विष्णुभागवतस्य जातत्वात् भारतोत्तरकालं निर्विण्णो व्यासश्चकारेति विष्णुभागवते १ स्क० एवोक्तत्वात्। ननु “वेदशाखाः पुराणानि वेदान्तभारतं तथा। कृत्वा संमोह संमूढोऽभवं राजन्मनस्यपीति” देवीभागवते तृतीयस्कन्धे एवोक्तत्वात् तत्रापि स विरोधस्तदवस्थ एवेति चेन्न मन्मते तदानीं ग्रन्थोनैव जातः किन्तु जनमेजयं प्रति एवं वक्तास्मीति ज्ञानचक्षुषा ज्ञात्वा भारतात् पूर्ब्बमेव देवीभागवतं कृतमित्यर्थस्य कल्पनात्। त्वन्मते तु तथा कल्पयितुं न शक्यते चतुःश्लोक्या भागवतोपदेशस्य जायमानत्वात् उपदेशात् पूर्व्वं तज्ज्ञानाभावस्यावश्यं कल्पनीयत्वात् यदि तत्रापि पूर्व्वं व्यासस्य ज्ञानमस्तीति स्वीक्रियते तदा वक्ष्यमाणः सर्वोऽप्यर्थवादःस्यात् ततश्च ग्रन्थस्वारस्यभङ्गप्रसङ्ग इत्यास्तां तावत्। वस्तुतस्तु वेदशाखाः पुराणानीति पाठिऽसङ्गत इति वक्ष्यते तृतीयस्कन्धे तदा न कोऽपि विरोधः। यत्तुपाद्मे भागवतमाहात्म्ये श्रीमद्भाभवतकथाश्रवणाय समागतानां परिगणनप्रसङ्गे “वेदान्तानि च वेदाश्च मन्त्रास्तन्त्राणि संहिताः। दश सप्त पुराणानि षट् शास्त्राणि समाय युः” इत्युक्तं तत्र व्यासकृतपुराणानामष्टादशत्वादष्टादशेति वक्तव्ये सप्तदशत्वोक्तिः श्रीमद्भागवतस्याष्टादशत्वङ्गमयति तस्याष्टादशानन्तर्गतत्वे देवीभागवतस्याष्टादशान्तर्गत्वे वा अष्टादशानां श्रोतुमागतानां पुराणानां अष्टादशत्वानुक्तेर्निर्बीजत्वप्रसङ्गात् एवं पाद्मे “दश सप्त पुराणानि कृत्वा सत्यवतीसुतः। नाप्तवान्मनसा तोषं भारतेनापि भामिनि”। चकार संहितामेतां श्रीमद्भागवतीं परामिति” सप्तदशत्वोक्तिः श्रीमद्भागवतस्यैव एतां संहितामिति निर्दिष्टस्याष्टादशत्वङ्गमयति देवीभागवतस्याष्टादशत्वेऽष्टादशपुराणानीत्यनुक्तेर्निर्वीजत्वप्रसङ्गादित्थाहु स्तदसत् तेषामेव वचनैर्विष्णुभागवस्याष्टादशपुराणान्तर्गतत्वं न सिद्ध्यति किन्तु देवीभागवतस्यैवेति वार्धुषिकत्वं कुर्वाणो मूलमेव विनाशितवानिति न्याय आगतः। तथा हि भारतं व्यासमुखाच्छुत्वा तत्र संहिदानः क्रौष्टुकिर्मार्कण्डेयं प्रत्यागत्य सन्देहं पृष्टवान् तस्मै मार्कण्डेयोमार्कण्डेयपुराणमुक्तवान् तदुक्तं मार्कण्डेयपुराणे “तदिदं भारताख्यानं बह्वर्थं श्रुतिविस्तरम्। तत्त्वतोज्ञातुकामोऽहं भगवन्तमुपस्थितः” इति तथा च भारतोत्तरं मार्कण्डेयपुराणमभवत् तथैव त्वदुक्तरीत्यैव विष्णुभागवतमपि तथा च भारतात् पूर्व्वं षोडश पुराणान्येव सिद्धानि तथा च पूर्व्वोक्तवचनमध्ये षोडशेत्येव पक्तव्ये सप्तदशेत्युक्तत्वात् देवीभागवतमेव महापुराणमन्यथा सप्तदशत्वपूर्त्तिर्न स्यात् तस्मात् तद्वचनप्रामाण्याद्देवीभागवतमेव महापुराणमिति सिद्ध्यति न तु विष्णुभागवतं, मारतात् पूर्वं सप्तदश मदीयभागवतसहितानि मार्कण्डेयमष्टादशमुभयमतसिद्धमेव विष्णुभागवतस्य भारतोत्तरं जायमानत्वेन तन्मध्ये तस्यावस्थानस्थलाभावादित्येवं ला पनेनापि दोषाभावादिति सुधियो विभावयन्तु। यत्तु पाद्मे “वैष्णवं नारदीयञ्च तथा भागवतं शुभम्। गारुडञ्च तथा पाद्मं वाराहं शुभदर्शने!। सात्विकानि पुराणानि विज्ञेयानि शुभानि वै” इत्युक्त्या भागवतस्य सात्विकत्वमुक्तं सात्विकेषु पुराणेष्वितिकौर्मोक्त्या च सात्विकपुरानानां विष्णुपरत्वमुक्तम् अतो विष्णुपरमेव भागवतमष्टादशपुराणान्तर्गतं च तु देवीभागवतमिति अपि च स्कान्दे प्रभासखण्डे “चतुर्भिर्भगवान् विष्णुर्द्वाभ्यां ब्रह्मा तथा रविः। अष्टादशपुराणेषु शेषेषु भगवान् भवः” इत्युक्तं स्कान्दे सौरसंहितायां च “कथ्यते दशभिर्विप्राः! पुराणैः परमेश्वरः। चतुर्भिर्भगवान् विष्णुर्द्वाभ्यां ब्रह्मा प्रकीर्त्तितः। एकेनाग्निस्तथैकेन भगवांश्चण्डभास्करः” इ- त्युक्तमतोऽपि विष्णुभागवतमष्टादशान्तर्गतन्नत्वन्यदित्याहु स्तदसत् त्वन्मते मात्स्योक्तसात्विकराजसतामससंकीर्णपुराणेषु मध्ये त्रयाणां व्यवस्था पूर्ववचनैस्त्वयोक्ता संकीर्णपुराणानान्तु नोक्ता तेषाङ्केषु पुराणेष्वन्तर्भाव इति वद करिष्यामि कुत्रचिदिति चेत् मन्मतेऽपि श्रीभगवत्या विष्णुशक्ति त्वाभिमानेन “विष्णुमन्त्राधिष्ठात्रीं देवतां वेदमानो दुर्गां दुर्बोधध्वान्तभानुं गुरुं चेति श्रीव्रमदीपिकोक्तप्रकारेण विष्णुमन्त्राणां दुर्गाया अधिष्ठातृत्वेन तयोरैक्याद्वा तत्प्रतिपादकभागवतस्य वैष्णवेष्वेवान्तर्भावात् अतएव “हरिर्द्वाभ्यां रविर्द्वाभ्या द्वाभ्यां चण्डीविनायकौ। द्वाभ्यां ब्रह्मा समाख्यातः शेषेषु भगनान् शिवः इति वचनं मङ्गच्छते” वस्तुतस्तु द्वयोरपि भागवतयोरस्मन्मते प्रमाणत्वात् विष्णुभागवतपक्षपातिनां वचनानामस्माकं विरोधाभावेन तल्लापने प्रयोजनाभावएव। तथा च नारदीयादिपुराणनते श्रीविष्णुभागवतं महापुराणन्तद्वचनानि प्रसिद्धान्येवेति न लिखितानि देवीभागवतं तु तन्मते उपपुराणम्। शैवमात्स्यपुराणादिमते तु देवीभागवतं महापुराणं विष्णुभागवतमर्थादुपपुराणमिति सिद्धम्”। वृहन्ना० ९६ अ० महापुराणप्रतिपाद्यविषयवर्ण्णने “श्रीब्रह्मोवाच, मारीचे! शृणुवक्ष्यामि वेदव्यासेन यत् कृतम्। श्रीमद्भागवतं नाम पुराणं ब्रह्मसस्मितम्। तदष्टादशसाहस्नं कीर्त्तितं पापनाशनम्। सुरपादपरूपोऽयं स्कन्धैर्द्वादशभिर्युतः। भगवानेव विप्रेन्द्र! विश्वरूपी क्षमीरितः। तत्र तु प्रथमे स्कन्धे सूतर्षीणां समागमः। व्यासस्य चरितं पुण्यं पाण्डवानां तथैव च। पारीक्षितमुपाख्यानमितीदं समुदाहृतम्। परीक्षिच्छुकसंवादे सृतिद्वयनिरूपणम्। ब्रह्मनारदसंवादेऽव्रतारचरितामृतम्। पुराणलक्षणं चैव सृष्टिकारणसम्भवः। द्वितीयोऽयं समुदितः स्कन्धो व्यासेन धीमता। चरितं विदुरस्याथ मैत्रेयेणास्य सङ्गमः। सृष्टिप्रकरणं पश्चाद्ब्रह्मणः परमात्मनः। कापिलं साङ्ख्यमप्यत्र तृतीयोऽयमुदाहृतः। सत्याश्चरितमादौ तु ध्रुवस्य चरितं ततः। पृथोः पुण्यसमाख्यानं ततः प्राचीनबर्हिषः। इत्येष तुर्य्यो गदितो विसर्गे स्कन्ध उत्तमः। प्रियव्रतस्य चरितं तद्वंशानाञ्च पुण्यदम्। ब्रह्माण्डार्गतानाञ्च लोकानां वर्णनन्ततः। नरकस्थितिरित्येव संस्थाने पञ्चमो मतः। अजामिलस्य चरितं दक्षसृष्टिनिरूपणम्। वृत्राख्यानं ततः पश्चान्मरुतां जन्म पुण्यदम्। षष्ठोऽयमुदितः स्कन्धो व्यासेन परिपोषणे। प्रह्लादचरितं पुण्यं वर्णाश्रमनिरूपणम्। सप्तमो गदितो वत्स! वासनाकर्म्मकीर्त्तने। गजेन्द्रमोक्षणाख्यानं मन्वन्तरनिरूपणम्। समुद्रमथमञ्चैव बलिवैभवबन्धनम्। मत्स्यावतारचरितमष्टमोऽयं प्रकीर्त्तितः। सूर्यवंशसमाख्यानं सोमवंशनिरूपणम्। वंश्यानुचरिते प्रोक्तो नवमोऽयं महामते!। कृष्णस्य बालचरितं कौमारञ्च व्रजस्थितिः। कैशोरं मथुरास्थानं यौवनं द्वारकास्थितिः। भूभारहरणञ्चात्र निरोधे दशमः स्मृतः। नारदेन तु संवादो वसुदेवस्य कीर्त्तितः। यदोश्च दत्तात्रेयेण श्रीकृष्णेनोद्धवस्य च। यादवानां मिथोऽन्तश्च मुक्तावेक दशः स्मृतः। भविष्यकलिनिर्देशो मोक्षो राज्ञ। परीक्षितः। वेदशाखाप्रणयनं भार्कण्डेयतपः स्मृतम्। सौरी विभूतिरुदिता सात्वती च ततः परम्”। इत्युक्तेः विष्णुभागवत एव तेषां पदार्थानां सत्त्वात् महापुराणत्वं देवीभागवते तदमावात् न महापुराणत्वम्। एवञ्च मतभेदेन कस्यचित् पुराणत्वं कस्यचिद्पपुराणत्वं तच्च कल्पभेदादविरुद्धम्। एतेन विष्णुभागवतस्य वोपकृत्वशङ्का निर्मूलैव। वोपदेवेन “चतुरेण चतुर्वर्ग चिन्तामणि बणिज्यया हेमाद्रिर्वोपदेवेन मुक्ताफलमचीकरत्” इति मुक्ताफलग्रन्थे स्वयं लखितत्वेन तस्य हेमाद्रिसभासदत्वप्रतीतेः हेमाद्रौ च नानास्थानेषु विष्णुभागवतवचनस्य प्रमाणत्वेन धृतत्वेन न तत्कृतत्वमिति प्रतिभाति।

