आर्षिक्य = न० ऋषिरेव ऋषिकः ऋषिकस्य भावः पुरो० यक्। ऋषिधर्म्मे

आर्षिषेण = पु० स्त्री ऋषिषेणस्य गोत्रापत्यम् विदा० अञ्। ऋषिषेण ऋषेर्गोत्रापत्ये स्त्रियांङीप्। ऋष्टिषेण इति वा गणे पाठे आर्ष्टिषेणस्तदपत्ये आर्षशब्दे प्रवरनिर्ण्णये उदा०।

आर्षेय = न० ऋषीणां समूहः ढक्। ऋषिगणरूपे प्रवर भेदे तज्ज्ञानस्य विवाहोपयोगिता आर्षशब्दे उक्ता। होमभेदोपयोगिताऽपि प्रवराध्याये दर्शिता यथा। “प्रवरान् व्याख्यास्याम आर्षेयं वृणीते बन्धोरेव नैत्यथो सन्तत्या इति विज्ञायते तदुवै न मनुष्यैरार्षेयं वृणीत ॠषिभिरेवार्षेयं वृणीत इति विज्ञायत आर्षेयमन्वाचष्ट ऋषिणा हि देवाः पुरुषमनुबुध्यन्त” इत्युक्रम्य। “योवा अन्यःसन्नथान्यस्यार्षेयं प्रवृणीते स वा अस्यत ऋषिरिष्टं वीतं वृङ्क्त इति विज्ञायते। त्रीन् वृणीते मन्त्रकृतो–वृणीते यथर्षिमन्त्रकृतो वृणीत इति विज्ञायतेऽ थैकेषामेकं वृणीते द्वौ वृणीते त्रीन् वृणीते न चतुरोवृणीते न पञ्चातिप्रवृणीत इति विज्ञायते। तत ऊर्द्ध्वा नध्वर्युर्वृणीते सुतरेर्वाचोहोतेति विज्ञायते। पुरोहितस्य प्रवरेण राजा प्रवृणीत इति विज्ञायते। भृगूणामेवाग्रेव्याख्यास्यामो जामदग्न्यावत्सास्तेषां पञ्चार्षेयः प्रवरोभार्गवच्यवनाप्नवानौर्वजामदग्न्येति जमदग्निवदूर्ववदाप्नवानवच्च्यवनवद्भृगुवदिति त्र्यर्षेयमुहैके भार्गवौर्वजामदग्न्येति जमदग्निवदूर्ववद्भृगुवदित्येष वा विकृतः। सावर्णिजीवन्तिजाबालैतिशासनवैरोहित्थावटमण्डुप्राचीनयोग्यानामथार्ष्टिषेणानां पञ्चार्षेयो भार्गवच्यवनाप्नवानार्ष्टिषेणानूपेति। अनूपवदृष्टिषेणवदाप्नुवानवच्च्यवनवद्भृगुवदिति त्र्यार्षेयमुहैके भार्गवार्ष्टिषेणानूपेति अनूपवदृष्टिषेणवद्भृगुवदिति। अथ वीतहव्या यास्कवाधूलमौनमौकास्तेषां त्र्यार्षेयो भार्गववीतहव्यसावेदसेति सवेदोवद्वीतहव्यवद्भृगुवदिति। गात्र्समदाः शुनकास्तेषामेकार्षेयो गार्त्समदेति होता वदति गृत्समदवत् इत्यध्वर्युः अथ वाध्र्यश्वामित्रयवस्तेषामेकार्षेयो वाध्य्रश्वेति होता वदति वध्र्यश्ववदित्यध्वर्युः। अथ वैन्याः पार्थास्तेषां त्र्यार्षेयो भार्गववैन्यपार्थिव्येति। पृथिवीवद्वेनवद्भृगुवदिति। इमे भृगवोव्याख्याताः। अथातोऽङ्गिरसामायास्यागोतमास्तेषां त्र्यार्षेयआङ्गिरसायास्यगोतमेति। गोतमवदयास्य वदङ्गिरोवदिति। अथौ तथ्यागौतमास्तेषां त्र्यार्षेय आङ्गिरसौतथ्यगौतमेति गोतमवदुतथ्यवदङ्गिरोवदिति। अथौशिजागोतमास्तेषां त्र्यार्षेयः आङ्गिरसौशिजकाक्षीवदिति कक्षीवदुशिजवदङ्गिरोवदिति। अथ वामदेवा गौतमास्तेषां त्र्यार्षेयः आङ्गिरसवामदेववार्हदुक्थेति वृहदुक्थवद्व्रामदेववदङ्गिरोवदिति। अथभरद्वाजानां त्र्यार्षेय आङ्गिरसबार्हस्पत्यभारद्वाजेति भरद्वाजवद्वृहस्पतिवदङ्गिरोवदित्येष वा विकृतः। कुक्कुटाग्निवेश्योज्जायनानां सर्वेषां च स्तम्बस्तम्भशब्दानामथ द्व्यामुष्यायणानां कुलानाम्। यथा शुङ्गशैशिरयोः भारद्वाजाः शुङ्गाः कता शैशिरयस्तेषां पञ्चार्षेयआङ्गिरसवार्हस्प त्यभारद्वाजकात्याक्षीवदिति अक्षीवत्कतवद्भरद्वाजवद्वृहस्पतिवदङ्गिरोवदिति त्र्यार्षेयमुहैके आङ्गिरसकात्याक्षीवदिति अक्षीवत्कतवदङ्गिरोवदिति। अथ रुक्षाणां पञ्चार्षेय आङ्गिरसवार्हस्पत्यभारद्वाजवान्दनमातृवचसेति। मातृवचोवद्वन्दनवद्भरद्वाजवद्वृहस्पतिवदङ्गिरोवदिति त्र्यार्षेयमुहैके आङ्गिरसवान्दनमातृवचसेति मातृवचोवद्वन्दनवदङ्गिरोवदिति। अथ कपोनांत्र्यार्षेय आङ्गिरसामहीयवौरुक्षय्येति उरक्षय्यवदमहीयुवदङ्गिरोवदिति। अथ गर्गाणां त्र्यार्षेय आङ्गिरसगार्ग्यशैन्येति शिनिवद्गर्गवदङ्गिरोवदिति। भरद्वाजमुहैकेऽङ्गिरसःस्थाने भरद्वाजगार्ग्यशैन्येति शिनिवद्गर्गवद्भरद्वाजवदिति। अथ हरितानां त्र्यार्षेय आङ्गिरसाम्बरीषयौवनाश्वेति युवनाश्ववदम्बरीषवदङ्गिरोवदिति। मान्धातारमुहैकेऽङ्गिरसःस्थाने मान्धात्राम्बरीषयौवनाश्वेति। युवनाश्ववदम्बरीषवन्मान्धातृवदिति। अथ कुत्सानां त्र्यार्षेय आङ्गिरसमान्धात्रकौत्सेति। कुत्सवन्मान्धातृवदङ्गिरोवदिति। अथा गमीढाः काण्वास्तेषां त्र्यार्षेय आङ्गिरसाजमीढकाण्वेति कण्ववदजमीढवदङ्गिरोवदिति। अथ विरूपा रथीतरास्तेषां त्र्यार्षेय आङ्गिरसवैरूपपार्षदश्वेति पृषदश्ववद्विरूपवदङ्गिरोवदिति अष्टादंष्ट्रमुहैकेऽङ्गिरसःस्थान आष्टादंष्ट्र वैरूपपार्षदश्वेति पृषदश्ववद्विरूपवदष्टादंष्ट्रवदिति। अथ मुद्गलानां त्र्यार्षेय आङ्गिरसभार्म्यश्वमौद्गलेति मुद्गलवद्भर्म्यश्ववदङ्गिरोवदिति। तृक्षमुहैकेऽङ्गिरसःस्थाने तार्क्ष्यभार्म्य श्वमौद्गल्येति मुद्गलवद्भर्म्यश्ववत्तृक्षवदिति। अथ विष्णु वृद्धानां त्र्यार्षेय आङ्गिरसपौरुकुत्सत्रासदस्यवेति। त्रसदस्युवत्पुरुकुत्सवदङ्गिरोवदित्येष एव विकृतः। अघमर्षणमद्रणमद्रणवादरायणौपमित्यौपगविसात्यकिसात्यकाम्यारुणिनितुन्दोनामथात्रीणां त्र्यार्षेयआत्रेयार्चनानसश्यावाश्वेति श्यावाश्ववदर्चनानसवदत्रिवदिति। अथ गविष्ठिराणां त्र्यार्षेयआत्रेयार्चनानसगाविष्ठिरेति गविष्ठिरवदर्चनानसवदत्रिवदिति। अथातिथीनां त्र्यार्षेय आत्रेयार्चनानसातिथेति अतिथिवदर्चनानसवदत्रिवदित्येष एव वा विकृतो वामरथ्यसुमङ्गलवीजवापी नाम्। अथ विश्वामित्राणां देवराताऽश्विकितमनुतन्त्वौलकिबालखिल्ययज्ञवल्कोलूकवृहदग्निबभ्रुशाललिशालावतशालङ्कायनकालवास्वेषां त्र्यार्षेयो वैश्वामित्रदेवरातौदलेति। उदलवद्देवरातवद्विश्वामित्रवदिति। अथ श्रौमन्तकामकायनानां त्र्यार्षेया वैश्वामित्रदैवश्रवसदैवतरसेति देवतरसवद्देवश्रवोवद्विश्वामित्रवदिति। अथाजानां त्र्यार्षेयो वैश्वामित्रमाधुच्छन्दसाज्येति। अजवन्मधुछन्दोवद्विश्वामित्रवदिति। अथ धान ञ्जयानां त्र्यार्षेयो वैश्वामित्रमाधुच्छन्दसधानञ्जयेति धनञ्जयन्मवधुच्छन्दोवद्विश्वामित्रवदिति। अथाष्टकालोहितास्तेषां द्व्यार्षेयो वैश्वामित्राष्टकेति। अष्टकवद्विश्वामित्रवदिति। अथ पूरणपारिधापयन्तास्तेषां द्व्यार्षयो वैश्वामित्रपौरणेति पूरणरवद्विश्वामित्रवदिति। अथ कतानां त्र्यार्षेयो वैश्वामित्र का- त्याक्षीलेतिअक्षीलवत्कतवद्विश्वामित्रवदिति। अथाघमर्षणाः कुशिकास्तेषां त्र्यार्षेयो वैश्वामित्राघमर्षणकौशिकेति कुशिकवदघमर्षणवद्विश्वामित्रवदिति। अथ कश्यपानां त्र्यार्षेयः काश्य पावत्सारनैध्रुवेति निध्रुववदवत्सारवत्कश्यपवदिति। अथ रैभास्तेषां त्र्यार्षेयः काश्यपावत्साररैभेति। रेभवदवत्सारवत्कश्यपवदिति। अथ शाण्डिलानां द्व्यार्षेयो देवलासितेति। असितवद्देवलवदिति। त्र्यार्षेयमुहैके काश्यपदेवलासिवेति असितवद्देवलवत्कश्यपवदिति द्व्यार्षेयास्त्वेवं न्यायेनैकार्षेया वसिष्ठा अन्यत्र पराशरेभ्यो वासिष्ठेति होता वसिष्ठवदित्यध्वर्युस्त्र्यार्षेयमुहैके वासिष्ठेन्द्रप्रमदाभरद्वसवेति अभरद्वसुवदिन्द्रप्रमदवद्वसिष्ठवदिति। अथ पराशराणां त्र्यार्षेयो वासिष्ठशाक्त्यपाराशर्येति पराशरवच्छक्तिवद्वसिष्ठवदिति अथ कुण्डिनानां त्र्यार्षेयो वासिष्ठमैत्रावरुणकौण्डिन्येति। कुण्डिनवन्मित्रावरुणवद्वसिष्ठवदिति। अथ संङ्कृतिपूतिमाषाणां त्र्यार्षेयःशाक्त्यसांकृत्यगौरुवीतेति। गुरुवीतवत्संङ्कृतिवच्छक्तिवदिति। अथा गस्तीनाम् एकार्षेय आगस्त्येति होताऽगस्त्यवदित्यध्वर्युस्त्र्यार्षेयमुहैके आगस्त्यदार्ढ्यच्युतेध्मावाहेति इध्मवाहवत् दृढच्युतवदगस्तिवदिति। अथ क्षत्रियाणां यद्व्यहसार्षं प्रवृणीरन्नेष एवैषां प्रवरो मानवेडपौरूरवसेति पुरूरवोवदिडवन्मनुवदिति अथ येषामुह मन्त्रकृतो न स्युः पुरोहित प्रवरास्ते प्रवृणीरन् अथ येषां स्युः पुरोहितप्रवरास्ते पुरोहितप्रवरार्षे यास्तेषां न्यायेनैकार्षेया एव विशां वात्स प्रेति होता। वत्सप्रीवदध्वर्युः। अथाप्रज्ञातबन्धुराचार्यामुष्य यणमनु प्रब्रवीताचार्यप्रवरं प्रवृणीताह्युह ताण्डिन एकार्षेयं सार्ववर्णिकं समामानन्ति मानवेति होता मनुवदित्यध्वर्युर्मानव्यो हि प्रजा इति हि ब्राह्मणम्”। एवं प्रवरभेदं निर्ण्णीय होमविशेषोपयोगिता तदुत्तरग्रन्थे नोक्ता। “आर्षेयाणि गृहपतेः प्रवरित्वात्मादीनां मुख्यानाम्” आश्व० श्रौ० “आर्षेयवरणे गृहपतेः प्रथमं वरित्वा आत्मा दीनां मुख्यानां प्रवृणीते” इति वृत्तिः। ऋषिं कुटस्थमृषि मारभ्य अयं प्रवरैत्यर्थेढकि मूलपुरुषावधिप्रवरर्षिभेदर्षेया एवायः यथोक्तं “अथार्षेयं प्रवृणीते ऋषिभ्ययैवैनमेतद्देवेभ्यश्च निवेदयत्ययं महावीर्य्योयो यज्ञं प्रापदिति। तस्मादार्षेयं प्रवृणीते परस्तादर्वाक् प्रवृणीते। परस्ताद्ध्य र्वाच्यः प्रजाः प्रजायन्ते ज्यायसस्पतय उ चैधैतं निह्नुतैदं हि पितैवाग्रेऽथापुत्रोऽथ पौत्रस्तस्मात्परस्तादर्वाक् प्रवृणीते। स आर्षेयमुक्त्वाह” शत० ब्रा०। “होतृकर्त्त प्रवरो विधीयते। तत्र धर्म्मविशेषमाह परस्तादिति तस्मिन्नार्षेयप्रवरणे कूटस्थमृषिमारभ्य तत्पुत्रपौत्रादि क्रमेणार्वाचीनं वरणं कर्त्तव्यम्। यथा आङ्गिरसवार्हस्पत्यभारद्वाजेत्यादि। तथा च ज्येष्ठस्य पतये एवैतं निह्नुते अनेन प्रवरणेन निवेदयति भा०”। “असमानार्षेयां कन्यां वरयेत्” विष्णुः। “प्रवरस्तु गोत्रप्रवर्त्तक मुनेर्व्यावर्तको मुनिगण” इति माधवाचार्यः। ऋषिरेव स्वार्थेढक्। ३ मन्त्रद्रष्टरि ऋषौ “प्रजापतिः प्रथमां चिति मपश्यत्” प्रजापतिरेव तस्या आर्षेयं, देवा द्वितीयां चिति मपश्यन्देवां एव तस्या आर्षेयम्, इन्द्राग्नी च विश्वकर्म्मा च तृतीयां चितिमपश्यंस्त एव तस्या श्चार्षेयम् ऋषयश्चतुर्थीं चितिमपश्यन्नृषय एवं तस्या आर्षेयं परमेष्ठीपञ्चमीं चितिमपश्यत् परमेष्ठ्येव तस्या आर्षेयं स यो हैतदेवं चितीनामार्षेयं वेदार्षेयवत्यो हास्य वन्धु मत्यश्चितयी भवन्ति” इति शत० व्रा०

