आपन = न० आप + भावे ल्युट्। १ प्राप्तौ। कर्मणि ल्युट्। २ मरीचे शब्दच०।

आपनिक = त्रि० आ + पन–स्तुतौ कमणि इकन्। १ इन्द्रनीले मणौ २ किराते च उज्ज्वलदत्तः।

आपनेय = त्रि० आ + अप + नी–कर्मणि यत्। समन्तादपनेये दूरोकार्य्ये “नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ!” कठोप०। “येयमागमप्रतिपाद्यात्मनि मतिः सैषा तर्केण स्वबुद्ध्यभ्यूहमात्रेण नापनेया नापनेतव्या न हन्तव्या। तार्किकोह्यनागमज्ञः स्वबुद्धिपरिकल्पितं यत्किञ्चिदेव कथयति अतएवच सेयमागमप्रसूता मतिः तार्किकादन्येनैवागमाभिज्ञेनाचार्य्येणैव प्रोक्ता सतीसुज्ञानाय भवति” भा०।

आपन्न = आ + पद–क्त। २ आपद्ग्रस्ते “आपन्नः संसृतिं घोरांयन्नाम विवशोगृणेत्। ततः सद्योविमुच्येत यद्विभेति स्वयं भयम्” भाग० “आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः” शकु० “आत्मापराधादापन्नस्तत् किं भीमं जिघांससि” भा० स्त्री० प० १३ अ० १ प्राप्ते मेदि० आपन्नसत्वा

आपन्नसत्वा = स्त्री आपन्नं प्राप्तं गर्भरूपेण सत्वं प्राणी यया। गर्भिण्यां स्त्रियाम् “सममापन्नसत्वास्ता रेजुरापाण्डुरत्विषः” रघुः।

आपमित्यक = त्रि० अपमित्य परिवर्त्त्य निर्वृत्तम् कक्। विनिमयं दत्त्वा क्रीते।

आपया = स्त्री आपेन जलपूरेण याति या + क। १ जलपूरवाहि नदीभेदे “दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्ने दिदीहि” ऋ० ३, २३, ४,। “आपया नाम काचित् नदी” भा० २ आपगारूपनदीमात्रे च।

आपयितृ = त्रि० आप + णिच्–तृच्। प्रापयितरि “आपयिता ह वै कामानां भवति यएवं विद्वानक्षरमुद्गीथमुपास्ते” छा० उ०। “आपयिता ह वै कामानां यजमानस्य भवति” भा०। स्त्रियां ङीप्।

आपराधय्य = न० अप + राध–णिच् बा० श तस्य भावः ब्राह्म० ष्यञ्। अपराधकर्तृत्वे।

आपराह्णिक = त्रि० अपराह्णे भवः ठञ्। १ अपराहणभवे २ तद्व्यापके च स्त्रियां ङीप्। “पित्रर्थे चापराह्णिकी” स्मृतिः।

आपर्त्तुक = पु० ऋतुमधिकृत्य अध्यायः तत्र विहितः कल्पः। ऋतावध्यायबोधके छान्दसे कल्पग्रन्थभेदे। “ऋतावध्यायश्छान्दसः कल्प आपर्त्तकः” कौशीतकिसूत्रम्।

आपव = पु० आपुनाति स्पर्शमात्रेण आपु जलं तदधिष्ठाता वरुणोऽपि आपूः तस्यापत्यम्। कल्पभेदे वरुणस्यापत्ये १ वशिष्ठे मुनौ तस्य तत उत्पत्तिकथा यथा भा० आ० प० ९९ अ० “यं लेभे वरुणः पुत्रं पुरा भरतसत्तम! वशिष्ठनामा स मुनिःख्यात आपव इत्युत” “तत्ते शापाद्विविर्मुक्ता आपवस्य महात्मनः” इति च आपगेयशब्दे विवृतिः। आपं जलपूरं वाति प्राप्नोति आश्रयत्वेन वा–क। २ नारायणे परमपुरुषे। “आपोनारा इति प्रोक्ताः आपोवे नरसूनवः। अयनं तस्य ताः पूर्ब्बं तेन नारा- यणः स्मृत” इत्युपक्रम्य। “उच्चावचानि भूतानि गात्रेम्यस्तस्य जज्ञिरे। आपवस्य प्रजासर्गं सृजतो हि प्रजापतेः” स सृष्ट्वा तु प्रजास्त्वेवमापवो वै प्रजापतिः” इति च हरिवं० १, २ अ०।

आपस् = न० आप–असुन्। जले। “आपोभिर्मार्ज्जनं कृत्वा” स्मृतिः। “अन्नमयं लि सौम्य! मन आपोमयः प्राणस्तेजोमयी वाक्” छा० उप० “सर्वमापोमयं जगत्” देवीमा०। “ब्रुवते कतमेऽपि नपुंसकमाप” इति वृत्तिधृतकोषात् क्लीवत्वम्। तुडभावे ह्रस्वः अप इत्येव। तुट् पक्षे अप्त इत्यपि। कर्मणि।

आपस्तम्ब = पु० ऋषिभेदे स च कल्पसूत्रकारः धर्म्मशास्त्र कर्त्ता च “यमापस्तम्बसंवर्त्ताः कात्यायनवृहस्पती” इत्याद्यभिधाय “धर्म्मशास्त्रप्रयोजकाः” या० स्मृ०। तदीय संहिता च दशाध्यायी तस्यां प्रायश्चित्तविधानमात्रसुक्तम्। तस्यापत्यम् विदा० अञ् आपस्तवः तदपत्ये पुंस्त्री स्त्रियां ङीप्। आपस्तम्बस्येदम् छ। आपस्तम्बीयः। तत्सम्बन्धिनि त्रि० आपस्तवेन प्रोक्तमधीयते अण् तस्य लुक्। आपस्तम्बप्रोक्तशाखाध्येतृषु ब० व०। आपस्तम्ब्यां भवः ढक्। आपस्तम्वेयः। आपस्तम्वापत्यस्त्रीभवे त्रि०।

