वाचस्पत्यम्
ईश्वरव to उच्च
links:
Menu अ–ह
Prev ईश्वर
Next उच्चक–उण
ईश्वरव

उक्था
उख
उग्रप
उच
UpasanaYoga
.org

ईश्वरविभूति = स्त्री ६ त०। ईश्वरस्य विभूतौ संसारमध्ये स्थानविशेषु तदीयांशभेदे। येषु येषु च भावेषु तस्य चिन्तनीयता तत् दर्शितं गीतायाम्। “हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः। प्राधान्यतः कुरुश्रेष्ठ! नास्त्यन्तोविस्तरस्य मे। अहमात्मा गुडाकेश! सर्व्वभूताशयस्थितः। अहमादिश्च मध्यञ्च भूतानामन्त एव च। आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्। मरीचिर्मरुतामस्मि लक्षत्राणामहं शशी। वेदानां सामवेदोऽस्मि देवानामस्मि वासवः। इन्द्रियाणां मनश्चात्मि भूतानामस्मि चेतना। रुद्राणां शङ्करश्चास्मि वित्तेशोयक्षरक्षसाम्। वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्। पुरोधसाञ्च मुख्यं मां विद्धि पार्थ! वृहस्पतिम्। सेनानीनामहं स्कन्दः सरसामस्मि सागरः। महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्। यज्ञानां जपयज्ञोऽस्मि स्थावरणां हिमालयः। अश्वत्थः सर्ववृक्षाणां देवर्षीणाञ्च नारदः। गन्धर्व्वाणां चित्ररथः सिद्धानां कपिलोमुतिः। उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्। ऐरावतं गजेन्द्राणां नराणाञ्च नराधिपम्। आयुधानामहं वज्रं धेनूनामस्मि कामधुक्। प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः। अनन्तश्चास्मि नागानां वरुणोयादसामहम्। पितॄणा- णामर्य्य मा चास्मि यमः संयमतामहम्। प्रह्रादश्चास्मि दैत्यानां कालः कलयतामहम्। मृगाणाञ्च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्। पवनः पवतामस्मि रामः शस्त्रभृतामहम्। झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी। सर्गाणामादिरन्तश्च मध्यञ्चैवाहमर्जुन!। अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्। अक्षराणामकरोऽस्मि द्वन्द्वः सामासिकस्य च। अहममेवाक्षयः कालोधाताहं विश्वतोमुखः। मृत्युः सर्व्वहरश्चाहमुद्भवश्च भविष्यताम्। कीर्त्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिः क्षमा। वृहत्साम तथा साम्नां गायत्री च्छन्दसामहम्। मासा० नां मार्गशीर्षोऽहमृतूनां कुसुमाकारः। द्यूतं छलयता मस्मि तेजस्तेजस्विनामहम्। जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्वयतामहम्। वृष्णीनां वासुदेवोऽस्मि पाण्डवामां धनञ्जयः। मुनीनामप्यहं व्यासः कवीनामुशना कविः। दण्डोदमयतामस्मि नीतिरस्मि जिगीषताम्। मौनं चेवास्मि गुह्यानां ज्ञानं ज्ञानवता महम्। यच्चापि सर्वभूतानां वीजं तदहमर्ज्जुन!। न तदस्ति विना यत् स्यान्मया भूतं चराचरम्। नान्तीऽस्ति मम दिव्यानां विभूतीनां परन्तप!। एष तूद्देशतः प्रोक्तोविभूतेर्विस्तरोमया। यद्यद्विभूतिमत् सत्त्वं श्रीमदूर्ज्जितमेव वा। तत्तदेववावगच्छ त्वं मम तेजोऽशसम्भवम्। अथ वा बहुनोक्तेन किं ज्ञातेन धनञ्जय!। विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितोजगत्”। ८ नृपे च।

ईश्वरसाक्षिन् = पु० ईश्चर एव साक्षी। वेदान्तिमतसिद्धे मायो पहिते चैतन्ये स च वेदान्तपरिभाषायां दर्शितो यथा “ईश्वरसाक्षी तु मायीपहितं चैतन्यं तच्चैकं तदुपाधिभूतमायाया एकत्वात् “इन्द्रोमायाभिः पुरुरूपईयत” इत्यादि श्रुतौ मायाभिरिति बहुवचनस्य मायागतशक्तिविशेषाभिप्रायतया मायागतसत्वरजस्तमोरूपगुणाभिप्रायतया चोपपत्तिः। “मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम्। तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते। योगो मायाममेयाय तस्मै विद्यात्मने नमः”। “अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः। अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः” इत्यादिश्रुतिषु एकवचनेन लाघवानुगृहीतेन मायाया एकत्वं निश्चीयते। ततश्च तदुपहितं चैत्यन्यमीश्वरसाक्षी तच्चानादि तदुपाधेर्मायाया अनादित्वात्। मायावच्छिन्नं चैतन्यञ्च परमेश्वरः मायायाविशेषणत्वे ईश्वरत्वं उपा- धित्वे साक्षित्वम् इतीश्वरत्वसाक्षित्वयोर्भेदः न तु धर्म्मिणोरी श्वरतत्साक्षिणोः। स च परमेश्वर एकोऽपि स्वोपाधीभूतमायानिष्ठसत्वरजस्तमोगुणभेदेन ब्रह्मविष्णुमहेश्वरादिशब्दवाच्यतां मजते। नन्वोश्वरानादित्वे “तदेक्षत बहु स्यां प्रजायेय इत्यादौ सृष्टिपूर्व्वसमये परमेश्वरस्यागन्तुकमीक्षणमुच्यमानं कथमुपपद्यते?। उच्यते। यथा विषयेन्द्रियसन्निकर्षादिकारणवशेन जीवोपाध्यन्तःकरणस्य वृत्तिभेदा जायन्ते तथा सृज्यमानप्राणिकर्म्मवशेन परमेश्वरोपाधीमूतमायया वृत्तिविशेषाः इदमिदानीं स्रष्टव्यमिदमिदानीं पालयितव्यमिदमिदानीं संहर्त्तव्यमित्याकारावृत्तिभेदाजायन्ते तासाञ्च वृत्तीनां तत्प्रतिविम्बितन्यस्य च सादित्वमिति”

ईश्वरी = स्त्री ईश्वरस्य शिवस्य पत्नी ङीप्। १ दुर्गायाम्। “ईश्वरीमीश्वरपियाम्” दुर्गास्तवः। ईश- वनिप् ङीप् रान्तादेशश्च। २ लिङ्गिनोलतायां ३ बन्ध्याकर्कट्याम्, ४ क्षुद्रजटालतायाम्, ५ नाकुलीवृक्षे च। ऐश्वर्य्यान्वितायां स्त्रियाम् च। “ईश्वरी सर्वभूतानां त्वामिहोपह्वयेश्रियम्” श्रीसूक्तम्।

ईष = उञ्छे (उद्धृतशस्यक्षेत्रात्, कणश आदाने) तु० प० सक० सेट्। ईषति ऐषीत्। ईषाम् बभूव आस चकार। ईषिता ईष्यात् ईषिष्यति ऐषिप्यत् “विश्वस्मादीषतो यजमानस्य परिधिः” तैत्ति०।

ईष = दाने ईक्षणे, सर्पणे हिंसने च भ्वादि० आत्म० सक० सेट्। ईषते। ऐषिष्ट ईषास्व बभूव आस चक्रे। ईषिता ईषिषीष्ट ईष्यते ऐषिष्यत। ईषत् ईषा “शूरस्येव त्वेषथादीषतेवयः” ऋ० १, १४१, ८। “अस्मादहं तन्विषादीषमाणः” ऋ० १, १७१ ४७।

ईष = पु० ईष–क। उत्तममनोः पुत्रभेदे। “औत्तमेयान् महाराज! दश पुत्रान् मनोरिमान्। ईष ऊर्जस्तनूर्ज्जश्च मधुर्माधव एव च। शुचिः शुक्रं सहश्चैव नभस्यो नभएव च” हरिवं० ७ अ०।

ईषत् = अव्य० ईष–अति। १ अल्पे, २ किञ्चिदर्थे च। “ईषत्सहासममलं परिपूर्णचन्द्रविम्बानुकारि” देवीमा० ईषदीषदनवोतविद्य या तातमातृमुदमाविवर्द्धयन्” कुसुमा०। “ईषदकृता” प्रा० समा०। ईषदुष्णः ईषत्पाण्डु। ३ सूक्ष्मार्थे च “ईषद्धौतं नवं शुक्लं सदशं यन्न धारितम्” वशिष्ठः। “ईषत् सूक्ष्मतन्तुकमिति रघुनन्दनः” एतदुपपदे धातोः खल् ईषत्करः ईषद्दमः। दृशादेस्तु युच् वा। ईषद्दर्शः ईषद्दर्शनः। एतत्पूर्ब्बे आढ्ये उपपदे खल् ईष- दाढ्यङ्करः “ईषदाढ्यङ्करोऽप्येषः भट्टिः ईषदाढ्यम्भवम्।

ईषत्कर = न० ईषत् कृ–खल्। १ लेशे, ३ अल्पे च। ३ अल्पप्रयाससाध्ये त्रि०।

ईषत्पाण्डु = पु० “ईषदकृतेति” पा० स०। १ अल्पपाण्डौ धूसरवर्णे २ तद्वति त्रि०

ईषदुष्ण = पु० “ईषदकृतेति” पा० स०। अल्पतप्ते १ मन्दोष्णे २ तद्वति त्रि०

ईषद्रक्त = पु० “ईषदकृतेति” सा० स०। अल्परक्तवर्णे १ अव्यक्तरागे २ तद्वति त्रि०

ईषा = स्त्री ईष–क। १ शकटस्य दीर्घकाष्ठे “देवानामित्युपस्तम्भनस्य पश्चादीषाम्” कात्या० २, ३, १४, “शकटस्य दोर्घं काष्ठमीषा” वेददी०। २ रथावयवभेदे च “ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन्” भा० व० २४० अ० “पाञ्चालस्य रथस्येषामाप्लुत्य सहसाऽपतत्” भा० आ० १३८ अ०। ३ हलयुगयोर्मध्यमकाष्ठे ४ लाङ्गलदण्डे च।

ईषादन्त = पु० ईषेव दन्तोऽस्य। १ दीर्घदन्तगजे २ उदग्रदन्ते त्रि०

ईषिका = स्त्री ईषेव “ईवे प्रतिकृताविति” पा० कन्। १ गजाक्षि गोलके, २ तूलिकायाम, ३ अस्त्रविशेषे च। “सोऽभिमन्त्र्य शरेषीकामीषिकास्त्रेण वीर्य्यवान् काकं तमभिसन्धाय ससर्ज पुरुषर्षभः” रामा०। फर्फरीकादि० नि० ईषीकापि। तूलिकायाम् तृणभेदे “सोऽभिमन्त्र्य शरेषीका मीषिकास्त्रेण वीर्य्यवान्” ईशिकेति तालव्यमध्योऽप्यत्रार्थे।

ईषिर = पु० ईष हिंसने किरच्। अग्नौ उज्ज्वलदत्तः।

ईष्म = पु० ईष–सर्पणे करणे मक्। १ कामदेवे ईष ईक्षणे कर्म्मणि मक्। २ वसन्तर्त्तौ च उज्ज्वल०।

ईह = चेष्टने भ्वादि० आत्म० अक० सेट्। ईहते ऐहिष्ट ऐहिढ्वम् ऐहिध्वम्। ईहाम्–बभूव आस चक्रे ईहिता ईहिषीष्ट ईहिष्यते ऐहिष्यत। ईहनम् ईहा ईहमानः ईहितः “शक्तस्यानीहमानस्य किञ्चिद्दत्त्वा पृथक् क्रिया” स्मृतिः। “ऐहिष्ट तं कारयितुं कृतात्मा” भट्टिः। प्रियाणि वाञ्चन्त्यसुभिः समीहितुम्। “हन्तुं क्रोधवशादीहाञ्चक्राते तौ परस्परम्” इति च किरा०। अस्य इच्छापूर्ब्बकचेष्टापरत्वे सक० “नेहेतार्थान् प्रसङ्गेन” मनुः। “तस्या राधनमीहते” गोता।

ईहा = स्त्री ईह–अ। १ चेष्टायाम्, २ उद्यमे, ३ वाञ्छायाञ्च। “ईहादेहार्थन। शःस्याज्जन्मर्क्ष उपतापिते। ज्योति०।

