इण् = णित् इङोभेदार्थम् अदा० पर० सक० अनिट्। एति इतःयन्ति। इयात् इहि ऐत् आयन् अगात् इयाय ईयतुः ईयुः इययिय इयेथ ईयिव। एता एष्यति ऐष्यत् एतव्यम अयनीयम् इत्यम्। एता, आयकः इतः इतिः अयनम् अयः आयःऽयन् ईयिवान् ईयुषी। इत्या इत्वा उपेत्य। “स्तनयन्नेति नानदत्” ऋ० १, १४०, ५, “इतः स्म मैत्रावरुणौ किमेतौ?” भट्टिः “अहञ्च भाष्यकारश्च कुशाग्रीयधियावुभौ, नैव शब्दाम्बुधेः पारम्” कलापप० “एमीदेषां निष्कृतं जारिणीव” ऋ० १०, ३४, ५, “आयन्नापोऽयनमिच्छमानाः” ऋ० ३, ३३, ७, “अगात् सराजं जलमभ्ययोध्यम्” “ईयुर्भरद्वाजमुनेर्निकेतम्” “तत्पृष्ठतः प्रष्ठमियाय नम्रः” भट्टिः “सुवृद्रथोवर्त्तते यन्” ऋ० १, १८३, २ “यन्ति वा आप एत्यादित्य एति चन्द्रमा यन्ति नक्षत्राणि” शत० ब्रा० ११, ५, ७, १० “मामेवैष्यत्य संशयम्” “मामेवैष्यति कौन्तेय!” इति च गीता “अपी० दानीं स घर्म्मात्मा इयान्मेदर्शनम् रहः” भा० आ० ८२ अ० कर्म्मणि ईयते “इन्द्रोमायाभिः पुरुरूपईयते” श्रुतिः “वनितयाऽनितया” रजनीवधूः” रघुःअति + अतिक्रमे सक० “नात्येति “सकृदाहृता” स्मृतिः “षडशीतिमुखेऽतीते” “अतीते चोत्तरायणे” स्मृतिः “अथ चेत् पञ्चमीं रात्रिमतीत्य परतोभवेत्” शुद्धित० स्मृतिः अभि + अति + आभिमुख्येनातिक्रमे सक० “योऽस्य स्वर्गोंलोकोऽर्जितोभवेत् तमभ्यत्येति” शत० ब्रा० १२, ५, २, ८,। वि + अति + विशेषेणातिक्रमे “व्यतीतकालस्त्वहमभ्युपेतः”अधि + चिन्तने गत्यर्थस्य प्राप्त्यर्थत्वात् ज्ञानार्थनाच्च लाभे ज्ञाने च। इकवत्अनु + अनुगमने सक०। “आदित्यं वा अस्तंयान्तमन्ये देवा अनुयन्ति” शत० ब्रा० ११, ६, २, ४। “श्रुतान्वितो दशरथ इत्युदाहृतः” भट्टिः सन्ततसम्बन्धे अग्वयः “तदन्वये शुद्धिभति” रघुः शाब्दबोधोपयोगिसम्बन्धभेदे च। “साकाङ्क्षशब्दैर्यो बोधस्तदर्थान्वयगोचरः “शब्दशक्ति० सम + अनु सम्यगऽन्वये। “तत्तुसमन्वयात्” पा० सू०।अन्तर् + अन्तर्गतौ अन्तरायः अन्तरेति इड् शब्दे ९१९ पृ० उदा०अप + अपगमने अपसरणे अक० “अनुपेतमपेतकृत्यम्” भाग० “ध्रुवमपायेऽपादानम्” “अपाये यदुदासीनम्” भर्त्तृह० “सत्वे निविशतेऽपैति” भाष्यका० वि + विशेषेण विगमे “व्यपैति ददतः स्वधा” स्मृतिः “स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः” या० स्मृतिः।अपि + प्राप्तौ सक० “स्वमपीतो भवतीति स्वपितीत्याच ते” श्रुतिः “पञ्च नद्यः सरस्वतीमपियन्ति सस्रोतसः” वाज्० लये अक० अप्ययः अपीतिः “अपीतौ दर्शनात्” “स्वाप्ययात्” शा० सू०अभि–आमिमुख्येन गतौ सक० “देहान् यथेष्टमभ्येति हित्वेमां मानुषीं तनुम्” अभि + उप + आभिमुख्येन प्राप्तौ सक०। “व्यतीतकालस्तहमभ्युपेतः” रघुः “यच्चेतसा न गणितं तदिहाभ्युपैति” उद्भटः स्वीकारे “अभ्युपेत्य चसुश्रूषाम्” स्मृतिःअव–अवगमे, ज्ञाने, सक० “अवैमि ते सारमतः खलु त्वाम्” कुमा०। अधोगतौ अक०। अनु + अव + सन्ततसम्बन्धे। अन्ववायः। वि + अव + व्यवधाने “गार्हपत्याहवनीयौ न व्यवेयात्” कात्या० १, ८, २ ३। “नान्तरा यज्ञाङ्गानि व्यवेयात्” श्रुतिः “अनुमत्या व्यवेयात्” स्मृतिः स्त्रीपुंसयोः संभोगार्थव्यापारे व्यवायः। सम् + अव + सम्यक्सम्बन्धे अयुतसिद्ध्वरूपसंबन्धे। स चावयवावयविनोः, गुणगुणिनोः, क्रियाक्रियावतोः जातिव्यक्त्योश्च सम्बन्धः। समवेतः समवायः। “संयुक्तसमवायतः तत्रापि समवेतानाम्” भाषा०। सम्बन्धमात्रे च “एते ह वै रात्री सर्व्वारात्रयः समवयन्ति” शत० ब्रा० ११, १, ७, ४, सांहत्ये, “सेनायां समवेताये सैन्यास्ते” अमरः “धर्म्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः” गीता।आ–आगमने सक०। “पञ्चालनां समितिमेयाय” “स्तब्धएयाय” तस्माल्लोकात् पुनरैत्यस्मै लोकाय” छा० उ० “यूनः स्थविरआयति” मनुः अनु + आ + सम्यग्गमने सक०। अभि + आ + अभ्यागमने आभिमुख्येनागतौ “गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम्” भा० अनु० २६ अ०। उद् + आ + उद्गमने। उप + आ। समोपागमने। प्रति + आ + प्रत्यागमने “प्रत्यायत्यां रात्रौ” शत० ब्रा० २, ३, ४०३। “नैनमेते रश्मयः प्रत्यायन्ति” शत० ब्रा० १४, ८, ६, ३।उद्–उद्गतौ अक०। “उदेति सविता ताम्रस्ताम्र एवास्तमेति च” सा० द०। उदयः। उत्क्रमणे अक०। उदेति हवै सर्वेभ्यः पाप्मभ्योय एवं वेद” छा० उ०। अभि + उद् + आभिमुख्येनोद्गतौ “किञ्चिदभ्युदिते रवौ” म० त० पु०। प्रति + उद् प्रत्युद्यानेन गतौ “प्रत्यदियाय पार्व्वती” कुमा० सम् + उद् सम्यगुदये “यषादित्यःसमुद्यन् वै तमः पूर्ब्बं व्यपोहति” भा० व० २०६ अ०। “एककार्य्यसमुद्यन्तौ कृष्णौ युद्धेऽपराजितौ” भा० सभा० १ अ०। सांहत्ये च समुदयःउप + समीपगमने प्राप्तौ च “उपेयुषां मोक्षपथं मनीषिणाम्” माघः “योगो परं स्थानमुपैति दिव्यम्” गीता उपायःदुर + दुर्गमे।निर्–निर्गमने। “र्नियदन्त्रविभूषितम्” दुर्गाध्यानम्। निरगाच्छत्रुहस्तं त्वम्” भट्टिःपरा–प्रेतभावप्राप्तौ परेतः। पलायने च “यः परैति स जीवति” प्रतिपत्तौ “नैव श्रेयो धार्तराष्ट्रः परैति” भा० वन० ५ अ०।परि–व्याप्तौ सक० परीतः “पवित्रं पर्य्योषि विश्वतः” ऋ० ७, १०६, १४, परिक्रमणे “प्रदक्षिणमग्निं परीत्य” गृह्य०। परिपाठ्याम् पर्य्यायः “जिह्वा पर्य्येति मे सुखम्” भा० आदि० १५२ अ०।अनु + परि + परिपाट्या अनुगमने “संवत्सर एतदृतवोऽनुपरियन्ति” अथ० १५, १७, ८।आ + परि अभिमुख्येनव्याप्तौ वि + परि + व्युत्क्रमप्राप्तौ विपर्य्ययः “विपर्य्ययन्तौ वा एतावग्निं भवतः” शत० ७, २, १, १५। “विपरीतमतोन्यथा” ज्योति०। “निमित्तानि च पश्यामि विपरीतानि केशव!” गीताप्र + परलोकगतौ अक० प्रेतः “प्रेत्य संज्ञास्ति” कठो० अपगतौ च “तस्मात्तदातृण्णात् प्रैति रसः” वृह० उ०। प्रकर्षेण गतौ सक० “प्रयन्ति सर्ववीजानि रोप्यमाणानि चैव ह” भा० व० १९१ अ०।अभि + प्र + अभिलाषे “कर्मणा यमभिप्रैति स सम्प्रदानम्” पा० अभिप्रायः “अभिप्रेतार्थसिद्धिर्मङ्गलम्” रघु०।प्रति + प्रतिगमने “सरस्ततोद्वैतवनं प्रतीयुः” “राज्ञः प्रतीयाय गुरोः सकाशम्” रघुः प्रतीयुषा पूर्ददृशे जनेन” भट्टिः। ज्ञाने प्रत्ययः प्रतीतिः। “उच्चावचा जानपदधर्मा ग्रामधर्माश्च तान् विवाहे प्रतीयात्” आश्व० प० “सर्वोह्यात्मास्तीति प्रत्येति न नाहमस्मीति” “सर्वोलोको नाहमस्मीति प्रतीयात्” शा० भा० “कलहंसमालाः प्रतीयिरे श्रोत्रसुखैर्निनादैः” भट्टिः। विख्यातौ “सोऽयं वटःश्यामैति प्रतीतः” रघुः “तं प्रतीतं स्वधर्मेण” मनुः “चतुबर्गफलप्राप्तिर्हि काव्यतः–प्रतीतैव” सा० द० विश्वासे “पतिः प्रतीतः प्रसवीन्मुखीं प्रियाम्” रघुः “बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः” “वलवदपि दूयमानं प्रत्यापयतीव मां हृदयम्” शकु० “ताः खचारित्रमुद्दिश्य प्रत्याययतु मैथिली” रघुः।सम् + प्रति + सम्यग्ज्ञाने निश्चये सम्यग्विश्वासे च। “किं तत्कथं वेत्युपलब्धसंज्ञाविकल्पयन्तोऽपि न संप्रतीयुः” भट्टिः।वि + विगमे करिष्ये “पितरः कामं “व्येतु वोमानसोज्वरः” भा० आ० ९६ अ० “अनुमानं द्विविधं वीतमवीतञ्च” सा० कौ० “वीतशोकभयो विप्रो ब्रह्मलोके महीयते” “नियतो वीतवत्सरः” मनुः। “वीतशोकभयक्रोधः” गीता।सम् + सङ्गमे मेलने अक० “आप्यायस्व समेतु ते विश्वतः सोम! वृष्ण्यम्” ऋ० १, ९१, १६, “पार्थिवाःसर्वेसमीयुस्तत्र भारत!” भा० आ० १८० अ० “राक्षसौ हरियुग्माभ्यां समरायं सुमीयतुः” “क्रिंनर्य्यो राक्षसैश्चैव समीयुर्मानुर्षैः सह” रामा०अभि + सम् आभिमुख्येन सम्यग्गतौ सक० “तं जातमभिसयन्ति देवाः” अथ ११, ५, २, णिचि अबोधने गमादेशः। गमयति ते अजीगमत् त बोधनेतु प्रत्या(प)ययति ते प्रत्यापिपत् त–प्रत्यायियत् त। सनि अबोधने गमादेशःजिगमिषति बोधे तु प्रतीयियिषति। उपसर्गस्थावर्ण्णात् परस्य गुणभावेन एत्वं प्राप्तौ वृद्धिरेकादेशः। अवैति अवैमि उपैति।

