उत् = अव्य० उ–क्विप्। १ प्रश्ने २ वितर्के ३ संशये ४ अत्यर्थे ५ ऊर्द्धे च। ६ उदिते त्रि०। “तस्य उदितिनाम” छा० उ०। उद् इति वा छेदः।

उत = अव्य० उ–क्त। १ विकल्पे, २ समुच्चये, ३ वितर्के, ४ प्रश्ने, ५ अत्यर्थेच। “यदक्रन्दः प्रथमं जायमान उद्यन्त् समुद्रादुत वा पुरीषात्” यजु० २९, १२। “मानाग्निहोत्रमुत मान मौनम्” भा० आ० ३६२ अ०। “एतावन्ति च दासानां सहस्राण्युत सन्ति मे” भा० स० २२१ अ०। “तत् किमय मातपदोषः स्यादुत यथा मे मनसि वर्त्तते” शकु०। “वीरोरसः किमयमित्युत दर्पएषः” वीरच० “प्रभुः प्रहर्त्तुं किमुतान्यहिंस्राः” रघुः। “सारतोन विरोधी न स्वाभासो भरवानुत” किरा०। “धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत” ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत” गीता।

उत = त्रि० वेञ–क्त। स्यूते ग्रथिते अमरः “यस्मिन्नोतञ्च। प्रोतञ्च” श्रुतिः

उतङ्क = पु० आयोदधैम्यशिष्यवेदनामकस्य मुनेः शिष्यमेदे तदुपाख्यानञ्च” भा० आ० ३ अ०। वेदमुनिं प्रक्रम्य “स कदाचित् याज्यकार्य्येणाभिप्रस्थित उतङ्कनामानं शिष्यम् नियोजयामास” इत्युपक्रम्य “तत्सौम्य! गम्यतामनुजाने भवन्तं श्रेयोऽवाप्ससीति स उपाध्यायेनानुज्ञातो भगवानुतङ्कः क्रुद्धस्तक्षकं प्रतिचिकीर्षुर्हास्तिनपुरं प्रतस्थे” इत्यन्तेन विस्तरेण तच्चरितमुपवर्ण्णितम्। तस्यायं संक्षेपः। गुरुदक्षिणादानार्थं गुरवे उतङ्केन निवेदिते गुरुणा स्वप- त्नीयचनात् पौष्यनृपबधूधृतकुण्डलद्वयमेव गुरुदक्षिणात्वेन कल्पितम् तच्च पौष्यनृपपत्नीधृतं कुण्डलद्वयं प्रार्थ्य आनयतस्तस्य प्रमादतस्तक्षकेणापहृतम् अथ वह्नितो लब्धवरप्रसादात् नागलोकं गत्वा धूमप्राचुर्य्येण नागलोकावरणे तद्भयात्तत्कुण्डलद्वयं नागैर्दत्तमानीय पुरुपत्न्यै दत्तमिति

२ भार्गवे गौतमस्य शिष्यभेदे च तत्कथा भारते “उतङ्को महता युक्तस्तपसा जनमेजय!। गुरुभक्तः स तेजस्री नान्यत् किञ्चिदपूजयत्। सर्वेषामृषिपुत्राणामेष आसीन्मनोरथः। औतङ्कीं गुरुवृत्तिं वै प्राप्नुयामेति भारत!। गौतमस्य तु शिष्याणां बहूनां जनमेजय। उतङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा। स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा। सम्यक् सेवोपचारेण गौतमः प्रीतिमानभूत्। अथ शिष्यसहस्राणि समनुज्ञातवानृषिः। उतङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत। तं क्रमेण जरा तात! प्रतिपेदे महामुनिम्। न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः। ततः कदाचिद्राजेन्द्र! काष्ठान्यानयितुं ययौ। उतङ्कः काष्ठाभारञ्च महान्तं समुपानयत्। स तद्भाराभिभूतात्मा काष्ठभारमरिन्दम!। निष्पपेष क्षितौ राजन्! परिश्रान्तो बुभुक्षितः। तस्य काष्ठे विलग्नाऽभूज्जटा रूप्यसमप्रभा। ततः काष्ठैः सह तदा पपात धरग्णीतले। ततः स भारनिष्पिष्टः क्षुधाविष्टश्च मारत!। दृष्ट्वा तां वयसोऽवस्थां रुदोदार्त्तस्वर स्तदा। ततो गुरुसुता तस्य पद्मपत्रमिभानना। जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना। पितुर्नियोगाद्धर्मज्ञा शिरसाऽवनता तदा। तस्या निपेततुदग्धौ करौ तैरश्रुविन्दभिः। न हि तानश्रुपातांस्तुं शक्ता धारयितुं मही। गौतमस्त्वब्रवीद्विप्रमुतङ्कं प्रीतमानसः। कस्मात्तात! तवाद्येह शोकोत्तरमिदं मनः। सस्वैरं ब्रूहि विप्रर्षे! श्रोतुमिच्छामि तत्त्वतः। उतङ्क उवाच। एवङ्गतेन मनसा भवत्प्रियचिकीर्षया। भवद्भक्तिगतेनेह भवद्भावानुगेन च। जरेयं नावबुद्धा मे नाभिज्ञातं सुखञ्च मे। शतवर्षोषितं मां हि न त्वमभ्यनुजानीयाः। भवता त्वभ्यनुज्ञाताः शिष्याः प्रत्यवरा मम। उपपन्ना द्विजश्रेष्ठाः शतशीऽथ सहस्रशः। गौतम उवाच। त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव। अत्यंक्रामन्महान् कालो नाबबुद्धो द्विजर्षभ!। किन्त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव!। अनुज्ञां प्रतिगृह्य त्वं स्वगृहान् गच्छ मा चिरम्। उतङ्क उवाच। गुर्वर्थं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम। तमुपाहृत्य गच्छेयमनुज्ञातस्त्वया विभो!। गीतम उवाच। दक्षिणा परितोषो वै गुरूणां सद्भिरुच्यते। तव ह्याचतरतो ब्रह्मंस्तुष्टोहं वै न संशयः। इत्थञ्च परितुष्टं मां विजानीहि भृगूद्वह!। युवा षोडशवर्षो हि यद्यद्य भविता भवान्। ददानि पत्नीं कन्याञ्च स्वां ते दुहितरं द्विज!। एतामृतेऽङ्गना नान्या त्वत्तेजोऽर्हति सेवितुम्। ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम्। गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत्। कं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम्। प्रियं हितञ्च काङ्क्षामि प्राणैरपि धनैरपि। यद्दुर्लभं हि लोकेऽस्मिन् रत्नमत्यद्भुतं महत्। तदानयेयं तपसा न हि मेऽत्रास्ति संशयः। अहल्योवाच। परितुष्टाऽस्मि ते विप्र! नित्यं भक्त्याऽनयाऽनघ!। पर्य्याप्तमेतद्भद्रन्ते गच्छतात! ययेप्सितम्। वैशम्पायन उवाच। उतङ्कस्तु महाराज पुनरेवाव्रवीद्वचः। आज्ञापयस्व मां मातः! कर्त्तव्यञ्च तव प्रियम्। अहल्योवाच। सौदासपत्नीविधृते दिव्ये ये मणिकुण्डले। ते समानय भद्रन्ते गुर्व्वर्थः सुकृतो भवेत्। स तथेति प्रतिश्रुत्य जगाम जनमेजय!। गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा। स जगाम ततः शीघ्रमुतङ्को ब्राह्मणर्षभः। सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले। गौतमस्त्वब्रवीत् पत्नीमुतङ्को नाद्य दृश्यते। इति पृष्टा तमाचष्ट कुण्डलार्थं गतञ्च सा। ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम्। शप्तः स पार्थिवो नूनं ब्राह्मणं तं बधिष्यति। अहल्योवाच। अजानत्या नियुक्तः स भगवन्! ब्राह्मणोमया। भवत्प्रसादान्न भयं किञ्चित्तस्य भविष्यति। इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः। उतङ्कोऽपि वने शून्ये राजानं तं ददर्श ह”। आश्व० ५६ अ०। इतःपरं तत्कुण्डलानयनादिकं नागतक्षकविघ्नमुपवर्ण्य वह्निप्रमादात्तत् नागलोकादानीय गुरुपत्न्यै तद्दानमुक्तमित्ययं संक्षेपो विस्तरस्तत्र दृश्यः। अस्यैव तोयाभिलाषपूरणार्थमीश्वरेण उतङ्कमेघः प्रवर्त्तितः तत्कथा उतङ्कमेशषब्दे दृश्या।

उतङ्कमेव = पु० उतङ्कार्थमीश्वरेण प्रवर्त्तितोमेघः। मरुदेशस्थोतङ्कतोयाकाङ्क्षापूरणार्थमीश्वरेण कृष्णेन नियोजिते मेघे। तत्कथा भा० आश्व० ५५ अ०। “उतङ्क उवाच। अवश्यकरणीयञ्च यद्येतन्मन्यसे विभो!। तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम्। ततः संहृत्य तत्तेज प्रोवाचोतङ्कमीश्वरः। एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ। ततः कदाचिद्भगवानुतङ्कस्तोयकाङ्क्षया। तृषितः परिचक्राम मरौ सस्मार चाच्युतम्। ततो दिग्वाससं धीमान्मातङ्गंमलपङ्किनम्। अपश्यत मरौ तस्मिन् श्वयूथपरिवारितम्। भीषणं बद्धनिस्त्रिंशं वाणकार्मुकधारिणम्। तस्याधः स्रोतसोऽपश्यत् द्वारि भूरि द्विजोत्तमः। स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव। एह्युतङ्क! प्रतीच्छस्व मत्तो वारि भृगूद्वह!। कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाश्रितम्। इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दत। चिक्षेप च स तं धीमान् वाग्भिरुग्राभिरच्युतम्। पुनः पुनश्च मातङ्गः पिबस्वेति तमब्रवीत्। न चापिबत् स सक्रोधः क्षुधितेनान्तरात्मना। स तयो निश्चयात्तेन प्रत्याख्यातो महात्मना। श्वभिः सह महाराज! तत्रैवान्तरधीयत। उतङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः। मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना। अथ तेनैव मार्गेण शङ्खचक्रगदाधरः। आजगाम महाबुद्धिरुतङ्कश्चैनमब्रवीत्। न दत्तं तादृशं दातुं त्वया पुरुषसत्तम। सलिलं विप्रमुख्येभ्यी मातङ्गस्रोतसा विभो। इत्युक्तवचनं तन्तु महाबुद्धिर्ज्जनार्द्दनः!। उतङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत्। यादृशेनेह रूपेण योग्यं दातुं धृतेन वै। तादृशं खलु ते दत्तं तच्च त्वं नावबुध्यथाः। मया त्वदर्थमुक्तो वै वज्वपाणिः पुरन्दरः। उतङ्कायामृतं देहि तीयरूपमिति प्रभुः। स मामुवाच देवेन्द्री न मर्त्योऽमर्त्यतां व्रजेत्। अन्यमस्मै वरं देहीत्यसकृद्भृगुनन्दन। अमृतं देयमित्येव मयैवोक्तः शचीपतिः। स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत्। यदि देयमवश्यं वै मातङ्गो हि महामते!। भूत्वाऽमृतं प्रदास्यामि भार्रवाय महात्मने। यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै। प्रदातुमेष गच्छामि भार्गवस्यामृतं विभो!। प्रत्याख्यातस्त्वहं तेन दास्यामि न कथञ्चन। स तथा समयं कृत्वा तेन रूपेण वासवः। उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत्। चाण्डालरूपी भगवन्! सुमहांस्ते व्यतिक्रमः। तन्न शक्यं मया कर्त्तुं भूय एव तषेप्सितम्। तोयेप्सां तव दुर्द्धर्षां करिष्ये सफलामहम्। येष्वहःसु च ते ब्रह्मन्। सलिलेप्सा भविष्यति। तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः। रसवच्च प्रदास्यन्ति तोयं ते भृपुनन्दन!। उतङ्कमेषा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते। इत्युक्तः प्रीति- मान् विप्रः कृष्णेन स बभूव ह। अद्याप्युतङ्कमेघाश्च मरौ वर्षन्ति भारत”।