ईहामृग = पु० इहां मृगयते अण् ईहाप्रधानो वा मृगः पशुभेदः। (नेकडावाघ)। १ वृके ईहया ईहासाध्वो मृगः। २ कृत्रिममृगे अलङ्कारशास्त्रलक्षिते ३ नाटकभेदे च साहि० ६ परि०। यथा “ईहामृगो मिश्रवृत्तश्चतुरङ्कः प्रकीर्त्तिलः। मुखप्रतिमुखे सन्धी तत्र निर्व्वहणं तथा। नरदिव्यावनियमौ नायकप्रतिनायकौ। ख्यातौ धीरोद्धतावन्यो गूढभावादयुक्तकृत्। दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छतः। शृङ्गाराभासमप्यस्य किञ्चित् किञ्चित् प्रदर्शयेत्। पताका नायका दिव्या मर्त्यावापि दशोद्धताः। युद्धमानीय संरम्भंपरं व्याजान्निवर्त्तते। महात्मानो बधंप्राप्ता अपि बध्याः स्युरत्र नो। एकाङ्कोदेव एवात्र नेतेत्याहुः परेपुनः। दिव्यस्त्रीहेतुकं युद्धं नायकाः षडितीतरे। मिश्राणि ख्याताख्यातानि। अन्यः प्रतिनायकः पताकानायकास्तु नायकप्रतिनायकयोर्मिलिता दश। नायको मृगवदलभ्यां नायिकामत्र ईहते वाञ्छतीतीहामृगः यथा कुसुमशेखरविजयादि”

ईहावृक = पु० ईहाप्रधानो वृक। (नेकडियावाघ) ईहामृगे।

ईहित = त्रि० ईह क्त। १ चेष्टिते २ अपेलिते भावे क्त। ३ उद्योगे ४ चरिते न। “समीहितार्थसिद्धिःस्यात्” तन्त्रम्। इति वाचस्पत्ये ईकारादिशब्द–निरूपणम्।

—उ—

उ- = शब्दे भ्वादि० अक० आ० अनिट्। अवते औष्ट। उवे ओता ओषीष्ट ओष्यते औष्यत। अवनम् उतः। “उवे अम्ब सुलाभिके यथेवाङ्ग भविष्यति” ऋ० १०, ८६, ७।

= अव्य० उ–क्विप् न तुक्। १ सम्बोधने २ कोपवचने, ३ अनुकम्पायां, ४ नियोगे (अवधारणे) “उमेति मात्रा तपसे निषिद्धा पश्चादुमाख्यां सुमुखी जगाम” कुमा०। “उदु ष्य देवः सविता स, वाय” ऋ० २, ३८, १। “उपो रुरुचे युवतिर्न योषा” ऋ० ७, ७७, १। “वेत्थो यथेमं लोकं पुनरापद्यन्त इति” वृह० उ०। “एष उ एवासाधु कर्म्म कारयति तम्” श्रुतिः ५ अङ्गीकारे ६ प्रश्ने च” हेमच० ७ पादपूरणे। अतति सातत्येन तिष्ठति अत–डु। ८ शिवे पु०। स्वरूपार्थे कारः उकारोऽपि शिवे “अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वंरः। मकारस्तु स्मृतो ब्रह्मा प्रणवस्तु त्रयार्थकः” इति ओमित्यस्य अवयवार्थनिरूपणे पुरा०। उशब्दात् स्वरूपार्थे कारः। उकारः। पञ्चमस्वरे। स च उत्तानुदात्तस्वरितभेदेन प्रयमं त्रिधा पुनः अनुनासिका ननुनासिकभेदेन प्रत्येकं द्विधेति षट्विधः कारतकारानुत्तरस्तु ह्रस्वदीर्घप्तुतभेदेन त्रिविधोऽपि प्रत्येकं प्रागुक्तभेदषट्कात् अष्टादशविधः। तस्य वर्णस्य कूण्डलिनीरूत्वादिनाध्येयत्वमुक्तम् कामधेनुतन्त्रे यथा “उकारं परमेशानि। विदुः कुण्डलिनीं स्वयम्। पीतचम्पकसङ्काशं पञ्चदेवं सदाऽमलम्। पञ्चप्राणमयं देवि! चतुर्वर्गप्रदायकम्” तन्त्रान्तरे अकारोकारमकारात्मकप्रणवस्य मध्ये द्वादशकलात्मकार्कमण्डलरूपेण अकारस्य, षोडशकलात्मकचन्द्रमण्डलरूपेण उकारस्य, दशकलात्मकवह्निमण्डलरूपेण च मकारस्य ध्येयत्वोक्त्या अभेदोपचारात् षोडशकला त्मके, ९ चन्द्रमण्डले च तत्र मकारान्तस्यैव तन्नामतेति बहवः। उ, इत्यस्य एकाज् निपातत्वात् प्रगृह्यसंज्ञा तेन अचि परे न सन्धिः। उ–उमेशः” सि० कौ०। “एष उ वासाधुकर्म्म कारयति तम्” श्रुतिः। स चचादिगणीयः।

उकानह = पु० पीतरक्तवर्ण्णे कृष्णरक्तवर्णे च घोटके। हारा०

उकार = पु० उ–स्वरूपार्थे कारः। १ उस्वरूपे वर्ण्णे। “अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः। वेदत्रयात् निरदुहत् भूर्भुवःस्वरितीति च” मनुः। २ महेश्वरे च उशब्दे उ०।

उक्त = त्रि० वच–दुहा० गीण कर्मणि क्त। यस्य ज्ञानाय कथ्यते १ तादृशे जने। “अनुक्तेनापि वक्तव्यं सुहृदा हितमिच्छता” नीतिः “तथेत्युक्ता च सा देवी” पुरा० गौणकर्मासमभिव्याहारे तु मुख्ये कर्मणि क्त। २ कथिते वाक्यादौ ३ शक्त्याबोधिते “उक्तानि प्रतिषिद्धानिपुनः सम्भावितानि च”। स्मृतिः “उक्तार्थानामप्रयोगः व्या० प०। भावे क्त कथने न०। “सम्प्रत्यसाम्प्रतं वक्तुमुक्ते मुसलपाणिना” माघः। ४ एकाक्षरपादके छन्दोभेदे स्त्री मेदि० “उक्तात्युक्ता तथा मध्येति” वृत्त० र० केचिदत्र “उक्थात्युक्थेति पठित्वा उक्थाशब्दस्तदर्थे इत्याहुः। उकश्च प्रायेण अभिधाशक्त्या बोधितार्थ एव। “प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते। यथा गुणे तथा तद्वदनुक्ताऽपि प्रतीयते” भर्त्तृ०। शक्तिः कारकशक्तिरित्यर्थः।

उक्ति = स्त्री वच–भावे क्तिन्। कथने। “अतिसंक्षिप्तचिरन्तनोक्तिभिः” मुक्ता०। उक्तिप्रत्युक्तिरूपं वाकोवाक्यम्” छा० भा० २ शब्दशक्तौ च “एकयोक्त्या पुप्पवन्तौ दिवाकरनिशाकरौ” अमरः।

उक्थ = न० वच–थक्। अप्रगीतमन्त्रसाध्ये “स्त्रोत्रे “इन्द्राय नन मर्मयोक्थानि च ब्रवीत नः” ॠ० १, ८४, ५। “उक्था- निं अप्रगीतमन्त्रसाध्यानि स्त्रीत्राणि” भा० “अथ योऽसावन्तरक्षिणिं पुरुषो दृश्यते सैवर्क् तत् साम तद्यजुःतदुक्थं तद्ब्रह्म” छा० उ०। तथा हि स्तोत्रं द्विविधं प्रगीतमन्त्रसाध्यभप्रगीतमन्त्रसाध्यञ्च तत्र प्रगीतमन्त्रसाध्यं शस्त्रम् अप्रगीतमन्त्रसाध्यन्तु स्तोत्रमिति तयोर्भेदः। गवामयने प्रायणीयसंज्ञकाहे पाठ्यपञ्चदशस्तोत्रात्मके २ चतुर्विंशस्तोमभेदे उपचारात् ३ तत्साध्ये उक्थ्ययागे च तद्विधानञ्च” ता० ब्रा० ४ अ० ३ ख० उक्तं यथा “१ प्रायणीयमहर्भवति” १ इत्युपक्रम्य “चतुर्विंशं भवति” ४ क० “इदमहरुक्थसंस्थन्तत्र सर्वेषु स्तोत्रेषु चतुर्विंशएव स्तोमः कार्य्यः ४। तदेतत् प्रशंसति” भा०। “चतुर्विंशत्यक्षरा गायत्री तेजोब्रह्मवर्चसङ्गायत्री तेज एव ब्रह्मवर्चसमारभ्य स्वर्यन्ति” ५। “अयञ्च स्तोमश्चतुर्विंशतिसंख्याकः गायत्री च चतुर्विंशत्यक्षरा सा च गायत्री तेजः, प्रजापतिमुखादग्निना सहोत्पन्नत्वात् अस्यास्तेजीरूपं ब्रह्मवर्चसं च तेजोऽवान्तरभेद इति तेजोब्रह्मवर्चसरूपा गायत्री। एवं सति चतुर्विंशतिस्तोमं प्रथमतः प्रयुञ्जानाः साक्षादेव प्रत्यक्षमेव संवत्सरं प्रारभन्ते अस्मिन्नहनि प्रयुञ्जानाः संख्याद्वारेण तेजोब्रह्मवर्चसञ्चारभ्य अवष्टभ्य स्वर्य्यन्ति स्वर्गं गच्छन्ति ५। पुनरपि विहितं स्तोमम् अनूद्य प्रशंसति” भा०। “चतुर्विंशतिर्भवति चतुविंशो वै संवत्सरः साक्षादेव संवत्सरमारभन्ते” ६। “चतुर्विंशत्यर्द्धमासात्मकत्वात् संवत्सरस्य चतुर्विं शत्वं तथा सति चतुर्विंशस्तोमं प्रथमतः प्रयुञ्जानाः साक्षादेव प्रत्यक्षमेव संवत्सरमारभन्ते ६। अथेमं स्तोमं स्तोत्रीयागतसंख्याद्वारेण प्रशंसति” भा०। “यावत्यश्चतुर्विशस्योक्थस्य स्तीत्रीयास्तावत्यः संवत्सरस्य रात्रयः स्तोत्रीयाभिरेव संवत्सरमाप्रुवन्ति” ७। “पञ्चदशस्तोत्रे अस्मिन्नहनि पञ्चदशसु स्तोत्रेषु प्रत्येकं चतुर्विंशस्तोत्रीयायुक्तेषु परिगणनायां मिलित्वा षष्ट्युत्तरत्रिशतस्तोत्रीया भवन्ति। तथा सति चतुर्विंशस्तोमस्य यावत्यः स्तोत्रीयाः संवत्रस्यापि तावत्योरात्रयः एव” प्रयुञ्जानाः सत्रिणस्तेन चतुर्विंशेन स्तोत्रीयाभिरेव संवत्सरं प्राप्नुवन्ति ७। स्तोत्रसंख्ययापीदमहः पशंसति” भा०। “पञ्चदश स्तोत्राणि भवन्ति पञ्चदशार्द्धमासस्य रात्रयोऽर्द्धमासश एव तत्संवत्सरमाप्नुवन्ति ८। “स्पष्टोर्थः ८”। अथ स्तोत्रशस्त्राणि समुच्चित्य तत्संख्ययापीदमहः प्रशंसति” भा० “पञ्चदश स्तोत्राणि पञ्चदश शस्त्राणि समासो मासश एव नत् संवत्सरमाप्नुवन्ति ९” स्पष्टोऽर्थः ९ भा०। तत्राग्निष्टोम- कर्त्तव्यतारूपं पूर्वपक्षमुपन्यस्योत्तरपक्षमाह “अथो खल्वाहुरुक्थमेव कार्य्यमह्नः समृद्ध्यै” १३। “अथो इति पूर्वपक्षव्यावृत्त्यर्थः। उक्थसंस्थमेवैदहः कार्य्यः किमर्थमह्नः समृद्ध्यै सम्पूर्णताया इति ब्रह्मवादिन आहुः। अग्निष्टोमे हि पूर्वयोः सवनयोः पञ्च पञ्च स्तोत्राणि तृतीये तु द्वे एवेत्यह्रः समृद्धिर्न भवति, उक्थे तु तृतीयसवने पञ्च स्तोत्राणीत्यहः समृद्धं भवति १३। उक्थसंस्थाङ्गीकारे युक्त्यन्तरमाह” भा०। “सर्व्वाणि रूपाणि क्रियन्ते सर्व्वं ह्येतेनाप्यते” १४ “उत्तरेषामह्नां सम्बन्धीनि यानि रूपाणि स्तोमपृष्ठविभक्त्यादीनि तान्यस्मिन्नुक्थे क्रियन्ते अतः सर्वं हि यज्ञसम्बन्धिरूपं तेनाह्ना उक्थसंस्थेन आप्यते प्राप्यते तत उक्थसंस्थैव कार्य्येत्यर्थः। सर्वरूपकरणञ्च सर्व्वावाप्तिश्च सम्पादानद्वारेणेति निदानकारेणैवमुच्यते, “अथो खल्वाहुः सर्व्वाणि रूपाणि क्रियन्त इति” आचार्य्याः एतेष्वेव सर्व्वान् स्तोमान् सर्वाणि पृष्ठानि सर्वा विभक्तीर्दशरात्ररूपा इति विभक्तिमात्रेण कल्पयन्त इति संगृह्योक्त्वा पुनस्त्रिवृत्पञ्चदशौ चतुर्विंशः सम्पाद्यत इत्यादिना” १४ भा०। एतान्येव स्तोमपृष्ठादीनि प्रत्येकं क्रमेण विविच्य तत्र प्रदर्शितानि तत्सर्वं तत एवागन्तव्यम्। तत्र च तस्मिन्नहनि यथा स्तोमादिकं विधेयम् तदपि तत्रैव दर्शितं ततएव तदवसेयम्। अत्र उक्थसाध्ययागे अभेदोपचार इति बोध्यम्। ४ होत्रायां स्त्री उक्थाशस्त्रशब्दे उदा० उच्यतेऽनेन करणे थक्। ५ उक्थसाधने प्राणे च “यस्य क्षणवियोगेन लोकोऽह्यप्रियदर्शनः। उक्थेन रहितोह्येष मृतकः प्रोच्यते यथा” भाग० १ स्क० १५ अ०।

