वाचस्पत्यम्
आश्वा to आसी
links:
Menu अ–ह
Prev आश्वलायन
Next आसु–आहव
आश्वा
आस
आसन
आसन्द
आसा
UpasanaYoga
.org

आश्वायन = पुंस्त्री अश्व + गोत्रे अश्वा० फञ्। अश्वर्षेर्गोत्रापत्ये स्त्रियां ङीप्।

आश्वावतान = पुंस्त्री० अश्वावताननामर्षेरपत्यम् विदा० अञ्। अश्वावतानर्षेरपत्ये स्त्रियां ङीप्।

आश्वास = पु० आ + श्वस–घञ्। १ निर्वृत्तौ २ आश्रयदाने ३ भीतस्य भयनिवारणार्थे व्यापारे ४ सान्त्वने च “धारणमाश्वासजननं श्रमघ्नञ्च” सुश्रु०।

आश्वासक = त्रि० आ + श्वस–णिच्–ण्वुल्। १ आश्वासकारके २ सान्त्वनासम्पपादके।

आश्वासन = न० आ–श्वस–णिच्–ल्युट्। १ सान्त्वने। “आश्वासनञ्च कृष्णेन दुःखार्त्तायाः प्रकीर्त्तितम्” भा० आ० १ अ० कर्त्तरि ल्यु। २ आश्वासकारके “तदिदं द्वितीयं हृदयाश्वासनम्” शकु०।

आश्वासिन् = त्रि० आ + श्वस–णिनि। प्रत्थाशायुक्ते। “मनस्तु तद्भावदर्शनाश्वासि” शकु०।

आश्वास्य = त्रि० आ + श्वस–णिच्–यत्। १ सान्त्वनीये। ल्यप्। २ सान्त्वयित्वेत्यर्थे अव्य०।

आश्विक = त्रि० अश्वान् भारभूतान् हरति वहति आवहति वा ठञ्। भारभूतस्याश्वस्य १ हारके २ वाहके ३ आवाहके च। अश्वस्य निमित्तं संयोग उत्पातो वा ठक्। अश्वलाभसूचके ४ संयोगे ५ उत्पाते ६ निमित्ते च।

आश्विन = पु० आश्विनी पूर्ण्णिमा यस्मिन् मासे अण्। स्वनाम ख्याते चान्द्रेमासभेदे “अहमप्याश्चिने तद्वत् सायाह्ने बोधयाम्यहम्” दुर्गाबोधनमन्त्रः। १ अश्विमानुपधान आसा- मिष्टकानाम् अण् मतोर्लुक्। २ इष्टकाभेदे स्त्री ङीप्। “ये हैता आश्वेनीरुपदधाति” शत० ब्रा० ८, २, १, ११। आश्विनौ देवते अस्य अण्। ३ चितिभेदे च “प्र त आश्विनीः पवमानः” ऋ० ९, ८६, ४, पञ्चाश्वित्योह ऋतव्येपञ्च वैश्वदैव्यः पञ्चप्राणभृतः पञ्चायस्या एकया न विंशतिर्वयस्यास्ता एकचत्वाशिशद्द्वितीया चितिः” शत० ब्रा०। ४ यज्ञियकपालभेदे पु० “सौम्येन सहाश्विनो द्विकपालः सर्वत्र” कात्या० १२, ६, ३, “मैत्रावरुणश्च म आश्विनश्च मे इति” यजु० १८, १९, अश्विन्यां भवः अण्। ५ अश्विनीकुमारयोः द्वि० व०। अश्विनौ देवते अस्य अण्। अश्विनीकुमारदेवताके ६ यज्ञे ७ शस्त्रे च। आश्वलायनशब्दे उदा०।

आश्विनी = स्त्री अश्विना अश्वाकारवता नक्षत्रेण युक्ता पूर्ण्णिमा नक्षत्राण्। १ आश्वनपौर्णमास्याम् २ आश्विनशब्दोक्तार्थे च।

आश्विनेय = पु० द्विव० अश्विन्याः घोटकाकारवत्याः संज्ञायाः अपत्यं ढक्। १ अश्विनीकुमारयोः तयोः तस्या उत्पत्तिकथा अरुणात्मजशब्दे ३२९ पृष्ठे दृश्या। तस्यापत्यं विदा० अञ्। २ नकुले ३ सहदेवे च पु० तयोर्माद्र्यामश्विनीकुमाराभ्यामुत्पादितत्वात् तथात्वम्। “जिगाय समरे वीरानाश्विनेयः प्रतापवान्” भा० स० प० ३ अ०। अश्वस्यैकाहगमः पन्थाः ढक्। ३ अश्वस्यैकाहगम्ये अध्वनि।

आश्वीन = पु० अश्वस्यैकाहगमः पन्थाः वा खञ्। अश्वस्यैकाहगम्ये देशे “सहस्राश्वीनो वा इतः स्वर्गो लोकः” ऐत० ब्रा०। चतुश्चत्वारिंशाश्वीनानि” श्रुतिः।

आश्वेय = त्रि० अश्वा देवता अस्य ढक्। १ तद्देवताके हविरादौ अश्वाया अपत्यम् शुभ्रा० ढक्। २ अश्वाभवे।

आषाढ = पु० आषाढी पूर्ण्णिमाऽस्मिन् मासेऽण्। स्वनाम ख्याते चान्द्रे १ मासभेदे “आषाढस्य प्रथमदिवसे” मेघदू० “शेते विष्णुः सदाषाढे कार्त्तिके प्रतिबुध्यते” इति पुरा०। आषाढी पूर्ण्णिमा प्रयोजनमस्य अण्। व्रतिनां धार्य्ये पालाशे २ दण्डे “उपहिताषाढम्” काद० “तत्पुत्रेण च गृहीतव्रतेनाषाढिना” काद०। “अथाजिनाषाढघरः प्रगल्भवाक्” कुमा०। ३ मलयपर्व्वते पु० मेदि० पृ० ढस्य डः। आषाडोऽप्युक्तार्थेषु। स्वार्थे कन् आषाढकोऽप्युक्तार्थेषु।

आषाढा = स्त्री आ + सह–क्त “श्रवणाषाढेति” पा० निर्द्देशात् नि० षत्वमोत्त्वाभावश्च। राशिचक्रस्थे १ विंशतितमे २ एकविंशे च नक्षत्रे “मूलं पूर्व्वाषाढा प्रथमश्चाप्युत्तरांशकोधन्वी। मकरस्तत्परिशेषं श्रवणा चार्द्धं धनिष्ठाया” इत्युक्तेः सा च पूर्व्वा उत्तरा च। तत्र पूर्ब्बस्याः प्रथमपादस्य धनूराशिघटकत्वमुत्तरायाश्च शेषपादत्रिकस्य मकरराशिघटकत्वम् तत्रार्थे न० च आषाढभूः” भङ्गलग्रहः तस्य तत्र जातत्वात्तथात्वम्।

आषाढाभव = पु० आषाढायां नक्षत्रे भवति भू–अच्। मङ्गलग्रहे आषाढाजातोऽप्यत्र क्विप्। आषाढाभूरप्यत्र।

आषाढि = स्त्री आ + सह–क्तिन् नि० न ओत् षत्वञ्च। १ सम्यक् सहने “तथाषाढेः सौश्रमतेयस्योपदधुः” शत० ब्रा० ६, २, १, ३७। २ रतिदेव्याः स्थाने च शब्दार्थर०।

आषाढी = स्त्री आषाढया नक्षत्रेण युक्ता पूर्ण्णिमा “नक्षत्रेण युक्तः कालः” पा० इत्यण्। १ आषाढमासीयपौर्ण्णमास्याम्। २ यज्ञियेष्टकाभेदे च।

आषाढीय = त्रि० आषाढायां भवः “श्रविष्ठाषाढायामिति” पा० तस्येदम् वृद्धत्वात् वा छ। १ आषाढानक्षत्रे भवे २ आषाढसम्वन्धिनि च।

आष्टम = पु० अष्टमोभागः अण्। अष्टमे भागे।

आष्ट्र = अश–व्याप्तौ ष्टन् वृद्धिश्च। आकाशे उज्ज्व०।

आस = उपवेशनेअदादि० आ० अक० सेट्। आस्ते आस्ताम् आसते आसीत आस्ताम् आस्स्व आद्ध्वम् आस्त आसत आसिष्ट आसांबभूव आसामास आसाञ्चक्रे आसिता आसिष्यते। आसीनः आसितम् आसितवान् आसितुम् आसिता आस्तिः आसः आसनम् आसना “य आस्ते मनसा स्मरन्” गीता “दिवि देवास आसते” ऋ० १, २०, २। “आसीतामरणात् क्षान्ता” नासीत गुरुणा सार्द्धं शिलाफलकनौषु च” इति च मनुः। “सुखितमास्स्व ततः शरदां शतम्” सा० द०। “निबद्ध्वमाध्वं पिबतात्त शेध्वम्” भट्टिः। “जगन्ति यस्यां सविकाशमासत” माघः। “आसिष्ट नैकत्र शुचा व्यरंसीत्” भट्टिः भावे आस्यते “आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः” मनुः। “इच्छामि नित्यमेवाहं त्वया पुत्र। सहासितुम्” भा० व०। अ० “जनकोह वैदेह आसाञ्चक्रे” शत० व्रा० १४, ६, १, १। तूष्णींभूय भयादासाञ्चक्रिरे मृगपक्षिणः” भट्टिः “कैलासशिखरासीनम्” तन्त्रम् “आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणाम्” मेघदू०। “आसितं भाषितं चैव मतं यच्चाप्यनुष्ठितम्” रामा०। “जृम्भासितादिकृत” सा० द०।अधि–अध्यारोहणे सक०। गगनमध्यमध्यास्ते दिवाकरः काद० “छायामध्यास्य सैनिकाः “ययौ मृगाध्यासितशाद्वलानि” इति च रघुः। जम्बूविटपमध्यास्ते परभृता” विक्रमो०। “आचख्यौ दिवमध्यास्स्व शासनात् परमेष्ठिनः” रघुः। अत्राधारस्य कर्म्मता।अनु–पश्चादुपवेशनेन सेवने सक०। “अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम्” रघुः। “वृतः सखायमन्वास्ते सदैव धनदं नृपः” भा० स० १० अ०।अभि–आभिमुख्येन स्थितौ नैकट्ये च अक० अभ्यासः अभ्यासोयत्ते कपूययोनिमापद्येरन्” छा० उ०।उद–औदास्ये प्रकृतकर्म्मण उपरमे अक० “विधाय वैरं सामर्षे नरोऽरौ य उदासते” माघः। “उदासीनवदासीनः” गीताउप–सेवने सक०। “नोपास्ते यश्च पश्चिमाम्” मनुः। “उपास्येते हरिहरौ लकारोदृश्यते यतः” वाक्यप०। “वायुवच्चानुगच्छन्ति तथा दीनानुपासते” मनुः। “ऋतवस्तमुपासते” कुमा०।परि–उप–उपासनस्य प्रकर्षार्थे “यथैव क्षुधिता बाला मातरं पर्य्युपासते” “पितामहं च के तस्यां सभायां पर्य्युपासते” भा० स० १ अ०। (एनम्) “भुजङ्गाःपर्य्युपासते” कुमा०।सम्–उप–सम्यगुपासने सक०। “समुपास्यत पुत्रभोग्यया” रघुःपरि–परितः स्थितौ अक० सम्यक् सेवने सक०। तामेतद्देवाश्च पर्य्यासते ये चेमे ब्राह्मणाः” शत० ब्रा०।सम्–सम्यक् स्थितौ उपवेशने च। “भोगिभोगसमासीनम्” “पश्चिमां तु समासीनः” मनुः।

आस् = अव्य० आ + अस्–क्विप्–आस + क्विप् वा। १ स्मरणे, २ आक्षेपे “आः क एष मयि जीवतीति” मुद्रारा०। “आदुरात्मन् वृथामङ्गलपाठक” वेणी०। ३ कोषे, ४ सन्तापे, ५ पीडायां सगर्वगर्जने च। “आःकिमेतदिति क्रोधादाभाष्य महिषासुरः” देवीमा०। ६ खेदे “विद्यामातरमाः प्रदर्श्यनृपशून् भिक्षामहे निष्त्रपाः” उद्भटः।