उतथ्य = पु० अङ्गिरसः श्रद्वायां पत्न्यामुत्पन्ने गुरोर्ज्येष्ठभ्रातरि। “त्रयोह्यङ्गिरसः पुत्रा एते सर्वत्र विश्रुताः। वृहस्पतिरुतथ्यश्च संवर्त्तश्च धृ तव्रतः” भा० आ० ६६ अ०। तस्यापत्यम् अण् औतथ्यः स च उतथ्येन ममतायामुत्पन्नः वृहस्पतिशापात् जात्यन्धतां प्राप्तस्तत्कथा यथा “अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा। ममता नाम तस्यासीद्भार्य्या परमसम्मता। उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम्। द्बहस्पतिर्वृहत्तेजा ममतामन्वपद्यत। उवाच ममता तन्तु देवरं वदतांवरम्। अन्तर्व्वत्नी त्वहं भ्रात्रा ज्येष्ठेनारम्यताभिति। अयञ्च भे सहाभाग! कुक्षावेव वृहस्पते!। औतथ्यो वेदमत्रापि षडङ्गं प्रत्यधीयत। अमोघरेतास्त्वञ्चापि द्वयोन्नास्त्यत्र सम्भवः। तस्मादेवञ्च नत्वद्य उपारमितुमर्हसि। एवमुक्तस्तदा सम्यग्वृहस्पतिरधीरधीः। कामात्मानं तदात्मानं न शशाक नियच्छितुम्। स बभूव ततः कामी तया सार्द्धमकामया। उत्सृजन्तन्तु तं रेतः स गर्भस्थोऽभ्यभाषत। भोस्तात! मा गमः कामं द्वयोर्न्नास्तीह सम्भवः। अल्पावकाशो भगवन्! पूर्व्वं चाहमिहागतः। अमोघरेताश्च भवान्न पीडां कर्त्तुमर्हसि। अश्रुत्वैव तु तद्राक्यं गर्भस्थस्य वृहस्पतिः। जगाम मैथुनायैव ममतां चारुलोचनाम्। शुक्रोत्सर्गं ततो बुद्ध्वा तस्या गर्भगतो मुनिः। पद्भ्यामारोधयन्मार्गं शुक्रस्य च वृहस्पतेः। स्थानमप्राप्तमपतद्रेतः प्रतिहतं तदा। पपात सहसा मूमौ ततः क्रुद्धो वृहस्पतिः। तदृष्ट्वा पतितं शुक्र शशाप स रुषाऽन्वितः। उतथ्यपुत्त्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः। यन्मां त्वमीदृशे काले सर्व्वभूतेप्सिते सति। एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि। स वै दीर्घतमा नाम शापादृषिरजायत। वृहस्पतेर्वृहत्कीर्त्तेर्वृहस्पतिरिवौजसा। जात्यन्धो वेदवित्प्राज्ञः पत्नीं लेभे स विंद्यया। तरुणीं रूपसम्पन्नां प्रद्वेषीं नाम ब्राह्मणीम्। स पुत्राञ्जनयामास गौतसादीन् महायशाः। ऋषेरुतथ्यस्य तदा सन्तानकुलवृद्धये। धर्मात्मा च महात्मा च वेदवेदाङ्गपारगः। गोधर्मं सौरभेयाच्च सोऽधीत्य निखिलं मुनिः। प्रावर्त्तत तदा कर्त्तुं श्रद्धावांस्तमशङ्कया”। भा० आ० १०४ अ०। “शूद्रावेदी पतयत्रेरुतथ्यतनयस्य च” मनुः। “उतथ्यतनयस्य गौतमस्येति” कुल्लू०। तस्य उतथ्यपौत्रत्वेऽपि तत्कुलवर्द्धनात्तथात्वं तस्य जात्यन्धतया स्मृतिकर्त्तृत्वाभावेन तत्पौत्रस्यैव गौतमस्य स्मृति कर्त्तृत्वात् तस्यैव सम्मतिकथनं युक्तमिति” “तथ्यामुतथ्या नुवज्जगादाग्रे गदाग्रजः” माघः। अयञ्च आङ्गिरसगोत्रप्रवरमध्यस्थ ऋषिभेदः ८१७ पृ० विवृतः।

उतथ्यानुज = पु० ६ त०। वृहस्पतौ उतथ्यावरजादयोऽप्यत्र। “तथ्यामुतथ्यानुजवज्जगादाग्रे गदाग्रजः”।

उताहो = अव्य० उत च आहो च द्व०। १ विकल्पे, २ प्रश्ने ३ विचारे च

उत्क = त्रि० उद्गतं मनोऽस्य उद् + नि०–क। १ उन्ममस्के २ अन्यमनस्के। “अगमयदद्रिसुतासमागमोत्कः” कुमा०। “तच् श्रत्वा च श्रवणदुभगं गर्ज्जितं मानसोत्काः” मेघ०”। “उत्कं धरं द्रष्टुमवेक्ष्य शौरिमुत्कब्धरं दारुक इत्युवाच” माघः।

उत्कच = त्रि० उद्गतः उन्नतो–कचोऽस्य। १ विकचे केशशून्ये २ उन्नत केशे च “प्रणम्य विकचः पादावगृह्णात् स पितुस्तदा। मातुश्च परमेश्वासस्तौ च नामास्य चक्रतुः। घटोहास्योत्कच इति माता तं प्रत्यमाषत। अब्रवीत्तेन नामास्य षटो त्कच इति स्म सा” भा० आ० १५६।

उत्कट = पु० अतीव कटति उद् + कट–अच्। १ रक्तेक्षौ, २ शरे च ३ त्वक्पत्रे। (तेजपात) ४ गुडत्वचि (दारचिनि) च न०। ४ अविसंवादिविषये त्रि०। उत्ककोटिसम्भवना तत्रौत्कट्यं विषयताविशेषः स च अविसवादिप्रवृत्तिप्रयोजकताप्रयोज्य इति नव्यनैयायिकाः। उद्गतः कटः आवरणं यस्य प्रादि० ब०। ५ तीव्रे त्रि०। ६ भिन्नकटे गजे पु०। “चन्द्रांशुनिकराभासाहाराः कासाञ्चिदुत्कटाः” रामा०। मदोत्कटः। “शुक्रशोणिसंयोगे यो भवेद्दोष उत्कटः” सुश्रु० “कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव” भा० स० ६ ३ अ०। ६ विषमे त्रि० उत्कठाशनम् “कांश्चित्त कुटजानान्तु विटपेषूकटानिव” भा० व० १५६ अ०। ७ सैंहीलतायाम् स्त्री।

उत्कण्ठ = पु० उद्गतः कण्ठं पादोयत्र। “नारीपादौ च हस्तेन धारयेद्गलके पुनः। स्तनार्पितकरः कामी बन्धश्चोत्कण्ठसंज्ञित” इति रत्यङ्गेबन्धभेदे उन्नतःकण्ठो यस्य। २ उद्ग्रीवे त्रि०। “रथस्वनोत्कण्ठमृगः” रघुः।

उत्कण्ठा = स्त्री० उद् + कठि–अ। इष्टलाभाय कालासहनरूमे १ औत्सुक्ये २ चिन्तयाञ्च। “यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया” शकु०। “उत्कण्ठायां हृदि न कुरुते कारणानां सहस्रम्” पदाङ्कदू० “त्वासुत्कणठा विरचित- पदम्” केकोत्कण्ठा भवनशिखिनः” मेघदू०।

उत्कण्ठित = त्रि० उत्कण्ठा जाताऽस्य तारकादि० इतच्। १ उत्कण्ठायुक्ते २ नायिकाभेदे स्त्री। “सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन” मेघदू०। नाषिकाभेदस्तु “आगन्तुं कृतचित्तोऽपि दैवान्नायाति यत् प्रियः। तदनागमदुःखेन विरहोत्कणिटता तु सा” सा० द० उक्तः। “उत्कण्ठिताऽसि तरले! न हि नहि सखि! पिच्छिलः पन्थाः सा० द०।

उत्कता = स्त्री उत्कं तनोति तन–ड। गजपिप्पल्याम् शब्दच० उत्कस्य भावः तल्। २ उत्सुकतायाम्।

उत्कन्धर = त्रि० उन्नतः कन्धरोऽस्य प्रा० ब० वा नतलोपः। उन्नतग्रीवे “उत्कन्धरं दारुकैत्युवाच” माघः।

उत्कम्प = पु० उत्कृष्टः कम्पः प्रा० त०। १ कामादिजनिते कम्पने। “सोत्कम्पानि प्रियसहचरीसम्भ्रमालिङ्गितानि” मावः। भावे ल्युट्। उत्कम्पनमप्यत्र न०। व्याधिर्जरा“दिर्वाताद्यैर्भूमीच्छोत्कम्पनादिकृत्” शैत्यभवस्योत्कम्पनादयः” इति च सा० द०। उत्कम्पते अच्। २ उत्कम्पान्विते त्रि०। “बिस्मयोत्कम्पहृदया नाम चक्रुर्महर्षयः” आ० प० ३० अ०। णिनि। उत्कम्पिन् स्त्रियां ङीप्। उत्कम्पान्विते, उत्कम्पयति णिजन्तात् णिनि उत्कम्पकारके च “किमिदं हृदयोत्कम्पि मनीमम विषीदति” रामा०।

उत्कर = पु० उद् + कॄ–अप्। १ धान्यादीनां राशीकरणे २ प्रसारणे, ३ तृणापसारणे ४ हस्तपदादिविक्षेपे ५ समूहे च। “तृणपर्ण्णोत्करयुतं कलुषं विषसंयुतम्” सुश्रु०। “केशरोत्करसंमिश्रमशोकानामिवोत्करम्” भा० व० १११५०। कर्म्मणि अप्। ६ उत्कीर्य्यमाणे धूल्यादौ “अथ खनति प्राञ्चमुत्करमित्करति” शत० ब्रा० ३, ६, १, ६,। उत्कीर्य्यतेऽत्र आधारे अप्। पांश्वादेरुत्क्षेपाधारे गर्त्तादौ, “चत्वालोत्करावन्तरेण सञ्चरः” कात्या० १, ३, ४२, सञ्चरोमार्गः चत्वालोगर्त्तः उत्करस्तत्क्षेपणगर्त्तस्तयोरन्तरालेन विहितकार्य्यार्थं सञ्चारमार्गः। “प्रणीतोत्करावशिष्टेषु” कात्या० १, ३, ४३,।

उत्करादि = पु० चतुरर्थ्याम् “उत्करादिभ्यश्छ” पा० विहितछप्रत्ययनिमित्ते शब्दगणे स च गणः “उत्कर संफल शफर पिप्पल पिप्पलीमूल अश्मन् सुवर्ण खलाजिन तिक कितव अणक त्रैवण पिचुक अश्वत्थ काश क्षुद्र यस्त्रा शाल जन्या अजिर चर्म्मन् उत्क्रोश क्षान्त स्वदिर शूर्पणाय श्यावनाय नैवाकव तृण वृक्ष शाक पलाश विजिगीषा अनेक आतप फल सम्पर अर्क गर्त्त अग्नि वैराणक इडा अरण्य निशान्त पर्ण नीचायक शंकर अवरोहित क्षार विशाल वेत्र अरीहण खण्ड वातागर मन्त्रणार्ह इन्द्रवृक्ष नितान्तावृक्ष आर्द्रवृक्ष”। छ उत्ककरीय तत्सन्निहितदेशादौ त्रि०।

उत्कर्ण्ण = त्रि० उन्नतःकर्णो यस्य यस्मिन् वा प्रा० ब० वा नतलोपः। कृतकर्ण्णोत्तोलने “उत्कर्णमुद्वाहितकन्धरेण” माघः।

