उपनक्षत्र = न० उपगतं नक्षत्रम् अत्या० स०। अश्विन्यादिसप्तविंशतिनक्षत्राणां प्रत्येकं सप्तविंशत्यानुगतेषु ७२९ संख्यातेषु राशिचक्रस्थेषु तारक भेदेषु। “तानि वा एतानि सप्तविंशतिः, नक्षत्राणि सप्तविंशतिः, सप्तविंशतिर्होप नक्षत्राण्येकैकं नक्षत्रमनूपतिष्ठन्ते तानि च सप्त शतानि विंशतिश्चाधि” शत० ब्रा० १०, ५, ४, ५। अत्राधीत्यनेन नवाधिकत्वं गम्यते सप्तविंशत्या सप्तविंशतिगुणने ७२९ संख्यासम्भवात् श्रुतौ स्पष्टाक्षरेण तथानुक्तिस्तु इष्टकानां ७२० संख्यकत्वात्तत्संख्यासाम्यसम्पादनार्थेति बोध्यम्

उपनख = न० उपगतमधिष्ठानतया नखं नखमांसम् अत्या० स०। सुश्रुतोक्तेषु चतुश्चत्वारिंशत्क्षुद्ररोगेषु चिप्पाख्ये रोगभेदे। तल्लक्षणं तु तत्रोक्तं “नखमांसमधिष्ठाय पित्तं वातश्च वेदनाम्। करोति दाहपाकौ च तं व्याधिं चिप्पमादिशेत्। तदेव क्षतरोगाख्यं तथोपनखमित्यपि”।

उपनत = त्रि० उप–नम–क्त। १ नम्रे “शौरेः प्रतापोपनतैरितस्ततः” माघः २ उपगते च “अचिरोपनतां स मेदिनीम्” रघुः। ३ उपस्थिते च हेम०।

उपनति = स्त्री उप + नम–भावे क्तिन्। १ नमने २ उपगमे ३ उपस्थितौ आधारे क्तिन्। उपनत्याधारे “मांसं म उप- नतिर्वस्वस्थि, मज्जा म आनतिः” यजु० २०, १३। “उपनमन्ति भूतानि यत्र” उपनतिः वेददी०।

उपनद(दि) = अव्य० नद्याः सामीप्यम् वा अच्समा०। नद्याः सामीप्ये।

उपनन्द = पु० उपगतोऽनुगतोनन्दम् अत्या० स०। गोकुलाघिपनन्दभ्रातरि।

उपनन्दक = त्रि० उप + नन्द–णिच्–ण्वुल्। आनन्दजनके धृतराष्ट्रपुत्रभेदे पु०। “ऊर्ण्णनामः पद्मनाभस्तथानन्दोपनन्दकौ” धृतराष्ट्रपुत्रनामोक्तौ भा० आ० ६७ अ०।

उपनय = पु० उप + नी–करणे अच्। उपनयने “गृह्योक्तकर्मणा येन समीपं नीयते गुरोः। बालो वेदाय तद्योगाद्बालस्योपनयं विदु” रिति स्मृत्युक्ते १ संस्कारजनकर्मविशेषे। “नीचस्थितेऽरिगृहगेऽथ पराजिते वा जीवे भृगावुपनयः स्मृतिकर्महीनः” ज्योति०। न्यायमते यो यो धूमवान् स वह्निमान् अयमपि तथेयादिवाक्यरूपे २ न्यायावयवभेदे, परार्थानुमानसाधकपञ्चावयवान्तर्गतावयवविशेषोपनयलक्षणभेदौ न्यायसूत्रवृत्त्योर्दर्शितौ यथा

“उदाहरणापेक्षस्तथेत्युपसंहारोन तथेति वा साध्यस्योपनयः” सू० “साध्यस्य पक्षस्य उदाहरणापेक्षौदाहरणानुसारी यौपसंहारौपन्यासः प्रकृतोदाहरणोपदर्शितव्याप्तिविशिष्टहेतुविशिष्टपक्षविशिष्टबोधजनकोन्यायावयवैत्यर्थः निगमनं हेतुविशिष्टत्वेन न पक्षबोधकं किन्तु पक्षवृत्तिहेतुबोधकमिति तद्व्युदामः। अत्र चान्वयव्यतिरेकव्याप्त्योरव्यतरत्वादिनानुगमः कार्य्यौदाहरणोपदर्शितेति तु परिचायकमात्रमिति तु न वाच्यम् उदाहरणविपरीतव्याप्त्युपदर्शकोपनयवारकत्वात् वस्तुतोऽवयवपदेनैव तद्व्युदासः। स चोपनयोद्विविधोऽन्वयिव्यतिरेकिभेदात्। तथेति साध्योस्योपसंहारोऽन्वय्युपनयः न तथेति साध्यस्योपसंहारोव्यतिरेक्युपनयः अत्र च तथाशब्दप्रयोगावश्यकत्वे न तात्पर्य्यं किन्तु व्याप्तिविशिष्टवत्त्वबोधे, तथाच वह्निव्याप्यधूमवांश्चायमिति वा तथाचायमिति वोपन्यासः एवं व्यतिरेकिण्यपि वह्न्यभावव्यापकीभूताभावप्रतियोगिधूमवांश्चायमिति वा न तथेति वोपन्यासः” वृत्तिः उपनीयते उपस्थाप्यते ज्ञानविषयतामापाद्यतेऽनेन करणे अच्। न्यायमतसिद्धे ज्ञानलक्षणारूपे ३ अलौक्विक प्रत्यक्षसाधने सन्निकर्षभेदे। तयो हि सन्निकर्षरूपया पूर्ब्बज्ञातवस्तुनोऽलौकिकप्रत्यक्षं जन्यते। यथा सुरभि चन्दनमिति चाक्षुषे चन्दनस्य चक्षुर्ग्राह्यत्वेऽपि सौरभस्य तदग्राह्यत्वात् पूर्ब्बज्ञातस्य सौरभस्यालौकिकं प्रत्यक्षं जन्यते तथा च सुरभि चन्दनमित्यत्र सौरभांशेऽलौकिकत्वं चन्दनांशो तु लौकिकत्वमिति भेदः। ज्ञानलक्षणाकार्य्यकारणभावश्चेत्थं दीधितिकृतोक्तम्। “इयञ्च धर्म्मवियकं ज्ञानं धर्म्मिणां प्रत्यासत्तिरितरा तु यद्विषयकं तस्य प्रत्यासत्तिः। अतएव सुरभि चन्दनमित्यादौ सौरभत्वादेरपि भानमिति” व्याख्यातञ्चैतत् जगदीशेन। “नानु सामान्यं यदि न प्रत्यामत्तिः किन्तु तज्ज्ञानं तदा ज्ञानलक्षणया सह तस्याः कोभेद इत्यत आह इयञ्चेति सामान्यलक्षणा चेत्यर्थः। इतरा ज्ञानलक्षणा तस्येति प्रत्यासत्तिरित्यनुषज्यते तथा च कार्य्यकारणभावभेदादेव प्रत्यासत्त्योः भेद इति भावः। अतएव ज्ञानलक्षणातएवेत्यर्थः अन्यथा यत्र सौरभत्वजात्युपस्थित्यनन्तरं सुरभिर्गन्ध इति वत् सुरभिचन्दनमित्याकारकं सौरभत्वप्रकारेण चन्दनस्य भ्रमात्मकं चाक्षुषं तत्र सौरभत्वजातेर्भानं न स्यात् न हि तत्र सुरभिगन्धस्य भानसम्भवो येन सामान्यलक्षणायास्तद्धर्म्मप्रकारकतदाश्रयप्रत्यक्षं प्रत्येव हेतुतया सौरभत्वप्रत्यासत्तेः कार्य्यतावच्छेदकतयैव सौरभत्वजातेर्भानं भविष्यतीति सम्भावनीयम् चक्षुषो वहिरिन्द्रियत्व न स्वायोग्यमुख्यविशेष्यकज्ञानाजनकत्वनियमात् पूर्व्वाऽनुपस्थितस्य सुरभिगन्धस्य तत्र भानासम्भवेनोक्तरीत्या तद्गतजातेरपि तत्र भानादम्भवादिति मावः। इत्यादावित्यादिपदेन भ्रमान्तरस्य तदनुव्यवसायस्य च परिग्रहः। यत्तु ज्ञानस्य तदिन्द्रियजन्यत्वं नियामकमिति पूर्वमतेनायं ग्रन्थः। तथा च सौरभत्वेन सौरभस्मृत्यनन्तरं जायमानायां सुरभिचन्दनमित्याकारक चाक्षुषप्रमायां सामान्यप्रत्यासत्त्या न सौरभत्वस्य भानसम्भवः कारणस्य सौरभत्वचाक्षुषस्यासम्भवादतो ज्ञानलक्षणा पृथक् प्रत्यासत्तिरिति मतं तन्मन्दं ज्ञानस्य तदिन्द्रियजन्यत्वापेक्षायां सुरभिगन्धस्यापि तत्र भानासम्भवे सौरभत्वजाति पर्य्यन्तानुसरणस्य सन्दर्भविरोधापत्तेः सोरभत्वादेरित्यादि पदात् सौरभस्य परिग्रहः तेन न सन्दर्भविरोधदोष इति विभावनीयम्। अत्रेदं तत्त्वं यद्यपि घटत्वादिप्रत्यक्षे तदलौकिकप्रत्यक्षे वा तद्गोचरज्ञानत्वेन ज्ञानलणाया न हेतुत्वं घटत्वादिनिर्व्विकल्पके प्रमेयत्वादिसामान्यलक्षणाजन्यघटत्वादिप्रत्यक्षे च व्यभिचारात् तथापि लौकिकसाधारणं घटत्वादिप्रकारकप्रत्थक्षमात्रं प्रत्येवघटत्वादिगोचरज्ञानत्वेन हेतुत्वमतएव प्राथमिकघटत्वचैत्रत्वादिप्रकारकप्रत्यक्षस्य घटत्वचैत्रत्वादिनिर्व्विकल्पिकं विमानुपपत्तेः तत्सिद्धिरप्यावश्यकी पूर्व्वानुभूतवस्तुमात्रस्यैव तथात्वेन घटत्वाद्यात्मकतत्ताप्रत्यभिज्ञानानुरोधेनैव परैरप्युक्तकार्य्यकारणस्याभ्युपेयत्वात्। न चैवं जन्यस्वविषयकसविकल्पकस्यैव प्रत्यासत्तित्वमिति प्राचीनगाथाविरोधः तस्या अकिञ्चित्करत्वात् सखण्डघटादेरुपनीतभानस्थाने एव तथा नियमसम्भवाच्च द्रव्यत्वादिप्रकारेण घटादेरुपनयसत्त्वेऽपि घटत्वप्रकारेण तस्योपनीतप्रत्यक्षानुदयेन घटत्वादिना तद्घटादिप्रकारकप्रत्यक्षं प्रति घटत्वादिप्रकारेणैव तद्घटाद्युपनयस्य हेतुत्वादतएव घटघटत्वयोर्निर्विकल्पकानन्तरं घटे घटत्वस्यैव घटत्वेऽपि घटस्य न वैशिष्ट्यावगाहि प्रत्यक्षं घटत्वद्रव्यत्वादिप्रकारेणैव घटादीनां विशिष्टबुद्धेः पारमार्थिकतया तद्धेतुभूतस्य घटत्वादिप्रकारेण घटादिज्ञानस्य तदानीमसत्त्वात् न चैवं निर्विकल्पकोत्तरं विशेष्ये विशेषणमित्यादिक्रमेणापि घटवदित्याकारप्रत्यक्षं न स्यात्, इष्टत्वात् जातीतरनिष्ठप्रकारतायां किञ्चिदवच्छिन्नत्वनियमात् द्रव्यगुणकर्म्मणां निरवच्छिन्नप्रकारतानभ्युपगमात्। न च निर्विकल्पकस्य प्रत्यासत्तित्वे स्वविषयीभूतघटत्वाद्युपधानेन तस्य प्रत्यक्षापत्तिः विषयानुपधानेन ज्ञानादिप्रत्यक्षस्यालीकतया विषयोपनाथकविरहादेव तस्यातीन्द्रियत्वोपगमादिति वाच्यम् सत्यपि सन्निकर्षे प्रत्यक्षसामान्यं प्रत्येवादृष्टत्वादिनेव निर्व्विकल्पकत्वेनापि तादात्म्यसम्बन्धेन विरोधित्वकल्पनादेव निर्विकल्पकस्याप्रत्यक्सत्वादन्यथा सुखत्वादिनिर्व्विकल्पकस्य स्वविषयीभूतसुखत्वाद्युपधानेन साक्षात्कारस्य दुर्व्वारत्वापत्ते सुखत्वस्य निर्विकल्पक इव सुखत्वेऽपि लौकिकस्यैव मनःसन्निकर्षस्य सत्त्वात् तदुपधाने तन्निर्व्विकल्पकस्य प्रत्यक्षे बाधकाभावादिति। यत्तु घटादिपकारकप्रत्यक्षं प्रत्येव घटादिज्ञानत्वेन हेतुत्वे घटादिविशेष्यक घटोद्रव्यमित्याकारमानसोपनीतभानं न स्यादिति तन्न घटादिधर्म्मिकद्रव्यत्वाद्यसंसर्गाग्रहादिवशादेव मानसधियो घटादिविशेव्यकत्वसम्भवात् घट इत्येतन्मात्राकारस्य बाधनिर्ण्णयाप्रतिबध्यमानसप्रत्यक्षस्यासत्त्वेऽपि क्षत्यभावात्। न चैवं घटादेरनुपस्थितिदशायामपि तद्विशेष्यकं मानसप्रत्यक्षं स्यात् तद्धर्म्मिकासंसर्गाग्रहस्य तदानीमपि सत्त्वादिति वाच्यं घटत्वप्रकारकप्रत्यक्षत्वस्य घटनिष्ठालौकिकविशेष्यताकप्रत्यक्षत्वव्यापकतया तदवच्छिन्नं प्रति हेतुभूतस्य घटत्वज्ञानस्य विरहादेवानुपस्थितघटादेर्व्विशेष्यविधया मानसग्रहासम्भवात् घटोद्रव्यमित्यादिमानसस्य घटप्रकारकत्वनियमात् अतएव “उपनीतं विशेषणतयैव भासते” इत्यभिधाय “मानसे तु नायं नियम” इति प्राचीनैरप्युक्तमित्यलं पल्लवितेन”। भाषा० मुक्तावल्योश्च “विषयी यस्य तस्यैव व्यापारोज्ञानलक्षणा” “ननु ज्ञानलक्षणा प्रत्त्यासत्तिर्यदि ज्ञानरूपा सामान्यलक्षणापि ज्ञानरूपा यदा तयोर्भेदो न स्यादत आह। विषयी यस्येति सामान्यलक्षणा प्रत्यासत्तिर्हि तदाश्रयस्य ज्ञानं जनयति। ज्ञानलक्षणा प्रत्यासत्तिस्तु यद्विषयकं ज्ञानं तस्यैव प्रत्यासत्तिरिति”। “एवं ज्ञानलक्षणाया अस्वीकारे सुरभि चन्दनमिति ज्ञाने सौरभस्य भानं कथं स्यात्?। यद्यपि सामान्यलक्षणयापि सौरभमानं सम्भवति तथापि सौर भत्वस्य भानं ज्ञानलक्षणया। एवं यत्र धूमत्वेन धूलीपटलं ज्ञातं तत्र धूलीपटलस्यामुव्यवसाये भानं ज्ञानलक्षणया”। अत्र दिनकरः। “ज्ञानलक्षणास्वीकारे वीजमाह। एव मित्यादिना कथं स्यादिति। चन्दनखण्डस्य चाक्षुषे जा यमाने उपस्थितसौरभमानं न स्यात् सौरभांशे चक्षुःसन्निकर्षाभावादित्यर्थः। सौरभत्वप्रकारकलौकिकप्रत्यक्षसामग्य्राः सहकारिण्याविरहेण सौरभत्वसामान्यलक्षणयापि सौरभभानं न सम्भवतीति भावः। सुरभि चन्दनमित्यादौ सौरभादेर्भानं सौरभत्वादिसामान्यलक्षणयैव सम्भवति। सौरभत्वप्रकारकलौकिकप्रत्यक्षसौरभत्वावच्छिन्नप्रकारकप्रत्यक्षान्यतरसामग्रीसहकारेणैव तस्याः फलजनकत्वाङ्गीकारात् प्रकृते च द्वितीयसामग्य्राः सहकारिण्याः सत्त्वादित्यभिप्रायेणाह यद्यपीति सौरभत्वस्य भानमिति स्वरूपतः सौरभत्वस्य भानमित्यर्थः। ज्ञान लक्षणया ज्ञानलक्षणयैव। तदानीं सौरभत्वांशे धर्मान्तरस्यागृहीततया सामान्यलक्षणया तज्ज्ञानाऽनिर्वाहादिति भावः। ननु धर्मान्तरस्य सौरभांशेऽग्रहेऽपि सौरभत्वसामान्यलक्षणयैव सौरभत्वादेर्भानमस्तु सौरभत्वप्रकारकसौरभविशेष्यकत्वस्यैव तत्कार्यतावच्छेदकत्वादिति चेन्न सौरभत्वादिविषयताप्रयोजिकायाः सामान्यलक्षणायाः स्वविषयसौरभत्वादिमत्त्वरूपस्य सम्बन्धस्य सौरमत्वेऽभावेन सामान्यलक्षणया तज्ज्ञानानिर्वाहात् सौरभत्वसामान्यलक्षणायाः कार्य्यतावच्छेदके सौरभत्व प्रकारत्वनिवेशे प्रयोजनाभावाच्च। न च ज्ञानलक्षणायाः कारणत्वान्तरकल्पने गौरवभियैव सामान्यप्रकारत्वस्य कार्य्यतावच्छेदके प्रवेश इति शङ्क्यम् विशेषणज्ञानहेतुतयैव निर्वाहे ज्ञानलक्षणायाः कारणत्वान्तरकल्पना विरहादिति। ननु विशेषणज्ञानजन्यतावच्छेदक विशिष्टबुद्धित्वं ज्ञानलक्षणयास्तु विशिष्टप्रत्यक्षत्वमिति न कॢप्तेन निर्वाहः, एवं यत्र ज्ञानलक्षणया स्वविषय मुख्यविशेष्यकं मानसं तत्र विशेषणज्ञानकारणतया न निर्वाह इत्यत आह एवमिति ज्ञानलक्षणया ज्ञानलक्षणयैव। तत्र धूमत्वज्ञानरूपसामान्यलक्षणायाः स्वविषयधूमत्वाश्रयत्वसम्बन्धेन धूलीपटलेऽभावेन सामान्य लक्षणयानुव्यवसाये धूलीपटलभानासम्भवादिति भावः”। उपनयेन निर्वृत्तः ठक्। औपनयिक ज्ञानलक्षणाजन्ये अलौकिके प्रत्यक्षे “अथ सार्थो यदि भवेद्धेतुस्तर्हि प्रत्यक्ष एवौपनयिके” शब्दश०