उक्थपत्र = पु० उक्थानि अप्रगीतमन्त्रसाध्यानि स्तोत्राणि पत्रं वाहनमिव यस्य। १ यज्ञे, स्तोत्रैरेव हि यज्ञोवाह्यते इति तस्य तथात्वम्। “समिद्धे अग्नावधिमामहान उक्थपत्र ईड्योगृभीतः” यजु० १७, ५५। “यजमानोवै माम हान उक्थपत्र इत्युक्थानि ह्येतस्य पत्राणि” शत० ब्रा० ९, २, ३, ९ इत्युक्ते २ यजमानेऽपि।

उक्थपात्र = न० ६ त०। यजमाने तस्य उक्थस्तावकत्वात्तथात्वम्।

उक्थभृत् = पु० उक्थं बिभर्त्ति, सम्यक्विभजते भृ–क्विप् ६ त०। उक्थविभाजके ऋषिभेदे “उक्थभृतं सामभृतं बिभर्त्ति ग्रीवाणम्” ऋ० ७, ३३, १४। उक्थभृतं उक्थानां स्तोत्राणां संभक्तारम्”।

उक्थवर्द्धन = पु० उक्थैः स्तोत्रैर्वर्द्ध्यतेऽसौ वृध–णिच् कर्भणि ल्युट्। स्तोत्रैर्वर्द्धनीये इन्द्रदेवे। “त्वं हि स्तोमवर्द्धन इन्द्रास्युक्थवर्द्धनः” ऋ० ८, १४, ११। “उक्थैःशस्त्रैर्वर्द्धनीयः” भा०। इन्द्रस्य यथा उक्थवर्द्धनीयत्वं तथोक्तं “उक्थमिन्द्राय शंस्यं वर्द्धनं पुरुनिष्षिधे” ऋ० १, १०, ५, “इन्द्रायेन्द्रार्थं वर्द्धनं वृद्धिसाधनम् उक्थं शस्त्रम्” भा०

उक्थवाहस् = पु० उक्थानि शस्त्राणि वहति वह–असुन् णिच्च। शस्त्रपाठके विप्रे “यं विप्रा उक्थवाहसोऽभिप्रमं दुरायवः” ऋ० ८, १२, १३,। उक्थवाहसः उक्थानां शस्त्राणां वोढारः” भा०।

उक्थशंसिन् = पु० उक्थानि शस्त्राणि शंसति शन्स–णिनि। शस्त्रस्तावके ऋत्विग्भेदे “नयसीति द्विषः कृणोष्युक्थशंसिनः” ऋ० ६, ४५, ६। स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम्” ऋ० ८, १०३, ४।

उक्थशस् = पु० उक्थं शस्त्रंशंसति क्विप्। शस्त्रस्तावके। उक्थशास्शब्दे उदा०। पदकाले सर्व्वत्र तस्य ह्रस्वमध्यपाठः। स च छान्दसो ह्रस्वैति माधवः। क्विप् प्रत्ययेनैवोपपत्तौ न छान्दसत्वमित्यन्ये। “तस्मादुक्थशसं भूयिष्ठं षरिचक्षते” शत० ब्रा०। १०, ५, २, ५।

उक्थशास् = पु० उक्थानि शंसति शन्स–ण्वि नि० नलोपः उप० स०। शस्त्रशंसके। “शुचीदयन्दीधितिमुक्थशासः” ऋ० ४, २, १६। “अस्य पदकाले ह्रस्वश्छान्दसः” माधवः। “नीहारेण प्रावृता जल्प्याचासुतृप उक्थशासश्चरन्ति” ऋ० १०, ८२, ७। “नरः शंसन्त्युक्थशास उक्था” ऋ० ७, १९, ९।

उक्थशुष्म = त्रि० उक्थं शस्त्रं शुष्मं बलं यस्य। उक्थरूपबलयुक्ते स्तवादिवाक्ये “समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसम्” ऋ० ६, ३६, ३। “उक्थशुष्मान् वृषभरान्त्स्वप्नसस्तां” ऋ० १०, ६३, ३।

उक्थादि = पु० ६ त०। तदधीते वेत्ति वेत्यऽर्थे विहित–ठक्प्रत्ययनिमित्ततया पाणिन्युक्ते शब्दसमूहे स च गणः “उक्थलोकायत न्याय न्यास पुनरुक्त निरुक्त निमित्त द्विपद ज्योतिष अनुपद अनुकल्प यज्ञ धर्म्म चर्च्चा क्रमेतर श्लक्ष्ण संहिता पद क्रम संघट्ट वृत्ति परिषद् संग्रह गण गुण आयुर्वेद तन्त्रायुर्वेद”। “उक्थं सामविशेषस्तल्लक्षणपरोग्रन्थविशेषोलक्षणया तदधीते वेद वा औक्थकः मुख्यादुक्थशब्दाट्ठगणौ नेष्येते” सि० कौ०।

उक्थामद = न० उक्या होत्रया माद्यति मद–अच्। उक्थासाधने स्तोमभेदे “अग्निर्यजुर्भिः सविता स्तोमैरिन्द्र उक- थामदैर्वृहस्पतिश्छन्दोभिः” कठसं० “वृहस्पतिरुक्थामदानि शंसिषम्” ऐत०।

उक्थावो = त्रि० उक्थानि अवति अव–ई। शस्त्रस्तावके “वृहद्वते वयस्वत उक्थाव्यं गृह्णामि” यजु० ७, २२।

उक्थाशस्त्र = न० उक्था होत्रा च शस्त्राणि च द्वन्द्वः। होत्रायामृचि शस्त्रे च। “छन्दोभिरुक्थाशस्त्राणि साम्नावभृथ आप्यते” यजु० १९, २८।

उक्थिन् = पु० उक्थं स्तुत्यतयाऽस्त्यस्य उक्थ + इनि। १ शस्त्रस्तावके होत्रादौ। “प्र वामर्च्चन्त्युक्थिनो नीथाविदोजरितारः” ऋ० ३, १२, ५, “उक्थं शस्त्रं तद्वन्तः शस्त्रिणो होत्रादयः” भा०। “तदद्याचित्त उक्थिनोऽनुष्टुवन्ति पूर्व्वथा” ऋ० ८, १५, ६। उक्थं स्तोत्रसाधनतयाऽस्त्यस्य इनि। २ शस्त्रस्तुत्ये इन्द्रादौ। “हिरण्यपर्ण्णमुक्थिनं रशनां बिभ्रतं वशिं भगमिन्द्रं वयोधसम्” यजु० २८, ३३ उक्थं शस्त्रं संस्काराङ्गसाधनतयाऽस्त्यस्व इनि। ३ शस्त्रसाध्ये संस्कारयुक्ते सोमादौ। “तुभ्येदिन्द्र! मरुत्वते सुताः सोमासो अद्रिवः हृदा हूयन्त उक्थिनः” ऋ० ८, ७६, ८। “उक्थिनोऽन्या होत्रा उक्थिनःशस्त्रवन्तः सोमाः अनुक्था अन्याः” ऐत०।

उक्थ्य = त्रि० उक्थमर्हति यत्। शस्त्रस्तुत्ये देवादौ। “इन्द्रः सहस्त्रदाव्नां वरुणः शंस्यानां क्रतुर्भवत्युक्थ्यः” ऋ० १, १७, ५। “उकुथ्यः स्तुत्यः” भा० “होता गृणीत उक्थ्यः” ऋ० १, ७९, १२। २ उक्थसाधने शस्त्रे च। “गाय गायत्रमुक्थ्यम्” ऋ० १, ३८, १४। उक्थ्यं शस्त्रयोग्यं गायत्रमुक्थ्यम्” भा०। उक्थसम्बन्धित्वात् ३ शस्त्रेऽपि। “उक्थ्यं वाचि घोषाय त्वेति शस्त्वा जपेत्” आश्व० श्रौ० ५, ९, २६। “उक्थ्यं शस्त्रं शस्त्रसम्बन्धितया” नारा० वृत्तिः। “सोमयागात् परं कर्त्तव्येषु षट्सु यागेषु मध्ये ४ यज्ञभेदे स च। “प्रथमं सोपा” इत्युपक्रम्य “षडुत्तरे” “अत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्यामः कात्या० १०, ९, २७, २८ विहितः। तत्प्रकारस्तु तत्रैव दर्शितः प्राक्। तस्य उक्थसाध्यत्वात् उक्थ्यमिति नाम। “उक्थे तु होत्रकाणाम्” १। “तृतीयसवनैव्यनुवर्त्तते। उक्थे त्वयं विशेषः। तृतीयसवने होत्रकाणामपि शस्त्राणि भवेयुः। तानीमानीत्याह” वृत्तिः। “एह्युषु ब्रुवाणि तआग्निरगामि भारतश्चर्षणीधृतमस्तभ्राद्यामसुर इति तृचाविन्द्रावरुणा युवमावां राजानाविन्द्रावरुणा मधुमत्त- मस्येति याज्या। वयमु त्वामपूर्व्वयो न इदमिदं पुरेति प्रगाथौ। सर्वाः ककुभः प्रमंहिष्ठायोदप्रुतोऽच्छाम इन्द्रं वृहस्पते युवमिन्द्रश्च वस्व इति याज्या। अघाहीन्द्र गिर्वण इयन्त इन्द्र गिर्वण क्रतुर्जनित्रीनू मर्त्तो भवामित्रः स वां कर्मणेन्द्राविष्णू मदपती मदानामिति याज्या” २। “अत्र सर्वाः ककुभ इत्युक्तं किमनेनोक्तम्। काकुभेषु तावत् प्रगाथेषु तृतीयपञ्चमयोरभ्यासे सति ककुभ एव सर्वा भवन्ति। तथैव च स्तुवन्ति छन्दोगाः। अतोऽन्यत् प्रयोजनमन्वेषणीयम्। तदिदमुच्यते। होत्रकाश्च येषां प्रगाथाः स्तोत्रीयानुरूपा इतीन्द्रनिहवब्राह्मणस्पत्यवच्छंसनं विहितम्। तत्र वार्हतानामेवायं विधिरित्युक्तत्वात् काकुभेष्वनुप्राप्नोति तन्निवृत्त्यर्थं ककुभ इति वचनम्। सवग्रहणं सर्वकाकुभप्रगाथसंग्रहार्थम्। तेन वार्हतेष्वेवासौ विधिरिति मन्तव्यम्। “इत्यन्त उक्थ्यः” ३। “एवमन्त उक्थ्यः क्रतुरित्यर्थः। इत्यन्तोऽग्निष्टोम इत्यस्यानन्तरम् एतानि शस्त्राण्युक्थ्यः इत्यन्ते उक्थ्य इत्येतावत्युच्यमाने एतानि शस्त्राण्युक्थ्य एवेति गम्यते। तत् किमर्थमुक्थे तु होत्रकाणामित्यत्रोक्थग्रहणम्। अयमभिप्रायः। अथ सोमेनेति त्रिष्वध्यायेषु ज्योतिष्टोमाख्यः सोमयागोऽधिकृतः, स च संस्याभेदान्नामभेदाच्चतुर्धा भिन्नो व्युत्पादितो भवति। तत्र सर्वत्र सोमेन यजेतेत्येतद्विधिविहित एवैको यागः केनचिदुपाधिवशेनाभ्यस्तो भिन्नो नाम प्रतीयते। अतः सर्वेषां प्रकरणित्वे प्राप्ते अग्निष्टोम एव प्रकरणी, अन्ये तस्यैव गुणा विकारा इति ज्ञापयितुमुक्थ्य इत्युच्यते। उक्थ्य एतावदेवौपदेशिकं, अन्यत् सर्वमातिदेशिकमित्यर्थैत्येवं आश्व० श्रौ० ६, १, क० तस्य प्रकारोऽमिहितः उक्थेन संस्कार्य्ये ग्रहरूपे ५ पात्रभेदे। “उक्थ्यमुपयाम गृहीत, इति” कात्या० ९, ६, २१। “उक्थ्यादि” कात्या० १४, २, १० उक्थ्यग्रहणादि प्राकृतं कर्म्म भवति उक्थ्यस्थाल्या उक्थ्यसंज्ञकं ग्रहं गृह्णाति” कर्कः। प्रागुक्थ्यान्मरुत्वतीयमृतुपात्रेण इन्द्रमरुत्व इति” कात्या० १०, १, १४। आग्रवणग्रहणानन्तरमुक्थ्यग्रहणात् प्रागिति” कर्कः।