उत्कर्त्तन = न० उत् + कृत–ल्युट्। १ छेदने २ उत्पाटने “दंशस्योत्कर्त्तनं कुर्य्यादल्पश्वयथुकस्य च” सुश्रु० उत्कर्त्तनञ्च मूढगर्भचिकित्सोपायः। सुश्रुते दर्शितः यथा। “उत्क र्षणापकर्षणस्थानापवर्त्त नोत्कर्त्तनभेदनच्छेदनपीडनर्जूकरणदारणानि”। उत्कर्त्तनकर्म्मयोग्यता च पुष्पफलालाबुकालिन्दकत्रपुसैर्वारुककर्कारुकप्रभृतिषु च्छेद्यविशेषान् दर्शयेदुत्कर्त्तनपरिकर्त्तनानि चोपदिशेत्” सुश्रु० उक्तवस्तुषु उपरिशस्त्र चालने तदीमोपरिस्थ शूकमात्रखण्डनं न त्वक्खण्डनं यथाभबति एवं गर्मरक्षणेन उपरितनवस्तुमात्रच्छेदनं यत्तदुत्कर्त्त नमिति शिक्षार्थमुक्तमिति तात्पर्य्यम्। २ उत्पाट्यच्छेदने च।

उत्कर्ष = पु० उद् + कृष–घञ्। १ प्राशस्त्ये २ अतिशके ३ स्वकालात् परकालकर्त्तव्यतायाम्। यथा पतितमासिकानां स्वकाले दैवादकरणे मृतसजातीयपरमासीयतिथौ करणम् “एकोद्दिष्टे तु संप्राप्ते यदि विघ्नं प्तजायते। मासेऽन्यस्मिन् तिथौ तस्मिन् तदा दद्यात् विचक्षणः” इति स्मृतौतथा विधानात्तस्य तथात्वम्। “पञ्चानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः” रघुः। स्त्रीणाञ्च उत्कर्षः भर्त्तृगुणेनैव “यादृग्गुणेन भर्त्त्रा स्त्री संयुज्येत यथाविधि। तादृग्गुणा सा भवति समुद्रेणेव निम्नगा। अक्षमाला वशिष्ठेन संयुक्ताऽधमयोनिजा। शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम्। एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रसूतयः। उत्कषं योषितः प्राप्ताः स्वैः स्वैर्भर्त्तृगुणैः शुभैः” मनुः। “उत्तमैरुत्तमैर्नित्यं संबन्धानाचरेत् सह। निनीषुः कुलमुत्कर्षमधमानधमांस्त्यजेत्” मनुः। उत्कर्षः निमित्ततयाऽस्त्यस्य अच्। ४ उत्कर्षनिमित्ते त्रि० “निषिद्धभक्षणं जैह्म्यमुत्कर्ष च वचोऽनृतम्। रजस्वजामुखास्वादः सुरापाणसमानि तु” या० स्मृ०। उत्कर्ममुत्कर्षनिमित्तं राजकुलादावचतुर्वेद एव चतुर्वेदोहम्” इत्यनृतभाषणम्” मिता०। उत्कृष्यते अपकृष्टे भ्योगुणविशेषेण विभज्यत इति व्युत्पत्त्या गुणविशेषद्वारैव अपकृष्टात् विभजनम्। स च स्वस्वजातिषु उत्तमगुणेनैव। तत्र विप्राणां विनयविद्यादिना, राज्ञां शौर्य्यवीर्य्यदिना, वैश्यानां धनादिना, शूद्राणां नम्रतादिना। एवमन्यवस्तुन्यपि यथायथमूह्यम्। द्वयोर्मध्ये एकस्योत्कर्षेऽर्थे तरप् विद्वत्तरः शूरतरः बहूनां मध्ये तु तमप्। विद्वत्तमः शूरतमः इत्यादि। “उत्कर्षे हेतवः प्रोक्ता गुणालङ्काररीतयः” सा० द०। “उत्तरोत्तरमुत्कर्षो वस्तुनः सार उच्यते” सा० द०। “यथा वर्ण्णानामुत्कर्षापकर्षकृतेन संयोगविशेषेण” सुश्रु० भावे ल्युट्। उत्कर्षणप्यत्र न०। उत्कृष्यते कर्ण्णणि घञ्। ५ उत्कर्षान्विते। उद्धृत्य कर्षः। ६ उत्पाट्यकर्षणे उद्धरणे पु० “सन्धानमुत्कर्षमिव व्युदस्य” माघः। ल्युट्। उत्कर्षणमप्यत्र न०। “स्फाटिकं स्थलमासाद्य जलमित्यभिशङ्कया। वस्त्रस्योत् कर्षणं राजा कृतवान् बुद्धिमोहितः” भा० स० ४६ अ०।

उत्कर्षक = त्रि० उत्कर्षयति उत् + कृष–णिच् ण्वुल्। १ उत्कर्षाघायके “काव्यस्योत्कर्षका उच्यन्ते” सा० द० उद् + कृषण्वुल्। उत्पाट्य २ कर्षणकारिणि।

उत्कर्षित = त्रि० उत्कर्षोजातोऽस्य तारका० इतच्। जातोत्कर्षे।

उत्कर्षिन् = त्रि० उत्कर्षति उत्तोल्य कर्षति। २ उत्तोल्यकर्षके उद्धारके “अयं स रशनोत्कर्षी पीनस्तनविमर्दनः” सा० द० धृतम्। २ उत्कर्षान्विते च। स्त्रियामुभयतो ङीप्।

उत्कल = पु० “जगन्नाथप्रान्तदेश उत्कलः परिकीर्त्तित” इत्युक्ते १ उड्रदेशस्थे (उडिस्या) इति ख्याते देशभेदे। स च देशः कूर्म्मविभागे प्राच्यतया “वृ० स० उक्तः तच्च उड्रशब्दे उक्तम्। अस्मद्देशापेक्षया च तस्य दाक्षिणात्यत्वमिति भेदः” “उत्कलादेशितपथः कलिङ्गाभिमुखं ययौः” रघुः। ४ सुद्युम्नपुत्रे राजभेदे। “मनोर्वंशकरः पुत्रस्त्वमेव च भविष्यसि। सुद्युम्न इति विख्यातस्त्रिषु लोकेषुं विश्रुतः” इत्युपक्रम्य “सुद्युम्नस्य च दायादास्त्रयः परमधार्मिकाः। उत्कलश्च गयश्चैव विनताश्वश्च भारत!। उत्कलस्योत्कला राजन्! विनताश्वस्य पश्चिमा। दिक् पूर्व्वा भरतश्रेष्ठ गयस्य तु गया पुरो” हरिवं० १० अ–इत्युक्तेश्च तस्य उत्कला ख्या पुरी आसोत् तत्संबन्धित्वाच्च तद्देशस्योत्कलत्वम। उत्कलोऽभिजनोऽस्य अण्। औत्कल तद्वासिजने तद्देशानां राजा अण्। औत्कल तद्देशानां राजनि। उभयत्र बहुषु अणो लुक्। “उत्कला मेकलाः पौण्ड्राः कलिङ्गान्ध्राश्च संयुगे” भा० औ० ४ अ०। उत्कः सन् लाति ला + क। २ व्याधे, ३ भारटाहके च शब्दमा०। ४ ध्रवपुत्रभेदे पु०। “प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रवः। उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ। इडायामपि भार्य्यायां वायोः पुत्र्यां महाबलः!। पुत्रमुत्फलनामानं योषिद्रत्नभजीजनत्” भाग० ४ स्क० १० अ०। पञ्चगौडमध्ये ५ विप्रभेदे च। “सारस्वताः कान्यकुब्जाः गौडमैथिलकीत्ककाः”।

उत्कलिका = स्त्री उद्–कल–वुन्। १ उत्कण्ठायाम् कामादिजाताया २ स्मृतौ च। ३ तरङ्गे हला० “वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः” माघः। ४ कलिकायां कोरके ५ हेलायाञ्च हेमच०।

उत्कलिकाप्राय = न० “भवेदुत्कलिकाप्रायं समासाढ्य दृढाक्षरम्”। छ० म० उक्ते गद्यभेदे

उत्कलित = त्रि० क्त उद् + कल–क्त। उद्ग्रथिते

उत्कषण = न० उद् + कष–ल्युट्। कर्षणे। “सद्यःसीरोत्कषणसुरभिक्षेत्रमारुह्य मालम्” मेघदू०।

उत्काका = स्त्री उत्केवाकति अक–अच्। प्रतिवर्षंप्रसूतायां गवि शब्दचि० तु उत्कारेति शब्दमाह।

उत्काकुद् = त्रि० उन्नतं काकुदमस्य “उद्विभ्यां काकुदस्य” पा० अन्त्यलोपः समा०। उन्नततालुके।

उत्कार = पु० उद् + कॄ–“कॄ धान्ये” पा० घञ्। धान्यादेः विक्षेपे “उत्कारेषु च धान्यानमनभीष्टपरिग्रहाः” भट्टिः।

उत्कारिका = स्त्री उद् + कॄ–ण्वुल्। सुश्रुतोक्ते शोफादिनिवारके पाचनभेदे यथा “ब्रणस्य षष्टिरुपक्रमा भवन्ति। अपतर्पणमालेप” इत्युपक्रम्य “निर्वापणमुत्कारिका कषाय” इत्यादीनि विभज्य उत्कारिकाविषयपाचनप्रकारोदर्शितः। “निवर्त्त ते न यः शोफो विरेकान्तैरुपक्रमैः। तस्य संपाचनं कुर्य्यात् समाहृत्यौषधानि तु। दधितक्रासुराशुक्त धान्याम्लैर्योजितानि तु। स्निग्धानि लवणीकृत्य पचेदुत्कारिकां शुमाम्”। “स्नैहिकेषु च वीजेषु पचेदुत्कोरिकां शुभाम्”। “स्नैहिकफलसारीत्कारिका वा”। “स्नुहीभावितामुत्कारिकां दापयेत्” इति च सुश्रु०।

उत्कास = पृ० उत्कमस्यति अस–अण् उप० स०। ऋषिभेदे वस्य गोत्रापत्यम् इञ्। औत्कासि तद्गोत्रापत्ये बहुषु तु अस्त्रिया तस्य लुक्। उत्कासाः। अस्यते क्षिप्यतेऽनेन अस करणे घञ् आसः ऊर्द्धस्य कस्य श्लेष्मजलस्य आसः। २ ऊर्द्ध्वगतश्लेष्मोत्क्षेपकरोगभेदे च। स च अन्तःस्थितकफादेरूर्द्धावायुना उत्क्षेपसाधनं रोगःस्वनामख्यातः।

उत्कासिका = उत्कमूर्द्धजलमस्यति अस–ण्वुल्। ऊर्द्धश्लेष्मक्षेपके रोगभेदे।

उत्कासन = न० उत् उर्द्धस्थस्य कस्य आसनं क्षेपणम् अस + णिच्–ल्युट्। अन्तःस्थकफरूपस्य कस्य उर्द्धदेशेन निस्मारणरूपे व्यापारे। “आहारशेषश्लेष्महीनाणुशल्यानि श्वसनोत्कासनप्रधमनैर्निर्द्धमेत्”। “सन्धिगतः पीड्यमानी न प्रवर्त्तत आकुञ्चनप्रसारणोन्नमनविनमनप्रधावनोत्कासनप्रवाहणैश्च स्ववति” सुश्रु०। (कासीकरान)

उत्किर = त्रि० उद्–कॄ कर्त्तरि श। उत्क्षेपके। “पुष्परेणूकिरैर्वातैः” रघुः “निनाय सात्यन्तहिमोत्किरानिलाः। “आप्लुतास्तीरमन्दार कुसुमोत्किरवीचिषु” कुमा० “शाखिमिः कुसुमोत्किरैः” भट्टिः

उत्कीर्ण्ण = त्रि० उद् + कॄ–क्त। १ उल्लिखिते, २ कृतवेधे च “मणौ वज्रसमुत्कीर्णे” रघुः। ३ ऊर्द्ध्वं क्षिप्ते च “रजोमिस्तुरगोत्कीर्ण्णैः” रघुः। ४ लिखिते “उत्कीर्ण्णापि विप्रलभते” काद०।

उत्कीर्त्तन = न० उच्चैः कीर्त्तनम्। देवनामादेः उच्चैः कथने।

उत्कीर्त्तित = त्रि० उद् + कीर्त्त–क्त। उच्चैः कथिते।

उत्कुट = न० कुट–सङ्कोचे क उन्नतंकुटो यत्र। उत्तानशयने हारा०।

उत्कुण = त्रि० उत्तोल्य कुण्यते हिंस्यते कुण–हिंसने अद० चुरा० कर्म्मणि अच्। उत्तोल्य हिंस्ये (उकुण) ख्यरते केशकीष्टे हेयच०।

