उदगद्रि = उदगुत्तरस्यामद्रिः। हिमाचले। उदक्पर्वतीदयोऽप्यत्र।

उदगयन = न० उदक् उदीच्यामयनम्। १ उत्तरायणे। ७ ब०। माघादिके मासषट्के “उदगयने आपूर्य्यमाणे पक्षे कल्याणे नक्षत्रे चौलकर्म्मोपनयनगोदानविवाहा” आश्व० गृ० १, ४, १, “अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम्” मनुः। उत्तरायणशब्दे ११०४ पृ० विवृतिः।

उदग्दश = न० उदक् उत्तरा दशा यस्य। उत्तराग्रे वस्त्रे “उत्तीर्य्यान्यानि वासांसि परिधाय सकृदेनान्यापीड्योदग्दशानि विसृज्यासत आनक्षत्रदृर्शनात्” आ० गृ० ४, ४, १०, “उदग्दशानि उदगग्राणि” नारा० वृ०। “अथ वासी द्विगुणं वा चतुर्गुणं वा प्राग्दशं वोदग्दशं वोपस्तृणाति” शत० ब्रा० ३, ३, २, ९,

उदग्भूम = त्रि० उदक् उन्नता भूमिर्यत्र अच् समा०। उत्कृष्टभूमिके देशे जटा०

उदग्र = त्रि० उद्गतमखं यस्य। १ उच्चे उन्नते २ वृद्धे “हरिन्मणिश्याममुदग्रविग्रहः” किरा० “नयन् मधुलिहः श्वैत्यमुदग्रदशनांशुभिः” “आक्रम्य संस्थितमुदग्रविशालशृङ्गम्” माघः “अवन्तिनाथोऽयमुदग्रबाहुः” “संदधे दृशमुदग्रतारकाम्” “क्षतात् किल त्रायत इत्युदग्र” रघुः। “वीर्य्योदग्रे राजशब्दे मृगे च” “सन्मङ्गलोदग्रतंरप्रभावः” “आविष्कृतोदग्रतरप्रभावम्” रघुः। ३ उद्धते च। “मदोदग्रा ककुद्वन्तः” रघुः।

उदग्रदत् = त्रि० उदग्रा दन्ता यस्य दत्रादेशः स्त्रियां ङीप्। उन्नतदन्ते

उदग्राभ = पु० उदकं गृह्णाति ग्रह–अण् उप० स० संज्ञाया मुदादेशः चेदे हस्य भः। १ मेघे “एवा पवस्व मदिरो मदायोदग्राभस्य नमयन् बधश्नैः” ऋ० ९, ९७, १५, “उदग्राभमुदकग्राहिणं मेघम्” भा० लोके तु उदग्राह इत्येव। उदग्रा उन्नता आभायस्य। २ महाप्रभे त्रि०।

उदङ्क = पु० उदच्यते उद्ध्रियतेऽत्र उद् + अन्च–घञ्। “उदङ्कोऽनुदके” पा० नि० कुः १ चर्ममये घृतादिपात्रे (कुपो) तैलोदङ्कः घृतोदङ्कः। उदच्यते आकृष्येतेऽनेन करणे घञ्। आकर्षणसाधने २ संदंशे “हृदयोदङ्कसंस्थानं कृतान्तानायसन्निभम्” भट्टिः। ३ ऋषिभेदे पु० “अब्रवीन्म उदङ्कः शौल्वायनः” शत० ब्रा० १४, ६, १०, ४, अस्य द्वन्द्वे अद्वन्द्वे च उपका० बहुत्वे गोत्रप्रत्ययस्य वा लुक्। औदङ्कायनाः उदङ्काः।

उदङ्मुख = त्रि० उदक् उत्तरा मुखमस्य। उत्तरमुखे “मण्डपं कारयेत्तत्र प्राङ्मुखं वाप्युदङ्मुखम्” अन्नाचलमण्डपे पुरा० “ऋतं भुङ्क्तेह्युदङ्मुखः”। “यथाशास्त्रमुदङ्मुखः”। “मूत्रो च्चारसमुत्सर्गं दिवा कुर्य्यादुदङ्मुखः” मनुः। “उदङ् मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन्” मनुः। “उदङ्मुखःसोऽस्त्रविदस्त्रमन्त्रम्” रघुः। “स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखःखम्” मेघ०।

उदचमस = पु० उदकस्य उदकधारणार्थश्चसमः संज्ञाया मुदादेशः। उदकस्थापनार्हे चसमरूपे पात्रभेदे “अथान्तरेणोदचमसं निनयति” शत० ब्रा० ७, २, १, १७। “चतसॄषु चतसृषु त्रींस्त्रीनुदचमसान्निनयति” कात्या० १७, ३, ४,

उदच् = त्रि० उद् + अन्च–क्विप्। १ ऊर्द्ध्व गते उत्तरे २ देशे ३ अनन्तरे ४ काले उत्तरदिग्देशकालवृत्तौ च। ५ उत्तरदिशि स्त्री ङीप् अचोऽल्लोपे उद्यादेशे दीर्घः उदीची “तेनोदीचीं दिशमनु रवेः” मेघ०। ततः अस्ताति तस्य लुक्। प्रथमापञ्चमीसप्तम्यन्तार्थे वर्त्तमाने दिग्देशशकाले अव्य० “अयने द्वे गतिरुदग् दक्षिणार्कस्य वत्सरः” अमरः “उपवीणयितुं ययो रवेरुदगावृत्तिपथेन नारदः” रघुः “संपूयोत्पुनात्युदगग्राभ्याम् पवित्राभ्याम्” “उदगग्नेरुत्सृप्य कुशर्ल कारयन्ति” सं० त० गोभि०। “प्रागमुदग्रं वा धौतं वस्त्रं प्रसारयेत्” वि० पा० स्मृ०। “आचम्योदक्परावृत्य” मनुः। “क्षारसिन्धोरुदक्स्थम्” सि० शि०।

उदज = पु० उद् + अज–अच् व्यभावः। पशुप्रेरणे।

उदजिन = पु० उत्क्रान्तमजिनम् अत्या० स०। चर्म्मातीते निरुदकादि० अस्यान्तोदास्तता।

उदज्ञ = पु० उदकं जानाति ज्ञा–क संज्ञायाम् उदादेशः ऋषिभेदे तस्यापत्यम् तिका० फिञ्। औदज्ञायनि तदपत्ये पुंस्त्री०

उदञ्च् = त्रि० उद + अन्च–विच्। उदक्शब्दार्थे। भत्वे उदञ्चः उदञ्चा इति भेदः। ततः प्रथमान्ताद्यर्थे अस्ताति तस्यलुक्। उदङ्प्रथमान्ताद्येर्थ दिग्देशादौ अव्य० “यान् षडुदङ्ङेति तान् मासान्” छा० उ०। उदङ् उत्तरस्याम्।

उदञ्चन = न० उद् + अन्च–णिच् करणे ल्युट्। १ पिधानार्थे पात्रे (ढाकना)। “प्रतिप्रस्थाता संस्रवावानयत्युन्नेता चमसेन वोदञ्चनेन वा” शत० ब्रा० ४, ३, ५, २१, “प्रतिप्रस्थाता च संस्रवावाधवनीयादुन्नेतोदञ्चनेन चमसेन वा “कात्या० १०, ५, १। भावे ल्युट्। २ ऊर्द्ध्वक्षेपणे। कर्त्तरि ल्यु। ३ उत्क्षेपके त्रि०। “सत्पतिर्विश्वासामूधः स धियामुदञ्चनः ऋ० ५, ४४, १३। “उदञ्चन ऊर्द्ध्वमुद्गमयिता” भा०।

उदञ्चित = त्रि० उद्–अन्च–पूजायां क्त १ पूजिते। णिच्–क्त। २ ऊर्द्ध्वंगमिते ३ उत्क्षिप्ते। हेम० “उदञ्चिताक्षोऽञ्चि तदक्षिणोरुः” भट्टिः।

उदञ्चु = त्रि० उद् + अन्च–उन्। उद्गतिर्शले। बाह्वा० अपत्ये इञ्। औदञ्चवि तदपत्ये पुंस्त्री०।

उदण्डपाल = पु० उद्भिन्नमण्डं पलति गच्छति कारणतया पल–गतौ अण् उप० स०। १ मत्स्ये २ सर्पे च मेदि० तयोर ण्डोद्भेदेन जातत्वात्तथात्वम्।

उदद्या = स्त्री उद् + अद–बा० यत्। तैलपिपीलिकायां शब्दार्थचि०।

उदधान = पु० उदकं धीयतेऽत्र आधारे ल्युट्। उदादेशः। १ कुम्भे २ मेघे च।

उदधि = पु० उदकानि धीयन्तेऽस्मिन् घा–आधारे कि उदादेशः। १ समुद्रे, २ घटे च। “उदधेरिव निम्नगाशतैः” “चन्द्रोदय इवोदधेः” रघुः। “यैः कृतः सर्व्वभक्षोग्निरपेयश्च महौदधिः” मनुः। समुद्रसामान्यस्येयं संज्ञा तत्तत्पदसमभिव्याहारे तु विशेषस्य बोधः। यथा क्षारोदधिः क्षीरोदधिः सुरोदधिः। ३ मेघे च। “हृदय मप्स्वायुरपो दत्तोदधिं भिन्त” यजु० १८, ५४। ४ उदकधानकर्त्तृ सूर्य्ये च “संसूर्य्येण दिद्युतदुदधिर्निधिः” यजु० ३८, २२ सूर्व्यस्य च जलपूर्ण्णामृताभिर्नाडीभिर्जलाकर्षणेन तद्धारणात्तथात्वं यथा च तस्यामृताधायकत्वम्” तथाऽमृतशब्दे ३२३ पृष्ठे उक्तम्।

उदधिक्रा = त्रि० उदधिं क्रामति क्रम–वि ङीप्। समुद्रक्रामके।

उदधिमल = पु० उदधेर्मल इव। समुद्रफेने राजव०।

उदधिमेखला = स्त्री उदधिर्मेखलेव यस्याः। मध्यस्थाने समुद्रवेष्टितायां पृथिव्याम्। भूगोले “भूमेरर्द्धं क्षारसिन्धोरुदक्स्थं जम्बूद्वीपं प्राहुराचार्य्यवर्य्याः। अर्द्ध्वेऽन्यस्मिन् द्वीपषट्कस्य याम्येक्षारक्षीराद्यम्बुधीनां निवेशः” सि० शि० उक्तेः याम्यार्द्धे एवाम्बुधीनां निवेशात् तेषां पृथिवी मध्यवेष्टकतया मेखलातुल्यत्वम्।

उदधिसुता = स्त्री ६ त०। १ लक्ष्याम् तस्या उदधिजातत्वात् तथात्वम्। उदधितनयाद्रयोऽप्यत्र २ चन्द्रे पु०।

उदन् = न० उन्द + कनिन्। उदके। “उदकशब्दादेशोऽयमित्यन्ये अन्यएवायं शब्द इत्यपरे। “धाराश्चर्मेवोदभि र्वुन्दन्ति भूम” ऋ०, १, ८५, ५ “अव त्मना भरते फेनमुदन्” ऋ० १, १०४, ३,। उदन् उदनीत्यर्थः परमे व्योमन् इति वत् सप्तम्या लुक् नलोपाभावश्च

उदन्त = पु० उद्गतोऽन्तोनिर्ण्णयो यस्मात्। १ वार्त्तायाम् वृत्तान्वे कुशलादिकयने,। “श्रुत्वा रामः प्रियोदन्तम्” रघुः “कान्तोदन्तः सुहृदुपनतः सङ्गमात् किञ्चिदूनः” मेघ० “एवंप्रायेण चास्योदन्तेन” काद०। २ साधौ, मे स्वार्थेकन्। तत्रैव उद्गतोऽन्तोऽस्य पाकवशात् प्रा० ब० गतलोपः। ३ पाकवशात् प्राप्तान्ते त्रि० “शृतमसदिति तदाहुर्यर्ह्युदन्तं तर्हि जुहुयादिति तद्धैनोदन्तं कुर्य्यादुप ह दहेद्यदुदन्तं कुर्य्यादप्रजज्ञि वै रेत उपदग्धं तस्मान्नोदन्तं कुर्य्यात्” शत० ब्रा० २, ३, १, १४, “अधिश्रितं वारुणमुदन्तं पौष्णम्” कात्या० २५, २, ३,

उदन्तिका = स्त्री उदन्तमुद्गतान्तं करोति उदन्त + णिच् + ण्वुल् टाप् अत इत्। तृप्तौ हारा०।

उदन्य = नामधातु अतिगार्द्ध्येनोदकमिच्छति क्यच् निपा० उदन्यति औदन्यीत् उदन्याम्–बभूव आस चकार। उदनिताउदन्यिता उदन्या।