उक्ष = सेचने भ्वा० सक० प० सेट्। उक्षति औक्षीत् उक्षाम्–बभूव आस चकार। उक्षिता उक्ष्यात् उक्षिष्यति औक्षिष्यत्। उक्षितव्यः उक्षणीयः उक्ष्यः। उक्षिता उक्षन् उक्षितः। उक्षा उक्षणम्। उक्षित्वा समुक्ष्य। कर्म्मणि उक्ष्यते औक्षि उक्ष्यमाणः “उक्षन्त्यस्मै मरुतो हिताइव” ऋ० १, १६६, ३, “औक्षन् शोणितमम्भोदाः” भट्टिः। “उक्षां प्रचक्रुनेगरस्य मार्गान्” भट्टिः। अव्यवधाने एवामुप्रयोगविधानात् प्रशब्दव्यवघानान्नामुप्रसक्तिरतोऽत्र जयमङ्गलेन उक्षान्प्रचक्रुरिति पठितम् उक्षान् सिक्तानिति तदर्थः “घृतमुक्षता मधुवर्ण्णमर्चते” ऋ० १, ८७, २, “गङ्गाप्रवाहोक्षितदेवदारु” कुमा०। “गन्धवद्रुधिरचन्दनोक्षिता” “किञ्चिदुक्षितशिखण्डकावुभौ” रघुः। क्वचिन्दस्व पदव्यत्ययः। “अहमपो अपिन्वमुक्षमाणाः” ऋ० ४, ४२, ४ “तमुक्षमाणमव्यये वारे पुनन्ति” ऋ० ९, ९९, ५ “प्रसव्यमात्मानमुदकैः पर्य्युक्षन्ते” आश्व० श्रौ०। उक्षणञ्च द्रव्यद्रव्येण संयोगविशेषजनकव्यापारः। (सेचा)।अभि + अवतानपाणिना सेचने। “उत्तानेनैव हस्तेनप्रोक्षणं परिकीर्त्तितम्। न्यञ्चताऽभ्युक्षणं प्रोक्तं तिरश्चाऽवोक्षणं स्मृतमिति” छन्दोप० उक्तेः तथार्थत्वम्। अभ्युक्षणशब्दे विवृतिः “परस्पराभ्युक्षणतत्पराणाम् रघुः। “शिरसि शकुन्तलामभ्युक्ष्यं” शकु०। “अथाद्भिरभ्युक्षति, एष वा अपां सम्भारो यदद्भिरभ्युक्षति” शत० ब्रा० २, १, १, ३,।अव + तिर्य्यक्पाणिना सेचने “दध्ना मधुमिश्रेणावोक्षति” तैत्ति०। “उद्धतमवोक्षितं भवति यत्रैनमुपावहरत्युद्धते वा अवोक्षितेऽग्निमादधति” शत० ब्रा० ६, ४, ४, १८, “उद्धत्यावोक्षति यत्रैनमुपावहरति” शत० ब्रा० ६, ८, १, १२,। “तिरश्चाऽवोक्षणं स्मृतम्” छन्दोग०।आ + समन्तात् ईषद् वा सेचने “आ नोगव्यूतिमुक्षतं घृतेन” ऋ० ७, ६२, ५ व्यवहिताश्चेति उपसर्गस्य व्यवधानम्।उद् + ऊर्द्ध्वदेशात् सेचने। “किं तृतीयभेतां दिशमुदौक्षीः”? शत० ब्रा० ११, ५, ३, ४।उप + सामीप्येन सेचने। “अधस्तादुपोक्षत्यापोदेवीः” शत० ब्रा० ३, ७, ४, ६”।निस् + निशेषेण सेचने। “यत्स्रुच्यप आनीय निरौक्षिषम्” शत० ब्रा० ११, ५, ३, ७।परि + वेष्टनाकारेण समन्तात् सेचने “प्रसव्यमुदकैरात्मानं पर्य्युक्षन्ते” आश्व० ६, १२, “प्रसव्यं वामावर्त्तनेन वेष्टयित्येत्यर्थः ना० वृ०। “आहवनीयं पर्य्युक्ष्योदधारां निनयत्या गार्हपत्यात्” कात्या० ४, १३, १६, “पर्य्युक्ष्य हस्तगृहीतेनोदकेन समन्तात् सिक्त्वा” कर्कः। “पर्य्युक्षितं समिदसि” कात्या० ४, १४, ३०।प्र + उत्तानहस्तेन सेचने “उत्तानैनैव हस्तेन प्रोक्षण परिकी- र्त्तितम” छन्दो० उक्तेस्तथार्थता “अपिधानं प्रोक्षिताभ्याम्” कात्या० ९, १०, ४,। “तं यज्ञं वर्हिषि प्रौक्षन् पुरुषं जातमग्रतः” ऋ० १०, ९०, ७, “प्रोक्षिताः स्थ अग्नये त्वा जुष्टं प्रोक्षामि। अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि” यजु० १, १३, “कृष्णोऽस्याखरेष्ठो अग्नये त्वा जुष्टं प्रोक्षामि। वेदिरसि बर्हिषे त्वाजुष्टां प्रोक्षामि। बर्हिरसि स्रुग्भ्यस्त्वा जुष्टं प्रोक्षामि” यजु० २, १, “रक्षोहणो वो बलगहनः प्रोक्षामि वैष्णवान्” यजु० ५, २५, “संस्कारः पुंस एवेष्टः” प्रोक्षणाभ्युक्षणादिभिः” कुसुमा० “इत्यक्तेः पुरुषसंस्कार इति नैयायिकाः। मीमांसकमते द्रव्यसंस्कारः इति भेदः अभ्युक्षणशब्दे विवृतिः। “प्रोक्षितं भक्षयेन्मासम्” मनुः।सम् + प्र + सम्यक् प्रोक्षणे। “प्राणानायम्य संप्रोक्षेत्तृचेनाब्दैवतेन तु” या० स्मृतिः।वि + विशेषेण सेचने “ज्रयो वि रोरुवज्जठरे विश्वमुक्षते” ऋ० १०, ९२, ५। “व्यवहिताश्चेति” पा० उपसर्गव्यवधानम्। “केशमिश्रेव हास तां व्यौक्षदोषं धयेति” शत० ब्रा० २, २, ४, ५।अभि + वि + आभिमुख्येन विशेषेण सेचने। “तत्तस्मादु तथैव संसृज्याम् यथाग्निं नांभिव्युक्षेत्” शत० ब्रा० १, ३, १, १०सम् + सम्यक् सेचने। “समुक्षितं सुतं सोमम्” ऋ० ३, ६०, ५। “इदं ते अन्नं युज्यं समुक्षितम्” ऋ० ८, ४, १२

उक्ष = त्रि० उक्ष–अच्। १ सेक्तरि “सुप्रतिष्ठा मनोवृहदुक्षाय नः” यजु० ७, ८४, कर्मणि घञ्। २ सिक्ते “उक्षान् प्रचक्रुः” भट्टिः

उक्षण = न० उक्ष–ल्युट्। द्रवद्रव्येण संयोजनव्यापारे “वसिष्ठमन्त्रोक्षणजात् प्रभावात्” रघुः।

उक्षतर = पु० अल्प उक्षा ह्रस्वत्वे तरप्। अप्राप्तवाहनावस्थे वृषे।

उक्षन् = पु० उक्ष–कनिन्। १ वृषे, २ ऋषभौषधौ च। “विदलितमहाकूलामुक्ष्णां विषाणविघट्टनैः” माघः। “उक्षेव यूथापरियन्नरावीत्” ऋ० ९, ७१, ९। “उक्षा मिमाति प्रति यन्ति धेनवः” ऋ० ९, ६९, ४। “शरद्घनाद्दीधितिमानिवोक्ष्णः” कुमा० “न वराहं न चोक्षाणं न मृगान् विविधांस्तथा” भा० व० १३१। “उक्षाणं पक्त्वा सह ओदनेन तस्मात् कपोतात् प्रति ते नयेद्वा” भा० व० १९६। “नीलं चोक्षाणं मेध्यमप्यालभेत” भा० आश्व० ११ अ०। ३ सेचनकर्त्तरि। सेचके त्रि०। “उक्षा समुद्रो अरुषः सुपर्णः” ऋ० ५, ४७, ३, उक्षा बिभर्त्ति भुवनानि वाजयुः” ऋ० ९, ८३, ३। आत्मन उक्षाणं वृषमिच्छति उक्षीयति वेदे तु न नलोपः। उक्षण्यति। “वयं हि वां हवामहे उक्षण्यन्तो व्यश्ववत्” ऋ०, ६, ९। ततः कर्त्तरि उ उक्षण्यु आत्मनोवृषेच्छौ “व्यश्वस्तावसुविदमुक्षण्युरप्राणादृषिः” ऋ० ८, २३, १८। जातवृद्धमहद्भ्यः परस्य अच् समा०। जातोक्षः वृद्धोक्षः महोक्षः “महोक्षं वा महजां वा श्रोत्रियाय प्रकल्पयेत्” स्मृतिः “विलोक्य वृद्धोक्षमधिष्ठितं त्वया” कुमा०। उक्ष्णोऽपत्यम् अण् टिलोपः। औक्ष्ण तदपत्ये तस्येदमित्यणि अनपत्ये तु नलोपः न टिलोपः। औक्ष सि० कौ० उक्ष्णां समूहः वुञ्। औक्षक वृषसंघे न०। कुरुपूर्व्ववंश्ये ४ राजभेदे च। तस्य गोत्रापत्ये ण्य न वृद्धिः। उक्षण्यतद्गोत्रापत्ये पुंस्त्री०। तदन्तत्वात् फक् उक्षण्यायनः “ऋज्रपुक्षण्यायने रजतं हरयाणे” ऋ० ८, ५, २, २२। “उक्षनामा कश्चित् कुरोः पूर्व्वजः तस्य गोत्रपत्ये उक्षन् शब्दात् ण्यः तदन्तत्वात् फक्। संज्ञापूर्व्वकविधिरनित्य इति न वृद्धिः अयञ्च छान्दसः लोकेऽस्य न प्रयोगः” भा०।

उक्षवश = त्रि० उक्षा वशा वशास्थानीयो यस्य। बन्ध्याऽलाभे वशात्वेन कल्पितवृषके १ यजमानभेदे। तत्र वशारूपादिकमभिधाय वृषस्य तत्प्रतिनिधित्वम्” शत० ब्रा० ४, ५, १, ९, उक्तं यथा “मैत्रावरुणी वशा भवति यत्र वै देवाः रेतः सिक्तं प्राजनयंस्तदग्निमारुत” मित्युपक्रम्य पश्वादीनामुत्पत्तिमभिधाय “अथ यदा न कश्चन रसः पर्य्यशिष्यत त एषा मैत्रावरुणी वशा समभवत् तस्मादेषा न प्रजायते रसाद्धि रेतसः पशवस्तद् यदन्ततः समभवत् तस्मादन्तं यज्ञस्यानुवर्त्तते तस्माद्वा एषात्र न प्रजायते मैत्रावरुणी वशाऽबकॢप्ततमा भवति यदि वशां न विन्देदप्युक्षवश एव स्यात्”। २ वृषायत्ते त्रि०। “उक्षवेहदपि वेहत्स्थानीयकल्पितवृषे यजमाने” शत० ब्रा० उद्विधिरुक्तः।

उक्षित = त्रि० उक्ष–क्त। सिक्ते उक्षधातौ उदा०।

उख = गतौ भ्वादि० पर० सक० सेट्। ओखति औखीत् उवोख ऊखतुः ओखिता उख्यात् ओखिष्यति औखिष्यत् उखा।

