इभकणा = स्त्री० इभोपपदा कणा शाक० त०। गजपिप्पल्याम्।

इभकेशर = पु० इभमद इव केशरोऽस्य। नागकेशरे “शृङ्गाटकात्मगुप्तेभकेशरागुरुचन्दनैः” सुश्रु०।

इभगन्धा = स्त्री इभस्य गन्ध एकदेशोदन्त इव पुष्पमस्याः। नागदन्त्याम् सा च स्थावरविषभेदः यथा सुश्रुते “मूलं पत्रं फलं पुष्पं त्वक्क्षीरं सारएव च। निर्य्यासोधातवर्श्चवकन्दश्च दशमः स्मृतः” इत्युपक्रम्य “कुमुद्वतीरेणुकाकरम्भमहाकरम्भकर्कोटकरेणुकखद्योतकचर्म्मरीभगन्धा सर्पघातिनन्दन सारपाकादीनि द्वादश फलविषाणि” इति विभज्य “शुष्कशेफः फलविषैर्दाहोऽन्नद्वेष एव चेति” तद्विकारो दर्शितः।

इभदन्ता = स्त्री इभस्य दन्तैव शुभ्रं पुष्पमस्याः। गजदन्त शुभ्रपुष्पवत्यां १ नागदन्त्याम्, सा च स्थावरफलविषा।

इभनिमीलिका = स्त्री इभं हस्तिनमपि निमीलयति सेवनात् निद्रापयति। १ भङ्गायाम्। इभस्येव निमीलिका। २ वैदग्ध्याम्

इभपालक = पु० इभं पालयति। (माहुत) हस्तिपके।

इभपोटा = स्त्री पोटा पुंलक्षणा इभी परनिपातः पुंवद्भावश्च। पुंगजलक्षणयुक्तायां हस्तिन्याम्।

इभभर = पु० ६ त०। गजसमूहे

इभमाचल = पु० इभमाचलयति आ + चल–णिच्–बा० ख। सिंहे।

इभया = स्त्री इभैर्यायते भक्ष्यतया प्राप्यते या–कर्मणि घञर्थे क ३ त०। स्वर्णक्षीरीवृक्षे रत्नमाला इभषेति वा पाठः।

इभयुवति = स्त्री युवतिरिभी पूर्वनि० पुंवद्भावश्च। युवत्यां हस्तिन्याम् वा ङीप्।

इभाख्य = पु० इभस्याख्याख्या यस्य। नागकेशरे त्रिका०।

इभानुन = पु० इभस्याननमेवाननं यस्य। गजानने गणेशे तस्य यथा तदाननत्वं तथोक्तं “स्वयं गोलकनाथश्च पुण्यकस्य प्रभावतः। पार्व्वतीगर्भजातश्च तव पुत्रो भविष्यति। स्वयं देवगणानाञ्च यस्मादीशः कृपानिधिः। गणेश इति विख्यातो भविष्यति जगत्त्रये। “शनिदृष्ट्या शिरच्छेदात् गज- वक्त्रेण योजितः। गजाननः शिशुस्तेन नियतिः केन बाध्यते” ब्रह्मवै पु० ६ अ०। शनिदृष्ट्या तच्छिरश्छेदकथा तत्रैव १२ अ०। “पार्व्वतीवचनं श्रुत्वा सोऽनुमेने हृदा स्वयम्। पश्यामि किं न पश्यामि पार्व्वतीसुतमित्यहो। यदि बलो मया दृष्टस्तस्य विघ्नो मवेद् ध्रुवम्। अन्यथा मे प्रलापस्तत्परतः खात्मरणम्। इत्यालोच्य च धर्मिष्ठो धर्मं कृत्वा स्वसाक्षिणम्। बालं द्रष्टं मनश्चक्रे न बालमातरं शनिः। विषण्णमानसः पूर्वं शुष्ककण्ठीष्ठतालकः। सव्यलोचनकोणेन ददर्श च शिशोर्मुखम्। शनिश्च वृष्टिमात्रेण चिच्छेद मस्तकं मुने!। चक्षुर्निवारयामास तस्थौ नम्राननः शनिः” एवं शिरश्छेदमुक्त्वा। “तान् सर्व्वान् मूर्च्छितान् दृष्ट्वा चारुह्य गरुडं हरिः। जगाम पुष्पभद्रां स उत्तरस्यां दिशि स्थिताम्। पुष्पभद्रानदीतीरे ददर्श काननस्थितम्। गजेन्द्रं निद्रितं तत्र शयानं हस्तिनीयुतम्। दिश्युत्तरस्यां शिरसं मूर्च्छितं सुरतश्रमात्। परितः शावकान् कृत्वा परमानन्दमानसम्। शीघ्रं सुदर्शनेनैव चिच्छेद तच्छिरो मुदा। स्थापयामास गरुडे रुघिराक्तं मनोहरम्”। गजशिरश्छेदमुक्त्वा तत्पत्न्या स्तुतेन हरिणा तस्य कल्पान्त जीवनं वरोदत्त इत्युपवर्ण्य। “आगत्य बालकस्यानं बालं कृत्वाऽथ वक्षसि। रुचिरं तच्छिरः कृत्वा योजयामास बालके। ब्रह्मस्वरूपी भगवान् ब्रह्मज्ञानेन लीलया। जीवनं योजयाभास हुङ्कारोच्चारणेन च। पार्व्वतीं बोधयित्वा तु दत्त्वा क्रोडे च तं शिशुम्। बोधयामास तां नाथ आध्यात्मिकविबोधनैः” “सेनाचरीभवदिभाननदानवारिवासेन यस्य जनितासुरभीरणश्रीः” नैष०। इभवक्त्रेभमुखगमाननादयोऽप्यत्र। “तं नमामि गजाननम्” माधवः।

इभारि = पु० ६ त०। सिंहे इभामित्रादयोऽप्यत्र।

इभोषणा = स्त्री इभोपपदा उषणा शाक० त०। गजपिप्पल्यां शब्दच०।

इभ्य = त्रि० इभं गजमर्हति दण्डा० यत्। १ प्रचुरगजादिधनाढ्ये २ नृपे ३ हस्तिपक च पु०। “उषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास” छा० उ० तस्य भाष्ये इभो हस्ती तमर्हतोतीभ्य ईश्वरोहस्त्यारोहोवेति। “जामिः सिन्धूनां भ्रातेव स्वस्रामिभ्यान्न राजा वलान्यत्ति” ऋ० १, ६५, ४, स्वार्थे कन्। इभ्यकस्तत्रैव स्त्रियान्तु टापि वा अत इत्त्वम् इभ्यका–इभ्यिका। इनाढ्यायां स्त्रियाम्।

इभ्यतिल्विल = त्रि० इभ्यस्तिल्विलः पुष्टैव। गजादिभिः प्रचुरे आढ्ये। “यदि प्रतीचीयादिभ्यतिल्विल इव धान्यति- ल्विलो भविष्यतीति विद्यात्” शत० व्रा० ४, ५, ८, ११,

इभ्या = स्त्री इभमर्हति सेव्यत्वेन दण्डा० यत्। १ हस्तिन्यां २ शल्लकीवृक्षे च मेदि०।

इमथा = अव्य० इदम्–इवार्थे–थाल् “प्रत्नपूर्व्वविश्वेमात् थाल् छन्दसि” पा० सू० निर्देशात् नि० इमादेशः। इदानीन्तनतुल्ये। “तं प्रत्नथा पूर्व्वथा विश्वथेमथा इव ज्येष्ठतातिं वर्हिषदं स्वर्विदम्” ऋ० ५, ४४, कृ। “प्रत्नथा पुरातनयजमाना इव पूर्व्वथास्मदीया पूर्व्वे यथा। विश्वथा विश्वे सर्वे प्राणिनो यथा। इमथा इदानीं वर्त्तमाना यजमाना इव” भा० “इयमृक्” यजु० ७ अ० ११ च पठिता।

इयक्षु = त्रि० यज + सन उ वेदे नि संप्रसारणम्। यष्टुमिच्छौ “धन्वन्निव प्रापा असि त्वमग्न इयक्षवे” ऋ० १०, ४, १, वेदे प्रायेण सर्वत्र नि० संप्रसा०। “सुम्नं वां सूरिर्वृषणावियक्षन्” १, १५२, २, देवानां इयन्मनो यजमान इयक्षति” ऋ० ८, ३१, ११५,

इयत् = त्रि० इदं परिमाणमस्य इदम्–वतुप्। एतावदर्थे “नीतं यदि नवनीतं कियदिति यशोदया पृष्टः। इयदिति गुरुजनसविधे विधृतधनिष्ठापयोधरः पायात्” उद्भटः। “इयान् वाव किल पशुर्यावती वपा” ऐत० “इयन्ति वर्षाणि तथा महोग्रम्” रघुः “दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम्” सा० द०। अत्र साधनप्रकारः इदम् + परिमाणार्थे वतुप् वस्य घः इदम इश् “यस्येति” पा० प्रकृतीकारलोपे प्रत्ययमात्रस्थितिः। अतएवात्र वैयाकरणा औपनिषदाश्च पठन्ति। “उदितवति परस्मिन् प्रत्यये शास्त्रयोनौ गतवति विलयञ्च प्राकृतेऽपि प्रपञ्चे। सपदि पदमुदीतं केवलं प्रत्ययोत्थं तदियदिति मिर्मीते कोहृदा पण्डितोऽपि”। स्त्रियां ङीप्।

इयत्तका = स्त्री कुत्सिता इयत्ता कुत्सितार्थे कन् ह्रस्वः। कूत्सितेयत्तायाम्। ततः अर्श आ० अस्त्यर्थे अच्। कुत्सितेयत्तायुते अल्पप्रमाणे “इयत्तकं कुषुम्भकस्ककं भिनद्म्यश्मना” ऋ० १, १९१, १५,

इयत्ता = स्त्री इयतो भावः तल्। १ सीमायां, २ परिमाणे, ३ संख्यायाञ्च। “न गुणानामियत्तया” “यशः परिच्छेत्तुमियत्तयालम्” “ई क्तया रूपमियत्तया वा” इति च रघुः।

इयस् = त्रि० इ–कर्त्तरि असुन् किच्च। १ गन्तरि भावे असुन्। २ गतौ “तेषां हैयसेवास किमिह कर्त्तव्यम्” शत० ब्रा० २, २, ३, ३,