आस = पु० आस–घञ्। १ आसने २ स्थितौ ३ उपवेशने आस्यतेऽनेन करणे घञ्। ४ उपवेशनस्थाने गुह्यपार्श्वभागे “यथा कप्यासं पुण्डरीकमेवमस्याक्षिणी” छा० उ० छान्दसं न०। अस्यते क्षिप्यतेऽनेन अस–करणे घञ्। ५ धनुषि “स सासिः सासुसूः सासः” किरा० “सासः सचापः” मल्लि०। इष्वासः अस क्षेपे भावे घञ्। ६ विक्षेपे निरासः।

आसक्त = क्रि० आ + सन्ज–क्त। १ आसङ्गयुक्ते विषयान्तरपरिहारेण तदेकतानतयाभिनिष्टे २ अनवरते न० जटा० ३ तद्वति ४ सम्यक्संवद्धे च त्रि० आसक्तचित्तः आसक्तचेताः।

आसक्ति = त्रि० आ + सन्ज–क्तिन्। विषयान्तरपरिहारेणैकविषयावलम्बने “ते देवा आसक्तिमन्तं वदन्तः” “आसक्त्यनृतं वदन्तः इति च” शत० व्रा० ९, २, १, ११, १२। “नील- लोहितं मवति कृत्यासक्तिर्व्यज्यते” ऋ० १०, ८५, २८।

आसङ्ग = पु० आ + सन्ज–घञ्। १ अभिनिवेशे, प्राप्तस्योपस्थितस्य वा नश्यतो वस्तुनः २ रक्षणाभिलाषे, ३ भोगाभिलाषे, ४ कर्तृत्वाभिमाने ५ विषयान्तरपरिहारेण चेतस एकत्राभिनिवेशे च। “नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ सङ्कल्पः” सा० द०। “तेऽसुररक्षसेभ्य आसङ्गाद्बिभयञ्चचक्रुः” शत० ब्रा० १, १, २, ३ “तथोहैन सूयमान मासङ्गो न विन्दति” शत० ब्रा० ५२, ३, ५, “त्यक्त्वा कर्म्मफला सङ्गम्” गीता। ६ सम्यक् सम्बन्धे “सशैवलासङ्गमपि प्रकाशते” कुमा०। आसज्यते कर्म्मणि घञ्। ७ आसञ्जनीये उत्तरासङ्गः “त्वगुत्तरासङ्गवतीं निवीतिनीम्” कुमा०। ८ सौराष्ट्रमृत्तिकायां राजनि० ९ अनवरते न० १० तद्वति त्रि० जटा०। सौरष्ट्रम्रत्तिकाया गात्रे आसञ्जनीयत्वात्तथात्वम्। अनवरतस्य च सततसम्बन्धात् आसङ्कत्वम्।

आसङ्गत्य = न० न सङ्गतः तस्य भावः ष्यञ् चतुरादिषु पर्य्युदासात् नोत्तरपदवृद्धिः। साङ्गत्याभावे असम्बन्धे।

आसङ्गिनी = स्त्री आसङ्गः सातत्यमस्त्यस्य इनि ङीप्। १ वात्यायां त्रिकाण्ड०। २ आसङ्गयुक्ते त्रि० स्त्रियां ङीप्।

आसङ्गिम = पु० आसङ्गे भवः डिमच्। सुश्रुतोक्ते कर्ण्णवेधाङ्गकर्ण्णबन्धनाकृतिभेदे। “तत्र समासेन पञ्चदश कर्ण्णबन्धना कृतयोभवन्ति वक्रश्च वन्धूरक आसङ्गिम” इत्यादिना विभज्य “अभ्यन्तरदीर्घैकपालिरासङ्गिमः” इति सुश्रुते लक्षितः।

आसञ्जन = न० आ + सन्ज–ल्युट्। १ आसङ्गे २ सम्यक्सम्बन्धे “व्रततिवलयासञ्जनात्” शकु०। णिच्–ल्युट्। ३ योजने

आसञ्जित = त्रि० आ + सन्ज–णिच्–क्त। संयोजिते

आसत्ति = स्त्री आ + सद–क्तिन्। १ नैकट्यसंबन्धे २ प्राप्तौ न्यायमते ३ प्रत्यक्षजनकसन्निकर्षे “आसत्तिराश्रयाणां तु सामान्यज्ञानमिष्यते” भाषा०। ४ शाब्दबोधोपयोगिन्यामव्यवधानेन षदजन्यपदार्थोपस्थितौ। “आसत्तियोग्यताकाङ्क्षातात्पर्य्यज्ञानमिष्यते। कारणसन्निधानन्तु पदस्यासत्तिरुच्यते, भाषा० “यत्पदार्थस्य यत्पदार्थेनान्वयोऽपेक्षितस्तयोरव्यवधानेनोपस्थितिः कारणम्। तेन गिरिर्भुक्तमग्निभान् देवदत्तेनेत्यादौ न शाब्दबोधः। नीलो घटो द्रव्यं पट इत्यादावासत्तिभ्रमाच्छाब्दबोधः। आसत्तिभ्रमाच्छाब्दभ्रमाभावेऽपि न क्षतिः। ननु यत्र छत्री कुण्डली वासस्वी देवदत्त इत्युक्तं तत्रोत्तरपदस्मरणकाले पूर्वपदस्मरणस्य नाशात् अव्यवधानेन उत्तरपदस्मरणासम्भव इति चेन्न प्रत्येकपदसंस्कारैश्चरमतावद्विषयकस्मरणस्याव्यवधानेनोत्पत्तेः नानासन्निकर्षैरेकप्रत्यक्षस्येव नानासंस्कारैरेकस्मरणोत्पत्तेरपि सम्भवात्। तावत्पदसंस्कारसहितचरमवर्ण्ण ज्ञानस्यीद्बोधकत्वात्। कथमन्यथा नानावर्णकपदस्मरणम्। परन्तु तावत्पदार्थानां स्मरणादेकदैव खलेकपोतन्यायात् तावत्पदार्थानां क्रियाकर्म्मभावेनान्वयबोधरूपः शब्दबोधो भवतीति केचित्” मुक्ता०।

शाब्दबोधतुहेः आसत्तिश्च शब्दचिन्तामणौ निरूपिता यथा। “आसत्तिश्चाव्यवधानेनान्वयप्रतियोग्युपस्थितिः सा च स्मृतिर्नानुभवोऽतोनान्योन्याश्रयः अथ नानाविशेषणककर्म्मकर्तृकरणाधिकरणक्रियादिपदज्ञानजन्यक्रमिकपदार्थस्मृतीनां न यौगपद्यं सम्भवति आशुतरविनाशिनां क्रमिकाणां मेलकानुपपत्तेरिति कथन्तावत्पदार्थान्वयबोधः विशेषणज्ञानसाध्यत्वाद्विशिष्टज्ञानस्येति चेत् श्रौत्रप्रत्येकवर्ण्णानुभवजन्यसंस्कारमेलकादेव तावत्पदस्मृतिः तत एकदैव तावत्पदार्थस्मृतौ सत्यां वाक्यार्थानुभवः न चान्यविषयसंस्कारेणान्यस्य न स्मरणमिति वाच्यं वाक्यार्थानुभवानुपपत्त्या फलबलेन संस्काराणां परस्परसहकारेण तत्रैकस्मरणकल्पनात् प्रत्येकवर्ण्णसंस्काराणामिवानन्यगतिकतया पदस्मरणे। अथ “यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते। तेन तेनान्वितः स्वार्थः पदैरेवावगम्यते” नचैवमन्वयान्तराभिधानं न स्यात् विरम्य व्यापाराभावादिति वाच्यं एवमपि प्रथममन्वये हेत्वनुपन्यासात् उत्तरस्य हीदं सामग्रीवैकल्यं न पूर्ब्बस्येति चेत् अस्तुतावदेवं तथापि चरमन्तावत्पदार्थघटितवाक्यार्थानुभवे उक्तैव गतिरनन्यगतिकत्वात्। अत्र वदन्ति। सन्निधानंपदजन्मैवान्वयबोधहेतुः द्वारमित्यादावध्याहृतेनापि पिधानादिनान्वयबोधदर्शनात् न च द्वारं पिधेहीतिशब्द एवाध्या ह्रियते अनुपयोगात् अर्थस्यैवान्वयप्रतियोगित्वादावश्यकत्वाच्च अर्थापत्तेरुपपादकविषयकत्वात्। न च शब्दमात्रमुपपादकमपि तु तदर्थः। अवश्यं कल्प्यार्थसाहचर्य्येण दैववशसम्पन्नशब्दस्मृतेरन्यथासिद्धेः अन्यथा पदबोधितस्यैवार्थस्यान्वयबोधकत्वमिति नियमशक्तिकल्पनापत्तिः स्वार्थान्वयपरत्वाच्छब्दानां द्वारमिति न पिधानान्वयबोधकमिति तदन्वयबोधार्थमवश्यं शब्दकल्पनमिति चेत् लक्षणायां व्यभिचारात् तत्राक्षेपाक्षिप्तेन कर्त्राऽन्वयबोधाच्च अथ द्वारपदसहभावमात्रं पिधेहि शब्दस्य कल्प्यते लाघवात् न च पिधानाभिधायकानेक शब्दोपस्थितौ विनिगमकविरहः संस्कारतारतम्यात्- पदविशेषस्मृतेरिति चेत् न आकाङ्क्षादिमत्प्रतियोग्यन्वितस्वार्थपरत्वस्य कॢप्तत्वाल्लाघवेनार्थाध्याहारात् न च श्रुतपदानि लब्धप्रयोजनानीति कथमध्याहृते तेषां तात्पर्य्यमिति वाच्यं श्रुतार्थान्वयानुपपत्त्याध्याहृते तात्पर्य्यात् कथन्तर्होदनं पचतीत्यत्र समभिव्याहृतमात्रादन्वयबोधः कलायादेरपि स्मृतत्वादिति चेत् न तात्पर्य्यनियमादित्यवेहि “यत्परः शब्दः सशब्दार्थः” इति न्यायात् अन्यथा तवापि दैवशात् स्मृतकलायपदोपस्थानेनान्वयबोधः स्यात् अथ देवदत्त ओदनमित्यादिवाक्ये क्रियापदाध्याहाराभावेन कर्त्तुरनभिधानात् तृतीया स्यादिति चेत् न अध्याहृतेनापि पचतिपदेन कर्त्तुरनभिधानात्। कर्तृसंख्याभिहितेति चेत् न, देवदत्तस्य पाकैत्यत्र तृतीयापत्तेः तात्पर्य्यतस्तत्र व्यवस्थेति चेत् तुल्यं मनु द्वारं पिधेहीत्यादौ पिधानशाब्दानुभवे पिधानोपस्थापकपदत्वे नान्वयबधो जनकत्वमिति चेत् न अन्वयप्रतियोग्युपस्थापकपदत्वेनजनकत्वात् न तु तदुपस्थापकयावत्पदत्वेन गौरवात् एवंपिधानान्वयबोधेऽपि अन्यथा गौणलाक्षणिकयोरन्वयबोधोन स्यात् तयोरननुभावकत्वादिति उच्यते क्रियापदोपस्थापिता क्रिया कारकपदोपस्थापितं च कारकं परस्परमाकाङ्क्षति न तूपस्थितिमात्रम् अन्यथा द्वारं कर्भता पिधेहि द्वारं पिधानङ्कृतिरित्यत्रापि क्रियाकर्माध्याहार इवान्वयबोधप्रसङ्गः क्रियाकर्म्मणोरुपस्थितेस्तुल्यत्वात् एवंविधपदोपस्थापिते परस्परमाकाङ्क्षा नास्तीति चेत् तर्ह्याकाङ्क्षायां पद विशेषो पस्थापितत्वं तन्त्रं नतूपस्थितिमात्रम्। अर्थविशेषेऽसाधुत्वात् न तत्रान्वयबोध इति चेत् न पिधेहीति पदं विना द्वार मित्यस्याप्यसाधुत्वात् तदर्थप्रयोगे साधुत्वस्य तुल्यत्वात् साधुत्वज्ञानस्यान्वयबोधेऽप्रयोजकत्वाच्च गोणीत्याद्यपभ्रंशादाव प्यन्वयबोधाच्च न चात्रासंसर्गाग्रहोबाधकाभावात्। तस्मात् क्रियापदस्य कारकपदेन, कारकपदस्य च क्रियापदेन सहान्वयबोधकत्वं नत्वेकं विनापरस्य। अपि च सकर्म्मकक्रियापदप्रयोगं विना द्वितीयानुपपत्तिः क्रियापदार्थयोगे द्वितीया चेत् षटः आनयनं कृतिरित्यत्रापि द्वितोयापत्तेः तथा पुष्पेभ्य इत्यत्र स्पृहयतिपदाध्याहारं विना चतुर्थ्यनुपपत्तिः यदि च स्मृहयतिपदार्थयोगे चतुर्थी तदा पुष्पमिच्छतीत्यत्रापि स्यात् स्पहयतीच्छति पदयोरेकार्थत्वात्। अथ साधुत्वार्थं द्वारं पुष्पेभ्य इत्यत्र पिधेहि स्पृह यति पदाध्याहारोऽनुमन्यते नत्वम्बयबोधार्थं तस्यान्वय प्रतियोगिज्ञानादेवोत्पत्तेरिति चेत् तर्हि क्रियापदप्रयोगं विना न कारकविभक्तिः कारकपदप्रयोगं विना न तदन्वय योग्यं क्रियापदमिति केबलकारके क्रियापदाध्याहारः केवलक्रियायाञ्च कारकपदाध्याहारः साधुत्वार्थमावश्यक इति तज्जन्यैवोपस्थितिरन्वयबोधौपयिकी। तस्मात् क्रिया कारकपदोपस्थापितयोरेव क्रियाकारकयोः परस्परान्वय इति शब्दाध्याहारएव कर्त्त्राक्षेपे वक्ष्यामः”।