उपनयन = न० उप + नी–ल्युट्। स्मृत्युक्ते संस्कारभेदे १ उपनयार्थे २ समीपप्रापणे च। तत्रोपनयसंस्कारविभागकालादिर्दर्श्यते। स च संस्कारः त्रिविधः नित्यःकाम्योनैमित्तिकश्च। तत्र द्विजातीनामधिकारः। तत्र नित्यः अष्टमवर्षादिकाले बिहितः, ब्रह्मवर्चसादिकामस्य पञ्चमादिवर्षविहितः काम्यः, नैमित्तकस्तु पुनःसंस्कारप्रयोजकपापापनोदनार्थं प्रायश्चित्तात्मकः। तत्र नित्यस्य कालोऽपि द्विविधः मुख्योगौणश्च। तेषु मुख्यकालः “गर्भाष्टमेऽष्टमे वाव्दे ब्राह्मणस्योपनायनम्। राज्ञामेकादशे सैके विशामेके यथाकुलम्” मनुः। “गर्भादित्यस्य सर्वत्रानुषङ्गः यथाह आपस्तम्बः “गर्भाष्टमेषु ब्राह्मणमपनयेत् गर्भैकादशे राजन्यम् गर्भद्वादशे वैश्यम्”। अत एव “अष्टमे वर्षे ब्राह्मणमुपनयेत् १ गर्भाष्टमे वा २। एकादेशे क्षत्रियम् ३। द्वादशे वैश्यम् ४। आश्व० सूत्र वृत्तौ “जन्मप्रभृत्यष्टमे वर्षे ब्राह्मणमुपनयेत् १। गर्भप्रभृत्थष्टमे वा २। जन्मप्रभृति गर्भप्रभृति वा एकादशवर्षे क्षत्रियमुपनयेत् ३। जन्मप्रभृति गर्भप्रभृति वा द्वादशेवर्षे वैश्यम् ४ इति नारायणोपाध्यायः। शङ्खोऽप्याह। “गर्भाष्टमाव्दे कर्त्तव्यं ब्राह्मणस्योपनायनम्। गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः”। तत्रापि गर्भाष्टमादिरेव मुख्यःकालः अत एव मनुना यथाकुलमित्य नेन जन्मतोऽष्टमादीनां कुलानुसारेण ग्राह्यतामात्रमुक्तम्। तेनास्य कुलानुसारेण उभयोरपि मुख्यतेत्यपरे आहुः। अतएवानयोः प्रशंसापि दृश्यते। “प्राप्ते गर्भाष्टमे वर्षे शुद्धिर्यस्य न विद्यते। तस्योपनयनं कार्य्यं चैत्रे मीनगते रवौ” व्यवहारचमत्कारः। “शुविर्नैव गुरुर्यस्य वर्षे प्राप्तेऽष्टसे यदि। चैत्रे मीनगते भानौ तस्योपनयनं शुभम्” नि० सि० स्मृ०। अत्र शुद्धिश्च “रबिगुरुशुद्धौ व्रतोद्वाहौ” इत्युक्ता रविगुर्वोर्गोचरश्रुद्धिः। किञ्च “अष्टमैकादशे चैव द्वादशाव्दे व्रतस्य च। मुख्यं कालं विजानीयाद् ब्रह्मक्षत्रविशां क्रमात्” वचने अष्टमादिवर्षाणां वर्ण्णभेदेन मुख्यत्वमाह। “गर्भाष्टमेषु ब्राह्मणमुपनयेत गर्भैकादशेषु क्षत्रियस्य गर्भद्वादशेषु वैश्यम्” गोभिलः “व्यक्तमाह माण्डव्यः “व्रतबन्धविवाहे च वत्सरपरिगणन माहुराचार्य्याः। आधानपूर्व्वमेके प्रसूतिपूर्वं सदान्ये तु”। काम्यकालः। “ब्रह्मवर्चसकामस्य कुर्याद्विप्रस्य पञ्चमे। राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे” मनुः। “षष्ठे तु बलकामस्य विद्याकामस्य सप्तमे। अष्टमे सर्वकामस्य, नवमे कान्तिमिच्छतः” नि० सि० विष्णुः। अथ काम्यानि, सप्तमे ब्रह्मवर्चसकामम्, अष्टमे आयुष्कामं नवमे तेजस्कामं दशमेऽन्नाद्यकामम्, एकादशे इन्द्रियकामम्, द्वादशे पशुकामम् उपनयेत्” पैठो०। गौणकालोऽपि द्विविधः मध्यमोऽधमश्च स्वल्पाधिकप्रायश्चित्तनिमित्तताभेदात्। ब्रह्मक्षत्रियविशामुपक्रमे “द्वादश षोडश विंशतिश्चेदतीता अवरुद्धकालाभवन्ति” पैठी०। ब्राह्मणस्य द्वादशवर्षात् क्षत्रस्य षोडशाव्दात् वैश्य स्य विंशत्यव्दात् उत्तरं अवरुद्धकालतादोषश्रवणात् तत्र महाव्याहृतिहोमरूपं प्रायश्चित्तं विप्रादेः षोडशाद्यतीतत्वे चान्द्रायणादि गुरु प्रायश्चित्तमिति भेदः एवमेव सं० त० रघु०। तथा च गौणकालमध्ये द्वादशाब्दादयो मध्याः तदुत्तरमधम इति भेदः तत्राधमगौणस्तु। “आषोडशाद् ब्राह्मणस्य सावित्री नाति वर्त्तते। आ द्वाविंशात् क्षत्रबन्धोरा चतुर्विंशतेर्विशः” मनुः “आ षोडशाब्दात् द्वाविंशाच्चतुर्विंशाच्च वत्सरात्। ब्रह्मक्षत्रविशां काल औपनायनिकः परः” या० स्मृ०। तत्र आ इत्यस्य सर्वत्रान्वयः आङ् चात्राभिविधौ न मर्यादायाम् “षोडशाव्दो हि विप्रस्य राजन्यस्य द्विविंशतिः। विंशतिः सचतुर्थी च वैश्यस्य परिकीर्त्तिता” विष्णुध० उक्तेः। अतः षोडशाद्यव्दानामुपनयकालता। “अत ऊर्द्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः। सोवित्रीपतिताः व्रात्या भवन्त्यार्य्यविगर्हिताः” मनुः। अत्र सर्वत्र गर्भावधिषोडशादव्दाग्राह्याः “सावित्री पतिता यस्य दश वर्षाणि पञ्च च। ब्राह्मणस्य विशेषेणेति” यमवचने पञ्चदशवर्षातिक्रमे गुरुपायश्चित्तविधानात्” एतच्च जन्मावधिपरं तेन षोडशाव्दादिभिः सममवविरुद्धम् एवमेव सं० त० रघु०। पञ्चदशपदञ्च द्विमासाधिकपञ्चदशपरमिति कल्प्यते सर्वसामञ्जस्यात् अतएव “पञ्चदशवर्षादूर्द्धमपि कियत्कालातिक्रमे तूद्दालकव्रतमिति” वदता मिताक्षराकृता तथैव सूचितम्।