इर–ईर्षायां = कण्ड्वा० यक् उभ०। इर्यति इर्य्यते।

इरज् = ईर्षायां कण्ड्वादि० यक् प०। इरज्यति। “इरज्यन्नग्रे प्रथयस्व जन्तुभिरस्मे रायः” ऋ० १०, १४०, ४। “इरज्यन्त यच्छुरुधोविवाचि” ऋ०७, २३, २, यदेषामग्रं जगतामिरज्यसि” ऋ० १०, ७५, २। “युवं विप्रस्य मन्मनामिरज्यथः” ऋ० १, १५१, ६।

इरण = त्रि० ईरिण + पृ०। ऊषरभूमौ अमरटीका रमा०।

इरम्मद = पु० इरया जलेन अन्नेन वा माद्यति वर्द्धते इरा–मदखच् नि० ह्रस्वः मुम् च। १ वज्राग्नौ २ बाडवानले च। “इरम्मदं वृहदुक्थं यदत्त” यजु० ११, ७४। “इरया अन्नेन माद्यति उग्रं पश्येत्यादि” पा० नि०” वेददी०। “वृहते हवामहे इत्येतदिरम्मदमितीरया ह्येष मत्तः” शत० ब्रा० ६, ६, ३, ४।

इरस् = इरज्वत् कण्ड्वा० इरस्यति “मात्रपूषन्नाघृण इरस्यः” ऋ० ७, ४०, ६। “यस्मा इरस्यसीदम्” ऋ० १०, ८६, ३।

इरा = स्त्री इण्–रक् इं कामं राति रा–क वा। १ मूमौ, २ वाचि, ३ सुरायाम्, ४ जले, ५ अन्ने च। “इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवी रेतसावतिः” ऋ० ५, ८ त, १। “इरामस्मा ओदनं पिन्वमानाः” शत० व्रा० ६, ६, ३३। ६ कश्यपस्य पत्नीभेदे। “घर्मपत्न्यः समाख्याताः कश्यपस्य वदाम्यहम्। अदितिर्दितिर्दनुःकाला अमायुः सिंहिका मुनिः। कद्रुः प्राधा इरा क्रोधा विनता सुरभिःखशा” इत्युपक्रम्य “इरा वृक्षलतावल्लीतृणजातीश्च सर्वशः”। असूतेति शेषः। गरुडपु०।

इराक्षीर = पु० इरा जलं क्षीरमिवास्य। क्षीरसमुद्रे।

इराचर = न० इरायां जले भूमौ वा चरति चर–ट ६ त०। १ वर्षोपले त्रिका० २ भूचरे ३ जलचरे च त्रि० ख्यियां ङीप्।

इराज = पु० इरा सुरेव अजति विक्षिपति अज–अच् न वी भावः। कन्दर्पे हला०।

इराम्बर = न० इरा जलमम्वरमिव यस्य। वर्षोपले करकायाम्। त्रिका०।

इरावत् = इरा + भूम्रि मतुप् मस्य वः। समुद्रे तत्र भवः अण् ऐरावतः। अर्जुनेन नागकन्यायामुत्पादिते ३ वीरभेदे तदुत्पत्तिकथा” भा० भी० ९१ अ०।

“अर्जुनस्यात्मजः श्रीमानिरावान्नाम वीर्य्यवान्। स्नुषायां नागराजस्य जातः पार्थेन धीमता। ऐरावतेन सा दत्ता ह्यनपत्या महात्मना। पत्थौ हते सुपर्णेन कृपणा दीनचेतना। भार्य्यार्थं ताञ्च जग्राह पार्थः कामवशानुगाम्। एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः। स नागलोके संवृद्धो नात्रा च परिरक्षितः। पितृव्येण परित्यक्तः पार्थद्वेषाद्दरात्मना। रूपवान् बलसम्पन्नो गुणवान् सत्यविक्रमः। इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम्। सोऽभिगम्य महाबाहुः पितरं सत्यविक्रमः। अभ्यवादयदव्यग्री विनयेन कृताञ्जलिः। न्यवेदयत चात्मानमर्जुनस्य महात्मनः। इरावानस्मि भद्रं ते पुत्त्रश्चाहं तव प्रभो!। मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत्। तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः। परिष्वज्य सुतञ्चापि सोत्मनः सदृशं गुणैः। प्रीतिमानभवत् पार्थो देवराजनिवेशने। सोऽर्जुनेन समादिष्टो देवलोके तदा नृप!। प्रीतिपूर्वं महाबाहुः स्वकार्य्यं प्रति भारत। युद्धकाले त्वयास्माकं सह्य देयमिति प्रभो। वाढमित्येवमुक्त्वा च युद्धकाल इहागतः”।

“इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः” भा० भी० ९२ अ०। “पुत्रं विनिहतं श्रुत्वा इरावन्तं धनञ्जयः।” ९५ अ०। ३ नदीभेदे स्त्री ङीप्। भा० स० प० ९ अ० वरुणसभावर्णने। “इरावती वितस्ता च सिन्धुर्देवनदी तथा” “इरावत्यां हतो भोजः कार्त्तवीर्य्यसमो युधि” भा० व० १२ अ० “शतद्रुकामहं तीर्त्वा तथा रम्यामिरावतीम्”। भा० क० ४४ अ०। “इरावत्यां महाभोजावग्निसूर्य्यसमौ युधि” हरिवं० १६१। “इरावती धेनुमती हि भूतं” ऋ० ७, ९९, ३। ४ अन्नादियुक्ते त्रि० “यासिष्टं वर्त्तिरश्विनाविरावत्” ऋ० ७, ४० ५। “इरावत् हविरन्नादियुक्तम्” भा०। “सुनृतावन्तः सुभगा इरावन्तोहतप्रमाः” अथ० ७, ६०, ६।

इरावती = स्त्री इरां भूमिम् अवति अव–बा० अतृ ङीप्। वटपत्रीवृक्षे, सा हि पाषाणभेदनेनापि भूमिमाच्छादनात् पालयतीति तस्यास्तथात्वम्।

इरिकावन = न० इरैव कन् अत इत्त्वम् इरिकाप्रधानं वनम्। जुभ्ना० “इरिकादीनि वनोत्तरपदानि संज्ञायाम्” पा० ग० सू० पाठात् न णत्वम्। जलप्रधाने वनभेदे। इरिकादीनि च “इरिका तिमिर समीर कुवेर हरि कर्म्मार”।

इरिण = न० ऋ–इन किच्च। १ ऊषरभूमौ, २ निरालम्बे, ३ शून्ये च। “यथा गौरो अपाकृतं तृष्यन्नेत्यवेरिणम्” ऋ० ८, ४, ३। “यथेरिणे वीजमुप्त्वा न वप्ता लभते फलम्” मनुः।

इरिन् = त्रि० इर–कण्ड्वा० णिनि यलोपः। १ प्रेरके। “न येषामिरी सघस्थ ईष्ट आ” ऋ० ५, ८७, ३। २ ईर्ष्यके च।

इरिमेद = पु० इरी रोगादीर्ष्पकः मेदोनिर्य्यासो यस्य। विट्खद्रिरे। “इरिमेदः कषायोष्णो मुखदन्तगदास्रजित्। हन्ति कण्डूविषश्लेष्मकृमिकुष्ठविषग्रहान्” भावप्र०।

इरिविल्लिका = स्त्री इरिविल्लैव कन्। “पिडकामुत्तमाङ्गंस्था वृत्तामुग्ररुजाज्वराम्। सर्व्वात्मिकां सर्व्वलिङ्गां जानीयादिरिविल्लिकामिति” निदानोक्ते मस्तकस्थे व्रणभेदे। कनभावे इरिविल्लाप्यत्र। “इरिविल्लां गन्धनाम्नीं कक्षां विस्फोटकास्तथा। पित्तजस्य विसर्पस्य क्रियया साधयेद्भिषक्” सुश्रु०।

इरेश = पु० ६ त०। १ वरुणे, २ वागीशे, ३ भूमिपतौ, ४ विष्णौ च

इर्गल = न० स्त्री अर्गल + पृ०। द्वाररोधके काष्ठभेदे तस्मै हितम् अपूपादि० यत्। इर्गल्यः छ इर्गलीयः। तत्साधने वृक्षे।

इर्य्य = त्रि० इर–कण्ड्वा० अच् वेदे नि० न यलोपदीर्घौ। प्रेरके। “यूयं राजानमिर्य्यं जनाय विभ्वतिष्ठम्” ऋ० ५, ५८, ४।

इर्वारु = स्त्री उर्व्व–आरु पृषो०। (काकुड) १ कर्कट्याम्। २ हिंसके त्रि०। “सिंहव्याघ्रवृकतरक्ष्वृक्षद्वीपिमार्ज्जारशृगालमृगेर्व्वारुकप्रभृतयो गुहाशयाः” सुश्रुतः। मृगेवारुकः मृगहिसकः। आलु। इर्व्वालुरप्युक्तार्थे।

इवारु(लु)शुक्तिका = स्त्री इर्वारुः (लुः) शुक्तिकेव स्वयंस्फोटनात्। (फुटी) (स्वयंभिन्नविपक्वकर्कट्याम्)।

इल = शयने अक० गतौ क्षेपे च सक० तुदा० पर० सेट्। इलअति। ऐलीतियेलं ईलतुः इलितः इलः।

इल = क्षेपणे चुरा० उभ० सक० सेट्। एलयति ते ऐलिलत् त। ऐलयीत् ऐलिष्ट “कथं बातमेलयति कथं न रमते मनः” अथ० १०, ७, ३१। “आसां देवतानां यांयां कामयते सा भूत्वेलयति” शत० ब्रा० १०, ३, ८, ८।

इलविला = स्त्री प्रलस्त्यमुमिपत्न्याम् कुवेरजनन्याम्। एतत्सम्बन्धेनैव कुवेरस्य ऐलविल इति नाम।

