उच्चकैस् = अव्य० उच्चैस् + टेरकच्। १ उच्चतायां २ तद्विशिष्टे च। “जनितमुदस्थादुच्चकैरुच्छ्रितोरः” “स्थितोदयाद्रेरभिसायमुच्चकैः” माधः। उत्कर्षार्थो तरबादि उच्चैश्शब्दवत्।

उच्चक्षुस् = त्रि० उत्क्षिप्तमुत्पाटितं वा चक्षुर्यस्य प्रा० ब०। १ ऊर्द्धोत्क्षिप्तनेत्रे २ उत्पाटितनेत्रे च। ततः च्वि इच्चक्षूकरोति उच्चक्षूभवति उच्चक्षूस्यात्।

उच्चटा = स्त्री उद्–चट–अच्। १ लशुनभेदे, २ गुञ्जायां ३ चूडालायाम्, ४ भूम्यायलक्याम् ५ नागरमुस्तायाञ्च।

उच्चण्ड = त्रि० उद्–चडि–अच्। १ अत्यन्तोग्रे २ अतिकोपने, ३ त्वरायुक्ते अविलम्बिते। ४ प्रखरस्पर्शे पु० ५ तद्वति त्रि०।

उच्चतरु = च० कर्म्म०। १ नारिकेले वृक्षे। २ उच्चद्रुममात्रे च।

उच्चताल = न० उच्चः तालः हस्ततालः यत्र। १ पानगोष्ठ्यां मत्ततया तत्र उच्चैर्हस्ततालदानात्तथात्वम्। ३ उन्नततालवृक्षे च

उच्चदेव = पु० उच्चः श्नेष्ठो देवः। वासुदेवे त्रिका०। तस्य “सर्वदे वमयो हरिः” इत्युक्तेः सर्व्वदेवमयत्वात् सत्वप्रघानत्वाच्च उत्कृष्टत्वम् अतएव भागवते “श्रेयांसि तत्र खलु सत्वतनोर्नृणां स्युरिति” सत्वप्रधानत्वात् तस्य श्रेयःसाधनत्वमुक्तम्।

उच्चन्द्र = पु० उच्छिष्टः स्वल्पाऽवशिष्टश्चन्द्रो यत्र प्रादि० ब० शिष्टशब्दलोपः। रात्रिशेषे शब्दरत्ना०।

उच्चय = पु० उत्पाट्य चयः चि–अच्। १ पुष्पादेरुत्तोलने। “पुष्पोच्चयं नाटयति” शकु०। “करिष्यामि शरैस्तीक्ष्णैस्त- च्छिरःकमलोच्चयम्” रघुः। “प्रत्युपसदमेकोच्चयेन कपालान्येककपालप्रभृतीनाम्” कात्था० २३, २, २०। उत्तरेषु पुरुषोच्चयेनैवैकशतविधात् १६, ८, २५। २ नारीकट्यंशुकग्रन्थौ “नीविः स्यादुच्चयोऽप्ययम्” मार्त्तण्डः उत्कृष्टश्चयः। ३ वृहत्समुदाये च अभ्युच्चयः। “वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः” सा० द०। स निर्घृष्या ङ्गुलिं रामोऽधी मनःशिलोच्चये” रामा०। “एकतः सरितः सर्व्वाः गङ्गाद्याः सलिलीच्चयाः” भा० व० ८८ अ०। “नैकद्रव्योच्चयवतीं समृद्धविपणापणाम्” भा० अनु० ३० अ०। शिलोच्चयोऽपि क्षितिपालमुच्चैः” रघुः। कर्म्मणि अच्। ४ हस्ताभ्यामुद्धृत्यावचिते नीवारे” हारा०।

उच्चल = न०। उद् + चल–अच्। १ मनसि हेमच० तस्य “असंशयं महाबाहो! मनोदुर्निर्ग्रहं चलम्” गीतोक्तेश्चञ्चलस्वभावत्वात्तथात्वम्। २ चलस्वभावसात्रे त्रि०।

उच्चलित = त्रि० उद् + चल–क्त। गमनोद्यते प्रस्तुते गत्युद्युक्ते

उच्चललाटा = स्त्री उच्चं ललाटं यस्याः। उन्नतललाटरूपदुर्लक्षणायां स्त्रियाम्। स्त्रीणां च दुर्लक्षणम् कन्याशब्दे वक्ष्यते

उच्चनीच = त्रि० उच्चैश्च नीचैश्च मयू० समा०। उन्नतावनत प्रदेशादौ “द्रष्टारमुच्चनीचानां कर्म्मभिर्द्देहिनां गतिम्”। भा० आश्व० १६ अ०।

उच्चा = अव्य० उद् + ची–डा। १ उच्चैः शब्दार्थे। “अमीय ऋक्षानिहिता स उच्चा” ऋ० १, २४, १०। “उच्चा उच्चैःप्रदेशे” भा०। “उच्चा दिवि दक्षिणावन्तोअस्थुर्ये” ऋ० १०, १०७, २। “अस्माकं द्युम्नमधिपञ्च कृष्टिषूच्चा” २, २, १०। “उच्चा उच्चैः” भा०। “अवतमुच्चाचक्रं परिज्मानम्” ८, ७२, १०। “उच्चाचक्रमुपरिस्थितचक्रम्” भा० उच्चाबुध्नं नीचादुच्चाचक्रथुः पातवे वाः” ऋ० १, ११६, २२। २ उन्नतायां स्त्रियां स्यी “उच्चारणत्पक्षिगणास्तटोस्तम्” माघः।

उच्चाटन = न० उद्–चट्–णिच्–ल्युट्। १ उत्पाटने स्वस्थानात् २ विश्लेषणे “उच्चाटनं स्वदेशादेर्भ्रंशनं परिकीर्त्तितम्” इति शा० ति० उक्ते ३ षट्कर्म्मान्तर्गतेऽभिचारभेदे च। उच्चाट्य तेऽनेन करणे ल्युट्। तन्त्रोक्ते ४ तत्साधनकर्म्मणि। तन्त्रसारे वगलाया अभिचारप्रयोगे कुण्डलक्षणमुपक्रम्य “वश्ये तु चतुरस्रं चाकर्षणे तु त्रिकोणकम्। तथैवोच्चाटने प्रोक्तं षट्कोणे मारणं स्मृतम्। वश्ये मेषासनं श्रेष्ठं कर्षणं व्याघ्रचर्म्मणि। शान्तौ मृगासनं प्रोक्तं स्तम्भो गोचर्म्मणि स्मृतः। उष्ट्रासनं तथोच्चाटे विद्वेपे तुरगा- सनम्” मारणे महिषीचर्म्म मोह च गजासनम्। मधुलाजतिलादीनि वश्यशान्तिकराणि च। आकर्षणे तथा लोध्रं सतिलं मधुरान्वितम्। निम्बपत्रञ्च तैलाक्तं विद्वेषकरणं परम्। हरितालं हरिद्रा च लवणेन च संयुता। स्तम्भयेत्तत्र देविशि! प्रज्ञाञ्चैव गतिं मतिम्। वाजिनाथस्य सारेण रुधिरेण च होमयेत्। मारणे तु रिपोर्देवि! श्मशानाग्नौ हुनेन्निशि। क्षुद्राणां काकपक्षाणां गृहधूमेन संयुतम्। लाजान् त्रिमधुरोपेतान् सर्वरोगप्रशान्तये” तन्त्रसा० उच्चाटनप्रकारा बहवोदर्शितास्तत्र सामान्यप्रकारस्तत्राभिधीयते निबन्धे “शान्तिवश्यस्तम्भनानि विद्वेषोच्चाटने ततः। मारणं तानि शंसन्ति षट् कर्माणि मनीषिणः। रतिर्व्वाणी रमा ज्येष्ठा दुर्गा काली यथाक्रमात्। षट्कर्म्मदेवताः प्रोक्ताः तस्मादेताः प्रपूजयेत्। ईशचन्द्रेन्दुनिरृतिवाय्वग्नीनां दिशोमताः। सूर्य्योदयं समारभ्य घटिकादशकं क्रमात्। ऋतवः स्युर्व्वसन्ताद्या अहोरात्रे दिनेदिने। वसन्तग्रीष्मवर्षाख्यशरद्धेमन्तशैशिराः। जलं शान्तिविधौ शस्तं वश्ये वह्निरुदाहृतः। स्तम्भने पृथिवी शस्ता विद्वेषे व्योम कीर्त्ति तम्। उच्चाटने स्मृतो वायुर्भौमाग्निर्म्मारणे मतः। तत्तद्भूतोदये सम्यक् तत्तन्मण्डलसंयुतम्। तत्तत् कर्म्म प्रकर्त्तव्यं मन्त्रिणा निश्चितात्मना। शीतांशुसलिलक्षौणीव्योमवायुहविर्भुजाम्। वर्ण्णाः स्युर्मन्त्रवीजानि षट्कर्मसु यथाक्रमम्। ग्रथनञ्च विदर्भश्च संपुटो रोघनं तथा। योगः पल्लव इत्येते विन्यासाः षट्सु कर्मसु। मन्त्रान्ते विहतान् कृत्वा साध्यवर्ण्णान् यथाविधि। ग्रथनं तत् विजानीयात् प्रशस्तं शान्तिकर्मणि। मन्त्रार्ण्णद्वयमध्यस्थं साध्यनामाक्षरं लिखेत्। विदर्भ एष विज्ञेयो मन्त्रिभिर्व्वश्यकर्मणि। आदावन्ते च मन्त्रः स्यान्नाम्नोऽसौ सम्पुटः स्मृतः। एष स्यात् स्तम्भने शस्त इत्युक्तो मन्त्रवेदिभिः। नाम्न आद्यन्तमध्येषु मन्त्रः स्याद्रोधनं स्मृतम्। विद्वेषणविधाने तु प्रशस्तमिदमुत्तमम्। मन्त्रस्यान्ते भवेन्नाम योगः प्रोच्चाटने मतः। अन्ते नाम्नो भवेन्मन्त्रः पल्लवोमारणे मतः”। भूतानामुदयः शा० चि०। “दण्डाकारा गतिर्भूमेः, पुटयोरुभयोरधः। तोयस्य, पावकस्योर्द्धगतिस्तिर्य्यङ्नभस्वतः। गतिर्व्व्योम्नोभवेन्मध्ये भूतानामुदयः स्मृतः। धरणेरुदये कुर्य्यात् स्तम्भनं वश्यमात्मवित्। शान्तिकं पौष्टिकं कर्म तोयस्य, तेजसस्तथा। मारणादीनि मरुतोविपक्षोच्चाटनादिकम्। शत्र विद्वेषणं शस्तमुदये च विहायसः”। भूतमण्डला- दिकं तत्रैवावसेयम्। षट्कर्मकरणनिमित्तमाह रुद्रयामले “उपस्थिते महाशत्रौ राष्ट्रपीडासु रुग्भये। भूमिवित्तमहोत्पाते भूतभीतिविपत्सु च। मातःपरतरं कर्म्म कलौ शान्तिकरं प्रिये!। मारणं बोहवं स्तम्भं विद्वेषणमथापि वा। वशीकरकर्म्माणि तथोच्चाटनकर्म्म च। सर्वत्र साधयेन्नाम्ना ततोनान्यत् शुभावहम्। विशेषतः शत्रुसंघरोगोप्रद्रवनाशनम्। शत्रूणां कर्म्मनाशे च तथा शत्रुपराजये। आत्मनो विजये चैव नातःपरतरा क्रिया”। घञ्। उच्चाटोऽप्यत्र पु०। “उष्ट्रासनं तथोच्चाटे” तन्त्रसारः।