उख = गतौ इदित् भ्वादि० पर० सक० सेट्। उङ्खति औङ्खीत्। उङ्खाम्–बभूव आस चकार। उङ्खिता उङ्ख्यात् उङ्खिष्यति औङ्खिष्यत्।

उखर्वल = पु० उख–वलच् रुडागमः किच्च। भूरिपत्रे तृणभेदे रारनि० “बलदो रुचिकारी च पशूनां सर्वदाहितः”। अस्य गुणः राजनि० उक्तः।

उखल = पु० उख–कलच्। मूरिपत्रे तृणभेदे उखर्वलेराजनि०।

उखा = स्त्री उख–क। १ पाकपात्रे पिठरादौ। (हा~डि)। “यन्नीक्षणं मांस्पवन्या उखाया उत पात्राणि यूष्ण आसेचनानि” ऋ० १, १६२, १३। ऋचमेतामाश्रित्यैव “मांस्पवन्या उखायाः” इति पा० भाष्यकृतोदाहृतम्। यज्ञियेष्टकासाधने २ चूल्लीरूपे पदार्थेतत्करणप्रकारः कात्या० श्रौ० १६, १, १, सूत्रादौ उक्तः तच्च इष्टकाशब्दे ९९१ पृष्ठे दर्शितम्। “उखास्रत्” सि० कौ० शत० ब्रा० तु स्थालीपरोखाशब्दस्य निरुक्तिरन्यथैवोक्ता यथा। “अथेनमुखयान्नं बिभर्त्ति इमे वै लोका उखा इमे वा एतं लोका यन्तमर्हन्ति एभिरेतं लोकं देवा अबिभरुरेभिरेवैनमेतल्लोकैर्बिभर्त्त्योषा यदुखा नाम एतद्वै देवता वैतेन कर्मणैतयावृतेमा~ लोकानुदखनन् यदुखनंस्तस्मादुत्खा उत्खा वैतामुखेत्याचक्षते परोक्षं, परोक्षकामा हि देवाः” ६, ७, १, २२, २३। अस्य “न क्रोडादिबह्वच” पा० क्रोडादिगणपाठत् स्वाङ्गवाचिताऽपि तेन वृहदुखेत्यत्र न ङीष् उखायां संस्कृतं यत्। उख्य तत्र संस्कृते त्रि०। भवार्थे दिगा० यत्। उख्य उखाभवे त्रि०। तस्य वर्ग्यादि० कर्म्मधारयसमासे आद्योदात्तता।

उख्य = त्रि० उखायां संस्कृतं यत्। उखासंस्कृते मांसादौ “शूल्यमुख्यञ्च होमवान्” भट्टिः उखायां भवः दिगा० यत्। उखाभवे त्रि०। “उख्यान् हस्तेषु बिभ्रतः” अथ० ४, १ ४, २। उख्यानग्नीन्। “अथ यद्येष उख्योऽग्निरनुगच्छेत्” शत० ब्रा० ६, ६, ४, १०। “प्रागनःकृत्वोख्यस्योत्तरतः समिदाधानम्” “अप्सूख्यभस्मावपनं क्रयणीयादौ” कात्या० १६, ६, १०, १५, २३। “संबिलां कृत्वोख्यं निरवपति समितमिति” १७, १, १९। स्त्रियां टाप् ततः कत्र्यादि० जातादौ ढकञ्। औख्येयः उख्याजाते त्रि०।

उगण = त्रि० उद्गूर्ण उदायुधः गणो यस्य पृषो०। उदायुधगणोपेते “याः सेना अभीत्वरीराव्याधिनीरुगणा उत” यजु० ११, ७७, “उगणाभ्यस्तृंहतीभ्यश्च वोनमोनमः” यजु० १६, १४।

उग्र = पु० उच–रक् गश्चान्तादेशः। १ महादेवे, वायुमूर्त्तिधारिणि शिवे क्षत्रियात् ऊढायां शूद्रायामुत्पन्ने २ संकीर्णवर्णे (आगुरी) उग्रपुणत्वात् ३ शोभाञ्जनवृक्षे, ४ केरलदेशे, क्रूरसंज्ञके “उग्रः पूर्व्वमघान्तका” इति ज्योतिषोक्ते ५ नक्षत्रपञ्चके च ६ वत्सनाभाख्ये विषे न०। ७ उत्कटे त्रि०। ८ वचायां, ९ यवान्यां, १० धन्याके, ११ उग्रजातेः स्त्रियां च स्त्री टाप्। तत्र “शिववाचकोग्रनामनिरुक्ति” र्यथा “तमव्रवीदुग्रोऽसीति तद्यदस्य तन्नामाकरोत् वायुस्तद्रू- पमभवद्वायुर्वा उग्रस्तस्माद्यदा वलवद्वात्युग्रीवातीत्याहुः सोऽब्रवीत् ज्यायान् वा अतोऽस्मि” शत० ब्रा० ६, १, ३, १३। उक्तश्रुत्युक्तेः १२ वायौ पु०। उग्ररूपत्वादेव अष्टमूर्त्तिपूजने उग्राय वायुमूर्तये नम इति तिथितत्त्वे उक्तम्। शूदस्य विप्रकन्यायां जात उग्र इति स्मृतः” उशनसोक्ते १३ चाण्डालरूपवर्णसंकरे च क्षत्रियाच्छूद्रकन्यायां क्रूराचार विहारवान्। क्षत्रशूद्रवपुर्जन्तुरुग्रनामा ततोऽभवदिति मनूक्तादयं भिन्नः” “क्षत्त्र, ग्रपुक्कसानान्तु बिलौकोबधबन्धनमिति” मनुः करणेन समा चास्य वृत्तिर्भार्गवनिर्म्मिता” स्मृतिः अस्योग्रस्य। १४ उत्कृष्टे त्रि०। “उग्रं शर्म महि श्रवः” यजु० २६, १६। १५ असुरभेदे पु० “विप्रचित्तिः शिविः शङ्कुः” इत्युपक्रम्यासुरगणनायां “वेगवान् केतुमानुग्रः सोग्रव्यग्रोमहासुरः” हरिवं० ३६३ अ०। तत्र वचायाम् “वत्साह्वयप्रियङ्गूग्रायष्ट्याह्वयरसाञ्जनैः” “उग्रा कुष्ठम्” तीक्ष्णगन्धा विडङ्गं श्रेष्ठं नित्यं चावपीडे करञ्जम्”। “विडङ्गभल्लातकचित्रकोग्राकटुत्रिकाम्भोदसुराष्ट्रजाश्च” इति च सुश्रु० १६ तीक्ष्णवीर्य्ये त्रि०। १७ कालिकावरणभेदे स्त्री। “विप्रचित्ता तथोग्रोग्रप्रभा दीप्ता घनत्विषः” कालीकवचम्। १८ उग्रतारायोगिनीभेदे च। “महाकाल्यथ रुद्राणी उग्रा भीमा तथैव च” कालिकापु०। १९ दीर्घे च उग्रनासिकः। २० सर्व्वकार्य्येषु उद्यते “उग्रासोवृषण उग्रवाहवः इति” ऋ० ८, २०, १२। उग्रासः उद्गूर्ण्णा सर्वकार्य्येषु उद्यताः” भा० उव–समवाये इति धातोर्निष्पन्नतया क्रोधतीक्ष्णरसादिना विशेषसम्बन्धात् एषां च सर्वेषाम् उग्रत्वम्। उग्रप्रभोग्रदंष्ट्रादियोगिनीभेदेऽपि उत्कटाद्यर्थता ज्ञेयम्” भा०।

उग्रक = त्रि० उग्र + संज्ञायाम् कन्। नागभेदे। नागनामाख्याने “आर्य्यकश्चोग्रकश्चैव नागः कनकपोतकः” भा० आ० ३५ अ०। २ शूरे च “उग्रपुत्रशब्दे उदा०।

उग्रकर्म्मन् = त्रि० उग्रं कर्म्मास्य। १ हिंस्रे पश्वादौ २ प्राणिहिंसके २ क्रूरादौ च।

उग्रकाण्ड = पु० उग्रः काण्डीऽस्य। (करेला) कारविल्ले वृक्षभेदे राजनि०।

उग्रगन्ध = पु० उग्रः गन्धः पुष्पादावस्य। १ चम्पके, २ कट्फले ३ अर्जकवृक्षे ४ लशुने च। ५ हिङ्गुनि न०। ६ उत्कटगन्धाढ्ये त्रि०। ७ यवान्याम् ८ वचायाम् ९ अजमोदायाञ्च स्त्री टाप्। राजनिघण्टुमेदिनी।

उग्रचण्डा = स्त्री० उग्रा चण्डा कोपनां कर्म्म०। १ देवीभेदे। तदाविर्भावः कालिका० पु० ५९, ६० अ० उक्तः “उग्रचण्डा तु या मूर्त्तिरष्टादशभूजाऽभवत्। सा नवम्यां पुरा कृष्णपक्षे कन्यां गते रवौ। प्रादुर्मूता महाभागा योगिनीकोटिभिः सह”। अनयैव मूर्त्त्या दक्षयज्ञो विनाअतिः। यथा “आषाढस्य तु पूर्णायां सत्रं द्वादश वार्षिकम्। दक्षः कर्त्तुं समारेभे वृताः सर्व्वे दिवौकसः। ततोऽस्मिन् न वृतस्तेन दक्षेण सुमहात्मना। कपालीति सती चापि तज्जायेति च नो वृता। ततो रोषसमायुक्ता प्राणांस्तत्याज सा सती। त्यक्तदेहा सती चापि चण्डमूर्त्तिस्तदाऽभवत्। ततः प्रवृत्ते सत्रे तु तस्मिन् द्वादशवाषिके। नवम्यां कृष्णपक्षे तु कन्यायां चण्डमूर्त्तिधृक्। योगनिद्रा महामाया योगिनीकोटिभिः सह। सतीरूपं परित्यज्य यज्ञभङ्गमथाकरोत्। शङ्करस्य गणैः सर्व्वैः सहिता शङ्करेण च। स्वयं बभञ्ज सा देवी महासत्रं महात्मनः”। “उग्रचण्डा प्रचण्डा च चाण्डोग्रा चण्डनायिका” इत्युक्ते २ दुर्गावरणभेदे च।

उग्रता = स्त्री अग्रस्य भावः कर्म वा तल्। उग्रस्य १ भावे २ कर्म्मणि च ३ अलङ्कारोक्ते व्यभिचारिगुणभेदे। तल्लक्षणं सा० द०। “शौर्य्यापराधादिभवं भवेच्चण्डत्वमुग्रता। तत्र स्वेदशिरःकम्पतर्ज्जनातडनादयः”। त्व। उग्रत्व तद्भावकर्म्मणोः न०। ष्यञ्। औग्र्य तत्रैव न०।