इला = स्त्री इल–क। १ भूमौ, २ गवि, ३ वाचि, ४ जम्बुद्वीपस्यनववर्षमध्ये वर्षभेदे तत्सीमा चेलावृतशब्दार्थे वक्ष्यते। ५ वैवस्वतमनुकन्यायां बुधपत्न्याम्। सा हि विष्णुवरात् पुंस्त्वमासाद्य पुनः शङ्करशापात् स्त्रीत्वं गता बुधस्तु तामुपगर्म्य पुरूरवसमुत्पादयामासेति पुराणे प्रसिद्धम्। तच्च इडाशब्दे उक्तप्रायम् ६ स्वप्नशीले त्रि०।

इ(ए)ला = कण्ड्वा० यक् प० अक० सेट्। इ(ए)लायति।

इलावृत = न० इला पृथिवीवावृतं निषधादिभिः। नववर्षात्मकजम्बुद्वीपस्य वर्षभेदे तच्च वर्षम् “पश्चान्माल्यवतः, प्राच्यां गन्घमादनशैलतः। इलावृतं नीलगिरेर्याम्यतो, निषधादुदक्” इत्युक्त चतुःसीमावच्छिन्ने देशेऽस्ति। “माल्यवांश्च यमकोटिपत्तनाद्रोमकाच्च किल गन्धमादनः। नीलशैलनिषधावधी च तावन्तरालमनयोरिलावृतम्। निषधनीलसुगन्धसुमाल्यकैरलमिलावृतमावृतमाबभौ। अमरकेलिकुलायसमाकुलं रुचिरकाञ्चनचित्रमहीतलम्” सि० शि०। “एतेन भारतभिलावृतवद् विभाति” माघः। इलावृतस्थपर्व्वतादिवर्ण्णनम्। भाग० ५ स्क० ६ अ०। “एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितः सर्वतः सौवर्णः कुलगिरिराजोमेरुर्द्वीपायामसमुन्नाहः कर्णिकाभूतः कुवलयकमलस्य मुर्द्धनि द्वात्रिंशत्सहस्रयोजनविततो मूले षोडशसाहस्रं तावतान्तर्भूम्यां प्रविष्टः। उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवानिति त्रयोरम्यकहिरण्मयकुरूणां वर्षाणां मर्य्यादागिरयः प्रागायता उभयतः क्षारोदावधयोद्विसाहस्रपृथव एकैकशः पूर्वस्मात् पूर्वस्मादुत्तरोत्तरेण दशांशाधिकांशेन दैर्घ्यएव ह्रसन्ति। एवं दक्षिणेनेलावृतं निषधोहेमकूटो हिमालय इति प्रागायता यथा नीलादयः। अयुतयोजनोत्सेधा हरिवर्षकिंपुरुषभारतानां यथासंख्यम्। तथैवेलावृतमपरेण पूर्वेण च माल्यवद्गन्धमादनावानीलनिषधायतौ द्विसहस्रं पप्रथतुः। केतुमालभद्राश्वयोः सीमानं विदधाते। मन्दरोमेरुमन्दरः सुपार्श्वः कुमुद इत्ययुतयोजनविस्तारोन्नाहा मेरोश्चतुर्दिशमवष्टम्भगिरय उपकॢप्ताः। चतुर्ष्वेतेषु चूत जम्बूकदम्बन्यग्रोघाश्चत्वारः पादपप्रवराः पर्वतकेतव इवद्विसहस्रयोजनोन्नाहास्तावद्विटपविततयः शतयोजनपरिणाहाः। ह्रदाश्चत्वारः पयोमध्विक्षुरसमृष्टजलाः। यदुपस्पर्शिन उपदेवगणा योगैश्चर्य्याणि स्वाभाविकानि भरतरर्षभ! धारयन्ति। देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैम्राजकं सर्वतोभद्रमिति। येष्वमरपरिवृढाः सहसुरललनाललामयूथपतय उपदेवगणैरुपगीयमानमहिमानः किल विहरन्ति। मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो गिरिशिखरस्थूलानि फलान्यमृतकल्पानि पतन्ति। तेषां विशीर्य्यमाणानामतिमधुर सुरमिगन्धबहलारुणरसोदेनारुणोदा नाम नदीं मन्दरगिरिशिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लावयति। यदुपजोषणाद्भवान्या अनुचरीणां पुण्यजनवधूनामवयवस्पर्श सुगन्धवातो दशयोजनं समन्तादनुवासयति। एवं जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रायाणामिभकायनिभानां रसेन जम्बूनदी नाम मेरुमन्दरशिखरादयुतयोजनादवनितले निपन्ती दक्षिणेनात्मानं यावदिलावृत मुपस्यन्दति। तावदुभयोरपि रोधसोर्मृत्तिका तद्रसेनानुविध्यमाना च वाय्वर्वसंयोगविपाकेन सदामरलोका भरणं जाम्बूनदं नाम सुवर्णं मवति। यदुह वाव विवुधादयः सहयुवतिभिर्मुकुटककटिसूत्रकुण्डलाद्याभरणरूपेण खलु धारयन्ति। यस्तु महाकदम्बः सुपार्श्वपार्श्वनिरूढस्तस्य कोटरेभ्यो विनिःसृताः पञ्चायामपरिणाहाः सुमधुराः सुपार्श्वशिखरात् पतन्त्योऽपरेणात्मानमिलावृतमनुमोदयन्ति। याह्युपयुञ्जानानां मुखनिर्वासितो वायुः समन्ताच्छतयोजनमनु वासयति। एवं कुमुदनिरूढो यः शतवल्लोनाम वटस्तस्थ स्कन्धेभ्योनीचीनाः पयोदधिमधुघृतगुडान्नादाम्बरशय्यासनाभरणादयः सर्व एव कामदुघानदाः कुमुदाग्रात् पतन्तमुत्तरेणेलावृतमुपयोजयन्ति। यानुपजुषाणानां न कदाचिदपि प्रजानां वलीपलितक्लमस्वेददौर्गन्ध्यजरामयापमृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषा भवन्ति। यावज्जीवं सुखं निरतिशयमेव कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिखरपतङ्गरुचकनिषधसितिकासकपिलशङ्खवैदूर्य्यजारुधिहंसर्षभनागकाञ्जरनीरदादयोगिरयो मेरोः कर्णिकाया इव केशरभूतामूलदेशे परित उपकॢप्ताः। जठरदेवकूटौ मेरुं पूर्वेणाष्टादशयोजनसहस्रमुदगायतौ द्विसहस्रःपृथुतुङ्गौ भवतः। एवमपरेण पवनपारिपात्रौ दक्षिणेन कैलासकरवीरौ प्रागायतौ। एवमुत्तरतः त्रिशृङ्गमकरौ। अष्टाभिरेभिः परिष्कृतोऽग्निरिव परितश्चकास्ति काञ्चनगिरिः। मेरोर्मूर्द्ध्वनि भगवत आत्मयोनेर्मध्यत उपकॢप्तां पुरीमयुतयोजनसाहस्रीं समचतुरस्रां शातकौम्भीं वदन्ति। तामनु परितो लोकपालानामष्टानां यथादिशं यथारूपं तुरीयमानेन पुरोऽष्टावुपकॢप्ताः”। भा० भी० ६ अ० जम्बूखण्डविभागे तु। “धनुःसंस्थे महाराज! द्वे वर्षे दक्षिणोत्तरे। इलावृतं मध्यमन्तु पञ्च वर्षाणि चैव ह। उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः। आयुःप्रमाणं चारोग्यं धर्म्मतः कामतोऽर्थतः। समन्वितानि भूतानि तेषु वर्षेषु भारत!। एवमेषा महाराज! पर्व्वतैः पृथिवी चिता। हेमकूटस्तु सुमहान् कैलासो नाम पर्वतः। यत्र वैश्रवणो राजन्! गुह्यकैः सह मोदते। अस्त्युत्तरेण कैलासात् मैनाकं पर्वतम्प्रति। हिरण्यशृङ्गः सुमहान् दिव्यो मणिमयो गिरिः। तस्य पार्श्वे महद्दिव्यं शुभं काञ्चनवालुकम्। रम्यं विन्दुसरो नाम यत्र राजा भगीरथः। दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः। यूपा मणिमयास्तत्र चैत्याश्चापि हिर- ण्मयाः। तथेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः। स्रष्टा भूतपतिर्यत्र सर्वलोकैः सनातनः। उपास्यते तिग्मतेजा यत्र भूतैः समन्ततः। नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः। तत्र दिव्या त्रिपथगा प्रथमन्तु प्रतिष्ठिता। ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते। वस्वोकसारा नलिनी पावनी च सरस्वती। जम्बूनदी च सीता च गङ्गा सिन्धूश्च सप्तमी। अचिन्त्या दिव्यसङ्काशाः प्रभोरेवैष संविधिः। उपासते यत्र सत्रं सहस्रयुगपर्य्यये। दृश्यादृश्या च भवति तत्र तत्र सरस्वती। एता दिव्याः सप्त गङ्गा स्त्रिषु लोकेषु विश्रुताः”।

इलिनी = स्त्री चन्द्रवंश्यमेधातिथिनृपकन्यायाम्। “मेधातिथिः सुतस्तस्य यस्मात् कण्वोऽभवद् द्विजः। इलिनी नाम यस्यासीत् कन्या वै जनमेजय!” हरिवं० २२ अ०।

इली = स्त्री इल–गतौ क गौरा० ङीष्। करबाले (काटार)।

इलीविश = पु० असुरभेदे “न्यविध्यदिलीविशस्य दृढाविशृङ्गिण मभिनच्छुष्णमिन्द्रः” ऋ० १, ३३, १२,

इलीश = पु० इलीव करबालिकेव शोभते शुभ–ड। करबालिका सदृशावयवे स्वमानख्याते मत्स्यभेदे।

इल्लिश = पु० इलीश + पृ०। इलीशमत्स्ये (इलिश)।

इल्वल = पु० इल + स्वप्ने वलच्–नि० गुणाभावः। १ मत्स्यभेदे २ असुरभेदे च मेदि० स च सिंहिकापुत्रभेदः “सिंहिकाया यथोत्पन्ना विप्रचित्तेः सुतास्तथा। दैत्यदानवसंयोगाज्जातास्तीव्रपराक्रमाः। सैहिकेया इति ख्यातास्त्रयोदश महावलाः। व्यंशः शल्यश्च बलिनौ नभश्चैव महाबलः। वातापिर्नमुचिश्चैव इल्वलः सुसृमस्तथा। आञ्जिकोनरकश्चैव (कालनेमि) कालनाभस्तथैव च। राहुर्ज्येष्ठस्तु तेषां वै सूर्य्यचन्द्रप्रमर्द्दनः” हरि० ३ अ०। तच्चरितं यथा