उदन्या = स्त्री अतिगार्द्ध्येन उदकमिच्छति क्यजन्तात् अ। १ पिपासायाम्। “व्यस्यन्नुदन्यां शिशिरैः पयोभिः” भट्टिः बेदे० बा० नयनार्थेऽपि क्यच्। २ उदकनयने च “अथयत्रैतत्पुरुषः पिपासतिनाम तेज एव तत्पीतं नयते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येव तत्तेज आचष्ट उदन्येति” छा० उ० यथा च पुरुषस्य पिपासां भवति तद्भाष्ये समर्थितं यथा “यत्र यस्मिन् काल एतन्नाम पिपासति पातुमिच्छतीति पुरुषो भवति। अशिशिषतीतिवदिदमपि गौणमेव नाम भवति। द्रवीकृतस्याशितस्यान्नस्य नेत्र्य आपोऽन्नशुङ्ग देहं क्लेदयन्त्यःशिथिलीकुर्य्युरब्बाहुल्याद्यदि तेजसा न गोष्यन्ते। नितराञ्च तेजसा शोष्यमाणास्वप्सु देहभावेन परिणममानासु पातुमिच्छा पुरुषष्य जायते तदा पुरुषः पिपासति नाम तदेतदाह। तेजएव तत्तदा पीतमबादि शोपयेद्देहगतलोहितप्राणभावेन नयते परिणमयति। तद्यथा गोनाय इत्यादि समानमेव। तत्तेज आचष्टे लोकः। उदन्येति उदकं नयतीत्युदन्या उद न्येतीति छान्दसम्”। पिपासा च प्राणस्य धर्म्मः यथाह शा० ति० “बुभुक्षा च पिपासा च प्राणस्य, मनसः स्मृतौ। शोकमोहौ, शरीरस्य जन्ममृत्यू, षडूर्मयः”। उद्नः अयम् उदन्य उदकसम्बन्धिनि त्रि० “विश्वा उदन्वया वर्षाधारा उदन्या इव” ऋ० २, ७, ३, “उदन्या उदकसम्बन्धिनी” भा०

उदन्यु = त्रि० उदन्य–नामधातोः उन्। पिपासौ “तृष्णजे न दिव उत्सा उदन्यवे” ५, ५७, १, “हरिं नर्व तेऽव ता उदन्युवः” ऋ० ९, ८६, २७, उदन्युवः उदकेच्छावन्तः” भा० उवङ् छान्दसः।

उदन्वत् = पु० उदकानि सन्त्यस्मिन् मतुप् उदन्भावः मस्य वः। १ समुद्रे “उदन्वदम्भःपरिवीतमूर्त्तिः” माघः। “नवैरुदन्यानिव चन्द्रपादैः” कुमा० “अवकाशं किलोदन्वान्” ते च प्रापुदन्वन्तं बुबुधे चादिपूरुषः” रघुः। वेदे नि०। २ उदकयुक्तमात्रे त्रि०” स्त्रियां ङीप्। “उद्वदन्वता परिदीया रथेन” ऋ० ५, ८३, ७, “उदन्वता उदकयुक्तेन रथेन” भा० “उदन्वतीरनुदकाश्च याः” ऋ० ७, ५४, ४,

उदप = आघाते सौत्रः पर० सक० सेट्। उदपति। औदपीत् औदापीत्।

उदपात्र = न० उदकपूर्ण्णं पात्रम् उदादेशः। जलपूर्ण्णे पात्रे “भिक्षामप्युदपात्रं वा सत्कृत्य विधिपूर्वकम्” मनुः।

उदपान = पु० न० उदकं पीयतेऽस्मिन् पा ल्युट् उदादेशः। कूपसमीपस्थे स्वाते क्षुद्रजलाधारे। “तडागा उदपानानि वाप्यः प्रस्रवणाणि च” निर्जलेषु च देशेषु खानयामासुरुत्तमान्। उदपानान्” रामा०। “अल्पवर्षप्रस्रवणोदपानोदकप्रायः” सुश्रु०। ७ त०। उदपानमण्डूकः पौत्रेसमितादि० ७ स० युक्त्यारोह्या०। आद्युदास्तता।

उदमान = पु० “कुल्या स्यादष्टभिर्द्रोणैर्द्रोणपादेन चाढकः। अस्यार्द्धशतिकोभाग उदमान उदाहृत” इत्युक्ते मानभेदे।

उदय = पु० उद् + इ–अच्। ज्योतिषोक्ते राशेरुदयरूपे १ लग्ने। आधारे अच्। “यैर्यत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः” इत्युक्तलक्षणे रवेर्द्वष्टियोग्यस्थाने २ उदयाचले पूर्व्व पर्व्वते। “उदयाचलव्यर्वाहतेन्दवपुः” माघः “उदयगिरिवनालीबालमन्दारपुष्पम्” उद्भटः। भावे अच्। ३ प्रथमदर्शनयोग्यभवने, ४ वृद्धौ, ६ उद्भवे ७ उत्गमे “आत्मोदयः परग्लानिः” माघः “प्रभातसमयमिव पूर्वदिग्माग रागानुमेयमित्रोदयम्” काद०। “गवोदयं नाथमिवौषधीनाम्” “निवातस्तिमितां वेलां चन्द्रोदय इबोदधेः” “उदयमस्तमयञ्च रघूद्वहति” रघुः। “अपमेषोदयं वर्षमदृष्टकुमुमं फलम्”। “यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ”। कुमा० “उदये मदवाच्यमुज्झता”। “आगमैः सदृशारम्म आरम्भसदृशोदयः”। “प्रसृतावुदयापवर्गयोः” रघुः। “वीलाङ्कुरः प्रागुदयादिवाम्भः” कुमा० ८ उत्कर्षे। “विजितजगत्त्रयोदयम्” माघः। ग्रहाणामुदयश्च स्वाधिष्ठितराशीनामुदयात् “निजनिजोदयलग्नसमुद्गमे समुदयोऽपि मुबेद्भनभःसदाम्” सि० शि०। राशीनां देशभेदेनोदयकालविशेषः सि० शि०। तत्रादौ निरक्षदेशलङ्कादौ सन्मानसाधनं यथा “एकस्य राशेर्वृहती ज्यका या द्वयोस्त्रिभस्यापि कृतीकृतानाम्। स्वस्वापमज्याकृतिवर्जितानां मूलानि तासां त्रिगुणा ३४३८ हृतानि। स्वस्वद्युमौर्व्या विमजेत् फलानां चापान्यघोऽधः परिशोधितानि। क्रमोत्क्रमस्थानि निरक्षदेशे मेषादिकानामुदयासवः स्युः” शि०। “एकस्य राशेर्बृहती ज्येत्यष्टमी ज्या। द्वयोरिति षोडशी ज्या। त्रिमस्येति त्रिज्या। आसां र्वर्गितानां स्वकीयस्वकीयक्रान्तिज्यावर्गैर्वर्जितानां मूलानि त्रिज्यागुणितानि स्वस्वद्युज्यया विभजेत्। फलानां चापान्यधोऽधः परिशोधितानीति, तृतीयात् द्वितीयं द्वितीयात् प्रथमं शोध्यम्। प्रथमं तथाविधमेव। एवं लङ्कोदयासवः स्युः। अत्रोपपत्तिः। अत्रोद्वच्छतः क्रान्तिदृत्तस्य तिर्यक्स्थितत्वात् त्त्र्यस्राणि क्षेत्राण्युत्पद्यन्ते। तद्यथा। मेषान्तस्य ज्या क्रान्तिवृत्ते कर्णः। तत्क्रान्तिज्यालङ्काक्षितिजे मुजः। तद्वर्गान्तरपदं मेषान्तेऽहोरात्रवृत्तेक्रोटिः। एवं राशिद्वयस्य ज्या कर्णः। तत्क्रान्तिज्या भुजः। तद्वर्गान्तरपदं वृषभान्तेऽहोरात्रवृत्ते कोटिः। एवं तिराशिज्या कर्णः परमाक्रान्तिज्या भुजः। परमाल्पद्युज्या कोटिः। एताः कोटयश्चापकरणार्थं त्रिज्यवृत्ते परिणामिता त्रिज्यागुणाः स्वस्वद्युज्यया मक्तास्तासां चापानि। प्रथम मेषोदयस्य कालः। द्वितीयं राशिद्वयस्य। तृतीयं राशित्रयस्य। अतो विश्लेषितानीत्युपपन्नम्। इदानी प्रकान्तरेणाह” प्रमि०। “कीटादिराश्यन्वजकोटिजीवास्त्रिज्या ३४३८ गुणाः स्वस्वदिनज्ययाप्ताः। चापीकृताः प्राग्वदधो विशुद्धाः कीटादिकानामुदयासवो वा” शि०। “कोटादिराश्यन्तजकोटिजीवास्ता एकद्वित्रिराशिज्या मवन्ति १७१९। २९७७। ३४३८। एतास्त्रिज्यया गुण्याः स्वस्वदिनज्यया भक्ता इति। वैव वृषभान्ते व्युज्या सैव कीटान्तेऽपि ३२१८। यैव भेषान्तेद्युज्या सैव सिंहान्तेऽपि ३३६६। कन्यान्ते द्युज्या त्रि- ज्यैव ३४३८। आभिस्ता भाज्याः। फलानां चापान्यधोऽधः शुद्धानि कीटादीनामुदयासवः स्युर्निरक्षे वा। त एव मिथुनवृषभमेषाणामित्यर्थः। अत्रोपपत्तिः। क्रान्तिवृत्ते बषभान्ते सूत्रस्यैकमग्रं बद्ध्वा द्वितीयमग्रं कीटान्ते निबध्यते तस्य सूत्रस्यार्द्धमेकाराशेर्ज्या भवति। एवं सूत्रस्यैकप्तग्रं मेषान्ते बद्ध्वा द्वितीयं यिंहान्ते तस्य सूत्रस्यार्धं राशिद्वयस्य ज्या भवति। एवं मेषतुलादौ वद्वसूत्रस्यार्धं त्रिज्या। एता एव वृषभान्तमेषान्तमीनान्ताहोरात्रवृत्तानां ज्या भवन्ति यतस्तत्संपातेषु क्रान्तिवृत्ते सूत्राणि बद्वानि। अतस्तासां त्रिज्यावृत्तपरिणतानां चापान्तराणि कीटादिकानामुदया मवन्तीति गोले प्रदर्शयेत्। इदानीं पुनः प्रकारान्तरेणाह प्रमि०। “मेषादिजीवास्त्रिगृहद्युमौर्व्या ३१४१ क्षुण्णा हृताः स्वस्वदिनज्यया वा। चापीकृताः प्राग्वदधो विशुद्धा मेषादिकानामुदयासवो वा” शि०। स्पष्टार्थमिदम्, अस्योपपत्तिर्गोले कयितैव सुगमा च अथ निष्पन्नांस्तानसूनाह” प्रमि०। “तेऽभ्राद्रिभूपा १६७० गुणगोऽद्रिचन्द्राः १७९३ सप्ताग्निनन्देन्दुमिता १९३७ अथैते। क्रमोत्क्रमस्थाश्चरखण्डकैः स्वैः क्रमोत्क्रमस्थैश्च विहीनयुक्ताः। मेषादिषस्मामुदयाः स्वदेशे तुलादितोऽमी च विलोमसंस्थाः। उदेति राशिः समयेन येन तत्सप्तमोऽस्तं समुपैति तेन” शि०। “अत्र घनु करणे जीवानां स्थूलत्वाद्द्वितीयतृतोयावुदयौ नान्यैः सम्यक्पठितौ। अत्र प्रथमप्रकारेण प्रथम उदयो गृह्यते। द्वितीयादिप्रकारेण द्वितीयतृतीयौ। शेषं स्पष्टार्थम्। अत्रोपपत्तिः। निरक्षस्वदेशार्कोदययोरन्तरं चरम्। निरक्षे स्वदेशे च मेषादिः सममुदेति। मेषान्त आदौ स्वक्षितिजे, तत उन्मण्डले लगति। अतश्चरखण्डोनो मेषोदयः स्वदेशोदयो भवति। एवं वृषमिथुनयोरपि। कर्क्यादौ तु चरस्वण्डानामुपचीतयमानत्वाद्धनं तानि परिणमन्ति। तुलादौ तून्मण्डलस्याधःस्थितत्वाच्चरस्वण्डानि घनं भवन्ति। मकरादौ तु चरखण्डनामपचीयमानत्वादृण परिणमन्ति। इत्यादि गोले सम्यग्विलोक्यते” प्रमि०। “चरखण्डाश्च तत्रैवोक्ता यथा “स्वदेशजैस्तच्चरखण्डकैर्वा लघुज्यकावद्रविदोस्त्रिभागात्। मेषादिराशित्रितयस्य यानि चराण्यधोऽधः परिशोधितानि। तानि स्वदेशे चरखण्डकानि दिङ्नागसत्र्यंशगुणै १०। ८। ३। २० र्विनिघ्नी। पलप्रभा तोयपलात्मकानि स्थूलानि वा स्युश्चरखण्डकानि। स्थूलं चरं चाम्बुपलात्मकं तैस्तत्प्राणचापं यदि वापि सूक्ष्मम्” शि०। “अथ वा तच्चरं वक्ष्यमाणैस्त्रिभिः खण्डकैः स्वदेशजैर्लघुज्याप्रकारेणांशसितदशाप्तमित्यादिना साध्यम्। कस्मादित्याह। रविदोस्त्रिपागात्। अर्कस्य सायनांशस्य यो भुजस्तस्य यस्त्र्यंशस्तस्मादंशमितदशाप्तमित्यादिना। अथ खण्डकानि। मेषादिराशित्रयस्येत्यादि सुगमम्। अथ स्थूलखण्डकैर्यच्चरं तत् स्थूलं पानीयपलात्मकं भवति। तत् षड्गुणं प्राणात्मकम्। तस्माद्यदि घनुः क्रियते तदा सूक्ष्मं चरार्धं स्यात्। अत्रोपपत्तिः। एकमङ्गुलं पलभां प्रकल्प्य एकद्वित्रिराशीनां पृथक् चराण्यानीय तानि षड्भिर्विमज्य पानीयपलात्मकानि कृत्वा यावदधोऽधो विशोध्यन्ते तावद्दिङ्वागसत्र्यंशगुणा उत्पद्यन्ते। अतोऽनुपातः। तद्येकाङ्गुलया पलमयैतानि चरखण्डानि तदेष्टया किमिति। एवं चरखण्डानि स्युः। परं तानि ज्यात्मकानि यतः पूर्वं स्वल्पत्वात् धनुर्नोत्पन्नम्। अत एव तत्प्राणचापं यदि वापि स्वक्ष्ममित्युक्तम्। खण्डकैश्चरकरणे लघुज्यासाधनवद्वासना। तत्र लघुज्याखण्डकानि नव चरखण्डकानि त्रीणि परमे राशित्रये भुजे यथा त्रीणि लभ्यन्ते। तदर्थं रविदोस्त्रिमागादित्युक्तम्” प्रमि०। गोलाध्याये च उदयान्तरकर्म्मोपत्तियुक्तं देशान्तर सहितं स्पष्टतया तत्साधनमुक्तं यथा “अहर्गणो सध्यमसावनेन कृतश्चलत्वात् स्फुटसावनस्य। तदुत्यखेटा उदयान्तराख्यकर्मोद्भवेतोनयुताः फलेन। लङ्कोदये स्युर्न कृतास्तथाद्यैर्यतोऽन्तरन्तच्चलमल्पकञ्च” शि० योयमहर्गण आनीतः स मध्यमसावनेनैव कुवः? स्फुटसावनस्य चलत्वात् तथाविधेनानुपातेन स्फुटो मायातीत्यर्थः युगादेरारभ्य वर्तमानरविवर्षादेः प्राक् यावान् मध्यमसावनस्तावानेव स्फुटसावनः स्यात् किन्तु रविवर्षादेरूर्द्धं यावान् मध्यमसा वनस्तावान्न स्फुटा अतस्तदुत्यखेटा उदयान्तराख्यकर्मो द्भवेन फलेनानयुताः सन्तो लङ्कोदये स्वुर्नान्यथा लङ्कायां भास्करोदये मध्या इति यदन्यैरुक्तं तदसत्। अथोदयान्तरकर्माह” प्रमि० “मध्यार्कभुक्ताअसवीनि रक्षे ये ये च मध्यार्ककलासमानाः। तदन्तरं यत् स्फुटमध्ययोस्तत् द्युपिण्डयोः स्याद्विवरं गतिघम्। हृतं द्युरात्रासुभिराप्तलिप्ता हीनाग्रहाश्चेदसवोऽल्पकाः स्युः। तदत्यथाढ्यास्तु निजोदयैश्चेद्भक्तासु पूर्वं विहितं तदानीम्। कृतं तथा स्याच्चरकर्ममिश्रं कर्म ग्रहाणामुदयास्तराख्यम्” शि०। “सायनांशेन रविणा मेषादेरारभ्य ये भुक्ताराशयस्तत्सबन्धिनो ये निरक्षोदयासवो गगनंभूधरषट्क- चन्द्राः १६७०। इत्यादयस्तेषामैक्यं कृत्वा भुज्यमान राशेर्ये भुक्तभागास्तांस्तदुदयासुभिः सङ्गुण्य त्रिंशता ३० विभज्य लब्धासवोऽपि तत्र क्षेप्याः एवं मध्यार्कभुक्तासवः स्युः। भदिनान्तादूर्ध्वं तावत्यस्वात्मके काले लङ्कायां मध्यमस्यार्कस्योदयः। तत्काले हि ग्रहाः साध्याः अथ चाहर्गणेन ये सिद्धास्ते मध्यमार्ककलामितेऽस्वात्मके काले भदिनान्तादूर्ध्वं जाताः, अतोऽसूनां कलानां च यदन्तरं तेनार्कोदयोऽन्तरितः। अतस्तदुदयान्तराख्यं कर्मोच्यते तैरन्तरासुभिर्ग्रहगातिं सङ्गुण्यार्कसावनाहोरात्रासुभि २१६५९ र्विभज्य लब्धकला ग्रहे ऋणं कार्याः यदि कलाभ्योऽसवोऽल्पकाः स्युः, अन्यथा धनं, यदि तु स्वदेशोदयै र्मध्यमार्कभुक्तानसूनानीयैदंकर्म कृतं तदौदयिकानां ग्रहाणां चरकर्मापि कृतं स्यात् यदि तु स्फुटार्कभुक्तानसून् स्वोदयासुभिरानीयेदं कर्म कृतं तदोदयान्तरभुजान्तर चरकर्माणि त्रीण्यपि कृतानि स्युः तर्हि कथमिदमुदयान्तराख्यं कर्माद्यैर्न कृतं तदाह यतोऽन्तरं तच्चलमल्पकञ्च पर्षचरणान्तेषु चतुर्ष्वपि अन्तराभावः तन्मध्येष्वन्तरस्य वृद्धिक्षयौ। इदानीं देशान्तरस्वरूपमाह” प्रमि० “येऽनेन लङ्कोदयकालिकास्ते देशान्तरेण स्वपुरोदये स्युः। देशान्तरं प्रागपरं तथान्यद्याम्योत्तरं तच्चरसंज्ञमुक्तम्” शि०। “ये उदयान्तरकर्म्मणा लङ्कायामौदयिका ग्रहा जातास्ते देशान्तरकर्म्मणा स्वपुरौदयिकाः स्युः। तच्च देशान्तरं द्धिविधम् एकं पूर्वापर, मन्यद्याम्योत्तरं तच्चरसंज्ञमुक्तं तत्र तावत्पूर्वापरमाह” प्रमि०। “यल्लङ्कोज्जयिनीपुरोपरिकुरुक्षेत्रादिदेशान् स्पृशत् सूत्रं मेरुगतं बुधैर्निगदिता सा मध्यरेखा भुवः। आदौ प्रागुदयोऽपरत्र विषये पश्चाद्धि रेखोदयात् स्यात्तस्मात् क्रियते तदन्तरभवं खेटेष्वृणं स्वं फलम्” शि०। “लङ्काया मेरुपर्यन्तं मीयभाना या रेखा उज्जयिनीकुरुक्षेत्रादिदेशान् स्पृशन्ती याति सा मध्यरेखेत्युच्यते। रेखायां यदार्कोदय स्तत्कालात् पूर्व्वमेव पूर्वदेशे भवति रेखोदयकालादनन्तरं पश्चिमदेशेऽर्कोदयः। तदन्तरकालस्तदन्तरयोजनैः स्पष्टभूवेष्टनाद्यनुप्रातेन ज्ञायते यदि स्फुटपरिधियोजनैः षष्टि ६० घटिका लभ्यन्ते तदा रेखास्वपुरयोरन्तरयोजनैः किमितीति त्रैराशिकेन देशान्तरघटिकालभ्यन्तेमध्यगत्याऽथ चानीता ताड्यस्त भिरनुपातः यदि घटीषष्ट्या ग्रहस्य गतिकला लम्यन्ते तदा देशान्तरघटीभिः किमिति अथ योजनैरेवाऽनुपातः। यदि स्फुटपरिधियोजनैर्गतिः प्राप्यते तदा देशा- न्तरयोजनैः किमिति फलं कलाः प्रागृणं, यतस्तत्रा दावुदयः पश्चाद्धनं यतस्तत्र रेखोदयादनन्तरमर्कोदय इत्युपपन्नम्। इदानींभूगोलेस्फुटपरिधिप्रदेशं स्फुटतानुपातं चाह” प्रमि० “स्वदेशमेर्वन्तरयोजनैर्यल्लम्बांशजैर्मेरुगिरेः समन्तात्। वृत्तं स्फुटो भूपरिधिर्यतः स्यात्त्रिज्याहतो लम्बगुणः कृतोऽस्मात्” शि० “स्वपुरस्य मेरुगर्भस्य चान्तरे यावन्ति योजनानि तावन्ति लम्बांशजानि यतो निरक्षदेशस्वपुरान्तरयोजनान्यक्षांशजानि, भागेभ्यो योजनानि च व्यस्तमित्युपपद्यत इत्यर्थः तैर्लम्बांशजैर्योजनैर्मेरुगिरेः समन्ताद्यद्वृत्तमुत्पद्यते स स्फुटं मूपरिधिः यो मध्यपरिधिः पठितः स निरक्षदेशोपरि। अयन्तु स्वपुरोपरि, अतः किञ्चिन्न्यूनो भवति अथ तदानयनं मध्यपरिधेरभीष्टन्त्रिज्यातुल्यं व्यासार्धं प्रकल्प्य तस्मिन् व्यासार्धे स्वपुरे यावती लम्बज्या तावत् स्फुटपरिधेर्व्यासार्धं भवितुमर्हति अतस्तेन त्रैराशिकं यदि त्रिज्याव्यासार्धे मध्यमः प्ररिधिर्लभ्यते तदा लम्बज्यामिते कः इति फलं स्फुटपरिधिरित्युपपन्नम्” प्रमिताक्षरा।