उपपुष्पिका = स्त्री उपगता पुष्पमिव विकाशभावम् अत्या० स० संज्ञायां कन् टापि अत इत्त्वम्। जृम्भायाम् (हाइतोला) हारा० तत्र हि मुखस्य पुष्पस्येव विकाशभावात् तथात्वम्।

उपपृच् = त्रि० उप + पृच्–क्विप्। उपरि सामीप्येन संपृक्ते “विवृक्णाहिः शयत उपपृक् पृथिव्याः” ऋ० १, ३२, ५,

उपपौर्णमास(सि) = अव्य० सामीप्ये अव्ययी० वा अच् समा०। पौर्णमास्याः समीपे।

उपप्रदान = न० उप उपाधौ तेन प्रदानम्। १ उत्कोचे स्वकार्य साधनार्थं तत्प्रतिबन्धकेभ्योराजभृत्यादिभ्योदाने (घुसदेओया) २ सन्ध्यर्थं भूम्यादेर्दाने च हेम० “तस्योपप्रदानेन सन्धिरेव युक्तः” हितो० “उपप्रदानं लिप्सूनामेकं ह्याकर्षणौषधम्” कठस० “साम चोपप्रदानं च भेदीदण्डश्च तत्त्वतः” रामा०। प्रलोभनार्थं ३ द्रव्यदाने “उपप्रदानैर्मार्जारोऽहितकृत् प्रार्थ्यते नरैः पञ्चत०। समीपे दाने च।

उपप्रलोभन = न० उप + प्र + लुभ–ल्युट्। १ सम्यक्प्रलोभने “अमुष्य चोपप्रलोभनाय” दशकु०। करणे ल्युट्। २ सम्यक्प्रलोभनसाधने द्रव्ये “उच्चावचानुपप्रलोभनानि” दशकु०।

उपप्लव = पु० उप + प्लु–अप्। गगनादुल्कापातादिरूपे १ उपद्रवे, “उपपप्लवाय लोकानां धूमकेतुरिवोत्थितः” कुमा०। “कृदभिहित” इत्याद्युक्तेः २ उत्पातसूचके वाय्वादौ “त्वामासारप्रशमितवनोपप्लवं साधु मूर्द्ध्ना” मेघ०। “कच्चिन्न वाय्वादिरुपप्लवोवः” रघुः ३ मये “नृपा इवोपप्लविनः परेभ्यः” रघुः “उपप्लविनो भयवन्तः” मल्लि०। ४ विघ्ने “जीवन् पुनः शश्वदुपप्लवेभ्यः” रघुः। उपप्लवेभ्यः विघ्नेभ्यः” मल्लि०। ५ औपसर्गिकात्यन्तमरकपीडने ६ राजविप्लवे “दुर्भिक्षे चाप्युपप्लवे” कूर्म्मपु०। “उपप्लवे राजविप्लवे औपसर्गिकात्यन्तमरकपीडने” शु० त० रघु०। ७ उपरोधे वेष्टने “अमेघोपप्लवे यश्च शक्रचापतडिद्गुणान्” सुश्रु०। ८ चन्द्रसूर्य्ययोर्ग्रहणे “उपप्लवे चन्द्रमसोरवेश्च” स्मृतिः। ९ विपत्तौ “अथ मदनबधूरुपप्लवान्तम्” कुमा०। १० समीपे प्लवने गतौ च। “तद्भीममुत्सार्य्यजनं युद्धमासीदुपप्लवे ०भा० स० २२ अ०। “कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम्। विकल्पो वस्तुनिर्भासादसंवादादुपप्लवः इति बौद्धमतसिद्धे ११ विकल्पे स च संसारिणां सविकल्पज्ञानमात्रेऽस्ति ईश्वरज्ञानं तु निरुपप्लवम्। उपप्लवति लोकानुपद्रवति उप–प्लु–कर्त्तरि अच्। १२ राहौ मेदि०। “केतूपप्लवभौममन्दगतयः षष्ठे तृतीये शुभाः” ज्यो० त०।

उपप्लव्य = न० उप + प्लु–आधारे बा० यत्। १ विराटनगरसमीपस्थे पुरभेदे। “उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया” “आगम्य हास्तिनपुरादुपप्लव्यमरिन्दम” भा० आ० १ अ० “ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः।। उपप्लव्यं विराटस्य समपद्यन्त सर्व्वशः” भा० वि० ७२ अ०। “विराष्टनगरसमीपस्थं नगरान्तरम्” नील०। “राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य सञ्जयः। उपप्लव्यं ययौ शीघ्रं पाण्डवानमितौजसः” भा० उ० २२ अ०। कर्मणि यत्। २ उपप्लवनीये त्रि०। आवश्यके तु ण्यत्। उपप्लाव्य अवश्यपप्लवनीये त्रि०।

उपप्लुत = त्रि० उप + प्लु–क्त। उपद्रवयुक्ते “उपप्लुतं पातुमदो मदोद्धतैः” माघः।

उपबन्ध = पु० उप + बन्ध–घञ्। १ बन्धनदार्द्यार्थं तत्समीपे वस्त्वन्तरबन्धने। उपमितः बन्धेन अवा० स०। २ पद्मासन रूपबन्धसदृशे अवान्तरासनभेदे ३ संख्याविशेषेण संबन्धप्रतिपादने च “नोदनागुणेषु च प्रकॢप्त्युपबन्धाभ्याम्” कात्या० १, ८, २२, “सोमस्य प्रकॢप्तेः उपबन्धाच्च” कर्कः अत्र उपबन्धश्च संख्याविशेषेण सम्बन्धप्रतिपादनं तत्संख्या च शत० ब्रा० ३, ३, ३, १८, दर्शिता यथा “अथ यदपामन्ते क्रीणाति रसो वा ओपः स रसमेवैतत् क्रीणात्यथ यद्धिरण्यं भवति स शुक्रमेवैतत् क्रीणात्यथ यद्वासो भवति सत्वचसमेवैतत् क्रीणात्यथ यदजा भवति स तपसमेवैतत् क्रीणात्यथ यद्धेनुर्भवति सा शिरमेवैतत् क्रीणात्यथ यन्मिथुनौ भवतः स मिथुनमेवैतत् क्रीणाति तं वै दशभि रेव क्रीणीयान्नादशभिर्दशाक्षरा वै विराड्वैराजः सोमस्तस्माद्दशभिरेव क्रीणीयान्नादशभिः”।

उपबर्ह = पु० उपबर्ह्यते आस्तीर्यते उप + बर्ह–स्तृतौ कर्मणि घञ्। (वालिश) १ उपधाने बर्ह–हिंसायाम् भावे घञ्। २ उपपीडने च।

उपबर्हण = न० उपबर्ह्यतेकर्मणि ल्युट्। १ उपधाने “पुराणा यवाः पुराण्यासन्दी सोपबर्हणैषान्वादिष्टा दक्षिणा” शत० ब्रा० १३, ८४, १०, बर्ह हिंसायां भावे ल्युट्। २ उपपीडने च

उपबहु = त्रि० उपगता बहवो यस्य संख्यात्वेऽपि पर्य्युदासात् न डच्। बहुसंख्यासमीपवर्त्तिनि।

उपबाधा = स्त्री उप + बाध–अ। संपीडने।

उपबाहु = पु० उपगतो बाहुम् अत्या०। १ बाहोः समीपवर्त्तिन्यङ्गभेदे ततः इदमर्थे बाह्वादि० इञ्। औपवाहवि तत्सम्बन्धिनि त्रि०। सामीप्यादौ अव्ययी०। २ बाहुसामीप्यादौ अव्य०।

उपब्द = पु० उपगतःशब्दः प्रा० स० पृषो०। “सोमाभिषवशब्दे “ग्रावाणो घ्नन्तु रक्षस उपब्दैः” ऋ० ७, १०४, १७, “उपब्दैः अभिषवशब्दैः” भा०

उपब्दि = पु० उप + शब्द–इन् पृषो०। श्रोतुमर्हे शब्दे “न योरुपब्दिरश्व्यः” ऋ० १, ७४, ७, “उपब्दिः श्रवणार्हः” भा० “मरुतां शृण्व आयतामुपब्दिः” ऋ० १, १६९, ७, ततोऽस्त्यर्थे मतुप्। उपब्दिमत् श्रोतुं योग्ये शब्दयुक्ते “सशब्दमब्दिमत्” तैत्ति० “उच्चैर्घोष उपब्दिमान् क्षत्रस्य रूपम्” ऐत० ब्रा०।

उपभङ्ग = पु० उप + भन्ज घञ् कुत्वम्। १ युद्धादितः पलायने सम्यग् भञ्जने २ द्वैधीभावे च।