आर्ष्टिषेण = पु० १ चन्द्रवंस्ये शलनृपात्मजे नृपभेदे “क्षत्र वृद्धात्मजस्तत्र सुनहोत्रोमहायशाः। सुनहोत्रस्य दायादा स्त्रयः परमधार्म्मिकाः। काशः शलश्च द्वावतौ तथा गृत्समदः प्रभुः। पुत्रोगृहत्समदस्याथ शुनकोयस्य शौनकः। ब्राह्मणाः क्षत्रियाश्चैव वैश्याःशूद्रास्तथैव च। शलात्मजश्चार्ष्टिषेणस्तनयस्तस्य काश्यपः”। हरि० वं० २०१ अ०। आर्ष्टिषेणोदिलीपश्च महात्मा चाप्युशीनरः” स० भा० प०। २ गोत्रप्रवरभेदे आर्षशब्दे उदा०।

आर्ष्टिषेणाश्रम = न० ६ त०। तीर्थभेदे तच्च व० प० १५५ अध्याये दर्शितं यथा। “अनैनैव पथा राजन्। प्रतिगच्छ यथागतम्। नरनारयणस्थानं वदरीत्यभिविश्रुतम्। तस्याद्यास्यसि कौन्तेय! सिद्धचारणसेवितम्। बहुपुष्पफलं रम्यमाश्रमं वृषपर्वणः। अतिक्रम्य च तं पार्थ! चार्ष्टिषेणाश्रमे वसेः”।

आर्हत = त्रि० अर्हत इदम् अण्। १ जैनसम्बन्धिनि। २ तन्मते न० तन्मतञ्चार्हच्छब्दे ३८२ पृष्ठे दर्शितम्।

आर्हन्ती = स्त्री न० अर्हतो भावः ब्रह्म० ष्यञ् नुम् च षित्त्वात् ङीष् यलोपः। योग्यतायाम्। “श्रौत्रार्हन्तीचणर्गुण्यै र्महर्षिभिरहर्निशम्” सि० कौ०। स्त्रीत्वाभावपक्षे। आर्हन्त्यमित्यपि तत्रार्थे न०।

आर्हायण = स्त्री अर्हस्यापत्यम् अश्वा० फञ्। अर्हन्नामकर्षेर्गोत्रापत्ये। स्त्रियां ङीप्।

आर्हीय = पु० अर्हमभिव्याप्य आर्हम् तत्र विहितः तस्येदम् वा वृद्धत्वात् छ। “आर्हात् इत्यारभ्य “तदर्हति” इत्यन्त सूत्रजातेन तत्तदर्थेषु पाणिनिविहिते १ प्रत्ययभेदे। २ तद्बोध्ये तत्तदर्थे च। “आर्हीयेष्वर्थेषु” सि० कौ०

आल = न० आलति भूषयति आ + अल–भूषादौ अच्। १ हरिताले तद्धि वर्ण्णोत्कर्षेण स्वयुक्तपदार्थं भूषयतीति तस्य तथात्वम्। “ततो हरिद्रागृहधृमरोध्रपत्राङ्गचूर्ण्णैः समनःशिलालैः”। “मनःशिलालमधुककुष्ठचन्दनपद्मकैः” “रसाञ्जनं चन्दनसैन्धवञ्च मनःशिलाले लशुनञ्च तुत्थम्” सुश्रु०। हरितालभेदगुणाद्युक्तम् भा० प्र०। “हरितालं तु तालं स्यादालं तालकमित्थपि। हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञितम्। तयोराद्यं गुणश्रेष्ठं ततोहीनगुणं परम्। स्वर्ण्णवर्ण्णं गुरु स्निग्धं सपत्रं चाभ्रपत्रवत्। पत्राख्यं तालकं विद्याद् गुणाढ्यं तद्रसायनम्। निष्पत्रं पिण्डसदृशं स्वल्पसत्वं तथा गुरु। स्त्रीपुष्पहारकं स्वल्प गुणं तत् पिण्डतालकम्। हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम्। कण्डूकुष्ठास्यरोगाभ्रकफपित्तक फव्रणान्। हरति च हरितालं चारुतां देहजातां सृजति च बहुतापानङ्गसङ्कोचपीडाः। वितरति कफवातौ कुष्ठरोगं विदध्यादिदमशितमशुद्धं मारितं वाप्यसम्यक्”। आ + अल–पर्य्याप्तौ अच्। २ अनल्पे ३ श्रेष्ठे च त्रि०।

आलक्षि = त्रि० आ + लक्ष–इन्। ज्ञातरि स्त्रियां गौरा० ङीष्।

आलक्षित = त्रि० आ + लक्ष–क्त। १ सम्यग्ज्ञाते, २ लिङ्गेन ज्ञाते च

आलक्ष्य = त्रि० आ + लक्ष–यत्। १ सम्यग्ज्ञेये २ लक्षणेन वेद्ये च “आलक्ष्यपारिप्लवसारसानि” रघुः। आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः भा० व० २०७। ल्यप्। ३ सम्यक् ज्ञात्वेत्यर्थे अव्य०।

आलगर्द्ध = पु० अलगर्द्ध एव स्वार्थे अण्। जलसर्पे।

आलजि = त्रि० आ + लज–इन्। आभाषके स्त्रियां गौरा० ङीष्

आलब्ध = त्रि० आ + लभ–क्त। १ संसृष्टे २ संयुक्ते “चन्दनेन समालब्धे कुङ्कुमेन विलिपिते” दुर्गार्चामन्त्रः! ३ स्पृष्टे ४ हिंसिते च।

आलब्धि = स्त्री आ + लभ–क्तिन्। स्पर्शे २ हिंसायां चक्तिन्नन्तत्येऽपि गौरा० वा ङीष्।

आलभन = न० आ + लभ–ल्युट्। १ हिंसायां २ स्पर्शे। पक्षे नुम् ३ मर्द्दने च। “तिला भक्षयितव्याश्च सदा त्वालम्भनञ्च तैः” भा० आ० प० ६८ अ०। तत्रार्थे “आलम्भनम्” कात्या० ९, २, १८।

आलभनीय = त्रि० आ + लभ–अनीयर्। १ स्पृश्ये २ हिंसनीये च नुम्। ३ मर्द्दनीये “मङ्गलालम्भनीयानि प्राशनीया- न्युपस्करान्”। यागादौ आलम्भनीयः पशुः।

आलभ्य = त्रि० आ + लभ–यत्। १ स्पृश्ये २ हिंस्ये अ + लभ–ल्यप्। ३ स्पृष्ट्वेत्यर्थे ४ हिंसित्वेत्यर्थे च अव्य०।

आलम्ब = पु० आ + लबि–कर्म्मणि घञ्। आश्रयणीये, “निरालंम्बोलम्बोदरजननि! कंयामि शरणम्” जगन्नाथः “इह हि पततां नास्त्यालम्बो न चापि निवर्त्तनम्” शान्ति० श “रामे सलक्ष्मणे याते सोतां शून्ये यथासुखम्। निरालम्बां हरिष्यामि” रामा०। ३ वैशम्पायनान्तेवासिभेदे आरुणिशब्दे ८०३ पृष्ठे विवृतिः। भावे घञ्। ४ आश्रयणे