उच्चार = पु० उद् + चर–णिच्–घञ्। १ उच्चारणे। “तस्यकार्य्येऽनुच्चारः” मु० बो० “मन्त्रोच्चारपरायणः” पु०। उच्चार्य्यते अपानवायुना उत्क्षिप्यते कर्म्मणि घञ्। २ पुरीषे। विण्मूत्रोत्सर्गविधानप्रकारः आ० त० नानावचनैर्दर्शितो यथा विष्णुधर्मीत्तरे “निद्रां जह्याद्गृही राम! नित्यमेवारुणोदये। वेगोत्सर्गं ततः कृत्वा दन्तधावनपूर्व्वकम्। अरुणोदयकालमाह स्कन्दपुराणम् “उदयात् प्राक् चतस्रस्तु नाडिका अरुणोदयः। तत्र स्नानं प्रशस्तं स्यात्तद्धि पुण्यतमं स्मृतम्”। नाडिका दण्डः। “नाडीषष्ट्या दिवानिशम्” इत्युक्तेः। विष्णुधर्म्मोत्तरे “वेगरोधं न कर्त्तव्यमन्यत्र क्रोधवेगतः”। “वेगरोधं न कत्तेव्यमिति तु कां दिशं गन्तव्यमितिवत् भावाख्यातेतरत्वात् साधुत्वम्। आयुर्वेदीयेऽपि “न वेगिनोऽन्यसिद्धिः स्यात् नाजित्वा साध्यमामयम्”। अङ्गिराः “उत्थाय पश्चिमे रात्रेस्तत आचम्य चोदकम्। अन्तर्धाय तृणैर्भूमिं शिरः प्रावृत्य वाससा। वाचं नियम्य यत्नेन ष्ठीवनोच्छ्वासवर्जितः। कुर्य्यान्म त्रपुरीषे तु शुचौ देशे समाहितः” विष्णुपुराणम् “ततः कल्यं समुत्थाय कुर्य्यान्मैत्रं नरेश्वर!। नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः” तिष्ठेन्नातिचिरं तस्मिन्नैव किञ्चिदुदीरयेत्”। कल्यमुषः कालम्, मैत्रं मित्रदेवताकपायुसम्बन्धात् पुरीषोत्सर्गम्, नैरृत्यामुत्थानदेशभारभ्य उत्थायेत्यनेनोपस्थितेः। इषुविक्षेपमतीत्य इषुविक्षेपयोग्यदेशाद्वहिः। तद्देशपरिमाण माह पितामहः “मध्यनेन तु चापेन प्रक्षिपेत्तु शरत्रयम्। हस्तानान्तु शते सर्व्वे लक्ष्यं कृत्वा विचक्षणः”। आपस्तम्बः “मूत्रपुरीषे कुर्य्यात् दक्षिणां दिशं दक्षिणापराग्वेति”। दक्षिणापरा नैरृती। मनः “मूत्रोच्चारसमुत्सर्गं दिषा कुर्य्यादुदङ्मुखः। दक्षिणाभिमुखो रात्रौ सन्ध्ययोश्च यथा दिवा”। उच्चारः पुरीषम्। यत्तु यमवचनं “प्रत्यङ्मुखश्च पुर्ब्बाहणे अपराह्णे च प्राङ्मुखः। उदङ्मुखस्तु मध्याह्ने निशायां दक्षिणामुखः” इति तत् उदङ्मुखेन सहेच्छाविकल्पार्थं सूर्य्याभिमुखनिरासार्थञ्च न तु नियमार्थं देवलवचनविरोधात्। तथा च “सदैवोदङ्मुखः प्रातः सायाह्ने दक्षिणामुखः। विण्मूत्रे आचरेन्नित्यं सध्यायां परिवर्जयेत्” इति। प्रातःसायाह्नशब्दौ दिवारात्रिपरौ पूर्व्वोक्तमनुवचनैकवाक्यत्वात्। सन्ध्यायां परिवर्जयेदिति तु पीडितेतरपरम्। यमः “कृत्वा यज्ञोपवीतन्तु पृष्ठतः कण्ठलम्बितम्। विण्मूत्रे च गृही कुर्य्यात् यद्वा कर्णे समाहितम्”। पृष्ठतः पृष्ठे कण्ठलम्बितं निवीतम्। अत्र लम्बितं निवीतम्। “संवीतं मानुषे कृत्ये” इति तैत्तिरोयश्रुतेः। मानुषे सनकादिकृत्ये। पृष्ठलम्बितं निवीतम्” इति बौधायनवचनाच्च। तथा च हारवत् कृत्वा पृष्ठलम्बितम् स्कृन्धे इत्यर्थः। अत्र व्यवस्थामाह सांख्यायनः। “यद्येकवस्त्रो यज्ञोपवीतं कर्णे कृत्वा अवगुण्ठितः” इति कर्णे दक्षिणकर्णे। “पवित्रं दक्षिणकर्णे कृत्वा विण्मूत्रमाचरेत्” इति स्मृतौ तथा दर्शनात्। अवगुण्ठितः कृतशिरोऽवगुण्ठनः। मनुः “छाया यामन्धकारे वा रात्रावहनि वा द्विजः। यथासुखमुखः कुर्य्यात् प्राणबाधाभयेषु च” महाभारते। “प्रत्यादित्यं प्रतिजलं प्रति गाञ्च प्रतिद्विजम्। मेहन्ति ये च पथिषु ते भवन्ति गतायुषः”। प्रतिः सांमुख्ये। मनुः “न मूत्रं पथि कुर्व्वीत न भस्मनि न गोव्रजे। न फालकृष्टे न जले न चित्यां नच पर्व्वते। न जीर्णदेवायतने न वल्सीके कदाचन। न ससत्वेषु गर्त्तेषु न गच्छन्नापि संस्थितः। न नदीतीरमासाद्य न च पर्व्वतमस्तके। वाय्वग्निविप्रानादित्यमपःपश्यंस्तथैव च। न कदाचन कुर्व्वीत विण्मूत्रस्य विसर्जनम्”। ससत्वेषु प्राणिमत्सु संस्थितः उत्थितः पर्वतमस्तकनिषेधोऽधिकदोषाय। वशिष्ठः। “आहारर्निहारविहारयोगाः सुसम्भृता धर्म्मविदा तु कार्य्याः। वाग्बुद्धिकार्याणि तपस्तथैव धनायुषी गुप्ततमे तु कार्य्ये”। निर्हारो मूत्रपुरीसोत्सर्गः विहारः स्त्रीसम्भोगः। योगः समाधिः। वाग्गुप्तिरशुभालापत्यागः। बुद्धिगुप्तिरनिष्टचिन्तात्यागः। हारीतः “आहारन्तु रहः कुर्य्यात् निर्हारञ्चैव सर्वदा। गुप्ताभ्यां लक्ष्म्युवेतः स्यात् प्रकाशे हीयते तया”। विष्णुपुराणम् “सोमाग्न्यर्काम्बुवायूनां पूज्यानाञ्च न सम्मुखे। कुर्य्यात् ष्ठीवनविण्मूत्रसमु- त्सर्गञ्चपण्डितः”। आपस्तम्बः “न च सोपानत्को मूत्रपुरीषे कुर्य्यादिति”। वृहन्मनुः “करगृहीतपात्रेण कृत्वा मूत्रपुरीषके। मूत्रतुल्यन्तु पानीय पीत्वां चान्द्रायणञ्चरेत्”। भरद्वाजः “अथ विकृष्य विण्मूत्रं लोष्ट्रकाष्ठतृणादिना। उदस्तवासा उत्तिष्ठेद्दृढं विधृतमेहनः” उदस्तवासा कटिदेशादुत्क्षिप्तवस्त्रः” आ० त० “मूत्रोच्चारौ च कारयेत्”। “यस्योच्चारं विना मूत्रं सम्यग् वायुश्च गच्छति” सुश्रु०। “दाने तपसि शौर्य्ये च यस्य न प्रथितं मनः। विद्यायामर्थलाभे च मातुरुच्चार एव सः” हितो०। उल्लङ्घ्य चारोगतिः। ३ ग्रहादीनां राशिनक्षत्रान्तरसञ्चारे। “ऋक्षादृक्षं शतेनाब्दैर्यात्सु चित्रशिखण्डिषु। “उच्चारे संहिकाकारैः” सि० रा० त०।

उच्चारण = न० उद्घातेन कण्ठाद्यभिघातेन चार्य्यते निष्पाद्यते उद् + चर–णिच्–ल्युट्। कण्ठताल्वाद्यभिघातेन शब्दजनके व्यापारे तत्प्रकारस्तु “आत्मा बुद्ध्या समेत्यार्थान् मनोयुङ्क्ते विवक्षया। मनः कायाग्निमाहन्ति स प्रेरयति मारुतम्। सोदीर्ण्णोमूर्द्ध्न्यमिहतो वक्त्रमापद्य मारुतः। वर्ण्णान् जनयते तेषां विभागः पञ्चधा मतः” इति शिक्षोक्तदिशावसेयः। वर्ण्णोत्पत्तिस्थानानि चाष्टौ। “अष्टौ स्थानानि वर्ण्णानामुरः कण्ठः शिरस्तथा। जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च” शिक्षाकदुक्तानि। विवृतिर्वर्णशब्दे दृश्या। यथा च कण्ठताल्वाद्यभिघातेनवोच्चारणसम्भवस्तथा” ईश्वरशब्दे अनुमा० चिन्ता० १०२६ मृष्ठे दर्शितम्। “उच्चारणज्ञोऽथ गिरां दधानम्” माघः। “वेदोच्चारणकार्य्यार्थमयुक्तं तत्त्वया धृतम्” भा० व० २१४ अ० “सजातीयोच्चारणानपेक्षोच्चारणविषयत्वं वेदस्यापौरुषेयत्वम्” मीमांसकाः वेदान्तिनश्च प्रतिपेदिरे।

उच्चारित = त्रि० उच्चार–तारका० इतच्। १ कृतविष्ठोत्सर्गे। उद + चर–णिच्–कर्म्मणि क्त। यस्योच्चारणं कृतं तादृश वर्णादौ “तएव शक्तिवैकल्य प्रमादालसतादिभिः। अन्यथोच्चारिताः शब्दा अपशब्दा इतीरिताः” भर्त्तृह०। उद् + अन्तर्भूतण्यर्थे चर–क्त। उच्चरितोऽप्युक्तार्थे “सकृदुच्चरितः शब्दः सकृदर्थं गमयतीति” तत्पार्य्यग्रन्थे न्यायः।

उच्चार्य्य = अव्य० उद + चर–णिच् + ल्यप्। १ कण्ठाद्यभिघातेन उत्पाद्येत्यर्थे। कर्म्मणि यत्। २ उच्चारणीये वर्ण्णादौ त्रि०।

उच्चार्य्यमाण = त्रि० उद् + चर–णिच्–कर्म्मणि शानच्। यस्योच्चारणं क्रियते तस्मिन् वर्ण्णादौ “कस्मैचित् कार्य्यायोच्चार्य्यमाणो वर्ण्णैत्संज्ञः, भुग्धबो०।

उच्चावच = त्रि० उदक् उत्कृष्टञ्च अवाक् अपकृष्टञ्च मयू० नि०। उत्कृष्टापकृष्टात्मके नानाभेदे “उच्चावचैरपि गतेषु सहस्रसंख्याम्” माघः “भवत्युतेव महाब्राह्मण उतेवोच्चावचं निगच्छति” शत० ब्रा० १४, ५, १, १९। अथ खलूच्चावचा जनपदधर्मा ग्रामधर्म्माश्च तान् विवाहे प्रतोयात्” आश्व० गृ० १, ७, १,। “उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः”। “उच्चवचानि भूतानि सततं चेष्टयन्ति याः” मनुः