एवं तत्तर्ण्णभेदेन सामान्यकाले निरूपिते इदानीं शुभमूचक विशेषकालोऽभिधीयते। तत्रादौ वर्णभेदेन ऋतुभेदस्य मुख्यता यथा ह प्रमि० कश्यपः। “ऋतौ वसन्ते विप्राणां गीष्मे राज्ञां शरद्यथो। विशां मुख्यञ्च सर्व्वेषां द्विजानाञ्चोपरायनम्”। नारदः “शरद्ग्रीष्मवसन्तेषु व्युत्क्रमाच्च द्विजन्मनाम्। मुख्यं साघारणं तेषां व्रतं माघादिपञ्चसु”। नि० सि० गर्गः। “विप्रं वसन्ते क्षितिपं निदाघे वैश्यं घनान्ते व्रतिनं निदध्यात्। माघादिशुक्रान्तकपञ्चमासाः साधारणं वा सकलद्विजानाम्”। शुक्रोज्यैष्ठः। माघादिमासप्राशस्त्यमाह हेमाद्रौ ज्योतिषे”। “माघादिषु च मासेषु मौञ्जी पञ्चसु शस्यते”। अन्यत्रापि। “ब्राह्मणक्षत्रवैश्यानां माघादिष्वपि पञ्चसु। साधारणं तु सर्व्वेषां व्रतोपनयनं विदुः”। तत्र मासभेदे फलभेदः यथाह व्यव० च० सुरेश्वरः”। “माघे मासि भहागुणोधनपतिः प्राज्ञोधनी फाल्गुने मेधावी भवति व्रतोपनयने चैत्रे च वेदान्वितः। वैशाखे सुभगः सुखी पटुमतिर्ज्यैष्ठे वरिष्ठोबुधोऽप्याषाढेऽपि महाविपक्षविजयी ख्यातो महापण्डितः”। कृत्यचि० “माघे द्रविणशीलाढ्यः फाल्गुने च दृढव्रतः। चैत्रे भवति मेधावी वैशाखे कोविदोभवेत्। ज्यैष्ठे गहननीतिज्ञ आषाढे कतुभाजनम्। शेषेष्वन्येषु रात्रिः स्यान्निषिद्धं निशि च ब्रतम्”। निषिद्धमिति विप्रक्षत्रियविषयं न वैश्य परं तस्य “शरदि वैश्यमिति” श्रुत्या प्रागुक्तकाश्यपेन च शरय्युपनयनविधानात्। यत्तु “विप्रस्य क्षत्रियस्यापि व्रतं स्यादुत्तरायणे। दक्षिणे च विशां कार्य्यं नानध्याये न संक्रमे” इति गर्गवचने चकारात् विप्रक्षत्रयोर्दक्षिणायने उपनयविधानं तत् प्रायश्चित्तोपनयनपरनितिं स० त० रघु०। वस्तुतः चस्त्वर्थे दक्षिणायने तु वैश्यस्य मुख्योपनयनपरम् “उदगयने आपूर्य्यमाणे पक्षे कल्याणे नक्षत्रे चूडोपनयनगोदानविवाहाः” आश्व० सूत्रं तु विप्रक्षत्रविषयम्। प्रायश्चित्तोपनयनपरत्वे “नानध्याये न संक्रमे” इति पर्य्यृदासानुपपत्तिः अग्रे प्रदर्शयिष्याणगर्गवचनेन प्रायश्चित्तोपनयनस्यानध्यायेऽपि कर्त्तव्यतावगमात्। “जन्मलग्ननक्षत्रमासराशिषु उपनयनप्राशस्त्यमाह” कृत्यचि० लल्लः। “जन्मोदये जन्मसु तारकासु मासेऽथवा जन्मनि जन्मभे वा। व्रतेन विप्रो न बहुश्रुतोऽपि विद्याविशेषेः प्रथितः पृथिव्याम्”। “विवाहे मेखलावन्धे जन्ममासं विवर्ज्जयेत्। विशेषाज्जन्मपक्षन्तु वशिष्ठाद्यैरुदाहृतम्” गर्गवाक्यं तु क्षत्रियवैश्यपरम् न तु ब्राह्मणविषयं लल्लवाक्यविरोधात्”। अथ पक्षनिर्ण्णयः व्य० च०। “श्रेष्ठं पक्षमुशन्ति शुक्लमसितस्याद्यं त्रिभागं तथा रिक्तां प्रोज्झ्य तिथिं तथा त्वयनयोः सन्धिञ्च शेषाः शुभाः” इति आपूर्य्यमाणे पक्षे इत्यादिप्राप्रक्ताश्वलायनसूत्रम् “पक्षे च कृष्णेतरेः” भुजबलभीमः। तिथिनिर्णयः। निर्णया० “तृतीयैकादशी ग्राह्या पञ्चमी द्वादशी तथा”। “द्वित्रीषु रुद्ररविदिक्प्रमिते तिथौ च कृष्णादिमत्रिलवकेऽपि न चापराह्णे” मु० चि०। निर्ण्णया० व्यव० चम०। “न च षष्ठ्यामथाष्टम्यां पञ्चदश्यां न पर्व्वणि। रिक्तासु च न कर्त्तव्यं त्र्यहस्पृग्दिवसे तथा”। अष्टमीपञ्चदश्योरनध्य। यत्वेऽपि पृथगुपादानं नैमित्तिकविषयमेवमग्रेऽपि। “षष्ठ्यामशुचिर भार्य्यो रिक्तासु बहुदोषभाक्” सं० त०। “रिक्तायाभर्थहानि स्यात् पौर्ण्णमास्यान्तथैव च। प्रतिपद्यपि चाष्टम्यां कुल वुद्धिविनाशनमिति”। अन्यत्रापि “सप्तम्यामष्टम्याम्प्रति पदि रिक्तात्रयोदश्याम्। आयुर्व्विद्यानाशोब्रतवन्धे पञ्चदश्याञ्च”। “द्वितीया पञ्चमी षष्ठी सप्तमी दशमी तथा। त्रयोदशी तृतीया च शुक्ले श्रेष्ठोः प्रकीर्त्तिता” इत्यत्र ससप्तमीत्रयोदश्योर्यंत् प्राशस्त्यमुक्तं तद्वसन्ताभिप्रायेण। नि० सि० नारदेन व्यतिरेकमुखेण वसन्ते गलग्रहादिप्रतिप्रसवोक्तेः। यथा “विनर्त्तुना वसन्तेन कृष्णपक्षे गलग्रहे। अपराह्णे चोपनीतः पुनः संस्कारमर्हति”। गलग्रहमाह मदनरत्ने नारदः। “कृष्णपक्षे चतुर्थी च सप्तम्यादिदिनत्रयम्। त्रयोदशी चतुष्कञ्च अष्टावेते गलग्रहाः”। रा० मा० “आरम्भानन्तरं यत्र प्रत्यारम्भोन विद्यते। गर्गादिमुनयः सर्व्वे तमेवाहुः गलग्रहम्”। दैवज्ञमनोहरे। “प्रदोषे निश्यनध्याये सन्ध्यागर्ज्जे गलग्रहे। मधुं विनोपनीतस्तु पुनः संस्कारमर्हति”। एवं दिवाचतुर्द्ददीगस्त्रयोदृश्यां यदा भवेत्। द्वादशी तत्र वर्ज्ज्या स्यात् गलग्रहतया मतेति ज्यो० वचनात् तादृशद्वादश्यावर्ज्यता। वृद्धगर्गः। “स्मृतिषूक्तान ध्यायान् सप्तमीञ्च त्रयोदशीम्” वर्जयेदित्यनुषङ्गः। तत्रानध्यायप्रदोषकालौ अनध्यायशब्दे १४५ पृ० दर्शितौ “अनध्याययेऽपि कर्त्तव्यं यस्य नैमित्तिकं भवेत्” वृद्धगर्गवचनात् “प्रायश्चित्तोपनयनेऽनध्यायस्य न दूषकताऽपिकारात् कृष्णपक्षगलग्रहायीः समुच्चयः। “नो जीवास्तातिचारे सितगुरुदिवसे कालशुद्धौ व्रतं सत्” दीपिकोक्तेः समयाशुद्धिमात्रं वर्ज्जनीयम्। गुरुशुक्रास्तादिषूपनयने दोष- माह तत्रैव। “अस्तङ्गते दैत्यगुरौ गुरौ वा ऋक्षेऽपि वा पापयुतेऽप्यनुक्ते। व्रतोपनीतो दिवसैः प्रणाशं प्रयाति देवैरपि–रक्षितोयः”। नक्षत्रनिर्णयः सं० त० भुजब० “स्वातीशक्रधनाश्विमित्रकरभे पौष्णेज्यचित्राहरिष्विन्दौ तोयपतौ भगे दितिसुते भाद्रद्वये सागरे” १५, १८, २३, १, १७, १३, २७, ८, १४, २२, ५, २४, ११, १२, २५, २६, २० एतत्संख्यकेषु सप्तदशसु नक्षत्रेषु उपनयनं सत्। मु० चि० प्रमि० विशेषः “क्षिप्रध्रुवाहिचरमूलमृदुत्रिपूर्वारीद्रेऽर्कविद्गुरुसितेन्दुदिने व्रतं सत्” अस्य व्याख्या प्रमि० “प्राजापत्यादि षडृक्षे भगर्क्षादिषु पञ्चसु। मूलादिदशके चैव समैत्रे व्रतबन्धनम्”। तेन २२ द्वाविंशतिर्नक्षत्राणि विहितानि। अत्र पुनर्वसुग्रहणं क्षत्रियवैश्यविषयं न तु ब्राह्मणविषयम् “पुनर्वसौ कृतोविप्रः पुनः संस्कारमर्हतीति राजमा०। “त्र्यहस्पृशि मले मासि शूद्रत्वमधिगच्छति। पुनर्वसौ कृतोविप्रः पुनः संस्कारमर्हतीति” सारसंग्रहे” च विप्रोपनयननिषेधात्। तथा च “भरणीकृत्तिकामघाविशाखाज्येष्ठासूपनयनं न कार्य्यम् एतानि नक्षत्राणि च सर्वशास्वामलयप्रायाणि यथोक्तं तत्रैव “भरणी कृत्तिकापित्र्यविशाखाशक्रभानि च। सर्वशाखामलं प्रोक्तं व्रतं तत्र विवर्ज्जयत्”। वेदिभेदे नक्षत्रभेदो यया ज्योतिर्निबन्धे व्यव० च० च। “मूलहस्तात्रये सार्पे शैवे पूर्वात्रये तथा। “ऋग्वेदाध्यायिनां कार्यं मेस्वलाबन्धनं बुधैः” १९, १३, १४, १५, ९, ६, ११, २०, २५, एतन्मितानि ऋग्वेदिविषयाणि “पुष्ये पुनर्वसौ पौष्णे २७ हस्ते मैत्रे १७ शशाङ्कभे ५। ध्रुवेषु १२, २१, २६, ४ च प्रशस्तं स्याद्यजुषां मौञ्जीबन्धनम्”। पुष्यपासव २३ हस्ताश्विशिव६ कर्णोत्तरात्रयम् २२, १२, २१, २६। प्रशस्तं मेखलाबन्धे वटूनां सामगायिनाम्”। भगो ११ मैत्रा १७ श्विनीहस्तारेवत्यदिति ७ वासवम् २३। अथर्वपाठिनां शस्तोभगणोऽयं व्रतार्पणे”। नि० सि०। “पूर्वा ११, २०, २५, हस्तात्रये १३, १४, १५, सार्पे ९ श्रुतिमूले” च २२, २९, बह्वृचाम्। यजुषां पौष्णमैत्रार्कादित्यपुष्यमृदुध्रुवैः। सामगानां हरीशार्कवसुपुष्योत्तराश्विनी। धनिष्ठादितिमैत्रार्काश्वेन्दुपौष्णेष्वथर्वणाम्” ५, २७,। अन्यत्रापि। “पूर्वाहस्तत्रयाऽश्लेषाशिवमूलानि भानि च। ऋग्वेदाध्यायिनां शस्तभान्याहुर्ब्रतबन्धने। उत्तरारोहिणीयुग्मपुष्यापौष्णकरादितौ। मेत्रे यजुर्विदाञ्चोपनयनन्तु प्रशस्यते। उत्तराश्रवणार्द्राश्विपुष्याहस्ताधनेषु च। सामगानां व्रतं शस्त मिति वेदविदोविदुः। अश्विनी रेवती हस्ता भगमैत्रधनादितौ। अथर्ब्बवेदिनाञ्चोपनयनन्तु शुभावहमिति” प्रमि० धृतप्रागुक्तवचने ज्येष्ठायामलत्वेनोक्तावपि प्रागुक्तभुज जलादिवचने “अश्विनीमृगचित्रासु हस्ते स्वात्याञ्च शक्रभे। पुष्ये च पूर्व्वफल्गुन्यां श्रवणे पौष्णभे तथा। वासवे शततरासु व्रतबन्धः प्रशस्यते” श्रीपतिवचने च ज्येष्ठायाग्रहणमत्यन्तापद्विषयम्। वेदभेदेन विहित नक्षत्रेषु तस्याः अकीर्त्तनेऽपि वेदभेदेन प्राशस्त्यमात्रत्व प्रतीतेस्तदलाभेऽन्यवेदिविहितनक्षत्रस्यापि ग्रहणार्थं मुहू० चि० द्वाविंशतिनक्षत्राणां सामान्यतो ग्रहणवदत्रापि तथेति बोध्यम्। ज्येष्ठायास्त्वत्यन्तापद्विषय एव ग्राह्यता केष्वपि वेदिषु तदनुक्तेःव्यव० च० गुरुः। “त्रिषूत्तरेषु रोहिण्यां हस्ते मैत्रे च वासवे। त्वाष्ट्रे सौम्यपुनर्वस्वोरुत्तमं ह्यौपनायनम्। वारुणे वैष्णवे पुष्ये वायव्ये पौष्णभे तथा। अश्विन्यां षट्सु भेषूक्तं मध्यमं तु चतुर्मुखैः। शेषेषु वर्जयेद्धीमान् द्विजानामौपनायनम्” अत्रान्येषां वर्ज्ययोक्तिरपि अनापद्विषया” एतदरिक्तनक्षत्राणां प्रागुक्तवचनैर्विहित्वात्। ज्योतिर्निबन्धे नारदः। “श्रेष्ठान्यर्कत्रयान्त्येज्यचन्द्रादित्युत्तरात्रयम्। बिष्णुत्रयाश्विमित्राब्जयोनिभान्युपनायने”। वर्जनीययोगानाह व्यव० च० गुरुः। “व्याघातं परिघं वज्रं व्यनीपातञ्च वैधृतिम्। गण्डातिगण्डौ शूलञ्च विस्कुम्भञ्च विवर्ज्जयेत्” अन्यत्रापि। “विष्कुम्भशूलपरिघव्यतिपातगण्डव्याघातवैधृतियुतं त्वतिगण्ड व्रज्रम्। योगं विहाय कुजमन्दपराह्णसन्ध्यां हित्वा निरं शमशुभञ्च व्रतं प्रशस्तम्” प्रमिता०। “क्षीणचन्द्रेऽस्तगे शुक्रे निरंशे चैव भास्करे। कर्त्तव्यं नोपनयनं नानध्याये गलग्रहे”। निरंशसूर्यमाह तत्रैव। “राशेः प्रथमभागस्थो निरंशः सूर्य उच्यते”। तेन रघुनन्दनेन निरंशशब्दस्य संक्रान्तिपरत्वस्य कल्पनं चिन्त्यम्। वारनिर्णयमाह नारदः। “आचार्य्यसौम्यकाव्यानां वाराः शस्ताः शशीनयोः। वारौ मध्यफलौ प्रोक्तावितरौ निन्दितौ व्रते” तत्राप्यस्तमितस्य बुधस्य वारोवर्जनीयः। “अस्तं गतस्य सौम्यस्य वारो वर्ज्योद्विजन्मनामिति” नारदोक्तेः। अन्यत्र तु। “शुभो बुधोनास्तमितः पापग्रहयुतो न चेति”। चन्द्रवारस्तु कृष्णे वर्ज्जनीयः। “पापग्रहाणां वाराः स्युर्न शुभाश्चन्द्रवासरः। सितपक्षे प्रशस्तः स्यात् कृष्णे वारोविधोनंहीति” व्य० च० उक्तेः। सामागानां कुजवारेऽप्युनयनमुक्तं श्रीपतिना। “शाखाधिपे बलिनि केन्द्रगतेऽथवास्मिन् वारेऽस्य चोपसयनं कथितं द्विजानाम्। नीचस्थितेऽरिगृहगेऽऽथ पराजिते वा जीवेमृगावुपनयः स्मृतिकर्महीनः”। ज्योतिर्निवन्धे नारदः “सर्वषा जीवशुक्र ज्ञवाराः प्रोक्ता व्रते शुभाः। चन्द्रार्कौ मध्य मौ ज्ञेयौ सामब हुजयोः कुजः। शाखाधिपतिवाराश्च शाखाधिपबलं तथा। शाखाधिपतिलग्नञ्च दुर्लभं त्रितयं व्रते”। मु० चि० “शाखेशवारतनुवीर्य्यमतीव शस्तं शाखेशसूर्यशशिजीवबले व्रतं सत्। जीवे भृगौ रि पुगृहे विजितेऽथ नीचे स्याद्वेदशास्त्रविधिना रहितोव्रतेन”। वशिष्ठः “शाखेशगुरुशुक्राणां मौढ्ये बाल्ये च वार्द्धके। नैवोपनयनं कार्य्यं वर्णेशे दुर्बले सति”। तेन भौमबुधयोरस्तादिषु सामगाथर्वणशाखिनोरुपनयनादि न भवतीति गम्यते। तत्र नीचाद्यवस्थितत्वे स्वनवांशस्वोच्चांशस्थितत्वेन शाखेशादेरपवादमाह वशिष्ठः “शत्रुनीचांशशत्रुस्थे स्वांशे वा स्वोच्चभागगे। शाखेशे वा गुरौ शुके न नीचफलमश्नुते”। शाखेशवर्णेशास्तु। “विप्राधी शौ भार्गवेज्यौ कुजार्कौ राजन्यानामोषधीशोविशाञ्च। शूद्राणां ज्ञश्चान्त्यजानां शनिः स्याच्छाखेशाःस्युर्जीवशुक्रारसौम्याः” मु० चि० “ऋग्वेदाऽथ यर्जुर्वेदः सामवेदोह्यथर्वणः। वेदानामधिपोजीवशुक्रभौमबुधाः क्रमात्” गुरुः। “ऋग्वेदाधिपतिर्जीवोयजुर्व्वेदाधिपो भृगुः। सामवेदाधिपो भौमः शशिजोऽथर्व्ववेदराट” दीपिका। लग्नभेदे फलमाह व्यव० च० वशिष्ठः। “मेषे भवति वाक्कुण्ठो वित्तविद्यार्ज्जितो वृषे। युग्मे वेदार्थदर्शी च कुलीरे च षडङ्गवित्। शिल्पकर्म्मकरः सिंहे षष्ठे भवति पण्डितः। तुलायां विनयप्राप्तः काण्डस्पृष्ठोऽथ दृश्चिके। सर्व्वत्र पूजितश्चापे शूद्रवृत्तिर्मृगे तथा। राजप्रेष्यान्वितः कुम्भे मीने वेदान्तपारगः”। लग्नकेन्द्रस्थरव्यादि ग्रहफलमाह मु० चि० “राजसेवी वैश्यवृत्तिः शस्त्रवृत्तिश्च पाठकः प्राज्ञोऽर्थवान् म्लेच्छसेवी केन्द्रे सूर्य्यादिखेचरे” व्यव० च० गुरुः। “रवौ लग्नादिकेन्द्रस्थे दोषः स्फुरितसंज्ञकः। तत्रोपनीतस्य शिशोः कुलनाशो भवेत् तदा, कुजे लग्नादिकेन्द्रस्थे दोषः कूजितसंज्ञकः। तत्रोपनीतं वक्तारं हन्ति वर्षान्न संशयः। शनौ लग्नादिकेन्द्रस्थे दोषोरुदितसंज्ञकः। करोति महतीं पीडां व्रतिनो वा गुरोस्तथा। राहौ लग्नादिकेन्द्रस्थे दोषोरन्ध्राह्वयोभवेत्। व्रातनोजननीं हन्ति चाथबा धनसञ्चयम्। केतौलानादिकेन्द्रस्थे दोषश्च ग्राससंज्ञकः। समग्रं व्रतिनोवृत्ति- वित्तविद्याविनाशनम्”। लग्नषष्ठाष्टमान्त्यस्थः करोत्येव निशाकरः। व्रतिनोदेहमथनं निधनं दुःखसञ्चयम्”। वशिष्ठः “विशेषान्निधनस्थाने ग्रहान्नेच्छन्ति सर्व्वदा। आचार्य्यन्त्वशुभा घ्नन्ति शिष्यं घ्नन्त्यशुभेतराः”। “केन्द्रत्रिकोणगे जीवे भानौ शुक्रेऽथवा व्यये। द्वितीये ज्ञे शुभोयोगो द्विजानामौपनायने”। लग्नावधिकस्थानमेदे ग्रहविशेषस्थितौ फलभेदमाह काश्यपः “षष्ठाष्टमं विना जीवः सर्व्वत्र शुभकृत् सदा। सर्व्वत्र शुभकृच्छुक्रः षष्ठसप्ताष्टमं विना। भास्करोलग्नगः कुर्य्याद्वटुं भूपतिसेवकम्। वसुस्थः स्वर्णरहितं भ्रातृस्थः सुखिनं सदा। बन्धुगोदुःखिनं नित्यं सुतगोमतिवर्ज्जितम्। शत्रुगोरोगरहितं सप्तमे मार्गवर्ज्जितम्। अष्टमे दृष्टिरहितं नवमे धर्म्महारिणम्। व्यापारगोभिषग्वृत्तिं दीर्घायुष्यं तथाऽऽयगः। रिप्फगोहानियुक्तञ्च फलमेतद्गुरावपि। सिते चन्द्रे लग्नसंस्थे शुभं स्यादसितेऽशुभम्। वसुगे स्याद्धनप्राप्तिस्तृतीये सुखसंस्थितिः। चतुर्थे बुद्धिवृद्धिं च पञ्चमे सौख्यमुत्तमम्। षष्ठे तु व्याधिपीडा स्यात् सप्तमे सुखसन्ततिः। अष्टमे निर्धनः प्राणी नवमे धर्म्मसञ्चयः। दशमे स्यात् सदाचारो लाभे स्याद्धनसञ्चयः। दारिद्र्यं रिप्फगे विद्याच्चन्द्रे फलमुदाहृतम्। मृतिर्नाशः सुखं का र्य्यहानिर्वृद्धिर्मृतिर्गदः। अधर्मोदुम्मतिर्वृद्धिर्नाशो लग्नात् कुजे फलम्। बुद्धिर्वृद्धिर्वित्तनाशो लाभः पुत्रोमृतिः सुखम्। आयुःक्षयो धर्मसौख्ये कोषलाभः क्षयः क्रमात् सौम्ये लग्नादिराशीनां फलमेतदुदाहृतम्। निन्दां हानिं सुखं रोगं द्यूतङ्कामं जडं मतिम्। विपत्क्लेशं सुखं मृत्युमुदयात् कुरुते शनिः। चन्द्रे विशेषमाह लल्लः। “पापात् सप्तमगञ्चन्द्रं पापग्रहेण वा युतम्। व्रते विवर्ज्जयेद् यत्नाद्दोषमाहुर्मनीषिणः। तत्फलं तत्रैव “पापग्रहात् सप्तमगं शशाङ्कं पापग्रहेणापि युतञ्च हित्वा। ब्रतं प्रशस्तं मुनयोवदन्ति नोचेत्तदा मृत्युमुपैति शीघ्रम्”। गुरुस्तु। “पापग्रहेक्षिते लग्ने जीवितार्थी न कारयेत्। चन्द्रो वा क्रूरदृग्युक्तो मूढत्वं संप्रयच्छति”। वर्ज्ययोगमाह मु० चि० “कवीज्यचन्द्रलग्नपारिपौ मृतौ व्रतेऽधमाः। व्ययेऽब्जभार्गवौ तथा तनौ मृतौ सुते खलाः”। अन्यत्रापि। “लग्नाघिनाथसितजीव निशाधिनाथान् षष्ठाष्टमे व्ययगतावपि चन्द्रशुक्रौ। लग्नाष्टपञ्चमगतानशुभग्रहांश्च यत्नात् त्यजेद्व्रतविधौ मुनयोवदन्ति”। सारसंग्रहे। “मेखलाबन्धकाले तु सर्व्वदा पञ्चमङ्गृहम्। शुभयुक्तं प्रशंसन्ति तदालोकितमेव वा”। योगान्तरमाह प्रमि० महेश्वरः। “जीवे लग्नमधिष्ठिते भृगुसुते धर्मात्मजस्थे विधौ शुक्रांशेऽखिलवेदविद्रविसुतस्यांशे कृतघ्नोऽधमः”। तत्रैव स एव। “विधौ सितांशगे गुरौ तनौ त्रिकोणगे भृगौ। समस्तवेदविद्व्रती यमांशकेऽतिनिर्घृणः”। नवांशफलमाह व्यव० च० गुरुः। “गुरुज्ञशुक्रांशकगे च चन्द्रे विद्याधनायुःसुखवान् द्विजन्मा। माहेयमन्दार्कनवांशकस्थे हिंस्रो जडो मूर्खतरीऽतिनिःस्वः” मु० चि०। “क्रूरो जडो भवेत् पापः पटुः षट्कर्मकृद्वटुः। यज्ञार्थभाक् तथा मूर्खोरव्याद्यंशे तनौ क्रमात्। विद्यानिरतः शुभराशिलवे पापांशगते हि दरिद्रतरः। चन्द्रे स्वलवे बहुदुःखयुतः कर्णादितिभे धनवान् स्वलवे”। प्रमि० नारदः “श्रवणादितिनक्षत्रे कर्कांशस्थे निशाकरे। तदा व्रती वेदशास्त्रधनधान्यसमृद्धिमान्”। एतच्छुक्लपक्षविषयम् “शुक्ले स्वांशे निशानाथे वित्तवान् यज्ञकृद्भवेत्। कृष्णे स्वांशगतश्चन्द्रोजातिभ्रंशङ्करोति हि” वशिष्ठोक्तेः “रविगुरुशुद्धौ व्रतोद्वाहौ” इत्युक्तेर्व्रते गुरुशुद्धिरावश्यकी। तत्र गुरुशुद्धौ विशेषमाह” मु० चि० “वटुकन्याजन्मराशेस्त्रिकोणायद्विसप्तगः। श्रेष्ठोगुरुः ख षट्त्र्याद्ये पूजयाऽन्यत्र निन्दितः”। “स्वोच्चे स्वमे स्वमैत्रे वा स्वांशे वर्गोत्तमे गुरुः। रिप्फाष्टतुर्य्यगोऽपीष्टो नीचारिस्थः शुभोऽप्यसन्” अत्र जीवस्य नीचस्थत्व इव अरिगृहस्थत्वेऽपि वर्ज्यता प्रतीयते अतएव “जन्मभादष्टमे सिंहेनीचे वा शत्रुभे गुरो! मौञ्जीबन्धः शुभः प्रोक्तश्चैत्रे मीनगते रवाविति” निर्णयसिन्धुधृतवचने मीनगतरविकालएव प्रतिप्रसवसार्थक्यम्। एतेन “शाखाधिपे बलिनि” इत्यादिवाक्ये उपक्रमे शाखाधिपश्रवणात् गुरोररिगृहस्थत्वे तस्य ऋग्वेदाधिपतया तद्वेदिनामेवोपनयननिषेधकल्पनमपि निरस्तम् “शाखेशसूर्य्यशशिजीवबले” इत्यादिप्रागुक्तवचने शाखेशात् पृथक्त्वेन जीवस्य ग्रहणेनारिगृहस्थत्वेऽपि सर्ववेदिनां दोषस्यावश्यकत्वात् एतेन “नीचस्थितेऽरिगृहगेऽथ पराजिते वा जीवे भृगौ” इत्यादिवचने क्रमान्वयं वदन् परास्तः तथात्वे प्रतिप्रसवानर्थक्यापत्तेः। अन्यदाकरे दृश्यमिति दिक् तत्तद्विद्याग्रहणार्थे ३ कर्म्मभेदे तत्र चिकित्साविद्याङ्गो पनयनप्रकारो दर्शितः सुश्रुतेन यथा।