इण्ड्र = पु० न० इदि–रण् पृ०। उखाकर्षके संदशाकारे पदार्थे “अथैनमिण्ड्रकाभ्यां परिगृह्णाति असौ वा आदित्य एषोऽग्निरहोरात्रे इण्ड्रे अमुं तदादित्यमहोरात्राभ्यां परिगृह्णाति तस्मादेषोऽहोरात्राभ्यां परिगृहीतः यद्वेवैनमिण्ड्राभ्यां परिगृह्णाति असौ वा आदित्य एषो अग्निरिमा उभवलोकाविण्ड्वे अमुं तदादित्यमाभ्यां लोकाभ्यां परिगृह्णाति तस्मादेष आभ्यां लोकाभ्यां परिगृहीतः परिमण्डले भवतः परिमण्डलौ हीमौ लोकौ मौञ्जे त्रिवृती तस्यो एवोक्तोऽथो अनतिदाहाय” शत० ब्रा० ६, ७, १, २५, २६, “परिमण्डलाभ्यामिण्ड्राभ्यामुखां परिगृह्णाति” कात्या० १६, ५, २, ३, “उस्वा याभ्यां गृह्यते तौ इण्ड्रौ” कर्क०।

इत् = त्रि० एति गच्छति इ–क्विप्। १ गत्वरे व्याकरणोक्ते प्रक्रियाकालोच्चारिते प्रयोगकालेऽस्थायिनि वर्ण्णवेदे यथा तिप् मिप् इत्यादौ पकारादि ते च “उपदेशेऽजनुनासिक इत्” “हलत्यम्” “न विभक्तौ तुस्माः” “आदिञिटुडवः” “षः प्रत्ययस्य” “चुटू” “लशक्वतद्धिते” पा० सूत्रेषु सापवादं दर्शिताः तस्य लोप” इत्यनेन तस्य प्रयोगेऽदर्शनञ्च विहितम् “आदिरन्त्येन सहेता” पा० ३ अनन्तरार्थे ४ अवधारणार्थे च अव्य० “यदेदन्ता अददृहन्त पूर्व आदिद्” यजु० १७, २५,, “आत् इत् इति च्छेदः इत् एवार्थे” बेददी० “उपोपेन्नु मघवन्! भूय इन्नु” यजु० ३, ३४, इत् एवार्थे” वेददी० ५ इत्थमित्यर्थेच “सम्राड्विश्वेत्तानि वरुणस्य व्रतानि” यजु० ४, ३०, इदित्यव्ययमित्थमित्यर्थे” वेददी०

इत = त्रि० इ–क्त १ गते “वनितानितया रजनीबधूः” रघुः भावे क्त। २ गतौ “तदितादियादथो पयः” शत० ब्रा० ६, २, १, १३। ३ ज्ञाने च न०। “वीतमवीतञ्चेति” सां० कौ०।

इतर = त्रि० इना कामेन तीर्य्यते तॄ–अप् तरति पचाद्यच् वा। १ नीचे पामरे “इतरैव परिमूय ज्ञानम्, अविगणय्य तपःप्रभावम्, उन्मूल्य गाम्भीर्य्यं, मन्मथेन जडीकृतः” काद०। ईयतेऽनेन इतः विशेषस्त राति रा क। २ भेदाश्रये। “इतरतापशतानि यथेच्छया वितर तानि सहे चतुरानन!” उद्भटः। “यत्र हि द्वैतमिव भवति तत्रेतर इतरम् पश्यति” श्रुतिः। “ते यतध्वं परं शक्त्या विजयायेतराय वा” भा० आ० १० अ०। वर्ण्णाश्रमेतराणां नो ब्रूहि धर्म्मानशेषतः” या० स्मृ० “इतराणि च रक्षांसि पेतुर्वानरकीटिषु” “इतरोदहने स्वकर्म्मणाम्” रघुः “तमिसं कुरु दक्षिणेतरम्” कुमा०। अस्य सव्वनाम कार्य्यम्। इतरे इतरस्मै इतरस्मात् इत्यादि। “विजयायेयराय वै इत्यादि छान्दसम् न तत्कार्य्यम्। वर्णश्रमेतराणामित्यत्र बहुव्रीहिः तेन न सर्व्वनामकार्य्यम्। एवं “शरं मव्येतरे भुजे” रघुश्लोकेऽपि बहुव्रीहिः। तसिल् इतरतः। “जन्माद्यस्य यतोऽन्वया दितरतश्चार्थेष्वभिज्ञः स्वरराट्” भाग०। थाल् इतरथा “एवं देवत्रेतरथा मानुषे” शत० ब्रा ६ऽ८१, ८, इतरेण निर्वृत्तम् संकलादि० अञ्। ऐतरः। इतरनिर्वृत्ते त्रि० इतरस्या पत्यम् शुभ्रा० ढक्। ऐतरेयःतदपत्ये पुंस्त्री।

इतरेतर = त्रि० इतर + द्वित्वं समासवद्भावश्च। अन्योन्यशब्दार्थे। “स्त्रीनपुंसुकयोरुत्तरपदस्थायाविभक्तेराम्भावो वा वक्तव्यः” वार्त्ति० इतरेतराम् इतरेतरं वा इमे ब्राह्मण्यौ कुले बा भोजयतः “सि० कौ०। समासवद्भावात् वृत्तिमात्रे पुंभावः इतरेतरेण “दलद्वये टाबभावः क्लीवे चाड्विरहःस्वमोः। समासे सोरलुक् चेति सिद्धं बाहुलकात्त्रयमित्युक्तं कार्य्यं तेन क्लीवे इतरेतरमित्येव। “इतरेषां तु वर्ण्णानामित रेतरकाम्यया” मनुः। “यथा नाभिचरेतां तौ वियुक्ता वितरेतरम्” मनुः। परमतदादिवत् सर्व्वनामकार्य्यम्। किन्तु नाद्ड इति भेदः “व्यूहावुभौ तावितरेतरस्मात्” रघुः

इतरेतरयोगः = पु० इतरेतरस्य योग १ अन्वयः। प्रत्येकप्राधान्येन सर्व्वेषामन्वये। तदर्थे हि द्वन्द्वसमास इष्यते सचानेकवत् प्रत्येकप्राधान्यात्। धवश्च खदिरश्च इति वाक्ये हि धरखदिरौ इत्यत्र भिनत्तीत्यादि क्रियायां प्रत्येकस्य प्राधानान्येनैवान्वयः तथा च एकजातीयक्रियान्वयितावच्छेदक विशिष्टेप्रत्येकान्वयबोधकत्वे इतरेतर योगाख्यः द्वन्द्वः संहतिप्राधान्ये तु समाहारद्वन्द्वः इति भेदः। २ परस्परसम्पन्धे च।

इतरेतराश्रय = पु० इतरेतरमाश्रयति आ + श्रि–अच्। अन्योन्याश्रये तर्कदोषंभेदे अन्योन्याश्रय शब्दे २१७ पृष्ठे विवृतिः।

इतरेद्युस् = अव्य० इतरस्मिन्नह्नि इतर + एद्युस्। इतरदिवसे इत्यर्थे

इतश्चेतश्च = अव्य०। इतश्च द्वित्वम्। अनियतदिग्भागादौ। “इतश्चेतश्च विचरन् तस्मिन् मुनिवराश्रमे” देवीमा०।

इतस्ततस् = अव्य० द्वन्द्वः। अनियतस्थाने इत्यर्थे “लाङ्गूलविक्षेपविसर्पिशोभैरितस्ततश्चन्द्रमरीचिगौरैः” कुमा०।

इतस् = अव्य० इदम् + तसिन् इशादेशः। १ अस्मादित्यर्थे “इतः स दैत्यः प्राप्तश्रीर्नैत एवार्हति क्षयम्” कुमा०। २ अस्मिन्नित्यर्थे च। “इतोनिषीदेति विसृष्टभूमिः” कुमा०। “प्रयुक्तमप्यस्त्रमितो वृथा स्यात्” रघुः।

इति = अव्य० इण–क्तिच्। १ हेतौ, २ प्रकाशने, ३ निदर्शने, ४ प्रकारे, ५ अनुकर्षे, ६ समाप्तौ, ७ प्रकरणे, ८ स्वरूपे, ९ सान्निध्ये, १० विवक्षानियमे, ११ मते, १२ प्रत्यक्षे, २३ अवधारणे, १४ व्यवस्थायाम्, १५ परामर्शे, १६ माने, १७ इत्थमर्थे, १८ प्रकर्षे, १९ उपक्रमे च। तत्र स्वरूपद्योतकता त्रिधा शब्दस्वरूपद्योतकता प्रातिपादिकार्थद्योतकता वाक्यार्थ द्योतकता चेति भेदात्। तत्र शब्दस्वरूपद्योतकत्वे तद्योगे न प्रथमा। “कृष्णेति मङ्गल नाम यस्य वाचि प्रवर्त्तते” पुरा० “अतएव गवित्याह भूसत्तायामितीदृशम्” भर्त्तृहरिः “रामरामेति रामेति कूजन्तं मधुरं वचः” रामा० “रामेति रामभद्रेति रामचन्द्रेति वा जपन्” रामकवचम्। प्रातिपदिकार्थद्योतकत्वे प्रथमा। “चयस्त्विषामित्यवधारितं पुरस्ततः शरीरीति विभाविताकृतिम्। विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः” माघः। “दशरथ इत्युदाहृतः” भट्टिः। “वदन्त्यपर्ण्णेति च तां पुराविदः” कुमा०। वाक्यार्थद्योतकत्वे न प्रथमा निपातेनाभिहिते प्रतिपादिकार्थे एव प्रथमाविधानात् वाक्यस्य च शक्त्या लक्षणया वा एकार्थबोधकत्त्वाभावेन प्रातिपदिकत्वाभावात् “भूसत्तायामितीदृशम्” भर्त्तृ० “श्रुतार्थस्य परित्यागादश्रुताश्रुतार्थस्य कल्वनात्। प्राप्तस्य बाधादित्येवं पारसंख्या त्रिदोषिका” मीमांसाका०। तत्र हेतौ “इतीव धारामवधीर्य्य” नैष० “इति स्म सा कारुतरेण लेखितम्” नैष०। प्रकारे “इति मदमदनाभ्यां रागिणः स्पष्टरागाः” माघः प्रकाशार्थे इतिहरि इत्यादौ अव्ययी० इदमर्थे “विरोधिसिद्धमितिकर्त्तुमुद्यतम्” प्रकरणे इतिकृत्यमितिकर्त्तव्यम्। इतिवृत्तम्। भावे क्तिन्। २० गतौ २१ ज्ञाने च स्त्री “प्रासावीद्द्विपत्प्र चतुष्पदित्यै” ऋ० १, १२४, १”। २२ ऋषिभेदे पु०।

इतिक = त्रि० इत गमनमस्त्यस्य ठन्। गतिमति ततः नडा० षोत्रापत्ये फक्। ऐतिकायनः तद्गोत्नापत्ये पुंस्त्री

इतिकथ = त्रि० इति इत्थं कथा यस्य। अर्थशून्यवाक्यप्रयोक्तरि अश्रद्धेयवचने।

इतिकथा = स्त्री इति इत्यं कथा। अर्थशून्यवाक्ये मेदि०।

इतिकर्त्तव्य = त्रि० इति इत्थं कर्त्तव्यम्। इत्थंकर्त्तव्ये परिपाटीयुक्ते कर्तव्ये। “एवं सर्व्वविधायेदमितिकर्त्तव्यमात्मनः” मनुः “संदिदेशेतिकर्त्तव्यम् वज्रवेगप्रमाथिनौ” भा० व० २८५ अ० “स च व्यवहारः कोदृशः कतिविधः कथञ्चेतिकर्त्तव्यताकलापोनाभिहितः” इति मिता०” कथयन्त्विति कर्त्तव्यं श्वःकाले करवामहे” भा० आ० १९५ अ०। “धर्म्मे प्रमीयमाणे हि वेदेन करुणात्मना। इतिकर्त्तव्यता भागं मीमांसा पूरयिष्यति” पुरा० इतिकृत्यादयोष्यत्र। “तेषु तेष्वितिकृत्यं हि पुरुषस्य समाप्यते” मनुः। “ततोऽर्ज्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम्” भा० आ० २२० अ०।

इतिवृत्त = न० इत्थं वृत्तम्। इदंप्रकारान्विते चरिते। “इतिवृत्तं नरेन्द्राणामृषीणाञ्च महात्मनाम्” भा० आ० २ अ० उपचारात् तज्ज्ञापके २ पुराणादौ च। “ममेतिवृत्तं किल गेयमद्भुतम्” रामा०। “दूरानुवर्त्तिनि स्यात् तस्य प्रासङ्गिकेतिवृत्ते तु” सा० द०।