उच्चिङ्गट = पु० १ तृणगडमत्स्ये, २ कोपनपुरुषे च मेदि०।

उच्चिटङ्ग = पु० विषकीटभेदे (उच्चिङ्गडे) सुश्रुते “जङ्गमस्य विषस्योक्तान्यधिष्ठानानि षोडश” इत्युपक्रम्य “वृश्चिकबिश्वम्भरराजीवमत्स्योच्चिटङ्गसमुद्रवृश्चिकालविषाः” इत्युक्त्वा तस्य शूकतुण्डविषत्वमप्युक्तम् “सूक्ष्मतुण्डोच्चिटङ्गवरटीशतपदीशूकबलभिकाशृङ्गीभ्रमराः शूकतुण्डविषाः” तेषामुत्पत्तिस्थानमपि तत्रोक्तम् “सर्पाणां शुक्रविण्मूत्रशवपूत्यण्डसम्भवाः। वाय्वग्न्यम्बुप्रकृतयः कीटास्तु विविधाः स्मृताः” इत्युपक्रम्य “उच्छिटङ्गोऽग्भिनामा तु चिच्चिटिङ्गोमयूरिका” इत्यादीन् अष्टादश कीटानभिधाय “अष्टादशेति वायव्याः कीटाः पवनकोपनाः” सुश्रु०।

उच्चूड(ल) = पु० उन्नता चूडा यस्य डस्य वा लत्वम्। ध्वजोर्द्धस्थे वस्त्रखण्डे।

उच्चैःशिरस् = त्रि० उच्चैरुन्नतं शिरोऽस्य। उन्नतमस्तके महत्तरे “ममत्वमुच्चैःशिरसा सतोव” कुमा०। वा रोः शत्वम्।

उच्चैःश्रवस् = त्रि० उच्चैरुन्नतं श्रवोऽस्य। १ उन्नतकर्णे समुद्रजाते श्वेतवर्णे इन्द्रस्य वाहनभूते सप्तमुखे २ अश्वभेदे पु०। अस्य चोत्पत्तिकथा यथा “तत उच्च्यैःश्रवानाम हयोऽभूच्चन्द्रपाण्डरः” भाग० ७ स्क० ७ अ०। “गृहीतोऽश्वः सप्तमुखस्त्वया नृप बलात् किलेति” भागवतोक्तेरस्य सप्तमुखत्वम्। “धन्वन्तरिस्तथा मद्यं श्रोर्देवी कौस्तभोमणिः। शशाङ्को विमलश्चापि समुत्तस्थुः समन्ततः। उच्चैःश्रवा हयोरम्यः पीयूषं तदनन्तरमिति” हरिवं० २२० अ०। “उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च” कुमा०। “उच्चैःश्रवाजलनिधेरिव जातमात्रः” “न चित्रमुच्चैःश्रवसः पदक्रमम्” माघः। “उच्चैःश्रवमश्वानाम्” गीतोक्तेः भगवद्विभूतित्वमस्य। “उच्चैःश्रवःसुतानश्वान् बलादप्यानयद्दिवः” हरि० १४५ अ० “दिशांगजसुतान्नागान् हयांश्चोच्चैःश्रवोऽन्वयान्” हरि० १५६ अ० अस्य वा विसर्गस्य शत्वे उच्चैश्श्रवा अप्यत्र। अस्य पृषो० अदन्तत्वमपि। “उच्चैःश्रवससंज्ञं तत् प्रणिपत्य समर्पितम्” देवीमा०। उच्चैरुन्नतं शब्दं शृणोति श्रु–असुन्। ३ बधिरे त्रि०।

उच्चैर्घुष्ट = न० घुष–भावे क्त उच्चैर्घुष्टम्। (ढेडरा) सर्वजनश्राव्यघोषणायाम्।

उच्चैर्घोष = पु० घुष–घञ् उच्चैर्षोषः। १ सर्व्वजनग्रश्राव्यशब्दे “यदुच्चैर्घोषस्तनयित्नुरिवदहति” शत० ब्रा०। ७ ब०। २ उच्चैशब्दान्विते क्रन्दनादौ ६ ब०। ३ रुद्रमूर्त्तिभेदे। “उच्चैर्घो षाय क्रन्दयते” यजु० १६, १९।

उच्चैस् = अव्य० उद् + चि–डैसि। १ तुङ्गत्वे, २ उन्नते ३ महति ४ ऊर्द्ध्वदेशजाते “उच्चैरुदात्तः” पा०। “उच्चैरुच्चैश्रवास्तेन” कुमा० “शिलोच्चयोऽपि क्षितिपालमुच्चै” रघुः “विचकर्ष च संहितेषुरुच्चैः” किरा०। “अकृत्वा हेलया पादमुच्चैर्मूर्द्धसु विद्विषाम्” माघः। “उच्चैरधःपातिपयोमृचोऽपि” “जनोऽयमुच्चैःपदलङ्घनोत्सुकः “उच्चैर्हिरण्मयं शूङ्गम्” कुमा०। या वः काले बहति सलिलोद्गारमु च्चर्विमाना” मेष०। “उच्चैरस्यति मन्दतामरसताम्” चन्द्रालो० अस्य शब्दस्य गुणवाचितया प्रकर्षे तरप् तमप् च ततः अद्रव्यप्रकर्षे आमु। उच्चैस्तराम् उच्चैस्तमाम्। औन्नत्यातिशये “उच्चैस्तरां वक्ष्यति शैलराजः” कुभा०। द्रव्यप्रकर्षे तु नामु। उच्चैस्तर उच्चैस्तम अत्युन्नतवृक्षादौ त्रि०। अप्रियस्यीच्चैः कथने उच्चैस् + कृ–क्त्वाणमुलौ ल्यप् च। उच्चैःकारम् उच्चैःकृत्वा उच्चैःकृत्य अप्रि यमाचष्टे” सि० कौ०।

उच्छन्न = त्रि० उद्–छद क्त। लुप्तप्राये आच्छन्ने। “उच्छन्नप्रच्छन्नग्रन्थे वेदस्याचारमूलत्वेत्यादि विधिवादे मथुरा० यथा च वेदस्य छिन्नमूलग्रन्थतया उच्छिन्नत्वेऽपि अविगीतशिष्टाचारादेव तदनुमानंतथा समर्थनाय शब्दचि० शब्दाप्रामाण्ये वादिपूर्व्वपक्षं निरस्य व्यवस्थापितं यथा। “स्यादेतत् स्मृत्याचारयोर्वेदमूलत्वे तत्रोच्छेदादिविवादस्तदेव त्वसिद्धं तथा हि वेदसमानार्था महाजनपरिगृहीता च स्मृतिः, स्वार्थोपस्थित्यनन्तरं स्मृत्यर्थानुभावकवेदानुभानेऽपि प्रतीतिप्राथम्यात् साध्यप्रसिद्ध्यर्थमुपजीव्यत्वाच्च स्मृतेरेवापूर्व्वादिपाक्यार्थज्ञानमस्तु किं वेदेन, तदर्थस्य स्मृतित एव सिद्धेः अपूर्व्वस्य शब्दैकवेद्यत्वेन स्मृतितोज्ञातस्य ज्ञापकत्वेनानुवादकतापत्तेश्च सा च स्मृत्यन्तरादित्यना दिरेव स्मृतिधारावश्यकी, अन्यथा मनुस्मृतेः पूर्वं तवापि वेदानुमानं न स्यात्। सर्व्वा च स्मृतिः स्मृतिजन्यवाक्यार्थप्रमाजन्यत्वेन महाजनपरिगृहीतत्वेन च प्रमाणमिति नान्धपरम्परा। प्रत्यक्षा च स्मृतिः स्मृतिमूलं नानुमिता अनुमितवेदवत् तस्या अनुभावकत्वात्। वेदार्थस्मृतिताप्रसिद्धिस्तु प्रसिद्धवेदमूलस्मृतिसाहचर्य्य भ्रमात् प्रत्यक्षवेदाबोधितलोभन्यायमूलस्मृताविव तान्त्रिकाणां लिङ्गाभासजन्यवेदमूलकत्वभ्रमात् सम्भवन्मूलालान्तराणां वेदमूलत्वं कल्पयति। अथ स्मृरिनिष्ठतद्वेवेदमूलकत्वप्रसिद्धिरपि महाजनपरिग्रहीता एवञ्च सा वेदमूलत्वनिबन्धना अविगीतमहाजनपरिगृहीतवेदमूलत्वप्रसिद्धित्वात् प्रत्यक्षवेदमूलस्मृतौ तत्प्रसिद्धिवत्। एवं वेदार्थस्मृतिताप्रसिद्धिरपि अन्यथा महाजनपरिग्रहानादरे वेदस्मृत्योरपि प्रामाण्यं न स्यादिति चेत् न यूपहस्त्यादिस्मृतेस्तत्प्रसिद्धौ व्यभिचारात् कॢप्तलोभादित एव तत्सम्भवात् विचारकाणां विप्रतिपत्तेश्च। तत्र तत्प्रसिद्धौ विगान महाजनानामिति चेत् न तत्रापि मूलान्तरसम्भवाद्विप्रतिपत्तेश्च विगानमेव तेषाम्, अतएव स्मृतीनां न्यायमूलत्वे सम्भवति वेदमूलत्वप्रसिद्धावपि न वेदमूलत्वं, न च वेदमूलेयमिति कृत्वा स्मृतेर्महाजन प्ररिग्रहात्तन्मूलत्वं वेदमूलेयमिति प्रथमं ग्रहीतुमशक्यत्वात् शक्यत्वे वा किमनुमानेन, न च वेदमूलत्वेन प्रकारेण महाजनपरिग्रहः, असिद्धेः, मन्वादिस्मृतित्वेन पूर्वं महाजनपरिग्रहेणोत्तरेषां परिग्रहादनुष्ठानाद्युपपत्तेः। एवं होलकाचारेऽपि वेदलिङ्गेनैव कर्त्तव्यताज्ञानोपपत्तेः किं वेदेन, तदर्थस्य लिङ्गादेवोपपत्तेः, अविगीताऽलौकिकविषयकशिष्टाचारस्यवेदमूलत्वदर्शनात् वेदानुमाने चाविगीतशिष्टाचारत्वेन भोजनाद्यावारोऽपि वेदमूलः स्यात् वेदं विनापि तत्कर्त्तव्यताधीसम्भवान्न तदर्थवेदैति इहापि तुल्यम्। आचारकर्त्तव्यतानुमानयोरनादित्वेनाचाराणां कर्त्तव्यतानुमानमूलकत्वान्नान्धपरम्परा। न च पूर्व्वानुमानसापेक्षमुत्तरामानमिति स्वतन्त्रप्रमाणमूलकत्वाभावात् साध्यव्याप्तिपक्ष धर्मतासत्त्वेन पूर्वेषां स्वतन्त्रप्रमाणत्वात्। नापीतरप्रामाण्याधीनं सर्वस्य प्रामाण्यमिति न निरपेक्षत्वं, प्रत्यक्षादेरपि तथात्वापत्तेः। एतेन विवादपदमाचारोनिरपेक्षप्रमाणमूलकः अविगीतमहाजनाचारत्वात् प्रत्यक्षवेदमूलाचारवदिति निरस्तम् अनुमानस्य निरपेक्षप्रमाणत्वात् प्रमाणमूलत्वेनैवबुद्धे रुपपत्तेः निरपेक्षत्वस्य गौरवेणाप्रयोजकत्वाच्च। न च सापेक्षत्वेन न प्रमाणता व्याप्त्यादिसत्त्वात् अन्यथा प्रमाणनैरपेक्ष्यस्य वैयर्थ्यात्। नचाचारे वेदमूलकत्वप्रसिद्धेस्तदनुमानम्, असिद्धेः व्यभिचारादन्यथोपपत्तेश्च। न च वेदमूलत्वेन महाजनपरिग्रहात्तथा। न हि वेदमूलोऽयमिति कृत्वा- महाजनानां तत्परिग्रहः वेदमूलत्वस्य प्रथमं ज्ञातुमशक्यत्वात् शक्यत्वे वा किमनुमानेन। न च वेदमूलत्वेन महाजनपरिगृहीतोऽयमाचारः इति ज्ञात्वा तत्र महाजनपरिग्रहः, गौरवात् असिद्धेश्च पूर्ब्बमहाजनपरिग्रहादेवोत्तरेषां परिग्रहानुष्ठानोपपत्तेः। तादृशस्मृत्याचारयोर्वेदमूलत्वेन व्याप्तेर्वेदमूलत्वसिद्धिरिति चेत् न असम्भवन्मूलान्तरस्योपाधित्वात् अन्यथा लोभन्यायमूलस्मृते स्तत्प्रसङ्गः। अस्तु स्मृत्याचारयोरनादित्वं न चाचारात् स्मृतिः स्मृत्या चाचारः इत्यन्धपरम्परा मूलीभूतप्रमाणाभावादिति वाच्यं स्मृत्याचारयोरुभयोरपि प्रमाणत्वात्। अन्यथा न ततो वेदानुमानमिति।