उपभुक्त = त्रि० उप + भुज–क्त। कृतीपभोगे वस्तुनि

उपभुक्ति = स्त्री उप + भुज क्तिन्। उपभोगे

उपभूषण = न० उपमितं भूषणेन अत्या० स०। घण्टाचानरादौ “घण्टाचामरकुम्भादिपात्रोपकरणादिकम्। तद्भूषणान्तरेदद्याद्यस्मात्तदुपभूषणम्” पु०। उपचारशब्दे१२० ३ पृ० दृश्यम्।

उपभृत् = स्त्री उप + भृ–आधारे क्विप्। आश्वत्थे यज्ञाङ्गपात्रभेदेस्रुचि “आश्वत्युपभृत्” कात्या० १, ३, ३५, उपभृत्संज्ञका स्रुक् आश्वत्यी” कर्कः “पाणिभ्यां जुहूं परिगृह्योपभृत्या वानम्” १ १०, ९ “सव्यौपभृत्” आश्व० गृ० ४, ३, ३।

उपभोग = पु० उप + भुज–वञ् कुत्वम्। विषयसेवाजन्य सुखभेदे “स्त्रीणां स्वपतिदायस्तु भोगफलः स्मृतः” दा० भा० स्मृ०। “न जातु कामः कामानामुपभोगेन शाम्यति” मनुः भारतञ्च। “आगमेनोपभोगेन नष्टं भाव्यमतीऽन्यथा”। “इह कर्म्मोपभोगाय तैः संसरति सोऽवशः” या० स्मृ०। “प्रियीपभोगचिह्नेषु प्रौरोभाग्यमिवाचरत्” कृत्वोपभोगोत्सुकयेव लक्ष्म्या” रघुः भोगश्च विषयसंसर्गजन्यसुखभेदः। अधिकं भोगशब्दे वक्ष्यते। ततः अस्त्यर्थे इनि। उपभोगित् तद्वति त्रि० “ब्राह्मणांश्च हनिष्यन्ति ब्राह्मणस्वोपभोगिनः। भा० व० १९० अ० स्त्रियां ङीप्।।

उपभोग्य = उप + भुज–ण्यत् अनन्नार्थत्वे कुत्वम्। उपभोगयोग्ये वस्तुनि अन्ने तु न कुत्वम्। उपभोज्यमित्येव। “असूत सा नागबधूपभोग्यम्” कुमा०। “किञ्चित्कालोपभोग्यानि यौवनानि धनानि च” पञ्चत०। “विविधान्यन्नपानानि पुरुषा येऽनुयाचिनः। ते वै नृपोपभोज्यानि ब्राह्मणानां ददुश्च ह” भा० आश्व० ८५ अ०।

उपभोजिन् = त्रि० उ + भुज–णिनि। उपभोगकारके। “निवृत्ताघारशौचेषु परपाकोपभोजिषु” “उच्छिन्नबलिभिक्षेषु भिन्नकांस्योपभोजिषु” सुश्रु०।

उपम = त्रि० उपमीयते उप + मा–घञर्थे क। १ उपमेये। पदं यद्विष्णोरुपमं निधायि” ऋ० ५, ३, ३। “उपममुपमेयमिव” भा०। उपमीयते समीपे क्षिप्यते मि–बा० ड। २ अन्तिके निरु० “यत् केतुमुपमं समत्सु” ऋ० ७, ३०, ३। “उपममन्तिकम्” भा०। ३ अन्तिकस्थे त्रि०। दिवश्चिदन्ता~ उपमा” ऋ० १०, ८, १। “उपमान् समीपस्थान्” भा० “राजामि कृष्टेरुपमस्य वव्रेः” ॠ० ४, ४२, १।

उपमद्गु = पु० “अक्रूरःसुषुवे तस्मात् श्वफल्काद्भूरिदक्षिणः। उपमद्गुस्तया मद्गुर्मुदरश्चारिमेजयः” हरिवं० ३५ अ० इत्युक्ते श्वफल्कपुत्रे अक्रूरानुजे यदुवंश्ये क्षत्रियभेदे।

उपमन्त्रण = न० उप + मन्त्र–ण्वुल्। आमन्त्रणे कर्त्तव्यकरणाय प्रार्थनापूर्ब्बकप्रवर्त्तनारूपे व्यापारभेदे। “भासनोपसम्भाषणज्ञानयत्नविमत्युपमन्त्रणेषु वदः” पा०। “उपमन्त्रणमुपच्छन्दनम्” सि० कौ०। २ उपच्छन्दने। (खोसामुदी) ततः अस्त्यर्ये इनि उपमन्त्रिन्। (खोसामुदिया) उपच्छन्दनकारके नर्म्मसचिवे। “हसनामुपमन्त्रिणः” ऋ० ८, ११२, ४। “उपमन्त्रिणःउपमन्त्र- णवन्तोनर्म्मसचिवा हसनामुपहासयुक्तां वाचमिच्छन्ति” भा०

उपमन्थनी = स्त्री उपमथ्यतेऽनया उप + मन्थ–करणे ल्युट् ङीप्। अग्निमन्थनसाधनद्रव्ये “चतुरौदुम्बरो भवति औदुम्बरश्चमस औदुम्बर स्रुव औदुम्बर इध्म औदुम्बर्य्या उपमन्थन्यौ” शत० व्रा० १४, ९, ३, २१।

उपमन्यु = पु० आयोदधोम्यशिष्ये ऋषिभेदे। “धौम्योनामायोदस्तस्य त्रयः शिष्या बभूवुरुपमन्युरारुणिर्वेदश्चेति” भा० ३ अ० तच्चरितञ्च तत्र वर्णितं यथा। “अथापरःशिष्यस्तस्यैवायोदधौम्यस्योपमन्युर्नाम। तं चोपाध्यायः प्रेषयामास वत्सोपमन्यो! गा रक्षस्वेति। स उपाध्यायवचनादरक्षद्गाःस चाहनि गा रक्षित्वा दिवसक्षये गुरुगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे। तमुपाध्यायः पीवानमपश्यदुवाच चैनं वत्सोपमन्यो! केन वृत्तिं कल्पयसि पीवानसि दृढमिति। स उपाध्यायं प्रत्युवाच भो भैक्ष्येण वृत्तिं कल्पयामीति तमुपाध्यायः प्रत्युवाच। मय्यनिवेद्य भैक्ष्यंनोपयोक्तव्यमिति। स तथेत्युक्तोभैक्ष्यं चरित्वोपाध्याय न्यवेदयत्। स तस्मादुपाध्यायः सर्व्वमेव भैक्ष्यमगृह्णात्। स तथेत्युक्तः पुनररक्षद्गाः अहनि रक्षित्वा निशामुखे गुरुकुलमागम्य गुरोरग्रतः स्थित्वा नमश्चके। तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच वत्सोपमन्यो! सर्व्वमशेषतस्ते भैक्ष्यं गृह्णामि केनेदानीं वृत्तिं कल्पयसीति। स एवमुक्त उपाध्यःयं प्रत्युवाच भगवते निवेद्य पूर्ब्बमपरं चरामि तेन वृत्तिं कल्पयाभीति तमुपाध्यायः प्रत्युवाच। नैषा न्याय्या गुरुवृत्तिरन्येषामपि भैक्ष्योपजीविनां वृत्त्युपरीधं करोषि इत्येवं वर्त्तमानो लुब्धोऽसीति। स तथेत्युक्त्वा गा अरक्षत् रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे। तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच वत्सोपमन्यो! अहं ते सर्व्वं भैक्ष्यं गृह्णामि नचान्यच्चरसि पीवानसि भृशं केन वृत्तिं कल्पयसीति। स एवमुक्तस्तमुपाध्यायं प्रत्युवाच भो एतासां गवां पयसा वृत्तिं कल्पयामीति तमुवाचोपाध्यायो नैतन्न्याय्यं पय उपयोक्तुं भवतो मया नाभ्यनुज्ञातमिति। स तथेति प्रतिज्ञाय गा रक्सित्वा पुनरुपाध्यायगृहमेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे। तमुपाध्यायः पीवानमेव दृष्ट्वोवाच नत्सोपभन्यो! भैक्ष्यं नाश्नासि नवान्यच्चरसि पयो न पिवसि पीवानसि भृशं केनेदानीं वृत्तिं कल्पयसीति। स एवमुक्त उपाध्यायं प्रत्युवाच भो फेनं पिबामि यमिमे वत्सा मातॄणां स्तनान् पिबन्त उद्गिरन्ति। तमुपध्यायः प्रत्युवाच एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति तदेषामपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्त्तमानः फेनमपि भवान्न पातुमर्हतीति स तथेति प्रतिश्रुत्य पुनररक्षद्गाः। तथा प्रतिषिद्धोभैक्ष्यं नाश्नाति नचान्यच्चरति पयो न पिबति फेनं नोपयुङ्क्ते स कदाचिदरण्ये क्षुधार्त्तोऽर्कपत्राण्यभक्षयत्। स तैरर्कपत्रैर्भक्षितैः क्षारतिक्तकटुरूक्षैस्तीक्ष्णविपाकैश्चक्षुष्युपहतोऽन्धो बभूव ततः सोऽन्धोऽपि चङ्क्रम्यमाणः कूपे पपात। अथ तस्मिन्ननागच्छति सूर्य्ये चास्ताचलाबलम्बिनि उपाध्यायः शिष्यानवोचत् नायात्युपमन्युः त ऊचुर्वनङ्गतो गा रक्षितुमिति तानाह उपाध्यायः। मयोपमन्युः सर्व्वतः प्रतिषिद्धः स नियतं कुपितस्ततोनागच्छति चिरं ततोऽन्वेष्य इत्योवमुक्त्वा शिष्यैः सार्द्धनरण्यं गत्वा तस्याह्वानाय शब्दं चकार, भो उपमन्यो! क्वासि वत्सैहीति। स उपाध्यायवचनंश्रुत्वा प्रत्युवाचोच्चैरयमस्मिन् कूपे पतितोऽहमिति तमुपाध्यायः प्रत्युवाच कथं त्वमस्मिन् कूपे पतित इति। स उपाध्यायं प्रत्युवाच अर्कपत्राणि भक्षयित्वाऽन्धीभूतोऽस्म्यतः कूपे पतित इति। तमुपाध्यायः प्रत्युवाच। अश्विनौ स्तुहि तौ देवभिषजी त्वां चक्षुष्मन्तं कर्त्ताराविति स एवमुक्त उपाध्यायेनोपमन्युरश्विनौ स्तोरुमुपचक्रमे देवावश्विनौ वाग्मिरृग्मिः”। अश्विस्तुतिमुपवर्ण्य कथां समापयामास यथा “इत्येवं तेनाभिष्टुतावश्विनावाजग्मतुराहतुश्चैनं प्रीतौ स्व एषतेऽपूपोऽशानैनमिति। सएवमुक्तः प्रत्युवाच नानृतपूर्व्वमूचतुर्भगवन्तौ। नत्वहमेतमपूपमुपयोक्तुमुत्सहे गुरवेऽनिवेद्येति। ततस्तमश्विनावूचतुः आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपोदत्त उपयुक्तः स तेनानिवेद्य गुरवे, त्वमपि तथैव कुरुष्व यथाकृतमुपाध्यायेनेति। सएवमुक्तः प्रत्युवाच एतत्प्रत्यनुनये भवन्तावश्विनौ नोत्सहेऽहमनिवेद्य गुरवेऽपूपमेनमुपयोक्तुमिति। तमाश्विनावाहतुः प्रीतौ स्वस्तवानया गुरुभक्त्या उपाध्यायस्य ते कार्ष्णायसा दन्ता भवतोऽपि हिरण्मया भविष्यन्ति चक्षुष्मांश्च भविष्यसि श्रेयश्चावाप्स्यसीति। सएवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्योपाध्यायमभ्यवादयत आचचक्षे च स चास्य प्रीतिमान् बभूव आह चैनं यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति। सर्व्वे च ते वेदाः प्रतिभास्यन्ति सर्व्वाणि च धर्म्मशास्त्रा- णीति एषा तस्यापि परीक्षोपमन्योः”। उपमन्योरपत्यम् विदा० अञ्। औपमन्यव तदपत्ये बहुत्वे तु तस्य लुक्। उपमन्यवः “उपमन्युपराशरकुण्डिनेभ्यः” “उपमन्यूनां वासिष्ठाभरद्वस्विन्द्रप्रमदेति” आश्व० श्रौ० सू० १२ ं१५ ं१, २,