इतिश = पु० ऋषिभेदे। तस्य गोत्रापत्यम् नडा० फक्। ऐतिशायनस्तद्गोत्रापत्ये पुंस्त्री।

इतिह = अव्य० इति एवं ह किल द्वन्द्वः। उपदेशपरम्परायाम् यथाऽत्र वटे यक्ष इत्युपदेशपरम्परैव न तु केनापि दृष्ट्वा तथा कुथितम्। इति तख प्रसिद्धिमात्रता “इति होचुर्वृद्धा” सा० कौ०।

इतिहास = पु० इतिह पारपार्य्योपदेश आस्तेऽस्मिन् आसआधारेघञ् ६ त०। “धर्मार्थकाममोक्षाणामुपदेशसमन्वितम्। पूर्बवृत्तकथाथुक्तमितिहासं प्रचक्षते” इत्यक्तलक्षणे पुरावृत्तप्रकाशके भारतादिग्रन्थे। “इतिहासपुराणाद्यैः षष्ठं सप्तमं नयेत्” दक्षः “खाध्यायं श्रावयेत् पित्र्ये धर्मशास्त्राणि चैव हि। आख्यानानीतिहासांश्च पुराणानि खिलानि च” मनुः। “वाकोवाक्येतिहासपुराणः पञ्चमोवेदानां वेदः” छा० उ० “इतिहासोत्तमादस्माज् जायन्ते कवि बद्धयः। पञ्चभ्य इव भूतेभ्योलोकसंविधयस्त्रयः। भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम्। संस्कारोपगतां ब्राह्मों नानाशास्त्रोपवृंहिताम्” भा० आ० १ अ० इत्युक्ते, भारतस्येति हासरूपत्वम्। “इतिहासपुराणाद्यैर्वेदं समुपवृंहयेत्” स्मृतिः। २ अन्यस्मिन् पुरावृत्ते स च भारते शातिप- र्व्वादौ “अत्राप्युदाहरन्तीममितिहासं पुरातनम्” इत्यनेन बहुकत्वो दर्शितः। “नवमेऽहनि तार्क्ष्योवै वैपश्चितस्तस्य वयांसि विशस्तानीमान्यासत इति वयांसि ब्रह्मचारिण इत्युपसमानीताः स्युस्तानुपदिशतीतिहासोवेदः सोयमितीतिहासमाचक्षीत” आश्व० श्रौ० वेदभागविशेषस्यैवेतिहासरूपत्वमुक्तम्। तच्च पुरावृत्तप्रतिपादकत्वात् तथेति बोध्यम् तदभिप्रायेणैव “वाकोव्याक्येतिहासपुराण इति” छान्दोग्यवाक्यमिति द्रष्टव्यम्। पौराणिकमतसिद्धे ३ ऐतिह्ये प्रमाणे च।

इतिहासपुराण = न० इतिहासावेदकं पुराणम्। आथर्वणवेदभागभेदे समा० द्व० २ इतिहासपुराणसमाहारे च।

इत्कट = पु० इतं गन्तारं जनं कटति आवृणोति स्वशिखास्थफलेन कट–आवरणे अच् ६ त० (ओकडा) वृक्षे तत्समीपगन्तुर्वस्त्रादौ हि तत्फलसंयोगात् गतिनिरोध इति लोकप्रसिद्धम्।

इत्किला = स्त्री किल–शौक्ल्ये क किलः इत् गतः किलः शौक्ल्य यस्मात्। रोचनायाम् गन्धद्रव्यभेदे शब्द च०।

इत्थम् = अव्य० इदम् + थमु। १ इदंप्रकारे इत्थम्भावः इत्थम्भूतः। २ अनेन प्रकारेणेत्यर्थे च “इत्थसमसुंविलपन्तममुञ्चत्” नैष०। “इत्थं रतेः किमपि भूतमदृश्यरूपम्” कुमा० “इत्थं व्रतं धारयतः प्रजार्थम्” रघुः। “इत्यमाराध्यमानोऽपि” कुमा० “इत्थ क्षितीशेन वसिष्ठधेनुः” रघुः। “सिद्धाप्रयोगे एतस्मिन् उपपदे णमुल्। इत्थङ्कारम् इत्थम्भावमित्यादि।

इत्थम्भाव = पु० इत्थं भावः प्राप्तिः भू–प्राप्तौ वञ्। कस्यचित् प्रकारस्य प्राप्तौ।

इत्थम्भूत = त्रि० इत्थं कञ्चित् प्रकारं भूतः प्राप्तः भू–कर्त्तरि क्त। कञ्चित् प्रकारं प्राप्ते “इत्थम्भूतलक्षणे” लक्षणेत्यम्भूताख्यानभागवीप्सास्विति” च पा०।

इत्थशाल = पु० इत्थं शल–अच् पृ०। नील० ता० उक्ते योगभेदे तद्विवृतिः यथा “शीघ्रेऽल्पभागैर्बहुभागमन्देऽग्रस्थे निजं तेज उपाददोत स्यादित्थशालोऽयमथो विलिप्तालिप्तार्द्धहीनोयदि पूर्ण्णमेतत्। शीघ्रोयदा भान्त्यलवस्थितः सन् मन्देऽग्रभस्थे निदधाति तेजः। स्यादित्यशालोयमथैष दीप्तांशकाधिकाशैरिह मन्दपृष्ठे। तदा भविष्यद्गणनीयमित्थशालं त्रिधैवं मुथशीलमाहुः”। “लग्नेशकार्व्याधिपयोर्यदैष योगस्तदा कार्य्यमुशन्ति सन्तः। लग्नेशकार्य्याधिपतत्सहाथायत्र स्युरस्मिन् पतिसौम्यदृष्टे। तदा बलाढ्यं कथयन्ति योग विशेषतः स्नेहदृशाऽतिशस्तः। स्वर्क्षादिसत्स्थानगतः शुभैश्चेत् युतेक्षितोभूद्भविताप्यथास्ते। तदा शुभं प्रागभवत् सुपूर्ण्णमग्रे भविष्यत्यपवर्त्तते च। व्यत्यस्तमस्माद्विपरीतभावेऽथेष्टेक्षितीऽनिष्टग्रहं प्रपन्नः। अभूच्छुभं प्रागशुभं त्विदानीं संयातुकामे न च भावि वाच्यम्” नील० ता०। “प्रागिक्कवालोऽपर इन्दुवारस्तथेत्थशालोऽपर ईसराफः” “चेदष्टमेशेन कृतेत्थशालः” नील० ता० कम्बूलादौ विशेषः ततच्छब्दे वक्ष्यते अस्त्यर्थे इनि। इत्थशाली तादृशयोगवति ग्रहे।

इत्था = अव्य० इदम् + थाल्–इदादेशः। १ इत्थमित्यर्थे। “क इत्था वेद यत्र सः” कठो० “इन्द्रमित्थागिरोममाच्छाः” ऋ० ३०२, ४, ३। २ सत्ये निरु० इदम् + थम् डादेशः। ३ इदंप्रकारेत्यर्ये। “इत्थाधिया यज्ञवन्तः” ऋ० ३, २७, ६,

इत्य = त्रि० इण–कर्म्मणि क्यप्। गम्ये। “इत्यः शिष्येण गुरुवत्” भट्टिः। “इत्येऽनभ्यासस्थ” वार्त्ति० मुम् अन्यभ्यासमित्यः दूरतः परिहर्त्तव्यः” सि० कौ०। भावे क्यप्। २ गतौ स्त्री। “स्तेनस्थेत्यामन्विहि तस्करस्य” यजु० १२, २३ “इत्यां गतिम्” वेददी०।

इत्यक = पु० इत्यार्थं कायति शब्दायते कै–क इत्यायां गतौ राजभवनप्रवेशे अधिकृतोवा कन् ह्रस्वः। प्रतीहाराघिकारिणि द्वारपाले।

इत्वन् = त्रि० इण्–क्वनिप्। गन्तरि स्त्रियां ङीप् वनोरश्च। ईत्वरी।

इत्वर = त्रि० इण्–क्वरप्। १ पथिके, २ नीचे, ३ क्रूरकर्म्मणि च। ४ षण्डेंपु०। स्त्रियां क्वरबनतत्वात् ङीप्। सा चाभिसारिमायां ५ स्त्रियाञ्च “सपतत्रीत्वरं स्था जगत्” ऋ० १०, ८८, ४।

इद् = अव्य० इदि क्विप् वा० नलोपः। इत् इत्यस्यार्थे एवकारार्थे इच्छब्दे उ०।

इद = ऐश्वर्य्ये इदित् भ्वा० पर० अक० सेट्। इन्दति ऐन्दीत् इन्दाम्–बभूव आस चकार। इन्द्रः।

इदंयुग = न० कर्म्म०। एतद्युगे। इदंयुगे साधुः प्रत्रियुगा० खञ्। ऐदंयुगीनः एतद्युगसाधौ त्रि०।

इदङ्कार्य्या = स्त्री इदं कार्य्यं यस्याः। १ दुरालभायां शब्दच० २ एतद्रूपकार्य्यान्विते त्रि०।

इदन्तन = त्रि० अस्मिन् काले भवः नि० ट्युल् तुट् च। इदानोन्तने “शक्त्विहीनरिदन्तनैः” वृह० स्मृतिः।

इदन्ता = स्त्री इदमो भावः। इदंशब्दार्थभावे अङ्गुल्यादिना दर्शनयोग्यतायाम् “अनिर्द्देश्यमिति” श्रुतिपदव्याख्याने “इदन्तयानिर्द्देष्टुमशक्यम्” भाष्यम्।

इदन्द्र = पु० इदं पश्यति दृश–बा० ड्रम् ६ त०। परमात्मनि तस्य निरुक्तिरैतरेये दर्शिता यथा “स एतमेव पुरुष ब्रह्म ततममपश्यदिदमदर्शमिति तस्मादिदन्द्रोनाम इदन्द्रोहवै नामैनमेवमिदमिन्द्रं सन्तमित्याचक्षते परोक्षेण, परोक्ष प्रिया हि देवाः” ऐत० उ० विवृतञ्चैतद्भाष्ये। “यस्मादिदमित्येव यत्साक्षादपरोक्षाद्ब्रहृ सर्व्वान्तरमप्रश्यन्नपरोक्षेण। तस्मादिदं पश्यतीति इदन्द्रो नाम परमात्मा। इदन्द्रोहवै नाम प्रसिद्धो लोक ईश्वरः। तमेवं इदन्द्रम्। इदमितिपरोक्षाभिधानेनाचक्षते ब्रह्मविदः संव्यवहारार्थं पूज्यतमत्वात् प्रत्यक्षनामग्रहणभयात्। तथा हि परोक्षप्रियाः परोक्षनामग्रहणप्रिया एव ह्येव हि यस्माद्देवाः किमु सर्व्वदेवानामपि देवो महेश्वरः” विवृतमेतदानन्दगिरिणा “तस्येदन्द्रनामप्रसिद्ध्यापि तस्य ज्ञानस्याऽपरोक्षत्वमिति वक्तु तस्मादिन्द्रैति वाक्यम् तद्व्याचष्टे। यस्मादिति।। यस्मात् सर्वान्तरं ब्रह्म इदमित्यपरोक्षं प्रत्यगात्मेत्येवाऽपश्यदित्यन्वयः। कथमिदन्द्रनामत्वमत आह। इदन्द्रो ह वा इति। नन्विन्द्रो मायाभिरित्यादादिन्द्रप्रसिद्धेर्न त्विदन्द्र इत्यत आह। तमेबमिति। इदन्द्रस्यैव स्वतः परोक्षत्वार्थम् अक्षरलोपेनेन्द्र इत्याहुरित्यर्थः। परोक्षोक्तेः प्रयोजनमाह। पूज्येति। पूज्यानां परोक्षतयैव नाम वक्तव्यमित्यत्र प्रमाणमाह। तथा हीति। देवा इति पूज्या इत्यर्थः। अत एवाचार्य्या उपाध्याया इत्युक्तावेव प्रीतिं कुर्व्वन्ति लोके, न तु विष्णुमित्रादिनामग्रहण इति भावः। नाम्नः परोक्षत्वं नाम यथार्थनाम्नो रूपान्तरकरणेन स्वरूपाच्छादनमिति ज्ञेयम्”।