“अथातः शिष्योपनयनीयमध्यायं व्याख्यास्यामः। ब्राह्मणक्षत्रियवैश्यानामन्यतममन्वयवयःशीलशौर्यशौचा- चारविनयशक्तिबलमेधाधृतिस्मृतिमतिप्रतिपत्तियुक्तं तनुजिह्वौष्ठदन्ताग्रमृजुवक्त्राक्षिनासं प्रसन्नचित्तवाक्चेष्टं क्लेशसहञ्च भिषक् शिष्यमुपनयेत्। ततो विपरीतगुणं नोपनयेत् उपनयनीयस्तु ब्राह्मणः प्रशस्तेषु तिथिकरणमुहूर्त्तनक्षत्रेषु प्रशस्तायां दिशि शुचौ समेदेशे चतुर्हस्तं चतुरस्रं स्थण्डिलमुपलिप्य गोमयेन दर्भैः संस्तीर्य पुष्पैर्लाजभक्तैरत्नैश्च देवतां पूजयित्वा विप्रान् भिषजश्च, तत्रोल्लिख्याभ्युक्ष्य च दक्षिणतो ब्रह्माणं स्थापयित्वाग्निमुपसमाधाय खदिरपलाशदेवदारुविल्वानां समिद्भिश्चतुर्णां वा क्षीरवृक्षाणां न्यग्रोधोडुम्बराशात्थमधूकानां दधिमधुघृताक्ताभिः, दर्व्व्या हौमिकेन विधिना स्रुवेणाज्याहुतीर्जुहुयात्। सप्रणवाभिर्महाव्याहृतिभिस्ततः प्रतिदैवतमृषींश्च स्वाहाकारञ्च कुर्यात् शिष्यमपि कारयेत्। ब्राह्मणस्त्रयाणां वर्णानामुपनयनं कर्त्तु मर्हति राजन्यो द्वयस्य, वैश्यो वैश्योस्यैवेति। शूद्रमपि कुलगुणसम्पन्नं मन्त्रवर्जमनुपनीतमध्यापयेदित्येके। ततोऽग्निं त्रिःपरिणीयाग्निसाक्षिकं शिष्यं ब्रूयात्। कामक्रोधलोभमोहमानाहङ्कारेर्ष्यापारुष्यपैशुन्यानृतालस्यायशस्यानि हित्वा नीचनखरोम्णा शुचिना कषायवाससा सत्यव्रतब्रह्मचर्याभिवादनतत्परेणाऽवश्यं भवितव्यं मदनुमतस्थानगमनशयनासनभोजनाध्ययनपरेण भूत्वा मत्प्रियहितेषु वर्त्तितव्यमतोऽन्यथा ते वर्त्तमानस्याधर्मो भवत्यफला च विद्या न च प्राकाश्यं प्राप्नोति। अहं वा त्वयि सम्यग्वर्त्तमाने यदन्यथादर्शी स्यामेनोभाग्भवेयमफलविद्यश्च। द्विजगुरुदरिद्रमित्रप्रब्रजितोपनतसाध्वनाथाभ्युपगतानां चात्मबान्धवानामिव स्वभेषजैः प्रतिकर्त्तव्यमेवं साधु भवति। व्याधशाकुनिकपतितपापकारिणां न च प्रति कर्त्तव्यमेवं विद्या प्रकाशते मित्रयशोधर्मार्थकामांश्च प्राप्नोति” एवं धनुर्विद्याग्रहणाङ्गमप्युपनयनं द्रष्टव्यम्। उपनयनाय हितम् छ। उपनयनीय उपनयनावेदके शास्त्रे त्रि० तत्र साधु छ। उपनयनीय उपनयनकारके गुरौ पु०। उभयस्य उदा० उक्त सुश्रुतवाक्ये दर्शितम्।

