आसुत् = त्रि० आ + सु–क्विप्। कृताभिषवे। तस्येदम् गहा० छ। आसुतीयः। तत्संबन्धिनि त्रि०।

आसुति = स्त्री आ + सु–क्तिन्। सोमादिनिष्पीडने १ अभिषवे, २ मद्यनिष्पादने(चोयान) इति ख्याते मद्यपाके च। “परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय” ऋ० ८, १, २६। आ + सु– प्रसवे क्विप्। ३ प्रसवे। “योनाविन्द्र! क्षुध्यद्भ्योवय आसुतिं दाः” ऋ० १, १०४, ७। आसुतेः सन्निकृष्टदेशादि चतुरर्थ्यां मध्वा० मतुप्। आसुतिमत् तद्वति त्रि० स्त्रियां ङीप्।

आसुतीवल = पु० आसुतिरस्त्यस्य बलच् दीर्घः। १ शौण्डिके। २ सोमाभिषवशालिनि याज्ञिके च।

आसुर = त्रि० असुरस्येदम् अण्। असुरसंबन्धिनि। “आसुरं तद्भयेत्तोयं पीत्वा चान्द्रायणञ्चरेत्” स्मृतिः “कुलालचक्रनिष्पन्नमासुरं मृण्मयं स्मृतम्। तदेव हस्तघटितं स्थाल्यादि दैविकं भवेत्” कात्या० स्मृ०। तेन (मालसा) प्रभृतिमृण्मयस्य हस्तघटितत्वेन ग्राह्यताऽन्येषां त्वग्राज्यता। स्त्रियां ङीप्। “आसुरी रात्रिरत्यत्र तस्मातां परिवर्जयेत्” स्मृतिः। २ असुरवदाचारयुक्ते तदाचारश्च गीतायामुक्तोयथा। “द्वौ भूतसर्गौ लोकेऽस्मिन् दैवआसुरएव च। दैवोविस्तरशः प्रोक्तआसुरं पार्थ मे शृणु। प्रवृत्तिञ्च निवृत्तिञ्च जना न विदुरासुराः। न शौचं नापि चाचारंन सत्यं तेषु विद्यते। असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरम्। अपरस्परसम्भूतं किमन्यत् कामहेतुकम्। एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः। प्रभवन्त्युग्रकर्म्माणः क्षयाय जगतोऽहिताः। काममाश्रित्य दुष्पृरं दम्भमानमदान्विताः। मोहाद्गृहीत्वाऽसद्ग्राहान् प्रवर्त्तन्तेऽशुचिव्रताः। चिन्तामपरिमेयाञ्च प्रलयान्तामपाश्रिताः। कामोपभोगपरमाएतावदिति निश्चिताः। आशापाशशतैर्बद्धाः कामक्रोधपरायणाः। ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान्। इदमद्य मया लब्धमिदं प्राप्स्ये मनोरमम्। इदमस्तीदमपि मे भविष्यति पुनर्धनम्। असौ मया हतः शत्रुर्हनिष्ये चापरानपि। ईश्वरोऽहमहं भोगी सिद्ध्वोऽहं बलवान् सुखी। आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया। यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः। अनेकचित्तविभ्रान्तामोहजालसमावृताः। प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ। आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः। यजन्ते नाम यज्ञैस्ते दम्भेनाविधिपूर्ब्बकम्। अहङ्कारं बलं दर्पं कामं क्रोधञ्च संश्रिताः। मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः। तानहं द्विषतः क्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभास्वासुरीष्वेव योनिषु। आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि। मामप्राप्यैव कौन्तेय! ततोयान्त्यधमां गतिम्। त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः। कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्। एतैर्विमुक्तः कौन्तेय! तमोद्वारैस्त्रिभिर्नरः। आचरत्यात्मनः श्रेयस्ततोयाति परां गतिम्। यः शास्त्रविधिमुत्सृज्य वर्त्तते कामचारतः। न स सिद्धिमवाप्नोति न सुखं न परां गतिम्। तस्माच्छास्त्रं प्रमाणन्ते कार्य्याकार्य्यव्यवस्थितौ। ज्ञात्वा शास्त्रविधानीक्तं कर्म्म कर्त्तुमिहार्हसि”। ३ असुरवत् कर्त्तव्ये विवाहभेदे पु०। स च “ब्राह्मोदैवस्तथैवार्षः प्रजापत्यस्तथासुर” इति विभज्य “पैशाचश्चासुरश्चैव न कर्त्तव्यो कदाचन” इति निषिध्य “ज्ञातिभ्योद्रविणं दत्त्वा कन्यायं चैव शक्तितः। कन्याप्रदानं स्वाच्छन्द्यादासुरोधर्म उच्यते” इति मनुना लक्षितः। ब्राह्मादिविवाहेषु प्रशस्त पुत्रलाभरूपफलमुक्त्वा “इतरेषु च शिष्टेषु नृशंसानृतवादिनः। जायन्ते दुर्विवाहेषु ब्रह्मधर्म्मद्विषः सुताः”। अन- न्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा। निन्दितर्निन्दिता नृणां तस्मान्निन्द्यान् विवर्जयेत्”। “कुविवाहैः क्रियालोपै वदानध्ययनेन च कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च” इति मनुना तस्य निन्दा कृता “आसुरोद्रविणदानात्” या० स्मृ०। आसुरादिविवाहस्तु कर्त्तव्यीह्यग्निसाक्षिकः” इत्युक्तेः तत्राप्यग्न्याधानं कार्य्यमेव “आसुरादिविवाहेषु पितृगामि भवेद्धनम्” स्मृतिः “अप्रजस्त्वीधनं भर्त्तुर्ब्राक्ष्यादिषु चतुर्ष्वपि। दुहितॄणां प्रसूता चेच्छेषेषु पितृगामि तत्” या० स्मृ०। “शेषेष्वासुरगान्धर्वराक्षसपैशाचेषु भार्य्यात्वं प्राप्तायाः” इति मिता०। दायभागकृता तु तत्तद्विवाहकालेषु दत्तंधनमिति व्याख्यातम्। ४ राजसर्षपे (राइसरिषा) स्त्री राजनि०। ५ विड्लवणे न०। स्वार्थे अण्। ६ असुरे। “तस्मादप्यस्येहाददानमश्रद्दधानमयजमानमाहुरासुरोवतेति” छा० उ० उक्ते ७ अयजनशीले अयजनादिकर्त्तृत्वादस्यासुरत्वम्। अतएव मनुना “अयज्वनां हि यद्वित्तमासुरखं तदुच्यते इति” तद्द्रव्यस्यासुरधनत्वमुक्तम्। ततश्च शास्त्रानभ्यनुज्ञातविषयभोगहेतुरागप्रधाना, वैदिकनिषेधातिक्रमेण स्वभावसिद्धरागद्वेषानुसारिसर्व्वानर्थहेतुप्रवृत्तिहेतुभूता च राजसी प्रवृत्तिः आसुरी प्रकृतिः। आसुरी सम्पत्तु असुरमणहेतुभूता रजस्तमोमयी सम्पद् सा च अशुभवासनासन्ततिजन्या तल्लिङ्गं तु “दम्भोदर्पोऽभिमानश्च क्रोधः पारुष्यमेव च। अज्ञानं चाभिजातस्य पार्थ!। सम्पदमासुरीम्” गीतोक्तम्। “दैवी सम्पद् विमोक्षाय निबन्धायासुरी मता” गीता ८ छेदात्मकचिकित्साभेदे स्त्री शब्दच०।