इदम् = त्रि० इदि–कमि नलोमश्च १ पुरोवर्त्तिनि २ दृश्ये ३ बुद्ध्योपस्थापिते “इदमस्तु सन्निकृष्टं समीपवर्त्ति चैतदोरूपम्। अदसस्त विप्रकृष्टम् तदिति परोक्षे विजानीयात्” इत्युक्तेः सन्निकृष्टवाचित्वभस्य अतएव “अस्येति प्रत्यक्षादिसन्निधापितस्य जगत इदमा निदशः” शा० भा० उक्तम्। सन्निकृष्टत्वञ्च बुद्धिमात्रेण, तच्च ज्ञानलक्षणया स्मरणादिना च भवति तेन “कौमुदीयं विरच्यते” इत्यत्र भाविन्यामपि कौमुद्यां बुद्ध्या सन्निधापितत्वेन इदंशब्दप्रयागः। अतएव तदादेः बुद्धिस्थत्वोपलक्षितधर्म्मावच्छिन्ने शक्तिसिति नैयायिकादयः। तादृशार्थपरत्वे एवास्य सर्व्वनामता शब्दस्वरूपपरत्वे तु न। “इदमोऽन्वादेशे” पा० “इदमा निर्देश्चः” शा० भा० “इदमस्तु सन्निकृष्टम्” “अयमुदयति विततोर्द्धरश्मिजालः” बाघः। “अयमञ्चति पञ्चशरानुचरः” सा० द० टी० “इदं किलाव्याजमनोहरं वपुः” शकु० “अयमसौ भगवानुत पाण्डवः” किरा०। “इनं विव्यस्वते योगम्” गीता “इमं लोकं मातृभक्त्या पितॄ भक्त्या तु मध्यमम्” मनुः। अन्वादेशे एनादेशः द्वितीयाटोस्सु “एनं युवानं पतिं वः” इति वृषोत्सर्गमन्त्रः”। “यद्येनमुज्झसि तदा कतरोवरस्ते” नैष०। “अनेन यूना सह पार्थिवेन” रघुः। अनूक्तौ एनेन। एवम् अनयोः एनयोः। सर्व्वनामकार्य्यम्। इमे अस्मै अस्मात् एषाम् अस्मिन् स्त्रियाम् इयम्। “इयं महेन्द्राभृतीनधिश्रियः” कुमा० “इतीयं वैदिकी श्रुतिः” मनुः। अस्यैः अस्याः आसाम्। अत्राकच्। इमकौ इमकेनेत्यादि प्रत्यक्षविषयतयास्मच्छब्दार्थेऽस्य क्वचित् वृत्तिः “अयं जनः प्रष्टुमनास्तपोधने!” “जनोऽयमुच्चैः पदलङ्घ्रनोत्सुकः” “इतः स दैत्यः प्राप्तश्रीर्नेतएवार्हति क्षयम्” कुमा०। इह। थमु इत्थम् थाल् इत्था। दानीम् इदानीम्। त्रल् अत्र तसिल् इतः। अयम् अव्ययमपि। तेन ट्युल तुट्च। इदन्तनः। मयट् इदस्मयः। स्त्रियां ङीप्। वति इयान् स्त्रियाम् ङीप् इयती।

इदा = अव्य० इदम् दाच् वेदे नि०। इदानामित्यर्थे “इदाहिते वे विषतः” ऋ० ६, २१ “इदा इदानीमिति भा०। इत् आ द्वन्द्व०। सम्यगवघारणादौ तद्युक्ते इत्येवंरूपे। इदावत्सरः। तस्य निरुक्तिस्तच्छब्दे वक्ष्यते।

इदानीम् = अव्य० इदम्–दानीम् इश् च। सम्प्रत्यर्थे। “इदानीमावयोर्मध्ये सरित्सागरभूधराः” उद्भटः। “सा चेदानीं प्रचेतसः” रघुः “इदानीञ्चेन्मातः क्षिपसि शमनाग्रेव द तदा” जगन्नाथः। भवार्थे ट्युल् तुट्च्। इदानीन्तनः वत्तमानकालभवे त्रि० स्त्रियां ङीप्। “वासना चेदानीन्तनी प्राक्तनी वेति” सा० द०।

इदावत्सर = पु० इदाचिह्नितः वत्सरः। वत्सरपञ्चकान्तर्गते वत्सरभेदे तदानयनप्रकारो यथा “शकाङ्कात् पञ्चभिःशेषात् समाद्याद्यास्तु वत्सराः। सपरीदानुपूर्व्यास्ते तथोदापूर्ब्बका मताः” ज्यो० तथा च एकाङ्के शिष्टे सवत्सरः, द्व्यङ्के परिवत्सरः, त्र्यङ्के इदावत्सरः, चतुरङ्के अनुवत्सरः, पञ्चाङ्के शिष्टे उदावत्सरः। तेषां फलन्तु मल० त० विष्णुध०। “संवत्सरे तथा दानं तिलस्य तु महाफलम्। परिपूर्व्वेतथा दानं यवानाञ्च द्विजोत्तम!। इदापूर्व्वेऽन्नवस्त्राणां धान्यानाञ्चानुपूर्ब्बके। उदासंवत्सरे दानं रजतस्य महाफलम्” उदावत्सरस्थाने इद्वत्सरोऽपि “परिवत्सरोऽसीदावत्सरोऽसीद्वत्सरोऽसि” राज० श्रु० “नभोमण्डलं सह द्यावापृथिव्योर्मण्डलाभ्यां कात्र्स्न्येन सह भुञ्जीत तं कालं लवत्सररं परिवत्सरमिदावत्सरमनुवत्सरमुद्व- त्सरमिति भानोर्मान्द्यशैघ्य्रसमागतिभिः समामननन्ति” भाग० ५ स्क०। “मण्डलाभ्यां चन्द्रार्कमण्डलाभ्यां सहभुञ्जीतेति तेन यदा सूर्य्यस्य शुक्लप्रतिपदि संक्रान्तिर्भवति तदा सौरचान्द्रयोर्मासयोर्युगपदुपक्रमो भवति स संवत्सरः। ततः सौरमानेन वर्षे षट् दिनानि वर्द्धन्ते चान्द्रमानेन च षट् ह्रसन्तीति द्वादशदिनव्यवधानादुभयोरग्रपश्चाद्भावो भवति एवं पञ्च वर्षाणि गच्छन्ति तत्र द्वौ मलमासौ भवतः। ततः पुनः षष्ठः संबत्सरः” श्रीधरः। तथा च समकालारब्धसौरचान्द्रमासयुक्तोबत्सरःसंवत्सरः चान्द्रसौरमासयोरारम्भे समत्वपरिवर्ज्जितमासारब्धोवत् सरः परिवत्सरः। इद् इत्थं परिवत्, आरम्भे समत्वपरिवर्ज्जनवत्त्वेऽपि अन्ते तयोः समत्वस्यागतिमान् वत्सरः इदावत्सरः। अनुगतः सौरसंक्रान्तिं चान्द्रोमासो यत्र तादृशोवत्सरः अनुवत्सरः। अस्य वर्षस्यासक्रान्तमासशून्यतया संक्रान्त्यनुगतचान्द्रमास घटितत्वेन तथात्वम्। उत्क्रान्तो रविसंक्रान्तिं चन्द्रमासोऽत्र पुनः समकालारम्भागतिमांश्च योवत्सरः स उदावत्सरः। अस्येव इद्वर्षत्वं चान्द्रसौरयोर्मासयोरारम्भेसमकालप्राप्त्यैव। एवमेषामन्वर्थकता द्रष्टव्या। पञ्चमवर्षे मलमासद्वयपातकथनभपि “पञ्चमे षञ्चमे वर्षे द्वौ मासावधिमासकौ। तेषां कालातिरेकेण ग्रहाणामतिचारतः” एतच्च प्रायिकं “द्वात्रिंशद्भिर्गतैर्मासैः दिनैः षीडशभिस्तथा। घटिकानां चतुष्केण पतति ह्यधिमासकः” काल० धृतसिद्धान्तवाक्यात् तेन प्रागुक्तभारतवाक्यं “मलमासः स विज्ञेयोमासे त्रिंशत्तमे भवेदिति” काठकगृह्यवाक्यञ्च ज्योतिःशास्त्रोक्तमध्यमानमाश्रित्यैव। सिद्धान्तवाक्यं तु स्फुटमानमाश्रित्येत्यनयोरविरोधः। एवमेव माधवादयः

इदुवत्सर = पु० इद्–उ वत्सरः। इदावत्सरे। “इदुवत्सराय परिवत्सराय संवत्सराय” अथ० ६, ५५, ३।

इद्ध = न० इन्ध–भावे क्त। १ आतपे, २ दीप्तौ, ३ आश्चर्य्ये। च। कर्त्तरि–क्त। ४ दीप्ते ५ दग्धे च त्रि०। “समिद्धशरणादीप्ता” भट्टिः। “तमिद्धमाराधयितुं सकर्ण्णकैः” माघः। “इद्धाबोधैरिति” भट्टौ बोधे इद्धत्वं सर्वशास्त्रसूक्ष्मार्थग्राहित्वम् शासने इद्धत्वमप्रतिहतत्वम्।

इद्धा = अव्य० इन्ध–धाच् नि०। प्राकाश्ये स्वरादिः “समिद्धमिद्धेश! महो ददासि” भाग०।