आलम्बन = न० आ + लबि–कर्मण्णि–ल्युट्। १ आश्रयणीये “यस्मादेष विभावादिसमूहालम्बनात्मकः” सा० द० उक्ते २ रसालम्बने नायकादौ। “आलम्बनं नायकादिस्तमालम्ब्य रसोद्गमात्” इति तस्यालम्बमशब्दार्थत्वेकारणमुक्तं तत्रैव। रसभेदे आलम्बनभेदाश्च” सा० द० उक्तायथा शृङ्गारे “परोढां वर्जयित्वा तु वेश्याञ्चाननुरागिणीम्। आलम्बनं नायिकाः स्युर्दक्षिणाद्याश्च नायकाः”। रौद्रे “आलम्बनमरिस्तत्र तच्चेष्टोद्दीपनं मतम्”। हासे “विकृताकारवाक्चेष्टं यदालोक्य हसेज्जनः। तदत्रालम्बनं प्राहुस्तच्चेष्टोद्दोपनं मतम्”। करुणे। “शोच्यमालम्बनं मतम्”। वीरे “आलम्बनविभावास्तु विजेतव्यादयोमताः” भयानके। “यस्मादुत्पद्यते भीतिस्तदेवालम्बनं मतम्”। जुगुप्सायाम्। “दुर्गन्धमांसपिशितन्तदेवालम्बनं मतम्”। विस्मये। “विस्मये च वस्तु लोकातिगमालम्बनं मतम्” शान्ते “अनित्यत्वादिनाऽशेषवस्तुनोऽसारता तु या। परमात्मस्वरूपं वा तस्यालम्बनमिष्यते”। ४ बौद्धमतसिद्धे प्रत्ययभेदे च “चत्वारः प्रत्ययाः प्रसिद्धा आलम्बनसमनन्तरसहकार्य्यधिपतिरूपा” इति विभज्य “तत्र ज्ञानपदवेदनीयस्य नीलाद्यवभासस्य चित्तस्य नीलोल्लेखिप्रत्ययात् नीलाकारता भवतीति” सर्वदर्श०। अधिकमालयविज्ञानशब्दे वक्ष्यते।

आलम्बि = स्त्री आलम्बस्य ऋषिभेदस्यापत्यम् इञु। वैशम्पायनान्तेवासिन आलम्बर्षेरपत्ये स्त्रियां गौ० ङीष्। सा च शुक्लयजुर्वंशान्तर्गतर्षेर्माता “आलम्बीपुत्रात् आलम्बीपुत्रः” शत० ब्रा०। इञन्तात् यूनि फञ्। आलम्बायानः तस्य यून्यपत्येस्त्रियां ङीप्। सा च शुक्लयजुर्वेदवंशान्तर्गतर्षिभेदमाता। “आलम्बायनीपुत्रादालम्बायनीपुत्रः” शत० ब्रा०

आलम्बित = त्रि० आ + लबि–क्त। १ धृते २ गृहीते च।

आलम्बिन् = त्रि० आ + लबि–णिनि। आश्रयिणि। गजाजिनालम्बि दुकूलधारि वा” कुमा० “देवसूतभुजालम्बी- जैत्रमध्यास्त राघवः” रघुः। “आलम्बिभिश्चन्द्रकिणां कलापैः” माधः स्त्रियां ङीप्। आलम्बेन वैशम्पायनान्तेवासिभेदेन प्रोक्तमधीयते णिनि। आलम्बप्रोक्ताध्यायिषु ब० व०।

आलम्भ = पु० आ + लभ–घञ् मुम्। संस्पर्शे। वर्ज्जयेदित्यनुषङ्गे “स्त्रीणाञ्च प्रेक्षणालम्भमुपघातं परस्य च” मनुः २ हिंसने च। “अश्वालम्भं गवालम्भं संन्यासं पल पैतृकम्” आदिपु०। “कृष्टजानामोषधीनां जातानाञ्च स्वयं वने। वृथालम्भेऽनुगच्छेद्गां दिनमेकं पयोव्रतम्” मनुः”। “सास्मै प्रीतान्यमालम्भायानुमन्यते तयानुमतमालभते” शत० ब्रा०। “आलम्भसमये तस्मिन् गृहीतेषु पशुष्वथ। महर्षयो महाभाग! वभूवुः कृपयान्विताः” भा० आ० ९१ अध्याये।

आलम्भ्य = त्रि० आ + लभ–नुम् ण्यत्। हिंस्ये। “आलम्भ्यो गौः” सि० कौ”

आलय = पु० आलीयतेऽस्मिन् आ + ली–आधारे अच्। “गृहे २ आधारे च “हिमालयोनाम नगाधिराजः” कुमा० “तत्रामरालयमरालमरालकेशी” नैष०। “न हि दुष्टात्मनामार्य्या निवसत्यालये चिरम्” रामा० “आलयं देवशत्रूणां सुघोरं खाण्डवं वनम्” भा० आ० २२३ अ०। भावे घञ्। ३ संश्लेषे मर्यादायामव्ययी०। ४ लयपर्य्यन्ते अव्य०। “पिबत भागवतं रसमालयम्” भाग०।

आलयविज्ञान = न० आलयं लयपर्य्यन्तस्थायि विज्ञानम्। बौद्धमतसिद्धे अहमास्पदे विज्ञानभेदे। “तत् स्यादालयविज्ञानं यद्भवेदहमास्पदम्। तत् स्यात् प्रवृत्तिविज्ञानं यन्नीलादिक मुल्लिखेत्” तेषां मते हि विज्ञानातिरिक्तो बाह्यपदार्थो नास्ति, ज्ञानस्यैवाकारविशेषः अर्घोल्लेखी। आलयविज्ञानस्य सदातनत्वेऽपि कदाचित् नीलाद्युल्लेखिता तथा हि विवादाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने कदाचिदेव नीलाद्युल्लखनाः काचित्कत्वात् इति विज्ञानस्य कादाचित्कत्व सिद्धिः “तस्मादालयविज्ञानसन्तानातिरिक्तः कादाचित्कः प्रवृत्तिविज्ञानहेतुर्बाह्योऽर्थो ग्राह्य एव न, वासनापरिपाकप्रत्ययस्य कादाचित्कत्वात् कदाचिदुत्पाद इति वेदितव्यम्। विज्ञानवादिनये हि वासनानामेकसन्तानवर्त्तिनामालयविज्ञानानां तत्तत्प्रवृत्तिजननशक्तिः तस्याश्च स्वकार्य्योत्पादं प्रत्याभिमुख्यं परिपाकः तस्य च प्रत्ययः कारणं स्वसन्तानवर्त्तिपूर्ब्बक्षणः कक्षीक्रियते सन्तानान्तरनिबन्ध त्वानङ्गीकारात्। ततश्च प्रवृत्तिज्ञानजननालयविज्ञानवर्त्तिवासनापरिपाकं प्रति सर्व्वेऽप्यालयविज्ञानवर्त्तिनः क्षणाः समर्था एवेति वक्तव्यम्। न चेदेवं कोऽपि न समर्थः स्यादालयविज्ञानसन्तानवर्त्तित्वाविशेषात्। सर्व्वे समर्था इति पक्षे कार्य्यक्षेपानुपपत्तिः ततश्च कादाचित्कत्वनिर्व्वाहाय शब्दस्पर्शरूपरसगन्धविषयाः सुखादिविषयाः षडपि प्रत्ययाश्चतुरः प्रत्ययान् प्रतीत्योत्पद्यन्ते इति चतुरेणानिच्छताप्यच्छमतिना स्वानुभवमनाच्छाद्य परिच्छेत्तव्यम्। ते चत्वारः प्रत्ययाः प्रसिद्धाः आलम्बनसमनन्तरसहकार्य्यधिपतिरूपाः। तत्र ज्ञानपदवेदनीयस्य नीलाद्यवभासस्य चित्तस्य नीलालम्बनप्रत्ययात् नीलाकारता भवति, समनन्तरप्रत्ययात् प्राचीनज्ञानाद्बोधरूपता, सहकारिप्रत्ययादालोकात्, चक्षुषोऽधिपतिप्रत्ययाद्विषयग्रहणप्रतिनियमः। विदितस्य ज्ञानस्य रसादिसाधारण्यप्राप्तेर्नियामकं चक्षुरधिपतिर्भवितुमर्हति लोके नियामकस्याधिपत्वोपलम्भात्। एवं चित्तचैत्तात्मकानां सुखादीनां चत्वारि कारणानि द्रष्टव्यानि। एवं चित्तचैत्तात्मकस्कन्धः पञ्चविधः रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकः। तत्र रूप्यन्त एभिर्विषया इति रूप्यन्त इति च व्युत्पत्त्या सविषयाणीन्द्रियाणि रूपस्कन्धः। आलयविज्ञानप्रवृत्तिविज्ञानप्रवाहो विज्ञानस्कन्धः। प्रागुक्तस्कन्धद्वयसम्बन्धजन्यः सुखदुःखादिप्रत्ययप्रवाहो वेदनास्कन्धः। गौरित्यादिशब्दोल्लेखिविज्ञानप्रवाहः संज्ञास्कन्धः वेदनास्कन्धनिवन्धना रागद्वेषादयः क्लेशा उपक्लेशाश्च मदमानादयो धर्म्माधर्म्मौ च संस्कारस्कन्धः” सर्वद० विज्ञानानां क्षणिकत्वेऽपि पूर्ब्बपूर्ब्बक्षणिकविज्ञानसंस्काराणामुत्तरोत्तरविज्ञाने संक्रमः तत्संक्रमाच्च स्मरणं, सुषुप्तौ च आलयविज्ञानस्य सत्त्वात् तत्रैव सर्व्वसंस्काराणामवस्थितेः सुप्तोत्थितस्य स्मरणसम्भव इत्यतो बौद्धैः आलयपर्य्यन्तं क्षणिकविज्ञानव्यक्तिधाराणां स्थायित्वमङ्गीक्रियते।

आलर्क = न० अलर्कस्येदम् अण्। क्षिप्तकुक्कुरविषे। “निहन्तिविषमालर्कं मेघवृन्दमिवानिलः” सुश्रु०।

आलवण्य = न० न लवणं त० न० अलवणस्य भावः ष्यञ्। लवणरसभिन्नत्वे। नास्ति लवणं यत्र बहु० तल् त्व वा न ष्यञ्। अलवणता स्त्री अलवणत्वं तु न० लवणशून्यत्वे

आलवाल = न० समन्तात् लवं जललवमालाति आ + ला–क। वृक्षमूले सेकार्थं मृदादिनिर्म्मिते जलाधारे सेतौ। “विश्वासाय विहङ्गानामालवालाम्बुपायिनाम्” रघुः। “विपुलालबालभृतवारिदर्पणः” माघः। पृ० वस्यबः वर्ग्यमध्योऽपि “जरद्गृहमुनिभिरिव जटालबालकमण्डलधरैः” (पादपैः)काद०

आलस = त्रि० आलसति ईषत् व्याप्रियते अच्। १ क्रियामन्दे अलसस्यापत्यम् विदा० अञ्। २ अलसापत्ये पु० स्त्री० यून्यपत्ये हरिता० फञ्। आलसायनः तस्य यून्यपत्ये पुंस्त्री०।

आलस्य = न० अलसस्य भावः ष्यञ्। विहितक्रियाकरणायानुत्साहे आलस्यञ्च “किमालस्यं च कः शोकऽ” इति यक्षप्रश्ने “धर्म्मनिषिक्रयतालस्यं शोकस्त्वज्ञानमुच्यते” भा० व० ३१२ अ० युधिष्ठिरेण लक्षितम्। “शक्तस्य चाप्यनुत्साहः कर्म्मस्वालस्यमुच्यते” सुश्रुतेन लक्षितञ्च बोध्यम्” सा० द० उक्ते व्यभिचारिभावभेदे च “आलस्यं श्रमगर्भाद्यैर्जाड्यं जृम्भासितादिकृत्” यथा “न तथा भूषयत्यङ्गं न तथा भाषते सखीम्। जृम्भते मुहुरासीना बाला गर्भभरालसा” सा० द० “आलस्यादन्नदोषाच्च मृत्युर्विप्रान् जिघांसति” मनुः। भारतोक्तधर्मक्रियाशून्यत्वरूपम् अत्रालस्यम्।

आलात = न० अलातमेव स्वार्थेऽण्। अलाते वह्निदीप्ताङ्गारे।

आलान = न० आलीयतेऽत्र आ–ली–ल्युट्। १ गजबन्धनस्तम्भे करणे ल्युट्। २ तद्बन्धनरज्ज्वाम् भावे ल्युट्। ३ बन्धनमात्रे च। तत्र स्तम्भे। “अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः” रघुः। “इभमदमलिनमालानस्तम्भयुगलमुपहसन्तमिवोरुदण्डद्वयेन” काद० “तद्गजालानतां प्राप्तैः सह कालागुरुद्रुमैः” बन्धने “गजालानपरिक्लिष्टैराक्षौटैः सार्द्धमानताः” रघुः।