आसुरस्व = न० ६ त०। “अयज्वनान्तु यद्द्रव्यमासुरस्वं तदुच्यते” इति मनूक्ते अयाज्ञिकधने।

आसुरायण = पु० आसुरेरपत्यं युवा फक्। आसूरेर्युवगोत्रापत्ये स च शुक्लयजुःसम्प्रदाय प्रवर्त्तक “आसुरायणाच्च यास्कादासुरायणः” शत० ब्रा० “आसुरेरुपसंख्यानम्” वार्त्ति० उक्तेः स्त्रियां ष्फे षित्त्वात् ङीष्। आसुरायणी।

आसुरि = पु० तत्त्वज्ञानोपदेशेन अस्यति संसारम् असौरच् असुरः कपिलस्तस्य छात्रः इज्। साङ्ख्ययोगाचार्य्ये कपिलशिष्ये ऋषिभेदे। “एतत्पवित्रमग्य्रं मुनिरासुरयेऽनुकम्प्रया प्रददौ। आसुरिरपि पञ्चशिखाय तेन बहुधा कृतं तन्त्रम्” सा० का०। सएव प्रत्यहं तर्पणीयर्षिगणे पठितः। “सनकश्च सनन्दश्च तृतीयश्च सनातनः। कपिलश्चासूरिश्चैव वोढुः पञ्चशिखस्तथेति “तर्पणे स्मृतिः। युवापत्ये तु फक् तस्य तौल्व० न लुक्। आसुरिः तत्पुत्रः आसुरायणः तत्पौत्रः स च यजुर्वेदसंप्रदायप्रवर्त्तकः आसुरायणशब्दे उदा०।

आसुरिवासिन् = पु० आसुरौ तत्समीपे वसति णिनि। आसुरिमुनेरन्तेवासिनि प्राश्नीपुत्रे शुक्लयजुःसंप्रदाय प्रवर्त्तके ऋषिभेदे। “प्राश्नीपुत्रात् आसुरिवासिनः प्राश्नीपुत्रः” शत० व्रा०।

आसेक = पु० आ + सिच–घञ्। जलादिना १ वृक्षादेरीषत्सेचने २ सम्यक्सेके च।

आसेक्य = पु० आसेकमर्हति यत् आ + सिच–ण्यत् वा। “पित्रोस्तु तुल्यवीर्य्यत्वादासेक्यः पुरुषो भवेत्। स शुक्रं प्राश्य लभते ध्वजोन्नतिमसंशयम्” इति वैद्यकोक्ते नपुंसकभेदे। ध्वजोन्नतये तस्य जन्मोत्तरं शुक्रसेकयोग्यत्वात् तथात्वम्।

आसेचन = त्रि० न सिच्यते तृष्यति मनोऽत्र आधारे ल्युट् असेचनः स्वार्थेऽण्। १ यद्दर्शने मनो न तृष्यति तस्मिन् मन आनन्दविशेषहेतौ पदार्थे। स्वार्थेकन्। तत्रैव। “नयनयुगासेचनकम्” सा० द०। रायमुकुटस्तु असेचनैत्येवाह। आ + सिच–भावे ल्युट्। २ सम्यक्सेके न०। “तस्य सर्पिरासेचनं कृत्वा” शत० ब्रा०। करणे ल्युट्। ३ आसेचनसाधने पात्रे। “या पात्राणि पूष्ण आसेचनानि” ऋ० १, १६ २, १३। ४ तादृशे क्षुद्रपात्रे स्त्री ङीप्।

आसेदिवस् = त्रि० आ + सद–कृसु। १ निकटागते २ प्राप्ते च। स्त्रियां ङीप् वस्योत्त्वम् इटोनिवृत्तिश्च। आसेदुषी।

आसेद्धृ = त्रि० आ + सिध–तृच्। व्यवहारे राजाज्ञया प्रतिवादिनो गत्यादिरोधकर्त्तरि वादिनि स्त्रियां ङीप्। आसेधशब्दे उदा०।

आसेध = पु० आ + सिध–भावे घञ्। व्यवहारे राजाज्ञया वादिना प्रतिवादिनः स्थानान्तरगत्याद्यवरोधे” तत्कालप्रकारभेदादिः मिता० नारदेनोक्तः। “वक्तव्येऽर्थे ह्यतिष्ठन्तमुत्क्रामन्तञ्च तद्वचः। आसेधयेद्विवादार्थी यावदाह्वा नदर्शनम्। स्थानासेधः कालकृतः प्रवासात् कर्म्मणस्तथा। चतुर्बिधःस्यादासेधो नासिद्धस्तं विलङ्घयेत्। आसेघकाल आसिद्धः आसेधं योऽतिवर्त्तते। स विनेयोऽन्यथा कुर्व्वन्नासेद्धा दण्डभाग् भवेत्। नदीसन्तार कान्तारदुर्द्देशोपप्लवादिषु। आसिद्धस्तं परासेधमुत्क्रामन्नापराध्नुयात्। निर्वेष्टुकामोरोगार्थो यियक्षुर्व्यसने स्थितः। अभियुक्तस्तथान्येन राजकार्य्योद्यतस्तथा। गवां प्रचारे गोपालाः शस्यावापे कृषीवलाः। शिल्पिनश्चापि तत्कालमायुधीयाश्च विग्रहे”। नासेद्धव्याइति शेषः

आसेवन = न० सम्यक् सेवनम्। १ सततसेवने २ पौनःपुन्ये च। “निसस्तपतावनासेवने” पा०। “आसेवनं पौनःपुन्यम्” सि० कौ०।

आसेवा = स्त्री आ + सेव–अ। १ पौनःपुत्ये “पौनःपुन्यमासेवा” सि० कौ०। २ सम्यक्सेवायाञ्च।

आसेवित = त्रि० आ + सेव–क्त। १ सम्यक्सेविते २ पौनःपुन्येन सेविते च भावे क्त। ३ आसेवायां न०। ततः इष्टा० इनि। आसेवितिन्। आसेवनकर्त्तरि त्रि० स्त्रियां ङीप्।

आस्कन्द = पु० आ + स्कन्द–घञ्। १ उत्प्लवने २ आक्रमणे ३ संशोषणे ४ तिरस्कारे घोटकानामास्कन्दिताख्ये ५ गतिभेदे