व्याख्यातं चैतत् मथुरानाथेन दिङ्मात्रमत्रोदाह्रियते “आसत्तिं निरूपयति आसत्तिश्चेति अन्वयप्रतियोगिनोःपदार्थयोरव्यवधानेनोपस्थितिरासत्तिरित्यर्थः स्वाव्यवहितत्वसम्बन्धेन तत्पदार्थोपस्थितिमती तत्पदार्थोपस्थितिस्तत्पदार्थे तत्पदार्थस्यासत्तिरिति फलितार्थः नचैवमासन्नानासन्नविभागव्याघातः समूहालम्बनरूपपदार्थोपस्थितेरेव सर्वत्र शाब्दाबोधोपयोगितया गिरिर्भुक्तमग्निमान् देवदत्तेनेत्यादावपि शाब्दानुभवाव्यवहितपूर्ब्बवर्त्तिसमूहालम्बनोपस्थितिमादायैवाव्यवधानेनोपस्थिति सत्त्वात् उपस्थितेरैक्येन व्यवधानासम्भवादिति वाच्यं भेदगर्भाव्यवधानस्य पूर्वोत्तरक्षणसाधरणस्यात्र प्रवेशात् तच्च खध्वं साधिकरणभिन्नत्वे सति यः स्वप्रागभावाधिकरणसमय प्रागभावानधिकरणक्षणस्तदवच्छेदेन खसमवायिदेशोत्पत्तिक त्वेसति स्वभिन्नत्वम्। इत्थञ्च प्रथमं या प्रत्येकपदेभ्यः प्रत्येक पदार्थानां क्रमिका स्मृतिःसैवासत्तिरन्ववयबोधाव्यवहितपूर्व्ववर्त्तिसमूहालम्बनरूपीपस्थितिः। अतएवासत्तिज्ञानं हेतुः प्रत्येकपदजन्यपदार्थोपस्थितीनामाशुविनाशिनीनां युगपच्छाब्दबोधात् पूर्व्वमसम्भवेन स्वरूपसद्धेतुत्वासम्भवात् नचैवं दण्डी कुण्डली खड्गी देवदत्तैत्यादावेकविशेष्यकनानाविशेषणकान्वयबोधस्थले आसत्त्यभावप्रसङ्कः तत्र विशेषणो पस्थितेर्विशेषणान्तरोपस्थित्या व्यवधानादिति वाच्यं प्रकृतान्वयबोधाननुगुणायः स्वध्वंसाधिकरणक्षणस्तद्भिन्नत्यस्याव्यवधानघटकीभूतसत्यन्तदलार्थत्वात् विशेषणान्तरोपस्थिरिक्षणश्च न प्रकृतान्वयबुद्ध्यननुगुणः अननुगुणत्वञ्च फलबलकल्प्य यादृशयादृशक्षणेन व्यवधानेऽप्यन्वयबोधोऽनुभवसिद्धस्तत्क्षणभिन्नत्वस्यैवाननुगुणत्वरूपत्वात्। अतएव गिरिर्भुक्तमित्यादौ भुक्तादिपदार्थोपस्थितिक्षणोयत्रैकपदोच्चारणानन्तरं चिरतरं विलम्ब्यान्यपदमुच्चारितं तत्रा व्यवधायकक्षणोऽप्रिचाननुगुणस्तत्रान्वयबोधानुत्पत्तेरितितदुभयत्र नासत्तिः। नचैवं यत्र पदोपस्थितिर्व्यवधानेन, पदार्थोपस्थितिश्चाव्यवधानेन, तत्राष्यासत्त्यापत्तिरिति वाच्यं तत्पदोपस्थित्यव्यवहिततत्पदोपस्थितिकन्या तत्पदार्थो पस्थितेरव्यवधानेन तत्पदार्थोपस्थितिस्तत्पदद्वयजन्यतत्पदार्थयोरन्वयबोधे आसत्तिरिति विवक्षितत्वात्। एवञ्च यत्र पदोपस्थितिरव्यवधानेन, पदार्थोपस्थितिश्च व्यवधानेन, यत्र वा पदार्थोपस्थितिरव्यधानेन, पदोपस्थितिश्च व्यवधानेन, तत्रोभयत्रापि नासत्तिः किन्त्वेकपदोपस्थितिजन्यपदार्थोपस्थितिरपरपदोपस्तितिश्च समूहालम्बनरूपा ततोऽपरपदार्थोपस्थितिः पदान्तरोपस्थितिश्च समूहालम्बनरूपेत्यादिक्रमेण पदार्थोपस्थितिस्तत्रैवासत्तिः पदोपस्थिते रव्यवधानमपि पूर्वोत्तरक्षणसाधारणं प्रकृतान्वयबोधाननुगुणलक्षणघटितं बोध्यम् ननु आसत्तिभ्रमादन्वबोध इति सर्वैर्गीयते स कुत्रेति वाच्यं यत्र व्यवहितपदोपस्थितावव्यवहितत्वधीर्व्यवहितायां पदार्थोपस्थितौ अव्यवहितत्वधीर्वा तत्र तत्सम्भवात्। अथैवमासत्तिज्ञानस्य शाब्दकोधहेतुत्वेरूपसत्याः पदजन्यपदार्थोपस्थितेः पृथक्कारणत्वे किं मानं, न च विशेषणज्ञानसाध्यं विशिष्टज्ञानमिति विशेषणज्ञानत्वेन कारणमिति वाच्यम् आसत्तिज्ञानस्यैव पदार्थविषयकत्वेन विशेषणज्ञानत्वादिति चेन्न तद्विलम्बेनापि शाब्दधीविलम्बात् तस्यापि पृथक्कारणत्वात् न च तद्व्यतिरेकस्थाने आसत्तिविलम्बादेव शाब्दधीविलम्ब इति वाच्यं नह्यासत्तिः स्वरूपसती हेतुः किन्तु तज्ज्ञानमेव तद्व्यतिरेकस्थानेऽपि सम्भवादिति निर्णयकृतस्तदसत् एकलडुपस्थाप्यकृतिवर्त्तमानत्वयोरन्वयबोधस्थानेऽव्याप्तेर्यत्रानुमित्यादिना एकदैव पदजात मनुमितं स्मृतं वा ततश्च समूहालम्बनपदार्थस्मरणं जातं तत्राव्याप्तेश्च तत्र प्रत्येकपदार्थोपस्थितेरभावात् नच तत्रापि क्रमिकप्रत्येकपदार्थोपस्थितिः कल्पनीयेति वाच्यम् अनुभवविरोधात् प्रत्येकपदार्थोपस्थितिमन्तरेणापि तत्र शाब्दबोधस्यानुभविकत्वात् किञ्चैतस्याः स्वरूपसद्धेतुत्वं स्वयमेव निराकृतं क्रमिकप्रत्येकपदार्थोपस्थितेः शाब्दबोधात् पूर्ब्बं चिनष्टत्वात् नाप्येतज्ज्ञानं कारणं मानाभावात् नह्यपस्थितिज्ञानविलम्बात् शाब्दबोधविलम्बआनुभविकः न च दैवाददृष्टादिना पदार्थोपस्थितौ पदजन्यत्वभ्रमेण शाब्दबोधानुदयात् तज्ज्ञानस्यापि हेतुत्वमिति वाच्यं वृत्त्या पदजन्यपदार्थोपस्थितेः स्वरूपसतोहेतुत्वात्तद्भ्रमे शाब्दबोधाभावात् अव्यवधानांशवैयर्थ्याच्च न चैतद्भ्रमानन्तरं शाब्दानुभवदर्शनादेतज्ज्ञानं हेतुरिति वाच्यं नहि यत्सत्त्वे यदुत्पद्यते तदेव तत्कारणं, घटाव्यवहितपूर्व्ववर्त्तियावत्पदार्थानामेव घटहेतुत्वापत्तेः न च पदजन्यपदार्थोपस्थितौ अव्यवहितत्वाव्यवहितपदजन्यत्वयोः संशये व्यवहितत्वव्यवहितपदजन्यत्वनिश्चये च शाब्दबोधानुत्पत्तेस्तन्निश्चयोहेतुः तयोः प्रतिबन्धकत्वकल्पने गौरवादिति वाच्यं तात्पर्य्यज्ञानसत्त्वे व्यवहितत्वव्यवहितपदजन्यत्वग्रहेऽपि शाब्दबोधदर्शनादनुत्पत्तेरेवासिद्धेः नचैवं व्यवहितपदकदम्बात्मकश्लीकादौ योजनायां कारितायामेवान्वयवोधोनत्वन्थथा इत्यत्र किं वीजमिति वाच्यं योजनायास्तात्पर्य्यग्राहकत्वात्। अतएव यस्य योजनां विनैव तात्पर्य्यग्रहस्तस्य न योजनापेक्षा। एतेन अन्वयप्रतियोगिपदं तदुपस्थापकपरं तथा च तदुपस्थापकपदोपस्थित्यव्यवधानेन तदुपस्थापकपदोपस्थितिस्तयो रासत्तिः न तु पदार्थोपस्थितीनामव्यवधानमपेक्षितमिति केषाञ्चिन्मतमप्यपास्तं वक्ष्यमाणान्योन्यश्रयाशङ्कानुत्थितेः समूहालम्बनोपस्थितिमादाय सर्व्वत्रास्याः सत्त्वेन