इध्म = न० इध्यतेऽग्निरनेन इन्ध–मक्। १ काष्ठे “यस्त इध्म जतरत् सिष्विदानः” ऋ० ४, २, ६, “इध्मं काष्ठभारम्” भा०। २ यज्ञियसमिद्भेदे पु०। तत्प्रमाणकरणप्रका- रादि कात्या० श्रौ० दर्थितम्। “अयुग्धातू नि यूनानि” सू०। “इध्मबन्धनबर्हिर्बन्धनार्थानि यूनानि संनहनानि रज्जवोऽयुग्धातूनि भवन्ति। धातवस्तृणमुष्टिप्रक्षेपाः अयुजो विषमा एकत्रिपञ्चसप्तनवादिविषससंख्या धातवोयेषां तान्ययुग्धातूनि। तथा चापस्तम्बः “त्रिधातु पञ्चधातु वा शुल्वं करोतीति” शुल्वं रज्जुमित्यर्थः। “पञ्चविंशतिकुशमयानि यूनानि” इति यज्ञपार्श्वे। तथा “समूलानामसूलानां वा दर्भाणां पूर्ववत् शुल्वं कृत्वोदगग्रं निधायेति” इध्मप्रस्तावे। मानवे च “शुल्वं प्रतिदधात्ययुग्धातु प्रदक्षिणमिति”। तित्तिरिसूत्रे। “अथत्रिरन्वाहितं शुल्वं कृत्वेति” कर्क० बर्हिषो बन्धन प्रकारमाह। “प्रागग्रे यूनौदगग्रं बर्हिराचिनोति” सू०। प्रागग्रे यूने प्रागग्रे संनहने बन्धनार्थायां रज्जौ उदगग्रं बर्हिराचिनोति बन्धनार्थ स्थापयति” कर्क०। अथेध्मबन्धनस्य प्रकारमाह। “उदगग्रे प्रागग्रमिध्मम्” सू०। आचिनोतीत्यनुवर्तते उदगग्रे यूने सनहने प्रागग्रमिध्ममाचिनोति बन्धनार्थं निदधाति” कर्क०। “प्रत्यग्ग्रन्थीनवगूहति” सू०। इध्मवर्हिर्बन्धनार्थानां यूनानां ग्रन्थीन् प्रत्यगवगूहति यूने गाढं बद्ध्वा यूनस्याग्रमूले संकल्प्य प्रदक्षिणमावेष्ट्य इध्मबर्हिषोरग्रभागे प्रोतयित्वा पश्चादिति तयोर्मूलभागे अवगूहति प्रेरयति प्रत्यक्शब्देन इध्मबर्हिषोःपश्चाद्भागो मूलभाग इत्युच्यते दिग्वाचिनोवर्हित्थुदगग्रे निहिते असम्भवात्। क्मठके “ग्रन्थि कृत्वा पुरस्तात् प्रत्यञ्चमपकर्षतीति”। मानवे “शुल्वस्यान्तौ समायग्य “पूषा ते ग्रन्थिमिति” प्रदक्षिणमावेष्टयति पश्चात् प्रत्यञ्चमपकर्षतीति” तैत्तिरीयेऽपि “पश्चात्प्राञ्चमुपगूहतीति”। आपस्तम्बः “पुरस्तात् प्रत्यञ्चं ग्रन्थिमुपगूहति पश्चाद्वा प्राञ्चमिति”। “अष्टादशेध्मं परिधिवृक्षाणाम्” सू०। “परिधीनां वृक्षाः पलाशखदिरविकङ्कतादयः परिधिवृक्षाः तेषां परिधिवृक्षाणां सम्बन्धिनः अष्टादशसंख्यकाष्ठकमिध्मं कुर्य्यात्। मानये “समूलैर्दर्भैः पालाशं खादिरं रौहितकं वाष्टादशदार्विध्मं संनह्यति त्रिंश्च परिधीन् योयज्ञियवृक्षस्तस्येति”। काठके “अष्टादशदारु शुल्वं समानवृक्षस्य संनह्यति विंशति मिष्टौ पशुबन्धे चेति”। अतएव सामिधेनीविवृद्धौ काष्ठ वृद्धिर्भवति ह्रासे च ह्रासो न भवति पित्र्यादौ, तथाहापस्तम्बः “सामिधेनीविवृद्धौ काष्ठानि विवर्धन्ते प्रकृतितो ह्रसमानासु प्रकृतिवदिति”। उपसत्सु तु “मात्रावदिध्मा बर्हिरिति” वचनात् ह्रासः। “इध्मप्रमाणं चारत्निरिति सद्भिः प्रकीर्तितमिति” कात्यायनः (कर्मप्रदीपे) तथा “समित्पवित्रं वेदं च कुर्य्यात् प्रादेशसंमितम्। इध्मस्तु द्विगुणः कार्य्यः परिधिस्त्रिगुणः स्मृतः” “स्मार्ते प्रादेश इध्मो वा द्विगुणः परिधिस्तत” इति। “एकविंशति वा” सू०। अथ वा एकविंशतिमेकविशतिसख्याककाष्ठकमिध्मं कुर्य्यात् तथा चापस्तम्बः “खादिरं पालाशं वैकविंशतिदारुकमिध्मं करोति”। “ततः परिधीनेके” सू०। एके आचार्यास्तत एकविंशतिसंख्यकाष्ठकादिध्मात्त्रीणि काष्ठान्यरत्नि मात्राण्येवोपादाय परिधीन् परिदधति “तद्धेकैध्मस्यैवैतान् परिधीन् परिदधतीति” श्रुतेः। अथ वैकमेवेदं सूत्रम् “एकविंशति वा ततः परिधीनेके” इति एके आचार्य्या विकल्पेन एकविंशतिसंख्यकाष्ठमिध्मं कुर्वन्ति तत इति तस्मादेवैकविंशतिकाष्ठकेध्मात् परिधीन् परिदधति च। एतदेव युक्ततरम् आपस्तम्बसूत्रे एकविंशतिकाष्ठानां विभागदर्शनात्। तथाचाहापस्तम्बः “खादिरं पालाशं वैकविंशतिदारुकमिध्मं करोति त्रयः परिधयः पालाशकाष्ठकाः खादिरोदुम्बरविल्वरोहितकविकङ्कतानां ये वा यज्ञिया वृक्षा आर्द्राः शुष्का वा सत्वच्काः, स्थविष्ठो मध्यमोऽणीयान्द्राधीयान्दक्षिणार्ध्यो ह्रसिष्ठ उत्तरार्ध्यो द्वे, आधार समिधावनुयाज समिदेकविंणतिः समूलानाममूलानां वा दर्भाणां पूर्ब्बवच्छुल्वं कृत्वोदगग्रं निधायेति”। अथ एवंविधमेकीयमतम् यदेकविंशतिकाष्ठकः इध्मः। तस्मिन् पक्षे चेध्मादेव त्रीणि काष्ठान्यादाय परिघिपरिधानमिति। बन्धनानन्तरमिध्मवर्हिषोर्भूमौ निधानं न कायम् आपस्तम्बसूत्रे अनधोनिदधातीत्युक्तत्वात्। तद्धैक इध्मस्यैवैताम् परिधीन् परिदधतीत्यत्न हरिस्वाभिनः तदु तथा न कुर्य्यादनवक्लऽप्ता हि तस्यैते भवन्तीति बाहुमात्रैः परिधिमिरार्द्रैश्च भवितव्यम्। इधुस्तु शुष्कः इन्धनत्वादेव द्विप्रादेशश्च तेन ते इध्मैकदेशभूताः परिधित्वायासमथोः स्युः तदिदमाह अभ्याधानाय हीति शुष्को ह्यादावाधेयः यावत्खर मात्रआहवनींये खरे सम्भवन्तीत्यभिप्रायः यस्तु परिधिवुद्ध्या आहरति सोऽवध्यवेष्टनीयादग्निखरादतिरिक्तमेवाहरति अग्निवेष्टनं च दाहभयान्न शुल्वमिति तऽएषावकॢप्ता इति” कात्या० १, ३, १४, २१। “अपरमितं प्रणयनीयं त्रियूनम” सू०। “प्रणयनस्यायं प्रणयनीयः तं प्रणयनीयमग्निप्रणयनार्थमिध्ममपरिमितमपरिमितकाष्ठक्वं त्रियूनं तिसृभिः संनहनरज्जुभिर्वेष्टितं कुर्य्यात् त्रीणि यूनानि बन्धनानि यस्य स त्रियूनः तं त्रियूनमिति। अपरिमितत्वं च प्रागुक्तेध्मकाष्ठसंख्यापेक्षयातिशयेनाधिकसंख्यकाष्ठकत्वम्। तेन चतुर्विंशतिसामिधेनीको षैष्टकापशुस्तत्र सप्तविंशतिः काष्ठानि भवन्ति। ततश्च प्रणयनीये ततोऽप्यधिकानि अष्टाविंशतिप्रभृतीनि इष्टकासंख्यानि काष्ठानि भवन्ति” कर्क०।

छन्दोगप० “प्रादेशद्वयमिध्मस्य प्रमाणं परिकीर्त्तितम्। एवंमिताः स्युरेवेह सषिधः सर्व्वकर्म्मसु। समिधोऽष्टादशेद्मस्यप्रवदन्ति मनीषिणः। दर्शे च पौर्ण्णमासे च क्रियास्वन्यासु विंशतिः। समिदादिषु होमेषुमन्त्रदैवतवर्ज्जिता। पुरस्ताच्चोपरिष्टाच्च इन्धनार्थं समिद्भवेत्। इध्मोऽप्येधार्थमाचार्य्येर्हविराहुतिषु स्मृतः। यत्र चास्य निवृत्तिःस्यात्तत् स्पष्टीकरवाण्यहम्। अङ्गहोमसमित्तन्त्रसोष्यन्त्याख्येषु कर्म्मसु। येषां चैतदुपर्य्युक्तं तेषु तत्सदृशेषु च। अक्षभङ्गादिविपदि जलहोमादिकर्म्मणि। सोमाहुतिषु सर्व्वासु नैतेष्विध्मो विधीयते। “इध्मजातीयकाष्ठार्द्धप्रमाणं मेक्षणं भवेत्”। “सुन्वन्दभीतिरिध्मभृतिः पक्थ्यकैः” ऋ० ६, २०, १३। “इध्मानां काष्ठानां भृतिः” भा०। तुषितदेवगणमेदे स च भाग० ४ स्क० १ अ० दर्शितो यथा “तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिलस्पतिः। इध्मः कविर्विभुः स्वाह्नः सुदेवो रोचनोद्विषट्। तुषिता नाम ते देवा आसन् स्वायम्भुवेऽन्तरे” भाग०।

इध्मजिह्व = पु० इध्मं काष्ठं जिह्वेवास्य। वह्नौ।

इध्मवाह = पु० लोपामुद्रागर्भजाते अगस्त्यपुत्रे ऋषिभेदे “सहस्रसम्मितः पुत्र एकोऽप्यस्तु तपोधन!” इति लोपामुद्रयाप्रार्थितोऽगस्त्यस्तस्या पुत्रमुत्पादयास तस्य नाम दृदस्युरिध्मवहनाच्च इध्मवाह इति नामान्तरं तदेदुक्तं भा० व०। ९९। “तत आधाय गर्भन्तमगमत् वनमेव सः” “तस्मिन्वनगते गर्भोववृधे सप्त शारदान्। सप्तमेऽव्दे गते चाथ प्राच्यवत् स महोज्ज्वलः। ज्वलदग्निप्रभावेन दृढस्युर्नाम भारत!। साङ्गोपनिषदान् वेदान् जपन्निव महातपाः। तस्य पुत्रोऽभवदृषेः स तपस्वी महाद्विजः। स वालएव तेजस्वी पितुस्तस्य निदेशने। इध्मानां भारवहनाच्चेध्मवाहस्ततोऽभवत्”।

इन = गतौ तना० पर० सक० सेट्। निरुक्ते इन्वतीति बहुवचनान्त इति केचित् इनोति इनुतः इन्वन्ति इनोमि इन्वः इनुवः इनुयात् इनोतु इनु इनवानि ऐनोत्। ऐनीत् इयेन। निरुक्ते इन्वति इति एकवचनान्तस्तेन इन्वधातुरेवायमिति बहवः स च भ्वादि० प० सेट्। इन्वति ऐन्वीत् इन्वामास तद्रूंपम्। “ऋघायमाण इन्वसि” ऋ० १, १७६, १।

इन = पु० इण–नक्। १ सूर्य्ये, “नन्दत्रिषड्लग्नभवर्क्षपुत्रव्यया इनाद्धर्षपद स्वभोच्चम्” नील० ता०। २ प्रभौ “न न महीनमहीनपराक्रमम्” रघुः। ३ नृपविशेषे च।

इनक्ष = णक्ष गतौ छान्दस इकारोपसर्जनः भ्वा० पर० स० नक्षवद्रूपम् इनक्षति “दूरेचत्तायछन्त सद्गहनं यदिनक्षत्” ऋ० १, १३२, ६, “इनक्षत् व्याप्नोति णक्ष गतौ छान्दसैकारोपसर्जन इति भा० “शुक्रेण शोचिषाद्यामिनक्षत्, ऋ० १०, ४५, ७,