उच्यते प्रलये पूर्ब्बस्मृत्याचारयोरुच्छेदात् सर्गादौ नित्यसर्व्वज्ञेश्वरप्रणीतवेदमूलत्वं स्मृत्याचारयोः, अन्यथा मूलाभावेनान्धपरम्पराप्रसङ्गः। न च मन्वादीनामतीन्द्रियार्थदर्शित्वं तदुपायश्रवणादेस्तदानीमसत्त्वात् पूर्व्वपूर्व्वसर्गसिद्धसर्व्धज्ञा एव त इति चेत् न प्रमाणाभावात। स्मृत्याचारयोः प्रमाणमूलकत्वमेव तत्कल्पकमिति चेत् न प्रतिसर्गं तेषामन्यान्यकल्पने गोरवमित्येकस्यैव नित्यसर्व्वज्ञस्य कल्पनात्। न च स्मृतय एव तत्प्रणीताः तासां मन्वादिकर्तृकत्वेन स्मृतौ बोधात्, स्मृतावेव स्मृतीनां वेदमूलत्वस्मरणाच्च। एवञ्च स्मृत्याचारयोर्महाजनपरिग्रहाद्वेदमूलत्वसाधकमपि भगवति प्रमाणम्। अतएव “प्रतिमन्वन्तरं चैषा श्रुतिरन्याऽभिधीयत” इत्यागमोऽपि। एवञ्च पूर्व्वप्रत्यक्षवेदमूलावेव स्मृताचारौ अग्रे च कालक्रमेणायुरारोग्यबलश्रद्ध्वाग्रहणधारणादिशक्तेरहरहरपचीयमानत्वात् तदध्ययनविच्छेदात् शाखोच्छेदात् स्मृत्याचाराभ्यामेव कर्त्तव्यतामधिगत्य प्रवृत्तिः। नन्वेवं स्मृतिरस्तु वेदमूला मङ्गलाद्याचारस्तु ईश्वरादेव भविष्यति घटलिप्याइसम्प्रदायवदिति चेत् न बहुव्यापारघटि तस्य तत्तदाचारस्य गुरुत्वेन “मङ्गलमाचरेदित्यादिवाक्यस्यैव लाघवेन कल्पनात्”। “निवृत्ताचारशौचेषु परपाकोपजीविषु उच्छन्नबलिभिक्षेषु भिन्नकांस्योपभोजिषु” सुश्रुतः।

उच्छल = त्रि० उद्–शल अच्। आधारातिक्रमेण सर्व्वतः प्लुते। शतृ। उच्छलत् तत्रैव “छटोच्छलच्छङ्खवुलाकुलेन” माघः “स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा” काव्यप्र०। ल्युट्। उच्छलन परितः प्लवने न०।

उच्छादन = न० उद्–छद–णिच्–ल्युट्। १ आच्छादाने २ गन्धद्रव्यद्वारा देहमार्जने च अमरटी० “स्नापनोच्छा० दनेन” रामा०।

उच्छास्त्र = त्रि० उद्गतं शास्त्रात् प्रा० स०। १ अतिक्रान्तशास्त्रे २ शास्त्रविरुद्धेऽधर्मकृत्ये च। उत्क्रान्तं शास्त्रं यत्र। शास्तातिक्रमयुक्ते उच्छास्त्रं यया तथा वर्तते उच्छास्त्रवर्त्तिन् शास्त्रातिक्रमेण यथेष्टचारिणि स्त्रियां ङीप्। “न राज्ञः प्रतिगृह्णीयात् क्रूरस्योच्छास्त्रवर्त्तिनः। या० स्मृ०। “दृप्तस्योच्छास्त्रवर्त्तिनः” भाग० ७ स्कन्द० अ०

उच्छासन = त्रि० उत्क्रान्तः शासनम्। शासनातिक्रान्तरि।

उच्छिख = त्रि० उद्गता शिखा यस्य प्रा० ब०। १ उन्नताग्रे २ उदर्चिषि वह्नौ पु० “माङ्गल्योर्ण्णावलयिनि पुरः पावकस्योच्छिखस्य” रघुः। ३ तक्षकनागकुलजाते नागभेदे पु० “तक्षकस्य कुलेजातान् प्रवक्ष्यामि निबोध तान्” इत्युपक्रम्य “उच्छिखः शरभोभङ्गोविल्वतेजा विरोहणः” भा० आ० ५७ अ०।

उच्छिङ्घन = न० उद् + शिघि आघ्राणे भावे ल्युट्। नासिकावायुनाऽन्तःस्थितकफादिनिःसारणे। “उच्छिङ्घनेन हर्त्तव्योदृष्टिमण्डलजः कफः”। “नेत्रे विलम्बिनि विधिर्विहितः पुरस्तादुच्छिङ्घनं शिरसि वार्य्यवसेचनञ्च” सुश्रु०।

उच्छित्ति = स्त्री उद् + छिद–भावे क्तिन्। समूलोत्पाटने अत्यन्तसंमर्दने। “यद्वा तद्वा तदुच्छित्तिः पुरुषार्थः” सा० सूत्रम्। “सङ्करः सर्व्ववर्ण्णानां प्रजागोधर्म्मकर्मणाम्”। प्रजानामपि चोच्छित्तिर्मृपव्यसनहेतुजा” सुश्रु० “अविनाशी वा अरे अयमात्माऽनुच्छित्तिधर्मा” वृ० उ० २१।

उच्छिन्न = त्रि० उद् + क्त। १ समूलं नाशिते २ विदलिते।

उच्छिरस् = त्रि० उन्नतं शिरोऽस्य। १ उन्नते २ माहात्म्यादिना उन्नतमस्तके महिमान्विते “शैलात्मजापि पितुरुच्छिरसोऽभिलाषम्” कुमा० शौर्य्योदार्य्यादिना हि लोक उन्नतशिरा भवति अपकृष्टकर्मणा तु अनवरतशिराः प्रसिद्धः

उच्छिलीन्ध्र = त्रि० उत्थितं शिलीन्ध्रम्। १ छत्राके। २ विकसितशिलीन्द्रवुक्ते त्रि०। “उच्छिंलीन्ध्रामबन्ध्यामिति” मेघदू०।

उच्छिष्ट = त्रि० उत् + शिष–क्त। १ भुक्तावशिष्टे, २ त्यक्ते च। अर्शा० अच्। ३ अकृतशौचे भुक्तान्ने। तत्रोच्छिष्टस्याभक्ष्यता सापवादपभक्ष्यशब्दे ३७९ पृष्टे उक्ता तत्रायं भेदः वर्णविशेषस्योच्छिष्टभोजने पापतारतम्यात् प्रायश्चित्ततारतम्यं प्रायश्चित्तविवेकादाबुक्तं यथा “स्वभुच्छिष्टन्तु यो भुङ्क्ते यो- भुङ्क्ते त्यक्तभाजने। एवंवैवस्वतः प्राह भुक्त्वा चान्द्रायणञ्चरेत्” चतुरृषिवचनम्। “तच्च ज्ञानाभ्यासविषयमिति” प्रा० वि०। “ब्राह्मणोच्छिष्टभोजने महाव्याहृतिभिरभिमन्त्र्यापः पिबेत्, क्षत्रियोच्छिष्टभोजने ब्राह्मीरसविपक्वेन त्र्यहं क्षीरेण वर्त्तयेत्, वैश्योच्छिष्टभोजने त्रिरात्रोपोषितो ब्रह्मवर्चलां पिबेत्, शूद्रोच्छिष्टभोजने सुराभाण्डोदकपाने च षड्रात्रमभोजनं चान्द्रायणं वा अभिमन्त्रितं जलं पीत्वोपवसेत्” शङ्खलि० “व्रतरूपत्वात् एतद्ब्राह्मणस्य ब्राह्मणाद्युच्छिष्टाशनेऽज्ञानतः सकृत् एवं क्षत्रियादेः समाधमवर्ण्णोच्छिष्टाशने समाधमवर्ण्णोक्तमेतदेव यथायथमुन्नेयम् शूद्रोच्छिष्टाशने तु ब्राह्मणस्य ज्ञानतः सकृद्विषयम् षड्रात्राभोजनम्” प्रा० वि०। यथा पस्तम्बः। “अज्ञानाद्यस्तु भुञ्जीत शूद्रोच्छिष्टं द्विजोत्तमः। त्रिरात्रोपोषितोभूत्वा पञ्चगव्येन शुद्ध्यति”। “एतद्द्विजोत्तमग्रहणाद्व्राह्मणविषयम्। क्षत्रियादिपरत्वे वक्ष्यमाणविष्णुवचनविरोधात्। एतदपि सकृद्विषयं अत्र च त्रि रात्रेऽघमर्षणमपि जपनीयम्” प्रा० वि०। यथा सुमन्तुः। “शूद्रोच्छिष्टभोजने त्रिरात्रमघमर्षणञ्च जपेत्” “चान्द्रायणन्तूभयत्रैव ज्ञानाभ्यासे क्षत्रियादीनाञ्च त्रिपादपादहानिरूह्या। क्षत्रियस्य च ब्राह्मणोच्छिष्टाशने ब्राह्मणोक्तप्रायश्चित्तार्द्धं, वैश्यस्य ततोऽप्यर्द्धम्। एवं वैश्य शूद्रयोरपि स्वापेक्षया पूर्व्व वर्णत्वेनोन्नेयम् उशनो वचने वर्णक्रमेण ह्रसितप्रायश्चित्तदर्शनात्” प्रा० वि०। यथा “अन्नानां भुक्तशेषस्तु भक्षितोयैर्द्वि जातिभिः। चान्द्रं कृच्छ्रं तदर्द्धञ्च क्रमात्तेषां विशोधनम्”। तथा विष्णुरपि न्यायप्राप्तमेवार्थमन्वाह। “आमश्राद्धाशने त्रिरात्रं, वर्त्तेत ब्राह्मणः शूद्रोच्छिष्टाशने वमनं कृत्वा सप्तरात्रं वैश्योच्छिष्टाशने पञ्चरात्रम्, राजन्योच्छिष्टाशने त्रिरात्रम्, राजन्यः शूद्रोच्छिष्टाशने पञ्चरात्रम् बैश्योच्छिष्टाशने। त्रिरात्रं वैश्यः शूद्रोच्छिष्टाशने च” “अत्र वमनं कृत्वा पयसा वर्त्तेतेति सर्व्वत्रान्वेति” प्रा० वि०। “चण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे। द्विजः शुध्येत् पराकेण शूद्रः कृच्छ्रेण शुद्ध्यति” अङ्गिराः “एतदज्ञानविषयं ज्ञानतो द्वैगुण्यादिकम् प्रा० वि०। मनुनापि सामान्याभ्योज्यप्रकरणे। “शुष्कं पर्य्युषितं चैव शूद्रस्योच्छिष्टमेव च “क्रूरस्योच्छिष्टभोजिन” इति चोक्तम्। शूद्रस्य तु द्विजोच्छिष्टभोजने न दोषः। द्विजोच्छिष्टन्तु भोजनमिति” तस्य मनुना तद्वृत्तितयोक्तेः। एकपङ्क्तिस्थमध्ये केनचिदग्रे भोजनपात्रत्यागे तत्पङ्क्तेस्थानां तदन्नमुच्छिष्टवत् यथा “अप्येकपङ्क्त्यां नाश्नीयात् संवृतः स्वजनैरपि। कोहि जानाति किं कस्य प्रच्छन्नं पातकं महत्। भसस्तम्भजलद्वारमार्गैः पङ्क्तिञ्च भेदयेत्” व्यासः। जलादिना पङ्क्तिभेदाकरणे तु शङ्खः “एकपङ्क्त्युपविष्टानां विप्राणां भोजने क्वचित्। यद्येकोऽपि त्यजेत्पात्रं शेषमन्नं विवर्जयेत्। मोहात् भञ्जीत यः पङ्क्त्यामुच्छिष्टसहभोजनम्। प्राजापत्यं चरेद्विप्रः क्षत्रः सान्तपनन्तथा”। “विडालादिभिरुच्छिष्टं दुष्टमन्नं विवर्जयेत्, अन्यत्र हिरण्योदकस्पर्शात्” देवलः अज्ञानादुच्छिष्टादिभोजने तदुत्तार्य्यमित्याह “अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता। अज्ञाना द्भुक्तमुत्तार्य्यं शोध्यं वाप्याशु शोधनैः” वमनपक्षेऽपि अल्पप्रायश्चित्तं भवत्येव “आमश्राद्धाशने त्रिरात्रं पयसा वर्तेत ब्राह्मणः, शूद्रोच्छिष्टाशने वमनं कृत्वा सप्तरात्रमुपवसेत्” विष्णुना वमनोत्तरमपि प्रायश्चित्त विधानात् “अन्त्यानां भुक्तशेषन्तु भक्षयित्वा द्विजातयः। चान्द्रं कृर्च्छं तदर्द्धं तु ब्रह्मक्षत्रविशां विधिः” मिता० आप० वचनन्तु ब्राह्मणस्य सकृदज्ञानविषयम् बलात्कारानुत्तारेऽप्यन्नेतरताम्बूलाद्युच्छिष्टपरमिति” प्रा० त० रघु०। अन्त्यजैः बलात्कारिते उच्छिष्टादेर्मार्जमेऽपि दोषएव। “दासीकृतोबलान्म्लेच्छश्चाण्डाद्यैश्च दस्युभिः। अशुभं कारितः कर्म्म गवादेः प्राणहिंसनम्। उच्छिष्टमार्ज्जनञ्चैव तथा तस्यैव भक्षणम्” इत्याद्यभिधाय “मासोषिते द्विजातौ तु प्रजापत्यं विशोधनम्। चन्द्रायणन्त्वाहिताग्नेः पराकमथ वा भवेत्” देवलोक्तेः। उच्छिष्टचाण्डादिस्पर्शेऽपि दोषः” प्रा० त० उक्तः यथा। “आपस्तम्बः “भुक्तोच्छिष्टस्त्वनाचान्तश्चाण्डालैः श्वपचेन वा। प्रमादात् स्पर्शनं गच्छेत् तत्र कुर्य्याद्विशोधनम्। गायत्र्यष्टसहस्रन्तु द्रुपदां वा शतं जपेत्। त्रिरात्रोपोषितो भूत्या पञ्चगव्येन शुद्ध्यति। भुक्तोच्छिष्टोऽन्त्यजैः स्पृष्टः प्राजापत्यं समाचरेत्। अर्द्धोच्छिष्टे स्मृतः पांदः पाद आमाशने तथा”। “प्राजापत्यं ज्ञाने अर्द्धोच्छिष्टोयेनाद्यग्रासः आस्ये निक्षिप्तः न तु निगीर्णः” प्रा० त० रघु०। काश्यपः “श्वशूकरान्त्यचाण्डालमद्यभाण्डरजस्वलाः। यद्युच्छिष्टः स्पृशेत्तत्र कृच्छ्रं सान्तपनं चरेत्। “एतज्ज्ञानाभ्यासे सान्तपने धेनुद्वयम्”। प्रा० त० ब्रह्मपुराणे “उच्छिष्टेन तु शूद्रेण विप्रः स्पृष्टस्तु तादृशः। उपवासेन शुद्धिः स्यात् शुना संस्पृष्टएव वा। उच्छिष्टेन तु विप्रेण विप्रःस्पृष्टस्तु तादृशः। उभौ स्नाभं प्रकुरुतं सद्य एव समाहितौ”। “अनुच्छिष्टब्राह्मणस्य नक्तमिति” प्रायश्चित्तविवेकः।