“इल्वलो नाम दैतेय आसीत् कौरवनन्दन!। मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः। स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः। पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु। तस्नै स ब्राह्मणो नादात् पुत्रं वामवसन्निभम्। चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम्। तदाप्रभृति राजेन्द्र! इल्वलो ब्रह्महाऽसुरः। मन्युमान् भ्रातरं छागं मायावी ह्यकरोत्ततः। मेषरूपी च वातापिः कामरूपोऽभवत् क्षणात्। संस्कृत्य च भोजयति ततो विप्रं जिघांसति। स चाह्वयति यं वाचा गतं वैवस्वतक्षयम्। स पुनर्देहमास्थाय जीवन् स्म प्रत्यदृश्यत। ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम्। तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत्। तामिल्वलेन महता खरेण वाचमीरिताम्। श्रुत्वाऽतिमायो बलवान् क्षिप्रं ब्राह्मणकण्टकः। तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः। वातापिः प्रहसन्राजन्निश्चक्राम विनाशयन्। एवं स ब्राह्मणान्राजन्! भोजयित्वा पुनः पुनः। हिसयामास दैतेय इल्वलो दुष्टचेतनः” भा० व० ९६ अ०। ३ मृगशिरोनक्षत्रशिरःस्थासु पञ्चसु तारासु स्त्रीब० व०। तत्र इन्वका इति पाठान्तरम। इन्वन्ति प्रीणयन्ति इविप्रीणने क्वुन् इदित्त्वात् नुम् क्षिपकादि० न अत इत्त्वम् इति भानुदीक्षितः। तेन इल्वका इति लकारमध्यपाठकल्पनं प्रामादिकमेव।

इव = व्याप्तौ प्रीणने च इदित् भ्वा० पर० सक० सेट्। इन्वति ऐन्वीत्। इन्वकाः।

इव = अव्य० इन्व–निरु० क। १ सादृश्ये, २ उत्प्रेक्ष याम्, ३ ईषदर्थे, वाक्यालङ्कारद्योतकता चास्य तत्र उपमायाम् “इवेन नित्यसमासोविभक्त्यलोपश्चेति” वार्त्ति० उक्तेर्नित्यसमासः विभक्तेर्लोपाभावश्च स च समासस्वरार्थ एव। “वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये” रघुः। “हंसीव कृष्ण! ते कार्त्तिः स्वर्गङ्गामवगाहते” चन्द्रालोकः। एतत्प्रयोगे श्रौती उपमा “श्रौती यथेववाशब्दा इवार्ये वा वतिर्यदि” सा० द० उक्तेः। उत्प्रेक्षायाम्। “गुणा गुणानुबन्धित्वात् तस्य सप्रसवा इव” रघुः। “गङ्गाम्भसि सुरत्राण! कृपाणस्तव निःस्वनः। स्नातीवारिवधूवर्गगर्भपातनपातकी” “मुखमेणीदृशोभाति पूर्णचन्द्रैवापरः” सा० द० इवादिशब्दप्रयोगे उत्प्रेक्षाया वाच्यत्वम्। “वाच्येवादिप्रयोगे स्यादप्रयोगे परा पुनः” सा० द० उक्तेः। वाक्यालङ्कारे “सर्वदा क इव वा सहिष्यते” किरा० “किमिव हि मधुराणां मण्डनं नाकृतीनाम्” शकु० “सृजति सा कियतीमिव न व्यथाम्” नैष० ईषदर्थे “तदस्तिपर्युषितमिव” शत० ब्रा० “आवर्जिता किञ्चिदिव स्तनाभ्याम्” कुमा० ४ अवधारणार्थे च। “श्रिये पूषुन्निषुकृते वदेवाः” ऋ० १, १८४, ३। “इष्कृतेव इवशब्द एवार्थे” भा०। “श्लक्ष्णेव तु वा ईश्वरा” शत० ब्रा०। इवशब्दोऽवधारणार्थे” भा०।

इशीका = स्त्री इषीका पृ०। इषीकाशब्दार्थे अमरटीका।

इष = गतौ सर्पणे च दिवा० पर० सक० सेट्। १ इष्यति, ऐष्यत्। ऐषीत् इषितः एषित्वा। “इष्यन् वाचमुपवक्तेव होतः” ऋ० ९, ६४, ९। “योऽभिवात इषितः प्रवाति” अथ० १०, ८, ३५। “स तत्कृषीषितस्तूयमग्ने” अथ० ६, ३५, ५। “हिन्वानो वाचमिष्यसि” ऋ० ९, ६४, ९। इच्छा- यामपि “अप इष्य होतरित्थप इच्छ होतरित्यैवेतदाह” शत० ब्रा० ३, ९, ३, १५। गतौ तुदादिरपि इषति निरु०।अनु + अन्वेषणे गवेषणे “अन्विष्यन्तस्ततःसीताम्” रामा० “यावदेनामन्वेष्यामि” शकु०। “न रत्नमन्विष्यति मृग्यते हि तत्” कुमा०। “तस्यान्विष्यन् वेतसगूढं प्रभवं सः” रघुः। स्वार्थे णिच्। तत्रैव “राममन्वेषयामि” सा० द०।प्र + प्रेरणे। “अप्रैषीद्राजपुत्री मां सुराहारीं तवान्तिकम्” भा० व० १६ अ०। “गत्वा प्रैषीच्चरावणम्” भट्टिः “अध्वर्युप्रेषितोमैत्रावरुणः प्रेष्यति” आश्व० गृ०। “शौनः शेफं च प्रेष्यति” कात्या० १३, ६, १ “अग्नीषोमाभ्यां छागस्य वपायै मेदसे प्रेष्य” शत० ब्रा० ३, ८, २, २७। घञ् प्रैष्यः। ण्यत् प्रैषः। स्वार्थेणिच्। प्रेषयति प्रेषयामास। “स च मां प्रेषयामास” रामा०।परि + सत्कारपूर्व्वकनियोजने पर्य्येष्यति स्वार्थे णिच् पर्य्येषितः पर्य्येषणा।

इष = वाञ्छायाम् तुदा० पर० सक० सेट् वेट् क्त्वः। १ इच्छति, “इच्छामि संबर्द्धितमाज्ञयाते” कुमा०। इच्छेत् “यदीच्छेद्विपुलान् भोगान्” मल० त० पु०। “राजान्तेवासियाज्येभ्यः सीदन्नोच्छेद्धनं क्षुधा” या० स्मृ०। ऐच्छत् ऐषीत् “ऐषीः पुनर्जन्मजयाय यत्त्वम्” भट्टिः इयेष “इयेष सा कर्त्तुमबन्ध्यमात्मनः” कुमा० ईषतुः। इच्छन् “किमच्छन् कस्य कामाय किमर्थमनुसंज्वरेत्” श्रुतिः।एषिता–ऐष्टा एषित्वा–इष्ट्वा। भावे श इच्छा “आत्मजन्या भवेदिच्छा” न्यायका०। इष्टः “इष्टोऽसि मे सखा चेति” गीता। कर्मणि इष्यते “त्रिरात्राच्छुद्धिष्यते” स्मृतिः। एष्टव्यः एषितव्यः। “एष्टव्या बहवः पुत्रायद्येकोऽपि गयां व्रजेत्” पु०।अनु + अन्वेषणे। “तं खलन्त इवान्वीषुः” शत० ब्रा०। “हन्त तमात्मानमन्विच्छामो यमन्वेष्टा” छा० उ०। “अनुपदसन्वेष्टा” पा० “वयं तत्त्वान्वेषात् मधुकर! हतस्त्वं खलु कृती” शकु०प्रति + प्रतिग्रहे प्रतीच्छति (प्रतिगृह्णाति)। “ततः प्रतीच्छ प्रहरेति वादिनी” नैष० “स्नुषां प्रतीच्छ मे कन्याम्” प्राप्तौ च “बुद्धौ शरणमन्विच्छ” गीता। स्वार्थे णिच् वेदे० नि० गुणाभावः। इषयति “इच्छंस्तदास्तरायेष मदन्त इपयेम ज्योतिः” ऋ० १, १८५, ९। “इषयेम इच्छाम” भा०।परि + अन्वेषणे च परीच्छति (अन्विष्यति) “भगवन्तं वा अहमेभिरार्त्विज्यैः पर्य्यैषिषम्” छा० उ०।अभि + मस्मगिच्छायाम् अभोष्टम्।

इष = ओभोक्ष्ण्ये क्र्यादि० पौनःपुन्ये पर० अक० सेट् इष्णाति इष्णातु इषाण। “इष्णन्निषाणामुं महेषाण सर्व्वलोकं मैषाण” यजु० ३१, २२, अ०। ऐष्णात् ऐषीत्। एषितः एषित्वा। प्रेरणे च। “भिनद्गिरिं शबसा वज्रमिष्णन्” ऋ० ४, १७, ३। इष्णन् प्रेरयन्” भा०। इच्छार्थेऽपि “पूर्वीरिषश्चरति मध्व इष्णन्” ऋ० १, १८१, ६। “मध्वः मधुनः इष्णन् इच्छन” भा०। आभीक्ष्ण्यञ्च क्रियापौनःपुन्यम्। क्रिया च धात्वर्थविशेषः स च वाञ्छागत्यादिरेव तस्यैवाभीक्ष्ण्यद्योतनेऽस्य साधुत्वम्

इष = गतौ भ्वा० उभ० सक० सेट्। एषति ते। ऐषीत् ऐषिषट अनु–अनुसरणे। अन्वेषति। “अन्वेषन्तोवनं राजन्” “देशमन्यं दुराचारमन्वैषन् वानरास्तथा” रामा०।