आपस्तम्भिनी = पु० आपः स्तम्नानि स्तन्भ–णिनि। लिङ्गिन्यां लतायाम्।

आपाक = पु० समन्तात् परिवेष्ट्य पच्यतेऽत्र आ + पच–आधारे घञ्। १ कुम्भकारस्य मृण्मयपात्रपचनस्थाने (पोयान)। भावे घञ्। २ ईषत्पाके ३ सम्यक्पाके ४ पुटपाके च।

आपाङ्ग्य = न० अपाङ्गे देयम् ञ्य। अपाङ्गे देये अञ्जने। “शलाकया दक्षिणेन क्षिपेत्कानीनमञ्जनम्। आपाङ्ग्यं वा यथायोग्यं कुर्य्याच्चात्र गतागतम्” सुश्रु०।

आपात = पु० हठात् अविवेकात् कारणान्तरसाचिव्याभावेऽपि आगत्य पातः। अविविच्यावगतौ “आपाततोयदर्थस्य पौनरुक्त्यावभासनम्” सा० द० २ अतर्कितागमने। “गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः” रघुः। “तदापातभयात् पथि” कुमा० आपतत्यत्राधारे घञ्। ३ तत्काले वर्त्तमानकाले “आपातरम्या विषयाः पर्य्यन्तपरितापिनः” किरा० “आपातरम्पास्तत्कालरमणीयाः” मल्लि०। ४ उपक्रमे च “मध्वापातोविषास्वादः स धर्मप्रतिरूपकः” मनुः। “मध्वापातो मधुरोपक्रमः” कुल्लू०।

आपातलिका = स्त्री वृत्तर० उक्ते मात्राभेदे “कथितेयं भात् गुरुकावथ पूर्व्वमन्यत्” तल्लक्षणं अन्यत् वैतालीयगतम् तच्च “षड्विषमेऽष्टौ समे कलास्तास्तु समे स्युर्नोनिरन्तराः। न समात्र पराश्रिता कला” इत्येव प्रथमं निवेश्यान्ते जगणंदत्त्वा गुरुद्वयं चतुर्षु चरणेषु देयमित्यर्थः।

आपाततस् = अव्य० आपात + तसिल्। १ कारणं विनेत्यर्थे २ अकस्मादित्यर्थे ३ अनयधार्य्येत्यर्थे च। “एतच्चापाततः” जगदी० “आपाततो यदर्थस्येति” सा० द०।

आपात्य = त्रि० आपतति स्वयमाक्रमितुमागच्छति। “भव्यगेयेत्यादि” पा० नि० कर्तरि ण्यत्। १ स्वयमाक्रमितुमागामिनि। “आपात्यसैनिकनिराकरणाकूलेन” माघः। भावे ण्यत्। २ कर्तव्यापतने ३ कर्मणि ण्यत्। आपात्ये देशादौ त्रि० आ + पत–णिच् ल्यप्। ४ समन्तात्पातयित्वेत्यर्थे अव्य०।

आपाद = पु० आ + पद–घञ्। फललाभे “ध्यानापादांशा इव” वृ० उ० “ध्यानस्यापादनमापादः ध्यानफललाभः” इति भा० २ आगतौ च पादपर्य्यन्तम् अव्ययी०। ३ पादपर्य्यन्ते अव्य०।

आपादन = न० न० आ + पद–णिच्–ल्युट्। १ आपत्तिविषयीकरणे आपादकज्ञानेन आपद्यनिश्चये” पद–भावे णिच्–ल्युट्। २ सम्पादने “द्रव्यस्य संख्यान्तरापादने” सि० कौ०।

आपान = न० आपीयते सम्भूय सुरा पीयतेऽत्र आधारे ल्युट्। सुरापानाय सम्भूयोपवेशनस्थाने। पानार्थसभायाम् (चक्र) “गन्धर्वापस्परसोभद्रे! मामापानगतं सदा” भा० व० प० २८० अ०। “आपाने पानकलिता दैवेनाभिप्रणीदिताः” ददर्श यदुवीराणामापाने वैशसं महत्” इति च भा० आ० प० २ अ०। भावे ल्युट्। २ सम्भूय सुरापाणे। “ताम्बूलीनां दलैस्तत्र रचितापानभूमयः” रघुः। “यत्र स्फटिकहर्म्मेषु नक्तमापानभूमिषु” कुमा०। स्वार्थे कन्। आपानकममपि पानगोष्ठ्याम्। मुरापाणे च “आपानकमुत्सवः!” काद०।

आपायिन् = त्रि० आपिबति आ + पा–णिनि। सुरापाण कर्त्तरि स्त्रियां ङीप्।

आपालि = पु० आ + पा–क्विप् तदर्थमलति अल–इन्। केशकीटे (उकुन्) सहि शीर्षस्थरुधिरापानप्रसक्तः

आपि = पु० आप + णिच्–इन्। १ धनादिप्रापके। “हये देवा यूयमिदापयः” ऋ० २, २९, ४। “आपयः धनस्य प्रापयितारः” भा०। आप्यते कर्म्मणि इन्। २ आप्ते बन्धौ तस्य भावः आपित्वं बन्धुत्वे “आपित्वे नः प्रपित्वे” ऋ०८, ७, ३। “आपित्वे बन्धुत्वे” भा०।

आपिञ्जर = न० ईषत्पिञ्जरं प्रा० स०। १ स्वर्ण्णेराजनि०। २ ईषत्पिञ्जरवर्ण्णे पु० ३ तद्वति त्रि० “आपिञ्जराबद्धरजःकणत्वात्” रघुः।

आपिशलि = पु० अपिशलस्य मुनेरपत्यम् इञ। आदिशाव्दिके मुनिभेदे। “इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः। पाणिन्यमरजैनेन्द्राजयन्त्यटादिशाव्दिकाः” कवि क० “वा सुप्यापिशलेः” पाणिनिनीक्तेस्ततोऽप्यस्यादित्वम् स्त्रियां क्रोड्या० ष्यञ्। आपिशल्या तस्यस्त्र्यपत्ये स्त्री। आपिशिलिना प्रोक्तम् अण्। आपिशलम्। तदीये शास्त्रेन०।