उग्रतारा = स्त्री उग्रादपि भयात् तारयति भक्तान् तॄ–णिचच् ५ त०। तारारूपायां देव्याम्। “तारकत्वात् सदा तारा महामोक्षप्रदाविनी। उग्रापत्तारिणी यस्मादुग्रतारा प्रकीर्त्तितैति तन्त्रोक्ताऽस्य वा निरुक्तिः। तदाविर्भावः कालिकापु० ८१ अ० “विनिःसृतायां देव्यास्तु मातङ्ग्याः कायतस्तदा। भिन्नाञ्जननिभा कृष्णा साऽभूद्गौरी क्षणादपि। कालिकाख्याऽभवत् सापि हिमाचलकृताश्रया। तामुग्रतारामृयषो वदन्तीह मनीषिणः। उग्रादपि भयाद्रक्षेत् यस्मात् भक्तान् सदाम्बिका। एषेवैकजटाख्यातिं यस्मात्तस्या जटैकिका। शृणृतं चिन्तनं चास्याः सम्यक् वेतालभैरवौ!। यथा ध्यात्वा महादेवीं भक्तः प्राप्तोत्यभीप्सितम्। चतुर्भुजां कृष्णवर्णां मुण्डमालाविभूषिताम्। खडगं दक्षिणपाणिभ्यां बिभ्रतीन्द्रवरं त्वधः। कर्त्रीञ्च खर्परञ्चैव क्रमाद्वामेन बिभ्रतीम्। खं लिखन्तीं जटामेकां विभ्रतीं शिरसा स्वयम्। मुण्डमालाधरां शीर्षे ग्रीवायामपि सर्व्वदा। वक्षसा नागहारन्तु पिभ्रतीं रक्तलोचनाम्। कृष्णवस्त्रधरां कट्यां व्याघ्राजिनसमन्विताम्। वामपादं शवहृदि संस्थाप्य दक्षिणं पदम्। विन्यस्य सिंहपृष्ठे तु लेलिहानां शवं स्वयम्। साट्टहास महाघोरारावयुक्तातिभीषणा। चिन्त्योग्रताराः कततं भक्तिमद्भिः सुखेप्सुभिः” अन्यत्र च “रूपं शृणु नरश्रेष्ठ! येन ध्येया सदा शिवा। कृष्णा लम्बोदरी दीर्घा विरला रक्तदन्तिका। चतुर्भुजा कृशाङ्गी तु दक्षे कर्तृकखर्परौ। खड्ग चेन्दीवरं वामे शीर्षे त्वेकजटां पुनः। वामपादं शवस्योर्व्वोर्निधायोत्थाप्य दक्षिणम्। शवस्य हृदये न्यस्य साट्टहासं प्रकुर्व्वती। नागहारशिरोमालाभूषिता कामदा परा”। अस्यारूपविषये बहुविप्रतिपत्तिरस्तीत्यतस्तन्निरूपणं तावत् क्रियते राघवकृते पञ्चकल्पतरौ मन्दारवृक्षप्रकरणे श्रीशङ्कराचार्य्य कृतैतदीयमूर्त्तिप्रकाशकस्तोत्रं यथा। “ज्वलत्पाबकज्वालयोज्ज्वालभास्वच्चितामध्यसंस्थां सुपुष्टां सुखर्वाम्। शवं वामपादेन कण्ठे निपीड्य स्थितां दक्षिणेनाङ्घ्रिणोरू निपीड्य। वृहद्भीमलम्बोदरीं मेघवर्ण्णां समुत्तुङ्गपीनस्तना भोगरम्याम्। जवारागरागप्रवृत्तत्रिनेत्रां ललज्जिह्वया दंष्ट्रया भीषणास्याम्। लसद्द्वीपिचर्म्मावृताङ्गीं नितम्बे जटाजूटमध्यस्थितेन्दीवरालीम्। शिरोदेशभास्वत्पिशङ्गाभसर्पां जटाजूटमध्यस्थिताक्षोभ्यमूर्तिम्। मिथः केशबन्धात् शिरश्छिन्नसद्योगलच्छोणितां मानवीं मुण्डमालाम्। दधानां च पञ्चाशदाख्यानसंख्याम् अतश्छिन्नमुण्डालिसंनामिताङ्गीम्। समाच्छिन्नमांसोत्करामूर्द्धदक्षे स्फुरत्पाणिना धारयन्तीं महासीम्। करे वाम ईषत्स्फुरद्रक्तनालं लसन्नीलपङ्केरुहं धारयन्तीम्। करे सव्य उच्चैरधस्ताद्दधानां शितां कर्त्तृकां वामपाणौ कपालम्। जगद्वर्त्तिसंसारसंजातजाड्यं स्वतः कर्त्तृकाधारया खण्डयन्तीम्। विचित्रास्थिमालं करालं कपालं ललाटे च पञ्चान्वितं धारयन्तीम्”। इति तत्रैव मन्त्रप्रदीपे “महाष्टासिद्धिप्रकटाहिभूषणाम् इत्यनेन अष्टनागानामष्टसिद्धिरूपत्वोक्त्या तेषां भूषणविशेषरूतया यथा स्थितिस्तथा तत्रैव दर्शितं यथा। “जटास्वनन्तः श्रवसोश्च तक्षको महादिपद्मो हृदि हारभूषणम्। तथैव कर्कोटकृतोपवीतकम् स मेखलायामथ देवि! वासुकिः। स शङ्खपालः किल कङ्कणोद्गतः करेषु, पद्मः पदयुक्समाश्रयः। भुजेषु नागः कुलिकोऽङ्गदे मतः” इति “तेषां वर्ण्णा अपि क्रमशोदर्शिताः सितोऽथ रक्तीधवलश्च मेचकः तथैव पोतोऽप्यसिप्तश्च पाटलः। भुजङ्गमानामिह वर्णजातयो भवन्ति सर्वेषु नरेषुसन्ति ताः”। ततश्चायं निर्गलितार्थः। अभ्रं लिहपिशङ्कैकजटा जवाकुसुमसङ्काशतक्षकनागकृतकुण्डला शुभ्रशेषनागकृतहारा दूर्व्वा- दलश्यामनागकृतयज्ञोपवीता नीलवर्ण्णा लम्वोदरी खर्वा चतुर्भुजा तत्र उपरि दक्षिणे सरक्तमांसखण्डमण्डितमुष्टिनिविष्टजटाजूटसंलग्नोग्रखड्गविभूषितकरा उपरि वामे रक्तनालकिञ्चिद्विकस्वरनीलोत्पलकरा अधस्तात् दक्षिणे वीजभूषितकर्त्तृकालङ्क्रतकरा अधस्तात् वामे त्रिजगज्जाड्यखण्डककपालमण्डितकरा भुजचतुष्टये धूम्राभनागकृतकेयूरा कनकाभनागकृतकङ्कणा शवारूढा प्रत्यालीढस्थानाधिष्ठिता निर्भरयन्त्रणाप्रायेण शवहृदयस्थितदक्षिणचरणा शवोरुद्वयस्थितप्रासारितवामपादा कुन्दाभनागकृतकटीसूत्रा पाटलनागकृतनुपूरालङ्कृता सद्यश्छिन्नगलद्रधिरान्योन्यकेशग्रथितपादपद्म प्रलम्बित–पञ्चाशत्तमनृमुण्डमाला ज्वलदनलचितामध्यस्थिता द्वीपिचर्म्मालङ्कृतकृष्णवस्त्रा योषिदखिलालङ्कारभूषिता मौलावक्षोभ्यरूपनागभूषिता पञ्चसंख्यान्वितकपालमालाभूषितललाटा ललज्जिह्वा वृहद्दंष्ट्रा इत्येवं रूपा। अत्र प्रमाणवाक्ययोः शवहृदयस्थत्वे वामदक्षिणपादयोर्विकल्पैत्यतोमूर्त्तिद्वयमित्यन्ये। प्रत्यीलाढपदाङ्घिशवहृदित्युक्तेः आलोढं दक्षिणं पादं प्रत्यालीढं तु वामकमित्युक्तेः आलीढशब्दे दर्शितवाक्याच्च प्रत्यालीढशब्दस्य आलीढविपर्य्ययरूपत्वात् वामचरणस्यैव शवहृदयस्थितिरिति तु न्याय्यम्।

उग्रधन्वन् = पु० उग्रं धनुर्यस्य ब० स० अनङ् समा०। १ शिवे २ शत्रुभिरसह्यधनुष्के त्रि०। “स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा सयुध इन्द्रोगणेन। संसृष्टजित् सोमपा बाहुशर्द्ध्यु ग्रधन्वा प्रतिहिताभिरस्ता” ऋ० १०, १०३, ३।

उग्रनासिक = त्रि० उग्रा दीर्घा नासिका यस्य। दीर्घनासिके।

उग्रपुत्र = पु० उग्रस्य शूरस्य पुत्रः। १ शूरवंशजाते। “काश्यो वा वैदेहोवोग्रपुत्रः उज्ज्यं धनुरधिज्यं कृत्वा” शत० ब्रा० १४, ६, ८। “उग्रपुत्रः शूरान्वयः” भा० “उग्रस्य शिवस्य पुत्रः। २ कार्त्तिकेये। उग्र उद्गूर्ण्णः पुत्रो यस्मिन्। ३ तादृशे गभीरजलाशये “आ~ उग्रपुत्रे जिघांसतः” ऋ० ८, ६७, ११। उग्रपुत्रे उग्राः उद्गूर्ण्णाः पुत्रायस्मिन् तत्तस्मिन्नुदके” भा०।

उग्रम्पश्य = त्रि० उग्रं पश्यति उग्र + दृश–खश् मुम्। पापाशयतया क्रूरदृष्टियुक्ते उग्रजन्तौ व्याघ्रादौ “उग्रम्पश्याकुलेऽरण्ये” भट्टिः।

उग्रव्यग्र = पु० असुरमेदे उग्रशब्दे उदा०।

उग्रशेखरा = स्त्री उग्रस्य शेखरं वासस्थानत्वेनास्त्यस्याः अर्श० अच्। गङ्गायाम् शब्दरत्न० सा हि तस्य शिरसि स्थिता

उग्रश्रवस् = पु० उग्रम् उत्कृष्टं श्रुतिधरं श्रवः कर्णो यस्य। १ रोमहर्षणे सौतौ। “लोमहर्षण उग्रश्रवाः सौतिः पौराणिको नैमिषारण्ये” आ० १ अ०। २ धृतराष्ट्रपुत्रभेदे च। तत्पुत्रनामाख्याने “उग्रश्रवा उग्रसेनः क्षेममूर्त्तिस्तथैव च” भा० आ० ६७ अ० “उग्रश्रवा उग्रसेनः सेनानीर्दुष्पराजयः” भा० आ० ११७ अ०।

उग्रसेन = पु० उग्रा सेना यस्य। १ धृतराष्ट्र पुत्रभेदे, उग्रश्रवश्शब्दे उदा०। २ कुरुवंश्ये नृपभेदे। “कुरोस्तु पुत्राश्चत्वारः सुधन्वा सुधनुस्तथा। परिक्षिच्च महाबाहुः” इत्युपक्रम्य “परिक्षितस्तु दायादो धार्मिको जनमेजयः। जनमेजयस्य दायादास्त्रय एव महारथाः। श्रुतसेनोग्रसेनौ च भोमसेनश्च नामतः” हरि० ३२ अ०। अयञ्च जनमेजयः अभिमन्युपौत्रात् भिन्नएव। अतएव “द्वावृक्षौ तव वंशेऽस्मिन् द्वावेव च परिक्षितौ। भीमसेनास्त्रयोराजन्! द्वौ चापि जनमेजयौ” इति जनमेजयं प्रति तत्रोक्तम्। यदुवंश्ये ३ नृपभेदे च। “अन्धकञ्च महाबाहुं वृष्णिञ्च यदुनन्दनम्” इत्युपक्रम्य “अन्धकात् काश्यदुहिता चतुरोऽलभतात्मजान्। कुकुरं भजमानञ्च शमं कम्बलबर्हिषम्। कुकुरस्य सुतोधृष्णुर्धृष्णोसु तनयस्तथा। कपोतरोमा तस्याथ तैत्तिरिस्तनयोऽभवत्। जज्ञे पुनर्वसुस्तस्मादभिजिच्च पुनर्वसोः। तथा वै पुत्रमिथुनं बभूवाभिजितः किल। आहुकश्चाहुकी चैव ख्यातौ ख्यातिमतां वरौ” इत्याहुकोत्पत्तिमभिधाय “आहुकस्य तु काश्यायां द्वौ पुत्रौ संबमूवतुः। देवकश्चोग्रसेनश्च देवगर्भसमावुभौ। नवोग्रसेनस्य सुताः तेषां कंसस्तु पूर्व्वजः” हरि० ३८ अ०।

उग्रसेनज = पु० जायते इति जन–ड ६ त०। कंसे तस्योग्रसेन क्षेत्रेऽसुरजातत्वेन तत्पुत्रत्वम्। कंसशब्दे विवृतिः

उग्रादेव = पु० उग्रेणादीव्यति आ + दिव–अच् ३ त०। राजर्षिभेदे “अग्निना तुर्वशं यदुं परावत उग्रादेव~ हवामहे” ऋ० १, ३६, ३८, उग्रादेवनामकञ्च राजर्षिम्” भा०।