इष्टकाले लग्नाद्यानयनम् अष्टमशब्दे ५१९ पृष्ठ लङ्कोदयप्रमाणदर्शनपूर्वकमुक्तप्रायम् विशेषस्तु सि० शि०। “तात्कालिकार्केण युतस्य राशेरभुक्तभागैर्गुणितोदयात् स्वात्। मोग्यासवः खाग्निहृतादवाप्ता भुक्तासवो भुक्तलवैः स्युरेवम्। इष्टासुसङ्घादपनीय भोग्यांस्तदग्रतो राश्युदयांश्च शेषम्। अशुद्धहृत् खाग्निगुणं लवाद्यमशुद्ध्वपूर्वैर्भवनैरजाद्यैः। युक्तं तनुः स्यादनयनांशहीनमिष्टासवोऽल्पा यदि भोग्यकेभ्यः। त्रिंशद्गुणाः स्वोदयभाजितास्ते लब्धांशयुक्तो रविरेव लग्नम्” शि०। “यस्मिन् काले लग्नं ज्ञेयं तस्मिन् काले तात्कालिकोऽर्कः सायनांशः कार्यः। तेनार्केण युतस्य राशेर्ये भोग्यांशास्तैस्तदुदयासवो गुण्यास्त्रिंशता भाज्याः। ये लब्धास्ते भोग्यासवः स्युः। अथेष्टासुभ्यो भो ग्यासून् विशोध्य तदग्रतो यावन्त उदयाः शुध्यन्ति तावन्तः शोध्याः। ततः शेषात् खरामगुणादशुद्धोदयेन भक्ताद्यल्लब्धमंशाद्यं तदशुद्धोदयात् पूर्वं यावन्तो मेषाद्यौदयास्तावद्भी राशिभिर्युतमयनांशैश्च रहितं तल्लग्नं स्यात्। अथ यदीष्टासवो भोग्येभ्योऽल्पः तदेष्टासवस्त्रिंशद्गुणास्तदुदयासुभिर्भाज्याः। फलेनांशाद्येन युतो रविर्लग्नं स्यात्” प्रमि० लग्नांशादिना कालानयनं तत्रैव दर्शितं यथा “अर्कस्य भोग्यस्तनुभुक्तयुक्तो मध्योदयाढ्यः समयो विलग्नात्। यदैकभे लग्नरवी तदा तद्भागान्तरंस्वोदयखाग्निभागः। लग्नेऽल्पके तु द्युनिशात् स शोध्यस्तात्क्रालि- कार्कादसकृच्च कालः। चेत् सावनाः प्रष्टुरभीष्टनाड्यस्तदैव तात्कालिकतिग्मरश्मेः।। आर्क्ष्यो यदेष्टाघटिका विलग्नं कालश्च तत्रैदयिकात् सकृच्च” शि०। “अर्कस्य प्राग्वद्भोग्थकालः साध्यः। लग्नस्य सायनांशस्य भुक्तकालः साध्यः तयोरैक्यमर्कादग्रतो लग्नपर्य्यन्तं ये मध्ये राशयस्तेषामुदयाश्च क्षेप्यास्तत्रैव। एवं लग्नात् कालो भवति। अत्र यदैकराशौ लग्नार्कौ भवतस्तदा तयोरन्तरांशैः स्वोदयं सङ्गुण्य त्रिंशता भजेत् फलमिष्टकालः स्यात्। परं थद्यर्काल्लग्नमधिकम्। यद्यल्पं तदा स कालोऽहोरात्राच्छोध्यः। शेषमिष्टकालः स्यात्। अत्रेष्टकालसाघनेऽर्कस्य भोग्यमौदयिकादेव क्रियते। यतः कालज्ञानात् तात्कालिकत्वमर्कस्य कार्य्यम्। अतः स्थूलः काल आयाति। अनेन कालेन तात्कालिकमर्कं कृत्वा मुहुः कालः साधयितुं युज्यते। परं यदि प्रष्टुः सावनघटिका इष्टाः। एतदुक्तं भवति। उदयानन्तरमेतावतीष्वर्कसावनघटिकासु कीदृग् लग्नं भवतीत्येतदभीष्टं तदैव तात्कालिकार्काल्लग्नं साध्यते तदैव च लग्नादसकृत् कालः। यदा पुनरिष्टघटिका आर्क्ष्यस्तदौदयिकादेवार्काल्लग्नं लग्नात् कालः सकृच्च। अत्तोपपत्तिः सुगमा। तात्कालिकीकरणकारणता गोले कथिता व्याख्याता च। इदानीं विलोमेन लग्नसाधनमाह” ग्रमि०। “भुक्तासु शुद्धेर्विपरीतलग्नं भुक्तांशगेहाप्तलवोनितोऽर्कः” शि० “यदोदयात् पूर्वघटीषु लग्नमिष्टं तदा शेषासुभ्यो विशोध्य तत्कालिकर्मर्कं कृत्वा तस्य भुक्तासवः साध्यास्तानिष्टासुभ्यो यावन्त उदया विशुध्यन्ति तावतो विलोमेन विशोधयेत्। शेषात् खरामगुणितादविशुद्धो दयभक्ताद् ये लब्धा अंशास्तैस्तथार्कभुक्तांशैश्च तथा विशुद्धोदयतुल्यैराशिभिश्चोनीकृतो रविर्लग्नं भवति प्रमि०। होराद्रेक्काणोदयसाधनमपि तत्रैव यथा “क्षेत्राणां स्थूलत्वात् स्थूलाउदया भवन्ति राशीनाम्। सूक्ष्मार्थी होराणां कुर्य्याद्द्रेक्काणकानां वा” शि० “यथा राश्युदयाः साधितास्तथा होरोदया अपि साध्याः। त द्यथा पञ्चदशादिपञ्चदशभागोत्तरभागाणां ज्या होराज्याः षड् भवन्ति। ताभिर्मिथुनान्तद्युज्या ३१४१ पृथक् पृथग्गुण्या स्वस्वद्युज्यया भाज्या। फलानां धनूंष्यधोऽधः शुद्धानि। षष्ठात् पञ्चमं पञ्चमाच्चतुर्थ–मित्यादि। शेषाणि होरोदयासवो भवन्ति। एवं दशादिदशोत्तरभागैर्द्रेक्काणोदया भवन्ति। ते च नव। तथा होरांशानाह षट् चराणि। यान्यधोऽधः शुद्धानि तानि तेषां चरखण्डानि तैः क्रमोत्क्रमस्थैः क्मोत्क्रमस्था ऊनयुताः सन्तः स्वदेशे होरोदया भवन्ति। मेषादीनां द्वादश, ते च व्यस्तास्तुलादीनाम्। एवं चतुर्विंशतिः २४। एवमेव द्रेक्काणोदयाः षट्त्रिंशत्। तथा चार्कस्य सायनांशस्य मागाः पञ्चदश १५ हृता गता होराः स्युः। शेषांशास्ते भुक्तास्ते पञ्चदशभ्यः शुद्धा भोग्यांशाः स्युः। भोग्यांशघ्नः स्वदेशहोरोदयः वञ्चदशहृताः फलं भोग्यासवः स्युस्तानिष्टासुभ्यो विशोध्य तदग्रतो होरोदयांश्च शोधयेत्।। शेषं पञ्चदशगुणमशुद्धहोरोदयेन भजेत् फलं लवाः। अशुद्धपूर्व्वाणां होरोदयानां संख्यया गुणितैः पञ्चदशभिर्युताः सन्तो लग्नस्यांशा मवन्ति। एवं लग्नात् कालसाधनेऽपि। एवमेव दृक्कणोदयैरपि लग्नसाधनम्। तत्र पञ्चदशस्थाने दश १० गुणने भजने च कल्प्याः। एवं होरोदयैर्दृक्काणोदयैर्वा साधितं लग्नादिकमुदयान्तराख्यं कर्म्म च सूक्ष्मं भवति अन्यथा स्थूलम्” प्रमि०।