आसन्नानासन्नार्थविभागव्याषासापत्तेः। न च भेदगर्भमव्यवधानं विवक्षणीयं पूर्व्वोक्तदोषाणामपि वृत्तेः। एतज्ज्ञानस्य कारणत्वेउक्तरूपेण मानाभावाच्च। केचित्तु अव्यवधानेनेति विशेषणे तृतीया अन्वयप्रतियोगिपदञ्च अन्वप्रतियोगिन उपस्थिति र्यस्मात् इति व्युत्पत्या अन्वयप्रतियोग्युपस्थापकपरं तथा च तत्पदार्थान्विततत्पदार्थशाब्दवुद्धौ तत्पदे तत्पदाव्यवधानमासत्तिः नतूपस्थितीनामव्यवधानं विवक्षितं मौतिश्लोकादौ लिप्यादिरूपदीषविशेषात् अव्यवधानभ्रमेणान्वयबोधः। न चैवं श्लोकादौ योजनायामप्यन्वयबोधो न स्यात् वक्त्रेदंव्यवधानेनोच्चारितमिति विशेषदर्शनेन भ्रमासम्भवात् इति वाच्यं योजनयोपस्थितवाक्यान्तरादेव तत्रान्वयबोधात् न तु श्लोकादितः। अव्यवधानञ्चाननुगुणक्षणभेदाभेद साधारणं स्वपरसाधारणञ्च वाच्यं तेनैकपदाद्युपस्थितयोः कृतिवर्त्तमानत्वयोरन्वयबोधेऽपि न काप्यनुपपत्तिरित्याहुः तदप्यसत् वक्ष्यमाणान्योन्याश्रयशङ्कानुत्थितेस्तात् पर्य्यादिज्ञानसत्त्वे अव्यवधानज्ञानाभावेऽपि शाब्दबुद्धेरानुभविकत्वाच्च नव्यास्तु वृत्त्या पदधोजन्यपदार्थोपस्थितिरासत्तिरियञ्च स्वरूपसत्येव हेतुः अत एव त्रिसूत्र्याम् आसत्तिस्तु यद्यपि स्वरूपसत्येव प्रयोजिका इत्यादिप्रभाकरोपाध्यायेनोक्तं न च एतप्या अपि कारणत्वेमानाभाव इति वाच्यं तथासति आनयेति वाक्यमाकर्ण्णयतः प्रत्यक्षेण घटं पश्यतोघटस्य शाब्दबोधापत्तेः घटमानयेति वाक्यमाकर्ण्णयतः कारणतया घटपदकारणा काशस्मरणवत आकाशस्य शाब्दबोधापत्तेः नचैवं गिरिर्भुक्तमग्निमान् देवदत्तेनेत्यादितोगिरिरग्निमान् भुक्तं देवदत्तेनेत्यन्वयबोधापत्तिरिति वाच्यं तथा तात्पर्य्यग्रहसत्त्वे इष्टापत्तेः कदाचित्तु तत्र तथान्वयबोधस्य सर्वैरेव इष्टत्वात् नचैवं क्वचिद्योजनायाः कथमुपयोगैतिवाच्य तात्पर्य्यग्रहार्थं तदुपयोगितेत्युक्तत्वादिति प्राहुः अव्यवधानेनान्वयप्रतियोग्युपस्थितिरासत्तिरुक्ता सा च शाब्दबोधादेव तथा च तस्यापि आसत्तिः कारणं सा च शाब्दबुद्धिरूपा तस्याञ्च यद्यपरासत्तिः कारणं तदा अतवस्था फलीभूता चेत् अन्योन्याश्रय इत्यतआह सा चेति प्रसङ्गादन्वयबोधनिर्वाहकपदजन्यपदार्थोपस्थितिपरिपाटीं प्रदर्शयितुमाशङ्कते अथेति नव्यास्तु ननु वृत्त्या पद जन्यपदार्थोपस्थितिश्चेदासत्तिस्तदा नानाविशेषणकस्थाने कथमन्वयबोधः? सर्व्वासां पदार्थोपस्थितीनाम् एकदाऽसम्भवादित्याशङ्कते अथेति इत्याहुः। मेलकं मेलनम्। विशेषणज्ञानसाध्यत्वादिति विशेषणं पदार्थस्तदुपस्थितिसाध्यत्वात् इत्यर्थः वृत्त्या पदधीजन्येयादिः। विशिष्टज्ञानस्य शाब्दबोधानुभवस्य। मेलकात् समूहात् एकदैव तावत्पदस्मृतिः न च सकलपदगोचरस्मरणाभावेऽपि प्रत्येकपदानुभवजनितप्रत्येकपदार्थस्मरणाहितसंस्कारेभ्य एव सकलपदार्थगोचरमनेकं स्मरणं सम्भवति तथा च सकलपदगोचरैकर्म्मरणपर्य्यन्तानुधावनं विफलमिति वाच्यं प्रकारान्तरेण पदार्थोपस्थितेः शाब्दबोधाहेतुत्वात् पदज्ञानजन्यत्वोपपत्तये तदनुधावनात् ननु श्रोत्रेण प्रत्येकपदानुभवोऽपि न सम्भवति तथाहि आदौ घोत्पत्तिस्ततो द्वितीयकाले घघत्वनिर्विकल्पकोत्पत्तिः अकारोत्पत्तिश्च अथ तृतीयकाले अकारतत्त्व निर्विकल्पकघत्वविशिष्टधीटोत्पत्तिघनाशाः ततश्चतुर्थकाले अत्वविशिष्टधी टटत्वनिर्विकल्पकाकारनाशचरमाकारोत्पत्तयः इदानीञ्च घकारभानं न सम्भवति प्रत्यक्षं प्रति विषयस्य हेतुत्वात् ततः पञ्चमकाले टत्वविशिष्टबोधाकारतत्त्वनिर्विकल्पकटकारनाशाः इदानीं प्राथमिकाकारभानं न सम्भवति तदभावात् ततः षष्ठक्षणे अत्वविशिष्टबोधाकारनाशौ इदानीं टकारभानं न सम्भवति तदभावात् तथा च कथं वर्णसमूहात्मकपदगोचरश्रौत्रानुभवः न च पूर्ब्बपूर्ब्बवर्णोपनयसहितान्त्यवर्ण्णसन्निकर्षात् श्रौत्रान्भवसम्भव इति वाच्यं बहिरिन्द्रियजप्रत्यक्षे उपनीतं विशेषणतयैव भासते इति नियमात् प्रत्येकवर्ण्णसमूहमुख्यविशेष्यकपदप्रत्यक्षस्योपनयमर्य्यादया श्रवणसम्भवात् पदप्रत्यक्षे प्रत्येकं सर्वस्य वर्ण्णस्य मुख्यविशेष्यत्वात् न च पूर्व्ववर्ण्णोऽन्त्यवर्ण्णविशेषणतया भासत इति वाच्यं पूर्ब्बवर्ण्णेऽन्यवर्ण्णविशेषणत्वनियामकस्य तत्सम्बन्धस्याभाबात् इति चेत् मैवं घादिसमुदायमात्रं न घटादिपदं टघादेरपि घटपदत्वापत्तेरपि तु अव्यवहितोत्तरत्वसम्बन्धेन पूर्वपूर्ववर्णवदुत्तरोत्तरवर्ण एव पदं तच्च श्रवसा न दुर्ग्रहं पूर्ब्बपूर्बवर्ण्णोपनयसहकारेणाव्यवहितोत्तरत्वसम्बन्धेन उत्तरोत्तरवर्णविशेषणतया पूर्बपूर्बवर्णग्रहसम्भवात् वैयाकरणास्तु पूर्ब्बवर्ण्णज्ञानरूपाया उपनयसामग्र्याः सत्त्वेऽपि पूर्ववर्णस्यैवोत्तरवर्णे विशेषणत्वेन भाने नियामकाभात् विनिगमनाभावेन अव्यवहितपूर्ब्बत्वसम्बन्धेनैव उत्तरोत्तरवर्णस्यापि विशेणतया भानस्य र्दुर्वारतया अत्तशब्दयोस्तुल्यपदत्वापत्तेः तथा च अत्पदोच्चारणे तपदस्य श्रवसा ग्राह्यत्वापत्तिरित्यतोवर्ण्णसमुदयादन्यः स्फोटएव पदमित्याहुः तद्विशेषश्च स्फोटशब्दे वक्ष्यते। अत्रायं विशेषः। चिन्तामणिमते शब्दाध्याहारएव मथुरानाधेन तु आसत्तिग्रन्थशेषे आर्थाध्याहारोऽपीति व्यवस्थापितम्। यथा “अस्तु वा शब्दाध्यहार एवावश्यक स्तथापि तज्जन्यपदार्थोपस्थितित्वेन कुतोहेतुत्वं लाघवात् पदार्थोपस्थितित्वेन हेतुत्वस्योचितत्वात् तथा च ओदनं पचनीत्यादौ सति तात्पर्य्यग्रहे यथाकथञ्चिदुपस्थितकलायादेरप्यन्वयबोध इत्यर्थाध्वाहारपक्ष एव सम्यक्” “वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः” सा० द०। “आसत्तिक्रमेणान्वयः” रघु०।