इनानी = स्त्री इनमानयति अन–णिच्–अण् गौरा०। वटपत्री वृक्षे राजनि०।

इन्थिहा = स्त्री ताजकोक्तायां मुथहायाम्। तदानयनप्रकारादि नील० ता० उक्तम् यथा “स्वजन्मलग्नात् प्रतिवर्षमेकैकराशिभोगा मुथहा क्रमेण। स्वजन्मलग्नं रवितष्टयातंशरद्युतं सा भमुखेन्थिहा स्यात्। प्रत्यहं शरलिप्ताभिर्वर्द्धते सानुपाततः। सार्द्धमंशद्वयं मासैत्याहुः केऽपि सूरयः। स्वामिसौम्येक्षणात् सौम्यं क्षुतदृष्ट्या भयं रुजः। भावालोकनसंयोगात् फलमस्या निरूप्यते। वर्षलग्नात् सुखास्तान्त्यरिपुरन्ध्रेष्वशोभना। पुण्यकर्मायगा स्वाम्यं दत्तेऽन्यत्रोद्यमाद्धनम्। शत्रुक्षयं मानसतुष्टिलाभं प्रतापवृद्धिं नृपतेः प्रसादम्। शरीरपुष्टिं विविधोद्यमांश्च ददाति सौख्यं मुथहा तनुस्था। उत्साहतोऽर्थागमनं यशश्च स्वबन्धुसम्मानमुपाश्रयाच्च। मिष्टान्नभोगोबलपुष्टिष्टौख्यं स्यादर्थभावे मुथहा यदाव्दे। पराक्रमाद्वित्तयशःसुखाप्तिः सौन्दर्य्यसौख्यं द्विजदेवपूजा। सर्वोपकारस्तनुपुष्टिकान्तिर्नृपाश्रयश्चेन्मुथहा तृतीये। शरीरपीडा रिपुभीः स्ववर्गैर्वैरं मनस्तापनिरुद्यमत्वे। स्यान्मुन्थहायां सुखभावगायां जनापवादामयवृद्धिदुःखम्। यदीन्थिहा पञ्चमगाव्दवेशे सद्बुद्धिसौख्यात्मजवित्तलाभः। प्रतापवृद्धिर्विविधाविलासा देवद्विजार्च्चा नृपतिप्रसादः। क्लमत्वमङ्गेषु रिपूदयश्च भयं रुजस्तस्करतो नृपाद्वा। कार्य्यार्थनाशो मुथहाऽरिगा चेत् दुर्बुद्धिवृद्धिः स्वकृतेऽनुतापः। कलत्रबन्धुव्यसनारिभीतिरुत्साहभङ्गो धनधर्म्मनाशः। स्मरोपगा चेन्मुथहा तनोः स्याद्रुजा मनोमोहविरुद्धचेष्टा। भयं रिपोस्तस्करतोविनाशो धर्मार्थयोःसुव्यसनामयश्च। मृत्युस्थिता चेन्मुथहा नराणां बलक्षयः स्याद्गमनं विदूरे। स्वामित्वमर्थोपगमो नृपे भ्योधर्मोत्सवःपुत्रकलत्रसौख्यम्। देवद्बिजार्च्चा परमं यशश्च भाग्योदयो भाग्यगतेन्थिहा स्यात्। नृपप्रसादं च जनोपकारं सत्कर्मसिद्धिं द्विजदेवभक्तिम्। यशोऽभिवृद्धि विविधार्थलाभं दत्तेऽम्बरस्था मुथहा धनाप्तिम्। यर्दा न्थिहा लाभगता विलाससौभाग्यनैरुज्यमनःप्रसादाः। भवन्ति राजाश्रयतोधनाप्तिः सन्मित्रपुत्राभिमताप्तयश्च। व्ययोऽधिको दुष्टजनैश्च सङ्गोरुजस्तथा विक्रमतोऽप्यसिद्धिः। धर्मार्थहानिर्मुथहाव्ययस्था यदा तदा सज्जनतोऽपि वैरम्। क्रूरैर्दृष्टःक्षुतदृशा यो भावो मुथहात्र चेत्। शुभं तद्भावजं नश्येदशुभञ्चापि वर्द्धते। शुभस्वामियुक्तेक्षिता वीर्य्ययुक्सेन्थिहा स्वामिसौम्येत्थशालं प्रपन्ना। शुभं भावज पोषयेन्नाशुभं साऽन्यथात्वेऽन्यथा भाव ऊह्योविमृश्य। जनुर्लग्नतोऽस्तान्त्यषण्मृत्युबन्धुस्थिताव्दे हता क्रूरखेटैस्तु चेत्। विनश्येत् स यत्रेन्थिहा भाव एवं शुभस्वामिदृष्ट्या न नाशः शुभं च। यदोभयत्रापि हतो भावोनश्येत् स सर्वथा। उभयत्र शुभत्वेऽपि भावोऽसौ वर्द्धतेतराम्। वर्षेत्वनिष्टगेहस्था यद्भावे जनुषि स्थिता। क्रूरोपघातात्तंभावं नाशयेत् शुभयुक् शुभा। जनुर्लग्नतस्तुर्य्यगा सौम्ययुक्ताव्दवेशे पितुर्द्रव्यलाभं विधत्ते। नृपाद्भीतिदा पापयुक्तातिकष्टाष्टमादावपीत्थं विमृश्याभिधेयम्। यस्मिन् भावे स्वामिसौम्येक्षिता सा भावोजन्मन्येष यस्तस्य वृद्धिः। एवं पापैर्नाश उक्तस्तु तस्येत्यूह्यं वीर्य्याद्वर्षतः सौख्यमेव। यदीन्थिहा सूर्य्यगृहे युतेक्षिता सूर्य्येण राज्यं नृपसङ्गमञ्च। दत्ते गुणानां परभागमाप्तिं स्थानान्तरस्था फलदा दृशेति। कुजेन युक्ता कुजभे कुजेन दृष्टा च पित्तोष्णरुजन्तनोति। शस्त्राभिघातं रुधिरप्रकोपं सौरेक्षिता सौरगृहे विशेषात्। चन्द्रेण युक्तेन्दुगृहेऽथ दृष्टेन्दुनापि वा धर्मयशोऽभिवृद्धिः। नैरुज्यसन्तोषमतिप्रवृद्धिं ददाति पापेक्षणतोऽतिदुःखम्। वुधेन शुक्रेण युतेक्षितापि तद्भेऽपि वा स्त्रीमतिलाभसौख्यम्। धर्मं यशश्चाप्यतुलं विधत्ते कष्टं च पापेक्षणयोगतः स्यात्। युतेक्षिता वा गुरुणा गुरोर्भे यदीन्थिहा पुत्रकलत्रसौख्यम्। ददाति हेमाम्बररत्नकोषं शुभेत्थशालादिह राज्यलाभः। शनेर्गृहे तेन युतेक्षितापियदीन्थिहा वातरुजंविधत्ते। मानक्षयं वह्निभयं धनस्य हानिं च जीवेक्षणतः शुभाप्तिम्। तमोमुखे चेन्मुथहा धनाप्तिर्यशःसुखं धर्भसमुन्नतिश्च। सितेज्ययोगेक्षणतः पदाप्तिः सुवर्ण्णरत्नाम्बरलब्धयश्च। भोग्या राहोर्लवास्तस्य मुखं पृष्ठं गता लवाः। ततः सप्तमभं पुच्छं विमृश्येति फलं वदेत्। तत्पृष्ठभागेन शुभा यदा स्यात्तत्पुच्छगापद्रिपुभीतिदुःखम्। पापेक्षणादर्थसुखस्य हानिश्चेज्जन्मनीत्थं गृहवित्तनाशः। ये जन्म- काले बलिनोऽव्दकाले चेद्दुर्बलास्तैरशुभं समान्ते। विपर्य्ययेपूर्ब्बमनिष्टमुक्तं तुल्यं फलं स्यादुभयत्र साम्ये। षष्ठेऽष्टमेऽऽन्त्ये भुवि चेन्थिहेशोऽस्तगोऽथ वक्रोऽशुभदृष्टयुक्तः। क्रूराच्चतुर्थास्तगतश्च भव्योन स्याद्रुजं यच्छति वित्तनाशम्। यद्यष्टमेशेनं युतोऽथदृष्टःक्षुताख्यदृष्ट्या न शुभस्तदापि। योगद्बये स्यान्निधनं यदैकोयोगस्तदा मृत्युसमत्वमाहुः। मुथहातत्पतिर्वापि जन्मनीक्षितयुक् शुभैः। वर्षारम्भे शुभं दत्तेऽव्देचेदन्तेऽन्यथा शुभम्”।

इन्दम्बर = इदि–क्विप् इन्द् ऐश्वर्य्यान्वितमम्बरमिव नीलवर्ण्णत्वात्। नीलोत्पले” शब्दमा०।

इन्दि(न्दी) = स्त्री इदि–इन्। लक्ष्म्याम् वा ङीप् तत्रैव।

इन्दिन्दिर = पु० इन्दि–किरच् नि०। भ्रमरे त्रिका०।

इन्दिरा = स्त्री इदि–किरच्। लक्ष्म्याम् “इन्दिरा लोकमाता च लक्ष्मीस्तवः।

इन्दिरामन्दिर = न० इन्दिरायामन्दिरमिव। १ विष्णौ राजवल्लभः २ पद्मे ६ त०। ३ लक्ष्मीगृहे।

इन्दिरालय = पु० ६ त०। १ पद्मे २ नीलोपले च। क्लीवत्वमपि।

इन्दिवर = न० इन्दिर्लक्ष्मीस्तस्यावरं वरणीयम्। नीलोत्पले वा ङीष् इन्दीवरमप्यत्र। “इन्दीवरदलश्याममिन्दिरानन्दवर्द्धनम्” विष्णुस्तवः “इन्दीवरैरुत्खचितान्तरेव” रघुः २ उत्पलमात्रे च “नीलेन्दीवरलोचनत्रययुताम्” तन्त्र०

इन्दीवरिणी = स्त्री इन्दीवर + समूहे इनि। १ उत्पलसमुदाये, २ तद्युक्तलतायाञ्च।

इन्दीवरी = स्त्री इन्दीं लक्ष्मीं वृणाति वृ–अच् गौरा० ङीष्। शतमूल्याम्। मेदि० इन्द्रचिर्भट्यां टाबन्तः राजनि०।

इन्दीवार = पु० इन्द्यालक्ष्म्यावारो वरणमत्र। नीलोत्पले।

इन्दु = पु० उनत्ति चन्द्रिकया भुवं क्लिन्नां करोति उन्द–उ आदेरिच्च। १ चन्द्रे, “दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव” रघुः “तस्याः प्रसन्नेन्दुमुखप्रसादम्” महोदधेः पूरैवेन्दुदर्शनात्” रघुः “रामस्येन्दोरिव श्रियः” रघुः “न नर्म्मसाचिव्यमकारि नेन्द ना” “क्षिप्ताइवेन्दोः सरुचोऽधिवेलम्” माघः “करैरिन्दोरन्तश्छुरित इवसंभिन्नमुकुलः” वेणी० अमृतकरैः सकलतापनिवारणेनास्य इन्दुत्वम्। २ तद्देवताके मृगशिरोनक्षत्रे “त्यक्त्वा हरीज्येन्दुकरान्त्यमैत्रे दीपिति ३ एकसंख्यायुक्ते, नवेन्दुवेदेषुहुताशलब्ध्व्या” सि० शि०। ४ कर्पूरे च।

अथं गगनमण्डले राशिचक्रे ग्रहाणां मध्ये सर्व्वेषाम वस्तात् स्थितः यथाह सू० सि०। “मन्दामरेज्यभूपुत्र सूर्य्यशुक्तेन्दजेन्दवः। परिभ्रमन्त्यधोऽधस्थाः”। तस्थ कक्षामानमुक्तम्। सि० शि० यथा “सार्द्धाद्रिगोमनु सुराब्धिमितार्ककक्षा (४३३१४९७। ३०) चान्द्री सहस्र गुणिता जिनरामसंख्या” (३२४०००)। एतन्मितयोजनानि इन्दुकक्षामानम्। अनुक्षण गच्छतां ग्रहाणां राशिचक्रे इष्टसमये कीदृशांशेऽवस्थितिरिति ज्ञानाय अहर्शणेन तस्य स्थुटी करणप्रकारादि तत्रैव दर्शितं यथा। “अभ्रेष्विभाङ्क गजकुञ्जरगोऽङ्कपक्षाः (२५९८८९८५०) कक्षां गृणन्ति गणका भगणस्य चेमाम्। “अत्र रविकक्षातो भकक्षा षष्टि गुणा, एवं भकक्षायाः षष्ट्यंसोरविकक्षा” प्रमि० “कल्पोद्भवैः क्षितिदिनैर्गगनस्य कक्षा मक्ता भवेद्दिनगति र्गगनेचरस्य। “पादोनगोऽक्षघृतिभूमितयोजनानि (११८५८४०) खेटा व्रजन्त्यनुदिनं निजवर्त्मनीमे” सि० शि० “यदि कुदिनौ कक्षामितयोजनानि गच्छन्ति तदैकेन किमिति फलं दिनगतियोजनानि। तानि च स्थुलत्वेन तावत् पादोनगोऽक्षधृतिभूमितानि स्युः” प्रमि०। ग्रहानयनमाह। “अहर्गणात् क्वक्षिनवाङ्कनिघ्नात् (९९२१) नवेन्दुवेदेषुहुताश (३५४१९) लब्ध्या। अहर्गहणो गोऽक्षधृतीन्दु (११ ८५९) निघ्नो विवर्जितः स्युर्गतयोजनानि” खयास्वया तानि पृथक् च कक्षया हृतानि वा स्युर्भगणादिकाग्रहाः” सि० शि०। “अहर्गणे भूनेत्रनवनन्द ९९२१ गुणे नवशशिश्रुतिवाणाग्निभिः ३५४११ भक्ते यल्लब्धं तेन बिवर्ज्जितः कार्य्यः। कः?। नन्देन्द्रियधृतीन्दु ११८ गुणोऽहर्गणः। एवं गतयोजनानि स्युः तेभ्यः पृथक्पृथक्व् खया स्वया कक्षया भाजितेभ्यो भगणादिका ग्रहालभ्यन्ते अत्रोपपत्तिः। दिनगतियोजनैरहर्गणे गतयोजनानि भवन्तीति सुनमम्। अत्र सुखार्थं गोऽक्षधृतीन्दुभिः ११८५९ संपूर्णैरहर्गणो गुणितः। सोऽधिको जातः। यदधिकं तच्छोध्यम्। तस्याधिकस्य ज्ञानार्थमुपायः। परमोऽहर्गणः कुदिनतुल्यः। तेन गुणकेन गुण्यः। एवं गोऽक्षधृतीन्दुनिघ्रः सन् खकक्षातोऽधिको भवति। तस्मात् खकक्षां विशोध्य शेषेणानुपातः। यदि कुदिनतुल्येनाहर्गणेनैतावदधिकं भवति तदिष्टेनाहर्गणेन किमिति। अत्र कुदिनानां तस्य शेषस्य च पञ्चपञ्चयुगवेदैरयुतगुणितै ४४५ ५०००० रपवर्ते कृते सति शेषस्थाने क्वक्षिनवाङ्का उत्पन्नाः कुदिनस्थाने नन्देन्दुवेदेषहुताशाः। एव त्रैराशिकेन यल्लभ्यते तेन स्थूलगतिगुणितेऽहर्गणे वर्जिते गतयोजनानि भवन्ति। सर्वेषां ग्रहाणां तान्येव गतेस्तुल्यत्वात्। अथ ग्रहार्थमनुपातः। यदि कक्षातुल्यैर्ग- तयोजनैरेको भगणस्तदैभिः किमिति फलं गतभगणाद्याः सर्वे ग्रहा भवन्तीत्युपपन्नम्” प्रमिता०। “ग्रहस्य कक्षैव हि तुङ्गपातयोःपृथक् च कल्प्यात्र तदीयसिद्धये। अर्कस्य कक्षैव सितज्ञयोः सा ज्ञेया तयोरानयनार्थमेव। उक्ते तयोर्ये चलतुङ्गकक्षे तत्रैव तौ च भ्रमतोऽर्कगत्या” सि० शि० “अत्रोच्चस्य पातस्य च या कक्षा गच्छति सा तयोरानयनार्थमेव कल्प्या। अन्यथा या ग्रहस्य कक्षा सैव तयोरपि। यतो ग्रहकक्षाया उच्चप्रदेशस्योच्चव्यपदेशः। यत्र च विमण्डलेन सह संपातस्तस्य प्रदेशस्य पातसंज्ञेति गोले सम्यक् प्रतिपादितमस्ति। तथा बुधशुक्रयोरत्र ये अर्ककक्षातुल्ये कक्षे आगच्छतस्ते तयोरान यनार्थमेव। किन्तु तयोर्ये चलकक्षे तत्रैव च भ्रमतः परमर्कगत्या। एतदुक्तं भवति भूमध्यादर्कं प्रति नीतं सूत्रं यत्र ज्ञचलकक्षायां लगति तत्र बुधो यत्र शुक्रच चलकक्षायां लगति तत्र शुक्रो भ्रमतीत्यर्थः” प्रमि०।

