आरब्ध = त्रि० आ + रभ–क्त। कृतारम्भणे “प्रारब्धादन्यकार्य्याणां करणं परिवर्त्तकः” सा० द० “अनारब्धकार्य्ये एव तु” इत्यादि शा० सू०। यस्य कियदंशं कर्त्तुमारेभे तादृशः पदार्थः आरब्धः। भावे क्त। २ आरम्भे न० “व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे। आरब्धे सूतकं न स्यादनारब्धेतु सूतकम्” तिथि० त० विष्णुः।

आरब्धफलयोः सुकृतदुष्कृतयोः तत्त्वज्ञानोत्पत्तावपि यावत्फलसमाप्ति न नाशः इत्येतत् शा० सू० भा० स्थिरीकृतम् यथा “बन्धहेत्वोर्विद्यासामर्थ्यादशेषविनाशसिद्धेरवश्यं भावि- नी विदुषः शरीरपाते मुक्तिरित्यवधारयति। “अनारव्वकार्य्ये एव तु पूर्व्वे तदवधि” शा० सू० “पूर्व्वयोरधिकरणयोर्ज्ञाननिमित्तः सुकृतदुस्कृतयोर्विनाशोऽवधारितःस किमविशेषेणारब्धकार्य्ययीर्भवत्युत विशेषेणानारब्धकार्य्ययोरेवेति विचार्य्यते तत्र “उभे हैवैष एतेन तरतीत्येवमादि” शुतावविशेषश्रवणादविशेषेणैव क्षयैत्येवंप्राप्ते प्रत्याह अनारब्धकार्य्ये एव त्विति। अप्रवृत्तफले एव पूर्ब्बे जन्मान्तरसञ्चिते, अस्मिन्नपि च जन्मनि प्राक्ज्ञानोत्पत्तेः सञ्चिते च सुकृतदुस्कृते ज्ञानाधिगमात् क्षीयेते नत्वारब्धकार्य्ये सामिभक्तफले, याभ्यामेतद्ब्रह्मज्ञानायतनंजन्मनिर्मितम्। कुतएतत्? “तस्य तावदेव चिरं यावन्न विमोक्ष्य इति” शरीरपानावधिकरणात् क्षेमप्राप्तेः। इतरथा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात् ज्ञानप्राप्त्यनन्तरमेव क्षेमश्नुवीत तत्र शरीरपातप्रतीक्षां नाचक्षीत। ननु वस्तुबलेनैवायमकर्त्रात्मबोधः कर्म्माणिक्षपयन् कथं कानिचित् क्षपयेत् कानि चिच्चोपेक्षेत नहि समानेऽग्निवीजसम्पर्के केषाञ्चिद्वीजशक्तिः क्षीयते केषाञ्चिन्न क्षीयते इति शक्यमङ्गीकर्त्तुमिति, उच्यते न तावदनाश्रित्यारब्धकार्यं कर्माशयं ज्ञानोत्पत्तिरुप पद्यते। आश्रिते च तस्मिन् कुलालचक्रवत् प्रवृत्तवेगस्यान्तराले प्रतिबन्धासम्भवाद्भवति वेगक्षयप्रतिपालनम्। अकर्त्रात्मबोधोऽपि हि मिथ्याज्ञानबाधनेन कर्म्माण्युच्छिनत्ति। बाधितमपि मिथ्याज्ञानं द्विचन्द्रज्ञानवत् संस्कारवशात् कञ्चित् कालमनुवर्त्ततएव। अपि च नैवात्र विवदितव्यं ब्रह्मविदां कञ्चित् कालं शरीरं ध्रियते न ध्रियत इति। कथं ह्येकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणञ्चापरेण प्रतिक्षेप्तुंशक्येत। श्रुतिस्मृतिषु च स्थितप्रज्ञलक्षणनिर्द्देशेनैतदेव निरुच्यते। तस्मादनारब्धकार्ययोरेव सुकृतदुष्कृतयोविर्द्यासामर्थ्यात् क्षय इति निर्णयः” भा०। “चक्रभ्रमणवद्धृतशरीरः” सांख्यसूत्रेण फलजनकस्य कर्मणोनाशेऽपि चक्रजन्यवेगस्य चक्रनाशेऽपि स्थितिवत् देहरूपस्य कर्मफलस्य संस्कारात्मना स्थितिरित्यवधारितम्। यथा च आरब्धफलस्य कर्म्मणो यावदधिकारस्थितिस्तथा निर्ण्णीतं शा० सू० भा० ३ अ० ३ पादे यथा “यावदधिक्वारमवस्थितिराधिकारिकाणाम्” शा० सू० “विदुषो वर्त्त मानदेहपातानन्तरं देहान्तरमुत्पद्यते न वेति चिन्त्यते। ननु विद्यायाः साधनभूतायाः सम्पत्तौ कैवल्यनिर्वृत्तिः स्यान्नवेति नेयं चिन्तोपपद्यते। न हि पाकसाधनसम्पत्ता- वोदनोभवेन्नवेति चिन्ता सम्भवति नापि भुञ्जानस्तृप्यति न वेति चिन्त्यते। उपपन्ना त्वियं चिन्ता ब्रह्मविदामपि केषाञ्चिदितिहासपुराणयोर्देहान्तरोत्पत्तिदर्शनात्। तथाह्यपान्तरतमा नाम वेदाचार्य्यः पुराणर्षः विष्णु नियोगात् कलिद्वापरयोः सन्धौ कृष्णद्वैपायनः सम्बभूवेति स्मरन्ति। वशिष्ठश्च ब्रह्मणोमानसः पुत्रः सन्निमिशापादपगतपूर्ब्बदेहः पुनर्व्रह्मादेशान्मित्रावरुणाभ्यां, भूग्वादीनामपि ब्रह्मण एव मानसानां उत्राणां वारुणे यज्ञे पुनरुत्पत्तिः स्मर्य्यते। सनत्कुमारोऽपि व्रह्मण एव मानसः पुत्रः स्वयं रुद्राय वरप्रदानात् स्कन्दत्वेन प्रादुर्बभूव। एवमेव दक्षनारदप्रभृतीनामपि भूयसी देहान्तरोत्पत्तिकथा तेन तेन निमित्तेन भवति स्मृतौ, श्रुता वपि मन्त्रार्थवादयोः प्रायेणोपलक्ष्यते। ते च क्वचित् पतिते पूर्व्वदेहे देहान्तरमाददते, क्वचित्तु स्थितएव तस्मिन् योगैश्वर्य्य वशादनेकदेहादानन्यायेन। सर्वे चैते समधिगतसकलवेदार्थाः स्मर्य्यन्ते। तदेतेषां देहान्तरोत्पत्तिदर्शनात् प्राप्तं ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वेत्यत उत्तरमुच्यते। न, तेषामपानतरतमः प्रभृतीनां वेदप्रवर्त्तनादिकलोकस्थितिहेतुष्वधिकारेषु नियुक्तानामधिकारतन्त्रव्वात् स्थितेः। यथासौ भगवान् सविता सहस्रयुगपर्य्यन्तं जगतोऽधिकारं चरित्वा तदवसाने उदयास्तमयवर्जितं कैवल्यमनुभवति “अथात ऊर्द्धं उदेत्य नैवोदेता नास्तमेतैकलएव मध्ये स्थातेति” श्रुतेः। यथा च वर्त्तमाना व्रह्मविदः प्रारव्यभोगक्षये कैवल्यमनु भवन्ति “तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य” इति एवमपान्तरतमःप्रभृतयोऽपीश्वराः परमेश्वरेण तेषु तेष्वधिकारेषु नियुक्ताः सन्तः सत्यपि सम्यग्दर्शने कैवल्यहेतावक्षीणकर्माणो यावदधिकारमवतिष्ठन्ते तदवसाने चापवृज्यन्त इत्यविरुद्धम्। सकृत्प्रवृत्तमेव हि तेऽधिकारफलदानाय कर्माशयमतिवाहयन्तः स्वातन्त्र्येण गृहादिव गृहान्तरमन्यमन्यं देहं सञ्चरन्तः स्वाधिकारनिर्वर्त्तनायापरिमुषितस्मृतयएव देहेन्द्रियप्रकृतिवशित्वान्नियामकबलेन युगपत् क्रमेण वाऽधितिष्ठन्ति! नचैते जातिस्मरा इत्युच्यन्ते तएव त इति स्मृतिप्रसिद्धेः। यथा सुलभा बह्मवादिनी जनकेन विवदितुकामा व्युदस्य स्वं देहं, जानकं देहमाविश्य व्युद्य तेन, पश्चात्तं स्वमाविवेशे ति स्मर्य्यते। यदि ह्युपयुक्ते सकृत्प्रवृत्ते कर्मणि कर्मान्तरं देहान्तरारम्भकारणमाविर्भवेत् ततोऽन्यदप्यदग्ध वीजं कर्म्मान्तरं तद्वदेव प्रसज्यतेति ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वाशङ्क्येत न तवेयमाशङ्का युक्ता ज्ञानात् कर्म्मवीजदाहस्य श्रुतिस्मृतिप्रसिद्धत्वात्। तथा हि श्रुतिः “भिद्यते हृदयग्रन्थिरित्येवमादिः” “स्मृतिलम्भे च सर्व ग्रन्थीनां विप्रमोक्ष” इति च। स्मृतिरपि “यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन!। ज्ञानाग्निः सर्व्वकर्म्माणि भस्मसात् कुरुतेतथेति”। “वीजान्यग्न्यपदग्धानि न रोहन्ति यथा पुनः। ज्ञानदग्धैस्तथाक्लेशैर्नात्मा सम्पाद्यते पुनरिति” चैवमाद्या। नचाविद्यादिक्लेशदाहे सति क्लेश वीजस्य कर्माशयस्यैकदेशदाहएकदेशप्ररोहश्चेत्यृपपद्यते न ह्यग्निदग्धस्य शालिवीजस्यैकदेशप्ररोहो दृश्यते। प्रवृत्तफलस्य तु कर्माशयस्य मुक्ते शरीरवेगक्षयान्निवृत्तिः “तस्य तावदेव चिरमिति” शरीरपातक्षेपकरणात्। तस्मादुपपन्ना यावदधिकारमाधिकारिकाणामवस्थितिः” भा०। अतएव वाचस्पत्ये उक्तम् “उपासनादिसंसिद्धितोषितेश्वरनोदितम्। अधिकारं समाप्यैव प्रविशन्ति परं पदम्” ३ अवरुद्धे “ध्वान्तं घनारब्धमिवार्द्धरात्रः” किरा०। “घनारब्धम् मेघावरुद्धम्” मल्लि०। घनारुद्धैत्येव ज्यायान् पाठः तेनास्य अवरुद्धार्थकत्वे प्रमाणाभावेऽपि न क्षतिरिति