“सर्वमन्नमेकत्रोद्धृत्य उच्छिष्टसमीपे दर्भेषु” श्रा० त० गोभिलः। ३ दत्तावशिष्टे च। “उच्छिष्टे सतिलान् दर्भान् दक्षिणाग्रान्निधापयेत्” श्रा० त० ब्रह्मपु०। “असंस्कृतप्रमीतानां, योगिनां, कुलयोषिताम्। उच्छिष्टं मागधेयं स्यात् दर्भेषु विकिरश्च यः” श्रा० त० ब्रह्मपु०। “प्रेतश्राद्धे यदुच्छिष्टं ग्रहे पर्य्युषितं च यत्। दम्पत्योर्भुक्तशेषञ्च न भुञ्जीत कदाचन” श्रा० त० स्मृतिः। “उच्छिष्टंपाकपात्रेऽवशिष्टम्, ग्रहे उपरागे पर्य्युषितं, दम्पत्योराश्रमस्वामिनोर्भोजनानन्तरं पाकस्थाल्यामवशिष्टमिति” श्राद्धचिन्तामणिः। ४ मघुनि। मक्षिकोच्छिष्टत्वात्तस्य तथात्वम्। “उच्छिष्टं शिवनिर्माल्यम्–श्राद्धे प्रशस्यते” पु०। उष्टिमोदनः।

उच्छिष्टगणेश = पु० तन्त्रोक्ते गणपतिभेदे। तस्य मन्त्रध्यानादिकं तत्रैव दृश्यम् “भुक्त्वोच्छिष्टोजपेन्नित्यं गणेशस्य सदा प्रियः” “उच्छिष्टश्चाशुचिर्भूत्वा जपपूजनमाचरेत्”। अनुच्छिष्टो न सिध्येत्तु तस्मादेवं समाचरेत्”। “सदोच्छिष्टोगणेशानो यक्षराजेन धीमता” इति च तत्रैव

उच्छिष्टचाण्डालिनी = स्त्री तन्त्रोक्ते मातङ्गीदेवीमूर्त्तिभेदे। तस्या मन्त्रध्यानादिकं तन्त्रसारे दृश्यम्। “भोजनानन्तरं देवि! विनैवाचमने कृते” इत्युपक्रम्य “उच्छिष्टेन बलिं दत्त्वा जपेत्तद्गतमानसः। उच्छिष्टेन च कर्त्तव्यो जपोऽस्याः सिद्धिमिच्छता। उच्छिष्टज पमानस्य जायन्ते सर्वसिद्धयः” इति च तत्रैव।

उच्छिष्टभोजन = पु० उच्छिष्टं पञ्चयज्ञावशिष्टं भोत्तनमस्य। १ पञ्चयज्ञावशिष्टस्य भक्षके “यज्ञशिष्टाशिनः सन्तोमुच्यन्ते सर्वकिल्विषैः” मनुना तथा भोजने किल्विषतारकत्वकीर्त्तनात् तथा भोजनस्य कर्त्तव्यत्वम्। उच्छिष्टं देवनैवेद्यावशिष्टं भोजनमस्य। २ देवनैवेद्यभोजके च। “तैर्दत्तमप्रदायैभ्योयो भुङ्क्ते स्तेन एव सः” गीतायां देवानि वेद्ने दोषश्रवणात् देवाय दत्त्वैव भोज्यता।

उच्छिष्टभोजिन् = त्रि० उच्छिष्टं इतरस्य भुक्तावशिष्टं भुङ्क्ते भुज–णिनि। निषिद्धोच्छिष्टभोक्तरि” “क्रूरस्योच्छिष्टमाजिनः” मनुः।

उच्छिष्टमोदन = न० उच्छिष्टं भ्रमरोच्छिष्टं भधु तेन मोदते वर्द्धते मुद–ल्यु। (मोम) सिक्थके।

उच्छिष्य = त्रि० उद् + शिष–वेदे नि० क्यप्। अवशेषणोये लोके तु ण्यदेव। उच्छेष्यम् अवशेषणीयेऽन्नादौ त्रि०।

उच्छीर्षक = न० उत्यापितं शय्यातौत्तोल्य स्थापितं शीर्षं यस्मिन् प्रा० व० कप्। शीर्षोपधाने (वालिश)। प्रा० ६ ब०। २ उन्नतशीर्षके धान्यादौ त्रि० हला०। ऊर्द्ध्वं शीर्षे कायति कै–क। ३ शिरःप्रदेशे “उच्छीर्षके श्रियै कुर्य्याद् भद्रकाल्यै च पादतः” मनुः उच्छीर्षके वास्तुपुरुषस्य शिरः प्रदेशे” कुल्लूकभट्टः।

उच्छुष्क = त्रि० उर्द्धतः शुष्कम् प्रा० स०। उर्द्ध्वप्रदेशात् शुष्के।

उच्छून = त्रि० उद्–श्वि–क्त। १ उन्नते २ स्फीते च “वृथोच्छूनैः किमेभिर्भुजैः” सा० द०। “अनरतरुदितोच्छूनताम्रडष्टिमद्राक्षम्” दशकु०। भावे क्त। ३ स्फीततायाम्। (फोला)

उच्छृङ्खल = त्रि० उद्गतं शृङ्खलातः निरा० स०। १ बन्धनरहिते, २ नियन्तृरहिते, ३ अप्रतिबन्धे च। “अन्यदुच्छृङ्खलं सत्वमन्यच्छास्त्रनियन्त्रितम्” “सम्मूर्च्छदुच्छृङ्खलशङ्खनिस्वनः” माघः।

उच्छेत्तृ = त्रि० उद् + छिद–तृच् स्त्रियां ङीप्। १ समूलमुत्पाटके २ नाशके च।

उच्छेद = पु० उद् + छिद–भावे घञ्। १ समूलोत्पाटने २ विनाशने च “किमिति सर्व्वपशूच्छेदः क्रियते” हितो० “ततः सत्यवत्यचिन्तयत् मा दौष्मन्तोवंश उच्छेदं व्रजेदिति” भा० आ० ९५ अ०। “सतां भवोच्छेदकरः पिता ते” रघुः। भावे ल्युट्। उच्छेदनमप्यत्र न० “यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः” आ० प० १६३ अ०।

उच्छेद्य = त्रि० उच्छेदमर्हति उच्छेद + अर्हार्थे यत्! १ उच्छेदार्हे उद् + छिद–कर्मणि ण्यत्। २ समूलमुत्पाटमीये च।

उच्छेषण = न० उच्छिष्यते उद् + शिष–कर्मणि ल्युट्। १ उच्छिष्टे “उच्छेषणं भूमिगतमजिह्मस्याशटस्य च” उच्छेपणन्तु तत्तिष्टेत् यावद्विप्रा विसर्ज्जिताः” मनुः “सरस्वतीमुखग्रहणोच्छेषणीकृतोदशनच्छद एष चुम्बयितुम्” दशकु०। भावे ल्युट्। २ भुक्तावशेषणे।

उच्छोषण = त्रि० उद् + शुष–णिच्–ल्यु। १ मन्तापके, २ ऊर्द्धशोषके च “यच्छोकमुच्छोषणमिन्द्रियाणाम्” गीता। भावे ल्युट्। ३ सम्यक्शोषणे। “तरसा सेतुबन्धनेन सागरोच्छोषणेन च” रामा०। “उच्छोषणं समुद्रस्य पतनं चन्द्रसूर्य्ययोः” रामा०।

उच्छोषुक = त्रि० उद् + शुष–बा० उक। ऊर्द्धशोषप्राप्ते, “स यर्द्धतावन्तरेणान्यो दीक्षेतौषधीस्तदनेन लोकेन नानाकुर्य्यादुच्छोषुका ह स्युः” शत० ब्रा० १२, १, १, १