आलानिक = त्रि० आलानमिव स्वार्थे विनयादि० ठक्। १ आलाने। आलानं बन्धनं प्रयोजनमस्य ठक्। गजबन्धनसाधने काष्ठादौ “आलानिकं स्थाणुमिव द्विपेन्द्रः” रघुः

आलाप = पु० आ + लप–करणे–घञ्। स्वरसाधनाक्षरे सारिगमादौ (आलापचारी) “आलापैरिव गान्धर्ब्बमदीप्यत पदातिभिः” माघः “आलापैः स्वरसाधनैरक्षरविशेषैः” मल्लि०। भावे घञ्। २ कथनमात्रे च” “काव्यालापाश्च ये केचित् गोतकान्यखिलानि च” विष्णुपु० आ + लपणिच्–अच्। ३ परस्परकथने। “अये दक्षिणेन पुष्पवा टिकामालापैव श्रूयते” शकु०। एकस्य कञ्चित् प्रति कथने तेन तत्कथनप्रेरणात् तं प्रति कथ्यते इति परस्परकथनस्य इतरेतरकथनप्रयोज्यत्वात्तथात्वम्।

आलापन = न० आ + लप–णिच्–करणे ल्युट्। १ परस्पर कथोपकथने आभाषणे आलापशब्देऽस्य प्रवृत्तिहेतुत्वमुक्तम् “स्यादालापनमाभाषः इत्यमरः २ स्वस्तिवाचने च “मङ्गलालापनैर्होमैः” रामा०।

आलाप्य = त्रि० आ + लप–कर्म्मणि ण्यत्। १ कथनीये णिच्–यत्। २ आभाष्ये

आलाबु(बू) = स्त्री अलाबु पु० पूर्व्वपदीदर्घः वा उङ्। (लाउ) तुम्ब्याम् शब्दरत्नावली।

आलावर्त्त = न० आलं पर्य्याप्तमावर्त्त्यते आ + वृत–णिच् कर्मणि–अच्। वस्त्रनिर्म्मिते व्यजने हेम०।

आलास्य = पु० आलं पर्य्याप्तमास्यं यस्य। कुम्भीरे। प्रा० स०। सम्यग्नृत्ये न०

आलि = पु० आलति दंशे समर्थो भवति आ + अल–पर्य्याप्तौ इन्। १ वृश्चिके २ भ्रमरे ३ तज्जातिस्त्रियां स्त्री ङीप्। आलयति भूषयति अलभूषणे–णिच् + इन्। ४ सख्यां वयस्यायाम् “असम्भवद्घनरसा शतालिपरिषेविता। करं न सहते राजन्! भूमिर्नववधूरिव” उद्भटः वा ङीप्। आलीत्यप्यत्र। “आलीव पश्य प्रतिषेधतीय कपोतहुङ्कारगिरा वनाली” नैष०। “तत्कालमालीभिरहस्यतालम्” नैष० “ममालि! प्राचीनैः प्रचुरसुकृतैरद्य फलितम्” उद्भटः। “निवार्य्यतामालि! किमप्ययं वटुः” कुमा० “स्मितमुपगतामालीं दृष्ट्वा सलज्जमवाञ्चितम्” सा० द०। “आलति वारयति जलम् आ + अल–इन् वा ङीप्। आगन्तुकस्य क्षेत्रस्थस्य च जलस्य निवारके ५ सेतौ”। “शतालिपरिषेबितेति” आ + अल–पर्य्याप्तौ इन् बा ङीप्। ६ सन्ततौ श्रेणौ च बनाली नैष० “तोयान्तर्भास्करालीव रेजे मुनिपरम्परा” कुमा० लीनामालीमिव तरवोबिभ्राणाः” माघः। ७ रेखायाञ्च स्त्री वा ङीप् “विषमहरिचन्द्रनालिना” माघः। ८ शुद्धान्तःकरणे ९ अनर्थे च त्रि० मेदि०।

आलिगव्य = पुंस्त्री अलिगोरपत्यं गर्गा० वञ्। अलिगुमुनेरपत्ये स्त्रियां यञन्तत्वात् ष्फः षित्त्वात् गौरा० ङीष्। आलिगव्यायनी।

आलिङ्गन = न० आ + लिगि–ल्युट्। आश्लेषणे अङ्गेनाङ्गसंयोजनभेदे। “आलिङ्गनान्यधिकृताः स्फुटमापुरेव” माघः “प्रियालिङ्गननिर्वृतिम्” रघुः। तच्च सप्तधा। आमोदालिङ्गनं मुदितालिङ्गनं प्रेमालिङ्गनं मानसालिङ्गनं रुच्यालिङ्गनम् मदनालिङ्गनम् विनोदालिङ्गनमिति भेदात्।

आलिङ्गित = त्रि० आ + लिगि–कर्म्मणि क्त। १ आश्लिष्टे “तरुण्यालिङ्गितः कण्ठे नितम्बस्थानमाश्रितः” सा० द० टीकाधृतप्रहेलिका “योगोनाभ्यसितोव्रतं न चरितम्नालिङ्गिता कामिनी इत्थं जन्म निरर्थकं क्षितितलेऽरण्ये यथा मालती” सा० द०। “विंशत्यर्ण्णात्त्रिंशदर्णोयः स्यादालिङ्गितो ह्यसौ” तन्त्रसारोक्ते विंशत्यक्षरावधि त्रिं शदक्षरके २ मन्त्रे भेदे पु०

आलिङ्गिन् = त्रि० अ–लिगि–णिनि। आलिङ्गनकर्त्तरि स्त्रियां ङीप्।

आलिङ्ग्य = पु० आ + लिग–ण्यत्। आलिङ्गनीये प्रियादौ २ आलिङ्ग्य वादनीये मृदङ्गभेदे पु० स च “चतुरङ्गुलहीनोऽङ्क्यान्मुखे चैकाङ्गुलेन यः। यवाकृतिःस आलिङ्ग्य आलिङ्ग्य स हि वाद्यते” इति शब्दार्णवोक्तलक्षणः। आ + लिगि–ल्यप्। ३ आश्लिष्येत्यर्थे अव्य०

आलिङ्ग्यायन = पु० आलिङ्ग्यस्य मृदङ्गभेदस्यायनं यत्र। १ ग्रामभेदे तस्यादूरभवं नगरम् अण् वरणा० तस्य लुप्। तद्ग्रामस्यादूरभवे नगरे। “लुपि व्यक्तिवचने” पाणित्युक्तेः नगरेऽपि पुंस्त्वम्।

आलिञ्जर = पु० अलिञ्जर एव स्वार्थे अण्। (जाला) मृण्मये वृहत्पात्रे त्रिका०।

आलिन्द = पु० अलिन्द एव स्वार्थे अण्। १ बहिर्द्वारप्रकोष्ठे २ गृहाभ्यन्तरशय्यार्थवेद्याञ्च शब्दर० ३ गृहैकदेशे अमरमा०। स्वार्थे कन्। आलिन्दकः तेष्वर्थेषु पु०।

आलिप = त्रि० आ + लिप–क। आलेपनकारके।

आलिप्त = त्रि० आ + लिप–क्त। १ कृतालेपने २ दत्तादीपने च

आलिम्पन = न० आ + लिप–ल्युट् पृ० मुम्। तण्डुलचूर्ण्णमिश्रितोदकेन मङ्गलार्थं दीयमाने आलेपने आदीपने। (आलिपना,) त्रिका०।

आलीढ = त्रि० आ + लिह–क्त। १ आस्वादिते २ क्षते “सेन्यान्य मालीढमिवासुरास्त्रैः” रघुः। “स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम्। त्रिवितस्त्यन्तरौ पादौ मण्डलं तोरणाकृति। अन्वर्थं स्यात् समपदमालीढं तु ततोऽग्रतः। दक्षिणे वाममाकुञ्च्य प्रत्यालीढं विपर्य्ययः” इत्युक्तलक्षणे अग्रतो दक्षिणं पादं व्यवस्थाप्य वामपादाकुञ्चनेन स्थितिरूपे ३ युद्धार्थे धन्विनां स्थानभेदे न०। “अतिष्ठदालीढविशेषशोभिना” रघुः। “पायान्नीलोत्पलाभा रविशशिविलसत्कुण्डलालीढपादा” तन्त्रसा० रक्षाकालीध्यां० अग्निपुराणे तु समपदादीन्यन्यथा निरुक्तानि यथा “अङ्गुष्ठगुल्फपार्ष्ण्यङ्घि श्लिष्टाःस्युः सहिता यदि। दृष्टं समपदंस्फीतमेतल्लक्षणतस्तथा। बाह्याङ्गुलिस्थितौ पादौ स्तब्धजानुकमायतौ। त्रिवितस्त्यन्तरे स्थानमेतद्वैशाखमुच्यते। हंसपङ्क्त्याकृतिसमे दृश्येते यत्र जानुनी। चतुर्वितस्त्या विच्छिन्ने तदिदं मण्डलं स्मृतम्। भुग्नवामपदं पश्चात्, स्तब्धजानूरुदक्षिणम्। वितस्त्यः पञ्च विस्तारे तदालीढं प्रकीर्त्तितम्। एतदेव विपर्य्यस्तं प्रत्यालीढंप्रकीर्त्तितम्” विकटादिस्थानं धन्विस्थानशब्दे वक्ष्यते। “नतांसमाकुञ्चितसव्यपादम्” कुमा० टी० मल्लिनाथेन आकुञ्चितसव्यपादत्वेन आलीढस्थानके स्थितमिति व्याख्यातम्। स्वार्थे कन् तत्रैव। शुभ्रा० पाठात् ढक्। आलीढेयः तद्भवे त्रि०। संज्ञायां कन्। आलीढकम्। वत्सानां स्थलेषु क्रीडनभेदे न०

आलीन = त्रि० आ + लो–कर्त्तरि क्त। १ आश्लिष्टे भावे क्त। २ संश्लेषे न०। तत्र साधु अण्। ३ वङ्गे धातुभेदे तस्य धात्वन्तरसंश्लेषकारकत्वात् तथात्वम् संज्ञायां कन्। तत्रैव। तद्गुणादि रङ्गशब्दे वक्ष्यते।

आलु = पु० आलाति आ + ली–मित० डु। ऋ–उ णिच्च रस्य लः वा। १ पेचके २ भेलके शब्दरत्ना० स्वल्पवारिधानिकायां सनाले ३ जलपात्रभेदे (झारी)स्त्री०। ४ कन्दभेदे न० राजनि०। तस्य भेदा नानाविधाः “कन्दो बहुविधो लोके आलुशब्देन भण्यते। कच्चालु चैव घण्टालु पिण्डालु शर्करादिकम् काष्ठालु चैवमाद्यं स्यात् तस्य भेदा अनेकशः”। इत्युक्ते। आलुकशब्दे विवृतिः।

आलुक = पु० आ + लाति पृथ्वीं कासरोगं वा आ + ला–मित० डु संज्ञायां कन्। १ शेषनागे २ कासालौ च। आलु + स्वार्थे कन् कन्दभेदे न० तद्भेदगुणादि भा० प्र० उक्तं यथा। “आलुकमप्यालूकं तत् कथितं वीरसेनश्च। काष्ठालुकशङ्खालुकहस्त्यालुकानिकथ्यन्ते। पिण्डालुकमध्वालुकरक्तालुकानि कथितानि” तत्र काष्ठालुकं काठिन्ययुक्तं (कठारु) शङ्खालुकं श्वेततायुक्तं शङ्खाकारम् (शांखआलु) हस्त्यालुकं दीर्घतायुक्तं महाशरीरम् (चुवडीआलु) पिण्डालुकं वर्त्तुलाकारं (सुथ्नी) मध्वालुकं माधुर्य्ययुतं दीर्घमुखं शर्क रालु (शकरन्द) रक्तालुकं रक्ततायुक्तं (रतालु) तेषां गुणास्तत्रोक्ताः “आलुकं शीतलं सर्वं विष्टम्भि मधुरं गुरु। मृष्टमूत्रमलं रूक्षं दुर्जरम् रक्तपित्तनुत्। कफानिलकरं बल्यं वृष्यं स्तन्यविवर्द्धनम्”। गौरा० ङीष्। दीर्घाकारशुङ्गयुक्तरक्तालुके स्त्री। “रक्तालुभेदो वा दीर्घा तन्वो च प्रथितालुकी। आलुकीवलकृत् स्निग्धा गुर्व्वी हृत्कफनाशिनी। विष्वम्भकारिणोतैले तलिताऽतिरुचिप्रदा” भावप्र०