आरभटी = स्त्री० आरभ्यतेऽनया आ + रभ–अटि ङीप्। नाट्ये अर्थविशेषयुक्ते सा० दर्पणोक्ते रचनाभेदे सा च भेदोदाहरणसहिता सा० द० उक्ता यथा “मायेन्द्रजालसंग्रामक्रोधोद्भान्तादिचेष्टितैः। संयुक्ता पणबन्धाद्यैरुद्भटाऽऽरभटी मता। वस्तूत्थापनसऽफेटौ संक्षिप्ति रवपातनम्। इति भेदास्तु चत्वार आरभट्याः प्रकीर्त्तिताः। मायाद्युत्थापितं वस्तु वस्तूत्थापनमुच्यते। यथोदात्तराघवे। “जीयन्ते जयिनोनिशान्ततिमिरव्रातैर्व्वियद्व्यापिभिर्भास्वन्तः सकला रवेरपि कराः कस्मादकस्मादमी। एते चोग्रकबन्धकण्ठरुधिरैराध्मायमानोदरामुञ्चन्त्याननकन्दरानलमुचस्तीव्रान् रवान् फेरवः” इत्यादि। संफेटस्तु समाधाय युद्धसत्वरयोर्द्वयोः। यथा मालस्त्यां माधवाघोरघण्टयोः। संक्षिप्ता वस्तुरचना शिल्पैरितरथाऽपि वा। संक्षिप्तिः स्यात् निवृत्तौ च नेतुर्नेत्रन्तरग्रहः। उदयनचरिते किलिञ्जहस्तिप्रयोगः। द्वितीयं यथा। बालिनिवृत्त्या सुग्रीवः यथा वा परशुरामयौ द्धत्थनिवृत्त्या शान्तत्वापादानं “पुण्या ब्राह्मणजातिरन्वयगुणः शास्त्रं चरित्रं च मे येनैकेन हृतान्यमूनि हरता चैतन्य सात्रामपि। एकः सन्नपि भूरिदोषगहनं सोऽयं त्वया प्रेयसा वत्स! ब्राह्मणवत्सलेन शमितः क्षेमाय दर्पोमम”। प्रवेशश्रासनिष्क्रान्तिहर्षविप्लवसम्भवम्। अवपातनमित्युक्तम्। यथा कृत्यरावणे षष्ठेऽङ्के। प्रविश्य खङ्गहस्तः पुरुष इत्यतः प्रभृति निष्क्रमणपर्य्यन्तम्। सर० क० उक्ते शब्दालङ्काररूपे २ वृत्तिभेदे च सा च ३८८ पृष्ठे दृश्या। आरः सामर्थ्येन गामी भटः। ३ शूरे वीरे पु० हेमचन्द्रः।

आरभ्य = अव्य० आ + रभ–ल्यप्। १ उपक्रम्येत्यर्थे “आरभ्य तस्यां दशमीञ्च यावत् प्रपूजयेत् पर्व्वतराजपुत्रीम्” दुर्गो० त० पु० अनारभ्याधीतत्वात्” मीमांसा। कर्मणि क्यप्। २ आरम्भणार्हे आरम्भणीये त्रि०।

आरमण = न० आ + रम–भावे ल्युट्। १ आरामे, विश्रामे आरम्यतेऽनेन करणे ल्युट्। आरतिसाधने “स आत्मन्नारमणं नाविन्दत्” तैत्ति० चक्षुषोरेवैते आरमणे कुरुतः” शत० ब्रा०।

आरम्बण = न० अ + लबि–ल्युट् वेदे लस्य रः। आलम्बने “तस्मात्तान्यन्तरिक्षेऽनारम्वणान्यादायात्मानं परियन्ति” छा० उ० अनारम्बणानि अनालम्बनानि” भा० “यदिदमन्तरिक्षमनारम्बणमिव केनाक्रमेण यजमानःस्वर्गलोकनाक्रमेत्” वृ० उ०

आरम्भ = पु० आ + रभ घञ् मुम्। १ उद्यमे २ त्वरायां स्वार्थं परार्थं वा ३ गृहादिसम्पादनव्यापारे ४ उपक्रमे प्रथमकृतौ ५ प्रस्तावने ६ बधे ७ दर्पे च। “अनारम्भेऽपि प्ररगृहसुखी सर्पवत्” सा० सू० “आरम्भे कर्मणां विप्र! पुण्डरीकं स्मरेद्धरिम्” स्मृतिः “न कर्मणामनारम्भात् नैष्कर्म्यं पुरुषोऽश्नुते” गीता “मीनादिस्थोरविर्येषामारम्भः प्रथमक्षणे। इति म० त० व्यासः “अयथाबलमारम्भः” माघः। “आगमैः सदृशारम्भा आरम्भसदृशोदयः” इति रघुः क्रियाकूटात्मकपाकादिक्रियाणां प्राथमिकव्यापारोपक्रमआरम्भः। श्रौतस्मार्त्तकर्म्मविशेषे अङ्गविशेषारम्भेऽपि प्रकृतकर्म्मारम्भस्तेन आरब्धत्वान्न सूतकादेः प्रतिबन्धकत्वम्। यथा “आरम्भोवरणं यज्ञे संकल्पोव्रतजप्ययोः। नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिष्क्रिया। तथा निमन्त्रणं श्राद्धे आरम्भः स्यादिति श्रुतिः आरब्धे सूतकं नस्यादिति” ति० त० विष्णुः। द्रव्याणां द्रव्यान्तरेण गुणानां गुणान्तरेणोत्पादते वैशेषिकोक्ते ८ व्यापारे “द्रव्यारम्भश्चतुर्षु स्यात्” भाषा० कर्मणि घञ्। ९ आरभ्यमाणे “फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव” रघुः। “चित्रार्पितारम्भैवावतस्थे” कुमा०।

आरम्भक = त्रि० आरभते आ + रभ–एवुल् मुम्। १ आरम्भकारके वैशेषिकादिमतसिद्धे महत्त्वाद्यु पचयाय अवयावानां २ विजातीयसंयोगे च। “तत आरम्भकसंयोगनाशः” मुक्ता० आरम्भवादशब्दे शा० भा० उदा०।

आरम्भण = न० आ + रभ–ल्युट् मुम्। २ आरम्भशब्दार्थे कर्मणि ल्युट्। २ आरभ्यमाणे च। यथा “सौभ्यैकेन मत्पिण्डेन विज्ञातेन सर्वमिदं मृण्मयं विज्ञातं भवति वाचारम्भणं विकारोनामधेयं मृत्तिकेत्येव सत्यम्” छा० उ० “तदनन्यत्वमारम्भणशब्दादिभ्यः” शा० सू० आरम्भणं प्रयोजनमस्य अनुप्रचना० अण्। ३ आरम्भणप्रयोजनपदार्थे त्रि०। आरभ्यतेऽनेन करणे ल्युट्। ४ उपादानकारणे “किं स्विदासीदधिष्ठानमारम्भणं कतमत् स्वित्कथासीत्” यजु० १७, १८। “लोके हि घटादि चिकीर्षुः कुलालो गृहादिकं स्थानमधिष्ठाय मृद्रूपेणारम्भकद्रव्येण चक्राद्युपायै र्निष्पादयति ईश्वरस्य तदाक्षिप्यते। स्विदिति वितर्के द्यावाभूमी सृजतोविश्वकर्म्मणोऽधिष्ठानं किमासीत् निवासस्थानम्, अद्यतना निरधिष्ठानाः किमपि न कुर्वन्ति। स्विदिति वितर्के आरम्भणं कतमत् किमासीत् आरभ्यतेऽनेनेति आरम्भणमुपादानकारणम् मृदिव घटानाम्” वेददी०।

आरम्भणीय = त्रि० आ + रभ–शक्यार्थे अनीयर् मुम्। यस्य आरम्भःकर्त्तुं शक्यते तस्मिन् प्रयीजनादियुक्ते पदार्थे “तत्पुनः शास्त्रमारम्भणीयमिति” विवरणोपन्यासः।