ग्रहाणामुदयान्तरकर्म तत्रोक्तम् “भानोः फलं गुणितमर्कयुतस्य राशेर्व्यर्क्षोदयेन खखनागमही १८०० विभक्तम्। गत्या ग्रहस्य गुणितं द्युनिशासु भक्तं स्वर्णं ग्रहेऽर्कवदिदं तु भुजान्तराख्यम्” शि०। “अर्कस्य यद्भुजफलं थस्मिन् राशौ रविर्वर्त्तते तस्य राशेः सम्बन्धी यो निरक्षोदयस्तेन तद्गुणितराशिकलाभि १८०० र्भक्तं पुनर्ग्रहगत्या गुणितमहोरात्रासुभि २१६५९ र्भक्तं यत् फलं तद्ग्रहेऽर्कवत् धनर्णं कार्य्यम्। यद्यर्कस्य भुजफलम् धनं, तदा सूर्य्यस्यान्येषां च धनम्। यदि ऋणं तदा ऋणमित्यर्थः। अत्रोपपत्तिः। ये मध्यमार्कौदयिकास्ते स्फुटार्कौदयिकाः क्रियन्ते। तत्रार्कफलस्यासुकरणायानुपातः। यदि राशिकला १८०० निरक्षोदयासुभिरुद्गच्छन्ति तदा फलकलाः कतिभिरिति। लब्धं भास्वत्फलोत्था असवो भवन्ति। अथान्योऽनुपातः। यदि द्युनिशासुभिर्गतिकला लभ्यन्ते तदैभिः किमिति। ताः कला ऋणं धनं च यतो मध्यमार्कोदयात् प्राक् स्फुटार्कोदयः स्यादृणे तत्फले स्वं यतोऽऽनन्तरमित्युपपन्नम्। इदानीमुदयान्तरमाह” प्रमि०। “युक्तायनां शस्य तु मध्यमस्य भुक्तासवोऽर्कस्य निरक्षदेशे। मेषादिभुक्तोदयसंयुता ये यश्चायनांशान्वितमध्यभानोः। लिप्तागणस्तद्विवरेण निध्नी गतिर्ग्रहस्य द्युनिशासुभक्ता। स्वर्णग्रहे चेदसवोऽधिकोना इदं ग्रहाणामुदयान्तराख्यम्” शि० “मध्यमार्कस्य सायनांशस्य ये राशेर्भुक्तभागास्तैस्तदुदयं निरक्षदेशीयं संगुण्य त्रिंशता विभजेत् फलं तस्य राशेर्भुक्तासवः। अथ मेषाद्या येऽर्केण भुक्ता राशयस्तेषां च निरक्षोदयासवस्तत्र योज्यास्ते मेषादिभुक्तोदयासवः स्युः। अथ मध्यमार्कस्य सायनांशस्य कलाः कायांः। तासां कलानां तेषामसूनां च यदन्तरं तेन ग्रहगतिर्गुण्या द्युनिशासुभिर्भाज्या लब्धाः कला ग्रहे धनं कार्याः यदि कलाभ्योऽसवोऽधिकाः स्युः, यदि न्यूनास्तदा ऋणम्। अत्रोपपत्तिः। इह यः पूर्व्वमहर्गणः कृतः समध्यमसावनमानेन स्फुटसावमस्य चलत्वात्। रविमध्यगतिकलातुल्यासुभिः सहिता नाक्षत्राः षष्टिघटिकाः ६०, ५९, ८। इदं मध्यममर्कसावनम्। ता गतिकला यैरसुभिरुद्गच्छन्ति तद्युताः वष्टिघटिकाः स्फुटसावभम्। तच्चलम्। प्रत्यहं गत्यन्यत्वात् प्रतिमासं राश्युदयान्यत्वाच्च। तादृशोऽहर्गणः कर्त्तुं नायातीति मध्यमः कृतः। तेन सम्यनर्कोदये ग्रहा न भवन्ति कदाचिदर्कोदयात् प्राक् कदाचिदनन्तरम्। अत एव प्रागुक्तम्। “दशशिरः पुरि मध्यमभास्करे क्षितिजसर्न्निधिगे सति मध्यमः” शि० इति। अथ स्फुटमध्याहर्गणयोरन्तरानयनम्। मेषादेरारभ्य येऽर्कभुक्ता राशयस्ते वैरसुभिरुद्गच्छन्ति त एकीकृता। तावत्यस्वात्मके काले भदिनान्तादूर्द्ध्वमहर्गणेन भवितव्यम्। अथ च मेषादिभुक्तकलातुल्येऽन्तरे कृतः। अतोऽसूनां कलानां च यदन्तरं तावद्भिरसुभिरहर्गणोऽन्तरितः। यद्यहोरात्रासुभिर्गतिर्लभ्यत तदैभिरन्तरासुभिः किमिति। फलं ग्रहेषु स्वं यद्यसवोऽधिकाः। अन्यथा ऋणमित्येतदुक्तं युक्तमेव”। इदानीं येऽस्योदयान्तरस्य वासनां न बुध्यन्ति तेषां प्रतीत्यर्थमन्यदप्याह” प्रमि०। “चेत् स्वोदयैः स्फुटरवेरसवः कृतास्ते विश्लेषिताश्च यदि मध्यरवेः कलाभिः। बाह्वन्तराख्यमुदयान्तरकं चराख्यं कर्मत्रयं विहितमौदयिके तदा स्यात्” शि०। “यदि स्फुटरवेः स्वोदयेन भुक्तासवः कृता मेषादिस्वोदयैश्च युतास्तेषामसूनां मध्यमार्ककलानां च यदन्तरं तेन भुक्तिर्गुणिता द्युनिशासुभिर्भक्ता यद्यसवोऽधिकास्तदा फलं ग्रहे स्वम्। अन्यथा ऋणम्। एवं कृते सति भुजान्तरमुदयान्तरं चराख्यं च कर्मत्रयमपि कृतं स्यादौदयिके ग्रहे। इदानीं प्रकारान्तरेणौदयिककर्माह” प्रमि०। “मध्याद्रवेरयनभागयुताद्द्विनिघ्नाद्दोज्या खघुर्गतिगुणा खनगाश्चि २७० भक्ता। स्वर्णं ग्रहे युगयुजोः पदयोर्विलिप्तास्वेवं स्फुटं खलु भवेदुदयान्तरं वा” शि०। “मध्यमार्कस्थ सायनांशस्य द्विगुणितस्य या लघुस्वण्डकैर्दोर्ज्या तया गुणिता ग्रहगतिः खनगयमै २७० र्हृता फलं विकलादि ग्रहे धनम्। एवं युग्मपदस्थितेऽर्के। अयुग्मपदस्थिते त्वृणम्। अत्रोपपत्तिः। क्रान्तिवृत्तस्य चत्वार्यपि पदानि पृथक् पृथक् पञ्चदशभिः पञ्चदशभिर्घटिकाभिरुद्गच्छन्ति। परं नैकैको राशिः पञ्चभिरत उदयान्तरकर्म पदमध्यं यावदुपचीयते ततोऽपचोयते। अत एव पदान्तरेषु तस्याभावः। पदमध्येषु परमता। यदत्र निरक्षोदयैः कर्म दर्शितं तद्बालावबोधार्थम्। तत् स्थूलम् उदयानां स्थूलत्वात्। अत एवार्य्य सट्टादिभिः सूक्ष्मत्वार्थं दृक्काणोदयाः पठिताः”। इदमुदयान्तरं कर्म यथा सग्भवति तथोच्यते। मध्यमार्कस्य सायानांशस्य दोर्ज्यां द्युज्यां च कृत्वा तया द्युज्यया सा दोर्ज्या भाज्या मिथुनान्तद्युज्यया गुणनीया। तस्या धनुषो येऽसवस्तैर्मध्यमार्कस्य सायनांशस्य भुजकला ऊनाः सत्यः स्फुटा अन्तरासवो भवन्ति। तैरुदयोऽन्तरित इत्यर्थः एवं पदमध्ये षडिवंशतिः पलानि किञ्चिदधिकानि भवन्वि। तानि ज्याप्रकारेण साधयितुमर्को द्विगुणितः। द्विगुणितस्यार्कस्य यावद्भुजः क्रियते तावत् पदमध्ये राशित्रयं भवति। तद्दोर्ज्यया लघ्व्या षडिवंशत्या चानुपातः। यदि खार्कमितया दोर्ज्यया षडिवंशतिर्लभ्यते तदाभीष्टया किमिति। अत्र षड्किशत्या खार्का अपवर्त्तिता गुणकस्थाने रूपम् १। हरस्थाने सार्धाश्चत्वारः। फलं पानीयपलानि। पुनरन्योऽनुपातः। यदि पानीयपलषष्ट्या गतिकलातुल्या विकला लभ्यन्ते तदैभिः किमिति। पूर्वं लघ्वी दोर्ज्या गुणः सार्धाश्चत्वरो हरः। इदानीं षष्टिर्हरः अतो ग्रहगतेर्दोर्ज्या गुणः। हरयोर्घातो हरः खनगाश्विनः २७० इत्युपपन्नम्। ओजपदेऽसवः कलाभ्य ऊना एव भवत्यतस्तत्र ऋणम्। युम्मपदे त्वधिका अतस्तत्र धनम्” प्रमि०

ग्रहाणां दृश्यादृश्ययोः चन्द्रे विशेषस्य च निरूपणं तत्रैव “निशीष्टलग्नादुदयास्तलग्ने न्यूनाधिके यस्य खगः सदृश्यः। दिनेऽपि चन्द्रो रविसन्निधानान्नास्तं गतश्चेत् सति दर्शने भा” शि०। “दिनकरेऽस्तंगते यदिष्टकाले लग्नं तदिष्टलग्नम्। तस्माद्ग्रहश्चोदयाख्यलग्नं न्यूनमस्ताख्यं चाधिकं यदि भवति तदा ग्रहो दृश्यः इतोऽन्यथा चेददृश्यः। एवं लक्षणे सति चन्द्रो दिवसेऽपि दृश्यः। यदि ग्रहो दृश्यस्तदा ग्रहस्य छाया साध्या” प्रमि०।