उत्कूट = पु० ज्वन्नतं कूटमस्य। छत्रे हारा०।

उत्कूल = त्रि० उत्क्राग्नः कूलात् निरा० स०। १ उत्क्रान्तकूले नदादौ। कूलमुद्गतः अत्या० स०। २ कूलप्राप्ते। तत्करोतीत्यर्थेनिचि कर्म्मणि क्त। उत्कूलित। कूल प्रापिते त्रि०। “प्रतिक्षणोत्कूलितशैवलाभगः” माघः।

उत्कृति = स्त्री षड्विंशत्यक्षरपादके छन्दोभेदे। “उक्तात्युक्ते” त्युपक्रम्य “विकृतिः सङ्कतिश्चैव तथातिकृतिरुत्कृतिः” वृ० र०

उत्कृत्य = अव्य० उद् + कृत–ल्यप्। १ उत्कर्त्तनं कृत्नेत्यर्थे। “उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधेत्यादि” मालती०। ऋदुपधत्वात् कर्म्मणि क्यप्। २ उत्कर्त्तनीये छेदनीये त्रि०

उत्कृष्ट = त्रि० उद् + कृष–क्त। १ प्रशस्ते २ उत्तमे ३ उत्कर्षान्विते “सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः” “वसनस्य दशा ग्राह्या शूद्योत्कृष्टवेदने” “कन्यां भजन्तीमुत्कृष्टं न किञ्चदपि दापयेत्” “वीजस्य चैव योन्याश्च वीजमुत्कृष्ट म्व्यते” इति च मनुः। ४ कर्षणयुक्ते क्षेत्रादौ च। अतः अतिशये तरष् तमप् च उत्कष्टतरः उत्कृष्टतमः।

उत्कृष्टभूम = पु० उत्कृष्टा भूमिर्यत्र बा० अच् समा०। प्रशस्तभूमौ देशे जटा० अभिधानात् पुंस्त्वम्।

उत्कोच = पु० स्त्री उद्गतः कोचः सङ्कोचः कार्य्य प्रतिबन्धोयेन। अन्याय्यकर्म्मकरणार्थं स्वार्थप्रतिबन्धनिरासाय वादिप्रतिवादिभ्यां दाने (घुस्) इति ख्याते। “तथोत्कोचपरीहासव्यात्यासच्छलयोगतः” अदतगणनायां नारदः। “उत्कोचजीविनो द्रव्यहीनान् कृत्वा प्रवासयेत्” या० स्मृ०। उत्कोचदत्तस्यादत्ततैव यथा “दत्तं सप्तविधं प्रोक्तमदत्तं षोडशात्मकमिति” सामान्यतोऽभिधाय “अदत्तं तु भयक्रोधेत्यादिना शोडशविधादत्तपदर्था नारदेन दर्शिताः अदत्ताशब्दे तच्चोदाहृतम् ११३ पृष्ठे दृश्यम् “उत्कोचेन कार्य्यप्रतिबन्धनिरासार्थमधिकृतेभ्योदत्तम्” मिता०

उत्कोचक = पु० उत्कोचे उत्कीचद्रव्यग्रहणे प्रसृतः बा० कन्। १ उप्कोचग्राहिणि “उत्कोचकाश्चोपधिका वञ्चकाः कितवास्तथा” इत्युपक्रम्य “एवमादीन् विजानीयात् प्रकाशाला~कवञ्चकान्” मनुः। २ धौम्याश्रमान्तिके तीर्थभेदे “यवीयान् देवलस्यैष वने भ्राता तपस्यति। धौम्य उत्कोचके तीर्थे तं वृणुध्वं यदीच्छत”। “तत्र उत्कोचकं तीर्थ” गत्वा धौमाश्रमं ततः” भा० आ० १८३ अ०।

उत्क्रम = पु० उद् + क्रम–घञ् अवृद्धिः। व्युत्क्रमे, विपरीतक्रमे “क्रमोत्क्रमान्मेषतुलादिमानम्” ज्यो० त०। “अथोत्क्र मायानुपक्रमाय शतमानं भवति” शत० ब्रा० १३, ४, २, १०। उद् + क्रम–घञ्। २ उत्क्रान्तौ ऊर्द्धगतौ।

उत्क्रमण = न० उद् + क्रम–ल्युट्। १ अपसरणे “सोमवदुत्क्रमण मपगमनञ्च” कात्या० १९, ५, १७। २ देहात् जीवादेरपसरणे “शतं चैका च हृष्टयस्य नाड्यस्तासां मूर्द्धानमभि निस्मृतैका। तयोर्द्ध्वमायन्नमृत वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति” कठोप० अस्य भाष्यं यथा “तत्र शतञ्च शतसङ्ख्याका एका च सुषुमणा नाम पुरुषस्य हृदयाद्विनिः स्मृता नाड्यः शिरास्तासां मध्ये मूर्द्धानं भित्त्वाऽभिनिःसृता निर्गता एका सुकुम्णा नाम तयाऽन्तकाले हृदये आत्मानं वशीकृत्य योजयेत्। तया नाद्ध्योर्द्ध्वमुपरि आयन् गच्छन्नादित्यद्वारेणामृतत्वभमरणधर्म्मत्वमापेक्षिकम्। “आभूसंप्लवं स्थानममृतत्वं हि भाष्यत” इति स्मृतेः। ब्रह्मणा वा सह कालान्तरेण मुख्यममृतत्वमेति भुक्त्वा भोगाननुपमान् ब्रह्मलोकगतान्, विष्वङ् नार्नाविधगतयोऽन्या नाड्य उत्कुमणे निमित्तं भवन्ति संसारपतिपत्त्यर्था एव भवन्ती- भ्यर्थः”। तत्रोत्क्रमणप्रकारः वृ० उ० ६, ३, ४, ब्रा० दर्शितो यथा “तद्यथाऽनः सुसमाहितमुत्सर्ज्जद्यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनाध्वारूढमुत्र्ज्जद्याति यत्रैतदूर्द्धोच्छ्वासी भवति” ३५ क०। स यत्रायमणिमानं न्येति जरया वोपतपता वाणिमानं निगच्छति तद्यथाम्रं वोदुम्बरं वा पिप्पलं वा वन्धनात्प्रमुच्यत एवमेवायं पुरुष एभ्योऽङ्गेभ्यः "प्रमुच्यपुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव” ३६ क०। “तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसःसूतग्रामण्योऽभिसमा यन्त्ये वमेवेममात्मानमन्तकाले सर्व्वे प्राणा अभिसमायन्ति यत्रैतदूद्ध्वाच्छ्वासी भवति” ३८ क०। “स यत्रायमात्माऽबल्यं न्येत्य सम्भोहमिवन्येत्यर्थैनमेते प्राणा अभिसमायन्ति स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति स यत्रैष चाक्षुषः पुरुषः पराङ् पर्य्यावर्त्तते तथा रूपज्ञो भवति १। एकीभवति न पश्यतीत्याहुरेकी भवति न जिघ्रतीत्याहुरेकीभवति न रसयत इत्याहुरेकीभवति न वदतीत्याहुरेकीभवति न शृणोतीव्याहुरेकीभवति न मनुत इत्याहुरेकीभवति न स्पृशतीत्याहुरेकीभवति न बिजानातीत्याहुस्तस्य हैतस्य हृदमस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति, चक्षषोवा मूर्द्ध्नो वाऽन्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्व्वे प्राणा अनूत्क्रामन्ति सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति। तं विद्याकर्म्मणी समन्वारभेते पूर्व्वप्रज्ञा च” ४ ब्रा० १ क०।

अत्र शाङ्क० भाष्यं यथा। “इत आरभ्यास्य संसारोवर्ण्यते। यथायमात्मा स्वप्नान्ताद्वुद्धान्तमागत एवमयमस्माद्देहाद्देहान्तरं प्रतिप्रत्स्यत इत्याहात्र दृष्टान्तः। तत्तत्र यथा लोके अनः शकटं सुसमाहितं सुष्टु भृशं वा समाहितं भाण्डोपस्करणेनोलूखलमुसलशूर्पपिठरादिनान्नाद्येन च सम्पन्नं सम्भारेणाक्रान्तमित्यर्थः। तथा भाराक्रान्तं सदुत्सर्जच्छब्दं कुर्व्वद्यथा यायाद्गच्छेत् शाकटिकेनाधिष्ठितं सत्। एवमेव यथोक्तदृष्टान्तोऽयं शारीरः शरीरे भवः। कोऽसौ आत्मा लिङ्गोपाधिर्य्यः स्वप्नबुद्धान्ताविव जन्ममरणाभ्यां पाप्मसन्सर्गवियोगलक्षणाभ्यामिहलोकपरलोकावनुसञ्चरति यस्योत्क्रमणमनु प्राणाद्युत्क्रमणम्। थ पाज्ञेन परेणात्मना स्वयंज्योतिःस्वभावेनान्वारूढोऽधिष्ठितोऽवभास्यमानस्तथा चोक्तम्” “आत्मनैवायं प्योतिषाऽऽणे पाययते” ष्मति। उत्सर्जन् याति तत्र चैतन्यात्मज्जोतिसा भास्ते लिङ्गे प्राणप्रधाने गच्छति सति तदुपाधिरप्यात्मा गच्छ तीव। तथा च श्रुत्यन्तरम् “कस्मिन्न्वहमित्यादिं “ध्यायतीवेति” च। अत एवोक्तं प्राज्ञेनात्मनान्वारूढ इत्यन्यथा प्राज्ञेनैकीभूतः शकटवत्कथमुत्सर्जन याति तेन लिङ्गीपाधिरात्मा उत्सर्जन्मर्म्ममु निःकृत्यमानेषु दुःखवेदनयार्त्तः शब्दं कुर्व्वन् याति गच्छति। तत्कस्मिन्काले? इत्युच्यते। यत्रैतद्भवत्येतदिति क्रियाविशेषणमूर्द्ध्वोच्छ्वासी यत्रोर्द्धोच्छ्वासित्वमस्य भवतीत्यर्थः। दृश्यमानस्याप्यनुवदनं वैराग्यहेतोः। ईदृशः कष्टः स्वल्वयं संसारो येनोत्क्रान्तिकाले मर्म्मसूत्कृत्यमानेषु स्मृतिलोपो दुःखवेदनार्त्तस्य पुरुषार्थसाधनप्रतिपत्तौ चासामर्थ्यं परवशीकृतचित्तस्य। तस्माद्यावदियमवस्था नागमिष्यति तावदेव पुरुषार्थसाधनकर्त्तव्यतायामप्रमत्ता भवतेत्याह कारुण्याच्छुतिः ३५ क०। तत्तस्योर्द्ध्वोच्छ्वासित्वं कस्मिन्काले? किं निमित्तं? कथं? निमिथं? वा स्यादित्येतदुच्यते। सोऽय प्राकृतः शिरःपाण्यादिमान् पिण्डो यत्र यस्मिन् कालेऽयमणिमानमणोर्भावमणुत्वं कार्श्यमित्यर्थः नि एति निगच्छति। किं निमित्तं जरया वा स्वयमेव कालपक्वफलवज्जीर्णः कार्श्यं गच्छति उपतपतीत्युपतपत् ज्वरादिरोगग्रस्तेनोपतपता वा उपतप्यमानी हि रोगेण विषमाग्नितयान्नं भुक्तं न जरयति ततोऽन्नरसेनानुपचीयमानः पिण्डः कार्श्यमापद्यते तदुच्यते उपतपता वेति आणिमानं निगच्छति। यदात्यन्तकार्श्यं प्रतिपन्नो ज्वरादिनिमित्तैस्तदोर्द्ध्वोच्छ्वासी भवति। यदीर्द्ध्वोच्छ्वासी तदा मृशाहितसम्भारशकटवदुत्सर्जन् याति जराभिभवो रोगादिपीडनं कार्श्यापत्तिश्च शरीरवतोऽवश्यं भाविन एतेऽनर्था इति वैराग्यायेदमुच्यते। यदाऽसाबुत्सर्जन् याति तदा कथं शरीरं विमुञ्चतीति दृष्टान्त उच्यते। तत्तत्र यथाम्रं वा फलमुडुम्बरं वा फलं पिप्पलं वा फलं विषमानेकदृष्टान्तोपादानं मरणस्यानियतनिमित्तताख्यापनार्थम्। अनियतानि हि मरणस्थ निमित्तान्यसङ्ख्यातानि च। एतदपि वैराग्यार्थमेव। यस्मादयमनेकमरणनिमित्तवांस्तस्मात्सर्वदा मृत्योरास्ये वर्त्तत इति। बन्धनाद्बध्यते येन वृन्तेन स बन्धनकारणो रसो यस्मिन् वा बध्यत इति वृन्तमेवीच्यते बन्घनम्। तस्माद्रसात् वृन्ताद्वा वन्धनात्प्रमुच्यते वाताद्यनेकनिमित्तम्, एवमेवायं पुरुषो लिङ्गात्मा लिङ्गीपाधिःएभ्योऽङ्गेभ्यश्चक्षुरादिदेहावयवेभ्यः सम्प्रमुच्यते सम्यङिर्लेपेन प्रमुच्यते न सुषुप्तगमनकाल इव प्राणेन रक्षन्। किन्तर्हि सह वायुनोपसंहृय, पुनः प्रति- न्यायं पुनःशब्दात्पूर्व्वमप्ययं देहाद्देहान्तरमसकृद्गतवान् यथा स्वप्तबुद्धान्तौ पुनः पुनगेच्छति तथा पुनः प्रतिन्यायं प्रतिगमनं यथागतमित्यर्थः। प्रतियोनि योनिंयोनिं प्रति कर्म्मश्रुतादिवशादाद्रवति। किमर्थम्? प्राणायैव प्राणव्यूहायैवेत्यर्थः। सप्राण एव हि गच्छति ततः प्राणायवेति विशेषणमनर्थकं प्रीणिव्यूहाय हि गमनं देहाद्देहान्तरं प्रति। तेन ह्यस्य कर्मफलभोगार्थसिद्धिः। न प्राणसत्तामात्रेण तस्मात्तादर्थ्यार्थं युक्तं विशेषणं प्राणव्यूहायेति” ३६। “तमेवं जिगमिषुं के सह गच्छन्ति? ये वा गच्छन्ति ते किं तत्क्रियाप्रणुन्ना? आहोस्वित्तत्कर्म्मवशात्खयमेव गच्छन्ति परलौकिकशरीरकर्तॄणीव भूतानीत्यत्रोच्यते दृष्टान्तः। तद्यथा राजानं प्रयियासन्तं प्रकर्षेण यातुमिच्छन्तमुग्राः प्रत्येनसः सूतग्रामण्यस्त एवाभिसमायन्त्याभिमुख्येन समायान्त्येकीभावेन तमभिमुखा आयान्त्यनाज्ञप्ता एव राज्ञा केवलतज्जिगमिषाभिज्ञाः। एवमेवेममात्मानं भीक्तारमन्तकाले मरणकाले सर्व्वे प्राणा वागादयीऽभिसमायन्ति यत्रैतदूर्द्धोच्छ्वासी भवतोति व्याख्यातम्” ३८।