उपनहन = न० उप + नह–बन्धने भावे ल्युट्। १ बन्धने करणे ल्युट्। २ बन्धनसाधने वस्त्रादौ। “प्रेष्यति च सोमोपनहनमाहर” कात्या० ७, ७, १। सोम उपनह्यते बध्य ते येन तत् सोमोपनहनं वासः” कर्कः। “आसन्द्यैनमवभृतं हृत्वाभ्युक्ष्य सोमोपनहनेन” कात्या० २२, ६, १३। “अथ संप्रेष्यति सोमोपनहनमाहर” यजमानो वा सोसोपनहनमादत्ते” शत० ब्रा० ३, ३, २, ३, ४।

उपनागरिका = स्त्री “माधुर्य्यव्यञ्जकैर्वर्ण्णैरुपनागरिकेष्यते” इत्युक्तलक्षणे व्र्त्त्यनुप्रासवृत्तिभेदे। यथा “अपसारय घनसारं कुरु हारं दूरएव किं कमलैः। अलमालि! मृणालैरिति वदति दिवानिशं बाला”।

उपनामुक = त्रि० उप + नम–बा० उकञ्। १ सन्नमनशीले २ फलानुगुण्याय प्रस्तुते “यदिष्टिभिर्यजेतोपनामुक एनं यज्ञः स्यात् यमाप्नोत्युपनामुक एनम्” शत० ब्रा० १३, ३, ६, ६, ७।

उपनाय = पु० उपनाययति उप + नी–णिच् करणस्य कर्त्तृत्वविवक्षायाम् कर्त्तरि अच्। उपनयसंस्कारे हेम० तस्य आचार्य्यसमीपनयनसम्पादनकरणत्वात्तथात्वम्।

उपनायक = पु० उपगतोनायकम् अत्या० स०। १ नायकसदृशे उपपतौ “नायकस्य गुणोत्कर्षकथका उपनायकाः” संगीतोक्ते २ नायकसहायभेदे उप + नी–ण्वुल्। ३ उपस्थापके त्रि० ज्ञानलक्षणारूपसन्निकर्षे पु०। उपनयशब्दे उदा०।

उपनायन = न० उप + नी–स्वार्थे–णिच्–ल्युट् करणे कर्त्तृत्वविवक्षायां कर्त्तरि नन्द्या० ल्यु वा। उपनयसंस्कारे। उपनयनशब्दे बहुप्रयोगो दृश्यः। “व्राह्मणस्योपनायनम्” मनुः। उपनायनं प्रयोजनमस्य ठक्। औपनायनिक उपनयनप्रयोजने विधाने त्रि०। “एष प्रोक्तो द्विजातीनामौपनायनिकोविधिः” मनुः औपनायनिक इत्यत्र कूल्लू० अनुशतिकादिकादित्वकल्पनमनाकरमेव उपनाथनशब्देनैव तद्रूपसिद्धेस्तथाकल्पनानौचित्यात्।

उपनाह = पु० उप + नह–घञ्। १ वीणायास्तन्त्रीबन्धनस्थाने, १ व्रणाद्युपशमार्थं लेपनद्रव्ये च। “आदौ विम्लापनं कुर्य्यात् द्वितीयमवसेचनम्। तृतीयमुपनाहञ्च चतुर्थीं पाटनक्रियाम्” “शीफयोरु पनाहन्तु कुर्य्यादामविदग्धयोः” “तिलोपनाहं कुर्य्याच्च सर्वदा वातरोगिणाम्” “शाल्वणमुपनाहार्थे बलातैलमनुवासनार्थे” इति च सुश्रुतः।

उपनाहन = न० उप + नह–स्वार्थे णिच्–भावे ल्युट्। प्रले पादिबन्धने “प्रशमयेत् स्नेहस्वेदोपनाहनैः”। “वेशवारैः सकृशरैः स्निग्धैः स्यादुपनाहनम्” सुश्रुतः।

उपनिक्षेप = पु० उप + नि–क्षिप–कर्मणि घञ्। १ रूपसंख्याप्रदर्शनेन रक्षणार्थं परस्य हस्ते निहिते द्रव्ये “आधिसीमोपनिक्षेपजडबालधनैर्विना। तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि” या० स्मृ०। “उपनिक्षेपो नाम रूपसंख्याप्रदर्शनेन रक्षणार्थं निहितमिति” मिता० भावे घञ्। २ तथाऽर्पणे।

उपनिधातृ = त्रि० उप + नि + धा–तृच्। उपनिधित्वेनान्य- समीपे १ स्वद्रव्यस्थापके २ स्थापकमात्रे च। “पाणिभ्यामुपनिधाता सूत्यं देवाः” शत० ब्रा० १, १, २, १७। उप + नि + धा–ण्वुल्। उपनिधायकोऽप्यत्र।

उपनिधान = न० उप + नि + धा–भावे ल्युट्। उपनिधित्वेन १ स्थापने “उपनिधानमुपनिधिः” मिता०। २ समीपे स्थापने “कृदभिहितोभाब” इत्याद्युक्तेः उपनिधीयमाने ३ द्रव्ये च।