आसदन = न० आ + सद–ल्युट्। १ प्राप्तौ २ नैकट्यसम्बन्धे च।

आसन = न० आस–ल्युट्। १ स्थितौ “एकत्रासनभोजनैः” स्मृतिः। २ स्वस्थानस्थितिरूपे राज्ञां षड्गुणान्तवर्त्तिगुणभेदे च। तद्विवृतिराग्नेये। “परस्परस्य सामर्थ्यविघातादासनं स्मृतम्। अरेश्च विजिगीषोश्च यानवत् पञ्चधा स्मृतम्”। यानस्य पश्चविधत्वञ्च। “विगृह्य सन्धाय तथा संभूयाथ प्रसङ्गतः। उपेक्षया च निपुणैर्यानं पञ्चविधं स्मृतमिति” तत्रैवोक्तम्। “परस्य स्वस्य सैन्यानां साम्यं ज्ञात्वा विवक्षणः। आसनं स्वामिने ब्रूयात् मन्त्री स्वामिहिते रतः इत्युक्ते ३ विजिगोषोर्यात्रानिवर्त्तकव्यापारे च। आस्यतेऽत्र आधारे ल्युट्। ४ उपवेशनाधारे कम्बलाद्यासने। “आसनं वसनं शय्या दारामत्रं अमण्डलुः। आत्मनस्तु शुचि प्रोक्तं न परेषां कदाचन” आ० त० पु०। “प्रयत्नमुक्तासनया गृहागतः” रघुः। “स्वहस्तदत्ते मनिमासने मुनिः” माघः “कॢप्तासनं कौतुकवे- दिमध्यम्” कुमा० “शुचौ दे शे प्रतिष्ठाप्य स्थिरमासनमात्मनः” गीता “स्थापयेदासने तस्मिन् खिन्नः कार्येक्षणे नृणाम्” मनुः। “स वासवेनासनसन्निकृष्टम्” “प्राञ्जलिर्जलजासनम्” कुमा०। ५ देवतापूजाङ्गे उपचारभेदे तद्भेदादि कालि० पु०। “आसनं प्रथमं दद्यात् पौष्पं दारुजमेव वा। वास्त्रं वा चार्म्मणं कौशं मण्डलस्योत्तरे सृजेत्। पौष्पासनं यद्विहितं यस्य तद्यदि गर्भकम्। निवेदयेत्तदा पद्मेविपुलं द्वारि चोत्सृजेत्। पौष्पं पुष्पौघरचितं कुशसूत्रादिसंयुतम्। अतिप्रीतिकरं देव्या ममाप्यन्यस्य भैरव!। यज्ञदारुसमुद्भूतमासनं मसृणं शुभम्। नोच्छृआयं नातिविस्तीर्णमासनं विनियोजयेत्। अन्यदारूद्भवञ्चापि दद्यादासनमुत्तमम्। सकण्टकं क्षीरयुक्तं दारु सारविवर्जितम्। चैत्यश्मशान संभूतं वर्जषित्वा विभीतकम्। वाल्कलं कोषजं फालं वस्त्र मेतत्त्रयं मतम्। रोमजं कम्बलञ्चैव तदनेन चतुष्टयम्। अनेन रचितं दद्यादासनं चेष्टभूतये। सिंहव्याघ्रतरक्षूणां छागस्य महिषस्य च। गजानां तुरगाणाञ्च कृष्णसारस्थ चर्म्मणा। सृमरस्याथ रामस्य मृगाणां नवभेदिनाम्। चर्म्म भिः सर्ब्बदेवानामासनं प्रीतिदं स्मृतम्। वास्त्रेषु कम्बल शस्तमासनं देवतुष्टये। राङ्कवं चार्म्मणं श्रेष्ठं दारवं चन्दनोद्भवम्। यच्चासनं कुशमयं तदासनमनुत्तमम्। सर्वेषा मपि देवानामृषीणाञ्च यतात्मनाम्। योगपीठस्य सदृश मासनं स्थानमुच्यते। आसनस्य प्रदानेन सौभाग्यं भुक्ति माप्नुयात्। सृमरो रोहितो न्यङ्कुः शंवरो बभ्रुणो रुरुः। शशेणहरिणाश्चेति मृगा नवविधा मताः। हरिणश्चापि विज्ञेयः पञ्चभेदोऽत्र भैरव!। ऋष्यः स्वड्गो रुरुश्चैव पृषतश्च मृगस्तथा। एते वलिप्रदानेषु चर्म्मदाने च कीर्त्तिताः। सर्ब्बेषां तैजसानाञ्च आसनं ज्येष्ठ मुच्यते। आयसं वर्ज्जियित्वा तु कांस्यं सीसकमेव व। शिलामयं मणिमयं तथा रत्नमयं मतम्। आसनं देवताभ्यस्तु भुक्त्यै मुक्त्यै समुत्सृजेत्। अत्रैव साधकानाञ्च आसनं शृणु भैरव!। यत्रासीतः पूजकस्तु सर्ब्बसिद्धि मवाप्नयात्। ऐणञ्च चार्म्मणं वास्त्रं तैजसञ्च चतुष्टयम्। आसनं साधकानाञ्च सततं परिकीर्त्तितम्। पूर्व्वोक्तं यच्च देवेभ्य आसनं परिकीर्त्तितम्। तत् सर्व्वमासनं शस्तं पूजाकर्म्मणि साधके। न यथेष्टासनो भृयात् पूजाकर्म्मणि साधकः। काष्ठादिकासनं कुर्य्यात् मितमेवं सदा बुधः। चतुर्व्विंशत्यङ्गुलेन दीर्घं काष्ठासनं मतम्। षोडशाङ्गुलविस्तीर्णमुत्सेधेचतुरङ्गुलम्। पञ्चाङ्गुलं वा कुर्य्यात्तु नोच्छ्रितं चात्र कारयेत्। पूर्व्वोक्तं वर्ज्जयेद्वर्ज्ज्यमासनं पूजनेष्वपि। वास्त्रं द्विहस्तान्नो दीर्घं सार्द्धहस्तान्न विस्तृतम्। त्र्यङ्गृलात्तु तथोच्छायं पूजाकर्म्मणि संश्रयेत्। यथेष्टं चार्म्मणं कुर्य्यात् पूर्व्वोक्तं सिद्धिदायकम्। षडङ्गुलाधिकं कुर्य्यान्नोच्छ्रये तु कदाचन। काम्बलं चार्म्मणं चैलं महामायाप्रपूजने। प्रशस्तमासनंप्रोक्तं कामाख्यायास्तथैव च। त्रिपुरायाश्च सततं विष्णोश्चापि कुशासनम्। बहूच्छ्रायं न चैव स्यात् तथैव वहुविस्तृतम्। दारु भूमिसनं प्रोक्तमश्मापि सर्व्वकर्म्मणि। पृथक् पृथक् कल्पयेच्च शोभनं तादृशासनम्। न पत्रमासनं कुर्य्यात् कदाचिदपि पूजने। न प्राण्यङ्गंन मुद्भूतमस्थिजं द्विरदादृते। मातङ्गदन्तसञ्जातमासनं कामिके चरेत्। चर्म्म पूर्व्वोदितं ग्राह्यं तथा गन्धमृगस्य च। सलिले यदि कुर्व्वीत देवतानां प्रपूजनम्। तत्राप्यासन मासीनो नोत्थितस्तु समाचरेत। तोये शिलामयं कुर्य्यादासनं कौशमेव वा। दारवं तैजसं वापि नान्यदासन माचरेत्। आसनारोपसंस्थानस्थानाभावे तु पूजकः। आसनं कल्पयित्वा तु मनसा पूजयेज्जले। यद्यासनस्य संस्थानं तोयमध्ये न बिद्यते। अन्यत्र वा तदा स्थित्वा देवपूजां समाचरेत्। इत्येतत् कथितं पुत्र! पूज्यपूजक सङ्गतम्”। आस्यतेऽनेन करणे ल्युट्। ५ देहस्थैर्यसाधने करचरणादिबन्धभेदरूपे योगाङ्गभेदे “यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधयोऽष्टावङ्गानि” विभज्य “स्थिरसुखमासनम्” पात० सू० लक्षितं तस्य वृत्तिः यथा “निश्चलं सुखावहं च यदासनं तद्योगाङ्गम्। आस्यतेऽनेनेत्यासनं तच्च द्विविधम् बाह्यं शारीरं च तत्र चैलाजिनकुशोत्तरं बाह्यं, शारीरं पद्मस्वस्तिकादि। तत्र पद्मासनं प्रसिद्धम्। सव्यमाकुञ्चितचरणम् दक्षिणजङ्घोर्वन्तरे, दक्षिणं च सव्यजङ्घोर्वन्तरे, निक्षिपेदिति स्वस्तिकासनम्। द्वे पादतले वृषणसमीपे संपुटीकृत्य संपुटोपरिपाणिकच्छपिकां न्यसेदिति भद्रासनम्। योगपट्टेन सोपाश्रयासनम्। जानुप्रसारितवाह्वोःशयनं पर्य्यङ्कासनं क्रौञ्चोष्ट्रगजादिवदुपवेशनं क्रौञ्चाद्यासनं द्रष्टव्यम्। आसनस्थैर्य्योपायमाह। “प्रयत्नशौथिल्यानन्तसमापत्तिभ्याम्” पात० सू०। “स्वाभाविकः प्रयत्नश्चलत्वादासनविघातकः तस्योपरमेणासनं सिध्यति अनन्ते नागनायके स्थिरतरफणासहस्रविधृतविश्वमण्डले चित्तस्य समापत्त्या देहाभिमानाभावेनासनदुःखास्फूर्त्तेरासनं सिध्यति। तत्सिद्धिलिङ्गमाह। “ततोद्वन्द्वानभिघातः” पात० सृ०। “आसन- जयाच्छीतोष्णादिमिरनभिघातो बाधाभावो भवति” वृत्तिः इदञ्च राजयोगाङ्गं हटयोगाङ्गानि पुनरन्येऽपि वन्धाःकाशी० उक्ताः यथा “महामुद्रां नभोमुद्रामुड्डीयानं जलन्धरम्। मूलबन्धन्तु योवेत्ति स योगी योगसिद्धिभाक्। शोधनं नाडिजालस्य घटनञ्चन्द्रसूर्ययोः। रसानां शोषणं सम्यक् महामुद्राभिधीयते। योनिं वामाङ्घिणापीड्य कृत्वा वक्षःस्थले हनुम्। हस्ताभ्यां प्रसृतं पादं धारयेद्दक्षिणञ्चिरम्। प्राणान् कुक्षौ समापूर्य्य चिरं सञ्चारयेच्छ्वनैः। एषा प्रोक्ता महामुद्रा महारोगविनाशिनी। चन्द्राङ्गे तु समभ्यस्य सूर्य्याङ्गे पुनरभ्यसेत्। या वहुल्या भवेत् संख्या ततोमुद्रां विसर्जयेत्। न हि पथ्यमपथ्यं वा रसाः सर्व्वेऽपि नीरसाः। अपि घोरं विषं पीतं पीयूषमिव जीर्य्यति। क्षयकुष्ठगुदावर्त्तगुल्माजीर्ण्णषुरोगमाः। तस्य दोषाः क्षयं यान्ति महामुद्राञ्च योऽभ्यसेत्। कपालकुहरे जिह्वा प्रतिष्ठा विपरीतगा। भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी। न पीद्ध्यते स रोगेण न च लिप्येत कर्म्मणा। बाध्यते न स कालेन यीमुद्रां वेत्ति खेचरीम्। चित्तञ्चरति खे यस्माज्जिह्वा चरति खेगता। तेनैषा खेचरी नाम मुद्रा सिद्धैर्निषेविता। यावद्विन्दुः स्थितोदेहे तावन्मृत्युभयं कुतः। यावद्बद्धा नभोमुद्रा तावद्विन्दुर्न गच्छति। उड्डीनङ्कुरुते यस्मादहोरात्रं महाखगः। उड्डीयानं ततः प्रोक्तं तत्र बन्धोऽभिधीयते। जठरे पश्विमं जानुनाभेरूर्द्धञ्च धारयेत्। उड्डीयानं ह्ययं बन्धोमृत्योरपि भयं जयेत्। बध्नाति हि शिराजालमधोगामि न भोजनम्। एष जलन्धरो बन्धः कण्ठे दुःखौघनाशनः। जलन्धरे कृते बन्धे कण्ठसङ्कोचलक्षणे। न पीयूषं पतत्यग्नौन च वायुः प्रधावति। पर्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद्गुदम्। अपानमूर्द्धमाकृष्य मूलबन्धोऽभिधीयते। अपानप्राणयोरैक्यं क्षये मूत्रपुरीषयोः। युवा भवति वृद्धोऽपि सततं मूलबन्धनात्”।