इष् = त्रि० इष–इच्छायां क्विप्। इच्छायुक्ते। इट्चरः। “विदादूर्जं शतक्रतुं विदादिषम्” ऋ२, १२, ४। कर्मणि क्विप्। २ इष्यमाणे त्रि० ३ अन्ने स्त्री “मधुमतीर्न इषस्कृधि” यजु० ७, २, “आश्विनायज्वरीरिषः १, ३, १। “इषे त्वोर्ज्जो त्वा” यजु० १, १,। इष्यतेइष–अन्तर्भूतण्यर्थे कर्म्मणि क्विप्। ४ एषणीये। “इषस्तुतो महामहे” ऋ० ५, ५०, ५, “इषः एषणीयस्य” भा०। इष–गतौ भावे क्विप्। ५ यात्रायाम् स्त्री

इष = पु० इष–गतौ क्विप्–इट् यात्रा सास्मिन् मासे जिगीषूणामस्ति अर्श आ० अच्। सौरे चान्द्रे च आश्विने १ मासि। “श्रावण्ये भाद्रमासे युवतिगृहगते चार्थलाभः प्रदिष्टः” राजमा० उक्तेः “सौराश्विनस्य यात्राया अर्थलाभदत्वात्तथात्वम्”। अत एव रघौ “सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान्। यात्रायै नोदयामास तं शक्तेः प्रथमं शरत्”। शरत्कालस्य राज्ञां यात्रार्थत्वमुक्तम्। शरदुतुश्च “इषश्चोर्जश्च शरदिति” श्रुत्युक्त आश्विनकार्त्तिकमासरूपःकालः तस्य च सौरत्वमृतुशब्दे वक्ष्यते “आमेखलं सञ्चरतां घनानां छायामिषे सानुगतां निषेव्य” कुमा० पाठान्तरम्। “ध्वनिमिषेऽनिषेक्षणमग्रतः” माघः। तत्र चान्द्रे “इषे मास्यसिते गक्षे नवम्यामार्दयोगतः” तिथि० देवीपु० अत्र चान्द्रोगौणः “यच्छरद्यूर्जश्च औषधः पच्यन्ते तेनोहैताविषश्चोर्जश्च” शत० ब्रा० ऋ० ४, ३, १, १७, “अन्तर्भूतण्यर्थे भावे घञर्थे क”। २ प्रेषणे “इषवान् मम रेजति” ऋ० १, २९, ६, “इषवान् प्रेषणवान्” भा०। इष–इच्छायां कर्मणि धञर्थे क ३ अन्ने न० निरु०।

इषणि = स्त्री इष–भावे अनि वेदे० नि० गुणाभावः। प्रेषणे “दुहाना धेनुर्वृजनेषु कारवेत्मना शतिनं पुरुरूपमिषणि” ऋ० २, २, ९, इषणि एषणायाम् भा०। सप्तम्या लुक्। लोके तु एषणिः वा ङीप्। इषणिमिच्छति क्यच्। वेदे० नि० इलोपः इषण्यति “ऋतस्य बुध्न उषसामिषण्यन्”। ऋ० ३, ६१, ७, ततः भावे अ। “इषण्या प्रेषणायाम् “इषण्यया नः पुरुरूपमाभेर” ऋ० ८, ४९, १८।

इषव्य = त्रि० इषुणा विध्यति इषौ कुशलो वा यत्। शरलक्ष्ये, १ शरव्ये २ शरत्यागकुशले च “आराष्ट्रे राजन्यः शूर इषव्योऽतिव्याधी” यजु० ऋ० २२, २२ “इषुभिर्विध्यति इषव्यः यद्वा इषौ कुशलः” वेददी०

इषि = त्रि० इष–कि। इच्छावति “विचिदश्नाना इषयोव्यधातयः” ऋ० ९, ७९, १,

इषिका = स्त्री इष–गत्यादौ क्वुन् अत इत्त्वम्। इषीकाशब्दार्थे तूलशब्दपरे ह्रस्वः इषिकतूलम्” तदीयतूले।

इषीका = स्त्री ईष–गत्यादिषु ईकन् कित् ह्रस्वश्च। १ गजनेत्रगोलके। २ काशे, ३ मुञ्जामध्यवर्त्तितृणे च तदालम्ब्यैव अश्वत्थाम्ना पाण्डवबधाय महास्त्रं प्ररित्यक्तम् यथा भा० प० १४ अ० “व्यथितात्माऽभवत् द्रोणिः प्राप्तक्षेममन्यत। तत्र दिव्यमदीनात्मा परमास्त्रमचिन्तयत्। जग्राह च स चेषीकां द्रौणिः सव्येन पाणिना। स तामापदमासाद्य दिव्यमस्त्रमुदैरयत्” इत्युपक्रम्य “ततस्तस्यामिषीकायां पावकः समजायत। प्रधक्ष्यन्निव लोकांस्त्रीन् कालान्तकयमोपमः” इमामिषीकामधिकृत्य कृतोग्रन्थः अण् ऐषीकं भारतान्तगेतपर्वभेदे “मुञ्जा वेषीका तूलमिति” शत० ब्रा० “यदि नडानां यदि वेणूनां यदि वेषीकाणाम्” शत० ब्रा० १, १, ४, १९, ४ शरशलाकायां ५ वीरणकाष्ठिकायाञ्च उज्ज्व० “तस्मिन्नास्थदिषीकास्त्रं रामोरामावबोधितः” रघुः।

इषिर = त्रि० इष–गतौ किरच्। १ गतिशीले। “श न इषिरो अभिया रातः” ऋ० ७, ३५, ४, “इषिरः गतिशीलः” भा० २ चलनशीले च “निसामनामिषिरामिन्द्र! भूमिम्” ऋ० ३, ३०, ९। “इषिरां चलन्तीम्” भा० ४ अग्नौ पु० उज्ज्व०