“स यत्रायमात्मतेति संसारोपवर्णनं प्रस्तुतम्। तत्रायं पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्येत्युक्तम्। तत् सम्प्रमोक्षणं कस्मिन् काले कथं वेति? सविस्तरं संसरणं वर्णयितव्यमित्यारभ्यते। सोऽयमात्मा प्रस्तुतोयत्र यस्मिन् काले अबल्यमबलभावं नि एत्य गत्वा यद्देहस्य दौर्बल्यं तदात्मन एव दौर्बल्यमित्युपचर्य्यते अबल्यं नेत्येति। न ह्यसौ स्वतोऽमूर्त्तत्वादबलभावं गच्छति तया सम्मोहमिव संमूढता संमोहीविवेकाभावः संमोहमिव नि एति निगच्छति न चास्य स्वतः संमोहोऽसंमोहो वास्ति नित्यचैतन्यज्योतिःस्वभावत्त्वात् तेनेवशब्दः संमोहसिव न्येतीति। उत्क्रान्तिकाले हि करणोपसंहारनिमित्तो व्याकुलीमाव आत्मन इव लक्ष्यते लौकिकैः तथा च वक्तारा भवन्ति संमूढः संमूढीयमिति। अथ वोभयत्रेवशब्दप्रयोगो यीज्योऽबल्यमिव न्येतोत्यसम्भोहमिव न्येतीति। उभयस्य परोपाधिनिमित्तत्वाविशेषात् समानकर्तृकनिर्द्देशाच्च। अथास्मिन् काल एते प्राणा वागादय एनमात्मानमभिसमायन्ति तदास्य शारीरस्यात्मनीऽङ्गेभ्यः सम्प्रमोक्षणम्। कथं पुनः सम्प्रमोक्षणं, केन वा प्रकारेणात्मानमभिसमायन्ति? इत्युच्यते। स आत्मा एतास्तेजोमात्रास्तेजसो मात्रास्तेजोभात्रास्तेजोऽवयवा रूपादिप्रकाशकत्वाच्चक्षुरादीनि करणःनीत्यर्थः। ता एताः समभ्याददानः सम्य- ङ्निर्लेपेनाभ्याददानः आभिमुख्यनाददानः संहरमाणस्तत्स्वप्नापेक्षया विशेषणं समिति न तु स्वप्ने निर्लेपेन समभ्यादानमस्ति त्वादानमात्रम्। “गृहीता वाक् गृहीतञ्चक्षुरस्य लोकस्य सर्वावतो मात्रामुपादाय शुक्रमादायेत्यादि” वाक्येभ्यः हृदयमेव पुण्डरीकाकाशमन्ववक्रामत्यन्वव गच्छति हृदयेऽभिव्यक्तविज्ञानो भवतीत्यर्थो बुद्ध्यादिविक्षेपोपसिंसा मति। न हि तस्य स्वतश्चलनं विक्षेशोपसंहारादिविक्रिया वा “ध्यायतीव लेलायतीव” इत्युक्तत्वात्। बुद्ध्याद्युपाधिद्वारैव हि सर्वविक्रियाध्यारोप्यते तस्मिन्। कदा पुनस्तस्य तेजोमात्राभ्यादानमित्युच्यते। स यत्रैष चक्षुषि भबश्चाक्षुषः आदित्यांशो भोक्तुः कर्म्मणा प्रयुक्तो यावद्देहधारणं तावच्चक्षुषोऽनुग्रहं कुर्वन् वर्त्तते। मरणकाले त्वस्य चक्षुषोऽनुग्रहं परित्यजति स्वमादित्यात्मानं प्रतिपद्यते। तदेतदुक्तम् “यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति, वातं प्राणश्चक्षुरादित्यमित्यादि”। पुनर्द्देहग्रहणकाले संश्रयिष्यति तथा खप्स्यतः प्रबुध्यतश्च। तदेतदाह। चाक्षुषः पुरुषो यत्र यस्मिन् काले पराङ् पर्य्यावर्त्तते परि समन्तात् पराङ् व्यावर्त्तत इति यथाऽत्रास्मिन् कालेऽरूपज्ञो भवति मुमूर्षुर्हि रूपं न जानाति। तदायमात्मा चक्षुरादितेजोमात्राः समभ्याददानो भवति स्वप्नक् इव। सएकीभवति करणजातं स्वेन लिङ्गात्मना। पार्श्वस्था आहुर्न पश्यतीति। तथा घ्राणदेवतानिवृत्तौ घ्राणमेकीभवति लिङ्गात्मना। तदा न जिघ्रतीत्याहुः। समानमन्यत्। जिह्वायां सोमो वरुणो वा देवता तन्निवृत्त्यपेक्षया न रसयत इत्याहुः। तथा न वदति न शृणोति न मनुते न स्पृशति न विजानातीत्याहुस्तदोपलक्ष्यते देवतानिवृत्तिः करणानाञ्च हृदय एकीभावः तत्र हृदयौपसंहृत्य तेषु योऽन्तर्व्यापारः स कथ्यते। तस्य ह एतस्य प्रकृतस्य हृदयस्य हृदयच्छिद्रस्येत्येतत्। अग्रं नाडीमुखं निर्गमनद्वारं प्रद्योतते स्वप्नकाल इव स्वेन भासा तेजोमात्रादानकृतेन स्वेनैव ज्योतिषाऽऽत्मनैव च तेनात्मज्योति प्रद्योतेन हृदयाग्रेण एष आत्मा विज्ञानमयो लिङ्गोपाधिर्निर्गच्छति निष्क्रामति। तथाऽऽथर्वणे “कस्मिन् न्वहमुक्रान्त उत्क्रान्तो भविष्यामि? कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति? स प्राणससृजतेति” तत्र चात्मचैतन्यज्योतिः सर्वदाभिव्यक्ततरं तदुपाधिद्वारा ह्यात्मनि जन्ममरणगमनागमनादिसर्वविक्रियालक्षणः संव्यवहारस्तदात्मकं हि द्वादशविधं करणम्। बुद्ध्यादि तत्सूत्रूं तज्जीवनं सीऽन्तरात्मा जगतस्तस्थुषश्च। तेन प्रद्योतेन हृदयाग्रप्रकाशेन निःक्रममाणः। केन मार्गेण निष्क्रामतीत्युच्यते। चक्षुषो वाऽऽदित्यलोकप्राप्तिनिमित्तं ज्ञानं कर्म्म वा यदि स्यात्। मूर्द्ध्नो वा ब्रह्मलोकप्राप्तिनिमित्तं चेत्। अन्येभ्यो वा शरीरदेशेभ्यः शरीरावयवेभ्यो यथाकर्म्म यथाश्रुतमिति तं विज्ञानात्मानमुत्क्रामन्तं परलोकाय प्रस्थितं परलोकायोद्भूताकूतमित्यर्थः। सर्व्वाधिकारस्थानीयोराज्ञ इवानूत्क्रामति तञ्च प्राण मनूत्क्रामन्तं वागादयः सर्व्वे प्राणा अनूत्क्रामन्ति। यथाप्रधानान्वाचिख्यासेयम् न तु क्रमेण सार्थवद्गमनमिह विवक्षितम्। एष आत्मा सविज्ञानो भवति स्वप्नैव विशेषविज्ञानवान् भवति कर्म्मवशादस्वतन्त्रः सातन्त्र्येण हि सविज्ञानत्वे सर्व्वः कृतकृत्यः स्यात् नैव तु तल्ल भ्यते अतएवाह व्यासः “सदा तद्भावभावितः” इति कर्म्मणानुद्भाव्यमानेनान्तःकरणवृत्तिविशेषाश्रितवासनात्मकविशेषविज्ञानेन सर्व्वोलोक एतस्मिन् काले सविज्ञानोभवति सविज्ञानमेव च गन्तव्यमन्ववक्रामत्यनुगच्छति विशेषविज्ञानोद्भासितमेवेत्यर्थः। तस्मात्तत्काले स्वातन्त्र्याथं योगधर्म्मानुसेवनं परिसंख्यानाभ्यासश्च विशिष्ट पुण्योपचयश्च श्रद्दधानैः परलोकार्थिभिरप्रमत्तैः कर्त्तव्य इति सर्व्वशास्त्राणां यत्नतोविधेयोऽर्थो दुश्चरिताच्चोपरमणम् न हि तत्काले शक्यते किञ्चित्संपादयितुम् कर्म्मणानीय मानस्य स्वातन्त्र्याभावात् “पुण्योवै पुण्येन कर्म्मणा भवति पापः पापेन” इत्युक्तेः एतस्य ह्यनर्थस्योपशमोपायविधानाय सर्व्वशाखोपनिषदः प्रवृत्ताः नहि तद्विहितोपायानुसेवनं मुक्तात्यन्तिकस्यानर्थस्योपशमोपायोऽस्ति तस्मादत्रैवोपनिषद्विहितोपाये यत्नपरैर्भवितव्यमित्येष प्रकरणार्थः शकटवत्सम्भृतसम्भार उपसर्ज्जद्यातीत्युक्तं किंपुनस्तस्य परलाकाय प्रस्थितस्य पथ्यदनं शाकटिकसम्भारस्थानीयं गत्वा वा परलोकं यद्भुङ्क्ते शरीराद्यारम्भकञ्च यत्तत् किम्? इत्युच्यते। तं परलोकाय गच्छन्तभात्मानं विद्या कर्म्मणी विद्या च कर्म्म च विद्याकर्मणी विद्या सर्व्वप्रकारा विहिता प्रतिषिद्धा अविहिताऽप्रतिषिद्धा च तथा कर्म्म विहितं प्रतिषिद्धं चाविहितमप्रतिषिद्धञ्च समन्वारभेते सम्यगन्वारभेते अन्वालभेते अनुगच्छतः पूर्व्वप्रज्ञा च पूर्ब्बानुभूतविषया प्रज्ञा पूर्वप्रज्ञातीतकर्म्मफलानुभववासनेत्यर्थः। सा च वासनाऽ पूर्व्वकर्म्मारम्भे कर्म्मविपाके चाङ्गं भवति। तेनासावप्यन्वारभते नहि तया वासनया विना केनचित् कर्म्म कर्त्तुं फलं चोपभोक्तुं शक्यते नह्यनभ्यस्ते विषये कौशलमिन्द्रियाणां भवति, पूर्व्वानुभववासना प्रवृत्तानां त्विन्द्रियाणामिहाभ्यासमन्तरेण कौशलमुपपद्यते, दृश्यते च केषाञ्चित् कासुचित् क्रियाणु चित्र कर्म्मादिलक्षणासु बिनैवेहाभ्यासेन जन्मत एव कौशलम् कासुचिदत्यन्तसौकर्य्ययुक्तास्वप्यकौशलम् केषाञ्चित्, तथा विषयोपभोगेषु स्वभावत एव केषाञ्चित्कौशलाकौशले दृश्येते तच्चैतत् सर्व्वं पूर्व्वप्रज्ञोद्भवानुद्भवनिमित्त, तेन पूर्ब्बप्रज्ञया विना कर्म्मणि वा फलोपभोगे वा न कस्यचित् प्रवृत्तिरुप्रपद्यते, तस्मादेत्तत्त्रयं शाकटिकभारस्थानीय परलोकपथ्यदनं विद्याकर्म्मपूर्ब्बप्रज्ञाख्यम्। यस्माद्विद्याकर्म्मणी पूर्व्वप्रज्ञा च देहान्तरप्रतिपत्तुर्भोगसाधनं तस्माद्विद्याकर्म्मादि शुभमेव समाचरेत्। यथा इष्टदेहसंयोगभोगोपभोगौ ४ ब्रा० स्यातामिति प्रकरणार्थः” १ क०।