रुद्रयामलेऽनेकविधान्यासनानि दर्शितानि यथा। “अथासनप्रभेदञ्च शृणुष्व सिद्धिकाङ्क्षिणाम्। यत्र तत्र पूजकानां सिद्धिरत्र महीतले। अधोमुखासनं नाथ! सर्वेषां प्राणिनां सुखम्। ऊर्द्ध मार्गेण देवेश! धारयेत् मारुतं सुधीः। सर्व्वासनानां श्रेष्ठं हि ऊर्द्धपादो हि यत्चरेत्। तदैव महितां सिद्धिं ददाति वायवी कला। पद्मासनं तथा कुर्य्यात्प्राणवायुषु सिद्धये। शुभासनं सदा ध्यायेत् पूरयित्वा पुनःपुनः। उरुमूले वामपादं पुन- स्तद्दिक्षणं पदम्। वामोरौ स्थापयित्वा च पद्मासनमिति स्मृतम्। सव्यापसव्ययोगेन आसनं परिकल्पयेत्। तदैकासनकाले तु द्वितीयासनमारभेत्। पृष्ठे पादद्बयं सीम्रिवृद्धाङ्गुष्ठद्वयं सुधीः। कायसङ्कोचमाकृत्य धृत्वा बद्धासनं भवेत्। इति बद्धासनं बद्ध्वा वायुबद्धः पुनःपुनः चिवुके स्थापवेद्यत्राद्धृदि तेजश्च भास्करे। इत्यासनं हि सर्व्वेषां प्राणिनां सिद्धिकारणम्। वायुं वशे तु कुर्य्याद्यः स योगी नात्र संशयः। भावसिद्धिकरं नाथ! सर्वेषां दृष्टिकारणम्। वामपादतले कुर्य्यात् पादं दक्षिणमेव तत्। सव्यापसव्ययोगेन आसनद्वयमेव च। सर्वत्रैवंप्रकारञ्च कृत्वा नातीव साधयेत्। शृणुष्वान्यान्यासनानि द्वात्रिंशत्संख्यकानि च। सव्यापसव्ययोगेन द्विगुणं प्रभवेदिह। चतुःषष्ट्यासनानीह वदामि वायुशीधनात्। द्वा त्रिंशद्ग्रन्थिभेदेन कल्पयेत् वायुवृद्धये। कार्म्मुकासनमाकृत्य उदरे पूरयेत् मुखम्। तदा वायुर्वशं याति कालेन सूक्ष्मवायुना। बद्धपद्मासनं मन्त्री वेष्टयित्वा प्रधारयेत्। करेणं दक्षिणेनैव वामपादाङ्गुलीतटम्। सव्या पसव्यद्विगुणं कार्म्मुकासनमेव च। कार्म्मुकद्वययोगेन शरववद्वायुना नयेत्। कुक्कुटासनमावक्ष्ये नाडीनिर्म्मलहेतुतः। सत्कुलागममार्गेण कुर्य्यात् वायुनिवेशनम्। निजहस्तद्वयं भूमौ पातयित्वा जितेन्द्रियः। पद्भ्यां बद्ध्वा करौ देव! कर्परद्वयमध्यतः। सव्यापसव्ययुगलं कुक्कुटं ब्रह्मणाकृतम्। बद्धं कृत्वा अधःशीर्षं यः करोति खगासनम्। खगासनप्रसादेन श्रमलोपोभवेद्रुतम्। पुनःपुनः श्रमादेव विषयश्रमलोपकृत्। लोलासनं सदा कुर्य्यात् वायुलौल्यापघातनात्। स्थिरवायुप्रसादेन स्थिरचेता भवेद् द्रुतम्। पद्मासनं समाकृत्य पादयोः सन्धिगह्वरे। हस्तद्वयमधोदेशे नियोज्य कुक्कुटाकृति। निजहस्तद्वयं लग्नं निपात्य हस्तनिर्भरम्। तस्मात् शरीरमुत्याप्य स्थिरपद्मासनेऽनिलम्। स्थित्वैतदासने मन्त्री अधःशीर्षं करोति चेत्। उत्तमं त्वासनं ज्ञेयं योगिनामतिदुर्ल्लभम्। एतदागनमात्रेण शरीरं शीतलं भवेत्। पुनःपुनः शोधनेन चेतना कुण्डली भवेत्। सव्यापसव्ययोगेन यः करोति पुनःपुनः। पूरयित्वा मूलपद्मे सूक्ष्मवायुं विकुम्भयेत्। कृत्वा कुम्भकमेवं हि सूक्ष्मवायौ लसद्विधौ। मूलादिब्रह्मरन्ध्रान्ते स्थापयेत् गगने पदे। एतत् शुभासनं कृत्वा सूक्ष्मरन्ध्रेष्वशेषतः। सूचीरन्ध्रे यथा सूत्रं पूरयेत् सूक्ष्मवायुना। एवं क्रमेण षन्मासात् पूरकस्यापि लक्षणम्। महासुखं समाप्नोति योगाष्टाङ्गनिषेवणात्। अथ वक्ष्येमहादेव! पर्वतासनमुत्तमम्। यत् कुत्वा स्थिररूपःस्यात् षट्चक्रादिविलोडनः। योन्यासनं सर्व्वयोगे योगिनामबलम्बनम्। तत्कालं सकलं तावत् खेचरोयावदेव हि। पादगोष्ठेन चाक्रम्य लिङ्गाग्रं योनियो जयेत्। अन्यं पादमुरौ दत्त्वा तत्र योन्यासनं भुवि। एतन्मध्ये महादेव! बद्धयोन्यासनं शृणु। यत् कृत्वा विचरेत् योगी पृथिव्यामीश्वरो यथा। कृत्वा योन्यासनं नाथ! लिङ्गगुह्यादिबन्धनम्। मुखनासानेत्रकर्ण्णं कनिष्ठाङ्गुलिभिस्तथा। ओष्ठाधरं कनिष्ठाभ्यामनामाभ्याञ्च नासिके। मध्यमाभ्यां नेत्रयुग्मं तर्जनीभ्यामथ श्रुती। एतत् सिद्धासनं नाम योगिनामतिदुर्लभम्। कृत्वा वायुस्तम्भनं च मूलमारभ्य स्तम्भयेत्। सव्यापसव्ययोगेन सिद्धो भवति साधकः। शनैःशनैः समारुध्य कुम्भयेच्च प्रपूरयेत्। अरुणोदयकालाच्च वसुदण्डेन भैरव! सव्यापसव्ययोयेनगृहीत्वा बाह्यगानिलम्। द्वितीयप्रहरे कुर्य्यात् बाह्यपूजां मनोरमाम्। एतदासनमाकृत्य सिद्धो भवति साधकः। अथान्यदासनं वक्ष्ये यत् कृत्वा चामरोभवेत्। मत्साधकः शुचिः श्रीमान् कुर्य्याद्भावाभि भावितः। भेकनामासनं योग्यं नाथ! वक्ष्यामि तद्गुणम्। निधाय पादयुगलं स्कन्धे वाहौ पदोपरि। ध्याये दिष्टपदं श्रीमान् आसनस्थः सुखाय च। यदि सर्व्वाङ्गमुत्तील्य गगने खेचरासनम्। महाभेकासनं प्रोक्तं सर्व्वसिद्ध्विप्रदायकम्। महाविद्या–महामन्त्रं प्राप्नोति जपतीह यः। एतत् प्रभेदं वक्ष्यामि यः करोति सचाभरः। एकं पादमुरौ बद्ध्वा स्कन्धेऽन्यपादरक्षणम्। एतत् प्राणासनं नाम सर्वसिद्धिप्रदायकम्। वायुं मूले समारोप्य प्रत्याकुञ्च्य प्रसारयेत्। केवलं पादमेकञ्च स्कन्धे चारोप्य यत्नतः। एकपादेन गगने तिष्ठेत् स दण्डवत् प्रभो!। अपानासनमेतद्धि सर्वेषां पूरकाश्रयम्। कृत्वा सूक्ष्मशीर्षपद्मे समारोप्य च वायुभिः। तदा मिद्धो भवेन्मर्त्यो नात्र कार्य्या विचारणा। प्राणापानासने कृत्वा मन्त्री योगेश्वरो भुवि। समानासनमावक्ष्ये सिद्धिमन्त्रादिसाधनम्। एकं पादमुरौ दत्त्वा गुह्येऽन्यं लिङ्गवक्त्रके। एतद्वीरासनं नाथ! समानासनसंज्ञकम्। इत्याकृत्य जपेन्मन्त्रं धृत्वा वायुं चतुर्दले। कुण्डलीं भाययेन्मन्त्री कोटि विद्युल्लताकृतिम्। आत्मचन्द्रामृतरसैराप्लुतां योगिनीं सदा। वीरासनं तु वीराणां योगवायुप्रसाधनम्। योजा- नाति महावीरः स योगी भवति ध्रुवम्। अथ वक्ष्ये महाकाल। समानासनसाधनम्। भेदक्रमेण यज्ज्ञात्वा वीराणामधिपोभवेत्। समानासनमाकृत्य बद्ध्वाङ्गुष्ठं करेण च। एतेन साधुकारी स्यात् सर्वयोगादिसाधने। आसनं योहि जानाति वायुना हरणं तथा। कालादीनां निर्ण्णयन्तु स कदाचित् न नश्यति। कालेन लभ्यते सिद्धिः कालरूपोमहोज्ज्वलः। साधकैर्योगिभिर्ध्येयः सिद्धवीरासनात्मना। अथ वक्ष्ये नीलकण्ठ। ग्रन्थिभद्रासनं शुभम्। ज्ञात्वा रुद्रो भवेत् क्षिप्रं सूक्ष्मवायुनिषेवणात्। कृत्वापद्मासनं मन्त्री जङ्घायाः कुहरे करौ। कर्परस्थलपर्य्यन्तं विभिद्य स्कन्धधारणम्। भित्त्वा पद्मासनं मन्त्री हस्तार्द्धेन विपाटयन्। येन शीर्षं भवेन्नम्रं सर्वाङ्गुलिभिराश्रितम्। ग्रन्थिभेदासनं कुर्य्यात् खेचरादिप्रदर्शनम्। कृत्वा सूक्ष्मवायुलयं परमात्मनि कारयेत्। अथान्यासनमावक्ष्येयोगपूर्वकरक्षणात्। कृत्वा पद्मासनं पादाङ्गुष्ठं जङ्घां हि संस्थितम्। हस्तमेकन्तु जङ्घायां कार्म्मुकं कर्परो र्द्धकम्। पद्मासने समाधाय अङ्गुष्ठं परिधारयेत्। कार्म्मुकासनमेतद्धि सव्यापसव्ययोगतः। पद्मासनं वेष्टयित्वा अङ्गुष्ठं च प्रधारयेत्। यः करोति सदा नाथ! कार्म्मुकासनमुत्तमम्। रोगादिनाशं शत्रूणां क्षयं नीत्वा सुखी भवेत्। अथ वक्ष्येऽत्र संक्षेपात् सर्वाङ्गासनमुत्तमम्। यत् कृत्वा निपुणो योगी विद्याभिः पण्डितो भवेत्। अधो निधाय शीर्षञ्च ऊर्द्धपादद्घयञ्चरेत्। पद्मासनं तु तत्रैव भूमौ कर्परयुग्मकम्। दण्डे दण्डे तु यः कुर्य्यात् श्वासशान्तिपरः सुधीः! नित्यं सर्वासनं हित्वा न कुर्य्याद्वायुधारणम्। मासेन तस्य सिद्धिः स्यात् सर्व्वरोगविनाशनम्”। अन्यान्यप्यामनानि तत्रोक्तानि विस्तरान्न दर्शितानि। निर्वाणतन्त्रे जन्तुसंख्यया चतुरशीतिलक्षसंख्यकान्यासनान्युक्तानि किन्तु तेषां लक्षणविशेषास्तत्र नोक्ताः तेषां मध्ये द्वयोरेव प्राधान्थमित्यपि तत्रैवोक्तम्। यथा “आसनानि कुलेशानि! यावन्तोजीवजन्तवः। चतुरशीतिलक्षाणि चैकैकंसमुदाहृतम्। आसनेभ्यः समस्तेभ्यः साम्प्रतं द्वयमुच्यते। एकं सिद्धासनं नाम द्वितीयं कमलासनम्”। एषां बहुविधानामासनांनां मध्ये “सुखेनैव भवेद्यस्मिन्नासने ब्रह्मचिन्तनम्। आसनं तद्विजानीयादितरत् सुखनाशनम्” इत्यभियुक्तोक्तेः पातञ्जलोक्तस्य स्थिरमुखस्यैवासनस्य ब्रह्मचिन्तने ग्राह्यतेत्येवसेयम्। तन्त्रसारे योगाङ्गासनानि पञ्च सलक्षणान्यु- क्तानि यथा “पद्मासनं खस्तिकाख्यं भद्रं वज्रासनन्तथा। वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम्। उर्व्वोसपरि बिन्यस्य सम्यक् पादतले उभे। अङ्गुष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमात्ततः। पद्मासनमिदं प्रोक्तं योगिनां हृदयङ्गमम्। जानूर्व्वोरन्तरे सम्यक् कृत्वा पादतले उभे। ऋजुकायो विशेद्योगी स्वस्तिकन्तत् प्रचक्षते। सीमनि पार्श्वयोर्न्यस्य गुल्फयुग्मं सुनिश्चलम्। वृषणाधः पार्श्वपादौ पाणिभ्यां परिरक्षयेत्। भद्रासनं समुद्धिष्टं योगिभिः परिकल्पितम्। उर्वोः पादौ क्रमान्न्यस्येत्ताल्वोः प्रत्यङ्मुखाङ्गुली। करौ निदध्यादाख्यातं वज्रासनमनुत्तमम्। एकम्पादमधः कृत्वा विन्यस्योरौ तथेतरम्। ऋजुकायोविशेन्मन्त्री वीरासनमितीरितम्” यत्र महामात्रोवसति तस्मिन् ६ गजस्कन्धदेशे आस्यतेऽनेन आ + अस–कर्म्मणि ल्युट्। ७ सम्यग् विक्षेपणसाधने। असनएव अण्। ८ असनवृक्षे पु० ९ जीवकवृक्षे पु०। आसनशब्दस्थाने शसादौ तद्धितयाजादौ च परे आसन्नादेशः इति काशिकादयः मसोरमायान्तु तत् दूषयित्वा आस्यशब्दस्थाने एव तदादेश इत्युक्तं यथा “यत्तु आसनशब्दस्य आसन्नादेश इति काशिकायामुक्तन्तत् प्रामादिकम् “आस्रोवृकस्य वर्त्तिकामभीके” इति मन्त्रे मुखादित्यर्थस्यौचित्यात् “वृकस्य चित् वर्त्तिकामन्तराणादिति” मन्त्रान्तरसंवादाच्च वाख्यातञ्च तथैव वेदभाष्ये इति।

आसनबन्ध = पु० आसनार्थो बन्धः। करचरणादीनामन्योन्यबन्धे “निषेदुषीमासनवन्धधीरः” रघुः।

आसनमन्त्र = पु० आसनस्य शुद्ध्यर्थो दानार्थो वा मन्त्रः। तन्त्रोक्ते “आधारशक्तिकमलासना य नमः” इत्यादिके तत्तत्प्रकरणोक्ते १ मन्त्रभेदे २ देवेभ्य आसनदानार्थे मन्त्रभेदे च। स च मन्त्रः “पुरुष एवेदं सर्व्वं यद्भूतं यच्च भाव्यम्। उतामृतस्येशानो यदन्नेनाभिरोहति” श्रौतः। “शेषमञ्चं महादिव्य फणामणिसहस्रकम्। कोटिसूर्य्यप्रतीकाशं गृहाणासनमीश्वर!” इति पौराणिकश्च। एवग्रन्योऽपि तत्तत्कल्पोक्तो ज्ञेयः। आसनपरिग्रहार्थे ३ मन्त्रं च “आसनमन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्म्मोदेवता आसनपरिग्रहे विनियोगः” तन्त्रसा०।

आसना = स्त्री आस–युच्। १ स्थितौ २ उपवेशने।

आसनादि = पु० आसनमादिर्यस्य। मन्त्रोक्ते पूजाङ्गे आसनप्रभृतौ उपचारगणे “आसनं स्वागत पाद्यमर्घमाचमनीयकम्” उपचारशब्दे निवृतिः।