आपी = त्रि० आ + प्याय–क्विप् पीभावः। १ आपीने वृद्धिमति।

आपीड = पु० आ + पीड–अच्। १ शिखामाल्ये, २ शिरोभूषणे, “तस्मिन् कुलापीडनिभे विपीडितम्” रघुः। “विचित्रमुकुटापीडा विचित्रकवचध्वजाः” भा० व० प० १७३ अ० “बद्धापीडांश्चारुरूपांश्च यूनो व्यूढोरस्कांस्तालमात्रान् ददर्श” भा० आ० प० १९७ अ० ! २ गृहवहिर्निःसृतकाष्ठे च। ३ आपीडकमात्रे त्रि०।

आपीडा = स्त्री आ + पीड–अ। सम्यक्पीडते “तत्र तूर्णं गलापीडं कुर्य्याच्चाप्यधूननम्” सुश्रु० गलस्यापीडा मर्द्दनं यत्रेति तदर्थः।

आपीडित = त्रि० आ + पीड–क्त। १ निष्पीडिते २ निर्मृष्टे।

आपीत = न० ईषत् पीतम् प्रा० त०। माक्षिके धातौ। २ ईषत्पीतवर्ण्णे पु० ३ तद्वति त्रि०। ईषत् पानं कृतं यस्य तादृशे ४ जलादौ त्रि०।

आपीन = न० आ + प्याय–क्त पीभावः तस्य नत्वम्। (मेड) १ गवादेः ऊधसि “आपीनभारोद्वहनप्रयत्नात्” रघुः २ कूपे पु०। “आपीनमूधः आपीनोऽन्धुः” मुग्ध०। अन्योपसर्गपूर्ब्बकत्वे तु संप्यानैत्येव आङ् पूर्बकस्यापि अन्धूधसो रेवार्थयोःपीभावो नान्यत्र।

आपूपिक = त्रि० अपूपः शिल्पमस्य ठक्। १ अपूपपाचके अपूपे अपूपभक्षणे साधु गुडा० ठक्। २ अपूपभक्षणसाधने गुडादौ। अपूपो भक्तिरस्य अचित्तत्वात् ठक्। ३ अपूपभक्षणासेवके। अपूपःपण्यमस्य ठक्। ४ अपूपविक्रेतरि। अपूपस्तद्भक्षणंशीलमस्य ठक्। ५ अपूपभक्षशीले। अपूपस्तद्भक्षणं हितमस्य ठक्। ६ हितत्वेन अपूपभक्षणकर्त्तरि। अपूपानां समूहः अचित्तत्वात् ठक्। ७ अपूपसमूहे न०।

आपूप्य = पु० अपूपाय साधुः वा ञ्य। अपूपसाधने चूर्णे त्रि०

आपूर = पु० आपूर्य्यतेऽनेन आ + पूर–घञ्। जलादि प्रवाहे “स्वेदापूरोयुवतिसरितां व्याप गण्डस्थलानि” माघः भावे घञ्। २ सम्यक्पूरणे ३ईषत्पूरणे ४ अभिव्याप्तौ च।

आपूरण = न० आ + पूर–भावे ल्युट्। १ “समन्तात्पूरणे आपूरयति ल्यु। २ सम्यकपूरणकर्त्तरि त्रि० ३ नागभेदे पु० “कालिको मणिनागश्च नागश्चापूरणस्तथा” भा० आ० प० ३५ अ०।

आपूरित = त्रि० आ + पूर–क्त। यस्यापूरणं कृतं १ तस्मिन् २ अभिव्याप्ते च।

आपूर्य्यमाण = त्रि० आ + पूर–कर्म्मणि शानच्। सम्यक् पूर्य्यमाणे २ समन्तात्प्रसृते “आपूर्थ्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्” गीता। आधारे शानच्। सूर्य्यकिरणैः पूर्य्यमाणचन्द्रस्याधारे पक्षे। “उदगयने आपूर्य्यमाणे पक्षे कल्याणे नक्षत्रे चूडोपनयनगोदान विवाहाः” आश्व० गृह्य०। “अर्च्चिषोऽहरह्न अपूर्य्यमाणं पक्षम्” छा० उप०।

आपूष = आ + पूष–वृद्धौ करणे घञ्। रङ्गे (राङ्) धातुभेदे, तस्य पुष्टिसाधनत्वादिकमुक्तं भा० प्र० “रङ्गं वङ्गं त्रपु प्रोक्तं तथा पिच्चटमित्यपि। खुरकं मिश्रकं चापि द्विविधं रङ्गमुच्यते। उत्तमं खुरकं प्रोक्तं मिश्रकं गर्हितं भवेत्। रङ्गं लघु सरं रूक्षमुष्णमेहकृमीनपि। निहन्ति पाण्डुं सश्वासं चक्षुष्यं पित्तलं मनाक्। सिंहो यथा हस्तिगणं निहन्ति तथैव वङ्गोऽखिलमेहवर्गम्। देहस्य सौख्यम् प्रबलेन्द्रियत्वं नरस्य पुष्टिं विदधाति नूनम्”।

आपृच् = त्रि० आ + पृच–क्विप्। संसर्गयुक्तेः। “मित्रक्रुवोयच्छसान न गावः पृथिव्या आपृगमुया स यत्ने” ऋ० १०, ८९, १४।

आपृच्छा = स्त्री आ + प्रच्छ–अङ्। १ आलापे, २ जिज्ञासायाम् ३ आभाषणे गतागतकाले ४ शुभप्रश्ने ५ आनन्दने च।

आपृच्छ्य = त्रि० आ + प्रच्छ–वेदे नि० क्यप्। जिज्ञास्ये। “आपृच्छ्यं वरुणं वाज्यर्षति” सि० कौ० धृता श्रुतिः। आ + प्रच्छ–ल्यप्। २ जिज्ञासित्वेत्यर्थे अव्य०।

आपेक्षिक = त्रि० अपेक्षात आगतः ठक्। अपेक्षया प्राप्ते “किन्तु मध्यत्वमापेक्षिकम्” सि० कौ० “अमृतमश्नुते इत्यापेक्षिकममृतत्वम्” छा० उ० भा०। स्त्रियां ङीप्।