उग्रायुध = पु० उग्राणि आयुधान्यस्य। १ पौरवे राजभेदे तस्योत्पत्तिभीष्महननकथादि हरिवं० २० अ०। “अजमीढस्य दायादः” इत्युपक्रम्य तद्वंशपरम्परा उक्त्वा “तस्य वै सन्नतेः पुत्रः कृतो नाम महाबलः” इति कृतो त्पत्तिमुक्त्वा। “कार्त्तिरुग्रायुधः सोऽथ वीरः पौरव नन्दनः। बभूव येन विक्रम्य पृषतस्य पितामहः। नीपोनाम महातेजाः पञ्चालाधिपतिर्हतः। उग्रायुधस्य दायादः क्षेम्यो नाम महायशाः। क्षेम्यात् सुवीरो नृपतिः सुवीरात्तुनृपञ्जयः। नृपञ्जयाद्बहुरथ इत्येते पौरवाः स्मृताः। सचाप्युग्रायुधस्तात। दुर्बुद्धिरभवत्तदा। प्रवृद्ध चक्रो बलवान्नीपान्तकरणो महान्। स दर्पपूर्णोहत्वाजौ नीपानन्यांश्च पार्थिवान्। पितर्युपरते मह्यं श्रावया मास किल्विषम्। महामात्यैः परिवृतं शयानं धरणीतले। उग्रायुधस्य राजेन्द्र! दूतोऽभ्येत्य वचोऽब्रवीत्। अद्य त्वं जननीं भीष्म! गन्धकालीं यशस्विनीम्। स्त्रीरत्नं मम भार्य्यार्थे पयच्छ कुरुनन्दन!। एवं राज्यञ्च ते स्फीतं धनानि च न संशयः। प्रदास्याभि यथाकाम महं वै रत्नभाग् भुवि। मम प्रज्रलितं चक्रं निशम्येदं सुदुर्ज्जयम्। शत्रवो विद्रवन्त्याजौ दर्शनादेव भारत! राष्ट्रस्येच्छसि चेत् स्वस्ति प्राणानां वा कुलस्य वा। शासगे मम तिष्ठस्व न हि ते शान्तिरन्यथा। अधःप्रस्तारशयने शयानस्तेन नोदितः। दूतोऽन्तर्हितमेतद्वै वाक्यमग्नि शिखोपमम्। ततोऽहं तस्य दुर्बुद्धेर्विज्ञाय मतमच्युत!। आज्ञापयं वै संग्रामे सेनाध्यक्षांश्च सर्वशः। विचित्रवीर्य्यं बालञ्च मदुपाश्रयमेव च। दृष्ट्वा क्रोधपरीतात्मा युद्धायैव मनोदधे। निगृहीतस्तदाऽहं तैः सचिवैर्मन्त्रकोविदैः। ऋत्विग्भिर्द्देवकल्पैश्च सुहृद्भिश्चार्थदर्शिभिः। स्निग्धैश्च शास्त्रविद्भिश्च संयुगस्य निवर्त्तने कारणं श्रावितश्चास्मि युक्तरूपं तदाऽनघ!”। “प्रवृत्तन्तस्य तच्चक्रमधर्म निरतस्य वै। परदाराभिलाषेण सद्यस्तात निवर्त्तितः। नत्वहं तस्य जाने तन्निवृत्तं चक्रमुत्तमम्। हतं स्वकर्म्मणा तन्तु पूर्व्वं सद्भिश्च निन्दितम्। कृतशौचः शरी चापी रथी निष्क्रम्य वै पुरात्। कृतस्वस्त्ययनो विप्रैः प्रायोध यमहं रिपुम्। ततः संसर्गमागम्य बलेनास्त्रबलेन च। त्र्यहमुन्मत्तवद्युद्धं देवासुरमिवाऽभवत्। स मयाऽस्त्रप्रतापेन निर्द्दग्धोरणमूर्द्धनि। पपाताभिमुखः शूरस्त्यक्त्वा प्राणानरिन्दम!। एतस्मिन्नन्तरे तात! काम्पिल्यात् पृषतोऽभ्यगात्। हते नीपेश्वरे चैव हते चोग्रायुधे नृपे। अहिच्छत्रं स्वकं राज्यं पित्र्यं प्राप महाद्युतिः। द्रुपदस्य पिता राजन्ममैवानुमते तदा” भा० हरिव० २० अ० २ धृतराष्ट्रपुत्रभेदे। तन्नामकीर्त्तने भा० आ० ६७ अ०। “उग्रायुधोभीमशरः कनकायुर्दृढायुधः”।

उग्रेश = पु० उग्राणामुत्कटरूपाणां प्रमथानामीशः। प्रमथाधिपे शिवे। “शङ्करं भवमीशानं पिनाकशूलपाणिनम्। त्र्यम्बकं शिवमुग्रेणं बहुरूपमुमापतिम्” भा० व० प० १०६ अ०।

उङ्कुण = पु० उमिति कृत्वा कुण्यते हिंस्यते कुण कर्म्मणि घञ्र्थेक। (उकुण्) उत्कुणे। शब्दमाला।

उच = समवाये दि० पर० सक० सेट्। उच्यति इरित् औचत्,औचीत् उवोच ओचिता उच्यात् ओचिष्यति औचिष्यत् उचितः उग्रः। “उवोचिथ हि मघवन् देष्णम्” ऋ० ७, ३७, ३। उचतिः सेबाकर्मेति माधवः “अभि वा एष एतानुच्यति” तैत्ति०। “नियो गृभं पौरुषेयीमुवोच” ऋ० ७, ४, ३। “तत्र सेदिन्युच्यतु सर्वाश्च यातुधान्यः” अथ० २, १४, ३।

उचथ = न० उच्यते स्तूयतेऽनेन वच–कथन्। स्तोत्रे “यद्वां मानास उचथमवोचन्” ऋ० १, १८२, ८। उचथम् स्तोत्रम्” भा०। “एवात इन्द्रोचथमहेम” ऋ० २, १९, ७। “कुविन्नो अग्निरुचथस्य” ऋ० १, १४३, ६।

उचथ्य = त्रि० उचथं स्तोत्रमर्हति यत्। १ स्तुत्ये २ राजभेदे पु० “उचथ्ये वपुषि यः स्वराट्र” ऋ० ८, ४६, २८। “उचथ्ये स्तुत्ये। यद्वा उचथ्यो वपुश्च राजानौ” भा०।

उचित = त्रि० उच–क्त वच–कितच् वा। १ शस्ते २ परिविते, ३ युक्ते। “अमात्यैरिव नीवारभागधेयोचितैर्मृगैः” दिनानि दीनोद्धरणोचितस्य” “प्रविश्य भीमासुरशोणितोचितः” महीध्रपक्षव्यपरोपणोचितम्” रघुः “सार्द्धं कथञ्चिदुचितैः पिचुमर्द्दपत्रैः”। “स्पर्शमुष्णमुचितं दधच्छिखी” मावः। “वंशोचितत्वादभिमानवत्याः” किरा०।

उच्च = त्रि० उत्क्षिय्य वाहू चीयते, उपर्य्युपरिनिविष्टैरवयवैश्चीयतेऽसौ वा उद् + चि–ड। १ उन्नते। “पुरस्तादुच्चम्” कात्या० ७, १, २१। “स तदुच्चकुचौ भवन् प्रभाझर–चक्रभ्रमिमातनोति यत्” नैषधम्। अस्मात् उत्कर्षे तरप् तमप्। “किंस्वित् गुरुतरं भूमेः किं स्विदुच्चतरञ्च खात्” भा० व० ३१ अ०। उच्चतमम्” कात्या० ७, १, १५। देवयजनवर्णने “परितः समीपदेशवर्त्तिप्रदेशेभ्यो यदतिशयेनोच्चम्” कर्कः। राशिचक्रमध्ये ग्रहविशेषाणां २ राशिभेदे, यथा “मेषो वृषो मृगः कन्या कर्कमीनतुलाधराः। भास्करादेर्भवन्त्युच्चाः राशयः क्रमशस्त्विमे” ज्योति० त०। स्पष्टमुक्तं तत्रैव “रविर्मेषे वृषे चन्द्रो गुरुः कर्के बुधः स्त्रियास्। शनिर्युके (तुलायाम्) मृगे (मकरे) भौमः शुक्रो मीने च तुङ्गिनः”। तेषां राशिभागभेदे परमोच्चतामाह तत्रैव “त्रिंशद्भागे दिशो (१०) रामाः (३) अष्टविंशतिभिस्तिथिः १५। तथेषुः (५) सप्तविंशश्च विंशतिश्चोच्चसंज्ञकाः”। तथा च रवेर्भेषस्य दशमे भागे, प्ररमोच्चता चन्द्रस्य वृषे ३ अंशे, कुजस्य मकर २८ भागे बुधस्य कन्यायाः १५ भागे, गुरोः कर्क ५ भागे, भृगोः मीन २७ भागे शनेस्तुला २० भागे तथात्वम्। “स्वोच्चाच्च सप्तमं नीचं प्राग्वद्भागैर्विनिर्द्देशेत्। उच्चान्तः सूच्चसंज्ञः स्यात् नीचान्ते तु सुनीचकः” परिपूर्णबलः सूच्चे सुनीचे दुर्बलोग्रहः। सूच्चसुनीचयोरन्तर्भागहारात् फलं दिशेत्” ज्योति० त० राहुकत्वोस्तु “उच्चं नृयुग्मं घटभं त्रिको णं कन्यागृहं शुक्र शनी च मित्रे। सूर्य्यः शशाङ्कोधरणीसुतश्च राहो रिपुर्विंशतिकः परांशः। सिंहस्त्रिकोणं धनुरुच्चसंज्ञं मीनोगृहं शुक्रशनी विपक्षौ। सूर्य्यारचन्द्राः सुहृदः समानौ जीवेन्दुजौ षष्ट्शिखिनः परांशाः” ज्यो० त०। राशिपरत्वेऽस्य पुंस्त्वं भपरत्वे क्लीवतेति भेदः। भागहारात् ग्रहबलमुक्तं तदानयनप्रकारः नी० ता० सूर्य्यादेर्मेषादीन्युच्चान्यभिधाय “तत् सप्तमं नीचमनेन हीनो ग्र होऽधिकश्चेत् रसभाद्विंशोध्यः। चक्रात्, तदंशाङ्कलवो बलं स्यात्” २ तथा च ताजके स्वोच्चे २० कला बलं तेन षड्भिः राशिभर्यदि पूर्णवलं तदा इष्टांशैः किमिति १८०, २०, १, त्रैराशिकेन प्रत्येकाशं १/९ बलमायाति। जातके तु स्वोच्चे ६० कला बलं तेन प्रत्यंशं १/३ बलम्। नी० ताजके “त्रिंशत्स्वभे विंशतिरुच्चभे स्वे” इति उक्तम्। जातके तु श्रीपतिः ६० कला बलमाह यथा “नीचोनोद्युचरोऽधिको यदि भवेत् षड्भात् तदाप्तच्युतश्चक्रात् कॢप्तकलः खखाष्टखकुभि (१०८००) र्भक्तोबलं तुङ्गजम्। पादोनं तु बलं ३/४, त्रिकोणगृहगे स्वर्क्षे १/२ दलं च त्रयो ३/८ वखं शा ह्यधिमित्रगेऽथ चरणो १/४ मित्रे समर्क्षेऽष्टमः। १/८। शत्रुभे भवति षोडंशांशक ११६ श्चाधिशत्रुभवने रदांशकः १/३२। अत्र त्रिकोणादौ पादोनादिवलकथनात् स्वोचचे पूर्णबलमिति प्रतीयते तेन ६० कलास्तत्र थलमु। उच्चाभिमानिनि ग्रहाणां गतिभेदकारके भगणस्थे ३ जीवभेदे तेनैवाकर्षणात् ग्रहाणामुच्चादिगतिसम्भवः।