इषु = पुंस्त्री ईष्यते हिंस्यतेऽनेन ईष–उ ह्रस्वश्च। १ वाणे “पतिसंहरन्निषुम्” रघुः। “इषुमतिरघुसिंहे दंदशूकान् जिषांमौ” भट्टिः। “इषुभिः प्रतियोत्स्यामि” गीता स्त्रीत्व “तस्य साध्वीरिषवो याभिरस्यति” ऋ० २, २१, ४, ८। “यामिषुं गिरिशन्त! बिभर्ष्यस्तवे” यजु० १६, ३। तत्त ल्यसंख्ये २ पञ्चसंख्यान्विते च। पञ्चशरशब्दे वक्ष्यमाणस्य कामशरस्य पञ्चसंख्याकत्वस्यानुसारेण शरशब्देन हि पञ्चसंख्या बोध्यते। “पञ्चपञ्चाष्टसप्तेषु ज्ञेयमोजः सु राशिषु” ज्योति०। ३ वृत्तक्षेत्रान्तर्गते जीवावधिपरिधिपर्य्यन्तकृतसरलरेखायाञ्च तदानयनप्रकारः सोदाहरणः लीला० दर्शितो यथा “ज्याव्यासयोगान्तरघातमूलं व्यासस्तदूनोदलितः शरः स्यात्। व्यासाच्छरोनाच्छरसङ्गुणाच्च मूलं द्विनिघ्नं भवतीह जीवा। जीवार्द्धमक्ते शरभक्तयुक्ते व्यासप्रमाणं प्रवदन्ति वृत्ते” उदा० दशविस्तृतिवृत्तान्तर्यत्र ज्या षण्मिता भवेत्। तत्रेषुं वद वाणाज्ज्यां ज्यावाणाभ्याञ्च विस्तृतिम्” न्यासः। व्यासः १०, ज्या ६, अनयोर्योगः १६, अन्तरं ४ तयोर्घातो ६४, तस्य मूलं ८, तेनोनोव्यासः २, दलितः शरः १। तेन १० हस्तव्यासके वृत्तक्षेत्रे यदि जीवमितिः ६ तदा शर मानम् १ एकहस्त इति ज्ञेयम्। ज्ञातशरव्यासके वृत्तक्षेत्रे जीवानयनं यथा व्यासः १० हस्तः, शरः १ हस्तः तेनोनितः व्यासः ९, तस्य मूलम् ३। द्वाभ्यां गुणितम् ६, जीवामानम्। ज्ञाताभ्यां ज्यावाणाभ्यां व्यासानयनम्। यथा जीवा ६ तस्यार्द्धं ३, तस्य वर्गः ९। शरसंख्यया १ भक्ते ९। शरसंख्यया १ योगे व्यासमानम् १०। एवमन्यसंख्यकजीवादौ अनया दिशा शराद्यानयनम्। ग्रहाणां क्रान्तिवृत्त क्षेत्रस्य शरानयनं संक्षेपेण दर्शितम् सि० शि० “सत्रिराशिग्रहद्युज्यानिघ्नस्त्रिज्योद्धृतः शरः। स्फुटोऽसौ क्रान्तिसंस्कारे दृक्कर्मण्यक्षजे तथा” मू०। “अयं संक्षिप्तो गौणप्रकारः। मुख्यस्तु पूर्वं व्याख्यात एव। तथापीह युक्तिमात्रमुच्यते। विषुवद्वृत्तात् क्रान्तिर्ध्रुवाभिमुखी। क्रान्त्यग्राच्छरः कदम्बाभिमुखः। कथं तेन तिर्य्यक्स्थेन सा संस्कार्या। अतः क्रान्त्यग्रे यद्द्युज्यावृत्त तस्य शराग्रस्य च यदन्तरमृजु तेन संस्कृता सती स्फुटा भवति। तज्ज्यान्तरं कोटिरूपम्। शरः कर्णरूपः। तद्वर्गान्तरपदं द्युज्या वृत्ते भुजः। एतत् त्र्यस्रं दिग्वलनजत्र्यस्रसंभवम्। तत्र सत्रिराशिग्रहक्रान्तिः कदम्बध्रुवसूत्रयोरन्तरम्। तज्ज्या भुजः। तद्द्युज्या कोटिस्त्रिज्या कर्णः। यदि त्रिज्ययेयं कोटिस्तदा शरेण केत्युपपन्नम्। कोटिरूपस्यैव शरस्य ध्रुवोन्प्रुखस्याक्षज्ययाऽक्षजं दृक्कर्म्म कर्त्तुं युज्यते” प्रमि० विस्तरस्तत्रैव “विक्षेपलिप्ताः क्षितिजादिकानां खेशा ११० द्विवाणेन्दुमिता १५२ रसाश्वाः ७६। षट्त्रीन्दवः १३६, खाग्निभुवः १३० सितज्ञपातौ स्फुटौ स्तश्चलकेन्द्रयुक्तौ” मू० “क्षितिजस्य खरुद्रमिता ११० मध्यमा विक्षेपलिप्ताः। बुधस्य द्विवाणेन्दुमिताः १५२। गुरोः षट्सप्ततिः ७६। शुक्रस्य षड्विश्व १३६ तुल्याः। शनेः खत्रीन्दु १३० मिता वेदितव्याः। तथा बुधशुक्रयोर्यौ गणितागतौ पातौ तौ स्वस्वशीघ्रकेन्द्रेण युक्तौ कार्यौ। एवं स्फुटौ स्तः। अत्रोपपत्तिः। मध्यमगतिवासनायां वेधप्रकारेण वेधवलये ग्रहविक्षेपोपपत्तिर्दर्शितैव। किंत्वन्त्यफलज्यार्धधनुषा सत्रिगृहेण तुल्यं यदा शीघ्रकेन्द्रं भवति तदा त्रिज्यातुल्यः शीघ्रकर्णो भवति तस्मिन् दिने वेधवलये यावान् परमो विक्षेप उपलभ्यते तावान् ग्रहस्य परमो मध्यमविक्षेपः। एवमेते भौमादीनामुपलब्धाः पठिताः। अथ ज्ञशुक्रयोः पातस्य स्फुटत्वमुच्यते। भगणाध्याये ये बुधशुक्रयोः पातभगणाः पठितास्ते स्वशीघ्रकेन्द्रभगणैरधिकाः सन्तो वास्तवा भवन्ति। ये पठितास्ते स्वल्पाः कर्मलाघवेन सुखार्थम्। अतः पठितचक्रभवौ स्वशीघ्रकेन्द्रयुतौ वास्तवभगणनिष्पन्नौ स्फुटौ भवतः। तथा चोक्तं गोले। “ये चात्र पातभगणाः पठिता ज्ञभृग्वोस्ते शीघ्रकेन्द्रमगणैरित्यादि”। इदानीं ग्रहविक्षेपानयनमाह” प्रमि०। “मन्दस्फुटात् खेचरतः स्वपात युक्ताद्भुजज्या पठितेषुनिघ्नी। स्वशीघ्रकर्णेन हृता शरः स्यात् सपातमन्दस्फुटगोलदिक्कः” सू०। “मन्दस्फुटाद्ग्रहात् स्वपातयुक्ताद्भुजज्या साध्या। सा ग्रहस्य पठितेन शरेण गुण्या स्वशीघ्रकर्णेन भाज्या फलं स्फुटविक्षेपः स्यात्। सपातो मन्दस्फुटो ग्रहो यदि राशिषट्कादूनस्तदोत्तरो विक्षेपोऽन्यथा दक्षिणः। अत्रोपपत्तिः। मन्दस्फुटो ग्रहः स्वशीघ्रप्रतिमण्डले भ्रमति। तत्र च तस्य पातोऽपि। पातो नाम प्रतिमण्डलविमण्डलयोः संपातः। तस्मादारभ्य विक्षेपप्रवृत्तिः। इह सुसरलबंशशलाकया कक्षामण्डलं तत्प्रतिमण्डलं च छेद्यकोक्तविधिना विरचय्य तत्र शीघ्रप्रतिमण्डले मेषादेः प्रतिलोमं पातस्थानं च चिह्नयित्वा तत्र विमण्डलं निवेश्यम्। पातचिह्नाद्राशिषट्कान्तरे विमण्डलप्रतिमण्डलयोरन्यं सम्पातं कृत्वा पातात् पूर्व्वतस्त्रिभेऽन्तरे पतितविक्षेपप्रमाणेन प्रतिमण्डलादुत्तरतो विमण्डलं केनचिदाधारे स्थिरं कृत्वा मेषादेरनुलोमं मन्दस्फुटं ग्रहं प्रतिमण्डले विमण्डले च दत्त्वा विक्षेपोपपत्तिं दर्शयेत्। तत्र तयोर्ग्रहयोर्यावान् विप्रकर्षस्तावा~स्तत्र प्रदेशे विक्षेपः। अथ तस्यानयनम्। पातस्थाने हि विक्षेपाभावः। ततस्त्रिभेऽन्तरे परमो विक्षेपः। अन्तरेऽनुपातेन। अतः पातग्रह- चिह्नयोरन्तरं तावज्ज्ञेयम्। तच्च तयोर्योगे कृते भवति। यतो भेषादेरनुलोमं ग्रहो दत्तः। पातस्तु प्रतिलोमम्। अतस्तयोर्योगः शरार्थं किल केन्द्रम्। तस्य दोर्ज्या साध्या। यदि त्रिज्यातुल्यया दोर्ज्यया पठितविक्षेपतुल्यं प्रतिमण्डलविमण्डलयोरन्तरं लभ्यते तदाऽभीष्टया ग्रहस्थानभवया दोर्ज्यया किमिति फलं शीघ्रकर्णाग्रे विक्षेपः। अथ द्वितीयोऽनुपातः। यदि शीघ्रकर्णाग्रे एतावान् विक्षेस्तदा त्रिज्याग्रे क इति। अत्र गुणभाजकयोस्त्रिज्यातुल्ययोस्तुल्यत्वान्नाशे कृते सति दोर्ज्यायाः पठितविक्षेपो गुणः शीघ्रकर्णो हरः। फलं कक्षाप्रदेशे विक्षेपो ज्यारूपस्तस्य चापं स्फुटविक्षेप इत्यर्थः। भूचिह्ने सूत्रस्यैकमग्रं बद्ध्वा द्वितीयमग्रं विमण्डले ग्रहस्थाने निबद्वं सूत्रं कर्णः। सूत्रकक्षमण्डलयोरन्तरं स्फुटः शर इत्यादि सर्वं छात्राय दर्शनीयम्। इदानीं विक्षेपस्य क्रान्तिसंस्कारयोग्यतालक्षणमन्यत् स्फुटीकरणमाह”। प्रमि० “चिज्यावर्गादयनवलनज्याकृतिं प्रोह्य मूलं यष्टिर्यष्ट्या द्युचरविशिखस्ताडितस्त्रिज्ययाप्तः। यद्वा राशित्रययुतखगद्युज्यकाघ्नस्त्रिमौर्व्या भक्तः स्पष्टीभवति नियतं क्रान्तिसंस्कारयोग्यः” मू०। ग्रहस्य “युतायनांशोडुपकोटिशिञ्जिनीत्यादिनायनं वलनं साध्यम्। अत्र वलनशब्देन वलनज्या ग्राह्या न धनुः। तथा इतः प्रभृति वृहज्ज्याभिः कर्म कर्तव्यम्। यतो वृहज्ज्याभिः शरज्या शरकलातुल्यैव भवति। तस्यानयनम्। वलनस्य वर्गं त्रिज्यावर्गादपास्य यन्मूलं लभ्यते तद्यष्टिसंज्ञं ज्ञेयम्। तया यष्ट्या ग्रहविक्षेपो गुणितस्त्रिज्यया भक्तः स्फुटः क्रान्तिसंस्कृरयोग्यो भवति। अथानुकल्प उच्यते। यद्वा राशित्रययुतखगद्युज्यकाघ्न इति राशित्रययुतस्य ग्रहस्य यावती द्युज्या तया वा गुण्यस्त्रिज्यया भक्तः स्फुटो भवति। अत्र भाजकस्यैकप्त्वाद्गुणकस्यान्यत्वात् फलं स्वल्पान्तरमित्यतोऽनुकल्पेनोक्तम्। अत्रोपपत्तिः। क्रान्त्यग्रात् किल शरो भवति। शराग्रे ग्रहः क्रान्तिः शरेण संस्कृता स्फुटा भवति। अत्र गणितागतेनैव शरेण क्रान्तिः स्फुटा क्रियते तदयुक्तम्। यतः क्रान्ति र्विषुवन्मण्डलात् तिर्यग्ध्रुवाभिमुखी। विक्षेपस्तु क्रान्तिमण्डलात् तिर्यग्रूपः कदम्बाभिमुखः यथोक्तं गोले। “सर्वतः क्रान्तिसूत्राणां ध्रुवे योगो भवेद्यतः। विषुवन्मण्डलप्राच्या ध्रुवे याम्या तथोत्तरा”। सर्वतः क्षेपसूत्राणां ध्रुवाज्जिनलवान्तरे। योगः कदम्बसंज्ञोऽयं ज्ञेयो वलनबोधकृत्। तत्रापमण्डलप्राच्या याम्या सौम्या च दिक् सदा। कदम्बभ्रभवृत्तं चेति”। अतो विक्षेपः कदम्बाभिमुखो भवति। ध्रुवाभिमुख्या क्रान्त्या सह कथं तस्य मिन्नदिक्कस्य योगवियोगावुचितौ। तयोर्यद्भिन्नदिक्त्वं तदायनवलनवशात्। अथ तद्गोलोपरि प्रदर्श्यते। यथोदितं गोलं विरचय्य क्रान्तिवृत्ते यद्ग्रहचिह्नं तस्मात् परितो नवतिभागान्तरेऽन्यत् त्रिज्यावृत्तं निवेश्यम्। अथ ग्रहचिह्नाद्ध्रुवोपरिगामि सूत्रं तस्मिन् वृत्ते यत्र लगति तत्कदम्बयोरन्तरस्य ज्या त्रिज्या स कर्णः। तयोर्वर्गान्तरपदं कोटिः। सा च यष्टिसंज्ञा। क्रान्त्यग्राद्विक्षेपः कदम्बाभिमुखः कर्णरूपः। तस्य कोटिरूपकरणायानुपातः। यदि त्रिज्याकर्णे यष्टिः कोटिस्तदा शरकर्णेका। फलं क्रान्तिसंस्कारयोग्यो विक्षेपो मवति। तेन संस्कृता क्रान्तिः स्फुटा। विक्षेपाग्रस्थस्य ग्रहस्य विषुवन्मण्डलस्य च यद्याम्योत्तरमन्तरं सा स्फुटा क्रान्तिरुच्यते अथानुकल्पेऽपीयमेव वासना। अत्र सत्रिराशिग्रहक्रान्तिज्या भुजस्थाने कल्पिता स भुजः। तद्द्युज्या यष्टिस्थाने कल्पिता सा कोटिः। तत्रापि त्रिज्या कर्ण इति सर्वमुपपन्नम्” प्रमि०। तत्रैव स्थानारेऽप्युक्तम्। “नाडिकामण्डलात् तिर्य्यगत्रापमः क्रान्तिवृत्तावधिः क्रान्तिवृत्ताच्छरः। क्षेपवृत्तावधिस्तिर्य्यगेवं स्फुटो नाडिकावृत्तखेटान्तरालेऽपमः” मू०। “क्रान्तिवृत्ते यत् स्फुटग्रहस्थानं तस्य नाडिकावृत्तात् तिर्य्यगन्तरं सा क्रान्तिः अथ विमण्डले च यत् ग्रहस्थानं तस्य क्रान्तिवृत्ताद्यत् तिर्य्यगन्तरं स विक्षेपः। अथ विमण्डलस्थग्रहस्थ नाडीवृत्ताद्यत् तिर्य्यगन्तरं सा स्फुटा क्रान्तिः” प्रमि०। ३ सामवेदविहिते यज्ञभेदे। “इषुवज्रौ सामवेदे विहितौ” सि० कौ०। इषुप्रकारः स्थूला० कन्। इषुकःशरप्रकारे