आलुञ्चन = न० आ + लुचि ल्युट्। उत्पाटने। केशादेः बन्धराहित्ये च।

आलुञ्चित = त्रि० आ + लुचि–क्त। उत्पाटिते असंयते केशादौ आलुञ्जितमूर्द्धजा”।

आलुण्टन = आ + लुटि–ल्युट्। बलादपहरणे (लुट्)।

आलुल = त्रि० आ + लुल–क। उन्मुक्ते चलीभूते। भृशा० च्च्यर्थे क्यङ्क्त–आलुलायितः असंयते त्रि०।

आलू = पु० आलूनाति आ + लू–क्विप्। आलुशब्दार्थे स्वार्थे कन् तत्रैव। “आलुकमप्यालूकमिति” भाव० प्र०। “आलूकं शीतलं सर्व्वमिति” भाव० प्र० पाठान्तरम्।

आलून = त्रि० आ + लू–क्त। १ ईषच्छिन्ने २ सम्यक्छिन्ने च “तेनामरबधूहस्तैः सदयालूनपल्लवाः” कुमा०।

आलेख = पु० आ + लिख–घञ्। १ सम्यक्लेखने। आधारे घञ्। लेखपत्रे।

आलेखन = न० आ + लिख–भावे ल्युट्। १ सम्यग्लेखे। आलिखति ल्यु। २ आलेखनकर्त्तरि त्रि०। ३ आचार्य्ये पु० तस्योपदेशकर्त्तृत्वात्तथात्वम्। “संस्थितेऽपायतीष्ववभृथं गमयेयुरित्यालेखनः”। आश्व० श्रौ०। आलेखन आचार्य्यः” वृत्तिः। करणे ल्युट् लेखनसाधने स्त्रियांङीप्

आलेख्य = त्रि० आ + लिख–ण्यत्। चित्रादौ लेख्यदेवादिप्रतिविम्बे “विधातुमालेख्यमशक्नुवन्तः” माघः “इति संरम्मिणो वाणीबलस्यालेख्यदेवताः” माघः। “अहोरूपमालेख्यस्य” शकु० २ लेखनीये त्रि०। आधारे ण्यत्। ३ चित्रे।

आलेख्यशेष = त्रि० आलेख्यं चित्रमेव शेषो यस्य बहु०। मृते, हेम०। मृतस्य हि चित्रे एव प्रकृतिरूपेण अवस्थानात् तथात्वम्। “आलेख्यशेषस्य पितुर्विवेश”। रघुः।

आलेप = पु० आ + लिप–घञ्। १ उपलेपे २ आलिम्पने च। (आलिपना) ल्युट् तत्रैवार्थे न०। “जाताताङ्कारचयति चिरं चन्दनालेपनानि” सा० द०। आलिप्यते कर्म्मणि ल्युट्। ३ आलिप्यमाने च।

आलोक = पु० आलोक्यतेऽनेन आ + लुक–लोक–वा करणे घञ्। (आलो) १ सूर्य्यादिप्रकाशे, “गृह्णाति चक्षुः सम्बन्धादालोकोद्भूतरूपयोः” भाषा० उक्तेः अलोकसंयोगस्य द्रव्यचाक्षुषप्रत्यक्षे कारणत्वम् इति नैयायिकाः अन्धकारस्य द्रव्यत्ववादिनां मते तद्भिन्नद्रव्यप्रत्यक्षे कारणत्वमिति भेदः। तथाहि पेचकादिचाक्षुषस्य आलोकसंयोगमन्तरेणैव उत्पत्तिदर्शनात् आलोकसंयोगस्य न सर्व्वत्र कारणत्वमित्यतोऽन्धकारेऽपि तथा कल्पनमिति। एतदभिप्रायेणैव” दिवान्धाः प्राणिनः केचिन्द्रात्रावन्धास्तथा परे। केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टय इति” देवीमा० केषांचिद्दिवान्धत्वोक्तिः। “आलोकमार्गं सहसा व्रजन्त्या” कुमा० रघुश्च। भावे घञ्। २ दर्शने। “आलोकमात्रेण सुरानशेषान्” कुमा०। “वत्सालोकप्रवर्त्तिना” रघुः। “वैवर्ण्ण्यकम्पवैरस्यपार्श्वालोकास्यशोषकृत्” सा० द०। “स्त्रीणां प्रियालोकफलो हि वेशः” कुमा०। “मलिनो हि यथादर्शोरूपालोकस्य स क्षमः” या० स्मृ० “यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलताम्” शकु०। “जनास्तदालोकपथात् प्रतीयुः” रघुः।

आलोकन = न० आ + लुक–लोक–वा भावे ल्युट्। दर्शने “ततस्तदालोकनतत्पराणाम्”। “भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते” कुमा० “व्रजति हि सफलत्वं वल्लभालोकनेन” माघः।

आलोकनीय = त्रि० आ + लुक–लोक–वा अनीयर्। दर्शनीये द्रष्टुं योग्ये “चित्रन्यस्ताइव गताः प्रकामालोकनीयताम्” कुमा०।

आलोकित = त्रि० आ + लोक–क्त। दृष्टे।

आलोकिन् = त्रि० आ + लुक्–लोक–वा–णिनि। दर्शके स्त्रियां ङीप्।

आलोक्य = त्रि० आ + लोक–ण्यत्। दर्शनीये। ल्यप्। दृष्ट्वत्यर्थे अव्य०

आलोचक = त्रि० आ + लुच–णिच् ण्वुल्। आलोचनाकारके।

आलोचन = न० आ + लुच–णिच्–भावे ल्युट्। १ विशेषधर्म्मादिना १ विवेचने नैया० सामान्यविशेषशून्यतया इन्द्रियजन्ये निर्विल्यकस्थानीये सांख्यमतसिद्धे २ अन्तःकरणवृत्तिभेदे। यथोक्तं सां० कौ० आलोचितमिन्द्रियेण भवति इदमिति सम्मुग्धम्। इदंनैवमिति एवं कल्पनया विशेष्यविशेषणभावेन विवेचयतीति यथाहुः। “सम्मुग्धं वस्तुमात्रन्तु प्राक्गृह्णन्त्यविकल्पितम्। तत्सामान्यविशेषाभ्यां कल्पयन्ति मनीषिणः”। तथा हि “अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्व्विकल्पकम्। बालमूकादिविज्ञानसदृशं मुग्धवस्तुकमिति। ततःपरं पुनर्वस्तु धर्म्मैर्जात्यादिभिर्यया। बुद्ध्यावसीयते सा हि प्रत्यक्षत्वेन सम्मता”। तच्च विशेष्यविशेषणसंसर्गानवगाहि ज्ञानम् “शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः” सां० का० णिच्–युच्। आलोचनाप्यत्र स्त्री ३ दर्शने च। “पश्यार्थैश्चानालोचने” दृशेरनालोचने कञ् च” पा०। ४ लोचनपर्य्यन्ते अव्य० “आलोचनान्तं श्रवणं वितत्य” रघुः।

आलोचित = त्रि० आ + लुच्–णिच्–क्त। आलोचनाविषयीभूते विशेषदर्शनादिना कृतालोचने “आलोचितमिन्द्रियेणेति” सां० कौ०। इतिकर्त्तव्यतया २ अवधारिते च

आलोच्य = त्रि० आ + लुच्–ण्यत्। आलोचनार्हे आलोचनाविषयीकार्य्ये। आ + लुच्–णिच्–ल्यप्। आलोचनं कृत्वेत्यर्थे अव्य०।

आलोडन = न० आ + लुड–मन्थे–ल्युट्। १ विलोडने २ मर्द्दने मन्थने “भावनालोडने चास्य कर्त्तव्ये भेषजैर्हितैः” सुश्रु०।

आलोडित = त्रि० आ + लोड–क्त। १ मथिते २ मर्द्दिते ३ चूर्ण्णी- कृते च “अलोडितः काञ्चनभूपरागः” इति माघः।

आलोल = त्रि० ईषत् लोलः प्रा० स०। ईषच्चञ्चले “आलोलपुष्करमुखोल्लसितैरभीक्ष्णम्” माघः। “क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भीषयन्त्यः मेघदूतम्।

आलोलित = त्रि० आ + लुल–णिच्–क्त। ईषच्चञ्चलीकृते

आलोष्टी = अव्य० ईषत् लोष्टमिव करोत्यनेन आलोष्ट + णिच्–बा० ई उर्य्यादि। हिंसायां गणर०।

आलोहायन = त्रि० अलोहे भवः नडा० फक्। अलोहभवे

आवक = त्रि० अवति अव–ण्वुल्। रक्षके।

आवट्य = पुंस्त्री अवटस्य ऋषेर्गोत्रापत्यम् गर्गा० यञ्। अवटर्षेर्गोत्रापत्ये स्त्रियाम् “आवट्याच्चाप्” पा० चाप्। आवट्या। अवटश्च प्रवरभेदः आर्षशब्दे दृश्यः।

आवनतीय = त्रि० अवनतस्य सन्निकृष्टदेशादिः कृशा० छण्। अवनतसन्निकृष्टदेशादौ।

आवनेय = पु० अवन्या अपत्य ढक्। मङ्गलग्रहे तस्य महीत उत्पत्तिकथा काशी० १७ अ०। “उत्पत्तिंचास्य वक्ष्यामो भूसूतोऽयं यथाऽभवत्। पुरा तपस्यतः शम्भोर्दाक्षायण्या वियीगतः। भालस्थलात् पपातैकः स्वेदविन्दुर्महीतले। ततः कुमारः संजज्ञे लोहिताङ्गोमहीतलात्। स्नेहसंवर्द्धितः सोऽथ धात्र्या धात्रीस्वरूपया। माहेय इत्यतः ख्यातिं परामयं गतस्ततः” अतएव तस्य कुजभौमेत्यादिसंज्ञा

आवन्त = पु० अवन्तेरयं राजाअण्। अवन्तिदेशाधिपे चन्द्रवंश्ये नृपभेदे। “कुन्तेर्धृष्टःसुतोजज्ञे रणधृष्टः परान् प्रति। धृष्टस्य जज्ञिरे शूरास्त्रयः परमधार्म्मिकाः। आवन्तश्चदशार्हश्च बली विषहरश्च यः” हरि० ३ ७ अ०। “वृद्धेत्कोसलाजादाञञ्यः” पा० ञ्यविधानात् आवन्त्यएवेति पाठः उचितः आवन्त इति तु लिपिकरप्रमादात्।

आवन्त्य = त्रि० अवन्तिषु भवः तस्य राजा वा इदत्तत्वात् ञ्य। १ अवन्तिदेशभवे २ तन्नृपे च बहुषुलुक् अवन्तयः। विन्द्यानुविन्द्यावावन्त्यौ सैन्थेन महतावृतौ” भा० व० प० ३० अ०। “विन्द्यानुविन्द्यावावन्त्यौ दन्तवक्रश्च वीर्य्यवान्” हरि० व० ९ २ अ०। ब्रात्याद्ब्राह्मणात् सवर्ण्णायामुत्पन्ने ३ वर्ण्णभेदेव्रात्यात् तु जायते विप्रात् पापात्मा भुर्जकण्टकः “आवन्त्यवाटपुधानौ च पुष्पधःशैख एव च” मनुः।