उपमर्द्द = पु० उप + मृद–घञ्। १ आलोडने, २ हिंसने, पूर्व्वधर्म्मिविनाशनेन ३ धर्म्यान्तरोत्प्रादने। यथा अस्तेर्भूः चक्षिङो वचिः स्था–तिष्ठ इत्याद्यादेशे। ३ निष्पीडने “अन्यासु तावदुपमर्द्दसहासु भृङ्ग” सा० द०। धान्यादेः ४ निष्पललीकरणे च। (धानमाडा) भावे ल्य्वट् उपमर्द्दनमुक्तार्थे न०। कर्त्तरि ण्वुल्। उपमर्द्दक तत्कारके त्रि०।

उपमा = स्त्री उप + मि–अ। १ सादृश्ये, “अतुलोपमाभ्याम्” पा० उक्तेः तद्योगे उपमानवाचकात् षष्ठी नतु तृतीया। “स्फुटोपमं भूतिसितेन शम्भुना” माघे तु सहार्थे तृतीया मल्लि०। २ अर्थालङ्कारभेदे च अर्थालङ्कारभेदस्य ३९६ पृ० विवृतर्दृश्या। न्यायमतसिद्धे उपमानजन्ये ३ गवयादिशब्दशक्तिज्ञानरूपे, वेदान्तिमतसिद्धे ४ गवादिसादृश्यज्ञानरूपे अनुभवभेदे च उपमानशब्दे विवृतिः। करणे बा० अ। ५ उपमाने च। “अपि लङ्घितमध्वानं बुबुघे न बुधोपमः” रघुः। “यथा दीपो निपातस्थो नेङ्गते सोपमा स्मृता” गीता “यजते सोपमा दिवः” ऋ० १, ३१, १५, स्वार्थे घञ्। औपम्य उपमाने न०।

उपमात् = स्त्री उपमीयते प्रक्षिप्यते उप + मिञ–क्षेपे–बा० अति। स्थूणायाम् वत्सबन्धनसाधने स्तम्भे “सानुमुपमादिव द्योः” ऋ० ६, ६७, ६,। “उपमीयते प्रक्षिप्यते इत्युपमात् स्थूणा” सा यथा वत्सं धारयति तद्वदित्यर्थः” भा०।

उपमाति = स्त्री उप + मि–क्तिन् वेदे नि० आत्। १ उपमायाम्। “पूर्वीष्ट इन्द्रोपमातयः” ऋ० ८, ४०, ९, लोके तु उपमितिरित्येव उक्तार्थे। उप + मीङ–बधे–क्तिन् बा० आत्। २ हिंसने उपमातिवनिः। “रिषे धादस्माकं भूदुपमाति बनिः” ऋ० ५, ४१, १६, उपमातये वनति वनु व्यापृतौ इन्। हिंसनव्यापृत इत्यर्थः उपमातिवनिर्हिन्ता” भा०।

उपमातृ = स्त्री उपमिता मात्रा अवा० स०। १ धात्र्याम् अमरः। सा हि मातृतुल्यं प्रतिपालयतीति तस्यास्तथात्वम् २ मातृतुल्यासु मातृष्वस्रादिषु च। ताश्च “मातृष्वसा मातुलानी पितृवास्त्री पितृष्वसा। श्वश्रूः पूर्व्वजपत्नी च मातृतुल्याः प्रकीर्त्तिता” दायभा० वृह० स्मृ० उक्ताः। स्वस्रादिपर्य्युदासात् ऋदन्तत्वेऽपि स्त्रियां न ङीप्। उप + मा–तृच्। ३ उपमानकर्त्तरि त्रि०। स्त्रियां ङीप्।

उपमाद = त्रि० उपमादयति उप + मद–णिच् अच्। उपमादके हर्षजनके “देवानामुपमादमृष्वः” ऋ० ३, ५, ५, “उपमादमुपमादकं यज्ञम्” भा०।

उपमान = न० उपमीयतेऽनेन उप + मा–भावे ल्युट्। १ सादृश्यज्ञाने। करणेल्युट्। २ सादृश्यज्ञानसाधने सादृश्यप्रतियोगिनि, येन सादृश्यं भवति तस्मिन्, यथा चन्द्र इव मुखमित्यादौ चन्द्र उपमानम्। प्रसिद्धस्यैवोपमानत्वम् प्रसिद्धस्योपमेयत्वम्। उपमानमभूद्विलासिनाम्” कुमा० “उपमानम्मनुजामहीरुहाणाम्” माघः। ३ उपमितिप्रमाकरणे उपमानलक्षणञ्च न्या० सू० वृत्त्योर्दर्शितं यथा “प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम्” सू०। “प्रसिद्धस्य पूर्व्वप्रमितस्य गवादेः साधर्म्यात् सादृश्यात् तज्ज्ञानात् साध्यस्य गवयादिपदवाच्यत्वस्य साधनं सिद्धिरुपमानमुपमितिर्यतैत्यध्याहारेण करणलक्षणम् अथ वा साध्यसाधनमिति करणल्युटा करणलक्षणमेवेदम् अत्र च वैधर्म्योपमितिं मन्यन्ते टीकाकृतः यथा अतिदीर्घग्रीवत्वादिपश्वन्तरवैधर्म्यज्ञानादुष्ट्रे करभपदवाच्यताग्रहः। एवमन्योऽप्युपमानस्य विषयैति भाष्यं यथा मुद्गपर्णीसद्र्शी ओषधी विषं हन्तीत्यतिदेशवाक्यार्थे ज्ञाते मुद्गपर्णीसादृश्यज्ञाने जाते इयमोषधी विषहरणीत्युपमित्या विषयीक्रियतैत्यादि”।