आरम्भवाद = पु० आरम्भस्य वादः परीक्षापूर्ब्बकः कथाभेदः। वैशेषिकाद्यभिमते परमाणुभ्य एव जगदुत्पत्तिनिर्ण्णायके वादे। स च “द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरमिति” वै० सू० दर्शितः “आत्माकाशाणुमुखतः कारणं पूर्व्वमिष्यते। कुलालादिवदण्डन्तु घटवज्जन्मनाशभाक्। पृथिव्यम्भोऽग्निवायूनां कर्मसंयीजिताणवः। द्यणुकादि क्रमेणाण्डमारभन्ते इदं महदिति” हि तेषां वादः। शा० भाष्ये तु तदेतन्मतमुत्थाप्य निराकृतं यथा “परमाणुकारणवादैदानीं निराकर्त्तव्यः। तत्रादौ तावद्योऽणुकारणवादिना ब्रह्मवादिनि दोष उत्प्रेक्ष्यते स प्रतिसमाधीयते। तत्रायं वैशेषिकाणामभ्युपगमः कारण द्रव्यसमवायिनोगुणाः कार्य्यद्रव्यसमानजातीयं गुणान्तरमारभन्ते शुक्लेभ्यसुन्तुभ्यः शुक्लस्य पटस्य प्रसवदर्शनात्तद्विपर्य्ययाऽदर्शनाच्च। तस्माच्चेतनस्य ब्रह्मणो जगत्कारणत्वेऽभ्युपगम्यमाने कार्य्येऽपि जगति चैतन्यं समवेयात् तददर्शनात्। न चेतनं ब्रह्मजगत्कारणम्भवितुमर्ह- तीति। इममभ्युपगमन्तदीययैव प्रक्रियया व्यभिचारयति। “महद्दीर्घवद्ग्रस्वपरिमण्डलाभ्याम्” सू०। “एषा तेषां प्रक्रिया परमाणवः किल किञ्चित्कालमनारब्धकार्य्या यथायोगं रूपादिमन्तः पारिमाण्डल्यपरिमाणास्तिष्ठन्ति। ते च पश्चाददृष्टादिपुरःपराः संयोगसचिवाश्च सन्तोद्व्यणुकादिक्रमेण कृत्स्नं कार्य्यजातमारभन्ते कारणगुणाश्च कार्य्येगुणान्तरम्। यदा द्वौ परमाणू द्व्यकणुकमारभेते तदा परमाणुगता रूपादिगुणविशेषाः शुक्लादयोद्व्यणुके शुक्लादीनारभन्ते। परमाणुगुणविशेषस्तु पारिमाण्डल्यम् न द्व्यणुके पारिमाण्डल्यमपरमारभते द्व्यणुकस्य परिमाणान्तरयोगाभ्युपगमात्। अणत्वह्रस्वत्वे हि द्व्यणुकवर्त्तिनी परिमाणे वर्णयन्ति। यदापि द्वे द्व्यणुके चतुरणुकमारभेते तदापि समानं द्व्यणुकसमवायिनां शुक्लादीनामारम्भकत्वम्। अणुत्वह्रस्वत्वे तुद्व्यणुकसमवायिनी अपि नैवारभेते चतुरणुकस्य महत्त्वदीर्घत्वपरिमाणयोगाभ्युपगमात्। यदापि बहवः परमाणवो बहूनि वा द्व्यणुकानि द्व्यणु कसहितो वा परमाणुः कार्य्यमारभन्ते तदापि समानैषा योजना। तदेवं यथा परमाणोः परिमण्डलात्मनोऽणु ह्रस्वञ्च द्व्यणुकं जायते महद्दीर्घञ्च त्र्यणुकादि न परिमण्डलम्। यथा वा द्व्यणुकादणोर्ह्रस्वाच्च सतोमहद्दीर्घञ्च त्र्यणुकादि जायते नाणु नोत ह्रस्वम् एवं चेतनाद्ब्रह्मणोऽचेतनं जगज्जनिष्यत इत्यभ्युपगमे तव किं छिन्नम्। अथ मन्यसे विरोधिना परिमाणान्तरेणाक्रान्तं कार्य्यद्रव्यं द्व्यणुकादि ततोनारम्भकाणि कारणगतानि पारिमाण्डल्यादीनि इत्यभ्युपगच्छामि न तु चेतनाविरोधिना गुणान्तरेण जगत आक्रान्तत्वमस्ति येन कारणगता चेतना कार्य्ये चेतनान्तरं नारभेत। नह्यचेतनानां चेतनाविरोधी कश्चिद्गुणोऽ स्ति चेतनाप्रतिषेधमात्रत्वात्। तस्मात् पारिमाण्डल्यादि वैषम्यात् प्राप्नोति चेतनाया आरम्भकत्वमिति, मैवं मंस्थाः यथा कारणे विद्यमानानामपि पारिमाण्डल्यादीनामनारम्भकत्वमेवं चैतन्यस्यापीत्यस्यांशस्य समानत्वात्। न च परिमाणान्तराक्रान्तत्वं पारिमाण्डल्यादीनामनारम्भकत्वे कारणं प्राक् परिमाणान्तरारम्भात् पारिमाण्डल्यादीनामारम्भकत्वोपपत्तेः आरब्धमपि कार्य्य द्रव्यं प्राग्गुणारम्भात् क्षणमात्रमगुणं तिष्ठतीत्यभ्युपगसात्। न च परिमाणान्तरारम्भेव्यग्राणि पारिमाण्डल्यादीनीत्यतः स्वममानजातीयं परिमाणान्तरं नारभन्ते परिमाणान्तरस्यान्यहेतुकत्वाभ्युपगमात्। “कारणबहुत्वात् प्रच- यविशेषाच्च महत्” “तद्विपरीतमण्”। “एतेन दीर्घत्वह्रस्वत्वे व्याख्याते” इति हि काणभुजानि सूत्राणि। न च सन्निधानविशेषात् कुतश्चित् कारणबहुत्वादीनि एवारभन्ते न पारिमाण्डल्यादीनीत्युच्यते द्रव्यान्तरे गुणान्तरे वाऽऽरभ्यमाणे सर्वेषामेव कारणगुणानां स्वाश्रयसमवायाविशेषात्। तस्मात् यथा स्वभावादेव पारिमाण्डल्यादीनामनारम्भकत्वं तथा चेतनाया अपि द्रष्टव्यम् संयोगाच्च द्रव्यादीनां विलक्षणानामुत्पत्तिदर्शनात् समानजातीयोत्पत्तिव्यभिचारः। द्रव्ये प्रकृते गुणोदाहरणमयुक्तमिति चेन्न दृष्टान्तेन विलक्षणारम्भमात्रस्य विवक्षितत्वात्। न च द्रव्यस्य द्रव्यनेवोदाहर्त्तव्यं गुणस्य वा गुणएवेति कश्चिन्नियमे हेतुरस्ति। सूत्रकारोऽपि भवतां द्रव्यस्य गुणमुदाजहार “प्रत्यक्षाणामप्रत्यक्षत्वात् संयोगस्य पञ्चात्मकत्वं न विद्यत” इति। यथा प्रत्यक्षापत्यक्षयोर्भूम्याकाशयोः समवयन् संयोगोऽप्यप्रत्यक्षः एवं प्रत्यक्षाप्रत्यक्षेषु पञ्चसु भूतेषु समवयत् शरीरमप्रत्यक्षं स्यात् प्रत्यक्षन्तु शरीरं दृश्यते तस्मान्न पाञ्चभौतिकमिति। एतदुक्तं भवति गुणश्च संयोगोद्रव्यं शरीरम्। दृश्यतेत्विति चात्रापि विलक्षणोत्पत्तिः प्रपञ्चिता। नन्वेवं सति तेनैवैतद्गतम्, नेति ब्रूमः तत्सांख्यं प्रत्युक्तं एतत्तु वैशेषिकं प्रति। नन्वतिदेशोऽपि समानन्यायतः “एतेन शिष्टापरिग्रहा अपि व्याख्याताः” इति सत्यमेतत् तस्यैव त्वयं वैशेषिकपरीक्षारम्भे तत्प्रक्रियानुगतेन निदर्शनेन प्रपञ्चः कृतः। “उभयथापि न कर्माऽतस्तदभावः” सू०। इदानीं परमाणुकारणवादं निराकरोति। स च वादैत्थं समुत्तिष्ठति। पटादीनि हि सावयवानि द्रव्याणि स्वानुगतैः संयोगसचिवैस्तन्त्वादिभिर्द्रव्यैरारभ्यमाणानि दृष्टानि तत्सामान्येन यावत्किञ्चित् सावयवं सर्वन्तत् स्वानुगतैरेव संयोगसचिवैस्तैस्तैर्द्रव्यै रारब्धमिति गभ्यते। सचायमवयवावयविविभागोयतो निवर्त्तते सोऽपकर्षपर्य्यन्तगतः परमाणुः। सर्वञ्चेदं गिरिसमुद्रादिकं जगत् सावयवं सावयवत्वादाद्यन्तवत् न चाकारणेन कार्य्येण भवितव्यमित्यतः परमाणवोजगतः कारणमिति कणभुगभिप्रायः। तानोमानि चत्वारि भूतानि भूम्यप्तेजःपवनाख्यानि सावयवान्युपलभ्य चतुर्विधाः परमाणवः परिकल्प्यन्ते। तेषाञ्चापकर्षपर्य्यन्तगतत्वेन परतोविभागासम्भवाद्विनश्यताञ्च पृथिव्यादीनां परमाणुपर्य्य न्तविभागो भवति स प्रलयकालः। ततः सर्गकाले च वायवीयेष्वणुष्वदृष्टापेक्षं कर्मोत्पद्यते तत्कर्म स्वाश्रयमणुमण्वन्तरेण संयुनक्ति ततो द्व्यणुकादिक्रमेण वायुरुत्पद्यते एवमग्निः एवमापः एवं पृथिवी एवं शरीरं सेन्द्रियमित्येवं सर्वमिदं जगदणुभ्यः सम्भवति। अणुगतेभ्यश्च रूपादिभ्यो द्व्यणुकादिगतानि रूपादीनि सम्भवन्ति तन्तुपटन्यायेनेति काणादा सन्यन्ते। तत्रेदमभिधीयते वियोगावस्थानां तावदणूनां संयोगः कर्मापेक्षोऽभ्युपगन्तव्यः कर्मवतां तन्त्वादीनां संयोगदर्शनात्। कर्मणश्च कार्य्यत्वान्निमित्तं किमप्यभ्युपगन्तव्यम् अनभ्युपगमे निमित्ताभावान्नाणुष्वाद्यं कर्म्म स्यात्। अभ्युपगमेऽपि यदि प्रयत्नोऽभिघातादिर्वा यथादृष्टं किमपि कर्म्मणीनिमित्तमभ्युपगम्येत तस्यासम्भवान्नैवाणुष्वाद्यं कर्म्मस्यात् न हि तस्यामवस्थायामात्मगुणः प्रत्यत्नः सम्भवति शरीराभावात्। शरोरप्रतिष्ठे हि मनस्यात्ममनःसंयोगे सत्यात्मगुणः प्रयत्नो जायते। एतेनाभिघाताद्यपि दृष्टनिमित्तं प्रत्याख्यातव्यम्। सर्गोत्तरकालं हि तत्सर्वं नाद्यस्य कर्म्मणो निमित्तं सम्भवति। अथादृष्टमाद्यस्य कर्म्मणोनिमित्तमित्युच्येत तत्पुनरात्मसमवायि वा स्यादणुसमवायि वा उभयथापि नादृष्टनिमित्तमणुषु कर्मावकल्प्येत अदृष्टस्याचेतमत्वात्। नह्यचेतनं चेतनेनानधिष्ठितं स्वतन्त्रं प्रवर्त्तते प्रवर्त्तयति वेति साङ्ख्यपरीक्षायामभिहितम्। आत्मनश्चानुत्पन्नचैतन्यस्य तस्यामवस्थायामचेतनत्वात्। आत्मसमवायित्वाभ्युपगमाच्च नादृष्टमणुषु कर्म्मणोनिमित्तं स्यात् असम्बन्धात्। अदृष्टवता पुरुषेणास्त्यणूनां सम्बन्ध इति चेत् सम्बन्धसातत्यात् प्रवृत्तिसतत्यप्रसङ्गः नियामकान्तराभावात्। तदेवं नियतस्य कस्यचित् कर्म्मनिमित्तस्याभावान्नाणुष्वाद्यं कर्म्मस्यात् कर्म्माभावात् तन्निबन्धनः संयोगोम स्यात् संयोगाभावाच्च तन्निबन्धनं द्व्यणुकादि कार्य्यजातं न स्यात्। संयोगश्चाणोरण्वन्तरेण सर्वीत्म्ना वा स्यादेकदेशेन वा, सर्वात्मना चेदुपचयानुपपत्तेरणुमात्रत्वप्रसङ्गोदृष्ट विपर्य्ययप्रसङ्गश्च प्रदेशवतोद्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगस्य दृष्टत्वात्। एकदेशेन चेत् सावयवत्वप्रसङ्गः। परमाणूनां कल्पिताः प्रदेशाः स्युरिति चेत् कल्पितानामवस्तुत्वादवस्त्वेव संयोग इति वस्तुनः कार्य्यस्यासमवायि कारणं न स्यात् असति चासमवायिकारणे द्व्यणुकादि कार्य्यद्रव्यं नोत्पद्येत। यथा चादिसर्गे निमित्ताभावात् संयोगोत्पर्त्त्यर्थं कर्म नाणूनां सम्भवति एवं महाप्रलयेऽपि विभागोत्पत्त्यर्थं कर्म नैवाणूनां सम्भवेत्। न हि तत्रापि किञ्चिन्नियतं तन्निमित्तं दृष्टमस्ति। अदृष्टमपि भोगप्रसिद्ध्यर्थं न प्रलयप्रसिद्ध्यर्थ- मिति अतोनिमित्ताभावान्न स्यादणूनां संयोगोत्पत्थर्थंविभागोत्पत्त्यर्थञ्च कर्म। अतश्च संयोगविभागायत्तयोः सर्गप्रलययोरभावः प्रसज्येत। तस्मादनुपपन्नोऽयं परमाणुकारणवादः। “समवायाभुपगमाच्च साम्यादनवस्थितेः” सू० समवायाभ्युपगमाच्च तदभाव इति प्रकृतेनाणृवादनिराकरणेन सम्बध्यते। द्वाभ्याञ्चाणभ्यां द्व्यणुकमुत्पद्यमानमत्यन्तभिन्नमणुभ्यामण्वोः समवैतीत्यभुपगम्यते भवता न चैवमभ्युपगच्छता शक्यतेऽणुकारणवादः समर्थयितुमुकुतः? साम्यादनवस्थितेः। यथैव ह्यणुभ्यामत्यन्तभिन्नं सत्द्व्यणुकं समवायलक्षणेन सम्बन्धेन ताभ्यां सम्बध्यते एवं समवायोऽपि समवायिभ्योऽत्यन्तभिन्नः सन् समवायलक्षणेनान्येनैव सम्बन्धेन समवायिभिः सम्बध्येत अत्यन्तभेदसास्यात् ततश्च तस्य तस्यान्योऽन्यः सम्बन्धः कल्पयितव्य इत्यनवस्था प्रसज्येत। नन्विह प्रत्ययग्राह्यः समवायो नित्यसम्बन्धएव समवायिभिर्गृह्यते नासम्बद्धः सम्बन्धान्तरापेक्षो वा ततश्च न तस्यान्यः सम्बन्धः कल्पतयिव्योयेनानवस्था प्रसज्येत। नेत्युच्यते। संयोगोऽप्येवं सति संयोगिभिर्नित्यसम्बन्ध एवेति समवायवन्नान्यं सम्बन्धमपेक्षेत। अथार्थान्तरत्वात् संयोगः सम्बन्धान्तरमपेक्षते, समवायोऽपि तर्ह्यर्थान्तरत्वात् सम्बन्धान्तरमपेक्षेत। स च गुणत्वात् संयोगः सम्बन्धान्तरपेक्षते न समवायोऽगुणत्वादिति युज्यते वक्तुम् अपेक्षाकारणस्य तुल्यत्वात् गुणपरिभाषायाश्चातन्त्रत्वात्। तस्मादंर्थान्तरं समवायमभ्युपगच्छतां प्रसज्येतैवानवस्था। प्रसज्यमानायां चानवस्थायामेकासिद्धौ सर्व्वासिद्धेर्द्वाभ्यामणुभ्यां द्यणुकं नैवोत्पद्येत तस्मादप्यनुपपन्नः परमाणुकारणवादः। “नित्यमेव च भावात्” सू०। अपि च अणवः प्रवृत्तिस्वभावा वा निवृत्तिस्वभावा वा उभयस्वभावा वा अनुभयस्वभावा वाऽभ्युपगम्येरन् गत्यन्तराभावात् चतुर्द्धापि नोपपद्यते। प्रवृत्तिस्वभावत्वे नित्यमेव प्रवृत्तेर्भावात् प्रलयाभावाप्रसङ्गः। निवृत्तिस्वभावत्वेऽपि नित्यमेव निवृत्तेर्भावात् सर्गाभावप्रसङ्गः। उभयस्वभावत्वञ्च विरोधादसमञ्जसम्। अनुभयस्वभावत्वे तु निमित्तवशात् प्रवृत्तिनिवृत्त्योरभ्युपगम्यमानयोरदृष्टादेर्निमित्तस्य नित्यसन्निधानान्नित्यप्रवृत्तिप्रसङ्गः। अतन्त्रत्वेऽप्यदृष्टादेर्नित्यप्रवृत्तिपरसङ्गः तस्मादप्यनुपपन्नः परमाणुकारणवादः। “रूपादिमत्त्वाच्चविपर्य्ययो दर्शनात्” सू०। नावयवानां द्रव्याणामवयवशोविभज्यमानानां यतः परोविभागो न सम्भवति ते चतुर्बिधा रूपादिमन्तः परमाणवश्चरुर्विधस्य रूपा- दिमतो भूतभौतिकस्यारम्भका नित्याश्चेति यद्वैशेषिका अभ्युपगच्छन्ति स तेषामभुपगमो निरालम्बन एव यतोरूपादिमत्त्वात् परमाणूनामणुत्वनित्यत्वविपर्य्ययः प्रसज्येत परमकारणापेक्षयास्थूलत्वमनित्यत्वञ्च तेषामभिप्रेत विपरीतमापद्येतेत्यर्थः। कुतः? एवं लोके दृष्टत्वात्। यद्धि लोके रूपादिमद्वस्तु तत् स्वकारणापेक्षया स्थूलमनित्यञ्च दृष्टं तद्यथा पटस्तन्तूनपेक्ष्य स्थऊलोऽनित्यश्च भवति तन्तवश्चांशूनपेक्ष्य स्थूला अनित्याश्च भवन्ति। तथा चामी परमाणवोरूपादिमन्तस्तैरभ्युपगस्यन्ते तस्मात्तेऽपि कारणवन्तस्तदपेक्षया स्थूला अनित्याश्च प्राप्नुवन्ति। यच्च नित्यत्वे कारणं तैरुक्तं “सदकारणवन्नित्यमिति”। तदप्येवं सत्यणुषु न सम्भवति उक्तेन प्रकारेण कारणवत्त्वोपपत्तेः यदपि नित्यत्वे द्वितीयं कारणमुक्तम् “अनित्यमिति च विशेषतः प्रतिषेधाभाव” इति। तदपि नावश्यं परमाणूनां नित्यत्वं साधयति असति हि यस्मिन् कस्मिंश्चिन्नित्ये वस्तुनि नित्यशब्देन नञः समासो नोपपद्यते न पुनः परमाणुनित्यत्वमेवापेक्षते तच्चास्त्येव नित्यं परमकारनं ब्रह्म। न च शब्दार्थव्यवहारमात्रेण कस्यचिदर्थस्य प्रसिद्धिर्भवति प्रमाणान्तरसिद्धयोः शब्दार्थयोर्व्यवहारावतारात्। यदपि नित्यत्वे तृतीयं कारणमुक्तम्। “अविद्या चेति”। तद्यद्येवं विब्रियेत सतां परिदृश्यमनकार्य्याणां कारणानां प्रत्यक्षेणाग्रहणमविद्येति ततोद्व्यणुकनित्यताप्यापद्येत। अथाद्रव्यवत्त्वे सतीति विशेष्यते तथाप्यकारणवत्त्वमेव नित्यतानिमित्तमापद्येत तस्य च प्रागेवोक्तत्वादविद्या चेति पुनरुक्तं स्यात्। अथापि कारणविभागात् कारणविनाशाच्चान्यस्य तृतीयस्य विनाशहेतोरसम्भवोऽविद्या सा परमाणूनां नित्यत्वं ख्यपयतीति व्याख्यायेत। नावश्यं विनश्यद्वस्तु द्वाभ्यामेव हेतुभ्यां विनंष्टुमर्हतीति नियमोऽस्ति संयोगसचिवे ह्यनेकस्मिश्च द्रव्ये द्रव्यान्तरस्यारम्भकेऽभ्युपगम्यमाने एतदेवं स्यात् यदा त्वपास्तविशेषं सामान्यात्मकं कारणं विशेषवदवस्थान्तरमापद्यमानमारम्भकमभ्युपगम्यते तदा घृतकाठित्यविलयनवत् मृर्त्त्यवस्थाविलयनेनापि विनाश उपपद्यते। तस्माद्रूपादिमत्त्वात् स्यादभिप्रेतविपर्य्ययः परमाणूनां, तस्मादप्यनुपपन्नः परमाणुकारणवादः। “उभयथा च दोषात्” सू०। गन्धरसरूपस्पर्शगुणा स्थूला पृथ्वी, रसरूपस्पर्शगुणाः सूक्ष्मा आपः, रूपस्पर्शगुणं रूक्ष्मतर तेजः,स्पर्शपुणः सूक्ष्मतमोवायुरित्येवमेतानि चत्वारि भूतान्यपचितापचितगुणानि स्थ लसूक्ष्म- तारतम्योपेतानि च लोके लक्ष्यन्ते तद्वत् परमाणवोऽप्युपचितापचितगुणाः कल्प्येरन् न वा। उभयथापि तद्दोषानुषङ्गोऽपरिहार्य्य एव स्यात्। कल्प्यमाने तावदुपचितापचितगुणत्वे उपचितगुणानां मूर्त्युपचयादपरमाणुत्व प्रसङ्गः। नचान्तरेणापि मूर्त्त्युपचयं गुणोपचयो भवतीत्युच्येत कार्य्येषु भूतेषु गुणोपचये मूर्त्युपचयदर्शनात्। अकल्प्यमाने तूपचितापचितगुणत्वे परमाणुत्वसाम्यपेरसिद्धये यदि तावत् सर्व्वएव एकैकगुणाएव कल्प्येरन् ततस्तेजसि स्पर्शस्योपलब्धिर्न स्यात् अप्सुरूपस्पर्शयोः, पृथिव्यां रूपरसस्पर्शानां, कारणगुणषूर्ब्बकत्वात् कार्य्यगुणानाम्। अथ सर्वे चतुर्गुणाएव कल्प्येरन् ततोऽप्स्वपि गन्धस्योपलब्धिः स्यात् तेजसि च गन्धरस्योः, वायौ च ग्नधरसरूपाणां, न चैवं दृश्यते। तस्मादप्यनुपपन्नः परमाणुकारणवादः”। एतेनादृष्टस्य सातत्येऽपि कालवशात् नित्यमसमर्थनम् परेषामकिञ्चित्करम्। महाकालस्यैकत्वेन नियामकत्वाभावात् खण्डकालस्य च तदानीं क्रियाद्यभावेन विशेषाकत्वासम्भवात् क्रियायाः मूर्त्तद्रव्याधीनत्वान्मूर्त्तस्य चावयवसंयोगाधीनत्वेन सर्गोत्तरमेवोत्पत्तेस्तदाऽसत्त्वात्। यच्च निरवयवस्य परमाणोर्दिगवच्छेदेन संयोगसम्भवसमर्थनं तदप्यकिञ्चित्करं नित्यायादिशस्तदवच्छेदकत्वासम्भवात् दिग्विभागस्यैवावच्छेदकत्वस्य लोके दृष्टत्वात् दिग्विभाजकस्य चावयवभेदस्य परमाणोरसम्भवेन तत्त्वायो गात्। किञ्च “षट्केन युगपद्योगात् परमाणोः षडंशतेत्यापत्तिश्च तथाहि दिगवच्छेदेन संयोगे हि पूर्ब्बादिचतुर्द्दिग्भेदेन ऊर्द्धाधोदिग्भेदेन च षट्सु दिक्षु विनिगमनाभावेन युगपद्यीगापत्त्या परमाणोः पडंशतापत्तिस्तेन निरवयवत्वं तस्य न सिध्येत्। वस्तुतः प्राच्यादिव्यवहारस्य उदयगिर्य्यादिसम्बन्धाधीनत्वेन तस्य च सर्गोत्तरकालीनतया तदानीं तद्व्यवहारः सर्वथा न सम्भवत्येवेति दिगवच्छेदेन परेषां संयोगकल्पनं सर्ब्बथाऽयुक्तमेव। अधिकम् अवयविशब्दे ४३३ पृष्ठादौ दृश्यम्