शा० सू० भाष्ययोश्च उत्क्रमणप्रकारः प्रपञ्चितो यथा “वाङ्मनसि दर्शनाच्छब्दाच्च” सू०। “अथापरासु विद्यासु फलप्राप्तये देवयानं पन्थानमतारयिष्पन् प्रथमं तावद्यथाशास्त्रमुत्क्रान्तिक्रममाचष्टे समाना हि विद्वदविदुषोरुत्क्रान्तिरिति वक्ष्यति। अस्ति प्रायणविषया श्रुतिः “अस्य सोम्य! पुरुषस्य प्रयतोवाङ् मनसि सम्पद्यते, मनः प्राणे, प्राणस्तेजसि, तेजः परस्यान्देवतायामिति” किमिह वाच एव वृत्तिमत्याः मनसि सम्पत्तिरुच्यते उतवाग्वृत्तेरिति? विशयः। तत्र वागेव तावन्मनसि सम्पद्यत इति प्राप्तं तथा हि श्रुतिरनुगृहीता भवति। इतरथालक्षणा स्यात् श्रुतिलक्षणाविषये च श्रुतिर्न्याय्या न लक्षणा तस्माद्वाच एवायं मनसि प्रविलय इत्येवं प्राप्ते ब्रूमः। वाग्वृत्तिर्मनसि सम्पद्यत इति। कथं वाग्वृत्तिरिति व्याख्यायते यावता वाङ्मनसीत्येवाचार्य्यः पठति। सत्य मेतत् पठिष्यति तु “परस्तात् अविभागोवचनादिति”। तस्मादत्र वृत्त्युपशममात्रं विवक्षितमिति गम्यते। तत्त्वप्रलयविवक्षयान्तु सर्वत्रैवाविभागसाम्यात् किं परत्रैव विशिंष्यादविभाग इति। तस्मादत्न वृत्त्युपसंहारविषक्षायां वाग्वृत्तिः पूर्ब्बमुपसंह्रियते मनोवृत्ताववस्थियामित्यर्थः। कस्मात्? दर्शनात् दृश्यते हि वाग्वृत्तेः पूर्वोपसंहारोमनोवृत्तौ विद्यमानायाम्। न तु वाच एव वृत्तिमत्यामनस्युपसंहारः केनचिदपि द्रष्टुं शक्यते। ननु श्रुतिसामर्थ्याद्वाच एवायं मनस्यप्यय इत्युक्तं नेन्याह अतत्प्रकृतित्वात् यस्य हि यत उत्पत्तिस्तस्य तत्र लयोनाय्योमृदीव शरावस्य। न च मनसो वागुत्पद्यत इति किञ्चन प्रमाणमस्ति। वृत्त्युद्भवाभिभवौ त्व प्रकृतिसमाश्रयावपि दृश्येते। पार्थिवेभ्योहीन्धनेभ्यस्तैजसस्याग्नेर्वृत्तिरुद्भवति अप्सु चोपशाम्यति। कथं तर्ह्यस्मिन् पक्षे वाङ्मनसि सम्पद्यत इति शब्दः इत्यत आह शब्दाच्चेति। शब्दोऽप्यस्मिन् पक्षेऽवकल्पते वृत्तिवृत्तिमतोरभेदीपचारादित्यर्थः” भा०। “अतएव च सर्व्वाण्यनु” सू०। “तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः” इत्यत्राविशेषेण सर्वेषामेवेन्द्रियाणां मनसि सम्पत्तिः श्रूयते तताप्यत एव वाच इव चक्षुरादीनामपि सवृत्तिके मनस्य वस्थिते वृत्तिलोपदर्शनात्तत्त्वप्रलयासम्भवाच्छब्दोपपत्तेश्च वृत्तिद्वारेणैव सर्वाणीन्द्रियाणि मनोऽनुवर्त्तन्ते। सर्वेवाङ्करणानां मनस्युपसंहराविशेषे सति वाचः पृथग्ग्रहणं वाङमनसि सम्पद्यत इत्युदाहरणानुरोधेन” भा०। “तन्मनः प्राण उत्तरात्” सू०। “समधिगतमेतत् वाङ्मनसि सम्पद्यत इत्यत्र वृत्तिसमपत्तिर्विवक्षितेति। अथ यदुत्तरं वाक्यम् “मनः प्राणैति” किमत्रापि वृत्तिसम्पत्तिरेव विवक्षिता उन वत्तिमत्सम्पत्तिरिति? विचिकित्सायां वृत्तिमत्सम्पत्तिरेबेति श्रुत्यनुग्रहात्तत्प्रकृतितोपपत्तेश्च तथा हि “अन्नमयं हि सौम्य मन” आपोमयः प्राण” इत्यत्र अन्नयोनि मन आमन न्ति अब्योनिञ्च प्राणम्। आपश्चान्नमसृजन्तेति श्रुतेः” “अतश्च यन्मनः प्राणे प्रलीयते अन्नमेव तदप्सु प्रलीयतेअन्न हि मनः, आपश्च प्राणः, प्रकृतिविकाराभेदादित्येवं प्राप्ते ब्रूमः तदप्यात्मगृहीतबाह्येन्द्रियवृत्तिमनोवृत्तिद्वारेणैव प्राणे प्रलीयत इत्युत्तराद्वाक्यादवगन्तव्यम्। तथा हि सुषुप्सोर्मुमूर्षोश्च प्राणवृत्तौ परिस्पन्दात्मिकायामवस्थितायां मनोवृत्तीनामुपशमो दृश्यते। न च मनसः स्वरूपाप्ययः प्राणे सम्भवति अतत्प्रकृतित्वात्। ननु दर्शितं मनसः प्रकृतित्वम्। नैतत्सारं न हीदृशेन प्राणालिकेन तत्प्रकृतित्वेन मनः प्राणे सम्पत्तुमर्हति। एवमपि ह्यन्न मनः सम्पद्येत अप्सुचान्नं अप्स्वेव च प्राणः। नह्येतस्मिञ्चपि पक्षे प्राणभावपरिणताभ्योऽद्भ्योमनोजायत इति किञ्चन प्रमाणमस्ति। तस्मान्न मनसः प्राणे स्वरूपाप्ययः। वृत्त्यप्यये तु शब्दोऽवकल्पते वृत्तिवृत्तिमतोरभेदोपचारादिगि दर्शितम्” भा०। “सोऽध्यक्षे तदुपगमादिभ्यः” सू०। “स्थितमेतद्यस्य यतोनोत्पत्तिस्तस्य तस्मिन् वृत्तिलयो न स्वरूपलय इति। इदमिदानी प्राणस्तेजसीत्यत्र चिन्त्यते किं यथाश्रुति प्राणस्य तेजस्येव वृत्त्युपसंहारः किं वा देहेन्द्रियपञ्जराध्यक्षे जीवे? इति। तत्र श्रुतेरनति शङ्क्यत्वात् प्राणस्य तेजस्येव सम्पत्तिः स्यात् अश्रुतकल्पनाया अन्याय्यत्वादित्येवं प्राप्ते प्रतिपद्यते सोऽध्यक्ष इति। स प्रकृतः प्राणोऽध्यक्षेऽविद्याकर्म्मपृर्व्वप्रज्ञोपाधिके विज्ञानात्मन्यबतिष्ठते तत्प्रधाना प्राणवृत्तिर्भवतीत्यर्थः। कुतः? तदुपगमादिभ्यः। “एवमेवेममात्मानमन्तकाले सर्व्वे प्राणा अभिसमायन्ति यत्रैतदूर्द्ध्वोच्छ्वासी मवतीति” हि श्रुत्यन्तरम् अध्यक्षोपगामिनः सर्व्वान् प्राणानविशेषेण दर्शयति। विशेषेणैव “तमुत्क्रामन्तं प्राणोनूत्क्रामतीति” पञ्चवृत्तेः प्राणस्याध्यक्षानुगामितां दर्शयति तदनुवृत्तिताञ्चेतरेषाम्, “प्राणमनूत्क्रामन्तं सर्व्वे प्राणा अनूत्क्रामन्तीति”। “सविज्ञानोभवर्तीति” चाध्यक्षस्यान्तर्विज्ञानवत्त्वप्रदर्शनेन तस्मिन्नपीतकरणग्रामस्य प्राणस्यावस्थानं गमयति! ननु “प्राणस्तेजसीति” श्रूयते कथं प्राणोऽध्यक्ष इत्यधिकावापः क्रियते। नैष दोषः अध्यक्षप्रधानत्वादुत्क्रमणादिव्यवहारस्य श्रुत्यन्तरगतस्यापि च विशैषस्यापेक्षणीयत्वात्। कथं तर्हि “प्राणस्तेजसीति” श्रुतिरित्यत आह” भा०। “भूतेषु तच्छुतेः” सू०। “स प्राणसंयुक्तोऽध्यक्षः तेजःसहचरितेषु भूतेषु देहवीजभूतेषु सूक्ष्मेष्ववतिष्ठत इत्यवगन्तव्यम् “प्राणस्तेजसि” इत्यतः श्रुतेः। ननु चेयं श्रुतिः प्राणस्य तेजसि स्थितिं दर्शयति न प्राणसं युक्तस्याध्यक्षस्य। नैषःदोषः “सोऽध्यक्षः” इत्यध्यक्षस्याप्यन्तराल उपसंख्यातत्वात्। योऽपि हि स्रुघ्नान्मथुरां गत्वा मथुरायाः पाटलि पुत्रं व्रजति सोऽपि स्रुध्नात् पाटलिपुत्रं यातीति शक्यते वदितुम्। तस्मात् प्राणस्तेजसीति प्राणसंयुक्तस्याध्यक्षस्यैवैतत्तेजःसहचरितेषु भूतेष्ववस्थानम्। कथं तेजःसहचरि तेषु भूतेष्वित्युच्यते यावता तेजः श्रूयते “प्राणस्तेजसि” इत्यत आह” भा०। “नैकस्मिन् दर्शयतोहि” सू०। “नैकस्मिन्नेव तेजसि शरंरान्तरप्रेप्सावेलायां जीवोऽवतिष्टते कार्य्यस्य शरीरस्यानेकात्मकतादर्शनात्। दर्शयतश्चैतमर्थं प्रश्नप्रतिवचने “आपः तरुषवचस” इति। तद्व्याख्यातं “त्र्यात्मकत्वालु भूयम्त्वात्” इत्यत्र। श्रुतिस्मृती चैतमर्थं दर्शयतः। श्रुतिः “पृथितीमय आपमयस्तेजमयो वायुमय आकाशमय” इत्याद्या। अतिरपि “अण्व्योमात्राऽविनाशिन्यो दशार्द्धानान्तु याः स्मृताः। ताभिः सार्द्धगिदं एर्त्वं सल्भवत्यनुपूर्व्वशः” इत्याद्या। ननु चोपसं- हृतेषु करणेषु शरीरान्तरप्रेप्सावेलायां क्कायन्तदा पुरुषो भवतीत्युपक्रम्य श्रुत्यन्तरं कर्म्माश्रयतां निरूपयति “तौ ह यदूचतुः कर्म्म हैव तदूचतुः अथ ह यत् प्रशशंसतुः कर्म्म हैव तत् प्रशशंसतुरिति”। तत्रोच्यते। तत्र कर्म्मप्रयुक्तस्य ग्रहातिग्रहसंज्ञकस्येन्द्रियविषयात्मकस्य बन्धनस्य प्रवृत्तिरिति कर्म्माश्रयतोक्ता इह पुनर्भूतोपादानाद्देहान्तरोत्पत्तिरिति भूताश्रयत्वमुक्तम्। प्रशंसाशब्दादपि तत्र प्राधान्यमात्रं कर्म्मणः प्रदर्शितं न त्वाश्रयान्तरं निवारितम् तस्मादविरोधः” भा०। “समाना चा सृत्युपक्रमादमृतत्वञ्चानुपोष्म” सू० “सेयमुत्क्रान्तिः किं