उपमानचि० सादृश्यपदार्थनिरुक्तिपूर्व्वकमुपमानस्य प्रमाणान्तरत्वं व्यवस्थापितं यथा। “तत्र सादृश्यप्रमाकरणमुपमानमिति केचित्। सादृश्यञ्च पदार्थान्तरम्। तथा हि। सदृशव्यवहारादबाधितादस्ति सादृश्यं तच्च न प्रतिपदार्थमेकं सर्वस्य सर्वसदृशत्वापत्तेः स्वसदृशत्रापत्तेश्च सुसदृशमन्दसदृशव्यवहारस्य तदेकत्वेऽनुपपत्तेश्च। न च व्यञ्जकभूयःसामान्याल्पत्वभूयस्त्वाभ्यां तद्धीरिति वाच्यं बहुभिरल्पैश्च व्यज्यमानघटादौ ह्रासवृद्ध्योरदर्शनात् व्यञ्जकाभिमतादेव व्यवहारसिद्धौ अतिरिक्तासिद्धेश्च। नापि संयोगवत् व्यासज्यवृत्त्यनेकम्, गोत्वोपलक्षितसादृश्याश्रयत्वात् गवयवत्, गोरपि स्वसदृशत्वप्रसङ्गात् गोरसन्निकर्षे संयोगवदप्रत्यक्षत्वप्रसङ्गाच्च। प्रत्यक्षत्वे वा गवयनिरूपितस्यैकवित्तिवेद्यत्वेन गोनिष्ठतया चाक्षुवत्वप्रसङ्गः। किन्तु प्रत्याश्रयं भिन्नम्। नचैकैकव्यभिचादनुगतरूपाभावान्नानुगतप्रत्ययः सादृश्यपदव्युत्पत्तिश्च न स्यादिति बाच्यम् अनुगतबित्तिवेद्यसादृश्यत्वसामान्यात् सप्तपदार्यातिरिक्तत्वाद्वा जातिवदन्त्यविशेषवच्च स्वस्वलक्षणत्वात्तयोरुपपत्तेः। तच्च द्रव्ये न गुणः कर्म वा, गुणकर्मवृत्तित्वात् न च सदृशाश्रय- वृत्तित्वादेव तत्र व्यवहारः स्वाश्रयबैसादृश्येऽपि तत्र तत्प्रतीतेः। अतएव नाश्रयसादृश्यात्तत्, सामग्रीग्रहात्तत्, बाधकाभावादविशेषेण वैपरीत्यसम्भवाच्च। नापि सामान्यं तद्धि न सर्व्ववृत्त्येकमनभ्युपगमात् सुसदृशमन्दसदृशव्यवहारानुपपत्तेश्च। अथ विजातीयत्वे सत्यवयवगुणकर्मवृत्तिभूयःसामान्यं तत्, अतएव दूरस्थे प्रतियोगिनि भूयःसामान्यज्ञानान्न तत्र सादृश्यप्रत्ययः वनं, प्रासाद तिवत् बहुत्वस्य समुदायस्यैकत्वादेकं सामान्यमिति धीप्रयोगौ अन्यथा वनाद्यपि अर्थान्तरं स्यात् सामान्यबहुत्वाल्पत्वाभ्यां सुसदृशमन्दसदृशव्यवहारः। यदुच्यते। “सामान्यान्येव भूयांसि तुल्याबयवकर्मणाम्। भिन्नं प्रधानसामान्यव्यक्तं सादृश्यमिष्यते” इति साजात्येऽप्यरविन्दद्वयवत् यमजयोरवयवादिशून्ये गुणादौ जातौ च सदृशप्रत्ययात् विसदृशयोः करभरशरभयोस्तत्सत्त्वाच्च। नापि धर्म्यन्तरे धर्म्यन्तरवृत्तिधर्मबाहुल्यम् असाधारणधर्मशून्यत्वे सति तद्गतभूयोधर्मवत्त्वं वा स्वनिष्ठात्यन्ताभावप्रतियोगिधर्मसमानाधिकरणभूयोधर्मवत्त्वं वा त्रिचतुः पञ्चादिभेदेन भूयस्त्वस्याननुगतत्वात्। नापि कपिञ्जलवत्त्रित्वपर्य्यवसन्नं विसदृशयोरपि हस्तिमशकयोः सादृश्यप्रसङ्गात्। तदुक्तं “एवं जातिगुणद्रव्यक्रियाशक्तिषु धर्मतः। एकैकद्वित्रिसाभस्त्यभेदादेकत्र चित्रतेति”। अथ व्यावर्त्तकधर्मापें क्षया तद्गतधर्भबाहुल्यं सादृश्यबाहुल्यञ्च त्रिचतुरादिष्वनुगतं हस्तिमशकयोस्तु बहुव्यावर्त्तकं साधारणन्त्वल्पमतएव भेदाधिष्ठानमुच्यते इति चेन्न व्यावर्त्तकसमसड्ख्येनाल्पेनागणितेनापि सादृश्यव्यवहारात्। किञ्च सामान्यान्याश्रयभेदेनाभिन्नानि सादृश्यन्तु भिन्नम्। सामान्यं निःप्रतियोगिकं तदनिरूप्यञ्च। सादृश्यन्तु सप्रतियोगिकं तद्धीव्यङ्ग्यञ्च। अथ भेदे सति तद्गतभूयःसामान्यवत्त्वं सादृश्यं भेदश्च प्रत्याश्रयमन्यः सप्रतियोगिकश्चेति चेत्तर्हि सादृश्यस्य भेदघटितत्वेन तस्मात् सदृश इति स्यात् नतु तेन तस्य वा सदृश इति स्यात्। नच सादृश्यस्यापि सप्रतियोगिकत्वेन तस्मात् सदृश इति स्यात्, अवधौ हि तथाप्रतीतिप्रयोगौ न तु प्रतियोगिनि, अभावेऽपि षटान्नेति प्रतीतिप्रसङ्गात्। अपि च तद्धर्मवत्त्वं यदि सादृश्यं तदा तत्तातद्वत्त्वयोः सङ्करप्रसङ्गात्। तद्धर्मवत्ता हि तत्ता तदन्या च तद्वत्ता यदि च तत्तैव तद्वत्ता तदा तदेव तद्वदिति स्यात्। तथा च तद्धर्मवत्ताज्ञाने प्रत्यभिज्ञानवत् सोऽयमिति स्यात् नतु तद्वदिति। एवं तद्व- त्तैव हि तत्तेति गवयेऽपि गोबुद्धिव्यपदेशौ स्याताम् गोगतसाभान्ययोगित्वेन गोवत्तत्ताश्रयत्वात्। नापि विशेषः प्रत्यक्षत्वात्। न समवायः वृत्तिमत्त्वात् इत्यतिरिक्तं सादृश्यम् यत्तु सादृश्यं भावोऽभावो वा भावोऽपि सगुणं निर्गुणं वा, निर्गुणमप्याश्रितमनाश्रितं वा। आश्रितमपि सामान्यवन्निःसामान्यं वा सामान्यवत्त्वे स्पन्दोऽस्पन्दो वा निर्गुणं निःसामान्यमाश्रितमनाश्रितमनेकाश्रितम् वा। इति यथायथं सप्तपदार्थान्तर्गतमिति तन्न व्यवहारानुपपत्त्या तद्बहिर्भावात् अन्यथैतादृशविकल्पेन सामान्यविशेषसमवायानाभपि द्रव्यादित्रयधर्मात्तदन्तर्गतत्वं स्यादिति। उच्यते। असाधारणान्यतद्गतबहुधर्मवत्त्वं तत्सादृश्यं यमजादिसाधारणं भेदाघटिततया च निरवधि, तद्गतबहुधर्मवत्त्वं तन्निरूप्यमिति तन्निरूप्यत्वमेव तस्य सप्रतियोगिकत्वं तवापि सादृश्ये तदेव सप्रतियोगिकत्वं न तु भेददीर्धादिवत्सावधित्वं तस्मात् सदृश इति प्रत्ययापत्तेः। बहुत्वञ्च त्रिचतुरादिसाधारणमिति नानुगमः। न चातिप्रसङ्गः हस्तिमशकयोरपि प्राणित्वसुखित्वदुःखित्वादिना सादृश्यात्। अतएव वैसादृश्येऽपि आह्लादकत्वादिना चन्द्र इव मुखं, बहुलक्षीरत्वादिना महिषीव गौरिति। वह्वल्पतद्गतधर्मवत्त्वेन सुसदृशमन्दसदृशत्वम्। अतएव गवये गोसादृश्यं मन्दतद्धर्मवत्त्वमेव विवेचयति। वराहं गावोऽनुधावन्तीत्यत्र गोसदृश्यं वराहेऽप्युक्तम्। तत्तर्द्धमवत्त्वेनोपमेयव्यवहारः काव्यादौ, साध्यसाधनवत्त्वमात्रेण दृष्टान्ते पक्षसादृश्यवाचकवति प्रयोगः परीक्षकाणाम्। न चैते गौणा मुख्ये बाधकाभावात्। तस्मात् केनचित् कस्यचित् क्वचित् सादृश्यं नत्वनुगतमस्ति।। किञ्च यादृशबहुतद्धर्मवत्त्वज्ञानं सादृश्यव्यञ्जकं तदेव तद्व्यवहारनियमाकमस्तु किमधिकेन। अन्यथा त्रिरतुरादित्वे तु व्यञ्जकमपि बहुधर्मवत्त्वमननुगतं स्यात्। व्यञ्जकमननुगतमपि वह्नौ प्रत्यक्षादिवदिति चेन्न तत्र व्यक्तीनां वैजात्यात् धूमालोकादौ वह्निव्याप्यत्वमेवानुगतम्। अत्रापि तद्व्याम्यत्वमस्तीति चेत् यादृशं तद्व्याप्यं तदेव तद्व्यवहारनिमित्तं न तु तद्गतबहुधर्मवत्त्वज्ञानं, न व्यञ्जकमेवानुभवबिरोधात् तद्गतभूयोधर्मस्य बह्वल्पत्वज्ञानं विना सुसदृश–मन्दसदृशत्वज्ञानाभावाच्च। अथ तद्गतबहुधर्मवत्त्वं न सप्रतियोगिक, सादृश्यं तु तथेति व्यवहर्त्तव्यमधिकमिति चेन्न सादृश्यवत्तस्यापि सप्रतियोकत्वात् यत्तु तत्तातद्वत्तयोः सङ्करः स्यादिति तन्न तत्रैव तद्धर्मवत्ता तदभेदो वा तत्ता सा च सोऽयमिति प्रत्यभिज्ञाने भासते। भेदे भासमाने तदन्यस्मिन् तद्धर्मवत्ता तद्वत्ता यतो भवति तद्वदयं न तु स इति तयोर्भेदात्। नन्वेवं व्यक्त्यन्तरे गोत्वग्रहे तद्गोवदयमिति स्यान्नत्वयमपि गौरिति चेन्न गोत्वमात्रस्य तदन्यव्यक्तिवृत्तित्वग्रहे समुच्चयः, एकत्र नानासम्बन्धावगमात्। तद्गोवृत्तिबहुधर्मज्ञाने भवत्वेव शवलावद्धवलेति। तथाप्ययमपि शृङ्गादिमानिति समुच्चयधीः स्यात् न तु गोसदृश इति चेन्न एकत्रोभयसम्बन्धः समुच्चयोऽल्पगतभूयोधर्मवत्त्वमन्यत्र सादृश्य मिति विवेकात्