इषुकामशमी = स्त्री पुरीभेदे “पूर्व्वेषुकामशमी” सि० कौ०।

इषुकार = पु० इषुं करोति कृ–अण् उप०। बाणकारके शिल्पिभेदे “पिङ्गला कुररः सर्पः सारङ्गोऽन्वेषणं विना। इषुकारः कुमारी च षडेते गुरवोमस” बौद्धेनोक्तं समर्थयितुं पिङ्गलादीनां यथोपदेशकारित्वात् गुरुत्वं तथा वर्णितम् यथा। “आशा बलवती राजन्! नैराश्यं परमं परमं सुखम्। आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला। सामिषं कुररं दृष्ट्वा बध्यमानं निरामिषैः। आमिषस्य परित्यागात् कुररः सुखमेधते। गृहारम्भो हि दुःखाय न सुखाय कदाचन। सपः परकृतं वेश्म प्रविश्य सुखमेधते। सुखं जीवन्ति मुनयोभैक्ष्यवृत्तिसमाश्रिताः। अयत्नेनैव जीवन्ति सारङ्गाइव पक्षिणः। इषुकारो नरः कश्चिदिषावासक्तमानसः। समीपेनापि गच्छन्तं राजानं नावबुद्धवान्” बहूनां कलहोनित्यं द्वयोःसङ्कथनं ध्रुवम्। “एकाकी विचरिष्यामि कुमारीशङ्कको यथा” भा० शा० प० अ० १७८ इषुकृदादयोऽप्यत्र।

इषुकृत = त्रि० इषुरिव शीघ्रगामी ऋजुगामी वा कृतः। बाणतुल्यं शीघ्रगामितया ऋजुगामितया च कृते। “श्रिये पूषन्निषुकृतेव देवा नासत्या” ऋ० १८४, ३। इषुकृतेव इवशब्द एवार्थे। आजिधावनाय इषुवच्छ्रीघ्रमृजुगामिनौ कृताविव सन्तौ” भा० इषुकृता इव नासत्या इत्यादौ सर्वत्र छान्दस आ। एतेन इषुकृच्छब्दस्योदाहरणतया एतस्या ऋच उपन्यासः प्रमादिक एव।

इषुध = शरधारणे कण्ड्वा प० अक० सेट्। इषुध्यति ऐषुध्यीत् इषुध्यिता–इषुधिता। याच्ञायामपि “विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसि” ऋ० ६, ५०, १। पतिं वो अघ्न्यानां धेनूनामिषुध्य” ऋ० ८, ५८, २। भावे अ। इषुध्या प्रार्थनायां स्त्री। “दिवोवास्तोष्वसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः” ऋ० १, १२२, १। उण् इषध्यु प्रार्थके “इषध्यव ऋतमापः पुरन्धीः” ऋ० ५, ४१, ६।

इषुधर = पु० इषुं धरति धृ–अच् ६ त०। बाणधरे इषुभृदादयोऽप्यत्र। “यशांसि सर्वेषुभृतां निरास्थत्” भट्टिः।

इषुधि = पुंस्त्री० इषवो धीयन्तेऽत्र धा–कि इषुध–इन् यलोपो वा। वाणाघारे वाणधारके वा तूणे। स्त्रीत्वे “धनुर्गाण्डीपमादाय तथाऽक्षय्ये महेषुधी” भा० व०। ३८ अ०। निसर्वमेन इषुधीरसक्तः” ऋ० १, ३३, ३। पुंस्त्वे “बद्ध्वाऽऽक्षय्यौ महेषुधी” रामा०। “बह्वीनां पिता बहुरस्य पुत्रश्चिश्चोवृणोति समनावगव्य”। “इषुधिः सङ्का पृतनाश्च” ऋ० ६, ७५, ५। “बहव इषवो धीयन्ते इषूणां निधानत्वात् “इषुधिरिषूणां निधानम्” यास्कः” भा०।

इषुप = पु० इषुं पिवति पा० पाने क उप० प०। असुरभेदे सहि अंशावतारे नग्नजिन्नामा राजासीत् यथाह भा० आ० ६७ अ० “इषुपोनाम यस्तेषामसुराणां बलाधिकः। नग्नजिन्नाम राजासीत् भुवि विख्यातविक्रमः”।

इषुपुङ्खा = स्त्री इषोः पुङ्खमिव पुष्पमस्याः। शरपुङ्खावृक्षे।

इषुपुष्पा = स्त्री इषुरिव पुष्पमस्याः। शरपुष्पायाम्।

इषुमत् = पु० इषवःसन्त्यस्य प्राशस्त्येन मतुप्। प्रशस्तनाणधरे। “इषुमति रघुसिंहे दन्दशूकान जिघांसौ” भट्टिः।

इषुमात्र = न० इषुप्रभाणमस्य इषु + मात्रच्। १ शरप्रमाणे ऋग्वेदिनां २ कुण्डेकुण्डशब्दे विवृतिः। ३ इषुप्रमाणमात्रे त्रि० स्त्रियां ङीप्। “यद्येकः पशुः स्यात् एकप्रादेशां कुर्य्यात् अथ यदि पञ्च पशवः स्युः पञ्चप्रादेशां कुर्य्यादिषुमात्रीं वा वीर्य्यं वा इषुर्वीर्य्यसम्मितैव तद्भवति। पञ्चप्रादेशा हस्म त्वेव पुरेषुर्भवति” शत० ब्रा० ६, ५, २, १०। इदमुखामधिकृत्य प्रवृत्तम्। उखां करोतीत्युपक्रम्य “पञ्चप्रादेशा गिषुमात्री वा तिर्य्यक् पञ्चपशौ” कात्या० १६, ३, ३५, उक्तेः। इषुमानं च अङ्गुल्यवधिबाहुमूलपर्य्यन्तमानं तच्च प्रादेशत्रयम् याज्ञिकसम्प्रदायप्रसिद्धम्। ४ शरगतिपर्य्यन्तमाने च। “अथ यदब्रवीत् वर्द्धस्वेति। तस्मादु ह स्मेषुमात्रमेव तिर्य्यक् वर्द्धते इषुमात्रं प्राङ्क्सोऽवैवावरं समुद्रम् दघावव” शत० ब्रा० १, ६, ३, ११ वृत्तासुरवर्द्धन प्रकारः। “इषुमात्रं धनुषः सकाशात् बलात् प्रयुक्तेषुर्यावद्दूरं गच्छति तावन्मात्रं प्रतिक्षणं तिर्य्यक् उभय पार्श्वतः अवर्द्ध्वत” भा०। शरविक्षेपप्रमाणञ्च। इषुविक्षेपशब्दे दृश्यम्।

इषुविक्षेप = पु० इषोर्विक्षेपयोग्यदेशः। सार्द्धशतहस्तमिते शरविक्षेपयोग्ये देशे तन्मानमाह श्रा० त० पितामहः “मध्यमेन च चापेन प्रक्षिपेत्तुशरत्रयम्। हस्तानाञ्च शते सार्द्धे लक्ष्यं कृत्वा विचक्षणः। तत्प्रमाणदेशातिक्रमेणैव पुरीषोत्सर्गः कार्य्यः। “ततः कल्यं समुत्थाय कुर्य्यात् मैत्रं नरेश्वर! नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः”। मैत्रं मित्रदेवताकपायुसम्बन्धात् पुरीषोत्सर्गं इषुविक्षेप मतीत्य इषुविक्षेपयोग्यदेशाद्वहिः” श्रा० त० रघु०।

इषेत्वक = पु० इषे त्वा इतिभागोऽस्त्यत्रानुवाके अध्याये वा गोपषा० वुन्। इषेत्वा इतिशब्दयुक्ते अनुवाके अध्याये च। स च यजुर्वेदीयः प्रथमाध्यायः तत्रादौ इषे त्वोर्ज्जेत्वेति शब्दवत्त्वात् तस्य तथात्वम् एवं तदन्तर्गतोऽनुवाकोऽपि तथा।

इष्कर्त्तृ = त्रि० निस् + कृ–तृच् “निशब्दोबहुलमिति” प्रातिशाख्यसूत्रेणोपसर्गैकदेशनकारलोपः। निष्कर्त्तरि। “इषकर्त्तारमध्वरस्य प्रचेतसम्” ऋ० १०, १४०, ५। इष्कृदादशोऽप्यत्र।

इष्कृति = स्त्री निष् + कृ–क्तिच् इष्कर्त्तृवत् नलोपः। गर्भान् निष्क्रमकारिण्यां मातरि जनन्याम्। “इष्कृतिर्नाम वो माता वोयूयं स्थ्निष्कृतीः” यजु० १२, ८३,। “इष्कृतिर्नाम निष्कृतिनाम्नी माता जननी” वेददी०।