विद्वदविदुषोः समाना? किं वा विशेषवतीति? विशयानानां विशेषवतीति तावत् प्राप्तम्। भूताश्रयविशिष्टा ह्येषा पुनर्भवाय भूतान्याश्रीयन्ते न च विदुषः पुनर्भवः सम्भवति” “अमृतत्व हि विद्वानभ्यश्नुते” इति श्रुतेः। त मादविदुष एवैषोत्क्रान्तिः। ननु विद्याप्रकरणे समाम्नानाद्विदुष एवैषा भवेत्, न स्वापादिवद्यथाप्राप्तानुकीर्त्तनात्। तथा हि “यत्रैतत्पुरुषः स्वपिति नाम अशिशिषति नाम पिपासति नामेति” च सर्वप्राणिसाधारणा एव स्वापादयोनुकीर्त्त्यन्ते विद्याप्रकरणेऽपि प्रतिपिपादयिषितवस्तुप्रतिपादनानुगुण्येन, न तु विदुषीबिशेषवन्तोविधित्स्यन्ते एवमियमप्युत्क्रान्तिर्महाजनगतैवानुकीर्त्यते यस्यां परस्यां देवतायां पुरुषस्य प्रयतस्तेजः सम्पद्यते, “स आत्मा तत्त्वमसीति” प्रतिपादयितुम्। प्रतिषिद्धा चैषा विदुषः। तस्मादविदुष एवैषेत्येवं प्राप्ते ब्रूमः। समानैषोत्क्रान्तिः वाङ्मनसीत्याद्या विद्वदविदुषोरा सृत्युपक्रमाद्भवितुमर्हति अविशेषश्रवणात्। अविद्वान् देहवीजतूतानि भूतसूक्ष्माण्याश्रित्य कर्मप्रयुक्तोदेहग्रहणमनुभवितुं संसरति विद्वांस्तु ज्ञानप्रकाशितं मोक्षं नाडीद्वारमाश्रयते तदेतदा सृत्युपक्रमादित्युक्तम्। नन्वात्मतत्त्वं विदुषा प्राप्तव्य न च तद्देशान्तरायतं तत्र कुतो भूताश्रयत्वं सृत्युपक्रमो वेति”। अत्रोच्यते। अनुपीष्य चेदम् अदग्ध्वाऽत्यन्तमविद्यादीन् क्लेशानपरविद्यांसामर्थ्यादापेक्षिकममृतत्वं प्राप्स्यते। सम्भवति तत्र सृत्युपक्रमोभूताश्रयत्वञ्च। न हि निराश्रयाणां प्राणानां गतिरुपपद्यते। तस्माददोषः” भा०। “तदाऽपीतेः संसारव्यपदेशात्” सू०। “तेजः परस्यां देवतायामित्यत्र प्रकरणसामर्थ्यात्तद्यथा प्रकृतं तेजः साध्यक्षं सपाणं सकरणग्रामं मूतान्तरसहितं प्रयतः पुंसः परस्यां देवतायां सम्पद्यत इत्येतदुक्तं भवति। कीदृशी- पुनरियं सम्पत्तिः स्यादिति चिन्त्यते। तत्रात्यन्तिकएवतावत् स्वरूपप्रविलय इति प्राप्तं तत्प्रकृतित्वोपपत्तेः। सर्व्वस्य हि जनिमतोवस्तुजातस्य प्रकृतिः परा देव तेति प्रतिष्ठापितम्। तस्मादात्यन्तिकीऽयमबिभागापत्तिः इत्येवं प्राप्ते ब्रूमः। तत्तेजआदिभूतसूक्ष्मं श्रोत्रादिकरणाश्रयभूतमाऽपीतेरा संसारमोक्षात् सम्यगज्ञाननिमित्तादवतिष्ठते। “योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः। स्थाणुमन्थेऽनुसयान्ति यथाकर्म यथाश्रुतम्” इत्यादिसंसारव्यपदेशात्। अन्यथा हि सर्वः प्रायणसमय एवोपाधिप्रत्यस्तमयादत्यन्तं ब्रह्म सम्पद्येत तत्र विधिशास्त्रं चानर्थकं स्याद्विद्याशास्त्रञ्च। मिथ्याज्ञाननिमित्तश्च बन्धो न सम्यग्ज्ञानादृते विस्र सितुमर्हति। तस्मात्तत्प्रकृतित्वेऽपि सुषुप्तिप्रलयवद्वीजभावावशेषैवैषा सत्सम्पत्तिः” भा०। “सूक्ष्मं प्रमाणतश्च तथोपलब्धेः” सू०। “तच्चेतरभूतसहितं तेजीजीवस्यास्माच्छरीरात् प्रवसत आश्रयभूतं स्वरूपतः परिमाणतश्च सूक्ष्मं भवितुभर्हति। तथा हि नाडीनिष्क्रमणश्रवणादिभ्योंऽस्य सौक्ष्म्यमुपलभ्यते। तत्र तनुत्वात् सञ्चारोपपत्तिः स्वच्छत्वाच्चाप्रतीघातीपपत्तिः अतएव च देहान्निर्गच्छत्पार्श्वस्थैर्नोपलभ्यते” भा०। “नोपमर्देनातः” सू०। “अतएव च सूक्ष्मत्वान्नास्य स्थूलशरींरस्योपमर्द्देन दाहादिनिमित्तेनेतरत् सूक्ष्मशरीरमुपमृद्यते” भा०। “अस्यैव चोपपत्तेरेष उष्मा” सू०। “अस्यैव च सूक्ष्मशरीरस्यैष उष्मायमेतस्मिन् जीवच्छरीरे संस्पर्शेनोष्णिमानं विजानाति। तथा हि मृतावस्थायामवस्थितेऽपि देहे विद्यामानेष्वपि च रूपादिषु देह गुणेषु नोष्मोपलभ्यते जीवदवस्थायामेव तूपलभ्यते इत्यत उपपद्यते प्रसिद्धशरीरव्यतिरिक्तरूपाश्रय एवैष उष्मेति। तथा च श्रुतिः “उष्ण एव जीविष्यंच्छीतो मरिष्यन्निति” भा०। “प्रतिषेधादिति चेन्न शारीरात्” सू०। “अमृतत्वञ्चानुपोष्येत्थतोविशेषणादात्यन्तिकेऽमृतत्वे गत्युत्क्रान्त्योरभावोऽभ्युपगतः तत्रापि केनचित् कारणेनोत्क्रान्ति माशङ्क्य प्रतिषेधति। “अथाकामयमानोयोऽकामोनिष्काम आप्तकाम आत्मकामोन तस्य प्राणाउत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येतीति”। अतः परविद्याविषयात् प्रतिषेधात् न परब्रह्मविदोदेहात् प्राणानामुत्क्रान्तिर स्तीति चेन्नेत्युच्यते। यतः शारीरादात्मन एष उत्क्रान्ति प्रतिषेधः प्राणानां, न शरीरात्। कथमवयस्यते। “न तस्मात् प्राणाउत्क्रामन्तीति” शाखान्तरे पञ्चमीप्रयोगात्। सम्बन्धसामान्यविषया हि षष्ठी शाखान्तरगतया पञ्चम्या सम्बन्धविशेषे व्यवस्थाप्यते। तस्मादिति च प्राधान्यादभ्युदयनिःश्रेयसाधिकृतो देही सम्बध्यते न देहः। न तर्स्मा दुच्चिक्रमिषोर्जीवात्। प्राणाउत्क्रामन्ति सहैव तेन भवन्ती त्यर्थः। सप्राणस्य प्रवसतो भवत्युत्क्रान्तिर्देहादित्येवं प्राप्ते प्रत्युच्यते” भा०। “स्पष्टोह्येकेषाम्” सू०। “नैतदस्ति यदुक्तं पर ब्रह्मविदोऽपि देहादस्त्युत्क्रान्तिः प्रतिषेघस्य देह्यपादानत्वा दिति। यतोदेहापादान एवीत्क्रान्तिप्रतिषेध एकेषां समाम्नातॄणां स्पष्ट उपलभ्यते। तथाह्यार्त्तभागप्रश्ने “यत्रायं पुरुषोम्रियते तदस्मात् प्राणाः उत्क्रामन्त्याहो स्विन्न?” इत्यत्र “नेतिहोवाच याज्ञवल्क्य” इत्यनुत्क्रान्ति पक्षं परिगृह्य न तर्ह्ययमनुत्क्रान्तेषु प्राणेषु मृत इत्यस्या माशङ्कायाम्” “अत्रैव समबलीयन्त” इति प्रविलयं प्राणानां प्रतिज्ञाय तत्सिद्धये “सौच्छ्वयत्याध्मायत्याध्मातोमृतः शेत” इति सशब्दपरामृष्टस्य प्रकृतस्योत्क्रान्त्यवधेरुछ्वयनादोनि समामनति “देहस्य चैतानि स्युर्न देहिनः”। तत्सामान्यात् “न तस्मात् प्राणा उत्क्रामन्त्यत्रैव समबलीयन्त” इत्यत्राप्य भेदीपचारेण देहापादानस्यैवोत्क्रमणस्य प्रतिषेधः यद्यपि प्राधान्यं देहिन इति व्याख्येयम्। येषां पञ्चमीपाठः येषान्तु षष्ठीपाठस्तेषां विद्वत्सम्बन्धिन्युत्क्रान्तिः प्रति षिध्यत इति प्राप्तोत्क्रान्तिप्रतिषेधार्थत्वादस्य वाक्यस्य देहापादनैव सा प्रतिसिद्धा भवति देहादुत्क्रान्तिः प्राप्ता न देहिनः। अपि च “चक्षुष्टो वा मूर्द्ध्नोवान्येभ्यो वा शरीर देशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्व्वे प्राणा अनूत्क्रामन्ति” इत्येवमविद्वद्विषये सप्रपञ्चमुत् क्रमणं सं सारगमनञ्च दर्शयित्वा “इति नु कामयमान” इत्युपसंहृत्याविद्वत्कथाम् “अथाकामयमान” इतिव्यपदिश्य विद्वां सं, यदि तद्विषयेऽप्युत्क्रान्तिमेव प्रापयेदसमञ्जस एव व्यपदेशःस्यात्। तस्मादविद्वद्विषये प्राप्तयोर्गत्युत्क्रान्त्यो र्विद्वद्विषये प्रतिषेध इत्येवमेव व्याख्येयं व्यपदेशार्थवत्त्वाय। न च ब्रह्मविदः सर्व्वगतव्रह्मात्मभूतस्य प्रक्षीणकाम कर्म्मण उत्क्रान्तिर्गतिर्वोपपद्यते निमित्ताभावात्। “अत्र ब्रह्म समश्नुत” इति चैवं जातीयकाः श्रुतयोगत्युत्क्रान्त्यो रभाव सूचयन्ति” भा०। “स्मर्य्यते च” सू०। स्मर्य्यतेऽपि च महाभारते गत्युत्क्रान्त्योरभावः। “सर्व्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः। देवा अपि च मार्गेषु मुह्यन्तेऽस्य पदैषिण” इति। ननु गतिरपि ब्रह्मविदः स्मर्य्यते “शुकः किल वैयासकिर्म्ममुक्षरादिमम्ण्डलमभिप्रतस्ये पित्रा त्वनुगम्याहूतोभो इति प्रतिशुश्रावेति”। न सशरीरस्यैवायं योगबलेन विशिष्ठदेशप्राप्तिपूर्ब्बकः शरीरोत्सर्ग इति