आपोक्लिम = न० ज्योतिषोक्ते जन्मलग्नावधितृतीयषष्ठनवमद्वादशस्थानेषु। “तृतीयं षष्ठनवममन्त्यञ्चापोक्लिमं विदुः” ज्यो० त०। “आपोक्लिमे यदि खगाः स किले- न्धुवारोन स्याच्छुमं क्वचन ताजिकशास्त्रगीतम्” नी० ता०।

आपोमय = त्रि० आपस् + विकारे प्राचुर्य्ये वा मयट्। १ जलविकारे “आपोमयः प्राणस्तेजोमयी वाक्” छा० उ०। “आपोमयाः सर्व्वरसाः सर्वमापोमयं जगत्” भा० आ० १८० अध्या० “मूमेर्गन्धगुणान् भुङ्क्षे पिबस्वापोमयान् रसान्” भा० आश्व० २८ अ०। “मन्युजोऽग्निर्दहन्नापो लोकाह्यापोमयाः स्मृताः” भा० आ० १८०। जलप्लाविते २ जलप्रचुरे “विलोक्य ताभ्यां गदितः सर्व्वमापोमयं जगत्। आवां जहि न यत्रोर्व्वीसलिलेन परिप्लुता” देवीमा०।

आपोमूर्त्ति = पु० स्वारोचिषस्य मनोः १ पुत्रभेदे। “हविध्रः सूकृतिर्ज्योतिरापोभूर्त्तिरयसमयः। प्रथितश्च नभस्यश्च नभ ऊर्ज्जस्तथैव च। स्वारोचिषस्य पुत्रास्ते मनोस्तात। महात्मनः” हरिवं० ६ अ०। दशमे मन्वन्तरे आत्रेये सप्तर्षिमध्ये २ ऋषिभेदे च “दशमे त्वथ पर्य्याये द्वितीयस्यान्तरे मनोः। हविष्मान् पौलहश्चैव सुकृतिश्चैव भार्गवः। आपोमूर्त्तिस्तयात्रेयो वाशिष्ठश्चाष्टकः स्मृतः” इति हरिवं० ७ अ०

आपोऽशान = न० आपसा जलेन अशानं अश–व्याप्तौ भावे बा० आनच्। जलेन उपरिष्टादधस्ताच्चास्तरणरूपे अन्नाच्छादनार्थे कर्मणि। “आपोऽशानेनोपरिष्टादधस्तादश्नता तथा। अनग्नममृतञ्चैव कार्य्यमन्नं द्विजत्मना” या० स्मृ०। “भुज्ञानेन द्विजन्मना उपरिष्टादधस्ताच्च आपोऽशानाख्येन कर्मणा अन्नमनग्नमृमृतं च कार्य्यम्” मिता०। “आपोऽशानक्रिया पूर्व्वं सत्कृतान्नमकुत्सयन्” या० स्मृ०। “आपोऽशानक्रिया पूर्व्वम् अमृतोपस्तरणमसि स्वाहेत्यादिकं कृत्वा” मिता० “आपोऽशानं कर्म्म कुरु” भवदेवः।

आप्त = त्रि० आप–क्त। १ प्राप्ते २ प्रत्ययिते विश्वस्ते। ३ यथार्थज्ञानयुक्ते ४ युक्तियुक्ते च “आप्तश्रुतिरःप्तवचनं तु” सां० का०। “आप्ता प्राप्ता युक्तेति यावत् आप्ता चासौ श्रुतिश्चेति आप्तश्रुतिः श्रुतिर्वाख्यजनितं वाक्यार्थज्ञानं तच्च स्वतःप्रमाणम् अपौरुषेयवाक्यजनितत्वेन सकल दोषाशङ्कानिर्मुक्तत्वेन युक्तं भवति एवं वेदमूलकस्मृतीतिहासपुराणजनितज्ञानमपि युक्तम्। कपिलस्य कल्पादौ कल्पान्तराधीतश्रुतिस्मरणसम्भवः सुप्तबुद्धस्येव पूर्व्वेद्युरवगतार्थानामपरेद्युः। आप्तग्रहणेन चायुक्ताः शाक्यभिक्षुनिर्ग्रन्थिकसंसारमोचकादीनामागमाभासा निराकृता भवन्ति अयुक्तत्वञ्चैतेषां विगानात् छिन्नमूलत्वात् प्रमाणविरुद्धाभिधानात् कैश्चिदेव म्लेच्छादिभिः पुरुषापसदैः पशुप्रायैः परिग्राहाद्बोध्यम्” सा० त० कौ० “तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम्” सां० का०। यथार्थज्ञानविशिष्टरूपाप्तेनोक्तत्वनिश्चयस्य शाब्दबोधहेतुर्त्वमिति मीमांसकाः नैयायिकास्तन्न मन्यन्ते यथोक्तं शब्दश० प्र० “साकाङ्क्षत्वादिधीरिव वाक्यार्थगोचरज्ञानवदुक्तत्वरूपस्याप्तोक्तत्वस्यापि निश्चयः शाब्दधीहेतुरतोनैकपदार्थधर्म्मिकोऽपरपदार्थस्यान्वयबोधोऽनुमितिः सिद्धिसत्त्वे विनानुमित्सां तदसम्भवात् परन्त्वनुमितेरन्यएव किन्त्वसौ गृहीतग्राहित्वान्न प्रमा यज्जातीयविशिष्टज्ञानत्वावच्छेदेन समानकारनिश्चयोत्तरत्वं तज्जातीयान्ययथार्थज्ञानस्यैवागृहीतग्राहित्वेन प्रमात्वात् अतएव धारावाहिकप्रत्यक्षव्यक्तीनां समानाकारग्रहोत्तरवर्त्तित्वेऽपि न तासां प्रमात्वहानिः हानिस्तु समानाकारानुभवसमुत्थानां स्मृतीनामिति जरन्मीमांसकानां समाधानं निरस्यति। नाप्तोक्तता तु वाक्यार्थगर्भा ज्ञातोपयुज्यते। वाक्यार्थानामपूर्व्वत्वात् संशयेऽप्यन्वयोदयात्। यद्येकपदार्थवदपरपदार्थपर्य्यवसन्नस्य वाक्यार्थस्य ज्ञानवदुक्तत्वरूपाया आप्तोक्तताया निश्चयः शाब्दमतेः कारणं स्यात् स्यादपि तेनैव रूपेण साध्यनिश्चयेन प्रतिबन्धादेकपदार्थपक्षिकाया अपरपदार्थानुमितेरनुत्पादो नचैवं, शाब्दधियः पूर्ब्बं वाक्यार्थस्योपस्थित्यनियमेन तद्गर्भस्याप्तोक्तत्वस्यापि मतेरनावश्यकत्वात् अन्यथा वेदस्याप्यनुवादकतापत्तेः एकपदार्थेऽपरपदार्थस्थ शब्दे वाक्यार्थज्ञानवदुक्तत्वस्य संशयेऽपि शाब्दमतेरुत्पादाच्च। अतएवाप्तोक्तत्वस्य संशये व्यतिरेक निश्चये वान्वयबुद्धेरनुत्पादादवश्यन्तन्निश्चयस्तत्र हेतुरित्यपि प्रत्युक्तम् असिद्धेः”। ५ कुशले “प्राजकश्चेद्भवेदाप्तः” मनुः। “आप्तः कुशलः” कुल्लू०। ६ सम्पूर्ण्णे “यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः” मनुः ७ बब्धौ “निग्रहात् स्वसुराप्तानां बधाच्च धनदानुजः” रघुः ८ जटायां स्त्री हारा० ९ सम्बद्धे १० लब्धे च त्रि० हेम०।