इष्ट = त्रि० इष–कर्मणि क्त। १ अभिलषिते, २ प्रिये “इष्टोऽसि सखा चेति गीता० च। यज भावे क्त। ३ यज्ञादौ न० कर्म्मणि, क्त। ४ पूजिते ५ एरण्डवृक्षे पु०। ६ संस्कारे न०। “एकाग्निकर्म्म हवनं त्रेतायां यच्च हूयते। अन्तर्वेद्याञ्च यद्दानमिष्टं तदभिधीतते। अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनम्। आतिथ्यं वैश्वदेवञ्च प्राहुरिष्टमिति स्मृतम्” जातूकर्णोक्ते ७ धर्म्मकार्य्ये न०। इष्टञ्च इच्छाविषयः तच्च द्विविधं गौणं मुख्यञ्च। तत्र इतरेच्छानधीनेच्छाविषयोमुख्यं तत्वाघनं गौणम्। तत्र मुख्यमिष्टं सुखं दुःखाभावश्च। तदिच्छाया इतरेच्छानधीनत्वात्। तत्साधनं पाकभोजनादि गौणं सुखदुःखाभावेच्छयैव तदिच्छायाः समुन्मेषात् अधिकमिच्छाशब्दे ९१३ पृष्ठे उक्तम्। तत्रेच्छाविषये “सह यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्”। “अनिष्टमिष्टं मिश्रञ्च त्रिविधं कर्म्म चोच्यते”। “इष्टं हि वो देवा दास्यन्ते यज्ञ भाविताः” इति च गीता। यज्ञे “पुरोडाशभुजामिष्टमिष्ट कर्त्तुमलन्तराम्” माघः इष्टं यागः इष्टममीष्टं कर्त्तुमलन्तरामित्यर्थः। “इष्टं दत्तमधीतं वा विनश्यत्यनुकीर्त्तनात्” देवलः। इष्टं यजनम्” शु० त० रघु० ८ कृते च “यज्ञेरिष्टं क्रतुशतम्” विक्रमो० स्मृतिपरिभाषिते इष्टकर्म्मणि द्विजातीनामेवाधिकारः न स्त्रीशूद्रयोः यथाह “इष्टमुक्त द्विजातीनां धर्मः सामान्य उच्यते। अधिकारी भवेच्छूद्रः पूर्त्तेधर्मे न वैदिके” जातूकर्णः “वैदिके वेदसाध्ये अग्निहोत्रादाविति” रत्नाकरः। “पितृव्यगुरुदौहित्रान् भर्त्तुः स्वस्रीयमातुलान्। पूजयेत् कव्यपूर्त्ताभ्याम् वृद्धानाथाऽतिथीन् स्त्रियः” वृहस्पतिवचने स्त्रिया पूर्त्तमात्रेऽधिकारविधानात् तत्र “जलाशयोत्सर्गरूपपूर्त्ते गोरवतारणानुमन्त्रणयायजमानकर्तृकमन्त्रपाठ विधानात् तत्र अमन्त्रकतया स्त्रीशूद्रयोरनधिकारेण तद्वति यागेऽपि तयोर्नाधिकारः विशेषोपदेशाभावात्” इति द्वैतनिर्णयानुसारिणः। वृषोत्सर्ने तदङ्गहोम इव ब्राह्मण द्वारा तन्मन्त्रपाठसम्भवात्तयोरपि तत्राधिकारः इति रघुनन्दनादयः। “अमन्त्रस्य तु शूद्रस्य विप्रोमन्त्रेण गृह्यते” वराहपु० “तद्धुतमहुतञ्चाग्नौ न स्त्री जुहुयादनुपेतः” आप० वचनं तु स्वयंहोमविषयम्। “श्रौतस्मार्त्तक्रियाहेतोर्वृणुयादृत्विजः स्वयम्” याज्ञ० श्रौत इव स्मार्त्तोऽपि कर्मणिः ऋत्विग्वरणोक्तेः। अतएव “ऋत्विग्वादे नियुक्तश्च समौ संपरिकीर्त्तितौ। यज्ञे स्वाम्याप्नु- यात् पुण्यं हानिं वादेऽथ वा जयमिति” वृह० उक्तेः ९ “श्रौते कर्मणि न० “उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्त्ते संसृजेथामयञ्च” यजु० १५, ५४ इष्टापूर्त्ते श्रौतस्मार्त्ते कर्मणी” वेददी०। १० इच्छया कल्पिते त्रि० “इष्टकृतिरष्टगुणिता व्येका दलिता विभाजितेष्टेन” लीला० ११ यज्ञेन तोषिते परात्मनि १२ विष्णौ च पु० “इष्टोविशिष्टः शिष्टेष्टः” विष्णुस० “इष्टः परमानन्दात्मकत्वेन प्रियः यज्ञेन पूजितो वेति” भा०। यज–करणे वा० क्त, भावे क्त अस्त्यर्थे अच् वा। १३ इष्टकायां न०। “मरुतार्केण शुध्यन्ति पक्वेष्टरचितानि च” विष्णु०।

इष्टकचित = त्रि० इष्टकया चितः ह्रस्वः। इष्टकाभिर्व्याप्ते

इष्टकर्मन् = न० इष्टप्रसिद्ध्यर्थं कर्म शाक० त०। लीलावत्युक्ते गणितभेदे तत्प्रकारो यथा “अथेष्टकर्मसु करणसूत्रं वृत्तम् “उद्देशकालापवदिष्टराशिः क्षुण्णो हृतोऽशैरहितो युतो वा। इष्टाहतं दृष्टमनेन भक्तं राशिर्भवेत् प्रोक्तमितीष्ट कर्म। अत्रोद्देशकः। पञ्चघ्नः स्वत्रिभागोनोदशभक्तः समन्वितः। राशित्र्यंशार्द्धपादैः, स्यात् कोराशिर्द्यूनसप्ततिः। न्यासः गुणः ५। स्वत्रिभागः (१/३)। हरः १०। राश्यंशाः (१/३) (१/२) (१/४)। दृश्यम्। ६८। अत्र किल कल्पितराशिः ३। पञ्चघ्नः। १५। स्वत्रिभागोनः। १०। दशभक्तः। १। कल्पित ३ राशेस्त्र्यंशार्द्धपादैः (३/३) (३/२) ३/४ समन्वितोहरोजातः १७/४। अथ दृष्टम् ६८ इष्टेन ३ गुणितम् २०४। हरेण १७/४ भक्तं जातोराशिः। ४८। एवं सर्वत्रोदाहरणे राशिः केनचिद्गुणितोभक्तोवा राश्यंशेन रहितोयुतोबा दृष्टस्तत्रेष्टं राशिं प्रकल्प्य तस्मिन्नुद्देशकालापवत्कर्मणि कृते यन्निष्पद्यते तेन भजेद्दष्टमिष्टगुणं फलं राशिः स्यात्। तत्र दृष्टजात्युदाहरणम्। यूथार्द्धं सत्रिभागं वनविवरगतं कुञ्जराणाञ्च दृष्टं षड्भागश्चैव नद्यां पिबति च सलिलं सप्तमांशेन मिश्रः। पद्मिन्या चाष्टमांशः स्वनवमसहितः क्रीडते सानुरागोनागेन्द्रोहस्तिनीभिस्तिसृभिरनुगतः का भवेद्यूथसंख्या। न्यासः (१/२) (१/६) (१/८) दृश्यम् ४। एषां सवर्णने (१/३) (१/७) (१/९) द्वाभ्यामपवर्त्तितं (२/३)। (४/२१)। (५/३६)। पुनरेषां सवर्णितानामैक्यं नवभिरपवर्त्तितं (२५१/२५२) इष्टोनं (१/२५२) अनेन ४ दृष्टे इष्टगुणिते भक्ते जाता हस्तिसंख्या १००८। अपरोदाहरणम्। अमलकमलराशेस्त्र्यंशपञ्चांशषष्ठैस्त्रिनयनहरिसूर्यायेन तु- र्येण चार्या। गुरुपदमथ षड्भिः पूजितं शेषपद्यै सकलकमलसंख्यां क्षिप्रमाख्याहि तस्य। न्यासः १ ३ (१/५) (१/६) (१/४) दृश्यम्। ६। अत्रेष्ट राशिम् १ प्रकल्प्य प्राग्वज्जातोराशिः। १२०। अन्यदुदाहरणम्। हारस्तारस्तरुण्यानिधुवनकलहे मौक्तिकानां विशीर्णोभूमौ यातस्त्रिभागः शयनतलगतः पञ्चमांशोऽस्य दृष्टः। प्राप्तः षष्ठः सुकेश्या गणक! दशमकः संगृहीतः प्रियेण दृष्टं षट्कञ्च सूत्रे कथय कतिपयैर्मौक्तिकैरेष हारः। न्यासः (१/३) (१/५) (१/६) (१/१०) दृश्यम्। ६। अत्रेष्टं राशिम् १ प्रकल्प्य प्राग्वज्जातीराशिः ३०। अथ शेषजात्युदाहरणम्। स्वार्द्धं प्रादात्प्रयागे नवलवयुगलं योऽवशेषाच्च काश्यां शेषाङ्घ्रिं शुल्कहेतोः पथि दशमलवान् षट् च शेषाद्गयायाम्। शिष्टा निष्कत्रिषष्टिर्निजगृहमनया तीर्थपान्थः प्रयातस्तस्य द्रव्यप्रमाणं वद यदि भवता शेषजातिः श्रुतास्ति। न्यासः। (१/१) दृश्यम् ६३। अत्र रूपम् १ राशिं प्रकल्प्य (१ं/२) भागान् शेषाम् शेषादपास्य अथवा भागा(२ं/९) पवाहविधिना सवर्णिते जातम्। (७/६०) (१ं/४) अनेन १ इष्टगुणिते ६३ दृष्टे। भक्ते जातं (६ं/१०) द्रव्यप्रमाणम्। ५४०। इदं विलोमसूत्रेणापि सिध्यति। अथ विश्लेषजात्युदाहरणम्। “पञ्चांशोऽलिकुलात्कदम्बमगमत्त्र्यंशः शिलीन्ध्रं तयोर्विश्लेषस्त्रिगुणोमृगाक्षि! कुटजं दोलायमानोऽपरः। कान्ते! केतकमालतीपरिमलप्राप्तैककालप्रियादूताहूतैतस्ततोभ्रम ति खे भृङ्गोऽलिसंख्यां वद। न्यासः (१/५) (१/३) (२/५) दृश्यम्। १। जातमलिकुलमानम्। १५। एवम् अन्यत्रापि”।

***