आर(रा)व = पु० आ + रु–अप् पक्षे घञ्। सम्यक्शब्दे। “वानराश्चक्रुरारवम्” रामा०। “उच्छ्रायवान् घनारावो वानरं जलदारवम्” भट्टिः।

आरस्य = न० अरसस्य भावः चतुरादि० ष्यञ्। रसभिन्नत्वे नास्ति रसोयस्य बहु० तु त्वतलौ न ष्यञ्। अरसत्वसरसता वेत्येव “उच्चैरस्यति मन्दतामरसतामिति” चन्द्रा०।

आरा = स्त्री आ + ऋ–अच्। १ चर्म्मभेदकास्त्रभेदे। (टेको) इति ख्याते २ लौहास्त्रे। “आराग्रमात्रो ह्यवरोऽपि दृष्टः” श्रुतिः ३ प्रतोदे च “या पूषन् ब्रह्मचोदनीमारां विभर्ष्यामृणे” ऋ० ६, ५, ८,। “उद्यम्यारामग्रकायोत्थितस्य” माघः। “आरां प्रतोदम्” मल्लिनाथः।

आराग्र = न० आरायाः अग्रम्। १ आरायाः अग्रे “आराग्रमात्रोह्यवरोऽपि दृष्टः” श्रुतिः। “अर्द्ध चन्द्रक्षुरप्रादिधाराग्रं मुखमुच्यते। आराग्रन्तु मुखं तेषां पुष्पपत्रादिभेदतः” इति हलायुधोक्ते २ अर्द्धचन्द्राकारक्षुरप्राद्यस्त्रमुखे च।

आराज्ञी = स्त्री सम्यक् राजते आ + राज–कनिन् ङीप्। देशभेदे धूमा० देशवाचित्वात् वुञ्। आराज्ञकः। तद्देशभवे त्रि०।

आरात् = अव्य० आ + रा षा० आति। १ दूरे, २ समीपे च। आदातुं दयितसिवावगाढमारात्” माघः। “तमर्च्यमारादभिवर्त्तमानम्” रघुः “विचित्रमुच्चैः प्लवमानमारात्” भट्टिः

आराति = पु० आ + रा–क्तिच्। शत्रौ। द्विरूपकोषः।

आरातीय = त्रि० आराद्भवः जातः आगतो वा वृद्धत्वात् छ आराच्छब्दवर्जनात् नाव्ययस्य टिलोपः। १ निकटदूरयोर्भवे २ तत्र जाते ३ ताभ्यामागते च।

आरात्रिक = न० अरात्र्यापि निर्वृत्तं ठञ्। (आरति) नीराजनकर्म्मणि। दीपो हि रात्रावेव प्रदर्श्यते इदं दिनेऽपि दर्श्यते इति तस्य तथात्वम् “ततश्च मूलमन्त्रेण दत्त्वा पुष्पाञ्जलित्रयम्। महानीराजनं कुर्य्यात् महावाद्यजयस्वनैः। प्रज्वालयेत्तदर्थञ्च कर्पूरेण घृतेन वा। आरात्रिकं शुभे पात्रे विषमानेकवर्त्तिकम्” हरि० विलासे तल्लक्षणादि। तस्य देहांशभेदे भ्रामणप्रमाणमपि तत्रोक्तं यथा “आदौ चतुः पादतले च विष्णोर्द्वौ नाभिदेशे मुखमण्डलैकम्। सर्वेषु चाङ्गेषु च सप्त वारान् आरात्रिकं भक्तजनस्तु कुर्य्यात्”। “शिरसि निहितभारं पात्रमारात्रिकस्य म्रमयति मयि भूयस्ते कृपार्द्रः कटाक्षः” चतुःषष्ट्युपचारे शङ्करा०