आप्तकाम = त्रि० आप्तः प्राप्तःकामोयेन। १ ब्रह्मात्मैक्यावगन्तरि यथा चास्याप्तकामत्वं तथोक्तं पृ० उप० भाष्ययोः। “तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माऽभयं रूपम्। तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमेवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्। तद्वा अस्यैतदाप्तकाममकामं रूपं शोकान्तरम्। अत्र पिताऽपिता भवति माताऽमाता लोका अलोका देवा अदेवा वेदा अवेदाः। अत्र स्तेनो-ऽस्तेनो भवति भ्रूणहाऽभ्रूणहा चाण्डालोऽचाण्डालः पौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसोऽनन्वागतं पापेन तीर्णो हि तदा सर्ब्बाञ्छोकान् हृदयस्य भवति” वृ० उ० “इदानीं योऽसौ सर्वात्मभावो मोक्षो विद्याफलं क्रियाकारकफलशून्यं स प्रत्यक्षतो निर्द्दिश्यते। यत्राविद्याकामकर्म्माणि न सन्ति तदेतत्प्रस्तुतं “यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यतीति”। तद्वा अस्य रूपम्। यः सर्वात्मभावः सोऽस्य परमो लोक इत्युक्तस्तदतिच्छन्दा अतिच्छन्दमित्यर्थः रूपपरत्वात्। छन्दः कामोऽतिगतः छन्दोऽमिन् रूपे तदतिच्छन्दं रूपम्। अन्योऽसौ असन्तः छन्दःशब्दो गायत्र्यादिच्छन्दोवाची। अयन्तु कामवचनोऽतः खरान्त एव। तथाप्यतिच्छन्दा इति पाठः स्वाध्यायधर्म्मो द्रष्टव्यः। अस्ति च लोके कामवचनप्रयुक्तः छन्दशब्दः स्वच्छन्दः परच्छन्दैत्यादौ। अतोऽतिच्छन्दमित्येवमुचितं कामवर्ज्जितमेतद्रूपमित्यस्मिन्नर्थे। तथाऽपहतपाप्मा पाप्मशब्देन धर्माधर्मवुच्यते। “पापमभिः संसृज्यते” “पाप्मनी विजहाति” इत्युक्तत्वात्। अपहतपाप्म धर्म्माधर्म्मवर्जितमित्येतत्। किञ्चाभयम् भयं हि नमाविद्याकार्य्यम् “अविद्यया भयं मन्यत” इति ह्युक्तम्। तत्कार्य्यद्वारेण कारणप्रतिषेधोऽयम् अभयं रूपमित्यविद्यावर्जितमित्येतत्। यदेतद्विद्वाफलं सर्वात्मभावस्तदेतदतिच्छन्दापहतपाप्माभयं रूपं सर्ब्बसंसारधर्म्मवर्ज्जितमतोऽभयं रूपमेतत्। इदञ्च पूर्व्वमेवोपन्यस्तमतीतानन्तरब्राह्मणसमाप्तौ। “अभयं वै जनक प्राप्तोऽसि” इत्यागमतः। इह तु तर्कतः प्रपञ्चितम् दर्शितागमार्थप्रत्ययदार्ढ्याय। अयमात्मा स्वयंचैतन्यज्योतिःखभावः सर्ब्ब स्वेन चैतन्यज्योतिषावभासयति। “स यत्तत्र किञ्चित्पश्यति रमते चरति जानाति च” इत्युक्तम्। अतः स्थितञ्चैतन्न्यायतो नित्यस्वरूपं चैतन्यज्योतिष्ट्वमात्मनः। स यद्यात्मात्राविनष्टः स्वेनैव रूपेण वर्त्तते कस्मादयमहमस्मीत्यात्मानं वा बहिर्वेमानि भूतानीति जाग्रत्स्वप्नयोरिव न जानातीत्यत्रोच्यते। शृण्वत्राज्ञानहेतुम् एकत्वमेवाज्ञानहेतुस्तत्कथम्? इत्युच्यते। दृष्टान्तेन हि प्रत्यक्षीभवति विवक्षितोऽर्थ इत्याह। तत् तत्र यथा लोके प्रिययेष्टया स्त्रिया सम्परिष्वक्तः सम्यक् परिष्वक्तः कामयन्त्या कामुकः सन्न बाह्यमात्मनः किञ्चन किञ्चिदपि न वेद मत्तोऽन्यद्वस्त्विति। न चान्तरमयमहमस्मि सुखी दुःखी चेति अपरिष्वक्तस्तु तया प्रविभक्तो जानाति। सर्व्वमेव बाह्य- माभ्यन्तरञ्च। परिष्वङ्गोत्तरकालन्त्वेकत्वापत्तेर्न जानाति। एवमेव यथादृष्टान्तोऽयं पुरुषः क्षेत्रज्ञो भूतमात्रासंसर्गतः सैन्धवखिल्यवत् प्रविभक्तो जलादौ चन्द्रादिप्रतिविम्बवत्कार्य्यकरण इह प्रविष्टः सोऽयं पुरुषः प्राज्ञेन परमार्थेन स्वाभाविकेन स्वेनात्मना परेण ज्योतिषा सम्परिष्वक्तः सम्यक् परिष्वक्त एकीभूतो निरन्तरः सर्वात्मा न बाह्यं किञ्चन वस्त्वन्तरं नाप्यान्तरमात्मन्ययमहमस्मि सुखी दुःखी वेति वेद तत्र चैतन्यज्योतिःस्वाभावत्वे