उच्छ्र (च्छ्रा)य = पु० उद् + श्रि–करणे अच् घञ् वा। १ उन्नततायाम् उन्नततया हि ऊर्द्ध्वमाश्रोयते इति तस्यास्तंथात्वम्। “दम्भो धर्म्मध्वजोच्छ्रयः” भा० व० ३१२ अ०। “पतनान्ताः समुच्छ्रयाः” नीति० “अपरेद्युस्ततस्तस्याः क्रियतेऽत्युच्छ्रयोनृपैः” भा० आ० ६३ अ०। प्रासादैः सुकृतोच्छ्रायैः” भा० आ० १८५ अ०। “ग्रहाधीना नरेन्द्राणामुच्छ्रायाः षतनानि च” या० स्मृतिः। “उच्छ्रायपातनं धनिनां दर्शयन्निव” कटस०। “शृङ्गोच्छ्रायैः कुमुदविशदे योवितत्य स्थितः खम्” मेघदू०। “गुणार्ज्जनोच्छ्रायविरुद्धबुद्धयः” किरा०। २ उच्चद्रव्याङ्के “उच्छ्रयेण गुणितं चितेः फलम्” लीला०।

उच्छ्रयण = ब० उद् + श्रि करणे–ल्युट्। १ औन्नत्ये उद् + श्रिकर्त्तरि ल्यु। २ उत्कृष्टे त्रि०। “सर्व्वाण्युच्छ्रयणानि” आश्व० गृ० ४, ९, २१। उच्छ्रयणानि उत्कृष्टानि” नारा० वृत्तिः।

उच्छ्रावण = न० उद् + श्रु–णिच् + ल्युट्। उच्चैःश्रावणे उद्घोषे “उद्दिश्य कुपितो यस्तु तोषितः श्रावयेत् पुनः। तस्मिन् मृते न दोषोऽस्ति द्वयोरुच्छ्रावणे कृते” विष्णु०। “उच्छ्रावणमुद्घोषः” प्रा० त० रघुनन्दनः।

उच्छ्रित = त्रि० उद् + श्रि–कर्त्तरि क्त। उन्नते १ ऊर्द्ध्वदेशं प्राप्ते। “उच्चर्करुच्छ्रितोरःस्थलनलिननिषण्णाम्” माघः। २ संजाते ३ समुन्नद्धे ४ प्रवृद्धे च मेदि०। ५ त्यक्ते हेमच०

उच्छ्रिति = स्त्री उदु + श्रि–बा० करणे क्तिन्। १ उच्छ्रये उच्चतायाम् २ उत्कर्षे च “यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितोःपुनः” मनुः। “चतसृष्वपि चाद्यासु सर्वलिङ्गोच्छ्रितीर्वदेत्” सुश्रु०। ३ उच्चसंख्यायाम् “इष्टकोच्छ्रयहृदुच्छ्रितिश्चितेः” लोला०।

उच्छ्वसित = न० उद् + श्वस–क्त। १ विकाशिते, २ जीयिते, ३ स्फुरिते “विशदोच्छ्वसितेव मेदिनिः रघुः। ४ प्राणेषु च “सा खलु भगवतः कण्वस्य कुलपतेरुच्छ्वसितम्” शकु०। कर्त्तरि क्त। ५ उच्छ्वासयुक्ते ६ आश्वास युक्ते च त्रि०। “त्वामुमुत्कण्ठोच्छसितहृदया वीक्ष्य संभाव्य चैवम्” मेषदू०।

उच्छास = पु० उद् + श्वस–घञ्। १ अन्तर्मुखश्वासे, आख्यायिका याः २ परिच्छेदे, यथा दशकुमारस्य प्रथमोच्छ्वासादि प्राणवायोर्दीर्घगत्या ३ बहिर्गतौ ४ आश्वासे च। “दीर्वाङ्गुलीपर्वोच्छ्वासप्रेक्षणबाहुम्” कात्या० “वायोर्मार्गनिरोधाच्च न गर्भस्थः प्ररोदिति” निश्वासोच्छ्वाससंक्षोभस्वप्नान् गर्भोऽधिगच्छति” तुश्रु०। उच्छ्वासवहनाडीभेदास्तु तत्र दर्शिताः। “ऊर्द्धगाः शब्दस्पर्शणपरसगन्धप्रश्वासोच्छ्वास- जृम्भितक्षुद्धसितकथितरुदितादीनि विशेषानभिवहन्त्यः शरीरं धारयन्ति “पीडयन्नरुजोगाढः सोच्छ्वासः शिथिलः स्मृतः”। “शीतपादकरोच्छ्वासश्छन्नश्वासश्च यो भवेत्। काकोच्छ्वासश्च यो मर्त्यस्तं धीरः परिवर्ज्जयेत्” सुश्रु०। “सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः” सुश्रु०। उच्छ्वासश्चदीर्घनिश्वासः स च यावत्कालेन श्वासरूपप्राणक्रिया भवति ततोऽल्पकालेन, दीर्घदेशपर्य्यन्तप्राणवायोर्बहिर्गमने भवति। “उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरयर्ती” मेघदू० “इत्युच्छ्वासोऽमृतं प्राण आदध” कात्या० ४, ८, २९।

उच्छासिन् = त्रि० उद् + श्वस–णिनि स्त्रियां ङीप्। १ ऊर्द्धश्वासयुक्ते २ दीर्षनिश्वासयुक्ते। “समधिकतरोच्छ्वासिना” मेघ०। ४ उद्गते च “उच्छ्वासिकालाञ्जनरागमक्ष्णोः” कुमा० “समधिकतरोच्छ्वासिना” मेघ० “५ ऊर्द्धश्वासयुक्ते मुमूर्षौ” “यत्रैतदूर्द्धोच्छ्वासी भवति” वृ० उ० उत्क्रमनशब्दे दृश्यम्।

उछ = उञ्छे (कणशआदाने) तुदा० इदित् पर० सक० सेट्। उञ्छति औञ्छीत्। उञ्छाम्–बभूव आस चकार। उञ्छिता उञ्छ्यत् उञ्छिष्यति औञ्छिष्यत्। उञ्छः उञ्छनम् उञ्छितः। प्र + मार्जने प्रोञ्छनं (पोछा) प्रोञ्छितः।

उछ = बन्धे समापने च विरासे पा० तुदा० पर० सक० सेट्। उच्छति औच्छीत् उच्छाम् बभूव आस–चकार। उच्छिता उच्छ्यात् उच्छिष्यति औच्छिष्यत्। णिच् उच्छयति ते औतिच्छत् औचिच्छत् त। सनि उतिच्छिषति उचिच्छिषति। ईदित् तेन निष्ठाया नेट्। उष्टः।

उज्जय(यि)नी = स्त्री विक्रमादित्यराजधान्याम् अवन्तीपुर्य्याम् अवन्तीशब्दे विवृतिः। “सौधोत्ससङ्गप्रणयविमुखो मास्मभूरुज्जयिन्याः” मेघदू०। इयञ्च लङ्कावधिमेरुपर्य्यन्तसमरेखास्थपुरीमध्येऽनन्यतमा यथाह श्रोपतिः “लङ्का कुमारी नगरी च काञ्ची पानाटमद्रिश्च सितः षडास्यः। श्रीवत्सनुल्मं च पुरी ततश्च माहिष्मती चोज्जयिनी प्रसिद्धा। स्यादाश्रमोऽस्मान्नगरं सुरम्यं ततः पुरं पट्टशिवाभिधानम्। श्रींगर्गराटं च सरोहिताख्यं स्थानेश्वरं शीतगिरिः सुमेरुः। इतीव याम्योत्तरगां धराया रेखामिमां गोलविदो वदन्ति। अन्यानि रेखास्थितिभाञ्जि लोके ज्ञेयानि तज्ज्ञैः पुटभेदनानि”। सू० सि० तु सामान्येनोक्तम् यथा “राक्षसालयदेवौकःशैलयोर्मध्यसूत्रगाः। रोहीतकमवन्ती च तथा सन्निहितं सरः”। “राक्षसालयो लङ्का देवानां गृहरूपः पर्वतो मेरुरनयोमध्ये ऋजु- सूत्रं तत्र स्थिता देशा रख्याख्या!। लङ्कादक्षिणसूत्रस्थास्त्वनुपयुक्तास्तत्र मनुष्यागोचरत्वादिति नोक्ताः। ज्ञानार्थमुदाहरति। रोहीतकमिति। यथा रोहीतकं नगरमवन्त्युज्जयिनी सन्निहितं सरः कुरुक्षेत्रम्। चकारस्तथेत्यव्ययपरः। तथान्यानि परस्परं सन्निहिततया ज्ञेयानि” र० मा०। “यथोज्जयिन्या कुचतुर्थमागे प्राच्यां दिशि स्वाद्यमकोटिरेव” सू० सि०।

उज्जयन्त = न० उद् + जि–झ। रैवतपर्वते हेम०।

उज्जानक = पु० उतङ्कमुनेराश्रमान्तिके समुद्रसविधे मरुभूमिषु वालुकामयदेशभेदे। यत्र हि मधुपुत्रो धुन्धुरुतङ्कप्रार्थितेन कुवलाश्वेन विष्णुतेजसा वृंहितवीर्य्येण निपातितः तत्कथा यथा भा० हरिवं० ११ अ०। “ममाश्रमसमीपे वै समेषु मरुधन्वसु। समुद्रो वालुकापूर्ण उज्जानक इति श्रुतः। देवानामप्यबध्यश्च महाकायो महाबलः। अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान्। राक्षसस्य मधोः पुत्रो धुन्धुर्नाम महासुरः। शेते लोकविनाशाय तप आस्थाय दारुणम्”। इत्युपक्रम्य तद्बधोवर्ण्णितस्तत् कथाधुन्धुमारशब्दे दर्शयिष्यते २ उत्तरदेशस्थेऽपि देशभेदे “एतद्द्वारं महाराज! मानसस्य प्रकाशते” इत्युपक्रम्य “एष उज्जानकीनाम पावकिर्यत्र शान्तवान्” भा० व० १३० अ० देशभेद उक्तः।

उज्जासन = न० उद् + जस–णिच्–ल्युट्। १ मारणे बधे एतद्योगे कर्म्मणः संबन्धत्वविवक्षया षष्ठी प्रतिपदविहिततया च तया षष्ठ्या न समासः “चौरस्योज्जासनम्” सि० कौ०। “प्रतिपदविहिता षष्ठी न समस्यते” वार्त्ति०। “प्रोक्ता प्रतिपदा षष्ठी समासस्य निवृत्तये” भर्त्तृ० तथैवोक्तम्

उज्जिघ्र = त्रि० उद् + घ्रा–श। आघ्राणकर्त्तरि।

उज्जिति = स्त्री उद् + जि–क्तिन्। उत्कृष्टजये “अग्नीषोमयोरुज्रितिमनुज्जेषम्” यजु० २, २५। “उज्जितिमनु पहतविघ्नेन हविःस्वीकरणरूपमुत्कृष्टजयम्” वेददी०। “सोमस्योज्जितिमित्यग्निर्वनस्यतिः” कात्या० १०, ७, १४। “उज्जितिभ्यो वोत्तरो माहेन्द्रः” कात्या० १४, ५, ३१। अग्नीषोमयोरुज्जितिमनूज्जेषम्। “अग्नीषोमयोरुज्जितिमनूज्जयति” इन्द्राग्न्योरुज्जितिमनूज्जयति” शत० ब्रा० १, ८, ३, १, २, ३, ४। २ उज्जयलिङ्गयुक्तमन्त्रकरणकाहुतौ च। “अथोज्जितीः” इत्युपक्रम्य “अग्निरेकाक्षरेण प्राणमुज्जयत्तमुज्जेषम्” इत्यादि शत० ब्रा० २, २, १६, १७ उक्तम्।

उज्जिहान = त्रि० उद् + हा–शानच्। उद्गच्छति।

उज्जीविन् = त्रि० उद् + जीव–णिनि। नाशप्रायताप्राप्त्युत्तरं पुनरुज्जीवनवति।

उज्जृम्भ = पु० उद् + जृभि–घञ्। १ विकाशे २ स्फुटने। उद्गता जृम्भा (हाइतीला) यस्मात्” प्रा० ब० गतलोपः। ३ मुखविकाशनभेदे ३ कर्त्तरि अच्। ४ प्रकाशान्विते ५ उज्जृम्भावति त्रि० “उज्जृम्भवदनाम्भोजा भिनत्त्यङ्गानि साङ्गना” माघः