आराधन = न० आ + राध–ल्युट्। १ पाके, २ संसिद्धौ णिच्ल्युट्। ३ साधने ४ अवाप्तौ ५ तोषणे ६ सेवने तोषणसेवनयोः संसिद्धिहेतुत्वात् तथात्वम् “साध्वसाराधनमपि रमणीयमस्याः” शकु०। “आराधनायास्य सखी समेताम्” कुमा०। आराध्यतेऽनेन णिच्–करणे ल्युट्। ७ सेवासाधने “इदं तु ते भक्तिनम्रं सतामाराधनं वपुः” कुमा०। “सर्व्वत्र दैत्याः। समतामुपेत समत्वमाराधनमच्युतस्य” भाग० प्रह्लादोक्तिः।

आराधना = स्त्री आ + राध–णिच्–युच् स्त्रीत्वात् टाप्। सेवायाम्।

आराधनीय = त्रि० आराधयितुम् शक्यः आ + राध–णिच्शक्यार्थे अनीयर्। आराधनयोग्ये “सोऽहं कथं नाम तवाचरेयमाराधनीयस्य ऋषेर्विघातम्” रघुः।

आराधय = पु० आ + राध–णिच्–बा० श। आराधनकारके ब्राह्म० भावादौ ष्यञ्। आराधय्यम् आराधनकर्तृत्वे न०।

आराधयितृ = त्रि० आ + राध–णिच्–तृच्। १ परिचारके। २ सेवके “नन्वयमेवाराधयिता जनस्तव समीपे वर्तते” शकु०।

आराधित = त्रि० आ + राध–णिच्–क्त। सेविते। “नाराधितोयैः पुरुषः प्रधानः तेषां वृथा जन्म नराधमानाम्” भाग०।

आराम = पु० आरम्यतेऽत्र आ + रम–आधारे घञ्। कृत्रिम वने १ उद्याने “आत्मारामाविहितरतयोनिर्विकल्पे समाधौ” वेणी० आत्माआरामैव। घञन्तस्य पुंस्त्वानु शासनात् क्लीवत्वोक्तिः प्रामादिकी। “वाप्यारामतडागकूपभवनारम्भप्रतिष्ठाव्रतेत्यादि” मुहू० चि०। “क्षेत्रकूपतडागानामारामस्य गृहस्य च” “गृहं तडागमारामं क्षेत्रं वा भीषया हरन्” “तडागारामदाराणामपत्यस्य च विक्रयः” इति च मनुः “जलाशयारामसुरप्रतिष्ठा सौम्यायने जीवशशाङ्कशुक्रे। ऋक्षे मृदुक्षिप्रचरध्रुवे स्यात् पक्षे सिते स्वर्क्षतिथिक्षणे वा रिक्तारवर्ज्ये दिवसेऽतिशस्ता” वृत्तर० टी० उक्ते षोडशभिश्च रगणैराराम इत्युक्ते २ दण्डकभेदे च। आ + रम–भावे घञ्। ३ आरतौ “योऽन्तःसुखोऽन्तरारामः” गीता। अन्तरात्मनि आरामोयस्येति विग्रहः “अघायुरिन्द्रियामोमोघं पार्थ! स जीवति” गीता। आरामकरणप्रकारः” वृहत् सं० उक्तः यथा “प्रान्तच्छायाविनिर्मुक्ता न मनोज्ञा जलाशयाः। यस्मादतो जलप्रान्तेष्वारामान् विनिवेशयेत्। मृद्वी भूः सर्ववृक्षाणां हिता तस्यां तिलान् वपेत्। पुष्पितांस्तांश्च गृह्णीयात् कर्म्मैतत्प्रथमं भुवि। अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः। मङ्गल्याः पूर्वमारामे रोपणीया गृहेषु वा। पनसाशोककदलीजम्बूलकुचदाडिमाः। द्राक्षापालीवताश्चैव वीजपूराति मुक्तकाः। एते द्रुमाः काण्डरोप्या गोमयेन प्रलेपिताः। मूलच्छेदेऽथवा स्कन्धे रोपणीयाः प्रयत्नतः। अजातशाखाञ्छिशिरे जातशाखान् हिमागमे। वर्षागमे च सुस्कन्धान् यथादिक् प्रतिरोपयेत्। घृतोशीरतिलक्षौदविडङ्गक्षीरगोमयैः। आमूलस्कन्धलिप्तानां कुङ्कुमेन विरोपणम्। शुचिर्भूत्वा तरोः पूजां कृत्वा स्नानानुलेपनैः। रोपयेद्रोपितश्चैव पत्रैस्तैरेव जायते। सायं प्रातश्च घर्म्मान्ते, शीतकाले दिनान्तरे। वर्षासु च भुवः शोषे सेक्तव्या रोपिता द्रुमाः। जम्बूवेतसवानीरकदम्बोदुम्बरार्जुनाः। बीजपूरकमृद्वीकालकुचाश्च सदाडिमाः। वञ्चुलो नक्तमालश्च तिलकः पनसस्तथा। तिमिरोऽम्रातकश्चैव षोडशानूपजाः स्मृताः। उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम्। स्थानात्, स्थानान्तरं कार्य्यं वृक्षाणां द्वादशान्तरम्। अभ्यासजातास्तरवः संस्पृशन्तः परस्परम्। पत्रैर्मूलैश्च न फलं सम्यग्यच्छन्ति पीडिताः। शीतवातातपैरोगो जायते पाण्डुपत्रता। अवृद्धिश्च प्रवालानां शाखाशोषो रसस्रुतिः। चिकित्सितमथैतेषां शस्त्रेणादौ विशोधनम्। विडङ्गघृतपङ्काक्तान् सेचयेत् क्षीरवारिणा। फलनाशे कुलत्थैश्च माषैर्मुद्गैस्तिलैर्यवैः। शृतशीतपयःसेकः फलपुष्पाभिवृद्धये। अविकाजशकृच्चूर्णस्याढके द्वे तिलाढकम्। सक्तुप्रस्थो जलद्रोणो गोमांसं तुलया सह। सप्तरात्रोषितैरेतैः सेकः कार्यो वनस्पतेः। वल्लीगुल्मलतानां च फलपुष्पाय सर्वदा। वासराणि दश दुग्धभावितं बीजमाज्ययुतवस्तयोजितम्। गोमयेन बहुशो विरूक्षितं क्रौडमार्गपिशितैश्च धूपितम्। मत्स्यशूकरवसासमन्वितं रोपितं च परिकर्मितावनौ। क्षीरसंयुतजलावंसेचितं जायते कुसुमयुक्तमेव तत्। तिन्तिडीत्यपि करोति वल्लरीं व्रीहिमाषतिलचूर्ण्णसक्तुभिः। पूतिमांससहितैश्च सेचिता धूपिता च सततं हरिद्रया। कपित्थतल्लीकरणाय मूलान्यास्फोतधात्रीधवबासकानाम्। पलाशिनीवेतससूर्य्यवल्लीश्यामातिमुक्तैः सहिताष्टमूली। क्षीरे शृते चाप्यनया सुशीते नालाशताख्यं तु कपित्थबीजम्। दिने दिने शोषितमर्कपाकैर्मासं विधिस्त्वैष ततोऽधिरोप्यम्। हस्तायतं तद्द्विगुणं गभीरं खात्वाऽ वटं प्रोक्तजलावपूर्ण्णम्। शुष्कं प्रदग्धं मधुसर्पिषा तत् प्रलेपयेद्भस्मसमन्वितेन। चूर्ण्णीकृतैर्माषतिलैर्यवैश्च प्रपूरयेन्मृत्तिकयान्तरस्थैः। मत्स्यामिषाम्भःसहितं च हन्याद् यावद्घनत्वं समुपागतं तत्। उप्तं च बीजं चतुरङ्गुलाधो मत्स्याम्भसा मांसजलैश्च सिक्तम्। वल्ली भवत्याशु शुभप्रबाला विस्मापनी मण्डपमावृणोति। शतशोऽङ्कोल्लसम्भूतफलकल्केन भावितम्। एतत्तैलेन वा वीजं श्लेष्मातकफलेन वा। वापितं करिकोन्मिश्रं मृदि तत्क्षणजन्मकम्। फलभारान्विता शाखा भवतीति किमद्भुतम्। श्लेष्मातकस्य बोजानि निष्कुलीकृत्य भावयेत्प्राज्ञः। अङ्कोल्लहिज्जलाद्भिश्छायायां सप्त कृत्वैवम्। माहिषगोमय- घृष्टान्यस्य करीषे च तानि निक्षिप्य। करकाजलमृद्योगे न्युप्तान्यह्ना फलकराणि। ध्रुवमृदुमूलविशाखा गुरुभं श्रवणस्तथाश्विनी हस्तम्। उक्तानि दिव्यदृग्भिः पादपसंरोपणे भानि”।

आरामशीतला = स्त्री आरामे तन्मध्ये शीतला। सुगन्धिपत्रयुक्ते वृक्षभेदेराजनि० “आरामशीतला तिक्ता शीतला पित्तहारिणी” वैद्य०।

आरामिक = त्रि० आरामे तद्रक्षणे नियुक्तः ठक्। उद्यानपाले

आराल = त्रि० ईषदरालम् प्रा० स०। ईषत्कुटिले तारका० इतच्। आरालितः ईषत्कुटिलिते त्रि०।

आरालिक = त्रि० अरालं कुटिलं चरति ठक्। १ पाचके २ कुटिलचारिणि च। धनलोभेन परप्रेरितोहि पाचकोविषादिसंसृष्टं पचतीति तस्य कुटिलचारित्वम्। अतोराज्ञा यथाभूता पाचकानियोज्यास्तद्दर्शितम् सुश्रुते यथा “रिपवो विक्रमाक्रान्ता ये च स्वेऽकृत्यतां गताः। सिसृक्षवः क्रोधविषं विवरं प्राप्य तादृशम्। विषैर्निहन्युर्निपुणं नृपतिं दुष्टचेतसः। स्त्रियो वा विविधान् योगान् कदाचित्सुभगेच्छया। विषकन्योपयोगाद्वा क्षणाज्जह्यादसून्नरः। तस्माद्वैद्येन सततं विषाद्रक्ष्यो नराधिपः। यस्माच्च चेतोऽनित्यत्वमश्ववत् प्रथितं नृणाम्। न विश्वस्यात्ततो राजा कदाचिदपि कस्यचित्। कुलीनं धार्म्मिकं स्निग्धं सुभृतं सततोत्थितम्। अलुब्धमशठं भक्तं कृतज्ञं प्रियदर्शनम्। क्रोधपारुष्यमात्सर्य्य मदालस्यविवर्जितम्। जितेन्द्रियं क्षमावन्तं शुचिं शीलदयान्वितम्। मेधाविनमसंश्रान्तमनुरक्तं हितैषिणम्। पटुं प्रगल्भं निपुणं दक्षं मायाविवर्ज्जितम्। पूर्ब्बोक्तैश्च गुणैर्युक्तं नित्यं सन्निहितागदम्। महानसे प्रयुञ्जीत वैद्यं तद्विद्यपूजितम्। प्रसन्नदिग्देशकृतं शुचिभाण्डं महच्छुचि। सजालकं गवाक्षाद्यमात्मवर्गनिषेवितम्। विकक्षसृष्टसंसृष्टं सवितानं कृतार्च्चनम्। परीक्षितस्त्रीपुरुषं भवेच्चापि महातसम्। तत्राध्यक्षं नियुञ्चीत प्रायोवैद्यगुणान्वितम्। शुचयो दक्षिणा दक्षा विनीताः प्रियदर्शनाः। संविभक्ताः सुमनसो नीचकेशनखाः स्यिराः। स्नाता दृढं संयमिनः कृतोष्णीषाः सुसंयताः। तस्य चाज्ञाविधेयाः स्युर्विविधाः परिकर्म्मिणः। आहारस्थितयश्चापि भवन्ति प्राणिनो यतः। तस्मान्महानसे वैद्यः प्रमादरहितो भवेत्। माहानसिकवोढारः सौपौदनिकपौपिकाः। भवेयुर्वैद्यवशगा ये चाप्यन्ये तु केचन। इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः। विद्याद्विषस्य दातारमेभिर्लिङ्गैश्च बुद्धिमान्। न ददात्युत्तरं पृष्टो विवक्षन् मोहमेति च। अपार्थं बहु सङ्कीर्णं भाषते चापि मूढवत्। स्फोटयत्यङ्कुलीर्भूमिमकस्माद्विलिखेद्वसेत्। वेपथुर्जायते तस्य त्रस्तश्चान्योऽन्यमीक्षते। क्षामो विवर्णवक्त्रश्च नखैः किञ्चिच्छिनत्त्यपि। आलभेतासकृद्दीनः करेण च शिरोरुहान्। निर्यियासुरपद्वारैर्वीक्षते च पुनः पुनः। वर्त्तते विपरीतस्तु विषदाता विचेतनः। केचिद्भयात् पार्थिवस्य त्वरिता वा तदाज्ञया। असतीमपि सन्तीऽपि चेष्टां कुर्व्वन्ति मानवाः। तस्मात् परीक्षणं कार्य्यं भृत्यानामादितो नृपैः। अन्ने पाने दन्तकाष्ठे तथाभ्यङ्गेऽवलेखने। उत्सादने कषाये च परिषेकेऽनुलेपने। स्रक्षु वस्त्रेषु शय्यासु कवचाभरणेषु च। पादुकापादपीठेषु पृष्ठेषु गजवाजिनाम्। विषजुष्टेषु चान्येषु नस्यधूमाञ्जनादिषु। लक्षणानि प्रवक्ष्यामि चिकित्सामप्यनन्तरम्। नृपभक्ताद्घलिं न्यस्तं सविषं भक्षयन्ति ये। तत्रैव ते विनश्यन्ति मक्षिकावायसादयः। हुतभुक्तेन चान्नेन भृशं चटचटायते। मयूरकण्ठप्रतिमो जायते चापि दुःसहः। भिन्नार्च्चिस्तीक्ष्णधूमश्च न चिराच्चोपशाम्यति। चकोरस्याक्षिवैराग्यं जायते क्षिप्रमेव तु। दृष्ट्वान्नं विषसंसृष्टं म्रियन्ते जीवजीवकाः। कोकिलः स्वरवैकृत्यं क्रौञ्चस्तु मदमृच्छति। हृष्येन्मयूरौद्विग्नः क्रोशतः शुकसारिके। हंसः क्षेडति चात्यर्थं भृङ्गराजस्तु कूजति। पृषतो विसृजत्यश्रु विष्ठां मुञ्चति मर्क्वटः। सन्निकृष्टांस्ततः कुर्य्याद्राज्ञस्तान् मृगपक्षिणः”।