कस्मादिह न जानातीति यदप्राक्षीस्तत्रायं हेतुर्मयोक्तः। एकत्वं यथा स्त्रीपुंसयोः सम्परिष्वक्तयोः। तत्रार्थान्नानात्वं विशेषविज्ञानहेतुरित्युक्तं भवति। नानात्वे च कारणमात्मनोवस्त्वन्तरस्य प्रत्युपस्थापिकाविद्येत्युक्तं तत्र चाविद्याया यदा प्रविविक्तो भवति तदा सर्वेणैकत्वमेवास्य भवति। ततश्च ज्ञा नज्ञेयादिकारकविभागेऽसति कुतो विशेषविज्ञानप्रादुर्भावः कामो बा सम्भवति स्वाभाविके स्वरूपस्थ आत्मज्योतिषि। यस्मादेवं सर्व्वैकत्वमेवास्य रूपमतस्तद्वै अस्यात्मनः स्वयं ज्योतिः स्वभावस्यैतद्रूपमाप्तकामं यस्मात्समस्तमेतत्तस्मादाप्ताः कामा अस्मिन्रूपे तदिदमाप्तकामं यस्य ह्यन्यत्वेन प्रयिभक्तः कामस्तदनाप्तकामं भवति। यथा जागरितावस्थायां देवदत्तादिरूपम्। न त्विदं तथा कुतश्चित्प्रविभज्यतेऽतस्तदाप्तकामं भवति। किमन्यस्माद्वस्त्वन्तरान्न प्रविभज्यते आहोस्विदात्मैव तद्वस्त्वन्तरमत आह। नान्यदस्त्यात्मनः। कथम्? यतः आत्मकाममात्मैव कामा यस्मिन्रूपे येऽत्र प्रविभक्ता इवान्यत्वेन काम्यमाना यथा जाग्रत्स्वप्नयोस्तेऽस्यात्मैवान्यत्वप्रत्युपस्थापकहेतोरविद्याया अभावादात्मकाममत एवाकाममेतद्रूपं काम्यविषयाभावाच्छोकान्तरं शोकच्छिद्रं शोकशून्यमित्येतच्छोकमध्यमिति वा सर्वथाप्यशोकमेतद्रूपं शोकवर्ज्जितमित्यर्थः। प्रकृतः स्वयंज्योतिरात्मा अविद्याकामकर्म्मविनिर्म्मुक्त इत्युक्तम्। असङ्गत्वादात्मन आगन्तुकत्वाच्च तेषां, तत्रैवाशङ्का जायते चैतन्यस्वभावत्वे सत्यप्येकीभावान्न जानाति स्त्रीपुंसयोरिव सम्परिष्वक्तयारित्युक्तम्। तत्र प्रासङ्गिकमेतदुक्तं कामकर्मादवत् स्वयं ज्योतिष्ट्वमप्यास्यात्मनो न स्वभावः। यस्मात् सम्प्रसादेनोपलभ्यत इत्याशङ्कायां प्राप्तायां तन्निराकरणाय स्त्रीपुंसयोर्दृष्टान्तोपादानेन विद्यमानस्यैव स्वयंज्योतिष्ट्वस्य सुषुप्तेऽग्रहणमेकीभावाद्धेतोर्न तु कामकर्मादिवदागन्तुकम्। इत्येतत्प्रासङ्गिकमभिधाय यत्प्रकृतं तदेवानुप्रवर्त्तयति। अत्र चैतत्प्रकृत- मविद्याकामकर्मविनिर्मुक्तमेव तद्रूपम्। यत्सुषुप्त आत्मनो गृह्यते प्रत्यक्षत इति तदेतद्यथाभूतमेवाभिहितं सर्वसम्बन्धाधीनमेतद्रूपमिति। तस्मादत्रैतस्मिन् सुषुप्तस्थानेऽतिच्छन्दापहतपाप्माभयमेतद्रूपं तस्मादत्र पिता जनकः तस्य च जनयितृत्वाद्यत्पितृत्वं पुत्रं प्रति तत्कर्मनिमित्तं तेन च कर्भणाऽयमम्बद्धोऽस्मिन् काले, तस्मात्पिता पुत्रसम्बन्धनिमित्तस्य कर्मणो विनिर्मुक्तत्वात् पितप्यपिता भवति। तथा पुत्रोऽपि पितुरपुत्रो भवतीति सामर्थ्याद्गम्यते उभयोर्हि सम्बन्धनिमित्तं कर्म। तदयमतिक्रान्तो वर्त्ततेऽपहतपाप्मेति ह्युक्तम्। तथा माताऽमाता। लोकाः कर्मणा जेतव्या जिताश्च तत्कर्मसम्बन्धाभावाल्लोका अलोकाः। तथा देवाः कर्माङ्गभूतास्तत्कर्मसम्बन्धात्ययादेवादेवाः। तथा वेदाः साध्यसाधनसम्बन्धविधायकाः ब्राह्मणलक्षणा मन्त्रलक्षणाश्चाभिधायकत्वेन कर्माङ्गभूता अधीता अध्येतव्याश्च कर्मनिमित्तमेव सम्बध्यन्ते पुरुषेण। तत्कर्मातिक्रमणादेतस्मिन् काले वेदा अप्यवेदाः सम्पद्यन्ते। न केबलं शुभकर्मसम्बन्धातीतः। किन्तर्हि अशुभैरप्यत्यन्तघोरैः कर्मभिरसम्बद्ध एवायं वर्त्तत इत्येतमर्थमाह अत्र स्तेनो ब्राह्मणसुवर्णहर्त्ता भ्रूणहासहपाठादवगम्यते। स तेन बोरेण कर्म्मणैतस्मिन् काले विनिर्मुक्तो भवति। येनायं कर्मणा महापातकी स्तेन उच्यते तथा भ्रूणहाऽभ्रूणहा तथा चाण्डालो न केवव्यं प्रत्युत्पन्नेनैव कर्मणा विनिर्मुक्तः। किं