ताराग्रहाणामुदयास्तममयोर्ज्ञापनं यथा सू० सि० रङ्गना०। “अथोदयास्तमययोः परिज्ञानं प्रकीर्त्यते। दिवा- करकराक्रान्तमूर्त्तीनामल्पतेजसाम्” सू०। “अथ नक्षत्रग्रहयुत्यधिकारानन्तरम्। सूर्य्यकिरणाभिभूता मूर्त्तिर्विम्बं येषां तेषां चन्द्रादिषड्ग्रहाणां नक्षत्राणां च। अतएवाल्पतेजसां न्यूनप्रभावतामुदयास्तमययोः अग्रिमकाले सूर्य्यादधिकासन्निहितसन्निहितत्वसम्भावनया क्रमेणोदयास्तयोः सूर्यान्निःसृतस्य यस्मिन् काले यदन्तरेण प्रथमदर्शनं सम्भावितं स उदयः। सूर्याद्दूरस्थितस्य यस्मित् काले यदन्तरेण प्रथमादर्शनं सम्भावितं सोऽस्तः। अनेन नित्योदयास्तव्यवच्छेदस्तयोरित्यर्थः। परिज्ञानं सूक्ष्मज्ञानप्रकारः प्रकीर्त्यते अति सूक्ष्मत्वेन मयोच्यत इत्यर्थः। तथा च ग्रह इत्युद्देशेऽस्तमनमुद्दिष्टमपि तस्य पूर्व्वमेव सूर्यासमत्व एव सम्भवात् तद्विलक्षणतया ग्रहयुतिप्रसङ्गे नोक्तम्। नक्षत्रग्रहयुतिस्तु ग्रहयुतिवदिति तदनन्तरमुक्ता। अतः प्रतिबन्धकजिज्ञासापगमेऽवश्यवक्तव्यत्वादस्यावसरसङ्गतित्वात् तत्सङ्गत्या नक्षत्रग्रहयुत्यधिकारानन्तरं प्रागुद्दिष्टमस्तमनं तत्प्रसङ्कादुदयश्च प्रतिपाद्यत इति भावः। तत्र प्रथमं पञ्चताराणां पश्चिमास्तपूर्वोदयावाह” र० ना०। “सूर्यादभ्यधिकाः पश्चादस्तं जीवकुजार्कजाः। ऊनाः प्रागुदयं यान्ति शुक्रज्ञौ वक्रिणौ तथा” सू० “वक्रगती शुक्रबुधौ तथा सूर्यादधिकौ पश्चिमास्तं गच्छतः। सूर्यादल्पौ पूर्वोदयं प्राप्नुतः। शेषं स्पष्टम्। अथ चन्द्रबुघशुकाणां पूर्वास्तपश्चिमोदया वाह र० ना०। “ऊना विवस्वतः प्राच्यामस्तं चन्द्रज्ञभार्गंवाः। व्रजन्त्यभ्यधिकाः पश्चादुदयं शीघ्रयायिनः” सू०। “शीघ्रयायिनः सूर्य्यगत्यधिकगतय इत्यर्थः। एतेन बुधशुक्रावर्कगत्यल्पगती सूर्यादल्पौ पूर्वास्तमधिकौ च पश्चिमोदयं न प्राप्तुत इत्युक्तम्। शेषं स्पष्टम्। अत्रोपपत्तिः। रविगतितोऽल्पगतिर्ग्रहोऽर्कादूनश्चेत् प्राच्यां दर्शनयोग्यो भवितुमर्हति। यतः सूर्यस्याधिकत्वेन बहुगतित्वाच्चोत्तरोत्तरमधिकविप्रकर्षात् प्रवहवशेन न्यूनस्य पूर्वमुदयादधिकस्यानन्तरमुदयनियमात्। ग्रहस्य क्रान्तिजसंलग्नताकालानन्तरं यावत् सूर्यस्य तादृशः कालस्तावत्पर्यन्तं विप्रकर्षे दर्शनसम्भवात्। एवं यदाल्पगतिः सूर्यादधिकस्तदा प्रवहवशेनार्कस्य पूर्वमुदयादनन्तरमुदितग्रहस्य दर्शनासम्भवात् प्रवहवशेनादौ न्यूनार्कस्यास्तसम्भवादनन्तरमधिकग्रहस्यास्तसम्भवात् सूर्यास्तानन्तरं पश्चिमभागे ग्रहदर्शनसम्भवेऽप्यधिकगतिसूर्यस्य पृष्ठस्थितत्वेनोत्तरोत्तरमधिकसन्निकर्षात् पश्चिमायामदर्श- नं सम्भवत्येव। ते तु भौमगुरुशनयः। वक्रत्वे न्यूनगतित्वाद्बुथशुक्रौ चेति। अथार्कगतितोऽधिकगतिग्रहः। सूर्यादूनस्तदोक्तरीत्योत्तरोत्तरभधिकसन्निकर्षात् पूर्वस्मिन्नदर्शनं याति। यदा सूर्यादधिकस्तदोक्तरीत्योत्तरोत्तरमधिकविप्रकर्षात् पश्चिमायामुदयः। ते तु शीघ्राश्चन्द्रबुधशुक्रा इत्युपपन्नमुक्तम्। अथाभीष्टदिन आसन्ने सूर्योदयास्तकालिकौ सूर्यदृग्ग्रहौ तत्कालज्ञानार्थं कार्यावित्याह” र० ना०। “सूर्थास्तकालिकाः पश्चात् प्राच्यामुदयकालिकौ। दिवाकरग्रहौ कुर्याद्दृक्कर्माथ ग्रहस्यतु” सू०। “पश्चात् पश्चिमास्तोदयसाधनेऽभीष्टदिन आसन्ने सूर्यग्रहौ सूर्यास्तकालिकौ कुर्याद्गणकः। पूर्व्वास्तोदयसाधने सूर्योदयकालिकौ कुर्यात् दिनेऽभीष्टकाले कुर्यात्। चकारो विकल्पार्थकः। अनन्तरं ग्रहस्य दृक्कर्म्म आयनाक्षदृक्कर्म्मद्वयं कुर्यात्। तुकार आक्षदृक्कर्मश्लोवपूर्व्वार्द्धोक्तमिति विशेषार्थकः। अत्रोपपत्तिः। पश्चादस्तोदयसाघने पश्चिमायां तद्दर्शनमिति सूर्यास्तकालिकौ सूर्यग्रहावशिष्टकालांशसाधनार्थं सूक्ष्मौ। पूर्वोदयास्तमाधने पूर्वदिशि तद्दर्शनमिति सूर्योदयकालिकौ सूर्यग्रहावशिष्टकालांशसाधनार्थं सूक्ष्मावन्यकाले तु किञ्चित्स्थूलावपि कृतौ दृक्कर्मसंस्कृतग्रहस्य सूर्यवत् क्षितिजसंलग्नतायोग्यत्वादृक्कर्मसंस्कृतो ग्रहः कार्य इति। अथेष्टकालांशानयनमाह” र० ना०। “ततोलग्नान्तरप्राणाः कालांशाः षष्टिभाजिताः। प्रतीच्यां षड्भयुतयोस्तद्वल्लग्नान्तरासवः” सू०। “ततस्ताभ्यां सूर्य्यदृग्ग्रहाभ्यां लग्नान्तरप्राणाः “भोग्यासूनूनकस्याथ” इत्युक्तप्रकारेणान्तरकालासवः षष्टिभक्ता इष्टाः कालांशा भवन्ति। प्रागुदयास्तसाधने प्रतीच्यां, पश्चिमोदयास्तसाधने षड्भयुतयोः षड्राशियुक्तयोः सूर्य्यदृग्ग्रहयोर्लग्नान्तरासवः। अनन्तरासवस्तद्वत् षष्टिभक्ता इष्टकालांशा भवन्तीत्यर्थः। अत्रोपपत्तिः। दृग्ग्रहसूर्य्याभ्यामन्तरकालो ग्रहस्य सूर्य्योदयकाले दिनगतं पूर्वोदयास्तनिमित्तमुपयुक्तम्। एवं पश्चिमोदयास्तनिमित्तं सूर्य्यदिग्ग्रहाभ्यामस्तकालासुभिरन्तरकालः सूर्य्यास्तकाले ग्रहस्य दिनशेषकाल उपयुक्तः तत्रास्तकालानामनुक्तेरुदयासुभिः साधनार्थं सषड्भौ सूर्य्यदृग्ग्रहौ कृतौ स कालोऽस्वात्मकः। यदि अहोरात्रासुभिश्चक्रकलातुल्यैश्चक्रांशा लभ्यन्ते तदेष्टासुभिः क इत्यनुपाते प्रमाणफलयोः फलापवर्त्तनेन हरस्थाने षष्टिः। अतोऽस्वात्मकान्तरकालः षष्टिभक्त इष्टकालांशा इत्युपपन्नमुक्तम्। अत्रेदमवधेयम्। सूर्योदयकालि- काभ्यामर्कदृग्ग्रहाभ्यामानीतेन दिनगतेन पूर्वं चाल्योदृग्ग्रहः। सूर्य्यास्तकालिकाभ्यां सषड्भाभ्यामर्कदृग्ग्रहाभ्याभानीतेन दिनशेषेणाग्रे चाल्यः सषड्भो दृग्ग्रहः। क्रमेण ग्रहोदयास्तकाले प्राक्पश्चिमदृग्ग्रहौ भवतः। ताभ्यां सूर्य्यसषड्भसूर्य्याभ्यां च क्रमेण पूर्व्वरीत्यन्तरकालो ग्रहस्य सूर्य्योदयास्तकाले क्रमेण दिनगतशेषौ नाक्षत्रौ षष्टिभक्तौ कालांशाविष्टौ सूक्ष्मौ। अथेष्टकालिकाभ्यामानीतकालेन पूर्व्ववच्चालिताभ्यां प्राक्पश्चिमदृग्ग्रहाभ्यां सूर्य्यसषडभसूर्याभ्यां चानीतकालो नाक्षत्रोऽपि सूक्ष्मासन्नः। सूर्य्योदयास्तसम्बन्धाभावात् तदुत्पन्नाः कालांशा अपि तथा। अथ सूर्योदयास्तकालिकाभ्यामानीतैकवारं कालात् कालांशाः स्थूला इष्टकालिकाभ्यामानीतैकवारकालात् कालांशा अतिस्थूलाः उभयत्र कालस्य सावनत्वात्। न हि सावनषष्टिघटीभिश्चक्रपरिपूर्त्तिर्येन सूक्ष्माः सिद्ध्यन्तीति। अथ यैः कालांशैरुदयोऽस्ती वा भवति तान् विवक्षुः प्रथमं गुरुशनिभौमानां कालांशानाह” र० ना०। “एकादशामरेज्यस्य तिथिसङ्ख्यार्कजस्य च। अस्तांशा भूमिपुत्रस्य दशसप्ताधिकास्ततः” सू०। “तत इष्टकालांशावगमानन्तरमस्तांशाः। अस्तो यैरंशैर्भवति तेऽंशा अस्तीपलक्षणादुदयांशा ज्ञेयाः। अमरेज्यस्य गुरोरेकादश कालांशाः। शनेः पञ्चदश सङ्ख्या कालांशानाम्। चः समुच्चये। भौमस्य सप्ताधिका दश सप्तदश कालांशा इत्यर्थः। अथशुक्रस्याह” र० ना०। “पश्चादस्तमयोऽष्टाभिरुदयः प्राङ्महत्तया। प्रागस्तमुदयः पश्चादल्पत्वाद्दशभिर्भृगोः” सू० “शुक्रस्य महत्तया वक्रत्वेन नीचासन्नत्वात् स्थूलबिम्बतया पश्चिमायामस्तोऽष्टामिः कालांशैः प्राच्यामुदयश्च तैः नाधिकैः। प्राच्यां शुक्रस्याल्पत्वादणुबिम्बत्वाद्दशभिः कालांशैरस्तं गणकः कुर्य्यात् नाल्पैः। पश्चिमायामुदयस्तस्याणुबिम्बस्य दशभिः कालांशैरेव ज्ञेयः। अथ बुधस्याह” र० ना० “एवं बुधो द्वादशभिश्चतुर्दशभिरंशकैः। वक्रीशीघ्रगतिश्चार्कात्करोत्यस्तमयोदयौ” सू०। “वक्री शींघ्रगतिः। चः समुच्चये। बुधः सूर्य्याद्द्वादशभिश्चतुर्दशभिश्च कालांशैरस्तोदयौ एवं शुक्ररीत्या करोति। पश्चादस्तं प्रागुदयं च द्वादशभिः कालांशैर्महाबिम्बतया बुधः करोति। प्रागस्तं पश्चादुदयं च चतुर्दशभिः कालांमैरणुबिम्बत्वाद्बुधः करोतीत्यर्थः। अथ प्रोक्तेष्टकालांशाभ्यामस्तस्योदयस्य वा गतैष्यत्वज्ञानमाह” र ना०। “एभ्योऽधिकैः कालभागैर्दृश्या न्यूनैरदर्शनाः। भवन्ति लोके खचरा भानुभाग्रस्तमूर्त्तयः” सू०। “एम्य एकादशामरेज्यस्येति श्लोकत्रयोक्तेभ्योऽधिकैरिष्टकालांशैर्दृश्या दर्शनयोग्या अभीष्टकाले ग्रहा भवन्ति। तथा चास्तसाधने दृश्यत्वे अस्त एष्यः। उदयसाधने दृश्यत्व उदयो गत इति भावः। अल्पैरिष्टकालांशैर्ग्रहा लोके भूलोके अदर्शना न विद्यते दर्शनं दृष्टिगोचरता येषां ते अदृश्या अभीष्टकाले भवन्ति। नन्वदृश्याः कुतो भवन्तीत्यत