आराविन् = त्रि० आरौति आ + रु–णिनि। सम्यक्शब्दकारके उच्चैःशब्दकारके स्त्रियां ङीप्।

आरित्रिक = त्रि० अरित्रे भवादि काश्या० ष्ठञ् ञिठ् वा। अरित्रभवादौ स्त्रियां ष्ठञि ङीष् ञिठि टाप्।

आरिन्दमिक = त्रि० अरिन्दमे भवादि ष्ठञ् ञिठ् वा। अरिन्दमभवादौ स्त्रियां ष्ठञि ङीष् ञिठि टाप्।

आरिष्मीय = त्रि० रिष–हिंसे मन् न० त० अरिष्मः अहिंसकः तस्य सन्निकृष्टदेशादौ कृशा० छण्। अहिंसकसन्निकृष्टदेशादौ।

आरीहणक = त्रि० अरीहणेन निर्वृत्तं अरीहणादि० वुञ्। शत्रुघातकनिर्वृत्ते अरीहणेति गणपाठे निर्द्देशात् दीर्घः।

आरु = पु० ऋ–उण्। १ वृक्षभेदे, २ कर्कटे, ३ शूकरे, च।

आरुज = त्रि० आरुजति आ + रुज–क। १ सम्यक्पीडके, २ आभिमुख्येन हन्तरि च “विद्मा हित्वा धनञ्जयमिन्द्र! दृढा चिदारुजम्” ऋ० ८ ४५, १३। “आरुजं शत्रूणामाभिमुख्येन मङ्क्तारम्” भा०। रावणपक्षीये २ राक्षसभेदे पु०। “पर्व्वणः पतनोजम्भः खरः क्रोधवशो हरिः। प्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः” भा० व० २८४ अ०।

आरुणक = त्रि० अरुणदेशे भवादि धूमा० वुञ्। अरुणदेशभवादौ।

आरुणि = पु० अरुणस्यापत्यम् इञ्। १ उद्दालके गौतमे मुनौ “उद्दालकोहारुणिः श्वेतकेतुं पुत्रमुवाच” छा० उ०। २ वैशम्पायनान्तेवासिभेदे। तस्यान्तेवासिनश्च आलम्ब लङ्ग कमल रुचाभारुणि ताण्ड्यश्यामायन कठ कलापिनोनवेति बोध्यम्। तेनाधीतं णिनि। ब्राह्मणे तस्य लुक्। आरुणिः। ३ सामवेदब्राह्मणभेदे आयोदधोम्यशिष्ये ४ मुनिभेदे आयोदशब्दे उदा० ५ अरुणमुनेरपत्ये पुंस्त्री स्त्रियां ङीप्। “यदारुणीषु तावषीरयुग्ध्वम्” ऋ० १, ६४, ७। अरुणस्येदम् इञ्। ६ अरुणसम्बन्धिनि अरुणस्य सूर्य्यस्यापत्यम् इञ्। ७ अरुणतनये अरुणसुतशब्दोक्ते यमादौ। अरुणस्यायमनुजातत्वात् इञ्। अरुणानुजे विनतायाः ८ सुतभेदे। “तार्क्ष्य श्चारिष्टनेमिश्च गरुडश्च महाबलः। अरुणश्चारुणिश्चैव विनतायाः सुताः स्मृताः” हरिवं ० २२६ अ० “अरुणश्चारुणिश्चैव तस्य प्राञ्जलयः स्थिताः” हरिवं० २६१ अ०। अ रुणस्य गरुडाग्रजस्यापत्यम् इञ्। ९ गरुडाग्रजस्यापत्ये पुंस्त्री। स्त्रियां ङीप्।

आरुणिन् = पु० ब० व० आरुणिना वैशम्पायनान्तेवासिना प्रोक्तमधीयते णिनि। वैशम्पायनान्तेवासिविशेषेण आरुणिना प्रोक्ताध्यायिषु।

आरुणेय = पु० आरुणेरुद्दालस्यापत्यम् ढक्। उद्दालकपुत्रे श्वेतकेतौ। “उद्दालकोहारुणिः श्वेतकेतुं पुत्रमुवाचेति” छा० उ० “श्वेतकेतोरुद्दालकपुत्रत्वोक्तेस्तथात्वम्” “श्वेतकेतुरारुणेयः कं स्विदेवापरीषु” “श्वेतकेतुरारुणेयोब्रह्मचारी” “श्वेतकेतुनारुणेयेन” इति च शत० ब्रा०।

आरुत = न० आ + रु–भावे क्त। आरावे “शकुनं वायसारुतम्” शकुनशा०। कर्तरि क्त। २ आरावयुक्ते त्रि०।

आरुद्ध = त्रि० आ + रुध–क्त। प्रतिरुद्धे निरुद्धे वादिना कृतगति प्रतिरोधे प्रतिवादिनि।

आरुरुक्षु = त्रि० आरोढुमिच्छति आ + रुह–सन्–उ। आरोढुमिच्छौ “आरुरुक्षोर्मुनेर्योगः कर्म्म कारणमुच्यते” गीता “कैलासगौरं वृषमारुरुक्षोः”। “समारुरुक्षुर्दिवमायुषः क्षये” इति च रघुः।

आरुषी = स्त्री मनोः कन्याभेदे च्यवनपत्न्याम्। तत्कथा “तस्मिन्नियुक्ते विधिना योगक्षेमाय भार्गवे। अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम्। च्यवनं दीप्ततपसं धर्मात्मानं यशस्विनम्। यः सरोषाच्च्युतोगर्भान्मातुर्मोक्षाय भारत!। आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः। और्व्वस्तस्यां समभवदूरुं भित्त्वा महायशाः” भा० आ० ६६ अ०।

आरुषीय = त्रि० अरुषः व्रणस्य सन्निकृष्टदेशादिः कृशा० छण्। व्रणसन्निकृष्टदेशादौ।

आरुह = त्रि० आ + रुह–क। आरोहणकर्त्तरि।

आरू = पु० ऋ–ऊ–णिच्च। १ पिङ्गलवर्ण्णे २ तद्युक्ते त्रि०। आरुशब्दार्थे ३ कर्कटशूकरादौ च। ततः संज्ञायां कन्। (आडु) हिमाचलप्रसिद्धौषधीभेदे च।

आरूढ = त्रि० आ + रुह–कर्त्तरि क्त। १ आरोहणकर्त्तरि “आरूढो नैष्ठिकं धर्मंयस्तु प्रच्यवते पुनः। प्रायश्चित्तं न पश्यामि येन शुध्येत् स आत्महा” स्मृतिः “योगारूढस्य तस्यैव शमः कारणमुच्यते” गीता। “अत्यारूढो हि नारीणामकालज्ञोमनोभवः” रघुः। २ उत्पन्ने “तदागमारूढगुरुप्रहर्षः” रघुः “आरूढ उत्पन्नः” मल्लि०। कमणि क्त। यत्रारोहणं कृतं तस्मिन् ३ कृतारोहणे प्रासादादौ “आरूढकविताशाखं वन्दे वाल्मीकिकोकिलम्” रामा० भावे क्त। ४ आरोहणे न० “अत्यारूढं रिपोः सोढं चन्दनेनेव भोगिनः” रघुः।

आरूढि = स्त्री आ + रुह–क्तिन्। आरोहणे। “अत्यारूढिर्भवति महतामप्यपभ्रं शनिष्ठा” शकु०।

आरेक = पु० आ + रिच–घञ्। १ आकुञ्चने २ अतिरेके च।

आरेचित = त्रि० आ + रिच–णिच्–क्त। ईषदाकुञ्जिते “आरेचितभ्रूचतुरैः कटाक्षैः” कुमा०।

आरेवत = पु० आरेवयति रेचयति मलं आ + रेव–णिच्–अतच्। अत्यन्तसारकफलके (सोन्दाल) १ आरग्बधवृक्षे तस्य फलम् अण् तस्य णुक्। २ तत्फले न०। तयोर्गुणादि आरग्बधशब्दे ७९४ पृष्ठे उक्तम्।

आरोग्य = न० अरोगस्य भावः ष्यञ्। रोगशून्यत्वे “आरोग्यं वित्तसम्पत्तिर्गङ्गास्मरणजं फलम्” प्रा० त० पु० वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च” मनुः। “धर्मार्थकाममोक्षाणामारग्यं साधनं यतः” वैद्य०।

आरोग्यव्रत = न० आरोग्यार्थं व्रतम्। वराहपुराणोक्ते माघशुक्लसप्तमीमारभ्य वत्सरपर्य्यन्तं प्रतिशुक्लसप्तमीतिथि कर्त्तव्ये सूर्य्यव्रतभेदे। यथा “अतःपरं महाराज! व्रतमारोग्यसंज्ञितम्। सितायां माघमासस्य सप्तम्यां समुपोषितः” इत्युपक्रम्य “षष्ठ्याञ्चैव कृताहारः सप्तम्यामुपवासकृत्। अष्टम्याञ्चैव भुञ्जीत एष एव विधिर्मतः। अनेन वत्सरं पूर्णं विधिना योऽर्च्चयेद्रविम्। तस्यारोग्यं धनं धान्यमिह जन्मनि जायते” हेमा० ब्र० वरा० पु० इदमारोग्यसप्तमीव्रतत्वेन तत्रोक्तम्।