द्रष्टव्यं स र्व्वभूतदृश्यत्वाद्युपन्यासात्। नह्यशरीरं गच्छन्तं सर्व्वभूतानि द्रष्टुं शक्नुयुः। तथा च तत्रैवोप संहृतम्। “शुकस्तु मारुताच्छीघ्रां गतिं कृत्वान्तरिक्षकः। दर्शयित्वा प्रभावं स्वं सव्वैभूतगतोऽभवदिति। तस्मादभावः परब्रह्म विदोगत्युत्क्रान्त्योः। गतिश्रुतीनान्तु विषयमुपरिष्टाद्व्याख्यास्यामः” भा० “तानि परे तथाह्याह” सू०। “तानि पुनः प्राणशब्दोदितानीन्द्रियाणि भूतानि च परब्रह्मविदस्तस्मिन्नेव परस्मिन्नात्मनि प्रलीयन्ते। कस्मात्? तथाह्याह श्रुतिः “एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्तीति”। ननु “गताः कलाः पञ्चदश प्रतिष्ठा” इति विद्वद्विषयैवापरा श्रुतिः परस्मादात्मनोऽन्यत्रापि कलानां प्रलयमाहस्म। न सा खलु व्यवहारापेक्षा पार्थिवाद्याः कलाः पृथीव्यादीरेव स्वप्रकृतीरपियन्तीति। इतरा तु विद्वत्प्रतिपत्त्यपेक्षा कृत्स्नं कलाजातं परब्रह्मविदो ब्रह्मैव सम्पद्यत इति तस्माददोषः” भा० “अविभागो वचनात्” सू०। “स पुनर्विदुषः कलाप्रलयः किमितरेषामिव सावशेषो भवत्याहोस्विन्निरवशेष? इति। तत्र प्रलयसामान्याच्छक्त्यवशेषताप्रसक्तौ ब्रवीति अविभागापत्तिरिति। कुतः? वचनात्। तथाहि कलाप्रलयमुक्त्वा वक्ति” “भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते सएषोऽकलोऽमृतो भवतीति”। अविद्यानिमित्तानाञ्च कलानां न विद्यानिमित्ते प्रलये सावशेषतोपपत्तिः। तस्मादविभाग एवेति” भा०। “तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्द्दानुगृहीतः शताधि कया” सू०। “समाप्ता प्रासङ्गिकी परविद्यागता चिन्ता। संप्रति त्वपराविद्याविषयामेव चिन्तामनुवर्त्तयति। समानाऽऽसृत्युपक्रमा चाद्विद्वदविदुषोरुत्क्रान्तिरित्युक्तं तमिदानीं सृत्युपक्रमं दर्शयति। तस्योपसंहृतवागादिकलापस्योच्चि क्रमिषतो बिज्ञानात्मन ओक आयतनं हृदयम्। “सएतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामतीति” श्रुतेः। तदग्रज्वलमम्। तत्पूर्ब्धिका चक्षुरादि स्थानापादाना चोत्क्रान्तिः श्रूयते “तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति “चक्षुष्टो वा मूर्द्ध्नोवान्येभ्यो वा शरीरदेशेभ्य” इति। सा किमविशेषेणैव विद्वदविदुषोर्भवति? अथास्ति कश्चिद्वि- दुषो विशेषनियमः? इति विचिकित्सायां श्रुत्यविशेषाद नियमप्राप्तावाचष्ठे। समाने पि हि विद्वदविदुषोर्हृदया ग्रप्रद्योतन तत्प्रकाशितद्वारत्वे च मूर्द्धस्थानादेव विद्वान्निष्क्रामति स्थानान्तरेभ्यस्त्वितरे। कुतः? विद्यासामर्थ्यात्। यदि विद्वानपीतरवत् यतः कुतश्चिद्देहदेशादुत् क्रामेन्नैवोत्कृष्टं लोकं लभेत तत्रानर्थिकैव विद्यास्यात्। तच्छेषगत्यनुस्मृतियोगाच्च विद्याशेषभूता च मूर्द्धन्यनाडीसम्बन्धा गतिरनुशीलयितव्या विद्या विशेषेषु विहिता तामभ्यस्य स तथैव प्रतिष्ठत इति युक्तम्। तस्माद्धृदयालयेन ब्रह्मणा सूपासितेनानुगृहीतस्तद्भावमापन्नोविद्वान् मूर्द्धन्ययैव शताधिकया शतादतिरिक्तया एकशततमया नाड्या निष्क्रामति इतराभिरितरे। तथा हि हार्दविद्यां प्रकृय समामनन्ति “शतञ्चैका च हृदयस्य नाड्यस्तासां मूर्द्धानमभिनिःसृतैका। तयोर्द्ध्वमायन्नमृतत्वमेति विष्वङङन्या उत्क्रमणे भवन्तीति” भा०। “रश्म्यनुसारी” सू०। “अस्ति दहरोऽस्मिन्नन्तराकाश” इति हार्दविद्या “अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म” इत्युपक्रम्य विहिता। तत्प्रक्रियायाम् अथ एताहृदयस्य नाड्य इत्युपक्रम्य सप्रपञ्च नाडीरश्मिसम्बन्धमुक्त्वोक्तम्। “अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्द्ध्वमाक्रमत” इति। पुनश्चोक्तम् “तयोर्द्ध्वमायन्नमृतत्वमेतीति”। तस्माच्छताधिकया नाड्या निष्क्रमन् रश्म्यनुसारी निष्क्रामतीति गम्यते। तत्किमविशेषेणैवाहनि रात्रौ वा म्रियमाणस्थ रश्म्यनुसारित्वमाहोस्विदहन्ये वेति संशये सति अविशेषश्रवणादविशेषेणैव तावद्रश्मनुसारीति प्रतिज्ञायते” भा०। “निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति” च” सू०। “अस्त्यहनि नाडीरश्मिसम्बन्ध इत्यहनि” मृतस्य स्याद्रश्म्यनुसारित्वं रात्रौ तु प्रेतस्य न स्यात् नाडीरश्मिसम्बन्धविच्छेदादिति चेन्न। नाडीरश्मिसम्बन्धस्य यावद्देहभावित्वात् यावद्देहभावी हि शिराकिरणसम्पर्कः। दर्शयति चेतमर्थं श्रुतिः “अमुष्मादादित्यात् प्रतायन्तेता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते ता अमुष्मिन्नादित्ये स्मृप्ताः” इति। निदाघसमये च निशाषुपि किरणानुवृत्तिरुपलभ्यते प्रतापादिकार्य्यदर्शनात्। स्तोकानुवृत्तेस्तु दुर्लक्ष्यत्वमृत्वन्तररजनीष शैशिरेष्विव र्दिनेषु। “अहरेवैतद्रात्रौ विदघातीति” चैतदेव दर्शयति। यदि च रात्रौ प्रेतीविनैव रश्मानुसारेणोर्द्ध्वमाक्रमेत रश्म- नुसारानर्थक्यं भवेत्। न ह्येतद्विशिष्याभिधीयते योदिवा प्रैति स रश्मीनपेक्ष्योर्द्ध्वमाक्रमते यस्तु रात्रौ सोऽनपेक्ष्यैवेति”। अथ तु विद्वानपि रात्रि प्रायणाऽपराधमात्रेण नोर्द्ध्वआक्रमेत पाक्षिकफला विद्येति अप्रवृत्तिरेव तस्यां स्यात् मृत्यु कालानियमात्। अथापि रात्रावुपरतोऽहरागममुदीक्षेत। अहरागमेऽप्यस्य कदाचिद्रश्मिसम्बन्धार्हं शरीरं स्यात् पावकादिसम्पर्कात्। “स यावत् क्षिप्येन्मनस्तावदादित्यं गच्छतीति” च श्रुतिरनुदीक्षां दर्शयति। तस्मादविशेषेणैवेदं रात्रिन्दिवं रश्म्यनुसारित्वम्” भा०। “अतश्चायनेऽपि दक्षिणे” सू०। “अतएवोदीक्षानुपपत्तेः अपाक्षिकफलत्वाच्च विद्याया अनियतकालत्वाच्च मृत्योदक्षिणायनेऽपि म्रियमाणो विद्वान् प्राप्नोत्येव विद्याफलम्। उत्तरायणमरणप्राशस्त्यप्रसिद्धेभींष्मस्य च प्रतीक्षादर्शनात् “आप्र्य्यमाणपक्षाद्यान् षडुदङ्ङेति मासान् तानिति” च श्रुतेरपेक्षिततव्यमुत्तरायणमितीमामाशङ्कामनेन सूत्रेणापनुदति। प्राशस्त्यप्रसिद्धिरविद्वद्विषया। भीष्मस्य प्रतिपालनमाचारपरिपालनार्थं पितृप्रसादलब्धस्वच्छन्दमृत्युताख्यापनार्थञ्च। श्रुतेस्त्वर्थं वक्ष्यति आतिवाहिकस्तल्लिङ्गात्” इति। ननु च “यत्र काले त्वनावृत्तिमावृत्तिञ्चैव योगिनः। प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभेति” कालप्राधान्येनीपक्रमस्याऽहरादिकालविशेषः स्मृतावलावृत्तये नियतः कथं रात्रौ दक्षिणायने वा प्रयातोऽनावृत्तिं यायादिति। अत्रोच्यते भा०। “योगिनः प्रति च स्मर्य्यते स्मार्त्ते चैते” सू०। “योगिनः प्रति चायमहरादिकाल विनियोगोऽनावृत्तयेस्मर्य्यते स्मार्ते चैते योगसाङ्ख्ये न श्रौते। अतोविषयभेदात् प्रमाणविशेषाच्च नास्य स्मार्त्तस्य कालविनियोगस्य श्रोतेसु विज्ञानेष्ववतारः। “ननु अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्”। “धूमोरात्रिस्तथा कृष्णः षण्मासादक्षिणायन मिति” श्रौतावेव देवपितृयाणौ प्रत्यभिज्ञायेते स्मृतावपीति। उच्यते। “तङ्कालं वक्ष्यामीति स्मृतौ कालप्रतिज्ञानाद्वि रोधमाशङ्क्य परिहार उक्तः। यदा पुनः स्मृतावपि अग्न्याद्यादेवा एवातिवाहिका गृह्यन्ते तदा न कश्चिद्विरोघ इति भा०”

उत्क्रमणीय = त्रि० उद् + कृम–कर्मणि अनीयर्। अतिक्रमणीये “न वेदवेचनात्तात न लोकवचनादपि। गतिरुत्क्रमणीया ते प्रयागमरणं प्रति” भा० व० ८५ अ०। उद्क्रमणस्येदम् छ। उत्क्रमणसम्बन्धिनि त्रि०।

***