आसनी = स्त्री आस–आधारे ल्युट् ङीप्। १ विपणौ २ मर्य्यादायाञ्च मेदि०।

आसन्द = पु० आसीदत्यस्मिन् प्रलयकाले आ + सद्–अब्दादि० नि०। वासुदेवे मेदि०।

आसन्दी = स्त्री आसद्यतेऽस्याम् आ + सद–अब्दादि० नि० गौरा० ङीष्। १ उपवेशनयोग्ये आसनयन्त्रे (केदारा) २ क्षुद्रखट्टायाम् (को~च)। ३ सभामध्ययेदिकायाम् “औदम्बरीमासन्दीं नाभिदघ्नामरत्निमात्रामुताहरन्ति” कात्या० ७, २७। ४ उक्तलक्षणायां पीठिकायाञ्च। आसन्दीशब्दस्य निरुक्तिरपि शत० ब्रा० दर्शिता। “इयं वा आसन्दी अस्यां हीदं सर्व्वमासन्नम् तस्मादस्मा आसन्दीमाहरन्ति” इति। स्वल्पार्थे कन्। क्षुद्रासनयन्त्रभेदे स्त्री। “जाम्बूनदमयीमासन्दिकाम्” काद०। आसन्दी + अस्त्यर्थे मतुप् मध्वा० मस्य वः। आसन्दीयुक्ते त्रि० स्त्रियां ङीप्। “आसन्दीवान् ग्रामभेदः” सि० कौ०।

आसन्न = त्रि० आ + सद–क्त। १ निकटस्थे, २ उपस्थिते च। “आसन्नपतने कूले कूलं पिपतिषतीति” शा० भा०। ३ सन्निधानयुक्ते ४ सम्यक्स्थिते च “सर्वमत्रासन्नमिति” शत० ब्रा०। ६ शाब्दबोधसाधनासत्तियुक्तेवाक्ये “आसन्नानासन्नविभागव्याघातः” शब्दचिन्ता०। ५ मुमूर्षौ च।

आसन्नकाल = पु० आसीदत्यस्मिन् काले आ + सद–आधारे क्त कर्म्म०। मृत्युकाले।

आसन्य = पु० आस्ये भवः यत् आसन्नादेशः। मुखभवे मुखान्तर्विलस्थे मुख्ये प्राणे “अथ हैनमासन्यं प्राणमूचुः” शत० ब्रा०।

आसन्वत् = त्रि० आस्यसमानार्थकः आसन्शब्दोऽस्ति ततः अस्त्यर्थे मतुप्। आस्ययुक्ते समुखे। “यद्भूतं यच्च भाव्यभासन्वत्तेन ते चारये विषम्” अथ० ६, १२, २।

आसमञ्ज = पु० असमञ्ज एव स्वार्थे अण्। सूर्य्यवंश्ये सगरपुत्रे क्षत्रियभेदे।

आसम्बाध = त्रि० समन्तात् संबाधा यत्र। सङ्कीर्ण्णस्थाने परस्परसंघर्षणेन क्लिष्टे। “आसम्बाधा भविष्यन्ति पन्थानः शरवृष्टिभिः” रामा०।

आसव = पु० आसूयते आ + सू–कर्म्मणि अण्। १ अभिषवणीये मद्ये (चोयानमद) तल्लक्षणादि भावप्र०। “यच्च पक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः। आसवस्य वीजद्रव्यगुणैर्ज्ञेयागुणाःःसमाः” नवपुराणमद्ययोर्गुणास्तत्रैव। “मद्यं नवमभिष्यन्दि त्रिदोषजनकः परम्। अकृच्छ्रं वृंहणं ग्राहि दुर्गन्धं विशदं गुरु। जीर्ण्णं तदेव रोचिष्ण कृमिश्लेष्मानिलापहम्। हृद्यं सुगन्धि गुणवल्लघु श्रम- विशोधनम्”। सात्विकादिपानकर्त्तृभेदेन चेष्टाविशेषाश्च तत्रोक्ताः “सात्विकोगीतिहास्यादि राजसो साहसादिकम्। तामसो निन्द्यकर्म्माणि निद्रां च मदिरां चरन्”। चरन् पिबन् कुर्य्यादिति शेषः। “विधिना मात्रया काले हितै रन्यैर्यथाबलम्। प्रहृष्टोयः पिबेन्मद्यं तस्य स्यादमृतं यथा। किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम्” सुश्रुते तु मद्यभेदेन गुणविशेषादिकमुक्तं यथा

“सर्व्वं पित्तकरं मद्यमम्लं दीपनरोचनम्। भेदनं कफवातघ्नं हृद्यं वस्तिविशोधनम्। पाके लघु विदाह्युष्णं तीक्ष्णमिन्द्रियबोधनम्। विकाशि सृष्टविण्मूत्रं शृणु तस्य विशेषकम्। मार्द्वीकमविदाहित्वान्मधुरान्वयतस्तथा। रक्तपित्तेऽपि सततं बुधैर्न प्रतिषिध्यते। मधुरं तद्धि रूक्षञ्च कषायानुरसं लघु। लघुपाकि सरं शोथविषमज्वरनाशनम्। मार्द्वीकाल्पान्तरं किञ्चित् खार्जूरं वातकोपनम्। तदेव विशदं रुच्यं कफघ्नं कर्शनं लघु। कषायमधुरं हृद्यं सुगन्धीन्द्रियबाधनम्। कासार्शोग्रहणीदोषमूत्राघातानिलापहा। स्तन्यरक्तक्षयहिता सुरा वृंहणदीपनी। कासार्शोग्रहणीश्वासप्रतिश्यायविनाशिनी। श्वेता मूत्रकफस्तन्यरक्तमांसकरी सुरा। छर्द्यरोचकहृत्कुक्षितोदशूलप्रमार्दनी। प्रसन्ना कफवातार्शोविबन्धानाहनाशिनी। पित्तलाल्पकफा रूक्षा यवैर्य्यातप्रकोपणी। विष्टम्भिनी सुरा गुर्वी श्लेष्मला तु मधूलिका। रूक्षा नातिकफा वृष्या पाचनी चाक्षिकी स्मृता। त्रिदोषो भेद्यवृष्यश्च कोहलो वदनप्रियः। ग्राह्युष्णोऽजगलः पक्ता रूक्षस्तृट्कफशोफहृत्। हृद्यः प्रवाहिकाटोपदुर्नाभानिलशोषहृत्। वक्वसो हृतसारत्वाद्विष्टम्भी वातकोपनः। दीपनः सृष्टविण्मूत्रो विशटोऽल्पमदो गुरुः। कषायो मधुरः शीधुर्गौडः पाचन दीपनः। शार्करो मधुरो रुच्यो दीपनो वस्तिशोधनः। वातघ्नो मधुरः पाके हृद्य इन्द्रियबोधनः। तद्वत् पक्वरसः शीधुर्वलवर्णकरः सरः। शोफघ्नो दीपनो हृद्यो रुच्यः श्लेष्मार्शसां हितः। कर्शनः शीतरसिकः श्वयथूदरनाशनः। वर्णकृज्जरणः स्वर्य्यो विबन्धघ्नोऽर्शसां हितः। आक्षिकः पाण्डुरोगघ्नोव्रण्यः संग्राहको लघुः। कषायमधुरः शीधुः पित्तघ्नोऽसृक्प्रसादनः। जाम्बवो बद्धनिस्यन्दस्तुवरो वातकोपनः। तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत्। मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः। लघुर्मध्वासवश्छेदी मेहकुष्ठविषापहः। तिक्तः कषायशोफघ्नस्तीक्ष्णः स्वादुरवातकृत्। तीक्ष्णः कषायो मदकृद्दुर्नामकफगुल्महृत्। कृमिमेदोऽनिलहरो मैरेयो मधुरो गुरुः। बल्यः पित्तहरो वर्ण्यो मृद्वीकेक्षुरसासवः। शीधुर्मधूकपुष्पोत्थो विदाह्यग्निबलप्रदः। रूक्षः कषायकफहृद्वातपित्तप्रकोपणः। निर्दिशेद्रसतश्चान्यान् कन्दमूलफलासवान्। नवं मद्यमभिस्यन्दि गुरु वातादिकोपनम्। अनिष्टगन्धं विरसमहृद्यञ्च विदाहि च। सुगन्धि दीपनं हृद्यं रोचिष्णु कृमिनाशनम्। स्फुटस्रोतस्करं जीर्णं लघु वातकफापहम्। अरिष्टो द्रव्यसंयोगसंस्कारादधिको गुणैः। बहुदोषहरश्चैव दोषाणां शमनश्च सः। दीपनः कफवातघ्नः सरः पित्तविशोधनः। शूलाघ्मानोदरप्लीहज्वराजीर्ण्णार्शसां हितः। पिप्पल्यादिकृतो गुल्मकफरोगहरः स्मृतः। चिकित्सितेषु वक्ष्यन्तेऽरिष्टा रोगहराः पृथक्। अरिष्टासवशीधूनां गुणान् कर्म्माणि चादिशेत्। बुद्ध्या यथास्वं संस्कारमवेक्ष्य कुशलो भिषक्। सान्द्रं विदाहि दुर्गन्धं विरसं कृमिलं गुरु। अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भाजनस्थितम्। अल्पौषधं पर्य्युषितमत्यच्छं पिच्छिलञ्च यत्। तद्वर्ज्यं सर्व्वदा मद्यं किञ्चिच्छेषन्तु यद्भवेत्। तत्र यत् स्तोकसम्भारं तरुणं पिच्छिलं गुरु। कफप्रकोपि तन्मद्यं दुर्जरञ्च विशेषतः। पित्तप्रकोपि बहुलं तीक्ष्णमुष्णं विदाहि च। अहृद्यं फेनिलं पूति कृमिलं विरसं गुरु। तथा पर्य्युषितञ्चापि विद्यादनिलकोपनम्। सर्व्वदोषैरुपेतन्तु सर्वदोषप्रकोपणम्। चिरस्थितं यातरसं दीपनं कफवातजित्। रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम्। तस्यानेकप्रकारस्य सद्यस्य रसवीर्य्यतः। सौक्ष्म्यादौष्ण्याच्च तैक्ष्ण्याच्च विकाशित्वाच्च वह्निना। समेत्य हुदयं प्राप्य धमनीरूर्द्ध्वमागतम्। विक्षोभ्येन्द्रियचेतांसि वीर्य्यं मदयतेऽचिरात्। चिरेण श्लेष्मिके पुंसि पानतो जायते मदः। अचिराद्वातिके दृष्टः पैत्तिके शीघ्रमेव तु। सात्विके शौचदाक्षिण्यहर्षमण्डनलालसः। गीताध्ययन सौभाग्यसुरतोत्साहकृन्मदः। राजसे दुःखशीलत्वमात्मत्यागं ससाहसम्। कलहं सानुबन्धन्तु करोति पुरुषे मदः। अशौचनिद्रामात्सर्य्यागम्यागमनलोलताः। असत्यभाषणञ्चापि कुर्य्याद्धि तामसे मदः। रक्तपित्तकरं शुक्तं छेदि भुक्तविपाचनम्। वैस्वर्य्यं जरणं श्लेष्मपाण्डुक्रिमिहरं लघु। तीक्ष्णोष्णं मूत्रलं हृद्यं कफघ्नं कटुपाकि च। तद्वत्तदासुतं सर्वं रोचनञ्च विशेषतः। गौडानि रसशुक्तानि मधुशुक्तानि यानि च। यथापूर्व्वं गुरुतराण्यभिस्यन्दकराणि च। तृषां तु दीपनं हृद्यं हृत्याण्डुकृमिरोगनुत्। ग्रहण्यर्शोविकारघ्नं भेदि सौवीरकं तथा। धान्याम्लं धान्ययोनित्वाद्दीपनं दाहनाशनम्। स्पर्शात्पानात्तु पवनकफतृष्णाहरं लघु। तैक्ष्ण्याच्च निर्हरेदाशु कफं गण्डूषधारणात्। मुखवैरस्यदौर्गन्ध्यमलशोषक्लमापहम्। दीपनं जरणं भेदि हितमास्थापनेषु च। समुद्रमाश्रितानाञ्च जनानां सात्म्यमुच्यते।”