स चं द्विविधः शीघ्रोच्चः मन्दोच्चश्च तादृशोच्चतायां कारणञ्च सू० सि० रङ्गनाथाभ्यां दर्शितंयथा “अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः। शीध्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः” सू० सि० १। “शीघ्रोच्च मन्दोच्चपातसञ्ज्ञकाः पूर्व्वोक्तपदार्था जीवविशेषाः सूर्य्यादिग्रहाणां गतिकारणभूताः सन्ति। ननु कालेनैव ग्रहचलनं भवतीति कालो गतिहेतुर्नैत इत्यत आह कालस्येति। पूर्व्वप्रतिपादितकालस्य स्वरूपाणि तथा चैषां कालमूर्त्तित्वेन ग्रहगतिहेतुत्वं नासम्भवीति भावः। ननु कालस्य घठ्यादिमूर्त्तित्वादेषां तदात्मकत्वाभावात् कथं कालमूर्तित्वमित्यत आह भगणाश्रिता इति। भगोलस्थक्रान्तिवृत्तानुसृतग्रहगोलस्थकान्तिवृत्तप्रदेशाश्रिता इत्यर्थः। तथा च ग्रहराश्यादिभोगानां कालवशेनैवोत्पन्नत्वात् तदात्मकानां कालमूर्तित्वमिति भावः। ननु ते दृश्यन्ते कुतो नेत्यत आह अदृश्यसूपा इति। वायवीथशरीरा अव्यक्तरूपत्वादप्रत्यक्षा इति भावः। एवं च ग्रहाणामुच्चादिसम्भवात् स्पष्टक्रियोत्पन्नेति तात्पर्य्यम् १। अथानयोरुच्चपातयोर्मध्य उच्चयोर्गतिहेतुत्वं प्रतिपादयति” र० ना० १ “तद्वातरश्मिभिर्बद्धास्तैः सव्येतरपाणिभिः। प्राक् पश्चादप्रकृष्यन्ते यथासन्नं स्वदिङ्मुखम्” २ सू० सि०। “तेषामुच्चसंज्ञकजीवानां वायुरूपा ये रश्मयो रज्जवस्ताभिर्बद्धा बिम्बात्मकग्रहास्तैरुच्चसंज्ञकजीवैः सव्यवामहस्तैरुच्चबहुत्वेन हस्तबाहुल्याद्बहुवचनं हस्ताभ्यामित्यर्थः। स्वदिङ्मुखं स्वाभिमुखं यथासन्नं ग्रहविम्बं भवति तथा ग्राक् पश्चात् पूर्ब्बपश्चिममार्माभ्यामित्यर्थः। अपकृष्यन्ते आकष्यन्ते। अयमभिप्रायः भवक्रगोलस्यक्रान्तिवृत्तानुसृतग्रहाकाशगोलान्तर्गतक्रान्तिवृत्ते कक्षारूपे स्वस्वप्रदेशे ग्रहोच्चपातास्तिष्ठान्ति। तत्र बिम्बव्यासोनकक्षाकारसूत्रं प्रवहयाय्वतिरिक्तवायुरूपं स्वतोगतिस्थाने कम्पमानं ग्रहबिम्बष्यासे पूर्वापरे प्रोतमुच्चजीवहस्तद्वयान्तर्गतमस्ति। अथ ग्रहबिम्बमुच्चस्थानात् स्वशक्त्या गच्छदपि वामहस्तस्थितसूत्रेणोच्चस्थानात्, पूर्वरूपेरा ग्रहस्थानात् पश्चिमरूपेण वृहत्सूत्रावयवात्मकेन स्वस्थानाद् पश्चात् स्वाभिमुखमपकृष्यते निरन्तरमुच्चदैवतैः स्वशक्त्या यावत् षड्भान्तरं तयोरन्तरं तन्मार्गेणाकर्षणसम्भवात् पूर्वस्मिन् गच्छद्ग्रहबिम्बं, सव्यहस्तस्थितसूत्रेणोच्चस्थानात् पूर्वस्मिन् स्वामिमुखमाकृष्यते स्वशक्त्या निरन्तरं यावदन्तराभावस्तयोरिति” र० ना०। “अथात एवैकरूपां पूर्वाधिकारावगतां गतिं त्यक्त्वा कुतः प्रत्यक्षविलक्षणां गतिं प्राप्ता ग्रहा इत्यत आह। “प्रवहाख्यो मरुत् तांस्तु स्वोच्चाभिमुखमीरयेत्। पूर्वापरापकृष्टास्ते गतिं यान्ति पृथग्विधाम्” सू० सि० ३। “प्रवहाख्यः प्रवहसंज्ञको मरुद्वायुः पश्चिमाभिमुखं भ्रसंस्तात् तुकारादुच्चानि स्वोच्चाभिमुख स्वस्य प्रवहभ्रमणेनोच्चं भावप्रधाननिर्देशादुच्चता यस्यां दिशि तत् स्वोच्चं पूर्वदिक् पूर्वंभाग एव ग्रहाणां प्रवहभ्रमे- णोच्चगमनदर्शनात् तत्सम्मुखं पूर्व्वदिशीति तात्पर्य्यार्थः। ईरयेत् पश्चिमाभिमुखम्रमणसिद्धप्रागुक्तग्रहावलम्बनरूपेण चालयतीत्यर्थः। अतः कारणात् ते ग्रहाः पूर्वं पश्चिमदिशोराकृष्टाः पृथग्विधां प्रथमावगतैकरूपभिन्नप्रकारावगतां प्रतिक्षणविलक्षणां गतिं गमनक्रियां यान्ति प्राप्नुवन्ति। अवलम्बनाकर्षणाभ्यां प्रतिदिनं ग्रहाणां गतेरन्यादृशत्वं तदनुसारेण ग्रहचारज्ञानं युक्तमिति ग्रहाणां स्पष्टक्रियोत्पन्नेति भावः। यद्वा ननु वायुरज्जुभिः कथं ग्रहाणामाकर्षणं सम्भवति तद्रज्जूनां विरलतया धनीभूतत्वाभावेनाकर्षणायोग्यत्वादित्यत आह। प्रवाहाख्य इति। उच्चदेवताहस्तद्वयस्थितकक्षाकारसूत्रं वायुः प्रवहवायुसम्बन्धात् प्रवहसञ्ज्ञो न पश्चिमाभिमुखभ्रमत्प्रवहात्मकस्तान् ग्रहान् स्वोच्चाभिमुखं स्वीच्चदेवता स्थानसम्मुखमीरयेत् प्रेरयति चालयति। तुकारादुच्च स्थानात् पूर्वस्मिन् ग्रहे वायुः पश्चिमगत्या ग्रहं चालयति पश्चिमस्थे वायुः पूर्वगत्या ग्रहं चालयतीत्यर्थः। तथा च कक्षाकारसूत्रं तदा तदा तथा तथा भ्रमतीति दैवतैराकृष्यत इत्युपचारादुच्यत इति भावः। अत एव ग्रहाणां स्वष्टक्रियोत्पन्नेत्याह। पूर्वापरापकृष्टा इति उच्चदैवतैः पूर्वापरदिशयोराकृष्टा ग्रहाः पृथग्विधां मध्यमातिरिक्तप्रकारां गतिं गमनक्रियां यान्ति। अतो न केवलं मध्यक्रियया निर्वाहः” ३ र० ना०। अथ प्राक् पश्चादपकृष्यन्त इत्युक्तं विशदयति। “ग्रहात् प्राग्भगणार्द्धस्थः प्राङ्मुखं कर्षति ग्रहम्। उच्चसञ्ज्ञोऽपरार्द्धस्थस्तद्वत् पश्चान्मुखं ग्रहम्” ४ सू० सि०। “ग्रहस्थानात् पूर्वभागस्थराशिषट्कस्थित उच्चसञ्ज्ञो जीवो ग्रहविम्बं पूर्व्वदिगभिमुखं स्वाभिमुखं कर्षत्याकर्षति। अपरार्द्धस्थो ग्रहस्थानात् पश्चिमभागस्थराशिषट्कस्यितौच्चसञ्ज्ञो जीव इत्यर्थः। ग्रहविम्बं पश्चान्मुखं पश्चिमदिगभिमुखं स्वाभिमुखं तद्वदाकर्षतीत्यर्थः” ४ र० ना०। “अथ पूर्वोक्तसिद्धं फलितमाह। “स्वोच्चापकृष्टा भणणैः प्राङ्मुखं यान्ति यद्ग्रहाः। तत् तेषु धनमित्युक्तमृणं पश्चान्मुखेषु तु” सू० सि० ५। “स्वोच्चजीवाकर्षिता ग्रहाः पूर्वाभिमुखं मगणैः राशिभिर्भगोलस्थक्रान्तिवृत्तानुसृतस्वाकाशगोलान्तर्गतक्रान्तिवृत्ते द्वादशराश्यन्तिके यद्राशिविभागैरित्यर्थः। यद् यत्संख्यामितं गच्छन्ति तत् तत्सङ्ख्यामितं भागादिकं फलरूपं तेषु पूर्वावगतग्रहराश्यादिभोगेषु धनं योज्यम्। पश्चान्मुखेषु पश्चिमाकर्षितग्रहपूर्वावगतराश्यादिभोगेषु तुकाराद्यत्सङ्ख्यामितं फलरूपं पश्चिमतो गच्छन्ति तदित्यर्थः। ऋणं हीनमिति एतत् पूर्वैः कथितम्” र० ना० ५। सि० शि० “सूष्ट्वा भचक्रं कमलोद्भवेन ग्रहैः सहैतद्भगणादिसंस्थैः। शश्वद्भ्रमे विश्वसृजा नियुक्तं तदन्ततारे च तथा ध्रुवत्वे। ततोऽपराशाभिमुखं भपञ्जरे सखेचरे शीध्रतरे भ्रमत्यपि। तदल्पगत्येन्द्रदिशं नभश्चराश्चरन्ति नीचोच्चतरात्मवर्त्मसु”। “यदेतद्भचक्रं ग्रहैः सह भ्रमद्दृश्यते तद्विश्वसृजा जगदुत्पादकेन कमलोद्भवेन ब्रह्मणा सृष्ट्यादौ सृष्ट्वा ततः शश्वद्म्रमेऽनवरतभ्रमणे नियुक्तम्। एतदुक्तं भवति। भान्यश्विन्यादीन्यन्यानि विशिष्टानि ज्योतींषि तेषां समूहश्चक्रं ग्रहाश्च सूर्य्यादयस्तैः सह सृष्टम्। तानि भानि प्राक्संस्थाया समन्तान्निवेशितानि। ग्रहास्तु भगणादावश्चिनीमुखे निवेशितास्त उपर्य्युपरिसंस्थया। तत्रादौ तावदधश्चन्द्रः तदुपरि बुधः, ततः शुक्रः, ततो रविः तस्माद्भौमः, ततो गुरुः ततः शनिः। सर्वेषामुपरि दूरे भचक्रम्। एषां कक्षाप्रमाणानि चक्षाध्याये प्रतिपादयिष्यन्ते। अहो यद्यूर्ध्वोर्ध्वस्था ग्रहास्तदोपरि दूरतो भगणस्तत् कथं भगणादिसंस्थैर्ग्रहैरित्युच्यते? सत्यम्। अत्र भूमध्ये सूत्रस्यैकमग्रं बद्ध्वा द्वितीयमग्रं भचक्रेऽश्विनीमुखे किल निबद्धम्। तस्मिन् सूत्रे प्रोता मणय इव चन्द्रादयो ग्रहा सृष्ट्यादौ ब्रह्मणा निवेशिताः। भमण्डलं द्वाददशधा विभज्यैवं भूमध्यात् सूत्राणि प्रतिभागं नीत्वा किल बद्धानि तैः सूत्रैः सह ग्रहकक्षायां ये संपातास्ते तासु कक्षासु राश्यन्ताः। तद्वत्प्रकारा राशय इति संक्षिप्तमिहोक्तम्। कक्षाध्याये गोले च किञ्चिद्विस्तार्य्य बक्ष्यामः। एवंविधं भचक्रं सृष्ट्वा ब्रह्मणा गण्ने निवेशितम्। यत्र निवेशितं तत्र प्रवहो नाम वायुः। स च नित्यं प्रत्यग्गतिः। तेन समाहतं भचक्रं सखेचरं पश्चिमाभिमुखभ्रमे प्रवृतम्। यत् तस्य प्रत्यग्भ्रमणं तच्छीघ्रतरम्। यत एकेनाह्ना भमण्डलस्य परिवर्त्तः। एवं तस्मिन् भपञ्जरे सखेचरे शीघ्रतरे भ्रमत्यपि खेचरा इन्द्रदिशं चरन्ति पूर्व्वाभिमुखं व्रजन्ति नीचोच्चतरात्मवर्त्मसु। अनन्तरकथितेषु खस्वमार्गेषु तेषां प्राग्भ्रमणम्। तत् तदल्पगत्या, प्रत्यग्गतेर्बहुत्वात् प्रागल्पगत्या व्रजन्तो नोपलक्ष्यन्त इति भावः। तथा तस्म भपञ्जरस्य यो दक्षिणोत्तरावर्त्तौ तत्र ये तारे ते ध्रूवत्वे नियुक्ते” प्रमि०। तथा श्रीपतिः। “स्वव्यापारात् प्राग्गतिः खेचराणामूर्ध्वाधस्ताद्याम्यसौम्यापराणि। गोलाभिज्ञैः पञ्च यातानि यानि तेषामुक्तान्यन्यहेतूनि तानि। प्रत्यग्गतिः प्रवहवायुवशेन तेषां नीचोच्चवृत्तजनितीर्ध्वमधश्च सा स्यात्। याम्योत्तरा त्वपमवृत्तविमण्डलाभ्यां षोढा गतिर्निगदितैवमिह ग्रहाणाम्” उच्चता च महत्त्वव्याप्यगुणभेदः। सा च उपर्य्युपरिसन्निवेशितावयवनां महत्त्वे भवति तस्य गुणचनत्वात् ततः भावेऽर्थे ष्यज्। औच्च्यम् उच्चतायां न०। त्व। उच्चत्व तत्रार्थे न० तल्। उच्चता स्त्री। “उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां तिथौ लग्ने कर्कटके पुनर्वसुदिने मेषं गते पूषणि। निर्दग्धुं निखिलाः पलाशसमिधः मध्यादयोध्यारणेराविर्भूतमभूदपूर्व्वविभवं यत्किञ्चिदेकं महः” तिथित० पु०। “ग्रहैस्ततः पञ्चभिरुच्चसंस्थितैरसूर्य्यगैः सूचितभाग्यसम्पदम्” रघुः। “स्वोच्चस्थः स्वगृहेऽपि वा स्वसुहृदां वर्गेऽपि वा” ज्योति० त०।

***