आह। भानुभाग्रस्तमूर्त्तय इति सूर्यासन्नत्वेन सूर्य्यकिरणदीप्त्या ग्रस्ता अभिभूता सूर्य्यकिरणप्रतिहतलोकनयनाविषयो मूर्त्तिर्बिम्बस्वरूपं येषां त इत्यर्थः। तथा चास्तसाधने अदृश्यत्वेऽस्तो गतः। उदयसाधनेऽदृश्यत्व उदय एष्य इति भावः। अत एव। “उक्तेभ्य ऊनाभ्यधिका यदीष्टाः खेटोदयो गम्यगतस्तदा स्यात्। अतोऽन्यथा चास्तमयोऽवगम्यः” इति भास्कराचार्योक्तं सङ्गच्छते। अत्रोपपत्तिः उक्तकालांशतुल्येष्टकालांशे यत्काले ग्रहौ साधितौ तत्काले एव ग्रहस्योदयोऽस्तो वार्ककृतः। उक्तकालांशानां सूर्यसान्निध्यजनिताद्यन्तग्रहादर्शने हेतुत्वप्रतिपादनात्। तथा चेष्टकालांशा उक्तेभ्योऽल्पास्तदा ग्रहस्यास्तङ्गतत्वमेवेत्युदयसाधन इष्टकालांशा उक्तेभ्योऽल्पास्तदेष्टकालादग्रे ग्रहस्योदयः। यदीष्टकालांशा उक्तेभ्योऽधिकास्तदेष्टकालाद्ग्रहस्योदयः पूर्वं जातः। एवमस्तसाधन इष्टकालांशा अधिकास्तदेष्टकालादग्रे ग्रहास्तः। यदीष्टकालाशा न्यूनास्तदेष्टकालात् पूर्वं ग्रहास्तो जात इत्युपपन्नमुक्तम्। अथोदयास्तयोर्गतैष्यदिनाद्यानयनमाह” र० ना०। “तत्कालांशान्तरकला भुक्त्यन्तरविभाजिताः। दिनादि तत्फलं लब्धं भुक्तियोगेन वक्रिणः” सू०। “उक्तेष्टकालांशयोरन्तरस्य कलाः सूर्य्यग्रहयोर्गत्योः कलात्मकान्तरेण भक्ताः। दिनादिकमुदयास्तयोः फलमुदयास्तयोर्गतैष्यदिनाद्यं भवतीत्यर्थः। वक्रगतिग्रहस्य विशेषमाह। लब्धमिति। वक्रिणो वक्रग्रहस्य भुक्तियोगेन सूर्यग्रहयोः कलात्मकगतियोगेन भक्ताः फलं गतैष्यदिनाद्यं ज्ञेयम्। अत्रोपपत्तिः। यदा सूर्यग्रहयोर्गव्यन्तरकलाभिरेकं दिनं तदेष्टप्रोक्तकालांशयोरन्तकलाभिः किमित्यनुपातेनोदयास्तयोरभीष्टकालाद्गतैष्यदिनाद्यवगमः। वकग्रहे गु सूर्यग्रहयोर्गतियोगेन प्रत्यहमन्तरवृद्धेर्गतियोगादनुपात उपपन्न इत्युपपन्नमुक्तम्। अथ ग्रहगतिकलयोः क्रान्तिवृत्तस्थत्वात् कालांशान्तरस्याहोरात्रवृत्तस्थत्वाच्चानुपातः प्रमाणेच्छयोर्वैजात्येनायुक्त इति मनसि धृत्वा तयोरेकजातित्वसम्पा- दनार्थं ग्रहगत्योरिच्छाजातीयत्वं वदंस्तदन्तरेणानुपातस्तु युक्त एवेत्याह” र० ना०। “तल्लग्नासुहते भुक्ती अष्टादशशतोद्धृते। स्यातां कालगती ताभ्यां दिनादि गतगम्ययोः” सू०। “भुक्ती रविग्रहयोर्गती कलात्मिके तल्लग्नासुहते कालसाधनार्थं ग्रहस्य यो राश्युदयो गृहीतस्तेनाखात्मकोदयेन गुणिते अष्टादशशतेन भक्ते फले सूर्यग्रहयोः कालांशवत् कालगती स्याताम्। ताभ्यां गतिभ्यां गतगम्ययोरुदयास्तयोर्दिनादि पूर्वोक्तप्रकारेण साध्यम्। न तु पूर्वोक्तप्रकारेण, यथास्थितगतिभ्यां स्थूलत्वापत्तेः। अत्रोपपत्तिः। यदि एकराशिकलाभीराश्युदयासवस्तदा गतिकलाभिः क इत्यनुपातेनाहोरात्रवृत्ते गत्यसवः कलासमा इत्युपपन्नमुक्तम्। अथ नक्षत्राणां सूर्यसान्निध्यवशादस्तोदयज्ञानार्थं कालांशान् विवक्षुः प्रथममेषामाह” र० ना०। “स्वात्यगस्त्र्यमृगव्याधचित्राज्येष्ठाः पुनर्वसुः। अभिजिद्ब्रह्महृदयं त्रयोदशभिरंशकैः” सू०। “मृगव्याधो लुब्धकः। त्रयोदशभिः कालांशैर्दृश्यादृश्यानि नक्षत्राणि भवन्ति। शेषं स्पष्टम्। अथान्येषामाह” र० ना०। “हस्तश्रवणफाल्गुन्यः श्रविष्ठारोहिणीमघाः। चतुर्दशांशकैर्दृश्या विशाखाश्विनदैवतम्” सू०। फाल्गुन्यः पूर्वोत्तराफाल्गुनीद्वयम्। आश्विनदैवतमश्विनीकुमारो दैवतं स्वामी यस्येत्यश्विनीनक्षत्रम्। दृश्या उपलक्षणाददृश्या अपि लिङ्गपरिणामश्च यथायोम्यं बोध्यः। शेषं स्पष्टम्। अथान्येषामाह” र० ना०। “कृत्तिकामैत्रमूलानि सार्पं रौद्रर्क्षमेव च। दृश्यन्ते पञ्चदशभिराषाढाद्वितयं तथा” सू०। “कृत्तिकानुराधासूलनक्षत्राणि पञ्चदशभिः कालांशैर्दृश्यन्ते। उपलक्षणान्न दृश्यन्तेऽपि। एवकारीन्यूनाधिकव्यवच्छेदार्थः। अश्लेषार्द्रा। चःसमुच्चये। आषाढाद्वितयं पूर्वोत्तराषाढाद्वयं तथा पञ्चदशकालांशैर्दृश्यन्त इत्यर्थः। अथान्येषामवशिष्टानामाह” र० ना०। “भरणीतिष्यसौम्यानि सौक्ष्यात् त्रिःसप्तकांशकैः। शेषाणि सप्तदशभिर्दृश्यादृश्यानि भानि तु” सू०। “तिष्यः पुष्यः सोमदैवतं मृगशिरो नक्षत्रमेतानि नक्षैत्राणि सौक्ष्म्यादणुबिम्बत्वात् त्रिःसप्तकांशकैरेकविंशतिकालांशैर्दृश्यादृश्यानि। उदितान्यस्तङ्गतानि च भवन्तोत्यर्थः। शेषाणि पूर्वाधिकारोक्तनक्षत्रेषूक्तातिरिक्तानि शततारापूर्वोत्तराभाद्रपदारेवतीसंज्ञानि ब्रह्मापांवत्सापसञ्ज्ञानि च सप्तदशभिः कालांशैर्दृश्यादृश्यानि भवन्ति। तुकारो दृश्यादृश्यानीत्यत्र समुच्चयार्थकः। अथ द्रिनाद्यानयनार्थमि- च्छाया एव प्रमाणजातोयत्वकरणमाह” र० ना०। “अष्टादशशताभ्यस्ता दृश्यांशाः स्वोदयासुभिः। विभज्य लब्धाः क्षेत्रांशास्तैर्दृश्यादृश्यताथ वा” सू०। “दृश्यांशाः कालांशा अष्टादशशतगुणितास्तान् स्वोदयासुभिर्ग्रहराश्युदयासुभिर्भक्ता लब्धाः क्षेत्रांशाः क्रान्तिवृत्तस्यांशास्तैरंशैर्दृश्यादृश्यता उदयास्तौ प्रकारन्तरेणोक्तरीत्या ज्ञेयौ। कालांशाभ्यां क्षेत्रांशावानीय तदन्तरकला यथास्थितगत्योरन्तरेण योगेन वा भक्ताः फलमुदायास्तयोर्गतैष्यदिनाद्यं पूर्वागतमेव स्यादित्यर्थः। अत्रोपपत्तिः। यदि राश्युदयासुभिरेकराशिकलास्तदा कालांशकलातुल्यासुभिः का इति क्रान्तिवृत्ते कलास्ताः षष्टिभक्ता अंशा इति पूर्वमेवेच्छास्थाने कालाशा एव धृता लाघवात्। इत्युक्तमुपपन्नम्। ग्रहाणाममुकदिश्यस्तोऽमुकदिश्युदय इत्युक्तम्। तथा नक्षत्राणां नोक्तम् गत्यभावाद्वियोगयोगासम्भवेन गतैष्यदिनाद्यानयनासम्भवश्चेत्यत आह” र० ना०। “प्रागेषामुदयः पश्चादस्तोदृक्कर्म पूर्ववत्। गतैष्यदिवसप्राप्तिर्भानुभुक्त्या सदैव हि” सू०। “एषां नक्षत्राणां प्राच्यामुदयः प्रतीच्यामस्तो गत्यभावादल्पगतिग्रहवत्। एषां नक्षत्राणां दृक्कर्माक्षदृक्कर्म पूर्व्ववत् पूर्वप्रकारेण कार्यम्। परन्तु श्लोकपूर्व्वार्धोक्तमिति ध्येयम्। सदा नित्यम्। एवकारात् कदाचिदप्यन्यथा नेत्यर्थः। हि निश्चयेन। रविगत्या गतैष्यदिवसानां लब्धिः स्यात्। नक्षत्रगत्यसम्भावात् योगे ग्रहगतिवत्। अथ कतिपयानां नक्षत्राणां सूर्यसान्निध्यवशादस्तो नास्तीत्याह। “अभिजिद्ब्रह्महृदयं स्वातीवैष्णववासवाः। अहिर्बुध्नमुदक्स्थत्वान्न लुप्यन्तेऽर्करश्मिभिः” सू०। अभिजित्। ब्रह्महृदयम्। अनेनैकदेशस्य ब्रह्मणोऽपि ग्रहणम्। स्वातीश्रवणधनिष्ठाः। अहिर्बुध्नमुत्तराभाद्रपदा एतानि नक्षत्राण्युत्तरदिक्स्थत्वादुत्तरविक्षेपाधिक्यादित्यर्थः। सूर्यकिरणैर्न लुप्यन्ते अस्तं न यान्तीत्यर्थः। अत्रीपपत्तिः “यस्योदयार्कादधिकोऽस्तभानुः प्रजायते सौम्यशरातिदैर्ष्यात्। तिग्मांशुसान्निध्यवशेन नास्ति धिष्ण्यस्य तस्यास्तमयः कथञ्चित्”। इति भास्कराचार्योक्ता। परमिदमुक्तमष्टाक्षभायाम्। अन्यथा पूर्व्वाभाद्रपदाया अपि तथात्वापत्तेरिति दिक्” र० ना०। “यथा भौमादीनां सूर्यसान्निध्योदयास्तासन्ने दीप्त्या सकलबिम्बदर्शनं तथा चन्द्रस्य स्वोदयास्तकाले सकलबिम्बदर्शनं शुक्लत्वेन न भवति। किन्तु बिम्बैकदेश एव शुक्लत्वेन दृश्यत इति भौमादिविसदृशत्वं चन्द्रस्य कुत इत्याशङ्का- याः पूर्व्वाधिकारे समुपस्थितेस्तदुत्तरभूतशृङ्गोन्नमनाधिकारोऽवश्यमुपस्थित आरब्धो व्याख्यायते। तत्र शृङ्गोन्नते रुदयकालात् पूर्वकालेऽस्तकालानन्तरकाले चासन्नकतिपयदिवसेषु दर्शनात् पूर्वाधिकारे चन्द्रस्य कालांशानुक्त्या तदुदयास्तानुक्तेश्च प्रथममुपस्थितचन्द्रोदयास्तयोः साधनमतिदिशति” र० ना०। “उदयास्तविधिः प्राग्वत् कर्त्तव्यः शीतगोरपि। भागैर्द्वादशभिः पश्चाद्दृश्यः प्राग्यात्यदृश्यताम्” सू०। “चन्द्रस्य अपिशब्दः पूर्वाधिकारोक्तैर्ग्रहनक्षत्रैः समुच्चयार्थकः। उदयास्तविधिरुदयास्तयोः साधनप्रकारः प्राग्वत् पूर्वाधिकारोक्तरीत्या गणकेण कार्यः। ननु कालांशानां पूर्वमनुक्तेः कथं तत्सिद्धिरत आह। भागैरिति। द्वादशभिरंशैश्चन्द्रः पश्चिमायां दृश्य उदितो भवति। प्राच्यामदृश्यतामस्तं प्राप्नोति। अत्र पश्चात् प्रागिति पुनरुक्तमपि पूर्वं बुधशुक्रयोः साहचर्येण चन्द्रोदयास्तदिगुक्ता तत्साहचर्येण चन्द्रस्य पश्चिमास्तपूर्वोदयौ वर्तेते इति कस्यचिन्मन्दबुद्धेर्भ्रमस्य वारणायेति ध्येयम्”।