आस्कन्दन = न० आस्कद्यतेऽत्र आधारे ल्युट्। १ युद्धे भावे ल्युट्। २ तिरस्कारे ३ आक्रमणे “चरणास्कन्दननामिताचलेन्द्रः” किरा०। ४ अश्वगतिभेदे च।

आस्कन्दित = आ + स्कन्द–स्वार्थे णिच्–क्त आस्कन्दोजातोऽस्य तारका० इतच् वा। १ अश्वानां गतिभिदे स च पञ्चविधः तल्लक्षणमुक्तं हेमचन्द्रेण। “गतयः पञ्च धारास्थास्तुरङ्गाणां क्रमादिमाः। तत्र धौरितकं धौर्य्यं धोरणं धोरितञ्च तत्। बभ्रुकङ्कशिखिक्रोडगतिवद् वल्गितं पुनः। अग्रकायसमुल्लासात् कुञ्चिताग्रं नतत्रिकम्। प्लुतं तु लङ्घनं पक्षिमृगयोरनुहारकम्। उत्तेजितं तेरितं स्यात् मध्यवेगेन या गतिः। उत्तेरितमुपकण्ठमास्कन्दितमित्यपि। चतुर्भिश्च पदैः कोपादिव उत्प्लु त्य या गतिः”। संज्ञायां स्वार्थे वा कन्। तत्रैव। तार० इतच्। २ आस्कन्दनयुक्तमात्रे त्रि०।

आस्क्र = त्रि० आ + क्रम–ड वेदे नि० सुट्। आक्रामके “आनोविश्वा आस्क्रा गमन्तु देवाः” ऋ० १, १८३, २। “आस्क्राः शत्रूणामाक्रमितारः” भाष्यम्।

आस्त = त्रि० आ + अस + विक्षेपे क्त। सम्यक्क्षिप्ते।

आस्तर = पु० आ + स्तॄ–कर्मणि अप्। १ हस्तिपृष्ठस्थकम्बले (झुल) इति ख्याते। २ विस्तरणीये कटादौ “वासो वल्कलमास्तरः किसलयः” शा० श०। भावे अप्। ३ सुविस्तारे

आस्तरण = न० आस्तीर्य्यते कर्म्मणि ल्युट्। १ आस्तीर्य्यमाणे कटादौ “दिवास्तरणसंकीर्ण्णे विस्तीर्ण्णे गमर्नोत्तमे”। “दर्भास्तरणमास्तीर्य्य” भा० प० २५० अ०। २ आस्तरण पट्याम् स्त्री ङीप्। मावे ल्युट्। ३ विस्तारे। “निवेशनं पुनर्नवीकृत्य लेपनास्तरणोपस्तरणैः” आश्व० गृ०। आस्तरणे दीयते कार्य्यं वा व्युष्टा० अण्। ४ आस्तरणे दीयमाने ५ तत्र कार्य्ये च त्रि०।

आस्तरणिक = त्रि० आस्तरणं प्रयोजनमस्य ठक्। आस्तरणसाधने वस्त्रादौ। “अथास्तरणिकं सर्वं घृताक्तं समवेशयन्” रामा०। तस्येदम् वृद्धत्वात् छ। आस्तरणीय आस्तरण सम्बन्धिनि त्रि०।

आस्तायन = त्रि० अस्तीत्यव्ययम् अस्ति + विद्यमानस्य सन्निकृष्टदेशादि पक्षा० फक्। विद्यमानसन्निकृष्टदेशादौ।

आस्तार = पु० आस्तीर्य्यते आ + स्तॄ–घञ्। १ विस्तार्य्ये २ विस्तारे च

आस्तारपङ्क्ति = स्त्री कर्म्म०। वैदिके छन्दोभेदे सा च सर्व्वानु० कात्या० दर्शिता यथा “पञ्चमं पङ्क्तिः पञ्चपदा। अथ चतुष्पदाद्या विराट् दशका। अयुजौ जागतौ ततोवृहत्यौयुजौ तद्विपरीताद्यौ चेत् प्रस्तारपङ्क्तिरन्त्यौ चेदास्तारपङ्क्तिराद्यन्त्यौ चेत् संस्तारपङ्क्तिर्मध्यमौ चेद्विष्टारपङ्क्तिः”।

आस्ताव = पु० आस्तुवन्त्यत्र आ + स्तु + आधारे घञ्। यज्ञे स्तोतॄणां १ स्तवनाधारे देशे। “तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोपविवेश” छा० उ०। “उद्गातॄन् उद्गातृपुरुषान् आगत्य आस्तुवन्त्यस्मिन्निति आस्तावस्तस्मिन्नास्तावे” भा०। “उदञ्चोगत्वाऽऽस्तावचात्वालशामित्रान् उदङ्मुखोनभोऽसंमृष्टः” द्राह्यायणः। “उदङ्मुखास्तिष्ठन्तः ततः आस्तावदेशं चात्वालं शामित्रं च स्तुत्यादिभिर्मन्त्रैर्यथाक्रममुपतिष्ठेरन्” ताण्ड्यब्रा० भा०। “वहिर्वेद्यास्तावे वा स्थापयेयुः” आश्व० श्रौ०। भावे घञ्। २ सम्यक्स्तवे।

आस्तिक = त्रि० अस्ति परलोक इति मतिर्यस्य ठक्। १ परलोकास्तित्ववादिनि “आस्तीत्युक्त्वा गतो यस्मादास्तिकस्तेन कथ्यते” इति निरुक्तसंज्ञके जरत्कारमुनिसुते २ मुनिभेदे आस्तिकोत्पत्तिकथा आस्तीकशब्दे वक्ष्यते। “आस्तिकस्य मुनेर्माता भगिनी वासुकेस्तथा जरत्कारमुनेः पत्नी मनसादेवि ते नमः” मनसाप्रणाममन्त्रः।

आस्तिकार्थद = पु० आस्तिकायार्थं ददाति दा–क। जनमेजये राजनि शब्दच०।

आस्तिक्य = न० आस्तिकस्य भावः ष्यञ्। आस्तिकत्वे परलोकाभ्युपगन्तृत्वे “माहात्म्यमपि चास्तिक्यं सत्यं शौचं दयार्जवम्। विद्वद्भिः कथ्यते लोके पुराणैःकविसत्तमैः। भा० आ० १ अ०। “भावितैः करणैः पूर्व्वमास्तिक्याच्छ्रुति दर्शनात्” भा० व० ८५ अ०। “आस्तिक्यशुद्धभवतः प्रियधम्मर्धर्म्मम्” किरा०।