आरोग्यशाला = स्त्री आरोग्यार्था शाला शा० त०। चिकित्सार्थे राजादिकारिते गृहभेदे तत्करणप्रकारो वैद्यके उक्तो यथा “धर्मार्थकाममोक्षाणामारोग्यं साधनं यतः। अतस्त्वारोग्यदाता च नरो भवति सर्वदः। आरोग्यशालां कुर्वीत महौषधपरिच्छदाम्। विदग्धवैद्यसंयुक्तां बह्वन्नरससंयुताम्। वैद्यस्तु शास्त्रवित् प्राज्ञो दृष्टौषधपराक्रमः। ओषधीमूलतत्त्वज्ञः समुद्धरणकालवित्। बलवीर्य्यविपाकज्ञः शालिमांसौषधीगणे। त्यागिवद्देहिनां तद्वदनुकूलःप्रियंवदः”

आरोग्यस्नान = न० आरोग्ये रोगशून्यत्वे तन्निमित्तकं स्नानम्। रोगनिर्मुक्तौ कर्त्तव्ये स्नाने तत्र नक्षत्रादिकमुक्तं ज्यो० त०। “व्यादित्येषु चरेषु शक्रदिनकृत्पुष्योग्रचन्द्रेषु च क्रूराहव्यतिपातविष्टिदिवसेष्विन्दावशस्ते तथा। केन्द्रस्थेष्वशुभेषु कामतिथिषु स्नानं गदोन्भुक्तितः शस्त्रं तत्र न शोभनारविभुजङ्गर्क्षेन्दुसद्वासाराः” भुज० भीम० प०।

आरोधन = न० आ + रुध–भावे ल्युट्। १ अवरोधने २ निरोधे “मध्य आरोधनं दिवः” ऋ० १, १०५, ११। ल्यु। ३ आरोधके त्रि० आरुध्यते कर्म्मणि ल्युट्। ४ आरोधनीये। करणेल्युट्। ५ आरोधनसाधने “विदुष्टरोदिव आरोधनानि” ऋ० ४, ७, ८। “आरोधनानि आरोधनसाधनानि” भा०।

आरोप = पु० आ + रुह–णिच् करणे ल्युट्। अन्यपदार्थे अन्यधर्म्मस्यावभासरूपे मिथ्याज्ञाने। यस्मिन् यो धर्मोनास्ति तादृशधर्मस्य तत्र बुद्ध्या अर्पणाद्बुद्धेस्तथात्वम्। यथा शुक्तौ रजतत्वं तत्तादात्म्यं वा नास्ति बुद्ध्या च तत्र तयोरवगाहनेन तद्धर्म्मस्यारोपणं क्रियते इति तस्या आरोपत्वम्। तथा च अतद्वति तत्प्रकारकज्ञानमारोपः इति नैयायिकाः सचाध्यास इति वेदान्तिनः अध्यासे कारणमेव तत्र कारणम् तच्च अध्यासशब्दे १४० पृष्ठे विवृतम् स च द्विविधः आहार्यः अनाहार्य्यश्च यत्र बाधनिश्चयसत्त्वेऽपि इच्छया तथाज्ञानम् स आहार्य्यः। स च इच्छाप्रयोज्य एव इतरबुद्धेर्बाधनिश्चयप्रतिबध्यत्वात्। स च प्रत्यक्षैव शाब्दोऽपि यथा मुखं चन्द्रं इति रूपकयुक्तवाक्यजबोधः तत्र हि मुखे चन्द्रत्वाभावनिश्चयेऽपि चन्द्राभेदेन मुखस्य बोधनादाहार्य्यत्वम्। “परोक्षज्ञानमनाहार्य्यं निश्चयश्चेति सिद्धान्त” इति प्रवादस्तु शाब्दबोधातिरिक्तपरः। एतदभिप्रायेणैव “रूपकं रूपितारोपादित्यादिकं रूपकलक्षणम्” सारोपात्मकलक्षणाभेदकथनञ्च सा० दर्पणोक्तं वेदितव्यम् यथा। “विषयस्यानिगीर्णस्यान्यतादात्म्यप्रतीतिकृत् सारोपा स्यात्” इति सा० द०। “विषयस्यारोप्यस्य अनिगीर्ण्णस्य स्फुटतया प्रतिभासमानस्यान्यतादात्म्यस्याभेदस्य प्रतीतिजनकत्वेन लक्षणायाः सारोपात्वम्। “आरोपे सति निमित्तानुसरणं न तु निमित्तमस्तीत्यारोपः इति” चिन्ता०। “एवं वस्तुन्यवस्त्वारोपः इति” वेदान्तसारः।

आरोपक = पु० आ + रुह–णिच्–ण्वुल्। वृक्षादीनां वापके “गृहसंवेशकोदूतो वृक्षारोपक एव च” मनुः।

आरोपण = पु० आ + रुह–णिच्–ल्युट्। १ आरोपशब्दार्थे २ आरोहणसम्पादने च। “आर्द्राक्षतारोपणमन्वभूताम्” कुमा० रघुश्च।

आरोपित = त्रि० आ + रुह–णिच्–क्त। यस्यारोहण कारितं १ तादृशे पदार्थे। “आरोपितं यद् गिरिशेन पश्चात्” “तं देशमारोपितपुष्पचापः” इति च कुमा० २ आसञ्जिते च। “आरोपितपर्याणञ्च त्वरिततुरगपरिचारकोपनीतमिन्द्रायुधम्” काद०।

आरोपणीय = त्रि० आ + रुह–णिच्–अनीयर्। आरोपार्हे आरोप्ये वस्तुनि

आरोप्य = त्रि० आ + रुह–णिच्–कर्मणि यत्। १ आरोपणीये यथा मुखं चन्द्र इत्यादौ मुखे चन्द्रत्वमारोप्यम्। २ अध्यासविषये च इयांस्तु भेदः आरोप्यसन्निकृष्टस्थाने अन्यथाख्यातिः यथा जवासन्निकृष्टे स्फटिकादौ लोहित्यस्य भ्रान्तिः तदसन्निकृष्टस्थले तु अध्यासः असत्ख्यातिरेव यथा इदं रजतमित्यादौ वेदान्तिनः। वे० प० विवरणं दृश्यम्। नैयाकास्तु उभयत्रान्यथाख्यातिः।

आरोह = पु० आ + रुह–घञ्। १ आक्रभणे २ नीचस्थानादूर्द्धदेशगमने ३ अङ्कुरादिप्रादुर्भावे शब्दच० ४ गजवाजिना मुपरिगमने ५ दीर्घत्वे ६ उच्चत्वे च ७ नितम्बे। “वरारोहा मत्तकाशिन्युत्तमा वरवर्ण्णिनी” इत्यमरः “सारमानवरारोहा” उद्भटः। “आरोहैर्निविडवृहन्नितम्बविम्बैः” माघः।

आरोहक = त्रि० आ + रुह–ण्वुल्। आरोहण कर्त्तरि।

आरोहण = न० आ + रुह–ल्युट्। १ नीचस्थानादूर्द्धस्थानगमने “आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम्” कुमा० ३ अङ्कुरादिप्रादुर्भावे च आरुह्यतेऽनेन करणे ल्युट्। सोपाने च “आरोहणं स्यात् सोपानम्” अमरः।

आरोहणीय = त्रि०। आरोहणं प्रयोजनमस्य अनुप्र० छ। १ आरोहणसाधने पदार्थे। आ + रुह–कर्मणि अनीयर्। आरोढुं योग्ये २ हयादौ।

आरोहवत् = त्रि० आरोहोविशिष्टनितम्बस्थानमस्त्यस्य मतुप् पक्षे इनि। प्रशस्तनितम्बयुक्ते स्त्रियां ङीप्।

आरोहिन् = त्रि० आ + रुह–णिनि। १ आरोहणकर्त्तरि नीचादूर्द्धस्थानगामिनि स्त्रियां ङीप्। सा च ग्रहाणां १ नक्षत्र दशाभेदे। सा च अवरोहिशब्दे ४४३ पृष्ठे लक्षितलक्षणा। ग्रहविशेषाणामारोहिण्याः दशायाः फलमुक्तं सर्व्वा० चि० यथा।सूर्य्यस्य “आरोहिणी वासरनायकस्य दशा महत्त्वं कुरुते च सौख्यम्। परोपकारं सुतदारभूमिं गोवाजिमातङ्गकृषिक्रियादीन्”।चन्द्रस्य “आरोहिणी चन्द्रदशा प्रपन्ना स्त्रीपुत्रवित्ताम्बरसौख्यकान्तिम्। करोति राज्यं सुखभोजनञ्च देवार्चमं भूसुर तर्पणञ्च”।कुजस्य “आरोहिणी भूमिमुतस्य सौख्यं दशा तनोत्यत्र नरेशपूजाम् प्रधानतां धैर्य्यमनोभिलाषं भाग्योत्तरं गोगजवाजिसंघम्”बुधस्य “आरोहिणी सौम्यदशा प्रपन्ना यज्ञोत्सवं गोवृषवाजि संघम्। मृद्वन्नभूषाम्बरपानलाभं बाणिज्यभूम्यर्थपरोपकारम्”गुरोः “आरोहिणी देवगुरोर्महत्त्वं दशा प्रपन्ना कुरुतेऽर्थभूमिम् गानक्रिंयास्त्रीसुतराजपूजां स्ववीर्य्यतः प्राप्तयशःप्रतापम्”।शुक्रस्य “आरोहिणी शुक्रदशा प्रपन्ना धामाम्बरालङ्कृतिकान्तिपूजाम्। प्रवृत्तिसिद्धिं स्वजनैर्विरोधं मातुर्दिनाशं परदारसङ्गम्”। कुरुते इत्यनुषङ्गः सर्व्वत्र।शनेः “आरोहिणी वासरनाथसूनीर्दशा विपाके नृपलब्धभाग्यम्। बाणिज्यलाभं कृषिभूमिलाभं गोवाजिलाभं सुतदारलाभम्”।

आर्कलूष = पु० अर्कलूषस्य ऋषिभेदस्यापत्यम् विदा० अञ्। अर्कलूषापत्ये स्त्रियां ङीप्। ततोयूनि अपत्ये हरिता० फञ्। आर्कलूषायणः। तदृषेर्यून्यपत्ये।

आर्कलूषि = पुंस्त्री अर्कलूषस्यापत्यं बाह्वा० इञ्। अर्कलूषर्षेरपत्ये।

आर्कायण = त्रि० अर्कस्य गोत्रम् हरिता० फञ्। अर्कस्य १ गोत्रे। ततः चतुरर्थ्यां अश्वा० फिञ्। आर्कायणिः तत्सन्निकृष्टदेशादौ० त्रि० अर्कस्यायनाय सूर्य्यलोकस्य प्राप्तये हितम् अण् पूर्ब्बपदादिति णत्वम्। सूर्यलोकगतिसाधने २ यज्ञादौ। “आर्कायणैः षोडशभिश्च ब्रह्मंस्तेषां फलेनेह च नागतोऽस्मि” भा० आनु० १०४ अ०।

आर्कि = पु० अर्कस्यापत्यम् इञ्। अर्कपुत्रे १ यमे २ शनौ, ३ वैवस्वतमनौ ४ सुग्रीवे ५ कर्ण्णे च अर्कसुतशब्दे तत्सुतत्वकथा।

आर्क्षोद = पु० ऋक्षोदः पर्व्वतोऽभिजनोऽस्य अण्। ऋक्षोदपर्व्वतस्थाने पित्रादिक्रमेण वासिनि द्विजभेदे सि० कौ०।

आर्क्ष = त्रि० ऋक्षस्येदम् अण्। नाक्षत्रदिनादौ स्त्रियां ङीप्।

आर्क्ष्य = त्रि० ऋक्षे भवः गर्गा० यञ्। नक्षत्रभवे स्त्रियान्तु लोहिता० ष्फः षित्वात् गौरा० ङीष्। आर्क्ष्यायणी

आर्गय(ण)न = त्रि० ऋगयनस्य व्याख्यानोग्रन्थः तत्र भवो वा अण् गिरिनद्या० वा णत्वम्। १ ऋगयनव्याख्याने ग्रन्थे २ तत्रभवे च।

आर्गल = स्त्री० न० अर्गलमेव स्वार्थे अण् स्त्रीत्वे ङीप्। अर्गल शब्दार्थे द्वाररोधककाष्ठभेदे द्विरूपकोषः।