उपनिधि = क० उप + नि + धा–भावे कि। रूपसंख्ये अप्रदर्श्य परस्यान्तिके रक्षणार्थं १ स्वधनस्थापने “कृदभिहितोभावोद्रव्यवत् प्रकाशत” इत्युक्तेः तथा निधीयमाने २ द्रव्ये च। उपनिघिस्वरूपतत्रत्यकर्त्तव्यविशेषौ मिता० दर्शितौ यथा “वासनस्थमनाख्याय हस्तेऽन्यस्य यदर्प्यते। द्रव्यन्तदौषनिधिकं प्रतिदेयं तथैव तत्” सा० स्मृ०। “निक्षेपद्रव्यस्याधारभूतन्द्रव्यान्तरं वासनङ्करण्डादि तत्स्थं यद्द्रव्यं रूपसंख्यादिविशेषमनाख्यायाकथयित्वा मुद्रितमन्यस्य हस्ते रक्षणार्थं विश्रम्भादर्प्यते तद्दव्यमौपनिधिक मुच्यते यथाह नारदः। “असंस्थातमविज्ञातं समुद्रं यन्निधीयते। तज्जानीयादुपनिधिं निक्षेपङ्गणितं विदुरिति” प्रतिदेयन्तथैव तत् यस्मिन् स्थापितन्तेनैव पूर्बमुद्रादि चिह्नितमर्पितन्तथैव स्थापकाय प्रतिदेयं प्रत्यर्पणीयम्। प्रतिदेयमित्यस्यापवादमाह” मिता०। “न दाप्योऽपहतन्तन्तु राज दैविकतस्करैः” या० स्मृ० “तमुपनिधिंराज्ञा दैवेनोदकादिना तस्करैर्वोपहतं नष्टं न दाप्योऽसौ राज्ञा तदुपनिहितन्धनि न एव तद्द्रव्यम् नष्टं यदि जिह्मकारितं न भवति यथाह नारदः। “गृहीतुः सह योऽर्थेन नष्टोनष्टः स दायिनः। दैवराजकृते तद्वन्न चेत्तज्जिह्मकारितमिति” मिता०। अस्याप वाद माह। “भ्रेषश्चेन्मार्ग्गितेऽदत्ते दाप्योदण्डञ्च तत्समम्” या० स्मृ०। “स्वामिना मार्ग्गिते याचिते यदि न ददाति तदा तदुत्तरकालं यद्यपि राजादिभिर्भ्रेषोनाशः सञ्जातस्तथापि तद्द्रव्यं मूल्यकल्पनया धनिने ग्रहीता दाप्यो राज्ञे च तत्समन्दण्डम्। भोक्तारम्प्रति दण्डमाह” मिता०। “आजीवन् स्वेच्छया दण्ड्योदाप्यस्तं वापि सोदयम्” या०। “यःस्वेच्छया स्वामिनमनुज्ञाप्य उपनिहितन्द्रव्यमाजीवत्युपभुङ्क्ते व्यवहरति वा प्रयोगादिना लाभार्थमसावुपभोगानुसारेण दण्ड्यस्तञ्चोपनिधिं सोदयमुपभोमे सवृद्धिकं व्यवहारे स लाभन्धनिने दाप्यः। वृद्धिप्रमाणञ्च कात्ययनेनोक्तम्। “निक्षेपं वृद्धिशेषञ्च क्रयं विक्रयमेव च। याच्यमानो न चेद्दद्याद्वर्द्धते पञ्चकं शतमिति”। एतच्च भक्षिते द्रष्टव्यम्। उपेक्षाऽज्ञाननष्टे तेनैव विशेषो दर्शितः “भक्षितं सोदयं दाप्यः समन्दाप्य उपेक्षितम्। किञ्चिन्न्यूनं प्रदाप्यः स्याद्द्रव्यमज्ञाननाशितमिति”। किञ्चिन्न्यूनमिति चतुर्थांशहीनम्” मिता०। “एष एव विविर्दृष्टो याचितान्वाहितादिषु। शिल्पिषूपनिघौ न्यासे प्रतिन्यासे तथैव च” नारदः। “स जातमात्रान् पुत्रांश्च दारांश्च भवतामिह। प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितोगतः” भा० आ० १२६ अ०। उपनिधिमधिकृत्य प्रवृत्तम् तदस्य प्रयोजन मिति वा ठक्। औपनिधिक तदधिकारेण प्रवृत्ते व्यवहारे तत्साधनद्रव्ये च।

उपनिपात = पु० उप + नि–पत–घञ्। १ समीपे आगतौ २ हठादागमने “कृततार्क्ष्योप्रनिपातवेगशङ्कः” किरा०।

उपनिपातिन् = त्रि० उप + नि–पर–णिनि। १ हठादागते अतर्कितोपगतियुक्ते “रन्ध्नोपनिपातिनोऽनर्थाः”।

उपनिबन्धन = न० उप + नि + बन्ध–करणे ल्युट्। १ सम्पादनसाधने। “प्रत्ययोपनिबन्धनः” सर्व्वद० मावे ल्युट्। २ ग्रथने

उपनिमन्त्रण = न० उप + नि + मन्त्र–ल्युट्। उपेत्य आवश्यके कर्म्मणि प्रवर्त्तनाव्याररूपे निमन्त्रणे।

उपनिवपन = न० उप + नि + वप–ल्युट्। अग्निप्रणयनकर्म्माङ्गभूते इष्माभ्याधानादिव्यापारे” ओपनिवपनात् कृत्वा हविर्धाने स्थापयति” ८, ३, २१। “ओपनिवपनात् “इष्माभ्याधानादि उपयमन्युपनिवपनान्तमग्निप्रणयनाख्यं कर्म्म कृत्वा” कर्कः।

उपनिवेशित = त्रि० उप + नि + विश–णिच्–क्त। १ निवासिते २ वसतिविशेषरूपेण स्थापिते च। “स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता” कुमा०। ३ निवेशितमात्रे च।

उपनिषद् = स्त्री उपनिषीदति प्राप्नोति ब्रह्मात्मभावोऽनया उप + नि–सद–क्विप्। १ ब्रह्मविद्यायां, २ तत्प्रतिपादके वेदशिरोभागे वेदान्ते च। वृ० भा० उपनिषच्छब्दार्थव्युत्पत्तिर्दर्शिता यथा। “सेथं ब्रह्मविद्योपनिषच्छब्दवाच्या तत्पराणां सहेतोः संसारस्यात्यन्तावसादनम् उपनिपूर्व्वस्य सदेस्तदर्थत्वात् तादर्थ्याद्ग्रन्थोऽप्युपनिषयुच्यते। मुण्ड० भा० “यथा य इमां ब्रह्मविद्यामुपयन्त्यात्मभावेन श्रद्धाभक्तिपुरःसराः सन्तस्तेषां गर्भजन्मजरारोगाद्यनर्थपूगं निशातयति परं वा व्रह्म गमयति अविद्यादिससारकारणञ्चात्यन्तमवसादयति विनाशयतीत्युपनिषद् उपनिपूर्ब्बस्य सदेरेवमर्थस्मरणात्। “अत्र चोपनिषच्छब्दो ब्रह्मविद्यैकगोचरः। तच्छब्दावयवार्थस्य विद्यायामेव सम्भवात्। उपोपसर्गः सामीप्ये तत्प्रतीचि समाप्यते। सामीप्यतारतम्यस्य विश्रान्तेः स्वात्मनीज्ञणात्। त्रिविधस्य सदर्थस्य निशब्दोऽपि विशेषणम्। उपनीय तमात्मानं ब्रह्मापास्तद्वयं यतः। निहन्त्यविद्यां तज्जञ्चतस्मादुपमिघद्भवेत्। निहत्यानर्थमूलं स्वाऽविद्यां प्रत्यक्तया परम्। नयत्यपास्तसम्भेदमतोवोपनिषद्भवेत्। प्रवृत्तिहेतून्निःशेषांस्तन्मूलोच्छेदकत्वतः। यतोऽवसादयेद्विद्या तस्मादुपनिषद्भवेत्। यथोक्तविद्याहेतुत्वाद्ग्रन्थोपि तदभेदतः। भवेदुपनिषन्नामा लाङ्गलं जीवनं यथेति” तस्यानिकृष्टार्थआचार्य्यैर्दर्शितः। उपनिषद्भेदाश्च मुक्तकोपनिपदि दर्शिता यथा। “१ ईशा २ केन ३ कठ ४ प्रश्न ५ मुण्ड ६ माण्डूक्य ७ तित्तिरिः। ८ ऐतरेयञ्च ९ छान्दोग्यं १० वृहदारण्यकं तथा। ११ ब्रह्म १२ कैवल्य १३ जावाल १४ श्वेताश्वो १५ हंस १६ आरुणिः। १७ गर्भो १८नारायणो १९ हंसो २० विन्दु२ २१ र्नाद३ २२ शिरः४ २३ शिखा। २४ मैत्रायणी २५ कौषितकी २६ वृहज्जावाल २७ तापनी। १८ कालाग्निरुद्र २९ मैत्रेयी ३० सुवाल ३१ क्षुरि ३२ मन्त्रिका। ३३ सर्वसारं ३४ निरालम्बं ३५ रहस्यं ३६ वज्रसूचिकम्। ३७ तेजो ३८नादो ३९ ध्यान ४० विद्या ४१, ४२ योगतत्त्वात्मबोधकम्। ४३ परिब्राट् ४४ त्रिशिखी ४५ सीता ४६ चूडा ४७ निर्वाण ४८ मण्डलम्। ४९ दक्षिणा ५० शरभं ५१ स्कान्दं ५२ महानारायणाह्वयम्। ५३ रहस्यं ५४ रामतपनं ५५ वासुदेवञ्च ५६ मुद्गलम्। ५७ शाण्डिल्यं ५८ पैङ्गलं ५९ भिक्षु ६०६१ र्महच्छारीरकं शिखा६२। ६३ तुरीयातीत ६४ संन्यास ६५ परिव्राजा ६६ऽक्षमालिका। ६७ अव्यक्तै ६८ काक्षरं ६९ पूर्णा ७० ७१ सूर्याक्ष्य ७३ऽध्यात्म ७४ कुण्डिका। ७५ सावित्र्या ७६ऽऽत्मा ७७ पाशुपतं ७९ परब्रह्मा ७९ऽवधूतकम्। ८० त्रिपुरातापनं ८१ देवी ८२ त्रिपुरा ८३ काठ ८४ भावना। ८५ हृदयं ८६ कुण्डली ८७ भस्म ८८ रुद्राक्ष ८९ गण ९० दर्शनम्। ९१ तारसार ९२ महावाक्य ९३ पञ्चब्रह्मा ९४ऽग्निहोत्रकम्। ९५ गोपालतापतं ९६ कृष्णं ९७ याज्ञवल्क्यं ९८ वराहकम्। ९९ शाट्यायनी १०० हयग्रीवं १०१ दत्तात्रेयं च १०२ गारुडम्। १०३ काल ७ १०४ जावालि १०५ सौभान्य १०६ रहस्य ८१०७ ॠच १०८ मुक्तिका”

तासाञ्च मध्ये यासां यद्वेदगतत्वं तदपि शान्तिपाठमन्त्रसहितं तत्रैव दर्शितं यथा।

“१ ऐतरेय २ कौषकी ३। ४ नादविन्द्वात्मप्रबोध ५ निर्वाण ६ मुद्गलाऽ ७ क्षमालिका ८ त्रिपुरा ९ सौभाग्यं १० वह्वृचा मृग्वेदगतानां दशसङ्क्यकानामुपनिषदां “वाङ् मे मनसीति” शान्तिः। १ईशावास्य २ दृहदारण्यक ३ जावाल ४ हंस ५ परमहंस ६ सुवाल ७ मन्त्रिका ८ निरालम्ब ९ त्रिशिखी” १० ब्राह्मणमण्डल ११ ब्राह्मणाद्वयतारक १२ पैङ्गल १३ भिक्षु १४। १५ तुरीयातीताध्यात्म १६ तारसार १७ याज्ञवल्क्य १८ शाट्यायनी १९ मुक्तिकानां शुक्लयजुर्वेद गतानामेकोनविंशतिसङ्ख्यकानामुपनिषदां “पूर्ण्णमदः” इति शान्तिः। १ कठवल्ली २ तैत्तिरीयक ३ ब्रह्म ४ कैवल्य ५ श्वेताश्वतर ६ गर्भ ७। ८ नारायणामृतविन्द्व ९ऽमृतनाद १० कालाग्निरुद्र ११ क्षुरिका १२ सर्वसार १३ शुकरहस्य १४ तेजोविन्दु १५ ध्यानविन्दु १६ ब्रह्मविद्या १७ योगतत्त्व १८ दक्षिणामूर्त्ति १९ स्कन्द २० शारीरका २१ योगशिखै २२, २३ काक्षराक्ष्य २४ऽवधूत २५ कठरुद्र २६ हृदय २७ योगकुण्डलिनी २८ पञ्चब्रह्म २९ प्राणाग्निहोत्र ३० वराह ३१ कलिसन्तरण ३२ सरस्वतीरहस्यानां कृष्णयजुर्वेदगतानां द्वात्रिंशत्सङ्ख्यकानामुपनिषदां “सह नाववत्विति” शान्तिः। १ केन २। ३ छान्दोग्यारुणि ४ मैत्रायणी ५ मैत्रेयो ६ वज्रमूचिक ७ योगवूडामणि ८ वासुदेव ९ महत् १० संन्यासाऽ ११ व्यक्त १२ कुण्डिका १३ सावित्री १४ रुद्राक्ष १५ जावालदर्शन १६ जावालीनां सामवेदगतानां षोडशसङ्ख्यकानामुपनिषदाम् “आप्यायन्त्विति” शान्तिः। १ प्रश्न २ मुण्डक ३ माण्डूक्याऽ४ थर्वशिरोऽ५ थर्वशिखा ६ वृहज्जावाल ७ नृसिंहतापनी ८ नारदपरिव्राजक ९ सीता १० शरभ ११ महानारायण १२ रामरहस्य १३ रामतापनी १४ शाण्डिल्य १५ परमहंस १६ परिव्राजकाऽऽन्नपूर्णा १७ सूर्यात्म १८ पाशुपत १९ परब्रह्म २० त्रिपुरातपन २१ देवी २२ भावना २३ भस्म २४ जावाल २५ गणपति २६ महावाक्य २७ गोपालतपन २८ कृष्ण २९ हयग्रीव ३० दत्तात्रेय ३१ गारुडानामथर्ववेदगतानामेकत्रिंशत्संख्याकानामुपनिषदां “भद्रं कर्णेभिरिति” शान्तिः। पूर्व्वोत्तरवाक्ये नामभेदः नामान्तरपरतया समाधेयः। ३ योगे च। “यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्य्यवत्तरम्” छा० उ० “उपनिषदा योगेन युक्तश्चेत्यर्थः” भा० “योगो देवतादिविषयमुपासनम्” आनन्दगि० ४ धर्मे ५निर्ज्जनस्थाने मेदि० ६ समीपसदने त्रिका०। ७ द्विजातिकर्त्तव्ये चत्वारिंशत्संस्कारमध्ये वेदव्रतभेदे तच्च व्रतं गोदानाख्यकेशान्तकर्म्मणः प्राक् कर्त्तव्यं यथाह आश्वनायनगृह्यकारिका “प्रयमं स्यान्महानाम्नी द्विती- यञ्च महाव्रतम्। तृतीयं स्यादुषनिषद्गोदानं च ततः परम् ततश्च विप्रस्य जन्मतस्त्रयोदशे वर्षे महानाम्नीव्रतं, चतुर्द्दशे महाव्रतं, षञ्चदशे उपनिषद्व्रतं, षोडशे वर्षे गोदानम्, क्षत्रस्य ऊनविंशादिवर्षचतुष्के, वैश्यस्य एकविंशादिचतुष्के यथाक्रमं महानाम्न्यादिवेदव्रताख्यकर्म्मचतुष्टयं कर्त्तव्यम्। तत्र चूडादिनक्षत्रादिकमेव ग्राह्यम्” यथाह पी० धा० श्रीधरः। “तिथिनक्षत्रवाराश्च वर्गोदयनिरीक्षणम्। चौलवत् सर्वमाख्यातं सगीदानव्रतेषु च” यदा तु दैवादतीतकालानि महानाम्न्यादिव्रतानि स्युस्तदा समावर्त्तनेन सह कार्य्याणि “यद्वागामिक्रियामुख्यकालस्याप्यन्तरालवत्। गौणकालत्वमिच्छन्तीत्याद्युक्तेः। उपनिषत्सु व्यज्यते अण्। औपनिषद वेदान्तमात्रवेद्ये परब्रह्मणि। “तन्त्वौपनिषदं पुरुषं वेद” छा० उ०। उपनिषदं वेत्ति अण्। वेदान्ताभिज्ञे “शुद्धबुद्धस्वभाव इत्यौपनिषदाः” कुसु०।