आस्तीक = पु० वासुकिभगिन्यां जरत्कारुनाम्न्यां जरत्कारुमुनेःपुत्रे मुनिभेदे तदुत्पत्तिकथा यथा। “तत्र तां भैक्षकत्कन्यां प्रादात्तस्मै महात्मने। नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्लत। अस्वनामेति वै मत्वा भरणे चाविचारिते। मोक्षभावे स्थितश्चापि द्वन्दभूतः परिग्रहे। ततो नाम स कन्यायाः पप्रच्छमृगुनन्दन!। वासुकिं भरणं चास्या न कुर्य्यामित्युवाच ह। भा० आ० ४६ अ०। “सौतिरुवाच। वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा। सनाम्नी तव कन्येयं स्वसा मे तपसाऽन्विता। भरिष्यामि च ते भार्य्यां प्रतीच्छेमां द्विजोत्तम। रक्षणञ्च करिष्येऽस्याः सर्वशक्त्या तपोधन!। त्वदर्थं रक्ष्यते चैषा मया मुनिवरोत्तम!। ऋषिरुवाच। न भरिष्येऽहमेतां वै एष वै समयः कृतः। अप्रियञ्च न कर्त्तव्यं कृते चैनां त्यजाम्यहम्। सौतिरुवाच। प्रतिश्रुते तु नागेन भरिष्येभगिनीमिति। जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह” इत्युपक्रम्य। “उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत्। तस्मिंश्च सुप्ते विप्रेन्द्रे सविताऽस्तमियाद्गिरिम्। अह्नः परिक्षये ब्रह्मंस्ततः साऽचिन्तयत्तदा। वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी। किन्नु मे सुकृतं भूयाद्भर्त्तुरुत्थापनं न वा। दुःखशीलो हि धर्म्मात्मा कथं नास्यापराध्नुयाम्। कोपो वा धर्म्मशीलस्य धर्म्मलोपोऽथवा पुनः। धर्म्म लोपो गरीयान्वै स्यादित्यत्राकरोन्मतिम्। उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति। धर्म्मलोपो भवेदस्य सन्ध्याऽतिक्रमणे ध्रुवम्। इति निश्चित्य मनसा जरत्कारुर्भुजङ्गमा। तमृषिं दीप्ततपसं शयानमनलोपमम्। उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी। उत्तिष्ठ त्वं महाभाग! सूर्य्योऽस्तमुपगच्छति। सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रत!। प्रादुष्कृताग्निहोत्रोऽयं मुहूर्त्तो रम्यदारुणः। सन्ध्या प्रवर्त्तते चेयं पश्चिमायां दिशि प्रभो!। एवमुक्तः स भगवान् जरत्कारुर्म्महातपाः। भार्यां प्रस्फुरमाणौष्ठ इदं वचनमब्रवीत्। अवमानः प्रयुक्तोऽयं त्वया भम भुजङ्गमे!। समीपे ते न वत्स्याभि गमिष्यामि यथागतम्। शक्तिरस्ति न वामोरु! मयि सुप्ते विभावसोः। अस्तं गन्तुं यथाकाल मिति मे हृदि वर्त्तते। न वाऽप्यवमतस्येह वासो रोचेत कस्यचित्। किं पुनर्द्धर्मशीलस्य मम वा मद्विधस्य वा। एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम्। अब्रवीद्भगिनी तत्र वासुकेः सन्निवेशने। नावमानात्कृतवती तवाहं विप्रबोधनम्। धर्म्मलोपो न ते विप्र! स्यादित्ये तन्मया कृतम्। उवाच भार्यामित्युक्तो जरत्कारुर्म्महातःपा। ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजङ्गमाम्। न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे! समयो ह्येष मे पूर्ब्बं त्वया सह मिथः कृतः। सुखमस्म्युषितो भद्रे! ब्रूयास्त्वं भ्रातरं शुभे!। इतो मयि गते भीरु! गतः स भगवानिति। त्वं चापि मयि निष्क्रान्ते न शोकं कर्त्तुमर्हसि। इत्युक्ता साऽनवद्याङ्गी प्रत्युवाच मुनिं तदा। जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा। वाष्पगद्गदया वाचा मुखेन परिशुष्यता। कृताञ्जलिर्व्वरारोहा पर्यश्रुनयना ततः। धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता। न मामर्हसि धर्मज्ञां परित्यक्तुमनागसम्। धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम्। प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम!। तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः। मातृशापाभिभूतानां ज्ञातीनां मम सत्तम!। अपत्यमीप्सितं त्वत्तस्तच्च तावन्न दृश्यते। त्वत्तोह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत्। संप्रयोगो भवेन्नायं मम मोघस्त्वया द्विज!। ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये। इममव्यक्तरूपं मे गर्भमाधाय सत्तम!। कथं त्यक्त्वा महात्मा सन् गन्तुमिच्छस्यनागसम्। एवमुक्तस्तु स मुनिर्भार्य्यां वचनमब्रवीत्। यदुक्तमनुरूपञ्च जरत्कारुं तपोधनः। अस्त्ययं सुभगे! गर्भस्तव वैश्वानरोपमः। ऋषिः परमधर्म्मात्मा वेदवेदाङ्गपारगः। एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृपिः। उग्राय तपसे भूयो जगाम कृतनिश्चयः”। “ततः प्रववृधे गर्भो महातेजा महाप्रभः। यथा सोमो द्विजश्रेष्ठ! शुक्लपक्षोदितो दिवि। अथ काले तु सा ब्रह्मन्! प्रजज्ञे भुजगस्वसा। कुमारं देवगर्भाभं पितृमातृभयापहम्। ववृधे स तु तत्रैव नागराजनिवेशने। वेदांश्चाधिजगे साङ्गान् भार्गवाच्च्यबनान्मुनेः। चीर्ण्णव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः। नाम चास्याभवत् ख्यातं लोकेष्वास्तीक इत्युत। अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम्। वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम्”। भा० आ० ४७ अ० “यो जरत्कारुणा जातो जरत्कारौ महायशाः। आस्तीकः सर्पसत्रेवः पन्नगान् योऽभ्यरक्षत। तं स्मरन्तं महाभागा! न मां हिंसितुमर्हथ। सर्पापसर्पभद्रं ते गच्छ सर्प! महाविष!। जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर। आस्तीकस्य वचः श्रुत्वा यः सर्पो न निवर्त्तते। शतधा भिद्यते मूर्ध्नि शिंशवृक्षफलं यथा” तत्रैव। “आस्तीकस्य कवेः साधोः सुश्रूषापरमास्तिनः” भा० आ० १५ अ० आस्तीकमधिकृत्य कृतोग्रन्थः अण्। २ आस्ती- कचरिताख्यापके भारतान्तर्गते अवान्तरपर्व्वभेदे। “पौष्यं पौलोममास्तीकमादिवंशावतारणम्” भा० आ० १ अ०। “आयुष्मानिदमाख्यानमास्तीकं कथयामि ते” भा० आ० १५ अ०। आस्तीके भोजयेद्राजन्! दद्याच्चैव गुडौदनम् भा० स्वर्गा० प० ६ अ०।

आस्तीकजननी = स्त्री ६ त०। मनसादेव्यां वासुकिभगिन्यां जरत्कारुमुनिपत्न्याम्।

आस्तीर्ण्ण = त्रि० आ + स्तृ–क्त। विस्तीर्ण्णे कृतप्रसारणे “आस्तीर्ण्णतल्परचितावसथः क्षणेन” माघः। “आस्तीर्ण्णाजिनरत्नासु” रघुः।