तर्हि सहजेनाप्यत्यन्तनिकृष्टजातिप्रापकेणापि विनिर्मुक्त एवायम्। चण्डांलो नाम शूद्रेण ब्राह्मण्यासुत्पन्नः चण्डाल एव चाण्डालः स जातिनिमित्तेन कर्मणाऽसम्बद्धत्वादचाण्डालो भचति। पौल्कसः पुल्कस एव पौलकसः शूद्रेणैव क्षत्रियायामुत्पन्नः। तथा सोऽप्यपौल्कसो भवति। तथा शुभलक्षणैश्च कर्मभिरसम्बद्धो भवतीत्युच्यते। श्रमणः परिव्राट् यत्कर्मनिमित्तो भवति स तेन विनिर्मुक्तत्वादश्रमणः। तथा तापसो वानप्रस्थोऽतापसः। सर्व्वेषां वर्णाश्रमादीनामुपलक्षणार्थमुभयोर्ग्रहणं किं बहुना। अनन्वागतं न अन्वागतमनन्वागतमसम्बद्धमित्येतत् पुण्येन शास्त्रविहितेन कर्म्मणा। तथा पापेन विहिताकरणप्रतिषिद्धक्रियालक्षणेन रुपपरत्वान्नपुंसकलिङ्गम्। अभयं रूपमिति ह्यनुवर्त्तते। किं पुनरसम्बद्धत्वे कारणमिति तद्धेतुरुच्यते। तीर्णोऽतिक्रान्तो हि यस्मादेवंरूपस्तदा तस्मिन् काले सर्वाञ्छो- कान् शोकाः कामा इष्टविषयप्रार्थनाः ते हि तद्विषयवियोगे शोकत्वमापद्यन्ते। इष्टं हि विषयमप्राप्तं वियुक्तं चोद्दिश्य चिन्तयानस्तद्गुणान् सन्तप्यते पुरुषोऽतः शोको रतिः काम इति पर्य्यायाः। यस्मात् सर्वकामातीतो ह्यत्रायं भवति। न कञ्चन कामं कामयते अतिछन्दा इति ह्युक्तं तत्प्रक्रियापतितोऽयं शोकशब्दः कामवचन एव भवितुमर्हति। कामश्च कर्महेतुर्वक्ष्यति हि। “स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुत” इति अतः सर्वकामातितीर्ण्णत्वाद्युक्तमुक्तमनन्वागतं पुण्येनेत्यादि। हृदयस्य हृदयमिति पुण्डरीकाकारो मांसपिण्डस्तत्स्थमन्तःकरणं बुद्धिर्हृदयमित्युच्यते तात्स्थ्यान्मञ्चाक्रोशनवत्। हृदयस्यबुद्धेर्ये शोकाबुद्धिसंश्रया हि ते। “कामः संकल्पो विचिकित्सेत्यादि” “सर्वं मन एव” इत्युक्तत्वात् वक्ष्यति च “कामा येऽत्र हृदि श्रिताः” आत्मसंश्रयभ्रान्त्यपनोदाय हीदं वचनम्। “हृदि श्रिता हृदयकोशा” इति च। हृदयकारणसम्बन्धातीतश्चायमस्भिन् कालेऽतिक्रामति मृत्योरूपाणीति ह्युक्तम्। हृदयसम्बन्धातीतत्वात्तत्संश्रयकामसम्बन्धातीतो भवतीति युक्ततरं वचनम्। ये तु वादिनः हृदि श्रिताः कामा वासनाश्च हृदयसम्बन्धिनमात्मानमुपसर्प्योपश्लिष्यन्ते। हृदयवियोगेऽपि चात्मन्यवतिष्ठन्ते पुटतैलस्थैव पुष्पादिगन्ध, इत्याचक्षते। तेषां “कामः संकल्पः” “हृदये ह्येव रूपाणि” हृदयस्य शोका “इत्यादीनां वचनानामानथेक्यमेव। हृदयकरणोत्पाद्यत्वादिति चेत् न हृदि श्रिता इति विशेषणात्। न हि हृदयस्य करणमात्रत्वे हृदि श्रिता इति वचनं समञ्जसम्। हृदये ह्येव रूपाणि प्रतिष्ठितानीति च। आत्मविशुद्धेश्च विवक्षितत्वाद्धृच्छ्रयणवचनं यथार्थमेव युक्तम्। “ध्यायतीव लेलायतीवेति च” श्रुतेरन्यार्थासम्भवात्। “कामा येऽस्य ह्णदि श्रिता” इति विशेषणादात्माश्रया अपि सन्तीति चेत् न अनाश्रितापेक्षत्वत् न चाश्रयान्तरमपेक्ष्यते हृदीति विशेषणं किन्तर्हि? ये हृद्यनाश्रिताः कामास्तानपेक्ष्य विशेषणम्। ये त्वप्ररूढा भविष्या भूताः स्वप्रतिपक्षतो निवृत्तास्ते नैव हृदि श्रिताः, सम्भावन्ते च ते। अतो युक्तं तानपेक्ष्य विशेषणम्। ये प्ररूढा वर्त्तमानादिविषये ते सर्वे प्रमुच्यन्ते इति। तथापि विशेषणानर्थक्यमिचि चेत् न तेषु यत्नाधिक्याद्धेयार्थत्वात्। इतरथाऽश्रुतमनिष्टञ्च कल्पितं स्यादात्माश्रयत्वञ्च कामानाम्। “न कञ्चन कामं कामयत” इति प्राप्तप्रतिषेधादात्माश्रयत्वं कामानां श्रुतमेवेति चेत् न “सुधीः स्वप्नोभूत्वेति” परनिमित्तत्वात् कामाश्रयत्वप्राप्तेः असङ्गवचनाच्च। न हि