नवीनास्तु। विलक्षणसुखद्वये इतरसकलव्यावृत्तसादृश्यमनु भूयते न तु तद्द्वयमात्रवृत्तिजातिरस्ति तद्द्वयाभावे जातेरनाश्रयत्वेनानित्यत्वप्रसङ्गात्। नापि जन्यं धर्मान्तरमस्तीत्यधिकं सादृश्यमुपेयं तवापि समानघर्मवत्त्वव्यञ्जकं विना कथं तत्र सादृश्याभिव्यक्तिरिति चेन्न प्रतीतिबलात् द्रव्ये तथा, गुणादौ तु व्यभिचारात् अतएव न व्यञ्जकेनान्यथासिद्धिस्तदभावेऽपि सादृश्यानुभवादित्याहुः। तत्तुच्छंविलक्षणं सुखद्वयं न सुखमात्रहेतुजन्यं सुखान्तरस्यापि सदृशत्वापत्तेः किन्तु विलक्षणादृष्टजन्यं तच्चादृष्टं विहिततद्धेतुक्रियाविशेषानुष्ठानादन्येषामप्यस्तीति तेषामपि तादृशानि सुखानि भवन्तीति तेषु कारणविशेषप्रयोज्या विलक्षणतास्ति तस्मादात्मनामानन्त्यात् अनादिनिधनत्वादुत्पन्नानागतविजातीयं न सुखमस्ति एवं दुःखान्तरकार्य्ये ष्वपि नह्यनुत्पन्नमुत्पन्नसमानजातीयं कार्य्यमस्ति। यच्च व्यक्तिनाशे जातेरनित्यत्वमापादितं तदपि न विनाशकाभावात् अतएव प्रलयेऽपि तदवस्थानम्। अपि चैकत्र प्रतियोगिभेदेन सादृश्यं भिन्नं नत्वेकम्, सुसदृशमन्दसदृशव्यवहारात् तथा च यीग्यत्वादेकग्रहे सर्वग्रहप्रसङ्गात्। प्रतियोगिगतभूयोधर्मज्ञानस्य व्यञ्जकस्य क्रमाक्रमे तदेव व्यवहारनिमित्तमित्युक्तम्। किञ्चैवं वैसादृश्यमपि स्यात्। नच सादृश्याभावस्तत्, वैपरीत्यस्यापि सम्भवात् सादृश्याभावत्वेनैव प्रतीतिर्विशब्दस्य निषेधार्थत्वादिति चेत्तर्हि गौरिव महिषीत्यत्र पावनत्वक्षीरवत्वादिना विवक्षितसादृश्यानाश्रये गवये वैसादृश्यं न स्यात् न हि तत्र गोसादृश्यं तदभावश्च। तस्मात् साधर्म्यवैधर्म्ये सादृश्यवैसादृश्ये। यत्तु तद्वृत्त्यनेकधर्मबत्त्वं सादृश्यं तेनाभेदेऽपि “गगनं गगनाकारं सागरः सागरोपमः। रामरावणयोर्युद्धं रामरावणयोरिव” इत्यादौ सादृश्यं, न चैवं गोरपि गोसदृशत्वे गवयपदाभिधेयत्वापत्तिः तत्र सदृ पदस्य विशेषे तात्पर्य्यात्। अन्यथा महिषेऽतिप्रसङ्ग इति तन्न तस्य तेन वा सदृश इति प्रतीतिप्रयोगात् न चाभेदे सम्बन्धः सहार्थो वा सम्भवति। गगनं गगनाकारमित्यादौ तु गगनाद्येवैतादृशधर्मवन्नान्यदित्यत्र तात्पर्य्यम्। यद्वा सर्गान्तरीयगगनसागरयोरुपमानत्वं तयोर्युद्धविशेषे तयोरेव युद्धान्तरमुपमानमिति। नन्वयं देवदत्तस्तदन्यो वा भवतु तत्सदृशस्तावदयमिति भेदाभेदसंशयेऽपि सादृश्यनिश्चयात् अतिरिक्तं सादृश्यभिति चेत् न देवदत्ताभिप्रायेणैकदेशे सादृश्यपदप्रयोगात् कथमन्यथा स एवायं न तु सत्सदृश इति, सदृशोऽयं न तु स इति प्रतीतिप्रयोगौ। न चात्र सदृशपदं भेदमात्रपरमिति युक्तं मुख्ये सम्भवति लक्षणाया अयोगात्। तस्मान्न पदार्थान्तरं सादृश्यमिति। स्यादेतत्। मा भूत् पदार्थान्तरं तथापि प्रत्यक्षाच्छब्दाद्वा गवये गोसादृश्यज्ञानात् गवयसदृशो गौरितिज्ञानमुपमिति। न चैतत्प्रत्यक्षं विशेष्यासन्निकर्षात् नानुमानं लिङ्गाभावात्। न च गवयगतं सादृश्यं लिङ्गम् अपक्षधर्मत्वात्। अथ सदृशद्वयान्तरदर्शने यो यद्गतसादृशाप्रतियोगी स तत्सदृश इति प्रत्यक्षेण व्याप्तिग्रहे सति गवयगतसादृश्यप्रतियोगित्वात् गौर्गवयसदृश इत्यनुमितिरिति चेत् व्याप्तिग्रहं विनैव प्रथममपि प्रत्यक्षाच्छब्दाद्वा गोसदृशं गवयं ज्ञात्वा गवि गवयसादृश्यज्ञानोदयात्। किञ्च गवि गवयसादृश्यं न साध्यं प्रथमतस्तदप्रतीतेः गवयगतसादृश्यप्रतियोगित्वञ्च गवि न प्रत्यक्षं विशेष्यस्यासन्निकर्षादिति नानुमितिगम्यं तल्लिङ्गस्यापि तद्गतत्वेनाप्रत्यक्षस्य लिङ्गान्तरगम्यत्वेऽनवस्थानात्। न च गौरेतद्गवयसदृशः गवयगतभूयोऽवयवादिसामान्यवत्त्वात् गवयान्तरवदिति गवयान्तरज्ञानेऽपि गवि गवयसादृश्यं विनानुपपद्यमानं तत्कल्पयति। न हि गोसदृशो गवय एतद्विसदृशो गौरिति वाच्यम्। गवयनिरूपितगोसादृश्याप्रसिद्धौ तेन विनानुपपत्तिज्ञानाभावात्। किञ्च तवार्थापत्तिर्व्यतिरेक्यनुमानं न च गवयगतसादृश्यप्रतियोगित्वं गवि प्रत्यत्तादिना ज्ञातुं शक्यमित्युक्तम्। नन्वेवं करभे गोवैघर्म्यज्ञानात् गवि करभवैर्धं र्म्यज्ञानमपि मानान्तरं स्यादिति चेत् गवि करभवैधर्म्यं यदि करभवृत्तिधर्म्माभावत्वं तदाऽस्मृते गवि प्राङ्नास्ति तावदनुपलब्धिगम्यमेव अथ करभव्यावृत्तधर्मवत्त्वं तदा गोधर्म्मा गविगता एव इदानीं स्मृतगोधर्म्माणां करभेऽभावमात्रमधिकं गम्यं तच्च प्रत्यक्षादेव। अथ तत्प्रतियो- गिकैतन्निष्ठसादृश्ये भासमाने समानसंवित्संवेद्यतया एतत् प्रतियोगिकतन्निष्ठसादृश्ये वैधर्म्यञ्च ज्ञातमिति चेन्न विषणविशेष्यप्रतियोगिभेदेन समानसंवित्संवेद्यत्वासिद्धेः। एतत्सदृश एतद्विधर्मा स इत्येतद्विशेष्यकप्रत्ययानुदयाच्च तद्विशेष्यकप्रत्यक्षे तत्सन्निकर्षस्य हेतुत्वात्। ननु प्रत्यक्षे विशेष्यसन्निकर्षोहेतुर्न तु यावद्विशेष्यसन्निकर्षोगौरवात् अन्यथातीतानागतव्याप्यविशेष्यकव्याप्तिप्रत्यक्षं न स्यादिति चेन्न अतीतानागतविशेष्ये सामान्यलक्षणायाः सत्त्वात्। अथ गवयसादृश्यं गवि गवयगतशृङ्गादिमत्त्वं तच्च गवये गोसदृश्ये भासमाने गवि भातमेव यद्वा गोगतशृङ्गित्वादेर्गवयगतत्वं गवये गोसादृश्यम् एवं तस्यैव गवयगतस्य गोगतत्वं गवि गोसादृश्यं तच्चेन्द्रियेणैव ज्ञातं सामान्यस्यैकत्वेनेन्द्रियसन्निकृष्टत्वात् अयं न स इति विपरीतप्रत्यभिज्ञायामिवेति चेत् सत्यम् गोविशेष्यकगवयगतशृङ्गित्वादिज्ञानं नेन्द्रियजन्यं गोरसन्निकर्षात् तस्मादेतत्सदृश एतद्विधर्म्मा एतस्माद्दीर्घः स इति ज्ञानं नानुमानात् विशेष्यासन्निकर्षे तद्गतलिङ्गाज्ञानात्। एवञ्च सप्रतियोगिकपदार्थज्ञानेन तत्प्रतियोगिकपदार्थज्ञानमुपमानं प्रत्यक्षादिकं विनार्थादर्थापत्तौ पूर्वेषामुपमानतेति वार्त्तमेतत् तथा हि। परस्परसदृशं हस्त्यादिकं प्रत्यक्षमती यो यत्सादृश्यप्रतियोगी स तत्सदृश इति सामान्यतो व्याप्तिज्ञाने सति गौर्गवयसदृशः तत्सादृश्यप्रतियोगित्वात् यथा भ्राता भगिनी। गवयगतसादृश्यप्रतियोगित्वञ्च गोर्गवयगतसादृश्यवित्तिवेद्यमेव सादृश्ये गोः प्रतियोगित्वेनैव ज्ञानात् अन्यथा सादृश्ये गोरनन्वयापत्तिः यत्तद्भ्यां सामान्यतीव्याप्तिग्रहं विना एतत्सदृशः स इति फलासिद्धेः यत्तद्भ्यां व्याप्तिग्रहेऽस्माकं व्यतिरेकी परेषामर्थापत्तिरित्यन्यदेतत्। सादृश्यस्योभयवृत्तिधम्मस्य किञ्चिद्विशेष्यसन्निकर्षात् प्रत्यक्षेण भानं यावद्विशेष्यसन्निकर्षस्याप्रयोजकत्वात्। अन्यथाऽयं स इति भ्रान्तविपरीतप्रत्यभिज्ञायां का गतिः। मनसैव चैतन्निष्ठसादश्यप्रति योगित्वग्रहः प्रत्यक्षविशेष्यकत्वं परामर्शे न प्रयोजकामत्युक्तम्। कीदृशो गवय इति जिज्ञासया यथा गौस्तद्वद्गवय इति श्रुतोत्तरवाक्यस्य तथा भूते पिण्डे दृष्टे तथा गवय इत्यतिदेशवाक्यार्थानुसन्धानेऽयं गवयशब्दवाच्य इति मतिरुपमानफलम्। न चेयं वाक्यमात्रात्, अप्रत्यक्षीकृतपिण्डस्यापि प्रसङ्गात्। नापि प्रत्यक्षमात्रात् अश्रुतबाक्यस्यापि प्रसङ्गात्। नापि तयोः समाहारात् स हि प्रमाणसमाकारो वा फलसमाहारो वा आद्ये प्रमाणत्वे सति समाहारः समाहृतयो र्वा प्रमाणत्वं, फलानेकत्वे समाहारानुपपत्तेः तस्य परस्परसहकारिरूपत्वात्। नान्त्यः वाक्यप्रत्यक्षयोर्भिन्नकालत्वात् वाक्यतदर्थयीः स्मृतिद्वारोपनयेऽपि गवयपिण्डसम्बन्धेनापि इन्द्रियादिना तद्गतसादृश्यानुपनये समयपरिच्छेदासिद्धेः। फलसमाहारे च तदन्तर्भावे शब्दानुमानयोरपि प्रत्यक्षत्वप्रसङ्गः। तत् किं तत्फलस्य प्रमाणबहिर्भाव एव अन्तर्भावे वा कियती सीमा। तत्तदसाधारणेन्द्रियादिसाहित्यम् अस्ति तर्हि सादृश्यज्ञानेऽपि विस्फारितस्य चक्षुषो व्यापारः। न तस्मिन् सति तस्यानुपयोगात् उपलब्धगोसादृश्यविशिष्टगवयपिण्डस्य वाक्यार्थस्मृतिमतः कालान्तरेऽप्यनुसन्धानबलात् समयपरिच्छेदोपपत्तेः। तस्मादागमप्रत्यक्षाभ्यासन्यदेवेदमागमस्मृतिसहितं सादृश्यज्ञानमुपमानप्रमाणमिति जरन्नैयायिकाजयन्तप्रभृतयः। तन्न वैधर्म्येऽनुपपत्तेः। यदोदीच्येन क्रमेलकं निन्दतोक्तं धिक् करभमतिदी र्घग्रीवं प्रलम्बचपलौष्ठं कठोरतीक्ष्णकण्टकाशिनं कुत्सितावयवसन्नियेशमपसदं पशूनामिति, तदुपश्रुत्य दाक्षिणात्य उत्तरापथं गतस्तादृशं वस्तूपलभ्य नूनमसौ करभ इति प्रत्येति। तत्र किं मानं न तावदुपमानं सादृश्याभावात् न च प्रमाणान्तरं सम्भवति। उच्यते। न तावदनुगतं प्रवृत्तिनिमित्तमुपलक्षणं विना, प्रत्यमिज्ञानतः शरीरैकत्ववादिनां शरीरविशेषे चैत्रादिपदवदेकैकशृङ्गग्राहिकया गवयपदशक्तिग्रहे गवयान्तरेऽपि सम्भवात्। नाप्यनध्यक्षे पदान्तरोपस्थिते परिभाषाऽऽकाशादिपदवत्, अतएवानध्यक्षत्वाच्च उपलक्षणस्य च शक्तौ बहिर्भावात् तद्वदेव। नापि योगनिर्व्वचनात् पाठकादिवत् सोपलक्षणे, अन्यथा पठिक्रियानुपहिते पठतिप्रयोगः स्यात्। अतस्तदनुगुणज्ञानादियोगिनि शक्तिः। अवच्छेदकतया तूपलक्षणेऽपीति योगाभावात्। नाप्युपस्थितनिमित्तसङ्कोचनात् स्वर्गादिपदवत् तदभावात्। अतो गन्धाद्युपलक्षितेन पृथिवीत्वेन निमित्तेन पृथिव्यादिपदवत् सादृश्याद्युपलक्षिते गवयत्वादौ गवयादिपदानां शक्तिरिति परमार्थतः। अन्यथा फलस्याभासत्वे मानत्वविरोधात् न च पूर्वं गवयत्वमुपस्थितमुपस्थापकाभावात् न च गवयपदादेव तदुपस्थितिरन्योन्याश्रयात् अथ वाक्यादेवानेन समयः परिच्छिन्नः केवलमग्रे प्रत्यभिजानाति योगोसदृशो गवयपदवाच्यत्वेन मयावगतः सोऽयमिति नोपमानस्य विषय इति चेन्न न हि सादृश्यमेव निमित्तमसम्प्रतीतगूनामव्यवहारप्रसङ्गात् गौर- वाच्च नापि गवयत्वं तदनुपस्थितेः। अतएव नोभयं स्वयं प्रतीतसमयसंक्रान्तयेऽतिदेशवाक्यप्रयोगानुपपत्तेश्च। गवयत्वेह्ययं व्युत्पन्नो न गोसादृश्ये निमित्तस्य गवयत्वस्य प्रतीतेः। नच यदा यद्वाक्यं समयपरिच्छेदं पूर्वं नाजीजनत् तदा तदेव वाक्यं स्मृतं तत्प्रवृत्तिनिमित्तं छेत्स्यति अध्ययनसमयगृहीत एव वेदराशिरङ्गोपाङ्गपर्य्यवदातस्य कालान्तरे नववाक्यस्येवास्य प्रागेव बोधितत्वात् पर्य्यवसित इति वाच्यं गोः सादृश्योपलक्षणत्वनिमित्तत्वयोः सन्देहात् पश्वाद्यवयवत्वेऽवगते तर्कपुरस्कारात्। सादृश्यस्योपलक्षणत्वे गङ्गायां घोषः इत्यत्रेवान्वयो भविष्यतीति चेत् न उपलक्षणनिमित्तत्वसन्देहेऽपि यो गोसदृशः स गवयपदवाच्य इति सामानाधिकरण्यमात्रेणान्वयोपपत्तौ मानान्तरोपनीतानपेक्षणात् रक्तारक्तसन्देहेऽपि घटो भवतीति वाक्यवत् अन्यथा पर्य्यवसितेऽपि वाक्ये भानान्तरसहकारात् तत्तदन्वयबुद्धौ वाक्यभेदापत्तेः। गङ्गायां घोष इत्यत्र तु पदार्थएवान्वयायोग्य इति युक्तं तत्रमानान्तरापेक्षणम्। यदि च प्रतीतसंनर्गबलायातोऽध्यर्थो वाक्यस्यैव तदा वाक्यभेदापत्तिः। अथ तात्पर्यानुपपत्त्या यष्टीः प्रवेशयेतिवल्लक्षणास्तु गवयपदाव्युत्पन्नं प्रति तद्व्यत्पत्तये वाक्यमाप्तेनोक्तं तच्च न प्रवृत्तिनिमित्तोपादानं विना। न च गोसादृश्यं तदिति तात्पर्यतो गोसादृश्यपदेन नोसमानाधिकरणं गवयत्वमुपलक्षितं कल्प्यते। न तु यथा धूमोऽस्तीत्यत्र बह्नौ तात्पर्यमनुमानेन निर्वहतीति न लक्षणा न चात्र प्रमाणान्तरमस्तीति येन तन्निर्वाह्यं अनुमानस्यासिद्धेः। अन्यथान्यीन्यान्याश्रयात् न च वाक्ये न लक्षणा, तस्याः पदधर्मत्वादिति वाच्यं एकपद एव लक्षणा पदान्तरन्तु नियामकमित्यस्य वक्तव्यत्वात्। अथ गवयत्वेन लक्षणया तदुपस्थितावपि व्यक्ति वाच्यता न ज्ञायेत शब्दादिति विशिष्टवाच्यता ग्राहकमानान्तरमवश्यं स्वीकरणीयम्। न च यन्निष्ठो धर्मोयत्पदवाच्यः सोऽपि तद्वाच्य इति नियमः। जातिपदे व्यभिचारादिति चेत् न प्रवृत्तिवद्वाच्यत्वबोधतात्पर्यकत्वेन जातीति देशवाक्ये गवयत्वविशिष्टव्यक्तेरेव लक्षणात्। अथ यदा गवयत्वे साक्षात् तात्पर्यं गोसादृश्यशब्दस्य गृह्यते, तदा लक्षणा न च साक्षात् तात्पर्यमवधृतम् अन्यथा धूमोऽस्तीत्यत्रापि साम्यादिति चेत् न उपस्थापकान्तराभावे तात्पर्यस्यैव साक्षात् तात्पर्यरूपत्वात् नचोपमानमेव तथा, अन्योन्याश्रयत्वात्। मैवं यत्र प्रवृत्ति- निमित्तविषयबोधने न तात्पर्यं योगोसदृशः स गवयशब्दवाच्य इति स्वरूपाख्यानमात्रं तत्राप्युक्तसामग्रीतः समयपरिच्छित्तिर्भवत्येव न च व्युत्पित्सुव्युत्पत्तये प्रवृत्तिनिमित्तविशेषे तात्पर्यं यदनुपत्तिर्लक्षणावीजं स्यात्। अपि च धिक करभमतिदीर्घग्रीवमित्यादिवाक्यस्य करभनिन्दातात्पर्य कस्य प्रवृत्तिनिमित्तपरत्वाभावेऽपि तादृशपिण्डमनुभवतः स्मरतश्च वाक्यार्थम् अयं करभशब्दवाच्य इति भवति मतिः। न च तत्र प्रवृत्तिनिमित्तविशेषे तात्पर्यमस्ति लक्षणाया वीजं, निन्दापरत्वात्। किञ्च सर्वत्रान्वयानुपपत्तिरेव लक्षणावीजं यष्टीः प्रवेशयेत्यादावपि प्रकरणादिना पुरस्कारादिप्रयोजनकत्वं प्रवेशनस्यावगतं तादृशे च प्रवेशनादौ यष्ट्यादेरनन्वयात् तात्पर्यानुपपत्तेरपि तात्पर्यमज्ञात्वा ज्ञातुमशक्यत्वात्। अथ प्रकरणादेरननुगमः तात्पर्यव्याप्यत्वेन तदनुगमे तात्पर्यानुपपत्तिरेव तद्वीजमस्तु लाघवादिति चेत् न धूमादिवदननुगतस्यापि व्याप्यत्वाविरोधात्। तस्मात् गवयशब्दः कस्यचिद्वाचकः शिष्टप्रयुक्तत्वादिति सामान्यतो निश्चितेऽपि गबयत्वविशिष्टो धर्मी गवयपदवाच्य इति लाघवान्निर्णेयम्। तच्च प्रमाणसहकारि न च तस्यां दशायां प्रमाणान्तरमस्त्यतो यत् प्रमाणसहकारि तत्प्रमाणान्तरमास्थेयम्। अस्त्वनुमानं तथा हि गवयशब्दो गवयत्वविशिष्टवाचकः असति वृत्त्यन्तरेऽमियुक्तैः प्रयुज्यमानत्वात् गवि गोशब्दवदिति चेत् न गवयत्वविशिष्टो यो धर्मी तस्य वाचकत्वग्रहेऽपि गवयत्वप्रवृत्तिनिमित्तत्वासिद्धेः। न च शक्तिमज्ञात्वा वृत्त्यन्तरं क्वापि अवधारयितुं शक्यते सामानाधिकरण्यमात्रस्य निमित्तो पलक्षणतासाधारणत्वात्। अथ गोसादृश्यनिमित्ततागौरवस्यानवतारेणोपमानस्याप्यनवतारः। तथा च तर्केण तस्य प्रवृत्तिनिमित्तकत्वेऽवगते गवयपदं गवयत्वप्रवृत्तिनि मित्तकम् इतराप्रवृत्तिनिमित्तकत्वे सति सप्रवृत्तिनिमित्तकत्वात् यन्नैवं तन्नैवमिति चेन्न तर्कस्यानिश्चायकत्वात् न चायं तर्को व्याप्तिग्रहमूलको येन विपर्ययानुमानादर्थासिद्धिः। अथ गवयपदं सप्रवृत्तिनिमित्तकमिति सामान्यतो दृष्टमेव तर्कसहकृतं गवयपदस्येतराप्रवृत्तिनिमित्तकत्वं परिच्छिनत्ति न तु मानान्तरं कल्पयित्वा तर्कः सहकारी कल्प्यते इति चेन्न इदं सप्रवृत्तिनिमित्तकमन्यच्च न प्रवृत्तिनिमित्तमिति बुद्धावपि गवयत्वप्रवृत्तिनिमित्तकं गवयपदमिति मानान्तरं विना प्रतीतेः अनुमितेर्व्यापकतावच्छेदकत्वप्रकत्वनियमात्। अथ यथेच्छायां सामान्यतो दृष्टेन विशेषबाधसहकृतेनान्यद्रव्यानाश्रितत्वं प्रतीयते अन्यथा विशेषणग्रहस्य तद्विपर्य्ययस्य वा प्रमाणत्वात् बाधकानां पृथिव्याद्यैकैकमात्रव्यतिरेकविषयकत्वं जन्यद्रव्यानाश्रितत्वं केन ग्राह्यम्, तथात्रापि गौरवाख्य तर्कसहकृतसामान्यतो दृष्टादिना प्रवृत्तिनिमित्तकत्वं ज्ञायते पश्चाद्व्यतिरेकी स्यात् क्वाप्यप्रमाणान्तरापेक्षयो पकॢप्तप्रमासहकारित्वस्य युक्तत्वादिति चेन्न इच्छायामेकैकबाधसहकृतपरापरबाधकैरेव तावद्रूपविशिष्टवैशिष्ट्यादन्यद्रव्यामाश्रयत्वपरिच्छेदात् न तु सामान्यतोदृष्टेन, विशेषणतयोपस्थित्यैव विशिष्टवैशिष्ट्यबोधनिर्वाहात् तर्कानवतारदशायां तस्य तदपरिच्छेदकत्वाच्च। न च व्याप्तिपरमिदं वाक्यं यो गोसदृशः स गवयपदार्थ इति वाक्यादवगतव्याप्तिरनुमिनुयादयं गवयपदवाच्यो गोसदृशत्वात् अतिदेशकालावभतपिण्डवदिति वाच्यं न हि गोसदृशं ज्ञात्वाऽनेन पृष्टः स किंशब्दवाच्य इति किन्तु सामान्यतो गवयपदार्थमवगम्य कीदृगिति तथा च यद्योगप्रायमाख्यानं तस्यैवार्थत्वं ततः, किं तेन। अथ लक्षणपरमिदं वाक्यं किंलक्षणकोऽसाविति प्रश्नार्थः एवञ्च प्रयोक्तव्यम् अयमसौ गवय इति व्यवहर्त्तव्यो गोसदृशत्वात् यस्तु न तथा नासौ गोसदृशः यथा हस्तीति चेन्न न हि हस्त्यादीनां विपक्षत्वे प्रमाणमस्ति गर्वप्रयोगस्य दुर्ज्ञानत्वात् कतिपयव्यवहारस्यैकान्तिकत्वात् अथ कीदृक् किंलिङ्गः इति प्रश्नार्थो नह्यनेन लिङ्गमज्ञात्वा गवयपदस्य वाचकत्वं कस्यचिद्वाच्यत्वमवगतं येन तदर्थः प्रश्नः। अथ प्रवृत्तिनिमित्तविशेषे लिङ्गप्रश्नो गवयपदं येन निमित्तेन वर्त्तते तस्य किं लिङ्गमित्यर्थ इति चेत्न हि तदनुमेयमेवेत्यनेन निश्चितं येन तथा स्यात् ज्ञानहेतुमात्रप्रश्ने तद्विशेषेणोत्तरमिति चेन्न अविशेषादिन्द्रियसन्निकर्षमप्युत्तरयेत् वनं गतो द्रक्ष्यति तस्मान्निमित्तभेदे एवायं प्रश्नः कोदृग् गवयः केन निमित्तेन गवयपदं प्रवर्त्तते, गवयत्वस्य साक्षादुपदर्शयितुमशक्यत्वात् पृष्ट उपलक्षणं सादृश्यमाचष्टे पश्चाद्दृष्टेऽपि पिण्डेऽतिदेशवाक्यं स्मरतस्तर्कसहकारेण गवयत्वविशिष्टो धर्मी गवयशब्दबाच्य इति प्रवृत्तिनिमित्तविशेषः परिच्छित्तिरुपमानफलम्” इत्यन्तेन