आस्तृत = त्रि० आ + स्तृ–क्त। विस्तीर्ण्णे

आस्तेय = स्त्री अस्तीत्यव्ययंतत्रविद्यमाने भवः “दृतिकुक्षीत्यादि०” पा० ढक्। विद्यमानपदार्थभवे।

आस्त्र = त्रि० अस्त्रस्येदम् अण्। अस्त्रसम्बन्धिनि। “त्वं त्यमिन्द्रत्यमास्त्रबुध्नाय वेन्यम्” ऋ० १०, १७१, ३। “आस्त्रबुध्नाय अस्त्रस्वस्वन्धिमुखतुल्यमूलाय” भा०।

आस्था = स्त्री आ + स्था–अङ्। १ आलम्बने, २ अपेक्षायां, ३ श्रद्धायां, ४ स्थितौ, ५ यत्ने “६ आदरे च “अनास्थया सूनकरप्रसारिणीम्” नैष०। “स्त्री पुमानित्यनास्थैषा” “अनास्था बाह्यवस्तुषु” इति च कुमा०। “मर्त्येष्वास्थापराङ्मुखः” “पिण्डेष्वनास्था खलु भोतिकेषु” रघुः। “कास्थाभेकेऽस्मिन् तव राम! रामे” भट्टिः। आधारे अङ्। ७ सभायाम् आस्थाने।

आस्थान = न० आस्थीयतेऽत्र आ + स्था आधारे ल्युट्। १ सभायाम् “तदीयमास्थाननिकेतनाजिरम्” किरा० “राजानमास्थानमण्डपगतम्” काद०। २ विश्रामस्थाने। आस्थानीत्यपि सभायाम्। टित्त्वात् ङीप्। आस्था नीधूर्त्तः सभाधूर्त्तः। भावे ल्युट्। ३ आस्थायां ४ श्रद्धायाञ्ज न०।

आस्थापन = न० आ + स्था–णिच्–पुक् ल्युट्। १ सम्यक्स्थापने। करणे ल्युट्। २ सुश्रुतोक्ते व्रणोपक्रमणीयवस्तिभेदे च। “द्विविधोवस्तिः नैरूहिकः स्नैहिकश्च। आस्थापनं निरूह इत्यनर्थान्तरम्। “सदोषनिर्हरणात् शरीररोग हरणाद्वा निरूहः वयःस्थापनादायुःस्थापनाद्वास्थापनम्”

आस्थापित = त्रि० आ + स्था + णिच्–पुक् क्त। सम्यक् स्थापिते आचितादिपाठात् अस्यान्तोदात्ततान।

आस्थायिका = स्त्री आ + स्था–धात्वर्थनिद्देशे ण्वुल् स्त्रीत्वात् टापि अत इत्त्वम्। १ आस्थाने आस्थितौ। “जनकोह वैदेह आसाञ्चके छा० उ० भाष्ये “आसाञ्चक्रे आस्थायिकां दत्त- वानितित्युक्तम् कर्त्तरि ण्वुल्। आस्थावकः २ आस्थानकर्त्तरि त्रि०। स्त्रियां टाप् अत इत्त्वम्।

आस्थित = त्रि० आ + स्था–क्त। १ अवस्थाने २ प्राप्ते ३ आरूढे “एकं स्यन्दनसास्थितौ” रघुः। ३ आश्रिते च।

आस्थिति = आ + स्था–क्तिन्। १ कृतास्थायां २ तात्पर्य्येण वर्त्तने च।

आस्थेय = त्रि० आ + स्था–कर्म्मणि यत्। अवलम्ब्ये। “नह्येषा बुद्धि रास्थेया” रामा०। “यत्नान्तरमास्थेयम्” काशिका।

आस्नात = त्रि० आ + स्ना–कर्त्तरि क्त। कृतस्नाने कृतावगाहने

आस्नान = त्रि० आ + स्ना–भावे ल्युट्। प्रक्षालनेन शुद्धौ। “आस्नाने तां नि दध्मसि” अथ० १४, २, ६५।

आस्नेय = त्रि० आस्ये भवः ढक् आसन्नादेशः अतोलोपः। आस्यभवे।

आस्पद = न० आ + पद–घ सुट् च। १ प्रतिष्ठायाम्, २ पदे, ३ स्थाने, “ध्यानास्पदं भूतपतेर्विवेश” स्तनद्वयेऽस्मिन् हरिचन्दनास्पदे “सरागमस्या रशनागुणास्पदम्” इति च कुमा०। “तदास्पदं श्रीर्युवराजसंज्ञितम्”। रघुः “व्योम्नीव भ्रुकुटीच्छलेन वदने केतुश्चकारास्पदम्” माघः ४ कृत्ये, ५ प्रभुत्वे च ६ अवलम्बने ७ विषये च। “निधनता सर्व्वापदामास्पदम्” किरा०। “तस्मात् केवलप्रकृतास्पदा तुल्य योगितेति” माघस्य ५, २१ व्या० मल्लि०। ८ अवस्थाने उपगृह्यास्पदञ्चैव” मनुः। ९ लग्नावधिदशमस्थाने। “कर्म्मस्थानञ्च दशमं मेसूरणमास्पदं खञ्च” ज्योतिषम्।

आस्पन्दन = न० आ + स्पन्द–ल्युट्। १ ईषत्कम्पने ईषच्चलने

आस्पात्र = न० आस्यरूपं पात्रं पृ०। आस्यरूपे पात्रे “आस्पात्रं जुहूर्देवानामिति” शत० ब्रा० १, ४, २, १३। “आस्यरूपं पात्रआस्पात्रम्” भा०।

आस्फाल = पु० आ + स्फल–चाले णिच्–अच् स्फुल + घञ् स्फालादेशः वा। १ चालने २ हस्तिकर्ण्णचालने हारा०

आस्फालन = न० आ + स्फल–चाले–णिच्–ल्युट्। १ ताडने २ चालनेच। “ऐरावतास्फालनकर्कशेन” कुमा० सुरद्विपास्फालनकर्कशाङ्गुलौ” “ऐरावतास्फालनविश्लथं यः” “आसां जलास्फालनतत्पराणाम्” रघुः। अनवरतधनुर्ज्यास्फालनेति” शकु०। “एलालतास्फालनलब्धगन्धः” माघः। ३ आटोपे ४ प्रागल्भ्ये च।

आस्फालित = त्रि० आ + स्फल + णिच्–क्त। १ चालिते २ आघट्टिते ३ ताडिते च। “अजस्रमास्फालितवल्लकीगुणः” माघे पाठान्तरम्

आस्फुजित् = पु० अस्फुलति आ + स्फुल–बा० डु तं जयति जिक्विप्। शुक्राचार्य्ये। “शुक्रोभृगुर्भृगुसुतः सित आस्फुजिच्च” ज्यो० त०