उपनिषादिन् = त्रि० उप + नि + सद–णिनि स्त्रियां ङीप्। समीपे स्थायिनि “तद्विशमधस्तादुपनिषादिनीं करोति” शत० ब्रा० ९, ४, ३, ३।

उपनिष्कर = न० उप + निस् + कॄ–करणे संज्ञायां घ। महति राजमार्गे अमरः। तत्र हि महतामपि सेन्यानामसंवादेन निष्क्रमणात्तथात्वम्।

उपनिष्क्रमण = न० उप + निस्–क्रम–करणे ल्युट्। राजपथे। अमरः।

उपनिहित = त्रि० उप + नि–धा–क्त। १ उपनिधित्वेन स्थापि ते द्रव्ये उपनिधिशब्दे मिता० उदा० २ स्थापिते च।

उपनीत = त्रि० उप + नी–क्त। १ कृतोपनयनसंस्कारे “अथोपनीतं विधिवद्विपश्चितः” रघुः। २ ज्ञानलक्षणासन्निकर्षेण ज्ञाते च “उपनीतं विशेषणतयैव भासते मानसे तु नायं नियमः” प्राचीनगाथा उपनयशब्दे दृश्या ३ समीपे प्रापिते ४ उपस्थापिते च।

उपनेतृ = पु० उप + नी–तृच्। १ उपनयकर्त्तरि गुरौ २ उपढौककर्त्तरि त्रि० स्त्रियां ङीप्। “नियमविधिजलानां बर्हिषां चोपनेत्री” कुमा०।

उपनेत्र = न० उपगतं नेत्रम् अत्या० स०। नेत्रसमीपे धार्य्येकाचादिनिर्मिते नेत्रतिमिरोपकारके द्रव्यभेदे (चसमा)

उपन्यास = पु० उप + नि + अस–घञ्। १ वाक्योपक्रमे २ वाक्य प्रयोगे उपचारच्छलशब्दे उदा०। “तस्माद्ब्रह्मजिज्ञासोपन्यासमुखेन” शारी० भा०। “मालविकायामयमुपन्यासः शङ्कयति” मालवि०। ३ विचारे पुण्यमुपन्यासं निवोधत” मनुः। “उपन्यासं विचारम्” कुल्लू०। ४ विश्वासेनान्यसमीपे स्वद्रव्यन्यासे उपनिधौ च।

उपपति = पु० उपमितः पत्या अवा० स०। जारे। “उपपतिरिव नीचैः पश्चिमान्तेन चन्द्रः” माघः। तस्य पतिवत् स्त्रिया रतिहेतुत्वात्तत्समत्वम्। “यस्य चोपपतिर्गृहे” “मृष्यन्ति ये चोपपपतिम्” मनुः “सन्धये जारं गेहायोपपतिम्” यजु० ३०, ९। गुप्तव्यभिचारमात्रे जारत्वम् पतिसमीपे तस्य गेहस्थित्या व्यभिचारे उपपतित्वमित्यनयोर्भेदः।

उपपत्ति = स्त्री उप + पद–क्तिन्। १ युक्तौ, २ सङ्गतौ ३ हेतौ च “श्रोतव्यः श्रुतिवाक्येभ्योमन्तव्यश्चोपपत्तिभिः” “उपपत्तिभिर्हेतुभिरिति मथुरानाथः। “उपपत्तिमदूर्जितं वचः” “प्रियेषु यैः पार्थ! विनोपपत्तेः” किरा०। “लक्षणा शक्यसम्वन्धस्तात्पर्य्यानुपपत्तितः” भाषा०। “विवक्षितगुणोपपत्तेः” शा० सू०। “उपक्रमोपसंहारावभ्यासोऽपूर्व्वता फलम्। अर्थवादोपपत्ती च हेतुस्तात्पर्य्यनिर्णगे” इत्युक्तेस्तस्याः प्रकरणप्रतिपाद्यार्थनिर्ण्णायकत्वं यथा। छान्दोग्ये ६ प्र० “यथा सौम्यैकेन मृत्पिण्डेन विज्ञातेन सर्वं मृण्मयं विज्ञातं भवति वाचारम्भणं विकारोनामधेयं मृत्तिकेत्येव सत्यम्” इत्यादिना विकारमात्रस्य वाचाम्भणकथनरूपा युक्तिः। ४ उपाये च “अथोपत्तिं छलनापरोऽपराम्” माघः। “अपेक्षितान्योन्यबलोपपत्तिभिः” माघः। ५ प्राप्तौ ६ सिद्धौ च “स्वार्थोपत्तिं प्रति दुर्बलाशः” असंशयं प्राक् तनयोपपत्तेः” रघुः। युक्तयश्च नानाविधाः सुश्रुते दर्शिताः ताश्च तन्त्रयुक्तिशब्दे दर्शयिष्यन्ते। “असद्वाक्य प्रयक्तानां वाक्यानां प्रतिषेधनम्। स्ववाक्यसिद्धिरिति च क्रियते तन्त्रयुक्तिभिः” सुश्रुते तत्फलमुक्तम्।

उपपद = न० उपोच्चारितं पदम् प्रा० स०। समीपोच्चारिते पूर्व्वमुच्चार्य्ये शब्दे “तस्याः सराजोपपदं निशान्तम्” रघुः। “फलन्ति कल्पोपपदास्तदेव” माघः। राजनिशान्तं कल्पवृक्षा इत्यर्थः। २ नामोत्तरमुच्चारिते शर्म्मवर्म्मादिरूपे शब्दे, (उपाधि) व्याकरणे प्रत्ययादिविधायकसूत्रे ३ सप्तम्यन्तपदेन निर्द्दिश्यमाने पदे च। यथा कर्मण्यण् इत्यादौ कर्मणीतिसप्तम्यन्तं पदम् अण्प्रत्ययविधाने उपपदम्। “उपपदमतिङ्” पा०। “गतिकारकोपपदानां कृद्भिः समासवचनं प्राक् सुबुत्पत्तेः” वार्त्ति० उक्तेः कुम्भकार इत्यादौ सुबुत्पत्तेः प्राक् समासे उपपदसमासः। उपपदेन समीपस्थपदेन योगे विभक्तिरुपपदविभक्तिः “उपपदविभक्तेः कारकविभक्तिर्गरीयसीति” व्या० प०

उपपन्न = त्रि० उप + पद–क्त। १ युक्तियुक्ते, “उपपन्नं नतु शिव- मिति” रघुः। २ प्राप्ते च “अतीन्द्रियेष्वप्युपपन्नदर्शनः” रघुः ३ सतोगुणान्तराधानरूपसंस्कारयुक्ते “अयञ्च निष्ठुरः पितृद्रोही नात्युपपन्नसंस्थानः” दशकुमा० ४ उत्पन्ने च।

उपपात = पु० उप + पत–घञ्। १ हटादागतौ २ फलीन्मुखत्वे ३नाशे च। “कर्मोपपाते प्रायश्चित्रं तत्कालम्” कात्या० २५, १, १। “उपपातो विनाशोभ्रेष इत्यनर्थान्तरम्” कर्कः

उपपातक = न० पातयति नरके पत–णिच्–ण्वुल् उप अल्पार्थे सादृश्ये वा प्रा० स०। पातकसदृशे ततोन्यूनफलके पापभेदे। “महापातकतुल्यानि पापान्युक्तानि यानि तु। तानि पातक संज्ञानि तन्न्यूनमुपपातकमिति” पैठीनसिः। पतनञ्च “द्विजातिकर्म्मभ्योहानिः पतनं परलोकासिद्धिस्तमेके नरकम्” गौतमोक्तम्। तस्य न्यूनत्वञ्चाल्पफलदातृत्वेन तस्याल्पफलदातृत्वमाहाङ्गिराः “पातके तु सहस्रं स्यात् महत्सु द्विगुणं तथा। उपपापे तुरीयं स्यात् नरकं वर्ष्मसंक्षयात्”।