उज्जृम्भण = न० उद् + जुभि–भावे ल्युट्। विकाशे मुखविकाशनभेदे व्यापारे (हाइतोला)। “उद्गारकाशक्षवथुष्ठीवनोज्जृम्भणानि च” सुश्रुतः। उद् + जृभि–अ। उज्जृम्भाऽप्यत्र स्त्री।

उज्जृम्भित = त्रि० उद् + जृभि–क्त। विकासिते। भावे क्त। २ चेष्टायाम् (हाइतोला) ३ मुखव्यापारभेदे न०।

उज्जेष = पु० उदा + जिष–गत्याम् भावे घञ्। १ उत्कर्षप्राप्तौ उज्जिति शब्दे उदा०। अच्। २ उत्कृष्टे त्रि०।

उज्जेषिन् = त्रि० उद् + जिष–गत्यां णिनि स्त्रियां ङीप्। उत्कर्ष प्राप्ते “क्रीडी च शाकी चोज्जेषी” यजु० १७, ८५ “उज्जेषी उत्कृष्टजयनशीलः” वेददी०।

उज्ज्य = न० उद्गता ज्या यस्य प्रा० वा गतलोपः। “आरोपितमौर्वीके धनुषि। उज्ज्यधन्वाः” कात्या० २२, ३, १७। “उज्ज्यधन्वा आरोपिज्यधनुष्काः” कर्क०। उत्क्रान्ता अवतारिता ज्या यतः प्रा० ५ ब० वा क्रान्तलोपः। अवतारितमौर्कीके धनुषि “काश्योवा वैदहोवोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा” छा० उ०।

उज्ज्वल = त्रि० उद् + ज्वल–अच्। १ दीप्ते, २ विशदे, ३ विकाशिनि च। ४ शृङ्गाररसे पु०। “स राशिरासीन्महसां महोज्ज्वलः “शृङ्गारभङ्ग्या महाकाव्येचारुणि नैषधीयचरिते सर्गोनिसर्गीज्ज्वलः” नैष०। “स्वातन्त्र्यमुज्ज्वलमवाव करेणु राजः” अविरतमुद्धतिमुज्ज्वलां दधानैः” माघः। “अस्माकं सखि! वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलम्” सा० द० “विचित्रोज्ज्वलवेशा तु वलन्नुपूरनिस्वनाः” सा० द० “सुमुखाः पल्वलोज्ज्वलाः” सुश्रु०। अस्य च रसान्तरत्वं गोस्वामिग्रन्थे स्थितम्। ५ स्वर्णेन० राजनि० धातुमध्ये तस्याद्दीप्तोत्वात्तथात्वम्। तस्य भावः ष्यञ् औज्ज्वल्य त्व। उज्ज्वलत्व तद्भावे न०। तल्। उज्ज्वलता स्त्री तत्रैव।

उज्ज्वलदत्त = पु० उणादिवृत्तिकारके विद्वद्भेदे। तस्येदम्। छ। उज्ज्वदत्तीय तत्कृतग्रन्थे पु० तत्कृतवृत्तौ तु स्त्री।

उज्ज्वलन = न० उद् + ज्वल–भावे ल्युट्। १ उद्दीप्तौ २ वैशद्ये च।

उज्झ = त्यागे तुदा० पर० सक० सेट्। उज्झति “औज्झीत् उञ्झाम्–बभूव आस चकार। उज्झिता जज्झ्यात् उज्झिष्यति औज्झिष्यत्। उज्झितः। त्वमङ्ग यस्याः पतिरुज्झितक्रमः” नैष०। “अद्यापि नोज्झति हरः किल कालकूटम्” चौरपञ्चाशिका। “प्राणानौज्झीच्च खड्गेन छिन्नस्तेनैव मूर्द्धनि” भट्टिः। “सपदिविगतनिद्रस्तल्पमुज्झाञ्चकार”। “अविरतोज्झितवारिविपाण्डुभिः” “परस्पराक्षिसादृश्यमदूरोज्झितवर्त्ममु मृगद्वन्द्वेषु” सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम्” “उदये मदवाच्यमुज्झता” इति च रघुः। अतः “भिद्योद्ध्यौ नदे” पा० नि० क्यप् नदे कर्त्तरि झस्य धत्वग्। “उदकमुज्झति उद्ध्योनद”ः सि० कौ०।प्र + प्रकर्षेण त्यागे। “स्वगृहिणी प्रेयस्यपि प्रोज्झिता” प्र० बो०। “लिखितमपि ललाटे प्रोज्झितुं कः समर्थः” हितो०। सम् + सम्यक्त्यागे।

उज्झ = त्रि० उज्झति उज्झ–अच्। त्यागिनि। “ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्बधः। गर्हितान्नाद्ययोर्जग्धिः सुरापाणसमानि षट्” मनुः।

उञ्छ = पु० उछि–घञ्। “अबाधितस्थानेषु पथि क्षेत्रेषु च च अप्रतिहतावकाशेषु यत्र कुत्रौषधयो विद्यन्ते तत्राङ्गुलीभ्यामेकैकं कणं समुच्चिनोतीति” बौधा० स्मृत्युक्तेकणश आदाने। “शिलोञ्छमप्याददीत विप्रोऽजीवन् यतस्ततः” मनुः। “एवं वृत्तस्य नृपतेरुञ्छेनापि च जीवतः” मनुः। “तान्युञ्छषष्ठाङ्कितसैकतानि” रघुः। “निराहारस्तु स मुनिरुञ्छं मार्गयते पुनः” “तथामुमुञ्छधर्म्माणं दुर्वासा मुनिसत्तमः” शिलोञ्छवृत्तिधर्म्मात्मा मुद्गल संयतेन्द्रियः” भा० व० १५९ अ०। “प्रतिग्रहाच्छिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते” मनुः। “व्यालग्रहानुञ्छवृत्तीनन्यांश्च वनचांरिणः” मनुः। अस्य क्लीवताऽपि “उञ्छं भैक्ष्यं यदन्यच्च तत्परिग्रहणम् ऋतम्” निगमोक्तेः “प्रतिग्रहात् शिलं श्रेयस्ततोऽप्युञ्छं प्रशस्यते” स्मृत्यन्तरे चोक्तम्। उञ्छ शिलमिति समस्तमपि शब्दान्तरं केचिदिच्छन्ति। उञ्छेन पक्षिचञ्चूवद्ग्रहणेन शिल्यते संचीयते इति तद्व्युत्पत्तेः “ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम्। मृतन्तु याचितं भैक्ष्यं प्रभृतं कर्षणं स्मृतम्” मनुः।

उञ्छ = र० उछि–भावे ल्युट्। आपणक्षेत्रादिपतिस्य क्षेत्रस्वामिगृहीतविक्रीतावशिष्टस्य धान्यादेः कणश आदाने

उञ्छशिल = न० शिल–अपहारे क ३ त०। क्षेत्रस्वाभिना गृहीतशस्यात् क्षेत्रात्कणशः समुच्चयरूपे आहरणे। अस्य दन्त्यमकारमध्यतामपि केचित् पृषोदरादि० कल्पयन्ति।

उट = न० उ + टक् नेत्त्वम्। १ तृणे, २ पर्णे च।

उटज = पुंन० उटेभ्यो जायते जन + ड। पत्रादिनिर्म्मितशालायां मुन्यादिगृहे। “उटजद्वाररोधिभिः” “मृगैर्वर्त्तितरोमन्थ मुटजाङ्गनभूमिषु” रघुः “नवोटजाभ्यन्तरसंभृतानलम्” कुमा०

उठ = गतौ भ्वा० पर० सक० सेट्। ओठति ओठीत्। उवोठ ऊठतुः ओठिता उठ्यात् ओठिष्यति औठिष्यत्।

उड = संहतौ सौत्र० पर० अक० सेट्। ओडति औडीत्। उवोड ऊडतुः। ओडिता उड्यात् ओडिष्यति औडिष्यत्। उडु

उडु = स्त्री न० उड–बा० कु। १ नक्षत्रे, २ जले च स्त्रीत्वे वा ऊङ्। “इन्दुप्रकाशस्तिमितोडुतुल्याः”। “उत्तम्भितोडुभिरतीवतरां शिरोभिः” माघः।

उडुचक्र = न० उडूनां चक्रमिव मण्डलम्। १ नक्षत्रमण्डले भचक्रे तस्य संस्थितिश्च” सि० शि० उक्ता उच्चशब्दे तच्च दर्शितम्। उडुचक्रस्वरूपादि सू० सि० उक्तम् यथा “ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाभिधी यते। तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तथा। मन्दामरेज्यभूपुत्रसूर्य्यशुक्रेन्दुजेन्दवः। परिभ्रमन्त्यधोऽधस्थाः सिद्धविद्याधरा धनाः”। “ब्रह्माण्डान्तःपरिधिस्तत्तुल्य मानं वृत्तं व्योमकक्षा वक्ष्यमाणाकाशकक्षोच्यते। तन्मध्ये ब्रह्माण्डमध्य आकाशे भानां नक्षत्राणां सर्वेषां सर्वतस्तुल्योर्ध्वान्तरितानां भ्रमणं भवति। तथा तुल्योर्ध्वान्तरेणाधोधोनक्षत्रेभ्यः शनिवृहस्प तिभौमार्कशुक्रबुधचन्द्राअधस्तात् परिभ्रमन्ति। सिद्धा विद्याधाराघनाश्चाधस्थाश्चन्द्रादधःस्थिता अधोऽधः क्रमेणाकाशे स्थिताः। प्रवहवायाववस्थानाभावाश्चन्द्रवन्न तेषां परिभ्रमः” र० ना०। तस्योत्पत्तिविभागस्तत्रैव। “पुनर्द्वादशधात्मानं व्यभजद्राशिसञ्ज्ञकम्। नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी” सू० सि०। “पुनरनन्त रमात्मान द्वादशधा द्वादशस्थानेषु राशिसंज्ञकं व्यभजत् मनःकल्पितं वृत्तं द्वादशविभागं राशिवृत्तमकरोदित्यर्थः। भूयो द्वितीयवारमात्मानं नक्षत्ररूपिणं सप्तविंशात्मकं व्यभजत्। मनःकल्पितं तदेव वृत्तं सप्तविंशतिविभागं चाकरोदित्यर्थः। ननु न्यूनाधिकविभागाः कथं न कृताः? उक्तसङ्ख्यायां नियामकाभावादित्यत आह वशीति। इच्छाविषपं वशं विद्यते यस्येति वशी स्वतन्त्रे च्छस्य नियोगानर्हत्वात्। स्वेच्छया तत्सङ्ख्याका विभागाः कृता इति भावः। सप्तविंशतिविभागव्यञ्जकानि नक्षत्राणि तारात्मकानि निर्मितानीत्यर्थसिद्धम्” र० ना०। तत्र राशिनक्षत्रनामानि ज्योति० त० उक्तानि यथा “मेषवृषमिथुनकर्कटसिंहाकन्थातुलाधरवृश्चिकभम्। धनुरथ मकरः कुम्भोमीन इति च राशयः कथिताः”। “अश्विन्या सह भरणी कृत्तिकापादः कीर्त्तितोमेषः। वृषभः कृत्तिकाशेषं रौहिण्यर्द्धञ्च मृगशिरसः। मृगशिरसोऽर्द्धं चार्द्रा पुनर्व्वसोस्त्रिपादं मिथुनम्। पादः पुनर्व्वसोरन्त्यः पुष्योऽश्लेषा च कर्कटः कथितः। सिंहोऽथ मघा पूर्वफल्गुनीपाद उत्तरायाः। तच्छेषं हस्ता च चित्रार्द्धं कन्यकाख्यः स्यात्। तौलिनि चित्रार्द्धं स्वातिविशाखायाश्च पादत्रयम्। अलिनि विशाखापादस्तथानुराधान्विता ज्येष्ठा। मूलं पूर्व्वाषाढा प्रथमश्चाप्युत्तरांशको धन्वी। मकरस्तत्परिशेषं श्रयणाचार्द्धं कनिष्ठायाः। कुम्भोऽथ धनिष्ठार्द्धं शतभिषापौर्व्वभाद्रपदत्रयम्। भाद्रपदायाः शेषस्तथोत्तरा रेवती मीनः” अश्विन्यादिनक्षत्राणां तारासंख्यातत्सन्निवेशस्वरूपं च श्रीपतिनोक्तम्। “वह्नित्रिऋत्विषुगुणेन्दुकृतानि भूतवाणाश्विनेत्रशरभूकुयुगाग्निरामाः। रुद्राब्धिरामगुणवेदशतद्वियुग्मदन्ता बुधैर्निगदिताः क्रमशो भताराः। तुरगमुखसदृक्षं योनिरूपं क्षुराभं शकटनिभमथैणस्योत्तमाङ्गेन तुल्यम्। मणिगृहशरचक्राभानि शालोपमं च शयनसदृशमन्यच्चात्र पर्य्यङ्करूपम्। हस्ताकारमजस्रमौक्तिकसमं चान्यत् प्रवालोपमं धिष्ण्यं तोरणवत् स्थितं बलिनिभं स्यात् कुण्डलाभं परम्। क्रुध्यत्केसरिविक्रमेण सदृशं शय्यासमानं परं चान्यद्दन्तिविलासवत् स्थितमतः शृङ्गाटकव्यक्ति च। त्रिविक्रमाभं च मृदङ्गरूपं वृत्तं ततोऽन्यद्यमलद्वयाभम्। पर्य्यङ्गतुल्यं मुरजानुकारमित्येवमश्व्यादिभचक्ररूपम्”। भचक्रपरिधिमानम् सि० शि० उक्तम् “अभ्रेष्विभाङ्कगजवुञ्जरगोऽक्षपक्षाः” (२५९८८९८८५० योजनानि) कक्षां गृणन्ति गणका भगणस्य चेमाम्”। तस्य भूमध्यातुच्छ्रितियोजनानि तु तत्रोक्तानि यथा “नागाक्षषड्द्वयरसाग्निकुवेदसंख्यो” (४१२६३६५८) नक्षत्रमण्डलभवः श्रवणो निरुक्तः”। अस्य च द्वादशधा विभक्तस्य प्रवहवायुना भ्राम्यमाणस्य दिने षणामुदयः रात्रौ च षणामिति भेदः। “स्यादुद्गमो निजनिजोदयभानुतुल्ये सूर्य्येऽस्तभास्करसमोऽस्तमयश्च भानाम्” सि० शि० उक्तेः। २ ताराणां समूहे च “वप्रेण पर्य्यन्तचरोडुचक्रः” माघः।