आस्फोट = पु० आ + स्फुट–णिच्–कर्त्तरि अच्। १ अर्कवृक्षे शब्दरत्ना० २ नवमल्लिकायां स्त्री। ३ शूरादेर्वाहुशब्दे (ताल् ठोका) ३ संघर्षणजातशब्दमात्रे “लाङ्खूलास्फोटशब्दाच्च चालितः स महागिरिः भा० व० १३ अ०।

आस्फोटक = च० आ + स्फुट–णिच्–ण्वुल्। (आखरोट) १ प्रसिद्धे पर्व्वतपीलुभेदे २ बाहुशब्दकारके त्रि०।

आस्फोटन = न० आ + स्फुट–णिच्–भावे ल्युट्। १ प्रकाशने २ वाह्वादेः शब्दकरणे “आस्फोटननिनादांश्च बालानां खेलतां तथा” रामा०। ३ शूर्पादिना धान्यादेस्तुषादि निरमने (आच्डान) व्यापारे च। “कुञ्चनास्फोटनाध्मानवेपथुव्यथनैः” सुश्रु०।

आस्फोटनी = स्त्री आस्फोट्यते विदार्य्यतेऽनया अ + स्फुट–णिच्करणे ल्युट् स्त्रीत्वात् ङीप्। (तुरपिन) वेधनास्त्रे।

आस्फोटित = न० आ + स्फुट–णिच्–भावे क्त। वाह्वादेः शब्दे २ प्रकाशने च। कर्म्मणि क्त। विदलिते त्रि०।

आस्फोत = पु० आ + स्फुट–अच् पृषो० टस्य तत्वम्। १ अर्कवृक्षे २ कोविदारवृक्षे, ३ पलाशवृक्षे च “आस्फोतजातिकरवीरपत्रैः” सुश्रु०। स्वार्थे कन्। आस्फोतकोऽर्कवृक्षे।

आस्फोता = स्त्री आ + स्फुट–अच् पृषो०। १ अपराजितायां, सा च द्विविधा श्वेतपुष्पी नीलपुष्पी च तयोर्गुणपर्य्यायौ भावप्र० “आस्फीता गिरिकर्ण्णी च विष्णुक्रान्ताऽपराजिता। अपराजिते कटुके शोते कण्ठसुहृष्टिके। कुष्ठगूल्मत्रिदोषामशोथज्वरविषापहे। कषाये कटुपाके च सुतिक्ते स्मृतिबुद्धिदे। २ सारिवायाम् (हापरमाली) लताभेदे च।

आस्माक = त्रि० अस्माकमिदम् अस्मद् + इदमर्थेऽण् अस्माकादेशः। अस्मत्सम्बन्धिनि। स्त्रियां ङीप्। “रामादितादात्म्याङ्गीकारे चास्माकीं सिद्धान्तशय्यामधिशय्य” सा० द०।

आस्माकीन = त्रि० अस्माकमिदम् खञ् अस्माकादेशः। अस्मत्सम्बन्धिनि।

आस्य = न० अस्यते ग्रासोऽत्र + अस–आधारे ण्यत्। १ मुखे “तदास्यदास्येऽपि गतोऽधिकारिताम्” नैष०। “तं हि स्वयंभूः स्वादास्यात्” यस्यास्येन सदाश्नन्ति” “पाण्यास्योहि द्विजः स्मृतः” “नित्यमास्यं शुचि स्त्रीणाम्” इति च मनुः। २ तन्मध्ये च। शसादौ तद्धितयाजादौ अस्य स्थाने वा आसन्नादेशः। तदादेशपक्षे आस्ये भवः आसन्यः यथा च अस्यैव आसन्नादेशस्थानिता तथासनशब्दे ८८६ पृष्ठे उक्ता। आस्ये भवः यति वा नासन्नादेशः यलोपः। ३ मुखभवे त्रि०। “तुल्यास्यप्रयत्नम्” पा० आस्ये भवमास्यं ताल्वादिस्थानम्” सि० कौ०।

आस्यन्दन = आ + स्यन्द–भावे ल्युट्। ईषत्क्षरणे।

आस्यन्धय = त्रि० आस्यं धयति–धे–ख–मुम्–उप० स०। मुग्ध०। मुखामृतास्वादके मुखचुम्बके।

आस्यपत्र = न० आस्यमेव पत्रमस्य। १ पद्मे शब्दचन्द्रिका।

आस्यलाङ्गल = पु० आस्यं लाङ्गलमिव भूमिविदारकं यस्य। शूकरे।

आस्यलोमन् = न० आस्यभवं लोम। पुरुषमुखजाते लोम्नि (दाडि)।

आस्यहात्य = त्रि० असिनाऽहत्याऽहननम् ततः अस्त्यर्थे विमुक्तादि० अण्। अनुशतिका० द्विपदवृद्धिः। खड्गेन हननशून्ये।

आस्या = स्त्री आस–मावे क्यप्। १ स्थितौ, गतिराहित्ये। “आस्या वर्ण्णकरी स्थौल्यसौकुमार्य्यकरी शुभा” सुश्रु०।

आस्यासव = पु० आस्यस्यासव इव। (लाल) इति ख्यातायाम् लालायाम्।

आस्र = न० अस्रमेव स्वार्थेऽण्। रुधिरे। ततः सुखादि० अस्त्यर्थे इनि। आस्त्री रुधिरयुक्ते त्रि० स्त्रियां ङीप्।

आस्रप = पु० आस्रं रुधिरं पिबति पा–क उप० स०। १ राक्षसे तद्देवताके २ मूलनक्षत्रे च।

आस्रव = पु० आस्रवति मनोऽनेन करणे अप्। १ क्लेशे। कर्त्तरि अच्। २ अर्हन्मतसिद्धे पदार्थभेदे। अर्हच्छब्दे ३८१ पृष्ठे विवृतिः।

आस्राव = पु० आस्रवति रुधिरमस्मात् अ + स्रु–अपादाने धञ्। १ क्षते “जातएष तवास्रावस्त्वन्तु मोहान्न बुध्यसे” भा० उ० ५७ अ०। भावे घञ्। २ सम्यक्क्षरणे कर्त्तरिण। सम्यक्क्षरणयुक्ते त्रि०। आस्ववति आ + स्रु–ण। मुखलालायाम्” “च्युतेरास्राववत् विद्यात् निगिरन्नेव तत् शुचिः” आ० त० गौत० “आस्रावोलाला” रघु०।

आस्राविन् = त्रि० आ + स्रु–णिनि। भदादिक्षरणशीले। “महागजैवास्राबी प्रभञ्जन् विविधान् द्रुमान्” भा० व० प० १४६ आस्रावयुक्ते च “दुष्टशोणितास्रावो दीर्घकालानुबन्धी चेति दुष्टव्रणलिङ्गानि” सुश्रु०।