अत्र गगनकक्षा च कल्पार्हगणः। यथाहार्य्यभट्टः। “योयत्र भ्रमति खगस्तद्वृत्तं भवति तस्य कक्षाख्यम्। अम्बरकक्षा कल्पाहर्गणनामा भवेद्द्युगतिः”। स्वस्वफक्षायां स्थितानामपि ग्रहाणां नीचोच्चस्थानस्थितिवशतः परिघिभेदादिकं भवतीति ग्रहशब्दे वक्ष्यते। अत्र बुधशुक्रकक्षयोः रविकक्षातुल्यत्वं यदुक्तं तन्मध्यकक्षया फलानयनार्थम्। श्रीपतिना तु ग्रहान्तराणां कक्षामितिरुक्ता यथा। “अष्ट्यङ्कषण्मनुगजाः (८१४६९१६) क्षितिनन्दनस्य, ज्ञस्येशदन्त कृतखेन्दुमिताथ (१०४३२११) जैवी। रूपाश्विनाग युगशैलगुणेन्दुवाणाः (५१३७४८२१) खाग्न्यङ्गसागर रसोत्कृतयः (२६६४६३०) सितस्य। भूधराहिनगनागरसर्त्तुक्ष्माधराश्विशशिनः (१२७६६८७८७) शनिकक्षा। एतच्च खगोलशब्दे विस्तरेण वक्ष्यते।

इन्दुश्च जलमयः सूर्य्यसम्पर्कात् उज्ज्वलितो भवति तेन च दिने दिने यथा यथा शुक्ले पक्षे रविवियोगभेदात्तेजः सम्पर्कविशेषस्तथा तथा वर्द्धते कृष्णे तु रविमण्डलसन्निकृष्टतया क्रमशो दिने दिने तत्तेजःसम्पर्कविशेषाभावस्तेन क्रमेण दिने दिने क्षय इत्यादिकमप्युक्त सि० शि०। “तरणिकिरणसङ्गादेष पीयूषग्रिण्डो दिनकरदिशि चन्द्रश्चन्द्रिकाभिश्चकास्ति। तदितरदिशि बालाकुन्तलश्यामलश्री र्घट इव निजमूर्त्तिच्छाययैवातपस्थः। सूर्य्यादधःस्थस्य विघोरधःस्थमर्धं नृदृश्यं स्वकलाऽसितं स्यात्। दर्शेऽथ भार्धान्तरितस्य शुक्तं तत् पौर्णमास्यां परिवर्त्तनेन। कक्षा- चतुर्थे तरणेर्हि चन्द्रःकर्णान्तरे तिर्यगिनो यतोऽब्जात्। पादोनषट्काष्ट (८५। ४५) लवान्तरेऽतो दलं नृदृश्यस्य दलस्व शुक्लम्। उपचितिमुपयाति शौक्ल्यमिन्दोस्त्यजत इनं व्रजतश्च मेचकत्वम्। जलमयजलजस्य गोलकत्वात् प्रभवति तीक्ष्णविषाणरूपतास्य। यद्याम्योदक् तपनशशिनोरन्तर सोऽच बाहुः कोटिस्तूर्ध्वाधरमपि तयोर्यच्च तिर्यक्स कर्णः। दोर्मूलेऽर्कः शशिदिशि भुजोऽग्राच्च कोटिस्तदग्रे चन्द्रः कर्णो रविदिगनया दीयते तेन शौक्ल्यम्”।

“प्राग्वद्भित्तेरुत्तरपार्श्वे चन्द्रकक्षां रविकक्षां च विलिख्य तत्रोर्ध्वरेखां तिर्यग्रेखां च कृत्वा चन्द्रकक्षोर्ध्वरेखासंपाते चन्द्रविम्बं विलिख्येदं दर्शयेत्। तिर्यग्रेखाया उपरि चन्द्रकक्षाव्यासार्धमितेऽन्तरेऽन्यां तिर्यग्रेखां कुर्यात्। सा रेखा प्रत्यग्रविकक्षायां यत्र लग्ना तत्र स्थित एवार्के ऊर्ध्व रेखावच्छिन्नचन्द्रविम्बार्धं पश्चिमतः शुक्लं भवति। तस्यार्धमधस्तनं मनुष्यदृश्यम्। तत्रस्थेऽर्के व्यर्केन्दुसपादचतुर्भागोनं (८५। ४५) राशित्रयं भवति। एतावत्येव व्यर्केन्दुभुजे विम्बार्धं पश्चिमं पूवं वा शुक्लं भवितुमर्हति प्रमि० “धाम्ना धामनिधेरयं जलमयो धत्ते सुधादीधितिः सद्यःकृत्तमृणालकन्दविशदच्छायां विवस्वद्दिशि। हर्म्येधर्मघृणेः करैर्घट इवान्यस्मिन्विभागे पुनर्बालाकुन्तलकालतां कलयति स्वच्छां तनोश्छायया” श्रीपतिः। “भानुश्चेत् प्रतिविम्बितो जलमये शीतांशुगोले दिवा निस्तेजा निशि सुप्रभः कथमथो किं सूर्यबिम्बासमः। गोलार्घं रविणोज्ज्वलं च सकलं न स्यात् तडागे यथा मासार्धेऽखिलदृश्यतेति गणकान् ज्ञानाह्वयः पृच्छति” ज्ञानराजः।

वृह० सं० शौक्ल्यादि प्रकारादि प्रदर्श्य तच्चारादिफलमुक्तं यथा “नित्यमधःस्थस्येन्दोर्भाभिर्भानोः सितं भवत्यर्द्धम्। स्वच्छाययान्यदसितं कुम्भस्येवातपस्थस्य। सलिलमये शशिनि रवेर्दीधितयो मूर्च्छितास्तमो नैशम्। क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः। त्यजतोऽर्कतलं शशिनः पश्चादवलम्बते यथा शौक्ल्यम्। दिनकरवशात्तथेन्दोः प्रकाशतेऽधःप्रभृत्युदयः। प्रतिदिवसमेवमर्कात् स्थानविशेषेण शौक्ल्यपरिवृद्धिः। भवति शशिनोऽपरार्द्धे पश्चाद्भागे घटस्येन। ऐन्द्रस्य शीतकिरणो मूलाषाढाद्वयस्य वा यातः। याम्येन, बीजजलचरकाननहा वह्निभयदश्च। दक्षिणपार्श्वेन गतः शशी विशाखानुराधयोः पापः। मध्येन तु प्रशस्तः पित्र्यस्य विशाखयोश्चापि। षडनागतानि पौष्णाद् द्वादश रौद्राच्च मध्ययोगीनि। ज्यठाद्यानि नवर्क्षाण्युडुपतिनातीत्य युज्यन्ते। उन्नतमीषच्छृङ्गं नौसंस्थाना विशालता चोक्ता। नाविकपीडा तस्मिन् भवति शिवं सर्वलोकस्य। अर्धोन्नते च लाङ्गलमिति पीडा तदुपजीविनां तस्मिन्। प्रीतिश्च निर्निमित्तं मनुजपतीनां सुभिक्षं च। दक्षिणविषाणमर्धोन्नतं यदा दुष्टलाङ्गलाख्यं तत्। पाण्ड्यनरेश्वरनिधनकृदुद्योगकरं बलानां च। समशशिनि सुभिक्षक्षेमवृष्टयः प्रथमदिवससदृशाः स्युः। दण्डवदुदिते पीडा गवां नृपश्चोग्रदण्डोऽत्र। कार्मुकरूपे युद्धानि यत्र तु ज्या ततो जयस्तेषाम्। स्थानं युगमिति याम्योत्तरायतं भूमिकम्पाय। युगमेव याम्यकोट्यां किञ्चित्तुङ्गं स पर्व्वशायीति। विनिहन्ति सार्थवाहान् वृष्टेश्च विनिग्रहं कुर्यात्। अभ्युच्छ्रायादेकं यदि शशिनोऽवाङ्मुस्वं भवेच्छृङ्गम्। आवर्जितमित्यसुभिक्षकारि तद्गोधनस्यापि। अव्युच्छिन्ना रेखा समन्ततो मण्डला च कुण्डाख्यम्। अस्मिन्माण्डलिकानां स्थानत्यागो नरपतीनाम्। प्रोक्तस्थानाभावादुदगुच्चः सस्यवृद्धिवृष्टिकरः। दक्षिणतुङ्गश्चन्द्रो दुर्भिक्षभयाय निर्दिष्टः। शृङ्गेणैकेनेन्दुं विलीनमथवाप्यवाङ्मुखम शृङ्गम्। सम्पूर्णं चाभिनवं दृष्ट्वैको जीविताद्भयं पश्येत्। संस्थानविधिः कथितो रूपाण्यस्माद्भवन्ति चन्द्रमसः। स्वल्पोदुर्भिक्षकरो महान् सुभिक्षावहः प्रोक्तः। मध्यतनुर्वज्राख्यः क्षुद्भयदः सम्भ्रमाय राज्ञां च। चन्द्रो मृदङ्गरूपः क्षेमसुभिक्षावहो भवति। ज्ञेयो विशालमूर्तिर्नरपतिलक्ष्मीविवृद्धये चन्द्रः। स्थूलः सुभिक्षकारी प्रियधान्यकरस्तु तनुमूर्तिः। प्रत्यन्तान् कुनृपांश्च हन्त्युडुपतिः शृङ्गे कुजेनाहते, शस्त्रक्षुद्भयकृद्यमेन, शशिजेनावृष्टिदुर्मिक्षकृत्! श्रेष्ठान् हन्ति नृपान्महेन्द्रगुरुणा, शुक्रेण चाल्पान्नृपान्, शुक्ले याप्यमिदं फलं ग्रहकृतं कृष्णे यथोक्तागमम्। भिन्नः सितेन मगधान् यवनान् पुलिन्दान् नेपालभृङ्गिमरुकच्छसुराष्ट्रमद्रान्। पाञ्चालकैकयकुलूतकपूरुषादान् हन्यादुशीनरजनानपि सप्त मासान्। गान्धारसौवीरकसिन्धुकीरान् धान्यानि शैलान्द्रविडाधिपांश्च। द्विजांश्च मासान्दश शीतरश्मिः सन्तापयेद्वाक्पतिना विभिन्नः। उद्युक्तान् सह वाहनैर्नरपतींस्त्रैगर्तकान्मालवान् कौलिन्दान् गणपुङ्गवानथ शिवीनायोध्यकान् पार्थिवान्। हन्यात् कौरवमत्स्यशुक्त्यधिपतीन् राजन्यमुख्यानपि प्रालेयांशुरसृग्ग्रहे तनुगते षण्मासमर्यादया। यौधेयान् सचिवान् सकौरवान् प्रागीशानथ चार्जुनायनान्। हन्वादर्कजमिन्नम्ण्डलः शीतांशुर्दशमासपीडया। मगधान्मथुरां च पीड- येद् वरणायाश्च तटं शशाङ्कजः। अपरत्र कृतं, युगं वदेद् यदि भित्त्वा शशिनं विनिर्गतः। क्षेमारोग्यसुभिक्षविनाशी शीतांशुः शिखिना यदि भिन्नः। कुर्यादायुधजोविविनाशं चौराणामधिकेन च पीडाम्। उल्कया यदा शशी ग्रस्त एव हन्यते। हन्यते तदा नृपो यस्य जन्मनि स्थितः। भस्मनिभः पुरुषोऽरुणमूर्तिः शीतकरः किरणैः परिहीणः। श्यावतनुः स्फुटितः स्फुरणो वा क्षुत्समरामयचौरभयाय। प्रालेयकुन्दकुमुदस्फटिकावदातो यत्नादिवाद्रिसुतया परि मृज्य चन्द्रः। उच्चःकृतो निशि भविष्यति मे शिवाय योदृश्यते स भविता जगतः शिवाय। यदि कुमुदमृणालहारगौरस्तिथिनियमात् क्षयमेति वर्धते वा। अविकृतगतिमण्ड लांशुयोगी भवति नृणां विजयाय शीतरश्मिः। शुक्ले पक्षे सम्प्रवृद्धे प्रवृद्धिं ब्रह्मक्षत्रं यातिवृद्धं प्रजाश्च। हीने हानिस्तुल्यता तुल्यतायां कृष्णे सर्व्वं तत्फलं त्यत्ययेन”। “भूमध्यात् चन्द्रादेरुच्छ्रितियोजनमपि” सि० शि० उक्तं