आवपन = न० ओप्यते स्थाप्यतेऽत्र आ + वप–आधारे ल्युट्। १ धान्यस्थापनपात्रे (थल्या) इति ख्याते। “गोणी आवपनञ्चेत्” सि० कौ० आ + वप–भावे ल्युट्। ३ भूमौ वीजादेर्निधाने (वोना) “अथात आसूतीनामेवावपनस्य” कात्या०। प्रभुरग्निः प्रपचने भूमिरावपने प्रभुः” भा० आ० ८८ अ०। करणे ल्युट्। ४ वपनसाधने त्रि० “भूतानामावपनं सर्व्वेषाम्” शत० ब्रा० स्त्रियां ङीप्। त्वमस्यावपनी जनानाम्” अथ० १२, १, ६१। अन्तर्भूतण्यर्थे ल्युट्। ५ केशादेः सर्व्वमुण्डने।

आवपनिष्किरा = स्त्री आवप निष्किर इत्युच्यते यस्यां क्रियायां मयूर० स०। आवपननिष्किरणार्थनिदेशक्रियायाम्।

आवय = पु० आ + अज–अच् वीभावः। १ आगतौ। कर्त्तरि अच्। २ आगन्तरि ३ देशभेदे पु०। धूमा० वुञ् आवयकः। आवयदेशभवे त्रि०।

आवरक = न० आ + वृ–करणे अप् संज्ञायांबुन्। अपवरके, आच्छादके वस्त्रादौ।

आवरण = न० आव्रियते देहः चैतन्यं वाऽनेन आ + वृ–करणे ल्युट्। (ढाल) १ चर्म्मफलके। वेदान्तिमतसिद्धे चैतन्यावरणे २ अज्ञाने आवरणशक्तिशब्दे विवृतिः। ३ आच्छादनसाधनमात्रे “तमश्रु नेत्रावरणं प्रमृज्य” रघुः “स्फुटमिवावरणं हिममारुतैः” माघः “लब्धान्तरा सावरणेऽपि गेहे” रघुः पुरादिषु आच्छादनसाधने ४ प्राचीरादौ च यथा काश्यां सप्तावरणानि। वेडा) ५ वेष्टने भावे ल्युट्। ६ आवृतौ” “हृदयावरणं नित्यं कुर्य्याच्च मित्र मध्यगः” सुश्रु०। “स्रोतसां भेदकोयश्च तेषां चावरणे रतः” मनुः। “सूर्य्ये तपत्यावरणाय दृष्टेः” “तस्य सावरण दृष्टिसम्भवः” रघुः “नलिनीदलकल्पितं स्तनावरणम्” शकु०

आवरणशक्ति = स्त्री आवरणे शक्तिः आवृणोति संज्ञायां कर्त्तरि ल्युट् कर्म्म धा० वा। वेदान्तिमतसिद्धे अज्ञानस्य चैतन्यापिधानशक्तिभेदे यथोक्तं वेदा० सा० आवरणशक्तिस्तावदल्पोऽपि मेघोऽनेकयोजनायतमादित्यमण्डलमवलोकयितृनयनपथपिधायकतया यथाच्छादयतीव तथाऽज्ञानं परिच्छिन्नमप्यात्मानमपरिच्छिन्नमसंसारिणमवलोकयितृबुद्धिपिधायकतयाच्छादयतीव तादृशं सामर्थ्यम्। तदुक्तं “घनच्छन्नदृष्टिर्घनाच्छन्नमर्कं यथा निष्प्रभं मन्यते चातिमूढः। तथा बद्धवद्भाति यो मूढदृष्टेः स नित्योपलब्धिस्वरूपोऽहमात्मा” अनयावृतस्यात्मनः कर्त्तृत्वभोक्तृत्वसुखित्वदुःखित्वादिसंसारसंभावनाऽपि भवति यथा स्वाज्ञानावृतायां रज्ज्वां सर्पत्वसम्भावना”।

आवरसमक = न० अवरं समानाम् एक० त० “ग्रीष्मावरसमात् वुञ्” पा० नि० ह्रस्वः अवरसमे वर्षस्याद्यकाले देयमृणम् वुञ्। वर्षश्याद्यसमये देये ऋणे।

आवर्जित = त्रि० आ + वृज–णिच्–क्त। १ दत्ते २ त्यक्ते “न हि तेन पथा तनुत्यजस्तनयावर्ज्जितपिण्डकाङ्क्षिणः” नूनमावर्जितं मया” “हविरावर्ज्जितं होतस्त्वया विधिवदग्निषु” इति च रघुः। ३ निम्नीकृते च “अधःप्रस्थापिताश्वेन समावर्ज्जितकेतुना” “आवर्ज्जितजटामौलिविलम्बिशशिकोटयः” कुमा०।

आवर्त्त = पु० आ + वृत–भावादो घञ्। चक्राकारेण जलस्य स्वयं १ भ्रमणे, (घुरणो) घ्रवाख्ये घोटकचिह्ने २ रोमसंस्थानभेदे राजावत्तनामके ३ मणौ ४ आवर्त्तने,। ५ मेघाधिपभेदे च ६ माक्षिकधातौ न०। “नृपं तमावर्त्तमनोज्ञनाभिः” रघुः “तथापि समतावर्त्ते मोहगर्त्ते निपातिताः” देवीमा० “त्रियुते, शाकवर्षे तु चतुर्भिः शेषिते क्रमात्। आवर्त्तं विद्धि संवर्त्तं पुष्करं द्रोणमम्बुदम्। आवर्त्तो निर्जलोमेघः संवर्त्तश्च बहूदकः। पुष्करोदुष्करजलो द्रोणः सम्यक्प्रपूरकः” ज्यो० त०। “आवर्त्तिनः शुभफलप्रदशुक्तियुक्ता आपन्नदेवमणयोभृतरन्ध्रभागाः। अश्वाप्यघुर्वसुमतीमतिरोचमानास्तूर्ण्णं पयोधय इवोर्मिभिरापतन्तः” माघः। “आवर्त्तिनः दशावर्त्तयुक्ताः प्रशसायो णिनि। ते च “द्वावुरस्यौ शिरस्यौ द्वौ द्वो द्वौ रन्ध्रोपरन्ध्रयोः। एकोभाले ह्यपाने च दशावर्त्ता ध्रवाः स्मृताः” पयोधिपक्षे जलभ्रमः” मल्लि० आश्वावर्त्तश्च अश्वशब्दे ५०३ पृष्ठे उक्तः। ७ आवर्त्ताकारे देहिनां रोमसंस्थानभेदे पु० अश्वानामपि उक्तध्रुवरूपावर्त्तोरोमसंस्थानविशेष एवेति बोध्यम्। णिच्–भावे अच्। ८ पुनः पुनश्चालने ९ परिघट्टमे (आओटान) १० धातूनां द्रावणे (गलान) ११ चिन्तायाञ्च चिन्तया हि चित्तं स्वविषयेषु पुनःपुनश्चाल्यते इति तस्याः तथात्वम्। आवर्त्त्यते समन्तात् अनेककोटिषु आ + वृत–णिच्–कर्म्मणि अच्। अनेक कोटिस्पर्शिनि १२ संशये “भ्रमं संमोहमावर्त्त मभ्यासाद्विधितोजयेत्” भा० शा० २७३ अ० आवर्त्तमनेककोटिस्पर्शेन संशयम् अभ्यासात् तत्त्वाभ्यासात्” नीलक०। आवर्त्तते कर्त्तरि अच्। १३ आवर्त्तमाने त्रि० “दक्षिणावर्त्तशङ्खोऽयं हन्त चूर्ण्णीकृतोमया” सा० द० १४ संसारे पु० तस्यानिशमावर्त्तमानत्वात्तथात्वम्। “इममावर्त्तं नावर्त्तन्ते” इति श्रुतिः “शङ्खनाभ्याकृतिर्योनिस्त्रावर्त्ता मा प्रकीर्त्तिता। तस्यास्तृतीये त्वावत्त गर्मशय्या प्रतिष्ठिता” “शङ्खावर्त्तनिभाश्चापि उपर्य्युपरि संस्थिताः। गजतालुनिभाश्चापि वर्णतः सुप्रकीर्त्तिताः” इति सुश्रुतोक्ते देहान्तर्वर्त्तिनि आवर्त्ताकारे १३ नाडीसन्निवेशभेदे च।

आवर्त्तक = पु० आवर्त्तएव स्वार्थे कन्। १ मेघाधिपभेदे “रजनिकरविम्बचुम्बितावर्त्त काम्बुदविडम्बकेन” काद०। तदीयास्तोयदेष्वद्य पुष्करावर्त्तकादिषु” कुमा० जातं वंशे भुवनविदिते पुष्कराकर्त्तकानाम्” मेघदू०। आवर्त्त इव कायति कै–क। २ आवर्त्ताकारे आवर्त्तशब्दोक्ते अश्वरोमचिह्नभेदे आवर्त्तयति आ–वृत–णिच् ण्वुल्। ३ पुनः पुनराघट्टकेत्रि०

आवर्त्तकी = स्त्री आवर्त्त इव कायति प्रकाशते कै–क–गौ० ङीष्। कोङ्कणे (भगतवल्ली) प्रसिद्धे लताभेदे सा तु विषाणाकारा रक्तपुष्पी रङ्गाकारा पीतकीलकयुक्ता चर्म्मरञ्जनकारिणी “कषायाम्ला शीतवीर्य्यकारिणी पित्तनाशिनी” वैद्य० २ भद्रदन्तिकायां च राजनि०।

आवर्त्तन = न० आ + वृत–आधारे ल्युट्। सूर्य्यस्य पश्चिमदिगवस्थितच्छायायाः १ पूर्ब्बदिग्ग मनसमये मध्याह्नकाले “आवर्त्तनात्तु पूर्ब्बाह्णोऽपराह्णस्तु ततःपरम्” स्मृतिः। “आवर्त्तनसमीपे वा वृद्धिश्राद्धमुपक्रमेत्” स्मृतिः आ + वृत–णिच्–भावे ल्युट् (आओटान) २ आलोडने ३ गुणने च धातूनां ४ द्रावणे (गलान)। आवर्त्तयति संसारचक्रम् आ + वृत–णिच् कर्त्तरि ल्यु। ५ विष्णौ “आवर्त्तनोनिवृत्तात्मा” विष्णु सह० ६ जम्बुद्वीपोपद्वीपभेदे च। आवर्त्त्यतेऽनया ल्युट् ङीप्। ७ दर्व्याम् स्त्री आधारे ल्युट् ङीप्। (मुचि) धातुद्रव्यद्रावणाधारे ८ मूषायाम् स्त्री करणे ल्युट्। ९ वेष्टने प्राचीरादौ न०।

आवर्त्तनीय = त्रि० आ + वृत–णिच्–अनीयर्। १ द्रावणीये धात्वादौ २ आलोड्ये दुग्धादौ गुण्ये ३ अङ्कादौ च। पुनः पुनः ४ पाठ्ये पदादौ च। “लिङ्गिपदमावर्त्तनीयम्” सा० कौ०

आवर्त्तमणि = पु० आवर्त्ताकारोमणिः। राजावर्त्तमणौ।

आवर्त्तिक = त्रि० आवर्त्तः प्रयोजनमस्य ठक्। आवर्त्ताकारधूमसाधने धूपादौ “आवर्त्तिकैर्गु ग्गुलुभिर्धूपैरामोदिमन्दिरे” काशी०।

आवर्त्तित = त्रि० आ + वृत–णि –क्त। १ कृतावर्त्तने दुग्धादौ द्राविते २ धात्वादौ, ३ गुणिते ४ अभ्यस्ते च। आवर्त्तो जातोऽस्य तार० इतच्। ५ जातावर्त्ते जलादौ।

आवर्त्तिन् = त्रि० आ + वृत–णिनि। १ पुनःपुनर्वर्त्तनशीले “आब्रह्मभुवनाल्लोकाः पुनरावर्त्तनोजनाः” गीता “कालान्तरावर्त्तिशुभाशुभानि” हितो०। णिच्–णिनि। आवर्त्तके २ द्रावके ३ दुग्धादेरावर्त्तनकारके स्त्रियामुभयतो ङीप्।

आवर्त्तिनी = स्त्री आवर्त्तः षशृङ्गाकारवेष्टनमस्त्यस्याः इनि ङीप्। अजशृङ्गीवृक्षे राजनि०।