आस्वनित = आ + स्वत–क्त पक्षे इट्। शब्दिते।

आस्वाद = पु० आ + स्वद–कर्म्मणि घञ्। १ मधुरादिरसे २ शृङ्गारादिरसे च। भावे घञ्। ३ रसानुभवे। “मध्वापातोविषास्वादः, मनुः “न जायते तदास्वादो विना रत्यादिवासनाम्। “तदास्वादे विभावादेः परिच्छेदो न विद्यते” सा० द० “चूताङ्कुरास्वादकषायकण्ठः” कुमा०। आस्वादश्च माधुर्य्यादिरसानुभवहेतुव्यपारभेदः स च लोके चर्व्वणादि शृङ्गारादिरसास्वादे अन्यविधएव व्यापारः यथाह सा० द०। “न जायते तदास्वादोविना रत्यादिवासनाम्। वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः तत्र यदि आद्या न स्यात् श्रोत्रियजरन्मीमांसकादीनामपि सा स्यात् यदि द्वितीया न स्यात् रागिणामपि केषाञ्चिद्रसोद्बोधोन दृश्यते तन्न स्यात् उक्तञ्च धर्म्मदत्तेन “सवासनानां सभ्यानां रसस्यास्वादनं भवेत्। निर्व्वासनास्तु रङ्गान्तःकाष्ठकुड्याश्मसन्निभाः” इति। ननु कथं रामादिरत्याद्युद्बोधकारणैः सीतादिभिः सामाजिकरत्याद्युद्बोधैत्युच्यते। व्यापारोऽस्ति विभावादेर्नाम्ना साधारणीकृतिः। तत्प्रभावेन यस्यासन् पाथोधिप्लवनादयः। सभ्यानां तदभदन स्वात्मानं प्रतिपद्यते। ननु कथं मनुष्यमात्रस्य समुद्रलङ्घनादावुत्साहोद्बोधैत्युच्यते। उत्साहादिसमुद्बोधः साधारण्याभिमानतः। नृणामपि समुद्रादिलङ्घनादौ न दुष्यति। रत्यादयोऽपि साधारण्येन प्रतीयन्ते इत्याह। साधारण्येन रत्यादिरपि तद्वत् प्रतीयते। रत्यादेरपि ह्यात्मगतत्वेन प्रतीतौ सभ्यानां पीडातङ्कादिर्भवेत् परगतत्वेन त्वरस्यत्वापातः। विभावादयोऽपि प्रथमतः साधारण्येन प्रतीयन्ते इत्याह। परस्य न परस्येति ममेति न ममेति च। तदास्वादे विभावादेः परिच्छेदोन विद्यते। ननु तथापि कथमेवमलौकिकत्वमेतेषां विभावादीनामित्युच्यते। विभावनादिव्यापारमलौकिकमुपेयुषाम्। अलौकिकत्वमेतेषां भूषणं न तु दूषणम्। आदिशब्दादनुभावनसञ्चारणे। तत्र विभावनं रत्यादेर्विशेषेण आस्वादाङ्कुरणयोग्यतानयनम्। अनुभावनमेवंभूतस्य रत्यादेः समनन्तरमेव रसा दिरूपतया भावनम्। सञ्चारणं तथाभूतस्यैतस्य सम्यक्चारणम्। विभावादीनां यथासंख्यं कारणकार्य्यसहकारित्वे कथं त्रयाणामपि रसोद्बोधे कारणत्वमित्युच्यते कारणकार्य्यं सञ्चारिरूपा अपि हि लोकतः। रसोद्बोधे विभावाद्याः कारणान्येव ते मताः। ननु तर्हि कथं रसास्वादे तेषामेकः प्रतिभासैत्युच्यते। प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते। ततः संवलितः सर्व्वोविभावादिः सचेतसाम्। प्रपानकरसन्यायाच्चर्व्व्यमाणोरसोभवेत्। यथा खण्डमरिचादीनां संमेलनादपूर्व्वैव कश्चिदास्वादः प्रपानकरसे संजायते विभावादिसंमेलनादिहापि तथेत्यर्थः” “ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः” येमदू० ल्युट्। आस्वादनमप्यत्र न० उक्त सा० द० वाक्ये उदा०।

आस्वादक = न० आ + स्वद–ण्वुल्। आस्वादनकर्त्तरि “दर्शयन् नर्त्तकोनैव रसस्यास्वादको भवेत्” सा० द०।

आस्वादित = त्रि० आ + स्वद–णिच्–क्त। कृतास्वादे भक्षिते पदार्थे “आस्वादितार्द्रक्रसुकाः समुद्रात्” माघः।

आस्वाद्य = त्रि० आ + स्वद–णिच्–यत्। १ आस्वादयोग्ये पदार्थे “घ्राणेन न तदाध्रेयं नास्वाद्यञ्चैव जिह्वया” भा० आ० प० ३० अ०। “आस्वाद्यतोयाः प्रभवन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः” हितो०। आ + स्वद + णिच्–ल्यप्। २ भक्षयित्वेत्यर्थे अव्य०।

आस्वान्त = त्रि० आ + स्वन–इडभावे दीर्घः। शब्दिते।

आह = अव्य० व्रू अच् णि० आहादेशः उवाचेत्यर्थे तिपोणलि ब्रुवादेशस्तु वर्त्तमानकथनवाची एतस्माद्भिन्नः तच्च क्रियापदम् अयन्तु क्रियाप्रतिरूपकमव्ययम्। “अथाह वर्ण्णी विदितो महेश्वरः” कुमा०।

आहक = पु० आहन्ति आ + हन–ड संज्ञायां कन्। वैद्यकोक्ते ज्वरभेदे (नासाज्वर) “तनुना रक्तशोथेन युक्ता नासापुटान्तरे। गात्रशूलज्वरकरः श्लेष्मणा ह्याहकोज्वरः” वै०।

आहत = त्रि० आ + हन–क्त। १ ताडिते, “आह्लादिकह्लारसमीरणाहते” “नयनयुगनिमोलत्तावदेवाहतोऽसौ” माघः। २ बन्ध्यासुतोहमित्यादौ मृषार्थके वाक्येन०। ३ ढक्कायाम् पु०। “ईषद्धौतं नवं शुभ्रं सदशं यन्न धारि तम्। आहतं तद्विजानीयात् सर्व्वकर्म्मसु पावनम्” वसिष्ठोक्तलक्षणे ४ वस्त्रे न०। “आहतेन वसनेन तां परिदध्यात्” गोभि०। “आच्छादनं तु योदद्यादाहतं श्राद्धकर्म्मणि” वायु० पु०। “परिधाप्याहते शुक्ले वाससी हेमकुण्डले” छन्दो० ५ पुराणवस्त्रे न० तस्य उपभोगेन मर्दितप्रायत्वात्तथात्वम्। ६ आघातप्राप्ते ७ मर्दिते त्रि० “पादाहतं यदुत्थाय मूर्द्ध्वानमधिरोहति” माघः। ८ आघूर्णिते। ९ अभ्यस्ते १० गुणिते च त्रि० “सूर्थ्याब्धिसंख्यया द्वित्रिसागरैरयुताहतैः” सू० सि०।