उडु(डू)प = पु० उडुनि जले पाति पा–क। १ प्लवे भेलायाम्। “उडुपप्लवसन्तारोयत्र नित्यं भविष्यति” भा० आ० ८१ अ०। “वहन्तोवारिबहुलं फेनोडुपपरिप्लुतम्। भा० व० १४६। “तितोर्षुर्दुस्तरं माहादुदुपेनास्मि सागरम्” रघुः। उडुरूपजलसन्तारहेतुत्वादस्य उडुपत्वम्। चर्मावनद्धयानपात्रे न० तच्छ्लोकव्याख्याने मल्लिनाथेन “उडुपेन चर्मावनद्धयानपात्रेणेत्यभिधाय “चर्माबनद्धमुडुपं प्लवकाष्ठं कस्ण्डवदिति” सज्जनोक्तिरुदाहृता। पृषो०। उडपोऽपि प्लवे अमरटी०। उडूनि उडूर्पा नक्षत्राणि पाति पा–क। २ चन्द्रे स हि ताराणां पतिरतस्तद्रक्षकः। उडूनां दिवा हि सूर्य्यकिरणैरभिभवादप्रकाशत्वेन रात्रौ च प्रकाशवत्त्येन निशाधीशचन्द्रस्य ततपतित्वम्। एवम् “नक्षत्राणामवीशत्वमोषिधीनां तथैव चेति” का० ख० प्रजापतिना तदधीशत्वदानमुक्तम्”। गोतायामपि “नक्षत्राणामहं शशी” इत्युक्तेः तन्मध्ये तस्य श्रेष्ठत्वादपि तत्पतिता “सलिलमये शशिनि” वृह० सं० तस्य जलमयत्वोक्तेः उडुमयत्वात् जलमयत्वात् तस्य उडुपतित्वं वा बोध्यम् दक्षकन्याश्विन्यादितारापतित्वाद्वा तथात्वम्।

उडु(डू)पति = पु० उडूनां पतिः। १ चन्द्रे २ जलेशे वरुणे च। “परिमुग्धतां बणिगिवोडुपतेः” माघः। “रसात्मकस्योडुपतेश्च रश्मयः” कुमा०।

उडुपथ = पु० उडूनां पन्थाऽ। आकाशे। तत्र हि उडूनां प्रत्यहं प्रवहवायुना भ्रमणात् तथात्वम्।

उ(दु)डुम्बर = पु० उं शम्भुं वृणोति ख उम्बरः उत्कृष्टः उम्बरः प्रा० स० पृषी० दस्य वा डत्वम्। (यज्ञ डुमुर) १ यज्ञाङ्गे वृक्षे २ ताम्रे च, ग्रहावग्रहण्याम् ३ देहल्याम् ४ कुष्ठभेदे च न०। “उ(दु)डुम्बुरो यज्ञफलो यज्ञाङ्गो हेमदुग्धकः। उदुडुम्बरोहितोरूक्षो गुरुपित्तकफास्रजित्। मधुरस्तुवरोवर्ण्ण्योव्रणशोधनरोपणः” इति भा० व० उक्तगुणकः। तस्य विकारः अण्। औ(दु)डुम्बर तद्विकारे पात्रादौ त्रि०। स्त्रियां ङीप्। “गृहीत्वौडुम्बरं पात्रं जानुभ्यां धरणिं गतः” स्मृतिः। “औडुम्बरीं स्पृष्ट्वा गायेत” श्रुतिः।

उडुम्बरपर्णी = स्त्री उड्रब्धरस्य पर्णमिव पर्ण्णमस्याः गौरा० ङीष्। दन्तीवृक्षे शब्दच०।

उडुराज् = पु० उडुषु राजते राज–क्विप्। चन्द्रे। अच्, उडूनां राजा टच् समः० वा। उडुराजोऽप्यत्र “तदोडुराजः ककुभः करैर्मुखं प्राच्याविलिम्पन्” भाग० १०, २९ अ०।

उडुलोमन् = पु० उडुरिव लोमास्य। ऋषिभेदे। तस्यापत्यम् बाह्वा० इञ्। औडुलोमि तदपत्ये पुंस्त्री०। बहुषु अ- कारः। उडुलोमाः।

उड्डयन = न० उद् + डी–ल्युट्। पक्षिणामूर्द्धगतौ “गतो विरुत्येड्डयने निराशताम्” नैष०।

उड्डामर = त्रि० उत्कृष्टो डामरः प्रा० स०। १ उद्भटे २ श्रेष्ठे च ३ तन्त्रभेदे पु०।

उड्डीन = न० उद + डी–भावे क्त। ऊर्द्ध्वेत्पतनरूपे स्वगगतिभेदे।

उड्डीयन = न० उद् + डी–ड उड्डःस इवाचरति क्यङ् उड्डीय–भावे ल्युट्। उत्पतने। “कथमुड्डीयनेऽशक्तान् पतने च ममात्मजान्” मा० आ० २३३ अ०। उड्डीय–कर्त्तरि ताच्छील्ये वा चानश्। उड्डीयमान उड्डयन कर्त्तरि तच्छीले च त्रि०।

उड्डीश = पु० उद् + डी–क्विप् तस्य ईशः। उत्पतन कर्तृणामीश्वरे १ महादेवे २ तन्त्रभेदे च मेदि०। योगिनां हि उत्पतनं योगशास्त्रप्रसिद्धम् महादेवस्य च तदीशत्वात् तथात्वम्। उड्डीशत्रन्त्रस्य तु उत्पतनसाधनोपायविधायकत्वात् तथात्वम्।

उ(ओ)ड्र = पु० उड–सौ० बा० रक् र वा उ–र–रक् वा डुगागमोवा। कूर्मविभागस्थप्राच्यदेशभेदे “सवङ्गाङ्गान् सपौण्ड्रोड्रान् सचोलान् द्रविड्रान्धकान्” भा० ष० ५६ अ०। ओ(उ)ड्रदेशश्च कूर्म्मविभागे वृ० सं० प्राच्यतयोक्तः यथा “प्राच्यामित्युपक्रम्य मिथिलसमतटोड्राश्ववदनदन्तुरकाः” इति। स च उत्कलात् भिन्नएव तत्रैवानन्तरम् “पौण्ड्रोत्कलकाशिमेकलाम्बष्ठाः इत्युक्तेः। भारते च सहदेवदक्षिणदिग्विजये “पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः स० ३० अ० उक्तेस्तस्य हस्तिनानगरीतः दक्षिणत्वात् तथात्वम् कूर्म्मविभागे प्राच्यत्वमिति न विरोधः। सर्वत्र उड्रशब्दश्रवणात् उकारादित्वम् रघुनन्दनेन तु ओड्रादिदेशव्यवस्थितमित्युक्तत्वात् ओकारादित्वमपि। अस्य देशवाचित्वात् तस्य राजा तदस्याभिजन इत्यर्थे च अण्। औड्र तद्राजे तद्वासिनि च बहुषु तस्य लुक्। उड्रः तद्राजेषु तन्निवासिषु च।

उणक = त्रि० ओण–अपसारणे ण्वुल्गौरा० उणक इति पाठात् नि० ह्रस्वः। अपसारके। स्त्रियां गौरा० ङीष्। उणकी।

उणादि = पु० उण्प्रत्यय आदिर्येषाम्। शाकटायनोक्ते उण्प्रभृतौ प्रत्ययसमुदाये। “उणादयो बहुलम्” “ताभ्यामन्यत्रोणादयः” पा०। “उणादयोऽव्युत्पन्नाः प्रातिपादिकानीति” पा० भा०। व्युत्पन्ना इति पाठान्तरम्। व्युत्पत्तिपक्षाभिप्रायेणैव “राघवस्य ततः कार्य्यं कारुर्वानरपुङ्गवः” इति भट्टौ कार्य्यमित्यत्र द्वितीया अव्युत्पन्नत्वे सा म स्यादिति बोध्यम् उणादिवृत्तिश्च उज्ज्वलदत्तकृता प्रसिद्धा।

उण्डुक = पु० “गर्भस्य यकृत्प्लीहानौ शोणितजौ। शोणितफेनजः फुष्फुसः शोणितकिट्टप्रभव उण्डुकः” इति सुश्रुतोक्ते रुधिरकिट्टजाते देहस्थमलाशये कोष्ठभेदे तन्मलविभाजकत्वं कलाभेदस्य तत्रीक्तं यथा “यकृत् समन्तात् कोष्ठञ्च तथान्त्राणि समाश्रिता। उण्डुकस्थं विभजते मलं मलधरा कला” सुश्रु० देहप्रत्यङ्गविभागमुक्त्वा सुश्रु० “तस्य पुनः संख्यानम् त्वचः कला धातवो मला दोषा यकृत्प्लीहानौ फुप्फुस उण्डुको हृदयमाशय” इत्युक्तम्। “स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च। हृदुण्डुकः फुष्फुसश्च कोष्ठ इत्यभिधीयते इति तस्य आमान्नपक्वमूत्राद्याधारमुक्तम्। शल्योद्धारे च तत्रैव। “अस्थिशल्यमन्यद्वा तिर्य्यक् कण्ठासक्तमवेक्ष्य केशोण्डुकं दृढैकसूत्रबद्धम् द्रवभक्तोपहितं पाययेत्।

***