वेदान्तपरिभापायाम् “सादृश्यप्रमाकरणमुपमानम्। तथाहि नगरेषु दृष्टगोपिण्डस्य पुरुषस्य वनं गतस्य गवयेन्द्रियसन्निकर्षे सति भवति प्रतीतिरयं पिण्डोगोसदृशैति तदनन्तरं च भवति निश्चयोऽनेन सदृशी मदीया गौरिति। तत्रान्वयव्यतिरेकान्यां गवयनिष्ठगोसादृश्यज्ञानं करणं गोनिष्ठगवयसादृश्यज्ञामं फलम्। नचेदं प्रत्यक्षेण सम्भवति गोपिण्डस्य तदेन्द्रियासन्निकर्षात् नाप्यनुमानेन गवयनिष्ठगोसादृश्यस्यातल्लिङ्गत्वात्। नापि मदीया गौरेतद्गवयसदृशी एतन्निष्ठसादृश्यप्रतियोगित्वात् योयत्सादृश्यप्रतियोगी स तत्सदृशः यथा मैत्रनिष्ठसादृश्यप्रतियोगी चैत्रो मैत्रसदृश इत्यनुमानात् तत्सम्भव इति वाच्यम् एवं विधानुमानानवतारेऽप्यनेन सदृशी मदीया गौरिति प्रतीतेरनुभवसिद्धत्वादुपमिनोमीत्यनुव्यवसायाच्च। तस्मादुपमानं मानान्तरम्”।