स्मृतौ तु जातिभेदेन मद्यविशेषपाननिषेधार्थं मद्यविभागादि दर्शितं यथा प्रा० वि० मनुहारीतयमैः। “सुरा वै मलमन्नानां पाप्मा च मलमुच्यते। तस्माद्ब्राह्मण राजन्यौ वैश्यश्च न सुराम्पिबेत्”। तथा च श्रुतिः “सुरा वै मलमन्नानामनृतं पाप्मतमंसुरेति”। यद्यप्यन्नशब्दःशूकधान्यतण्डुलविकारविशेष ओदने प्रसिद्धस्तथापि बहुतर वचनात् पिष्टयवान्नादिविकारमपि लक्षयति। तेनान्नविकारविशेषोमदहेतुः सुरा इत्युच्यते। अत्रिः। “गौडीपैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा। यथैवैका तथा सर्व्वा न पातव्या द्विजोत्तमैरिति” त्रिविधैव सुरेति पनसादिविकारव्यावृत्तस्य त्रितयस्यानुगतस्यैकस्य प्रवृत्तिनिमित्तस्याभावात् न पानक्रियाव्याप्यत्वम् इतरव्यावर्त्तकधर्म्मश्च महापातकहेतुपानकर्मत्वमुपाधिः सुराज्ञानाधीनं महापातकं तज्ज्ञानाधीनञ्च सुराज्ञानम् इतरेतराश्रयापत्तेःपुलस्त्यवचनविरोधाच्च यथा पुलस्त्यः। “पानसं द्राक्षं माधूकं खार्ज्जूरं तालमैक्षवम्। माक्षिकं टाङ्कं माध्वीकमैरेयं नारिकेलजम्। समानानि विजानीयान्मद्यान्येकादशैव तु। द्वादशन्तु सुरा मद्यं सर्वेषामधमं स्मृतम्”। अनेनैकादशानां सुरात्वं निषेधति। मद्यशब्दस्तु मदहेतुद्रवद्रव्यमात्रवचनः अस्मादेव वचनात् न तु मद्यमात्रं सुराशब्दस्यार्थः तथा च वृहस्पतिः। “गौडीं माध्वीं सूरां पैर्ष्टी पीत्वाविप्रः समाचरेत्। तप्तकृच्छ्रं पराकञ्च चान्द्रायणमनुक्रमात्”। त्रयाणां सुरात्वे क्रमेण प्रायश्चित्तत्रयं न स्यात्। तथा भविष्ये “सुरा पैष्टी तु मुख्योक्ता न तस्यश्चेतरे समे”। पैष्टीति तण्डुलविकारमात्रोपलक्षणम्। इतरे गौडीमाध्व्यौ। अतो अन्नविकार एव सुराशब्दस्य मुख्यत्वात् त्रिविधा सुरेति गौडीमाध्व्योर्गौणसुरात्वज्ञापनार्थम् तेनैतत्पानेऽपि महापातकत्वमतिदिशति यथैवैका तथा सर्वेति पैष्ट्यां पूर्ब्बप्रसिद्धिं दर्शयति यथा पैष्टी सुरा तथा सर्व्वा गौडी माध्वी च। पूर्ववचनोक्तापि पैष्टी दृष्टान्तत्वेनात्र- दर्शिता। न पातव्या द्विजोत्तमैर्ब्राह्मणैरित्यर्थः। त्रैवर्ण्णिकपरत्वे उत्तमपदानर्थक्यात्। न तु बहुवचनानर्थक्यपरीहारार्थमुत्तमप्रातिपादिकानर्थक्यं युक्तं बहुवचनस्य सजातीयोपस्थापकत्वेन चरितार्थत्वात्। अतो ब्राह्मणस्य त्रिविधसुरापानं महापातकम्। “क्षत्रियवैश्ययोस्तु” सुरा वै मलमन्नानामिति वचनेन पैष्ट्येवेति स्थितम् गोविन्दराजविश्वरूपवीरेश्वराणामयमनुमतोऽर्थः। अत एव “एवं माध्वी च गौडी च पैष्टी च त्रिविधा सुरा। द्विजातिभिर्न्नपातव्या कदाचिदपि कर्हिचित्” इतिमनुवचनेऽपि द्विजातिपदं ब्राह्मणपरमेव। अतएव द्विविधसुरापाने क्षत्रियादीनां महापातकं तावदस्तु दोषाभावमेवाह वृद्धयाज्ञल्क्यः। “कामादपि हि राजन्योवैश्यो वापि कथञ्चन। मद्यमेवासुरां पीत्वा न दोषं प्रतिपद्यते” तदेवं पैष्टी निषेधस्त्रैवर्ण्णिकानाम् गौडीमाध्वीनिषेधस्तु ब्राह्मणस्यैव ननु ब्राह्मणराजन्याविति कर्तृविशेषणं पुंलिङ्गं तत्र विवक्षितम् अतः कथं व्राह्मण्याः सुरापानं महापातकम् उच्यते निषिध्यमानक्रियायाविधेयत्वेन तत्कर्त्तुरनुपादेयत्वात्त द्विशेषणं लिङ्गमविवक्षितम् हविरुभयत्ववत्। अतस्तज्जातिस्त्रीणामपि पाननिषेधः। तथा च भविष्ये “तस्मान्न पेयं विप्रेण सुरामद्यं कथञ्चन। ब्राह्मण्यापि न पेया वै सुरा पापभयावहा”। “यद्व्राह्मणी सुरापी स्यान्न तां देवाः पतिलोकं नयन्तीति” श्रुतिः। “पतत्यर्द्धशरीरेण भार्य्या यस्य सुरां पिबेत्। पतितार्द्धशरीरस्य निष्कृतिर्नोपपद्यते”। न चैवं क्षत्रियवैश्यस्त्रीणामनिषेधः ब्राह्मणीपदस्य निषिद्धसुरापानकर्त्तभार्य्योपलक्षकत्वात् “भार्य्या यस्य सुरां पिबेदिति सामान्यश्रवणाच्च।

वेदविहितः मद्यसवनप्रकारस्तु सौत्रामणीशब्दे वक्ष्यते। “यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम्। तत्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः” मनुः। “अनासवाख्यं करणं मदस्य” कुमा०। “नानासवपात्रसङ्घुलम्” काद०। “मुखं लालाक्लिन्नं पिबति चषकं सासवमिव” शान्तिश०। “संविदासवयोर्मध्ये संविदैव गरीयसी” तन्त्र०। भावे घञ्। २ मद्यादेरभिषवे (मदचोयान) आसूयतेऽत्र आधारे घञ्। ३ अभिषवपात्रे। आ + सूप्रसवे अच्। ६ प्रसवकर्त्तरि त्रि०। “देवस्य सवितुर्मतिमासवं विश्वदेव्यम्” श्रुतिः।

आसवद्रु = पु० आसवस्य (ताडी) मद्यभेदस्य कारणं द्रुः शाक० त०। तालवृक्षे।

आसवनीय = त्रि० आ + सु–कर्म्मणि अनीयर्। अभिषवणीये-

आसा = स्त्री आ + सो–अङ्। अन्तिके निरु० “पितुर्न यस्यासया” ऋ० १, १२७, ८, “आसया अन्तिकेन” भा०। तस्य क्लीवत्वमपि। “आ न इन्द्रो दूरादासात्” ऋ० ४, २०, १, “आसादन्तिकादिति” भा०।

आसादन = न० आ + सद–णिच्–ल्युट्। १ सन्निधापने, २ स्थापने “कृत्वोत्तरपरिग्रहादि करोत्याज्यासादनात्” कात्या० ६, २, ५, आश्वला० शब्दे उदा० ३ आसन्नतासम्पादने ४ मर्द्दने च “वयमासादने तस्य दर्पमद्य हरेमहि” भा० स० २० अ०।

आसादित = त्रि० आ + सद–णिच्–क्त। १ निकटीकृते २ प्राप्ते च “आसादितप्रकटनिर्म्मलचन्द्रहासः” सा० द० ३ आयोजिते ४ सन्निधापिते ५ सम्पादिते ६ कामकेलिपरे च।

आसाद्य = त्रि० आ + सद–णिच्–यत्। प्राप्ये “अभूदनासाद्यमधिज्यधन्वनः” रघुः। २ निकटीकार्य्ये ३ अवसादं प्रापणीये आ + सद–णिच्–ल्यप्। ४ प्राप्येत्यर्थे अव्य०।

आसार = पु० आ + सृ–घञ्। १ धारासम्पाते २ वेगवृष्टौ, “त्वामासारप्रशमितबनोपप्लवं साधु मूर्ध्ना”। “पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः” मेघदू० “आसारसिक्तक्षितिवाष्पयोगात्” रघुः। ३ प्रसरणे, ४ सैन्यानां सर्व्वतो व्याप्तौ च। ५ करणे घञ्। सुहृद्बले। ६ द्वादशराजमण्डलमध्ये नृपभेदे। द्वादशराजमण्डलञ्चाग्नेये दर्शितम् यथा “आत्ममण्डलमेवात्र प्रथमं मण्डलं भवेत्। समन्तात्तस्य विज्ञेया रिपवो मण्डलस्य तु। उपेतस्तु सुहृत् ज्ञेयः शत्रुमित्रमतः परम्। मित्रमित्रमतो ज्ञेयं मित्रमित्र रिपुस्ततः। एतत् पुरस्तात् कथितं पश्चादपि निबोध मे। पार्ष्णिग्राहस्ततः पश्चात् तत आक्रन्द उच्यते। आसारस्तु ततोऽन्यः स्यादाक्रन्दासार उच्यते। जिगीषोः शत्रुयुक्तस्य विमुक्तस्य तथा द्विज!। तत्रापि निश्चयः शक्योवक्तुं मनुजपुङ्गव! निग्रहानुग्रहे शक्तोमध्यस्थः परिकीर्त्तितः। निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत्। उदासीनः स कथितो बलवान् पृथिवीपतिः। मण्डलं तव संप्रोक्त मेतत् द्वादशराजकम्”। ६ षड्विंशरगणैः रचिते दण्डदच्छन्दोभेदे च।

आसाव्य = त्रि० आ + सु–ण्यत्। अभिषवणीये मद्यादो।

आसिक = पु० असिः प्रहरणमस्य ठक्। खड्गेन युद्धकारके

आसिका = स्त्री पर्य्यायेणासनम् आस–पर्य्याये ण्वुल्। पर्य्यायेण उपवेशने। “उष्ट्रासिकाः सुप्यन्ते” पात० भा०।

आसिक्त = त्रि० ईषत् सम्यक् वा सिक्तः आ + सिच–क्त। १ ईषत् सिक्ते २ सम्यक्सिक्ते च।

आसित = न० आस + भावे–क्त। १ उपवेशने। आसधातौ उदा०। आधारे क्त। उपवेशनाधारे स्थाने। आसितस्य मुनेरपत्यं शिवा० अण्। असितमुनेरपत्ये स च शाण्डिल्यगोत्रे प्रवरः।

आसिधार = न० असिधारा इवास्त्यत्रऽण्। युवा युवत्या सार्द्धं यत् मुग्धभर्त्तृवदाचरेत्। अन्तर्निवृत्तनद्धः स्यात् आसिधारव्रतं हि तत्” इति यादवोक्ते व्रतभेदे “अभ्यस्यतीव व्रतमासिधारम्” रघुः।

आसिद्ध = त्रि० आ + सिध–क्त। राजाज्ञया वादिना कृतावरोधे प्रतिवादिनि “नासिद्धस्तं विलङ्घयेत्” नार०।

आसिनासि = पुंस्त्री आसिरिव तीक्ष्णाग्रा नासा यस्य असिनासः मुनिभेदस्तस्यापत्यम् इञ्। तदपत्ये ततः युवापत्ये फक् तौल्व० न लुक्। आसिनासायनः तत्पौत्रे।

आसिबन्धकि = पु० असिबन्धकस्यापत्यम् इञ्। असिबन्धकापत्ये ततः युपापत्ये फक् तस्य तौल्व० न लुक्। आसिबन्धकायनः तत्पौत्रे।

आसीन = त्रि० आस + शानच्। उपविष्टे आसधातौ उदा०

आसीनप्रचलायित = न० आसीनेन उपविष्टेनैव प्रचलवत् आचरितम् प्रचल–क्यच् भावे क्त। उपविश्य निद्रावशेन प्रचलनरूपे (वसेढोला) दोलने।

***