आर्गबध = पु० आरग्बध + पृषो०। आरग्बधवृक्षे (सोन्दाल) शब्दच०।

आर्घा = स्त्री आ + अर्घ–अच्। पीतवर्ण्णायां दीर्घतुण्डायां षट्पदाभायां मधुमक्षिकायाम् राजनि० आर्घ्यशब्दे विवृतिः।

आर्घ्य = न० आर्घया निर्वृत्तं यत्। १ आर्घाख्यमक्षिकानिष्पादिते २ जरत्कार्य्याश्रममधूकवृक्षनिर्य्यासरूपे च मधुनि। तद्विवृतिः भाव० प्र० “मधूकवृक्षानिर्य्यासं जरत्कार्य्याश्रमोद्भवाः। स्रवन्त्यार्घ्यं तदाख्यातं श्वेतकं मालवे पुनः। तीक्ष्णतुण्डास्तुयाः पीता मक्षिकाः षट्पदोपमाः। आर्घास्तास्तत्कृतं यत् स्यादांर्घ्यमित्यपरे जगुः। आर्घ्यं मध्वतिचाक्षुष्यं कफपित्तहरं परम्। कषायकटुकं पाके तिक्तञ्च बलपुष्टिदम्”।

आर्च = त्रि० अर्चाऽस्त्यस्य श्रद्धार्चाभ्योणः” पा० ण। अर्चायुक्ते

आर्चभिन् = पु० ब० व० ऋचाभेन वैशम्पायनान्तेवासिभेदेन प्रोक्तमधीयते णिनि। ऋचाभेन प्रोक्ताध्यायिषु। “कार्त्तकौजपादि० आर्चाभिनोमौद्गला इत्यत्र पूर्व्वपदप्रकृतिस्वरत्वम्।

आर्चायण = त्रि० ऋचिभवः नडा० फक्। ऋचिभवे सामादौ।

आर्चिक = त्रि० ऋचि भवः ऋचो व्याख्यानो ग्रन्थो वा ठञ्। ऋचिभवे १ सामभेदे २ तद्ग्रन्थभेदे च तत्र हि ऋचि योनौ तत्तत् साम गीतमिति तस्य तथात्वम् यथा आर्चिकः उत्तरार्चिकः एष च सामवेदग्रन्थभेदः। ३ तद्व्याख्याने ग्रन्थे च।

आर्चीक = त्रि० ऋचीके पर्व्वते भवः अण्। १ ऋचीकपर्व्वतभवे स्वार्थे अण्। २ तत्पर्व्वते च। स च पर्व्वतः पुष्करतीर्थ सन्निकृष्टः यथोक्तं भा० व० १२५ अ०। “पुष्करेषु महाराज! सर्व्वेषु च जलं स्फृश। स्थाणो र्मन्त्रा- णिचजपन सिद्धि प्राप्स्यसि भारत!। सन्धिर्द्वयोर्नरश्रेष्ठ त्रेताया द्वापरस्य च। अयं हि दृश्यते पार्थ! सर्व्वपाप प्रणाशनः। अत्रोपस्प श चैव त्वं सर्व्वपापप्रणाशने। आर्च्चीकः पर्व्वतश्चैष निवासोऽत्र मनीषिणः। सदाफलः सदास्रोतो मरुतां स्थानमुत्तमम। चैत्याश्चैते बहुविधास्त्रिदशानां युधिष्ठिर!। एतच्चन्द्रमसस्तीर्थमृषयः। पर्युपासते। वैखानसा बालखिल्याः पावका वायुभोजनाः। शृङ्गाणि त्रीणि पुण्यानि त्रीणि प्रस्रवणानि च। सर्व्वाण्यनु परिक्रम्य यथाकाममुपस्पृश। शान्तनुश्चात्र राजेन्द्रः शुनकश्च नराधिपः। नरनारायणौ चोभौ स्थानं प्राप्ताः सनातनम्। इह नित्यशया देवाः पितरश्च महर्षिभिः आर्च्चीकपर्व्वते तेपुस्तान् यजस्व युधिष्ठिर!। इह ते वै चरून् प्राश्नन्नृषयश्च विशाम्पते!। यमुना चाक्षयस्रोताः कृष्णश्चेहं तपोरतः। यमौ च भीमसेनश्च कृष्णा चामित्र कर्षण!। सर्व्वे चात्र गमिष्यामस्त्वयैव सह पाण्डव!। एतत् प्रस्रवणं पुण्यमिन्द्रस्य मनुजेश्वर!। यत्र धाता विधाता च वरुणश्चोर्द्ध्वमागताः। इहतेऽप्यवसन् राजन्! क्षान्ताः परमधर्म्मिणः। मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः। एषा सा यमुना राजन्! महर्षिगणसेविता। नानायज्ञचिता राजन्! पुण्या पापभयापहा”

आर्जव = न० ऋजोर्भावः अण्। १ सरलतायां “दूरं यात्युदरञ्च रोमलतिका नेत्रार्जवं धावति” सा० द० २ परप्रतारणाराहित्ये सारल्यं च दैहिकं मानसञ्च। तत्र दैहिकं कुटिलसंयोगराहित्यम्। मानसञ्च बाह्याभ्यन्तरे विहितनिषिद्धयो रेकरूपप्रवृत्तिनिवृत्तिमत्त्वम् बाह्ये यथा प्रवृत्तिनिवृत्ती अन्तरेऽपि तथैव न पुनः अन्तरस्थं भावमप्रकाश्य बाह्ये अन्यथापादनम्। तथा स्वाधिगतार्थागोपनेन यथाज्ञातार्थप्रकाशनञ्च मानसं सारल्यं वाचिकमार्जवमपि मनोधीनत्वात् मानसमेव आर्ज्जवं च समचित्तत्वेन लक्षितम्। आ० त० भारतवाक्येन। “क्षमा द्वन्द्वसहिष्णुत्वमार्जवं समचित्तता”। आर्जवञ्च महत्त्वसम्पादकोगुणविशेषः यथोक्तं भा० १ प्र० १६ अ० “सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोषआर्ज्जवम्। शमोदमस्तपः साम्यं तितिक्षोपरतिः सुतम्। ज्ञानं विरक्तिरैश्वर्य्यं शौर्य्यं तेजोबलं स्मृतिः। स्वातन्त्र्यं कौशलं कान्तिर्धैर्य्यं मार्द्दवमेव च। प्रागल्भ्यं प्रश्रयः शीलं सहओजोबलं भगः। गाम्भीर्य्यं स्थैर्य्यमास्तिक्यंकीर्त्तिर्मानोऽनहङ्कृतिः। एते चान्ये च भगवन्नित्या यत्र महागुणाः। प्रार्थ्यामहत्त्वमिच्छद्भिः” एतच्च ज्ञानसाधनं यथोक्तं गीतायाम् “अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्। आचार्य्योपासनं शौचं स्थैर्य्यमात्मविनिग्रहः। इन्द्रियार्थेषु वैराग्यतनहङ्कार एव च। जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्। असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु। नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु। मयि चानन्ययोगेन भक्तिरव्यभिचारिणी। विविक्तदेशसेवित्वमरतिर्जनसंसदि। अध्यात्मज्ञाननिष्ठत्वं तत्त्वज्ञानार्थदर्शनम्। एतज्ज्ञानमिति प्रोक्तम्” ज्ञानं ज्ञायतेऽनेनेति व्युत्पत्तेर्ज्ञानसाधनमित्यर्थः स्वार्थे अण्। ३ सरलेऽपि। “सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम्” “किं व्याजेनार्जवे जने” रामा०।

आर्जीक = त्रि० ऋजीकस्येदम् अण्। ऋजीकदेशसम्बन्धिनि “सुषोमे शर्य्यणावत्यार्जीके” ऋ० ८, ७, २९। “ऋजीकोदेशभेदस्तत्सम्बन्धिनि” भा०।

आर्ज्जुनायान = पुंस्त्री० अर्ज्जुनस्य गोत्रापत्यम् अश्वा० फञ्। अर्ज्जुनगोत्रापत्ये स्त्रियां टाप्। तस्य विषयोदेशः। राजन्या० वुञ्। आर्ज्जुनायनकः। तद्विषये देशे।

आर्ज्जुनावक = त्रि० अर्ज्जुनवे देशे भवः धूमा० वुञ्। अर्जुनावनामदेशभवे।

आर्ज्जुनि = पु० अर्ज्जुनस्यापत्यं बाह्वा० इञ्। अर्ज्जुनापत्ये अभिमन्यौ। तदुत्पत्तिकथा “ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा। जयन्तमिव पौलोमी ख्यातिमन्तमजीजनत्। दीर्घबाहुं महोरस्कं वृषभाक्षमरिन्दमम्। सुभद्रा सुषुवे बीरमभिमन्युं नरर्षभम्। अभीश्च मन्युमांश्चैव ततस्तमरिमर्द्दनम्। अभिमन्युमिति प्राहुरार्ज्जुनिं पुरुषर्षभम्” भा० आ० प० २२१ अ०। स च वर्चोनामसोमपुत्रस्यावतारः यथोक्तं भा० आ० ६७ अ०। “यस्तु वर्च्चा इति ख्यातः सोमपुत्रः प्रतापवान्। सोऽभिमन्युर्वृहत्कीर्त्तिरर्ज्जुनस्य सुतोऽभवत्। यस्यावतरणेराजन्! सुरान् सोमोऽब्रवीदिदम्। नाहं दद्याम्प्रियं पुत्रं मम प्राणैर्गरीयसम्। समयः क्रियता मेष न शक्यमतिवर्त्तितुम्। सुरकार्य्यं हि नः कार्य्यमसुराणां क्षितौ बधः। तत्र यास्यत्ययं वर्च्चा न च स्थास्यति वै चिरम्। ऐन्द्रिर्न्नरस्तु भविता यस्य नारायणः सखा। सोऽर्ज्जुनेत्यभिविख्यातो पाण्डोः पुत्त्रः प्रतापवान्। तस्यायं भविता पुत्रो बालोभुवि महारथः। ततः षोडशवर्षाणि स्थास्यत्यमरसत्तमाः!। अस्य षोडशवर्षस्य स संग्रामो भविष्यति। यत्रांशा वः करिष्यन्ति कर्म वीरनिसूदनम्। नरनारायणाभ्यां तु स संग्रामो विना कृतः। चक्रव्यूहं समास्थाय योधयिष्यन्ति वः सुराः!। विमुखाञ्छात्रवान् सर्वान् कारयिष्यति मे सुतः। बालः प्रविश्य च व्यूहमभेद्यं विचरिष्यति। महारथानां वीराणां कदनञ्च करिष्यति। सर्व्वेषामेव शत्रूणां चतुर्थांशं नयिष्यति। दिनार्द्धेन महाबाहुः प्रेतराजपुरं प्रति। ततो महारथैर्व्वीरैः समेत्य बहुशोरणे। दिनक्षये महाबाहुर्मया भूयः समेष्यति। एकं वंशकरं पुत्त्रं वीरं वै जनयिष्यति। प्रनष्टं भारतं वंशं स भूयोधारयिष्यति। एतत् सोमवचः श्रुत्वा तथाऽस्त्विति दिवौकसः। प्रत्यूचुः सहिताः सर्व्वे ताराधिपमपूजयन्। एवं ते कथितं राजंस्तव जन्म पितुः पितुः” अभिमन्युशब्देऽस्य युद्धचर्य्या २९५ पृष्ठे उक्ता।

आर्ज्जुनेय = पु० अर्ज्जुन्या अपत्यं ढक्। अर्ज्जुनीपुत्रे “कौत्से ऋषौ “अहं कुत्समार्ज्जुनेयं न्यृञ्जेऽहम्” ऋ० ४, २६, १ “आर्जुनेयमर्जुन्याः पुत्रं कुत्सम्” भा०। आर्जुनी च गाभीः कुत्सस्य गाभ्या प्रतिपालितत्वेन तत्पुत्रत्वात् तथात्वम्।

***