सां० त० कौ० तस्य प्रमाणान्तरत्वं निराकृतं यथा “उपमानं तावत् यथा गौस्तथा गवय इति वाक्यं तज्जनिता धीरागमएव योऽप्ययं गवयशब्दो गोसादृश्यस्यं वाचक इति प्रत्ययः सोऽप्यनुमानमेव, यो हि शब्दो यत्र वृद्धैः प्रयुज्यते सोऽसति वृत्त्यन्तरे तस्य वात्तको यथा गोशब्दो गोत्वे, प्रयुज्यते चैवं गवयशब्दो गोसदृशे इति तस्यैव वाचक इति ज्ञानमनुमानमेव। यत्तु गवयस्य चक्षुःसन्नि कृष्टस्य गोसादृश्यज्ञानं तत् प्रत्यक्षम्। अतएव स्मर्य्यमाणायां गवि गवयसादृश्यज्ञानं प्रत्यक्षम् नह्यन्यत् गवि सादृश्यमन्यच्च गवये, भूयोऽवयवसामान्ययोगी हि जात्यन्तरवत्तीं जात्यन्तरे सादृश्यमुच्यते सामान्ययोगश्चैकः स चेद्गवये प्रत्यक्षो गव्यपि तथेति नोपमानस्य प्रमेयान्तरमस्ति यत्र प्रमाणमुपमानं भवेदिति न प्रमाणान्तरमुपमानम्”।

एतन्मतं च मणिकृता विस्तरेण निराकृत्य तस्य प्रमाणान्तरत्वं समर्थितम्। तदेतत् संक्षिप्य भाषा० उक्तं यथा “ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम्। सादृश्यधीर्गवादीनां या स्यात् सा करणं मतम्। वाक्यार्थस्याति देशस्य स्मृतिर्व्यापार उच्यते। गवयादिपदानान्तु शक्ति धीरुपमाफल्म्”। अतएव प्राचीनैरपि उपमानस्य शक्ति ग्राहकता स्वीकृता यथा “शक्तिग्रहं व्याकरणोपमानात् कोषाप्तवाक्याद्व्यवहारतश्च। वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः”।

उपमानचिन्तामणि = पु० गङ्गेशोपाध्यायकृते उपमानप्रामाण्यव्यवस्थापके ग्रन्थभेदे उपमानशब्दे प्रायेण स ग्रन्थ उपन्यस्तः स एव ग्रन्थ उपमानखण्डत्वेन प्रसिद्धः।

उपमारण = न० उप–मृ–णिच्–ल्युट्। वरुणप्रघासे यज्ञेऽवभृथोदकसमीपं गत्वा हविषोऽप्सु प्रक्षेपे “उपमारणप्रकारश्च शत० ब्रा० २, ५, २, ४६, उक्तः “तुष्णीप्तेव प्रतिप्रस्थाता स्रुचं प्रगृह्णाति तद्ये वैश्वदेवेन यजमानयोर्वाससी परिहिते स्यातां ते एवात्रापि स्यातामथास्यै वारुण्यै पयस्यायै क्षामकर्षमिश्रमादायावभृथं यन्ति वरुण्यं वा एतन्निर्वरुणतायै तत्र न साम गीयते न ह्यत्र साम्ना किञ्चन क्रियते तुष्णीमेवेत्याभ्यवेत्योपमारयति” “यजमानयोर्यजमानतत्पत्न्योः। क्षामकर्षमिश्रं क्षामोऽतिपाकेन दग्धः पात्रे संसक्तः कृष विलेखने कृष्यत इति कर्षः क्षामश्चासौ कर्षश्चेति क्षामकर्षस्तेन मिश्रं हविरादाय अवभृथमुदकं प्रति यन्ति एतत् क्षामकर्षमिश्रं हविः वरुण्यम्। सौमिकावभृथवत् प्रसक्तं सामगानं निषेधति तत्र न सामेति न ह्यत्रवरुणप्रघासे साम्ना किमपि प्रयोजनं क्रियते अवभृथ समीपमभ्यवेत्य हविरुपमारयति अप्सु प्रक्षिपति” भा०। एतादृशोपमारणाभिप्रायेण कात्या० २०, ८, २१, सूत्रवृत्तौ “अतः कुम्भोपमारणान्तमेव पूर्वयोरह्रोः कर्त्तव्यमित्युक्तम्” कर्केण।

उपमास्य = न० उपमासं प्रतिमासं भवं यत्। प्रतिमासभवे पितॄणां श्राद्धे “विराड् वा इदमग्र आसीत्” इत्युपक्रम्य “सोऽनुक्रामत् सा पितॄनागच्छत्तां पितरोऽघ्नत सा मासि समभवत् तस्मात् पितृभ्योमास्युपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद” अथ० ८, १०, १९।

***