सूर्य्योदये विशेषः शु० त० गृ० सं०। “रेखामात्रं च दृश्येत रश्मिभिश्च समन्वितम्। उदयं तं विजानीयाद्धोमं कुर्य्यात् विचक्षणः” “उदयादोदयाद्भानोर्भौमसावन वासरः” सू० सि०। “सावनः स्यादहोरात्रमुदयादोदयाद्रवेः” काल० मा० ब्रह्म० सि०। गुरुशुक्रोदये च सर्व्वमङ्गलकार्य्याणि कर्त्तव्यानि। अगस्त्योदयः अगस्त्यशब्दे उक्तः। “प्रससादोदयादम्भः कुम्भयोने र्महौजसः” रघुः।

उदयगामिनी = स्त्री उदयं सूर्य्योदयं गच्छति मुहूर्त्तादिना व्याप्नोति गम–णिनि ङीप्। “सूर्य्योदयावधिमुहूर्त्तादिकालव्यापिन्यां तिथौ। कर्मानुष्ठाने उदयकाले कियन्मानस्य ग्राह्यता तन्निर्ण्णीतम्” का० मा०। “व्रतोपवासनियमेषटिकैका यदा भवेत्। उदये सा तिथि ग्राह्या विपरीता तु पैतृके” ब्र० पु०। “व्रतोपवासस्नानादौ घटिकैका यदा भवेत्। उदये सा तिथिर्ग्राह्या श्राद्धादावस्तगामिनी” विष्णु० ध० पु०। “आदित्योदयवेलायां याऽल्पापि च तिथिर्भवेत्। पूर्ण्णा इत्येव सा ज्ञेया प्रभूता नोदयं विना” देवलः। “यां तिथिं स मनुप्राप्य उदयं याति भास्करः। सा तिथिः सकला ज्ञेया स्नानदानजपादिषु” देवलः। “उदयन्नेव सविता यां तिथिं प्रतिपद्यते। सा तिथिः सकला ज्ञेया दानाध्ययनकर्मसु” व्यासः। “पक्षद्वयेऽपि तिथयस्तिथिं पूर्ब्धां तथोत्तराम्। त्रिभिर्मुहूर्त्तौर्वध्यन्ति सामान्योऽयं विधिः स्मृतः” पैठी०। “उदिते दैवतं भानौ पैत्र्यं चास्तमिते रवौ। द्विमुहूर्त्तं त्रिरह्नश्च सा तिथिर्हव्यकव्ययोः” बौधा०। “भानाबुदिते सत्युत्तरकालेऽह्नोमुहूर्त्तद्वयं दैवत्यम्। तस्मिंश्चास्तमिते ततः पूर्वकालीनमह्नोमुहूर्त्तत्रयं पितृदैवत्यमतस्तावत्कालव्यापिनी या तिथिर्भवति सैव क्रमेण हव्यकव्ययोर्ग्राह्या” अत्राशङ्कापूर्वकं माधवेन समाहितम्। नन्वस्त्वेवं कृत्स्नदिबसाभ्यनुज्ञातथाप्युत्तरबिद्धयास्तिथेर्ग्रहणे कियत्परिमाणमुदयेऽपेक्षणीयमिति विवेचनीयम्। तत्र बौधायनेन अल्पापीत्यभिधानात् निमेषमात्रं प्रतिभाति, व्यासेन उदयन्नेवेत्यभिधानात् तथैव प्रतिभाति। भतिष्यत्पुराणे तु षटिकामात्रं बौधायनवचनान्तरे द्विभुहूर्त्तमित्येवं विरोधमाशङ्क्य “अत्रोच्यते “पौर्वाह्णिक्यस्तु तिथयस्त्रिमुहूर्त्ताः फलप्रदाः” वृ० या० वचनेन दैवे पूर्वाह्णव्याप्तायास्त्रिमुहूर्त्तमितायास्तिथेर्ग्रहणम्। त्रिमुहूर्त्तन्यूनायास्तिथेः पूर्वाह्णव्याप्त्यभावात् पूर्वाह्णस्य च पञ्चधा विभक्तस्य मुख्यत्वात् उदिते भानौ त्रिमुहूर्त्तातिथिर्ग्राह्या। यत्तु “त्रिमुहूर्त्ता न कर्त्तव्या या तिथ्युदयगामिनीति” न तत् त्रिमुहूर्त्तव्याप्तेर्बाधकं प्रत्युतोद्वोलकमेव। तथा हि प्रतिषेधः सर्वत्र प्रसक्तिपूर्व्वकः प्रसक्तिश्चात्र यथोक्तरीत्या पौर्व्वाह्णिकवाक्यात् त्रिमुहूर्त्तवेधविधायिपैठीनसिवाक्याद्वा भवति तस्य प्रसक्तं त्रिमुहूर्त्तत्वं समतिथौ बाधकाभावात्तथैव तिथिक्षये त्वधिक व्याप्तिविधित्सया प्रतिषिध्यते अतश्च तत्र चतुर्थमुहूर्त्तस्पर्शिनी तिथिर्ग्राह्या तिथिसाम्यात्। तिथिवृद्धावपि मुहूर्त्तत्रयमेव मुख्यं मुहूर्त्तद्वयं त्वनुकल्पः। एतदेव सूचयितुं द्विमुहूर्त्तापीत्यत्र अपिशब्दः पठ्यते”। ततः प्रासङ्गिकमन्यत् समाधाय उपसंहृतम् यथा “प्रकृते तु सूर्य्योदये मुहूर्त्तत्रयव्यापिनी प्रतिपद्दानव्रतयोर्ग्रहीतव्या एवं सत्युदयमात्रव्याप्तिशास्त्रं घटिकामात्रव्याप्तिशास्त्रं च वैश्वानराधिकरणन्यायेनावयुत्यानुवादरूपतया त्रिमुहूर्त्तव्याप्तिं प्रशंसति। अथवा यदा पूर्बेद्युरुदयकालं परित्यज्योपरि सर्वत्र व्याप्नोति परेद्युरुदयकालमात्रं व्याप्नोति तदानीमुदयानन्तरभाविन्यामुख्यायास्त्रिमुहूर्त्तव्याप्तेर्दिनद्वयेऽप्यभावेन द्वयोरपि दिनयोर्गौणकालत्वे सति किं ग्राह्यमिति वीक्षायां पूर्व्वदिने गौणकर्मकालव्याप्नेर्भूयस्त्वात्तस्यैव ग्रहणंन्यायतः प्राप्तं केनापि निमित्तेन तत्प्रत्यूहे सति परेद्युः कर्मकालव्याप्तिसम्प्रादनाय पूर्णत्वमभिधायोदयविहीमस्य ष्वाप्तिबाहुल्यस्य हेयत्वोक्तिव्याजेन तदेव प्रशस्यते। “आदित्योदयवेलायां याल्पापि च तिथिर्भवेत्। पूर्णा इत्येव मन्तव्या प्रमूता नोदयं विनेति”। यदा पूर्वेद्युः सङ्गवमारभ्य परेद्युरुदयात्प्रागेव तिथिक्षयवशात्प्रतिपत्समाप्ता तदा यद्यपि दिनद्वये सोदयमुहूर्त्तत्रयस्पर्शो नास्ति तथापि पूर्वेद्युरेवानुष्ठेयम्। “सा तिथिः सकला ज्ञेया यस्यामस्तमितोरविः इतिवचनेन सम्पाद्यायाः सोदयत्रिमुहूर्त्ताया व्याप्तेर्विद्यमानत्वात्। यदा न परेद्युरुदयमुहूर्त्तव्याप्तिरस्ति तदा पूर्वेद्युरेवानुष्ठानम्। अस्तमयव्याप्तेरधिकत्वात्। अतएव पद्मपुराणेऽभिहितम्। “व्रते स्नाने तथा नक्ते पितृकार्य्ये विशेषतः। यस्यामस्तङ्गतोभानुः सा तिथिः पुण्यभाग्भवेदिति”। तत्रैव द्वितीयाप्रकरणे च दैवं षड्विधम् उपवासैकभक्तनक्ताया चितदानव्रतभेदेन, तीर्थस्नानजपहोमादयस्तु व्रतशब्देनैव संगृहीताः। पित्र्यं द्विविधम् एकोद्दिष्टं पार्वणं चेति। तत्र सर्व्वत्र कर्म्मकालव्याप्तिर्मुख्या। अवशिष्टा गौणः। तिथिव्याप्तिश्च द्विविधा स्वाभाविक तिथिव्याप्तिः साकल्यापादिततिथिव्याप्तिश्चेति। तद्यथा यदा सङ्गवपर्य्यन्तामावास्या तदानीमुपरितमध्याह्नो मुख्ययैव प्रतिपदा व्याप्तो भवति। यदा मध्याह्नादिमारभ्य तिथिक्षयवशात् परेद्युः सङ्गवान्ता प्रतिपद्भवति तदा पूर्व्वेद्युर्गौणकालव्याप्तिमुपजोव्यैकमक्तानुष्ठानाय तत्स्वीकारे सति मध्याह्नेऽवश्यानुष्ठेयत्वात् तत्र च स्वाभाविकप्रतिपद्व्याप्त्यभावेऽपि साकल्यवचनापादितप्रतिपद्व्याप्तिः स्वीकृता एवञ्च सति कर्म्मकालव्याप्तौ सर्व्वस्मृतीनामत्यन्त निर्बन्धदर्शनात् कर्म्मकालव्याप्तिशास्त्रमितरेभ्यः प्रबल मिति निश्चीयते। तदनुसारेण द्वितीयाद्याअपि तिथयौप वासादौ दैवेः एकोद्दिष्टादौ पित्र्ये च कर्म्मकालव्याप्ति युक्ताः स्वीकर्त्तव्याः। उपवासस्तु सर्व्वतिथिषु नारदीये दर्शितः। “शुक्ला वा यदि वा कृष्णा प्रतिपत्प्रभृतीन् तिथीन्। उपोष्यैव बलिन्दत्त्वा विधिना त्वपरे दिने। ब्राह्मणान् भोजयित्वा तु सर्व्वपापैः प्रमुच्यत” इति। उपवासस्या होरात्रः कर्म्मकालः। तस्मात्तद्व्यापिजी तिथिर्ग्राह्या तदसम्भवे खण्डतिथिरपि। तत्र का ग्राह्येति निरूप्यते। तत्र सूर्य्योदये त्रिमुहूर्त्ता ततोऽधिका वा प्रतिपद्भवति उत्तरदिनेचास्तमयादर्वाक् त्रिमुहूर्त्ता ततोऽधिका वा तृतीया भवति मेयमुभयविद्धा द्वितीया। तत्र वेधकतिथेरुदयेऽस्तमये वा त्रिम्हूर्त्तत्वं वंधप्रयोजकं न तु ततोन्यूनत्वे। तदेव पैठिनसिवाक्येन पूर्वमुदाहृतम्। वेध्यतिथेश्च त्रिमूहूर्त्त सद्भावोऽपेक्षित इति “द्विमुहूर्त्तं त्रिरह्णश्च” इत्यनेन सुमन्तु वचनेन दर्शितम्। “उदयास्तमययोरेव वेध” इत्यस्यायमर्थः “उदये सा विथिर्ग्राह्या विपरीता तु पैतृके” इत्यादिभिः कात्यायनचनैरवगन्तव्यः। एवं सति उदाहृतविषये द्वितीया उभयवेधेऽपि उत्तरविद्धैवोपास्या युग्मादिवाक्येनान्वयव्यतिरेकाभ्यामुत्तरवेधस्य प्राशस्त्याभिधानात्” इति। पाद्मन्तूवासरूपदैवविषयं तदप्युक्तं तेनैव। “यद्यप्युपोष्यत्वं साक्षान्नांभिहितं तथापि कर्म्मान्तरविशेषानुपादानादुपवासविषयत्वं परिशेष्यते तथा हि न तावत् पित्र्यविषयत्वं सम्भवति “द्वितीयादिकयुग्मानां पूज्यता नियमादिषु। एकोदिष्टादिवृद्ध्यादौ ह्रासवृद्ध्यादिदेशनेति” व्यासेन युग्मादिशास्त्रस्य सर्व्वादिशास्त्रस्य च दैवपैत्र्यविषयकत्वेन व्यवस्थापनात् इति”। एवञ्चोपवसेतरदैवकर्मणि उदयगायिन्या ग्राह्यता तदपवादकं युग्मशास्त्रम्। तत्र च पैठीनसिवचनेन त्रिमुहूर्त्त तिथेरेव वेधप्रयोजकताऽभिधानेन ततो न्यूनकालिकतिथ्या वेधाभावात् गौडदेशीया यत् स्वर्शमात्रेण वेधं कल्पयन्ति तत्साहसमात्रम् रघुनन्दनेन कुत्रापि तथा वेधानुक्तेः कालमा० हेमाद्रिप्रभृतिषु द्विमुहूर्तादिव्याप्तावेव वेधकत्वव्यवस्थापनात्, युग्मशास्त्रस्य सामान्यशास्त्रतया वेधसामान्यप्रतिपादनेऽपि पैठीनसिना तस्य विशेषाभिधानात्तथैव ग्रहणस्य युक्तत्वमित्युत्पश्यामः। युग्मादिशास्त्रस्य बाधधकन्तु “युगाद्या वर्षवृद्धिश्च सप्तमी पार्वती प्रिया। रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता” ति० त० देवी० पु० “भगवत्याः प्रवेशादिविसर्गान्ताश्च याः क्रियाः। तिथावुदयगामिन्यां सर्वास्ताः कारयेद्वुधः” दुर्गो० त० नन्दि० पु० “शरत्काले महापूजा क्रियते या च वार्षिकी। सा कार्य्योदयगामिन्यां न तत्र तिथियुग्मता” तत्रैव पुरा० “पूर्ब्बाह्णे तु सदा कार्य्याः शुक्ला मनुयुगादयः। दैवे कर्म्मणि पित्रे च कृष्णा चैवापवाह्णिके। हेमा० नारदीयम् “युगादिमन्वादिश्राद्धादिषु शुक्लपक्षे उदयव्यापिनी तिथिर्ग्राह्या कृष्णपक्षेऽपराह्णव्यापिनी ग्राह्या स्मृत्यर्थसारश्च दिनद्वये तु तथा लाभे परैवेति हेमाद्रिः। विधानपारिजातादयोऽप्येवम्। निर्ण्ण० सि० “सवैधृतिर्व्यतीपातो युगमन्वादयस्तथा। सम्मुखा उपवामेषु दानादावन्तिमा स्मृता” अनन्तभर्त्तृधृतवचने आदिपादात् श्राद्धसंग्रह इत्याह। इदन्त्ववधेयम्। “कर्मणो- यस्य यः कालस्तत्कालव्यापिनी तिथिः। तया कर्माणि कुर्वीत ह्रासवृद्धी न कारणम्” कर्म्मणोविहितकालव्यापिन्या एव ग्राह्यत्वाभिधानेन यत्रतिथिक्षयवशात् उभ यदिने श्रुत्युक्तत्रिधाविभक्तदिनतृतीयांशरूपपूर्व्वाह्णाव्याप्तिस्तत्र प्रतियोगिवैयधिकरण्यघटितव्याप्तेः प्रवेशनेन मुहूर्त्तकालव्याप्तावपि पूर्व्वाह्णव्यापकतया ग्रहणमित्येव रघुनन्दनस्याशयः। तथा च “श्रारभ्य तस्यां दशमी च यावत्” इत्यादौ यथा पूजायान्तत्तथीनां प्रतियोगिवैयकरण्यघटितव्यापकताप्रवेश एवमत्रापि मुहूर्त्तव्यापकतानातोन्यूनदण्डादिव्यापने ग्राह्यता। भवति च द्वित्रमुहूर्त्तव्यापिन्याअपिमुहूर्त्तव्यापितेति सर्व्वं सुस्थम्। तेन मुहूर्त्तन्यूनतायां न ग्राह्यता द्विमुहूर्त्तादिव्याप्तिस्तु मुख्येति। एवञ्च युग्मादिशास्त्राविषये कृष्णप्रतिपदादौ उभयदिने पूर्व्वाह्णमुहूर्त्तव्यापित्वेऽपि त्रिमुहूर्त्ताया एव ग्राह्यतेति विवेकः। एवमस्तगामिन्यामपि अस्तादर्वाक् त्रिमुहूर्त्तायास्तिथेः। पित्रे ग्राह्यतेत्यपि बोध्यम्।