केन केन कर्मणा च तज्जन्यते तन्निरूपितं प्रा० वि०। तत्र मनुः। “गोबधोऽयाज्यसंयाज्यपारदार्य्यात्मविक्रयः। पितृमातृगुरुत्यागः स्वाध्यायाग्नेः सुतस्य च। परिवित्तिता चानुजेन परिवेदनमेव च। तयोर्दानञ्च कन्यायास्तयोरेव च याजनम्। कन्याया दूषणञ्चैव वार्द्धुषित्वं व्रतच्युतिः। तडागारामदाराणामपत्यस्य च विक्रयः। व्रात्यताबान्धवत्यागो भृतकाध्यापनन्तथा। भृताच्चाध्ययनादानमपण्यानाञ्च विक्रयः। सर्व्वाकरेष्वधीकारो महायन्त्रप्रवर्त्तनम्। हिंसौषधीनां स्त्र्याजीवोऽभिचारो मूलकर्म्म च। इन्धनार्थमशुषकाणां द्रुमापामवपातनम्। आत्मार्थञ्च क्रियारम्भो निन्दितान्नादनन्तथा। अनाहिताग्निता स्तेयमृणानाञ्चानपक्रिया। असच्छास्त्राधिग मनं कौशीलव्यस्य च क्रिया। धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम्। स्त्रीशूद्रविट्क्षत्रबधोनास्तिक्यञ्चोपपातकम्”। “अस्यार्थः। अयाज्यसंयाज्यमिति प्रतिग्रहाध्यापनङ्कथयति। त्यागो योगक्षेमाकरणम्। अनिमित्तं स्वाध्यायत्यागोऽधीतवेदविस्मरणम्। अग्नित्याग आलस्यादिना। सुतत्यागः पोषणविनयाधानाद्यकरणेन चकाराद्भार्य्यात्यागोऽपि। परिवित्तिता कनिष्ठस्य भ्रातुर्दाराग्निहोत्रसयोगे सति ज्येष्ठस्य भ्रातुर्दाराग्निहोत्रसंयोगप्रागभावः। कनिष्ठस्य परिवेदनं, चकारात् कन्याया अपि तथाभूतायाः परिवेदनीयत्वम्। परिवित्तिपरिवेदयोर्वरत्वेन कन्यादानम्। तयोरेव विवाहादौ ऋत्विक्कार्य्यमिति। कन्याया दूषणमकन्येत्युक्तिः अङ्गुल्या योनिविदारणं वा वार्द्धुषिकत्वं ब्राह्मणक्षत्रिययोः। व्रतच्युतिरवकीर्णत्वम्। दाराणामपि परिणीतानामपि विक्रयः। अपत्यस्यानेकविधस्य। व्रात्यता यथाकालमनुपनयनमसोमयाजित्वञ्च। बान्धवत्यागो बान्धवस्य सपिण्डादेरनिमित्तत्यागः। भृतकाध्यापनम् मूल्येन वेतनादिना विद्यार्पणम्। भृताच्च वेतनपरिगृहीताद्वेदादि विद्याग्रहणम्। अपण्यानां लाक्षादीनां सकृत्, गोरसादीनां चासकृत्, ब्राह्मणेन विक्रयः। सर्वाकरेषु सुवर्ण्णाद्युत्पत्तिस्थानेषु नियोगः। तैलादियन्त्रस्य शस्त्रतेजनादियन्त्रस्य च प्रवर्त्तनम्। धान्यादीनां यथा कथञ्चिन्नाशनं स्त्रियार्ज्जितधनजीवनम्। अभिचारः परहिंसार्थं जपादिकर्म, मूलकर्म वशीकरणं मूलादिक्रिया। इन्धनार्थम् द्रुमाणामशुष्काणां छेदनम्। आत्मार्थं पाकक्रिया न वैश्वदेवाद्यर्था। गणदेवलकतस्काराद्यन्नभक्षणम्। सामार्थ्येऽपि श्रौतस्मार्त्ताग्न्यपरिग्रहः। स्तेयं हेमनराश्वरजतभूमिमणिनिक्षेप्रेतरद्रव्यहरणम्। देवर्षिपितृसम्बन्धिन ऋणस्यानपशोधनम्। असंच्छास्त्राभिगमनम् पाषण्डशास्त्राभ्यासः। कुशीलवस्य कर्म तौर्य्यत्रिकं तस्य सततानुष्ठानम्। कुप्यस्यासारद्रव्यस्यताम्रकांस्यादेः स्तेयम् मद्यपस्त्रिया मद्यपायाश्च स्त्रिया निषेवणम् ब्राह्मणेन। स्त्रियाः शूद्रवैश्यक्षत्रियाणाञ्च बधः। नास्तिक्यं नास्ति परलोक इति व्यवसितिः। उपपातकमेकैकम् “एकैकमुपपातकमिति” याज्ञवल्क्यवचनात्। एवञ्च गोबधादिनास्तिक्यान्तानि पञ्चाशदुपपातकानि। विष्णुना “अनृतवचनमुत्कर्षे राजगामि च पैशुन्यम्। गुरोश्चालीकनिर्बन्धःवेदनिन्दाऽधोतस्य च त्यागः” अन्यानि च मनूक्तानि उक्त्वा “उपपातकिन श्चैते कुर्युश्चान्द्रायणं नराः” इति उपपातके दर्शितम्। तत्र नृपादिसभासु परापकारव्यतिरेकेणात्मन उत्कर्षख्यापनं तथा राज्ञः पुरतः परापकारव्यतिरेकेण परदोषकीर्त्तनम्। श्रुतमात्रोपकारकगुरोर्निथ्याभिशंसनम्। तथा परिहासादिना वेदनिन्दा तथाऽसच्छास्त्राभियोगेनाधीतवेदविस्मरणञ्च यल्लघु तदुपपातकं गुरूणां पुनरेतेषां मनुनाऽनुपातके दर्शितत्वात्। अन्यानि चोपपातकानि स्मृत्यन्तरेऽनुसन्धेयानि”। “गोवधोब्रात्यतास्तेयमृणानाञ्चानपक्रिया। अनाहिताग्निताऽपुण्यविक्रयः परिवेदनम्। भृतादध्ययनादानं भृतकाध्यापनन्तथा। पारदार्यं पारिवित्त्यं वार्द्धुष्यं लवण क्रिया। स्त्रीशूदविट्क्षत्रबधो निन्दितार्थोपजीवनम्। नास्तिक्यं व्रतलोपश्च सुतानाञ्चैव विक्रयः। धान्यकु- प्यपशुस्तेयमयाज्यानाञ्च याजनम्। पितृमातृसुतत्यागस्तडागारामविक्रयः। कन्यासन्दूषणञ्चैव परिवेदकयाजनम्। कन्याप्रदानन्तस्यैव कौटिल्यं व्रतलोपनम्। आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम्। स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च। इन्धनार्थन्द्रुमच्छेदः स्त्रीहिंसौषधजीवनम्। हिंस्रयन्त्रविधानञ्च व्यसनान्यात्मविक्रयः। शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम्। तथैवानाश्रमे वासः परान्नपरिपुष्टता। असच्छास्त्रादिगमनमाकरेष्वधिकारिता। भार्य्याया विक्रयश्चैषामेकैकमुपपातकम्” या०। “गोवधोगोपिण्डव्यापादनम्। कालेऽनुपनीतत्वं व्रात्यता। ब्राह्मणसुवर्ण्णतत्समव्यतिरिक्तपरद्रव्यापहरणं स्तेयम्। गृहीतस्य सुवर्णादेरप्रदानमृणानामनपाकरणम् तथा देवर्षिपितॄणां सम्बन्ध्यृणस्यानापाकरणञ्च। सत्यधिकारे अनाहितानग्नित्वम्। ननु ज्योतिष्टोमादिकामश्रुतयः स्वाङ्गभूताग्निनिष्पत्त्यर्थमाधानम्प्रयुञ्जत इति मीमांसकप्रसिद्धिरतश्च यस्याग्निभिः प्रयोजनन्तस्य तदुपायभूताधाने प्रवृत्तिर्ब्रीह्याद्यर्थिनैब धनार्जने यस्य पुनरग्निभिः प्रयोजनं नास्ति तस्याप्रवृत्तिरिति कथमनाहिताग्नितादोषः उच्यते। अस्मादेवाधानस्यावश्यकत्ववचनादनित्यश्रुतयोऽपि साधिकारत्वाविशेषादाधानस्य प्रयोजिका इति स्मृतिकाराणामभिप्रायो लक्ष्यत इत्यदोषः। तथा अपण्यस्य लवणादेर्विक्रयः। सहोदरस्य ज्येष्ठस्य तिष्ठतः कनीयसोम्रातुर्दाराग्निसंयोगः परिवेदनम्। पणपूर्ब्बाध्यापकादध्ययनग्रहणम्। पणपूर्ब्बाध्यापनम्। परदारसेवनङ्गुरुदारतत्समव्यतिरेकेण। पारिवित्त्यं कनीय सि कृतविवाहे ज्येष्ठस्य विवाहराहित्यम्। वार्द्धुष्यम्प्रतिषिद्धवृद्ध्युपजीवित्वम्। लवणक्रिया लवणस्योत्पादनम्। स्त्रियाबधो ब्राह्मण्या अपि आत्रेयीव्यतिरेकेण। शूद्रबधः। अदीक्षितविट्क्षत्रबधः निन्दितार्थोपजीवनम् अराजन्याद्यर्षितार्थोपजीवनम्। नास्तिक्यं नास्ति परलोक इत्याद्यभिनिवेशः। व्रतलोपो ब्रह्मचारिणः स्त्रीप्रसङ्गः। सुतानामपत्यानां विक्रयः ध्यान्यं व्रीह्यादि कुप्यमसारद्रव्यन्त्रपुसीसादि पशवोगवादयस्तेषामपहरणम्। “गोबधो व्रात्यतास्तेयम्” इत्यनेन स्तेयग्रहणेनैव सिद्धे पुनर्धान्यकुप्यादिस्तेयग्रहणं निन्दार्थमते धान्यादिव्यतिरिक्तद्रव्यस्तेये नावश्यमेतदेव प्रायश्चित्तमपि तु ततोन्यूनमपि भवत्येव। एतेन बान्धवत्यागग्रहणे- नैव सिद्धे पुनः पित्रादित्यागग्रहणं व्याख्यातम्। अयाज्यानाञ्जातिकर्मदुष्टानां शूद्रव्रात्यादीनां याजनम्। पितृमातृसुतानामपतितानां त्यागो गृहान्निष्काशनम्। तडागस्यारामस्य चोद्यानोपवनादेर्विक्रयः। कन्यायादूषणमङ्गुल्यादिना योनिविदारणं न तु सम्भोग स्तस्य “सखिभार्य्या कुमारीष्विति” गुरुतल्पसमत्वस्योक्तत्वात्। परिविन्दकयाजनन्तस्य च कन्याप्रदानम्। कौटिल्यङ्गुरोरन्यत्र गुरुविषयस्य तु कौटिल्यस्य सुरापाणसमत्वमुक्तम्। पुनर्ब्रतलोपग्रहणं शिष्टाप्रतिषिद्धेष्वपि हरिचरणकमलप्रेक्षणात्प्राक्ताम्बूलादिकन्न भक्षयामित्येवंरूपेषु प्राप्त्यर्थं न तु स्नातकव्रतप्राप्न्यर्थन्तत्र “स्नातकब्रतलोपे च प्रायश्चित्तम भोजनमिति” मनुना लघुप्रायश्चित्तस्य प्रतिपादितत्वात्त थात्मार्थञ्च पाकलक्षणक्रियारम्भः “अघं स केवलम्भुङ्क्ते यः पचत्यात्मकारणादिति” तस्यैव प्रतिषिद्धत्वात्। क्रियामात्र विषयत्वे तु प्रतिषेधकल्पनागौरवं स्यात्। मद्यपायाः स्त्रियोजायाया अपि निषेवणमुपभोगः। स्वाध्यायत्यागो व्याख्यातः अग्नीनाञ्च श्रौतस्मार्त्तानान्त्यागः सुतत्यागः संस्काराद्यकरणम्। बान्धवानाम्पितृव्यमातुलादीनान्त्यागः सति विभवे अपरिरक्षणम्। पाकादिदृष्टप्रयोजनसिद्ध्यर्थमार्द्रद्रुमच्छेदोन त्वाहवनीयपरिरक्षणार्थमपि। स्त्रिया हिंसया औषधेन च जीवनं वर्त्तनं स्त्रीहिंसौषधजीवनम्। तत्र स्त्रीजीवनं नाम भार्य्याम्पण्य भावेन प्रयोज्य तल्लब्धोपजीवनम् स्त्रीधनोपजीवनं वा। हिंसया जीवनम्प्राणिबधेन जीवनम्। औषधजीवनं वशीकरणेन। हिंस्रयन्त्रस्य तिलेक्षुपीडनकरस्य प्रवर्त्तनम्। व्यसनानि मृगयादीन्यष्टादश। आत्मविक्रयोद्रव्यग्रहणेन परदास्यकरणम्। शूद्रसेवनं हीनेषु मैत्रीकरणम्। अनूढसवर्णदारस्य केवलहीनवर्णदारोपयमनम्, साधारणस्त्रीसम्भोगश्च। अनाश्रमे वासः अगृहीताश्रमित्वम्। परपाकरतित्वम्। असच्छास्त्रस्य चार्वाकादि ग्रन्थस्याधिगमः। सर्वाकरेषु सुवर्णाद्युत्पत्तिस्थानेषु राजाज्ञयाधिकारित्वम्। भार्य्यायाविक्रयः। चशब्दान्मन्वाद्युक्ताभिचाराऽमतिपूर्ब्बलशुनादिभक्षणादेर्ग्रहणम्। एषां गोवधादीनाम्प्रत्येकमुपपातकसंज्ञावेदितव्या” मिता०। उपपापमप्यत्र। “जलोदरं यकृत्प्लीहाशूलरोगव्रणानि च। श्वासजीर्ण्णज्वरच्छर्द्दि भ्रममोहगलग्रहाः। रक्तार्बुदविसर्पाद्या उपपापोद्भवा गदाः” शाता०।

उपपातिन् = त्रि० उप + पत–णिनि स्त्रियां ङीप्। १ हठीदा- गते। २ अतर्कितोपस्थिते च। “रन्ध्रेपपातिनोऽनर्थाः” हितो०

उपपाद = पु० उप + पद–घञ्। १ उपपत्तौ। उपगतः पादम् अत्या० समा०। २ पादोपगते त्रि०। स्त्रियां गौरा० ङीष्।

उपपादक = त्रि० उपपादयति उप + पद–णिच्–ण्वुल्। उपपत्तियुक्तकारके पद–ण्वुल्। उपपत्तियुक्ते ३ युक्तियुक्ते च।

उपपादन = न० उप + पद + णिच् ल्युट्। १ युक्त्या समर्थने २ सम्यक्प्रतिपादने ३ प्राप्तियुक्तकरणे च। “लोहपिण्डं यथा वह्निः प्रविश्य ह्यतिपादयेत्। तथात्वमपि जानीहि गर्भे जीवोपपादनम्” भा० आश्व० १८ अ०।

उपपादित = त्रि० उप + पद–णिच्–क्त। १ युक्त्या समर्थिते, “उपपादितञ्चैतत् पुरस्तात्” जग० २ सम्यक् प्रतिपादिते च

उपपादुक = त्रि० उपपद्यते उप + पद–उकञ्। दृष्टकारणनिरपेक्षतया अदृष्टमात्रसहकृतेभ्योऽणुभ्यो जायमाने देवदेहे नारकिदेहे च” हेम० दिव्योपपादुका देवाः” अमरः।

उपपाद्य = त्रि० उप + पद–णिच्–यत्। १ युक्त्या समर्थनीये २ प्रतिपाद्ये च। ल्यप्। ३ उपपत्तियुक्तं कृत्वेत्यर्थे अव्य०।

***