आहतलक्षण = पु० आहतमभ्यस्तं लक्षणं यस्य। गुणैः प्रसिद्धे अमरः प्रसिद्धगुणानां हि सर्व्वैर्ज्ञातत्वेन परिचिततयाभ्यस्तगुणत्वात् तथात्वम्।

आहति = स्त्री आ + हन–क्तिन्। शब्दहेतुसंयोगभेदे १ आघाते २ ताडने “प्रभातवाताहतिकम्पिताकृतिः” भट्टिः ३ आगमने अत्र श्लोके पक्षे आहतिरागतिरित्यर्थः ४ गुणने “अंशाहतिश्छेदवधेन भक्ता” लीला०। ५ मर्द्दने च।

आहनन = आ + हन–करणे ल्युट्। १ ताडनसाधने दण्डादौ। तत्र भवः यत्। आहनन्यः। आहननदण्डादिभवे “नमो दुन्दुभ्याय चाहनन्याय च” यजु० १६, ३५। “आहन्यते वाद्यतेऽनेनाहननं वाद्यसाधनं दण्डादि तत्र भवस्तस्मै” वेददी०। भावे ल्युट्। २ आहतिशब्दार्थे।

आहनस् = त्रि० आ + हन–असुन्। १ आहननीये २ निष्पीड्ये सौमादौ। “तदाहना अभवत् पिप्युषी” ऋ० २, २३, १। आहनाः आहननीयः सोमादिः” भा० आहनसे साधु यत्। “आहनस्यं तत्साधने त्रि०। “आहनस्याद्वै रेतः सिच्यते” ऐत० व्रा०।

आहर = त्रि० आहरति आ + हृ–अच्। सञ्चयकारके “वनान्तरादुपावृत्तैः समित्कुशफलाहरैः” रघुः। टचि तु कर्म्मोपदएव साधुतेति भेदः।

आहरकरटा = स्त्री आहर करट! इत्युच्यते यस्यां क्रियायां मयूर०। करटं प्रति आहरणार्थायां निदेशक्रियायाम्

आहरचेटा = स्त्री अहर चेट! इत्युच्यते यस्यां क्रियायाम् मयू०। चेटं प्रति आहरणार्थनिदेशक्रियायाम्।

आहरण = न० आ + हृ–भावे ल्युट्। स्थानात् स्थानान्तरप्रापणे १ आनयने। “मृदाहरणसंघट्टौ प्रतिष्ठाह्वानमेवच”। देवीपु० “करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम्” सां० का० “समिदाहरणाय प्रस्थिता वयम्” शकु० २ आयोजने अनुष्ठाने च “अश्वमेधस्य कौरव्य! चकाराहरणे मतिम्” भा० आश्व० ७१ अ०। कर्म्मणि ल्युट्। ३ आह्रियमाणे पदार्थे ४ विवाहादौ उपढौकनद्रव्ये “सत्त्वानुरूपाहरणोकृतश्रीः” रघुः।

आहरणीय = त्रि० आ + हृ–अनीयर्। १ आयोजनीये २ आनयनीये ३ उपढौकनीये च।

आहरनिवपा = स्त्री आहर निवप इत्युच्यते यस्यां क्रियायाम् मयू०। आहरणनिवापार्थनिदेशक्रियायाम्।

आहरनिष्किरा = स्त्री आहर निष्किर इत्युच्यते यस्यां क्रियायाम् मयू०। आहरणनिष्किरणनियोगक्रियायाम्। एवमाहरविताना आहरवसना आहरसेना इत्यादयोऽपि मयू० पठिताः तत्तत्कर्म्मार्थनियोगक्रियायासु।

आहर्त्त = त्रि० आ + हृ–तृच् स्त्रियां ङीप् १ अर्ज्जके। “आहर्त्ता शोधयेत् भुक्तिमागमञ्चापि संसदि” वृह० २ आयोजके “आहर्त्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप!” भा० आ० ५ अ० ३ आनेतरि “आहर्त्ता सर्वरत्नानां सर्वेषां न सुखावहः” भा० व० १४ अ०। ४ अनुष्ठातरि “आहर्त्ता क्रतूनाम्” काद० शीलार्थे तृणि तु कर्म्मणि न षष्ठी। “आत्मनोबधमाहर्त्ता क्वासौ विहगतस्कर” विक्रमो०।

आहव = न० आहूयन्तेऽरयोऽत्र आ + ह्वे–अप् संप्रसारणे गुणः। १ युद्धे। “एवं विधेनाहवचेष्टितेन” रघुः “प्राविशन्नाहवप्रज्ञा आहावमुपलिप्सवः” भट्टिः “न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे” गीता। “उद्यतैराहवे शस्त्रैः क्षत्रधर्म्महतस्य च” “डिम्बाहवहतानाञ्च विद्युता पार्थिवेन च” इति च मनुः। आहूयतेऽत्र आ + हु–आधारे अप्। २ यज्ञे “तत्र नाभवदसौ महाहवे” माघः ‘आहवोयागः’ मल्लि०

आहवन = न० आहूयतेऽस्मिन् आधारे ल्युट्। १ यज्ञे “द्रष्टुमाहवनमग्रजन्मनाम्” माघः। मावे ल्युट्। २ समन्ताद्धवने च “त्वे अग्ने आहवनानि भूरि” ऋ० ७, १, १७।

आहवनीय = पु० आहूयते १ प्रणीयते प्रक्षिप्यते वा हविरत्र आ + हु–कर्म्मणि आधारे बा० अनीयर् आहवनमर्हति छ वा। १ अग्निभेदे। तदुद्धरणप्रकारः आश्व० स्रौ० उक्तः। “उत्सर्गेऽपराह्णे गार्हपत्यं प्रज्वाल्य दक्षिणाग्निमानीय विट्कुला द्वित्तवतो वा वैकयोनय इत्येके ध्रियमाणं वा प्रज्वाल्याऽरणीमन्तं वा मथित्वा गार्हपत्यादाहवनीयमुद्धरेत्” सू० दिवाशेषचतुर्थयामे गार्हपत्यं प्रादुष्कृत्य दक्षिणाग्निं प्रज्वाल्य च वैश्यगृहात् द्रव्यतोवान्यस्य गृहात् गार्हपत्याद्वा आनयेत्। तथा च अग्निमन्थनादिनाऽन्यतमप्रकारेण दक्षिणाग्निं साधयित्वा गार्हपत्यात् ज्वलन्तमग्निमाहवनोयार्थमुद्धरेत् पात्रान्तरेण पृथक् कुर्य्यादिति तदर्थः। तत्र मन्त्रादिकविनियोग उत्तरसूत्रादावुक्तः। “आहवनीये वैश्यानरं द्वादशकपालमधिश्रयति” तैत्ति०। “यस्य गार्हपत्याहवनीयौ मिथः संसृज्याताम्” ऐत० ब्रा०। “पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः। गुरुराहवनीयस्तु साग्नित्रेता गरीयसी” मनुः। कर्मणि अनीयर्। २ सम्यग् होतव्ये हविरादौ त्रि०।

***