आव(ब)र्हित = त्रि० आ + वृह–उद्यमे णिच्–क्त आ + वर्ह–हिंसायां क्त वा। उत्पाटिते उन्मूलिते।

आव(लि)ली = स्त्री आ + बल–इन् वा ङीप्। १ श्रेणौ सजातीयसमुदायेन कृतपङ्क्तौ “वृक्षावलिः धनावलिरिति। “के वा न सन्ति भुवि तामरसावतंसा हंसावलीबलयिनो जलसन्निवेशाः” उद्भटः। “द्विजावलीबालनिशाकरांशुभिः” माघः। “व्यलोकयच्चम्पककोरकावलीः” नैष० २ परम्परायाञ्ज।

आवलित = आ + वल–चलने क्त। ईषच्चलिते सम्यक्चलिते च।

आवशीर = पु० अवशीरदेशे भवः तस्य राजा वा अञ्। १ अवशीरदेशभवे जने २ तन्नृपे च। “आवशीरांश्च योधांश्च अहिच्छत्रं च योधयन्” भा० व० २५३। स च देशः वत्सभूमेः पूर्ब्बदिग्वर्त्ती “पूर्व्वां दिशं विनिर्ज्जित्य वत्सभूमिं तथागमत्” इत्यनन्तरश्लोके पूर्व्वां दिशमित्यभिधानात्।

आवश्यक = न० अवश्यं भावः मनोज्ञा० वुञ्। १ अवश्यंभावे नैयत्ये “ण्य आवश्यके” पा० अवश्यं भवः बा० २ वुञ् २ नियते त्रि० “एतेष्वावश्यकस्त्वसौ” भाषा०” ३ अवश्यकर्त्तव्ये नियमात् कर्त्तव्ये “उत्थायावश्यकं कृत्वा कृतशौचः समाहितः” मनुः। कालप्रतीक्षाराहित्येन ४ निरवकाशे च “नेहेतात्र विशेषेज्यामन्यत्रावश्यकाद्विधेः” पु० “आवश्यकात् निरवकाशात्” मल० त० रघु०।

आवश्यपुत्रक = न० न वश्यः अवश्यः पुत्रः तस्य भावः मनोज्ञा० वुञ्। पुत्रस्य वश्यत्वाभावे।

आवसति = स्त्री वसत्यत्र गृहे वसतिः रात्रिः सम्यक्वसतिः प्रा० स०। निशीथे वसतेः सम्यक्त्वञ्चावश्यगृहवासयोग्यत्वं तच्चार्द्धरात्रेऽवश्यं भवतीति तस्य तथात्वम्।

आवसथ = पु० आवसत्यत्र आ + वस–अथच्। १ वसतिस्थाने, २ विश्रामस्थाने ३ ग्रामे ४ व्रतभेदे च। तत्र वासस्थाने “दूरादावसथान्मूत्रं दूरात् पादावसेचनम्” मनुः विश्रामस्थाने। “आसनाव सथौ शय्यामनुव्रज्यामुपासनाम्” मनुः विश्रामस्थाने “स किलाश्रममन्त्यमाश्रितो निवसन्नावसथे पुराद्बहिः” रघुः। ग्रामे “सहसर्व्व त आवसथान् मापयाञ्चक्रे” छा० उ०। ५ आर्य्याच्छन्दोरचिते कोषभेदे।

आवसथिक = त्रि० आवसथे गृहे वसति ठण् स्त्रियां ङीप्। गृहस्थे।

आवसथ्य = पु० अवसथस्यायं ञ्य। १ गृहसम्बन्धिनि लौकिकेऽग्नौ “आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रमम्” भा० व० २१ अ०। “आवसथ्यस्तथाधाने” इत्युक्ते अग्न्याधानकर्माङ्गे २ वह्नौ च। “आवसथ्याहवनीयौ दक्षिणाग्निस्तथैव च। अन्वाहार्य्योगार्हपत्य इत्येते पञ्च वह्नयः इत्युक्ते यज्ञाङ्गवह्निपञ्चकान्तर्गते ३ वह्निभेदे च। स च गृह्याग्निः अवसथशब्दार्थगृहसम्बन्धाच्च तस्य गृह्यत्वम्।

आवसान = त्रि० अवसानमभिजनोऽस्य तक्ष० अञ्। ग्रामसीमान्तवासिनि स्त्रियां ङीप्।

आवसानिक = त्रि० अवसाने तत्काले भवः ठञ्। अवसानकाले (शेषकाले) भवे स्त्रियां ङीप्।

आवसित = न० आ + अव + सो–क्त। १ पक्वधान्ये मर्द्दनानन्तरमपनीततृणे राशीकृते २ धान्ये च। ३ निर्ण्णीते ४ अवधारिते ५ समाप्ते च त्रि०।

आवस्थिक = त्रि० अवस्थायां भवः ठञ्। कालकृतावस्थाभवे “आवस्थिकं क्रमञ्चापि मत्वा कार्य्यं निरूहणम्” सुश्रु०।

आवह = पु० आवहति आभिमुख्ये न गच्छति आ + वह–अच्। सप्तस्कन्धापन्नवायोः प्रथमे स्कन्धे १ भूवायौ। “भूवायुरावह इह प्रवहस्तदूर्द्धम्” सि० शि०। अनिलशब्दे १६४ पृष्ठे विवृतिः “आवहः प्रवहश्चैव विवहश्च समीरणः। परावहः संवहश्च उद्वहश्च महाबलः। तथा परिवहः श्रीमान्” हरिवं० २३६ अ०। आवहति प्रापयति आ + वह–अच्। २ प्रापके त्रि० “क्लेशावहा भर्त्तुरलक्षणाहम्” रघुः। फलैधःकुसुमस्तेयमधैर्य्यञ्च मलावहम्” मनुः। “समुत्सृजेत् साहसिकान् सर्वभूतभयावहान्” मनुः।

आवहमान = त्रि० आ + वह–शानच्। क्रमागते।

आवाप = पु० आ + वप–आधारे वा घञ्। १ आलवाले तत्र हि जलसेकेन वृक्षान् आवपन्तीति तस्य तथात्वम् २ धान्यादेः पात्रभेदे, (थल्या) मावे घञ्। ३ समन्तात् वपने। “शस्यावापे कृषीवलाः” भार० ४ धान्यादिस्थापने ५ शत्रुचिन्तने ६ परराष्ट्रचिन्तने, “तन्त्रावापविदा योगैर्मण्डलान्यधिष्ठिता” माघः। ७ प्रधानहोमे च। ८ आक्षेपे, “आवापो द्वापाभ्याम्” सा० द०। आक्षेपोत्क्षेपाभ्यामित्यर्थः आ + वप–कर्म्मणि घञ्। ९ आवपनीये प्रक्षेपणीये “पञ्चच्छन्दा आवाप चार्ववःपवमान” इति ताण्ड्य० ब्रा० अवापः आवनीयः आवापश्च स्तोमवृद्धये साम्न आक्षेप इति भा० १० वलये च”। ईषद्दृश्यतेऽत्र आधारे घञ्। ११ निम्नोन्नतभूमौ तत्र हि शस्यादिक न सम्यक् वप्तुं शक्यते इति तस्यास्तथात्वम्।

आवापक = पु० आ + वप–कर्म्मणि घञ् संज्ञायां कन्। १ प्रकोष्ठाभरणे वलयादौ। कर्त्तरि ण्वुल्। २ आवपनकर्त्तरि त्रि०।

आवापन = न० आ + वप–णिच्–करणे ल्युट्। (ता~त) १ सूत्रयन्त्रे। भावे ल्युट्। २ केशादेः सम्यग् मुण्डने च।

आवापिक = न० आवापाय साधु ठक्। आवापे साधौ।

आवारि = न० समन्तात् व्रियते आच्छाद्यते आ + वृ–बा० इण्। १ समन्तादाच्छाद्ये हट्टस्थाने शब्दचि०। २ सम्यग्जलयुक्ते० त्रि०।

आवाल = न० आवाल्यते जलमनेन आ + वल सञ्चरणे णिच् करणे अच्। १ आलवाले वृक्षादेरधोभागे मृदादिनिर्म्मिते जलाधारे सेतुभेदे। आ + वन–भावे–घञ्। २ सञ्चारे।

आवास = पु० आ + वस–आधारे घञ्। १ वासस्थाने गृहादौ “आवासोन्मुखवर्हिणान्” रघुः। आवासमेवोपशमाय शीघ्रम्” भा० आ० ११६ अ०। भावे घञ्। २ सम्यग्वासे

आवाहन = न० आ + वह–णिच् ल्युट्। सान्निध्याय देवानामाह्वाने। “चकारावाहनं तत्र भागार्थं सर्वदैवतम्” पुरा० “प्रतिमास्थानेष्वप्स्वग्नौ नावाहनविसर्ज्जने” ति० त० पुरा०।

आवाहनी = स्त्री आवाह्यतेऽनया आ + वह–णिच्–करणे ल्युट् ङीप्। देवाह्वानार्थे “हस्ताभ्यामञ्जलिं बद्ध्वाऽनामिका मूलपर्व्वणोः। अङ्गुष्ठौ निक्षिपेद्यत्र मुद्रा सावहनी स्मृता” तन्त्रोक्तलक्षणे मुद्राभेदे।

आविक = स० अविना तल्लोम्ना निर्म्मितं ठक्। १ कम्बले। “सर्वञ्च तान्तवं रक्तं शाणक्षौमाविकानि च” मनुः अवेर्मेषस्यं २ सम्बन्धिनि त्रि० “आविकं सन्धिनीक्षीरं विवत्सायाश्चगोः पयः”। “वसीवन्नानुपूर्व्येण शाणक्षौमाविकानि च” मनुः। कौशेयाविकयोरूषैः कुतपानामरिष्टकैः” मनुः।

आविकसौत्रिक = न० सूत्रमेव सौत्रं कर्म्म० आविकसूत्रेण निर्म्मितम् टक्। मेषलोमनिर्म्मिते। “वैश्यस्त्वाविकसौत्रिकम्” मनुः।

आविक्य = न० आविकानां भावः पुरो० यक्। आविकसम्बन्धित्वे

आविग्न = पु० आ + विज–कर्त्तरि क्त। उद्विग्ने (पाणिआमला) वृक्षे पु०।

आविज्ञान्य = न० अविज्ञानमेव चातु० स्वार्थे ष्यञ्। विज्ञानहीने “तदाविज्ञान्यमिव हवींषि” शत० ब्रा० “आविज्ञान्यं विज्ञानविहीनमिव” भा०।

आविदूर्य्य = न० अविदूरस्य भावः ष्यञ्। सन्निकर्षे। “अभेश्चाविदूर्य्ये” पा०।

आविद्ध = त्रि० आ + व्यध–क्त। १ ताडिते २ विद्धे ३ छिद्रिते ४ क्षिप्ते च “नश्यतीषुर्यथाऽऽविद्धः” मनुः।

आविद्धकर्णो = स्त्री आविद्धौ कर्णाविव पत्रमस्याः गौ० ङीष्। पाठायाम्।

आविध = पु० आविध्यतेऽनेन आ + व्यध–घञर्थे क। काष्ठादिवेधनसाधने (भमर) (तुरपिन) सूच्याकाराग्रे अस्त्रे।