यथा “नगनगाग्निनवाष्टरसा (६८९३७७) रवेः रसरसेषु महीषुमिता ५१५६६ विधोः। निगदितावनिमध्यत उच्छ्रितिः श्रुतिरियं किल योजनसंख्यया” “अत्रोपपत्तिः कक्षाध्याये चन्द्रार्कयोः कक्षे कथिते किन्तु व्यासौ नोक्तौ तौ त्रैराशिकेनानेयौ। यदि भनन्दाग्निमित ३९२७ परिधेः खवाणसूर्य्यमितो १२५० व्यासः (लीलाकत्युक्तदिशा आनीतः तदा) ४३३१४९७। ३० मितायाः सूर्य्यकक्षयाः, ३२४००० मितचन्द्रक्षाया वा कीदृश इत्यनुपातेन व्यास आनेयः तदर्द्धमेव श्रुतिः। इयमेव भूमध्यात् चन्द्रार्कयोः उच्छ्रितिः प्रमि०” इयं मध्यश्रुतिः, उच्चनीचयोरन्यैव यथा “मन्दश्रुतिर्द्राक् श्रुतिवत् प्रसाध्या” सि० शि० उच्चनीचवृत्तपरिधिना उच्छ्रितिः साध्या त्रैराशिकेनानेया” प्रमि० युक्तञ्चेदम् ग्रहाणां स्वस्वकक्षाया मुच्चादिस्थानविशेषाऽस्ति तत्रोच्चस्थानस्थितौ परिधेराधिक्यं नीचस्थाने तु न्यूनता मध्ये मध्यता इति तदनुसारेण परिधिवैलक्षण्यात् उच्छ्रितिवैलक्षण्यमिति। एवमन्येषां ग्रहाणामपि स्वस्वकक्षाभिरनुपातेन व्यासमानीय तदर्द्धं मध्य श्रुतिरित्याद्यवगम्यम्। अथेदं सूक्ष्ममीक्षणीयम् अत्र भूमध्यादिति भूमिव्यासार्द्धमध्यादित्येवार्थकं न तु भूपृष्ठमध्यत इत्यर्थकम्। तथा च भूव्यासार्द्धस्य तत्तदुच्छ्रितेर्वर्ज्जने भूपृष्ठादुच्छ्रितिर्भवति भूपृष्ठात्तु उक्तः उच्छ्रायोः नैव युज्यते ग्रहाणां कक्षारूपपरिधेर्व्यासार्द्धस्य भूगोलार्द्धकान्तत्वेन तदर्द्धपर्य्यन्तमेव तद्वृत्तव्यासार्द्धत्वौचित्यादिति

एवं सौरागमादिभिः इन्दुमण्डलस्य सूर्य्यमण्डलादधः स्थायित्वे सिद्धे” भाग० ५ स्कु०। “एवं चन्दमा अर्कगभस्तिभ्य उपरिष्टात् लक्षयोजनत उपलभ्यमानोऽर्कस्य संवत्सरभुक्तिं, पक्षाभ्यां मासभुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्षभुक्तिमुग्रचारी द्रुततरगमनोभुङ्क्ते अथापूर्य्यमाणाभिरपक्षीयमाणाभिश्च कलाभिः पितॄणामहोरात्राणि पूर्ब्बापरपक्षाभ्यां वितन्वन् सर्व्वजीबनिवहप्राणो जीवश्च एकमेकं नक्षत्रं त्रिंशता मुहूर्त्तैर्भुङ्क्ते य एष षोडशकलः पुरुषो भगवान्मनोमयोऽम्मयोऽमृतमयोदेवपितृमनुष्यपशुपक्षिसरीसृपवीरुधां प्राणाप्यायनशीलत्वात् सर्व्वमय इति वर्ण्णयन्ति”। अत्र अर्क्तगभस्तिभ्य इत्यत्र हेतौ पञ्चमी अन्वयश्चास्य उपलभ्यमान इत्यत्र। यथा च सूर्य्यकिरणैरेय चन्द्रस्योपलब्धिस्तच्च प्रागुक्तवचनैः समर्थितम्। न तु अपादाने षञ्चमी उपरिष्टात् इत्यत्रान्वयिनी। तथात्वे सौरागमविरोधः स्यात्। उपरिष्टात् इत्यत्र भूमेरित्यध्याहार्य्यं लक्षयोजनमिति बहुयोजनपरमिति न काचिदनुपपत्तिः। एवमन्यान्यपि पौराणिकवचनानि व्याख्या तव्यानि। इन्दुपक्षद्वयेन यथा पित्र्यदिनस्य सम्पादनं तदप्युक्तम्” सि० शि०। “विधूर्द्धभागे पितरो वसन्तः स्वाधःसुधादीधितिमामनन्ति। पश्यन्ति तेऽर्कं निजमस्तकोर्द्धे दर्शे यतोऽस्मात् द्युदलं तदेषाम्। भार्द्धान्तत्वान्न विधोरधःस्थं तस्मान्निशीथः खलु पौर्ण्णमास्याम्। कृष्णे रविः पक्षदलेऽभ्युदेति शुक्लेऽस्तमेत्यर्थत एव सिद्ध्वम्” अत्राधःस्थत्वमर्कस्य पित्र्यपेक्षया बोध्यम् तद्विषयमेव वा पौराणिकं सूर्य्यस्याधःस्थत्ववचनमिति न किञ्चिदनुपपन्नम्”। चन्द्रस्याधःस्थित्यैव यथा तिथ्यादिसम्भवः तथोक्तम् कालमाधवीये “अर्काद्विनिःसृतः प्राचीं यद्यात्यहरहः शशीति” वचननव्याख्याने। “अयमर्थः अधः प्रदेशवर्त्ती शीघ्रगामी चन्द्रः ऊर्द्ध्वप्रदेशवर्त्ती अशीघ्रगामी सूर्य्यः। तथा सति तयोर्गतिविशेष वशाद्दर्शे चन्द्रमण्डलमन्युनमनतिरिक्तं सत् सूर्य्यमण्डलस्याधो भागे व्यवस्थितं भवति तदा सूर्य्यरश्मिभिः साकल्येनामिभूतत्वाच्चन्द्रमण्डलमीषदपि न दृश्यते। उपरितने दिने शीघ्रगत्या प्राचीं याति राशेर्द्वादभिरशैः सूर्य्यमुल्लङ्घ्य गच्छति। तदा चन्द्रस्य पञ्चदशसु भागेषु प्रथम भागोदर्शनयोग्योभवति। सोऽयं भागः प्रथमकलेत्यभिधीयते तत्कलानिष्पत्तिपरिमितकालः प्रतिपत्तिथिर्भवति यवं द्वितीयादितिथिष्ववगन्तव्यमिति”। तदेतद्विष्णु धर्म्मोत्तरे विस्पष्टमभिहितम् “चन्द्रार्कगत्या कालस्य परिच्छेदे यदा भवेत्। तदा तयोः प्रवक्ष्यामि गतिमाश्रित्य निर्णयम्। भगणेन समग्रेण ज्ञेया द्वादश राशयः। त्रिंशांशश्च तथा राशेर्भाग इत्यभिधीयते। आदित्याद्विप्रकृष्टस्तु भाग–द्वादशकं यदा। चन्द्रमाःस्यात्तदाराम! तिथिरित्यभिधीयते” “सेयं द्वादृशभिर्भागैः सूर्य्यमुल्लङ्घितवती प्रथमा चन्द्रकला शृङ्गद्वयोपेतसूक्ष्मरेखाकारा शौक्ल्यमीषदुपयाति उत्तरोत्तरदिनेषु सूर्य्यमण्डलविप्रकर्षात् तारतम्यानु सारेण शौक्ल्यमुपचीयते। अनयैव रीत्या सन्निकर्षतार तम्येन मेचकत्वमुपचीयते तदेतदुक्तम” सि० शि०। उपचयमुपयाति शौक्ल्यमिन्दोरित्यादि। ९३१ पृष्ठे उक्तम्। सूर्य्याचन्द्रमसोर्यौ सन्निकर्षविप्रकर्षाउ तयोरवसानन्दर्शपूर्ण्णिमयोः संपद्यते तदाह गोभिलः। “यः परोविप्रकर्षः सूर्य्याचन्द्रमसोः सा पूर्ण्णमासी यः परः सन्निकर्घः सामावास्येति” नन्वत्र चन्द्रकलानां सूर्य्ये प्रवेशनिर्गमौ प्रतीयेते सोमोत्पत्तौ ९३४ पृ० तु वह्न्यादिदेवतासु। नायन्दोषः। अस्मदादिदर्शनापेक्षया ज्योतिःशास्त्रस्य प्रवृत्तत्वात् सोमोत्सतौ तु वह्न्यादिदेवतानान्तत्कालप्रयुक्ता तृप्तिर्विवक्षिता तत्र यदि सूर्य्ये प्रवेशनिर्गमौ यदि वा बह्न्यादिदेवतादिषु सर्व्वथापि कलाप्रयुक्ता एव प्रतिपदादितिथयः” कालमा० ग्रहाणां कक्षानुसारेणैव स्वस्वकक्षास्थराश्यंशादिमानम् तथा च स्वल्पकक्षायां स्थितस्य राश्यंशकलादिकं स्वल्पं महत्यां स्थितस्य महत् यथोक्तमार्य्यभट्टेन। “षष्ट्या सूर्य्याब्दानां प्रपूरयन्ति ग्रहा भपरिणाहम्। दिव्येन भपरिधिं समं भ्रमन्तः स्वकक्षासु। मण्डलमल्पमधस्तात् कालेनाल्पेन पूरयति चन्द्रः। उपरिष्टात् सर्व्वेषां महच्च महता शनैश्चापि। अल्पेहि मण्डलेऽल्पोमहति महान्तश्च राशयोज्ञेयाः। अंशाः लास्तथैवं विभागतुल्याः खल्वेषु। भानामधःशनैश्चरः सुरगुरुभौमार्कभृगुबुधचन्द्राः। एषामधश्च भूमिर्मेधीभूता च मध्यस्था”। तेन ग्रहाणां प्रागुक्तस्वस्वकक्षा द्वादशभिर्भक्ताः राशिप्रमाणयोजनानि। ते च पुनस्त्रिंशद्भक्ता अशमानयोजनानि। ते षष्ठ्या भक्ता कलामितयोजनानि एव षष्ठ्याभागे विकलादियोजनानि। अधिकं ग्रहशब्दे वक्ष्यते। एतन्मण्डलाधिष्ठातृचन्द्रोत्पत्तिरत्रिजातशब्दे १११ पृष्ठे उक्ता।

***