उदयगिरि = पु० उदय उदयस्थानं गिरिरिव। सूर्य्यादेरुदयस्थाने पर्वतवदाच्छादके भूवृत्तपादे “उदयगिरिवनालीबाल मन्दारपुष्पम्” उद्भट्टः उदयगिरिशिखरसंस्थिते प्रतप्तकनकनिकरपीतलीहिते सवितरि” सुश्रु० उदयाचलादयोऽप्यत्र। “श्रितोदयाद्रेरभिसायमुच्चकैः” माघः। भूगोलपादस्यैव यथा सूर्य्याद्याच्छादकत्वम् तथा सिद्धान्तग्रन्थे स्थितम्। यद्यपि सूर्य्योदयस्य देशविशेषे विशेषस्थाने एव सम्भवः तथापि निरक्षदेशावधिकएव देशे मुख्यत्वम् “लङ्कापुरेऽर्कस्य यदोदयः स्यात् तदा दिनार्धं यमकोटिपुर्याम्। अधस्तदा सिद्धपुरेऽस्तकालः स्याद्रोमके रात्रिदलं तदैव। यत्रोदितोऽर्कः किल तत्र पूर्वा तत्रापरा यत्र गतः प्रतिष्ठाम् तद्याम्यतोऽन्ये च ततोऽखिलानामुदक्स्थितोमेरुरिति प्रसिद्धम्” सिद्धान्तशिरोमणौ तथैव व्यवस्थापितम्। तथा च लङ्कादिपुरीचतुष्ठयस्य भूवृत्तपादान्तरस्थितत्वेन द्वितीयपुर्य्युपरिस्थेसूर्य्यादौ प्रथमं दृश्यता तत्पूर्व्वादिस्थदेशे तु ततः पूर्वम्। पश्चात् स्थितदेशेषु च ततः पश्चात् दृश्यता एवञ्च भूवृत्तपादेनाच्छादने तदतिक्रमे दर्शनयोग्यत्वादुदयः। ततश्च यत्र देशे यदा दर्शनं तत्र तदा तद्देशापेक्षया सूर्य्यादेर्भूविम्बपादोपरिस्थितत्वेन तत्स्थानस्य उदयगिरित्वम् यत्र चादर्शनं तद्देशवासिनामस्तगिरित्वं शास्त्रेषु कल्पितम्। एवञ्च निरक्षदेशावधि भूवृत्तपादान्तरेषु स्थित लङ्कापुरवासिनां यमकोटिरेवोदयस्थानमेवमन्यत्र कल्प्य- म्। लिङ्गपुराणे तु अन्याः पुरीरुक्त्वा तत्रोदयादिव्यवस्थामाह “मानसोपरि माहेन्द्री प्राच्यां मेरोः स्थिता पुरी। दक्षिणे भानुपुत्रस्य वरुणस्य तु वारुणे। सौम्ये सोमस्य विपुला तासु दिग्देवताः स्थिताः। अमरावती संयमिनी सुखा चैव विभा क्रमात्। लोकपालोपरिष्टात्तु सर्वतो दक्षिणायने। काष्ठाङ्गतस्य सूर्यस्य गतिर्या तां निबोधत। दक्षिणां प्रक्रमेद्भानुः क्षिप्तेषुरिव धावति। पुरान्तगो यदा भानुः शक्रस्य भवति प्रभुः। सर्व्वैः सांयामनैःसौरो ह्युदयो दृश्यते द्विजाः!। स एवं सुखवत्यान्तु निशान्तस्थः प्रदृश्यते। अस्तमेति तदा सूर्यो विभायां विश्वदृग्विभुः। मया प्रोक्तोऽमरावत्यां यथाऽसौ याति भास्करः। तथा संयमिनीं प्राप्य सुखाञ्चैव विभां खगः। यदा पराह्णस्त्वग्नेय्यां पूर्वाह्णोनैरृते द्विजाः!। तदा त्वपररात्रश्च वायुभागे सुदारुणः। ऐशान्यां पूर्वरात्रस्तु गतिरेषास्य सर्वत” इति। व्याख्यातञ्च छा० उ० आनन्दगिरिणा “तथा चोपरिष्टादमरावत्यास्तिष्ठन्मध्याह्नं तत्रे शकोणस्थानां तृतीययाममाग्नेयकोणस्थानामाद्ययामं संयसिन्याउदयं च करेति सविता। एवं यदा याम्ये मध्याह्ने तिष्ठति तदैन्द्रे अस्तमयः, आग्नेये तृतीययामः, नैरृतिकोणे प्रथमो यामः, वारुणे उदयः। यदा च वारुणे मध्याह्नस्तदायाम्येऽस्तमयः, निरृतिकोणे तृतीयो यामः, वायव्ये प्रथमयामः, सौम्ये उदयः। यदा च सौम्ये मध्याह्नस्तदा वारुणेऽस्तमयः, वायव्ये तृतीययामः, ईशानकोणे प्रथमो यामः, ऐन्द्रे उदयः। तथाग्नेयकोणे वर्त्तमानस्तत्रस्थानां मध्यं दिनम्, यमेन्द्रपुर्योराद्यतृतीययामौ, नैरृतेशानकोणयोरुदयास्तमयौ च करोति” एतच्च मानसापेक्षयैवोदयास्तमयकीर्त्तनान्न पूर्वोक्तेन विरुद्धम् “अथ यदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्ता दूर्द्धौदेताऽर्वागस्तमेता इत्यादि” छा० उ० भाष्ये “पश्चादुत्तरत ऊर्द्ध्वमुदेता विपर्ययेणास्तमेता। पूर्वस्मात्पूर्वस्माद्द्वगुणोत्तरोत्तरेण कालेनेत्यपौराणं दर्शनम्। सवितुश्चतुर्दिशमिन्द्रयमवरुणसोमपुरीषूदयास्तमयकालस्य तुल्यत्वं हि पौराणिकैरुक्तम्। मानसोत्तरस्य मूर्द्धनि मेरोः प्रदक्षिणावृतेस्तुल्यत्वादिति” इत्याशङ्क्य अत्रोक्तः परिहार आचार्यैरमरावत्यादीनां पुरीणां द्विगुणोत्तरोत्तरेण कालेनोद्बासः स्यात्। उदयश्च नाम सवितुस्तन्निवासिनां प्राणिनां चक्षुर्गोचरतापत्तिस्तदत्ययश्चास्तमयं न परमार्थत उदयास्तामये स्तः। तन्निवासिनाञ्च प्राणिनामभावे तान् प्रति तेनैव मार्गेण गच्छन्नपि नैवोदेता नास्तमेतेति चक्षुर्गोचरतापत्तेस्तदत्ययस्य चाभावात्। तथाऽमरावत्याः सकाशाद्द्विगुणकालं सांयमिनीं पुरों वसत्यतस्तन्निवासिनः प्राणिनः प्रति दक्षिणतः इवोदेत्युत्तरतोऽस्तमेतीत्युच्यतेऽस्मद्बुद्धिञ्चापेक्ष्य तथोत्तरास्वपि पुरीषु योजना। सर्वेषाञ्च मेरुरुत्तरो भवति। यदाऽमरावत्यां मध्याह्नगतः सविता तदा सांयमिन्यामुद्यन् दृश्यते तत्र मध्याह्नगोचरो वारुण्यामुद्यन्दश्यते। तथोत्तरस्यां प्रदक्षि णावृत्तेस्तुल्यत्वात्। इलावृतवासिनां सर्वतः पर्व्वतप्राकारनिवारितादित्यरश्मीनां सवितोर्द्ध्व इवोदेताऽर्वागस्तमेता दृश्यते पर्वतोर्द्धच्छिद्रप्रवेशात्सवितृप्रकाशस्य। तथर्गाद्यमृतोपजीविनाममृतानाञ्च द्विगुणोत्तरोत्तरवीर्य्यवत्त्वमनुमीयते भोगकालद्वैगुण्यलिङ्गेन” छा० उ० भाष्यम्।

उदयन = पु० उद् + इ–ल्यु। १ अगस्त्ये मुनौ, कुसुमाञ्जलिप्रभृतिग्रन्थकारके २ उदयनाचार्य्ये च। “व्यातेने किरणावलीमुदयनः” द्रव्यकिरणावली। अयञ्च आत्मतत्त्वविवेकादिनानाग्रन्थकर्ता। ३ वृषभराजे “उदयनमिवानन्दितवत्सकुलम्” काद० ४ वत्सराजे च। वत्सराजचरितञ्च वृहत्कथायां विस्तरेण वर्णितम्। “प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान्” मेघ० उद + इ–भावे ल्युट्। ५ उदये न० “पूर्वतः सागरस्येव चन्द्रस्योदयनं प्रति” भा० भी० ५८ अ० “एषा युक्ते परावतः सूर्य्यस्योदयनादधि” ऋ० १, ४८, ५, “सप्तर्षीणाञ्चोदयनमादित्यस्य” शत० ब्रा० १३, ८, १९। ६ समाप्तौ च “सैषा त्रिवृत्प्रायणा त्रिवृदुदयना” ता० ब्र० २, १५, ३ त्रिवृत् ऋग्नवकम् उदयने समाप्तौ यस्याः” भा०।

उदयनीया = स्त्री उदयने सभाप्तौ विहिता तन्निमित्तत्वेन तत्सम्वन्धिनी वा छ। समाप्तिनिमित्ते १ इष्टिभेदे “गार्हपत्य उदनीयामाचरति” आश्व० श्री० ६, ४, १, १, नेदमादिषु मार्जनमर्वागुदयनीयायाः” ४, २, ६,। चरुमेक्षणबर्हिर्निदूधात्युदयनीयायै” कात्या० ७, ५, १६,। अवभृथादुत्थान निमित्ते २ अतिरात्रे पु० “हस्तावेवोदयनीयोऽतिरात्रः” शत० ब्रा० १२, १, ३, ३, अवभृथादुदेत्योदयनीयेन चरित्वानुबन्ध्यस्य पशुपुरोडाशमनु दैविकानां हवींषि निर्वपति” ९, ५, १, ३४। “प्रायणीय एवातिरात्रे युञ्जन्त्युदयनीये विमुञ्चन्ति”। “अथो यथा प्रायणीयेऽतिरात्रे समिधेनीरुनूच्य ब्रूयादुदनीयएवातोऽनुवक्ताऽस्मीति” ९, ४, ४, १५, १६

उदयवेला = स्त्री सूर्यस्य तत्किरणस्यंवा उदयस्य वेला समयः। १ सूर्य्योदयकाले २ अरुणोदयकाले च “माघेमास्यसिते पक्षे रटन्त्याख्यचतुर्द्दशी। तस्यामुदयवेलायां स्रात्वा नावेक्षते यमम्” म० त० यमः। “उदयवेलायाम् अरुणोदयवेलायामिति” म० त० रघु०। शा० ति० उक्ते ३ भूतानामुदयसमये च भूतोदयशब्दे विवृतिः।

उदयान्तर = न० उदयस्योदयज्ञानार्थम् अन्तरं यत्र। सि० शि० उक्ते ग्रहाणामुदयज्ञानर्थं संस्कारभेदे उदयशब्दे विवृतिः।

उदयास्तसूत्र = न० “क्ष्माजे द्युरात्रसममण्डलमध्यभागजीवाग्रका भवति पूर्वपराशयोः सा। अग्राग्रयोः प्रगुणमत्र निबद्धसूत्रं यत्तद्वदन्ति गणका उदयास्तसूत्रम्” सि० शि० उक्ते क्षितिस्वाहोरात्रवृत्तसम्पातयोर्बद्धे सूत्रे

***