आविर्भाव = पु० आविस् + मू–षञ्। १ प्रकाशे सांख्यमतसिद्धे उत्पत्तिस्थानीयेऽभिव्यक्तिस्वरूपे २ भावधर्मभेदे तथा हि नैयायिकादयः क्रियानिरोधबुद्धिव्यपदेशार्थक्रियाव्यवस्थाभेदात् कार्य्यस्य कारणात् भिन्नतया कारणादुत्पत्तिरित्यङ्गीचक्रुः तदेन्मतमनूद्य सां० त० कौ० दूषयित्वा सतामेव कार्य्याणामाविर्भावः इति स्थिरोकरणेन कार्य्यकारणयोरभिन्नत्वं समर्थितम् यथा स्वात्मनि क्रियानिरोधबुद्धिव्यपदेशार्थक्रियाव्यवस्थाभेदाश्च नैकान्तिकं भेदं साधयितु मर्हन्ति एकस्मिन्नपि तत्तद्विशेषाविर्भावतिरोभावाभ्यामेतेषा मविरोधात् यथा हि कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानितिरोभवन्ति निःसरन्ति चाविर्भवन्ति न तु कूर्मतस्तदङ्गा न्युत्पद्यन्ते प्रध्वंसन्ते वा एवमेकस्या मृदः सुवर्णस्य वाषटमुकुटादयोविशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते न पुनरसतामुत्पादः सतां वा निरोधः। यथाह भगवान् कृष्टद्वैपायनः “नासतोविद्यते भावो नाभावो विद्यते सत इति”। यथा कूर्मः स्वावयवेभ्यः सङ्कोचिविकाशिभ्योन भिन्नः एवं घटमुकुटादयोऽपि मृत्सुवर्णादिभ्योन भिन्नाः। एवञ्चेत् तन्तुषु पटैति व्यपदेशो यथेह वने तिलका इत्यु पपन्नः। न चार्थक्रियाभेदोऽपि भेदमापादयति एकस्यापि नानार्थक्रियादर्शनात् यथैक एव वह्निर्दाहकः प्रकाशकः पाचकश्चेति। नाप्यर्थक्रियाव्यवस्था वस्तुभेदे हेतुः तेषामेव समस्तव्यस्तानामर्थक्रियाव्यवस्थादर्शनात् यथा प्रत्येकं विष्टयो वर्त्मदर्शनलक्षणामर्थक्रियां कुर्व्वन्ति न तु शिविकावहनं, मिलितास्तु शिविकां वहन्ति एवं तन्तवः प्रत्येकं प्रावरणमकुर्व्वाणा अपि मिलिताः आविर्भूतपटभावाः प्रावरिष्यन्ति। स्यादेतत्। आविर्भावः पटस्य कारणव्यापारात् प्राक् सन्नसन् वा असंश्चेत् प्राप्तं तर्ह्यसत उत्पादनम्। अथ सन्, कृतं तर्हिकारणव्यापारेण, न हि सति कार्य्येकारणव्यापारप्रयोजनं पश्यामः। आविर्भावे चाविर्भावान्तरकल्पनेऽनवस्थाप्रसङ्गः। तस्मादाविर्भूतपटभावास्तन्तवः क्रियन्त इति रिक्तं वचः। अथासदुत्पद्यत इत्यत्रापि मते केयमसदुत्पत्तिः सती असती वा, सती चेत् कृतं तर्हि कारणैः, असती चेत्तस्या अप्युत्पत्त्यन्तरमित्यनवस्था। अथोत्पत्तिः पटान्नार्थान्तरम् अपि तु पटएवासौ तथापि यावदुक्तं भवति पटैति तावदुक्तं भवत्युत्पद्यतैति। ततश्च पटैत्य क्ते उत्पद्यतैति न वाच्यं पौनरुक्त्यात् विनश्यतीत्य- पि न वाच्यं उत्पत्तिविनाशयोर्युगपदेकत्र विरोधात् तस्मादियं पटोत्प्रत्तिः स्वकारणसमवायो वा स्वसत्तासमवायोवा उभयथापि नोत्पद्यते अथ च तदर्थानि कारणानि व्यापार्यन्ते एवं पटादेराबिर्भावेऽपि कारणापेक्षेत्युपपन्नम्। न च पटरूपेण कारणानां सम्बन्धः, तद्रूपस्याक्रियत्वात् क्रियासम्बन्धित्वाच्च कारकाणाम् अन्यथा कारणत्वाभावात्। तस्मात् सत्कार्य्यमिति पुष्कलम्” सा० कौ०। प्रपञ्चस्तु अभिव्यक्तिशब्दे ३०० पृष्ठादौ दृश्यः। बाह्यमेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वं तस्योद्रेकः रजस्तमसी अभिभूयाधिर्भावः” सा० द०। देवादीनां मनुष्याद्याकारग्रहणरूपे ३ अवतारे च। “तदा मे मनसाध्यातो दयासिन्धुर्जनार्द्दनः। भक्तानामनुकम्पार्थं यश्चाविर्भावमिच्छति जैमि० भा०।

आविर्भूत = त्रि० आविस् + भू–कर्त्तरि क्त। १ प्रकटिते २ अभिव्यक्ते “आविर्भूता महाघोरा योगिनीकोटिभिः सह” योगि० त० आभिर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम्” मेघदू० “आविर्भूतपटभावाः” सा० कौ०।

आविल = त्रि० आविलति दृष्टिंस्तृणाति विल्–स्तृतौ क। १ कलुषे अय बिल भेदने बिलप्रकृतिकत्वात् वर्ग्य बमध्यैतिरायमु० “समलक्ष्यत बिभ्रदाबि(वि)लाम्” “तस्याबि(वि)लाम्भःपरिशुद्धिहेतोः”। “ननन्दुरानन्दजलावि(बि) लाक्षाः,” रघुः “यथा त्वदीयैश्चरितैरनावि(बि)लैः” कुमा।

आविष्करण = न० आविस् + कृ–भावे ल्युट् षत्वम्। १ प्रकाशने “असूया गुणेषु दोषाविष्करणम्” सि० कौ० करणे ल्युट्। २ प्रकाशसाधने स्त्रियां ङीप्। घञ्। आविष्कारोऽप्युभयत्र पु० आविष्कारातिशयश्चाभिधेयवत्प्रतीयते” सा० द०।

आविष्कर्त्तृ = त्रि० आविस् + कृ–तृच्। प्रकाशके स्त्रियां ङीप्।

आविष्कृत = त्रि० आविस् + कृ–कर्मणि क्त। प्रकाशिते। “कृतापचारोऽपि परैरनाविष्कृतविक्रयः” माघः “बाल्यादनाविष्कृतलाञ्छनेन” कुमा० “आविष्कृतमुदन्वता” रघुः

आविष्ट = त्रि० आ + विष–क्त। १ भूतादिग्रस्ते, २ आवेशयुक्ते, ३ निविष्टे ४ व्याप्ते च।

आविस् = अव्य० आ + अव–इसुन्। प्रकाशे। कृभ्वस्तियोगेऽस्य गतित्वम्। एतेन सह भूधातुः प्रकाशार्थे यथा आविर्भावः, कृञ्धातुः प्रकाशकरणेऽर्थे यथा आविष्कारः। “स्वरादिपाठात् अव्ययत्वम् “तेषामाविरभूत् ब्रह्मा परिम्लानमुखश्रियाम्” कुमा० देवानां कार्य्यसिद्ध्यर्थमाविर्भवति सा यदा” देवीमा०। “आचार्य्यकं विजयि मान्म- थमाविरासीत्” “सरसक्षतमण्डितमाविष्कुरुते भुजामूलम्” सा० द०।

आविस्तराम् = अव्य० आविस् + तरप् आमु। अतिशय प्रकाशे “आविस्तरां वा अग्निः कर्म्मणा” श० ब्रा०। तमप् आमु आविस्तमाम्। अत्यन्तप्रकाशे।

आवी = स्त्री अवीरेव स्वार्थे अण् ङीप्। रजस्वलायां १ नार्य्यां २ गर्भवत्याञ्च। “गर्भस्पन्दनमावीनां प्रणाशःश्यावपाण्डुता” सुश्रु०।

आवीत = त्रि० आ + व्ये–क्त। १ समन्तात्स्यूते उत्क्षिप्य २ धृते च। भावे क्त। ३ सम्यक् स्यूतौ ४ उत्क्षिप्य धारणे च न०।

आवीतिन् = पु० आवीतमनेन इष्टा० इनि। “उद्धृते दक्षिणे पाणावुपवीत्युच्यते बधैः। सव्ये प्राचीन आवीती निवीती कण्ठलम्बिते” मनूक्ते सव्यपाणिं बहिष्कृत्य दक्षिणस्कन्धोपरिधृतयज्ञसूत्रे प्राचीनावीतिनि।

आवुक = पु० अवति रक्षति अव–वा० उण् संज्ञायां कन्। नाट्योक्तौ जनके।

आवीरचूर्ण्ण = पु० आ समन्तात् विशेषेण ईर्य्यते क्षिप्यते आ + वि + ईर–घञ् कर्म्मधा०। (आवीर) इति ख्याते फल्गुनि “आवीरचूर्णं रुचिरं गृह्यतां परमेश्वर”! पुरा०

आवृत् = स्त्री आ + वृत–सम्प० क्विप्। १ आवर्त्तने २ भ्रामणे ३ पुनःपुनश्चालने “सूर्य्यस्यावृतमन्वावर्त्ते दक्षिणामन्वावृतम्” अथ० १०, ५, ३७, ४ पुनःपुनरेकजातीयक्रियाकरणे। आधारे क्विप्। ५ परिपाट्याम् अनुक्रमे ६ इतिकर्त्तव्यताप्रकारे। “अनयै वावृता कार्य्यं पिण्डनिर्वापणं बुधैः” मनुः। “आवृते सोमपीतये” ऋ० ३, ४२, ३, ७ संस्कारे च। “अ “मन्त्रिका तु कार्य्या वै स्त्रीणामावृदशेषतः। संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम्” मनुः। ८ तूष्णीम्भावे च। “आवृतैव पर्य्यग्नि कृत्वोदकं नयन्ति” आश्व० गृ०। “आवृतैव तूष्णीमेवेत्यर्थः” वृत्तिः। कर्त्तरि क्विप्। ९ आवर्त्तमाने त्रि०।

आवृत = त्रि० आ + वृ–क्त। १ कृतावरणे अप्रकाशीकृते आच्छादिते “अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः” गीता एतच्चानावृतक्षेत्रविषयम् आवृते तु पुनर्मार्गक्षेत्रेऽपि दोष एवेति” मिता० “ब्राह्मणादुग्रकन्यायामावृतो नाम जायते” मनूक्ते २ संकीर्ण्णवर्ण्णभेदे पुंस्त्री स्त्रियां जातित्वात् ङीप्।

आवृति = स्त्री आ + वृ–क्तिन्। आवरणशब्दार्थे।

आवृत्त = त्रि० आ + वृत–क्त। १ पुनःपुनरभ्यस्ते २ आवर्त्त्यमाने च ३ परावृत्ते ४ प्रतिनिवृत्ते च “आवृत्तानां गुरुकुलात् विप्राणां पूजकोभवेत्” मनुः। “कश्चिद्धीरः प्रत्यगात्मानमेक्षद वृत्तचक्षुरमृतत्वमिच्छन्” कटोप० “आवृत्तं व्यावृत्तं चक्षुः श्रोत्रादिकमिन्द्रियजातं विषयाद्यंस्य” भा०।

आवृत्ति = स्त्री आ + वृत–क्तिन्। १ पुनः पुनरभ्यासे २ भूयएकजातीयक्रियाकरणे “आवृत्तिः सर्व्वशास्त्राणां बोधादपि गरोयसी” उद्भटः। “उदयावृत्तिपथेन नारदः” रघुः। “एकद्रव्ये कर्म्मावृत्तौ सकृन्मन्त्रवचनम्” कात्या० १, ७, ९। “आवृत्तिरसकृदुपदेशात्” शा० सू०। ३ प्रत्यावृत्तौ ४ “पुनरागतौ “अनावृत्तिः शब्दात्” शा० सू० “तत्र प्राप्तविवेकस्यानावृत्तिः” सां० सू०। “यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः” गीता। “गुर्व्वी कामापदं हन्तुं कृतमावृत्तिसाहसम्” किरा०। “तपोवनावृत्तिपथं गताभ्याम्” रघुः।

आवृत्तिदीपक = न० आवृत्त्या दीपकम्। दीपकावृत्तिरूपे अर्थालङ्कारभेदे तल्लक्षणं ३०० उक्तम्।

आवृष्टि = स्त्री आ + वृष–क्तिन्। सम्यग्वर्षणे “भूयश्च शत वार्षिक्यामनावृष्टावनम्भसि” देवीमा०।

***