कामाश्रयत्वेऽसङ्गवचनमुपपद्यते। सङ्गश्च काम इत्यवोचाम। आत्मकाम इति श्रुतेरात्मविषयेऽस्य कामी भवतीति चेत् न व्यतिरिक्तकामनाभावार्थत्वात्तस्याः, वैशेषिकादितन्त्रन्यायोपपन्नमात्मनः कामाद्याश्रयत्वमिति चेत् न हृदि श्रिता इत्यादिविशेषश्रुतिविरोधादनपेक्ष्यास्तावैशेषिकादितन्त्रोपपत्तयः श्रुतिविरोधे न्यायाभासत्वोपगमात् स्वयंज्योतिष्ट्वबाधनाच्च। कामादीनाञ्च स्वप्ने केवलदृशिमात्रविषयत्वात् स्वयंज्योतिष्ट्वं सिद्धम् स्थितञ्च बाध्येतात्मसमवायित्वे। दृश्यत्वानुपपत्तेश्चक्षुर्गतविशेषवत्। द्रष्टुर्हि दृश्यमर्थान्तरभूतमिति द्रष्टुः स्वयंज्योतिष्ट्वं सिद्धम् तद्बाधितं स्याद्यदि कामाद्याश्रयत्वं परिकल्प्येत। सर्वशास्त्रप्रतिषेधाच्च। परस्यैकदेशकल्पनायां कामाद्याश्रयत्वे च सर्व्वशास्त्रार्थजातं कुप्येत। एतच्च विस्तरेण चतुर्थेऽवोचाम। महता हि प्रयत्नेन कामाद्याश्रयत्वकल्पनाः प्रतिषेद्धव्याः। आत्मनः परेणैकत्वशास्त्रार्थसिद्धेः। तत्कल्पनायां पुनः क्रियमाणायां शास्त्रार्थ एव बाधितः स्यात्। यथेच्छादीनामात्मधमेत्वं कल्पयन्तो वैशेषिका नैयायिकाश्चोपनिषच्छास्त्रार्थेन न सङ्गच्छन्ते तथेयमपि कल्पनोपनिषच्छास्त्रार्थबाधनान्नादरणीया”। “काममय एवायं पुरुग इति यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत् कर्म्म कुरुते यत् कर्म कुरुते तदभिसम्पद्यते” इत्युपक्रम्य “तदेव सक्तः सह कर्मणैति लिङ्गं मनोयत्र निषक्तमस्य। प्राप्यान्तं कर्मणस्तस्य यत् किञ्चेह करोत्ययम्। तस्माल्लोकात् पुनरेत्यन्मै लोकाय कर्मणे” इति श्लोकमुदाहृत्य “इति नु कामयमान” इत्युक्त्या कामयमानस्यैव जन्मादिहेतुत्वमुक्त्वा “अथाकामयमानोयोऽकामोनिषकाम आप्तकाम आत्मकामोन तस्य प्राणाह्युत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति वृ० उप०। “इति नु एवं नु कामयमानः संसरति यस्मात् कामयमान एवैवं संसरत्यथ तस्मादकाययमनो न क्वचित् संसरति फलासक्तस्य हि गतिरुक्ता। अकामस्य हि क्रियानुपपत्तेः अकामयमानो मुच्यते। एवं कथंपुनरकामयमानोभवति?। योऽकामो भवत्यसावकामयमानः। कथमकामता? इत्युच्यते। यो निःकामो यस्मान्निर्गताः कामाःसोऽयं निष्काम। कथं कामा निर्गच्छन्ति?। य आप्तकामोभवति। आप्ताः कामा येन स आप्तकामः। कथमाप्यन्ते कामाः? आत्मकामत्वेन यस्यात्मैव नान्यः कामयितव्यो वस्त्वन्तरभूतः पदार्थो भवति। आत्मैवान्तरो बाह्यः कृत्स्नः प्रज्ञानघन एकरसो नोर्द्धं न तिर्य्यग्नाधः। आत्मनोऽन्यत्कामयितुम् “यस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत् शृणुयान्मन्वीत विजानीयाद्वा” एवं विजानन् किङ्कामयेत्?। ज्ञायमानो ह्यन्यत्वेन पदार्थः कामयितव्यो भवति। न चासावन्यो ब्रह्मविद आप्तकामस्यास्ति। य एवात्मकामतयाऽऽप्तकामः स मिष्कामोऽकामोऽकामयमानश्चेति मुच्यते। न हि यस्यात्मैव सर्ब्बं भवति तस्यानात्मा कामयितव्योऽस्ति। अनात्माचान्यः कामयितव्यः। सर्वञ्चात्मैवाभूदिति प्रतिषिद्धम् सर्वात्मदर्शिनः कामयितव्याभावात् कामानुपपत्तिः। ये तु प्रत्यवायपरिहारार्थं कर्म कल्पयन्ति ब्रह्मविदोऽपि तेषां नात्मैव सर्वं भवति। प्रत्यवायस्य जिहासितव्यस्यात्मनोऽन्यस्याभिप्रेतत्वात्। येन चाशनायाद्यतीतो नित्यं प्रत्यवायासम्बद्धो विदित आत्मा तं वयं ब्रह्मविदं ब्रूमः। यश्च नित्यमेवाशनायाद्यतीतमात्मानं पश्यति। यस्माच्च जिहासितव्यमन्यमुपादेयं वा यो न पश्यति तस्य कर्म्म न शक्यत एव सम्बद्धुम्। यस्त्वब्रह्मवित्तस्य भवत्येव प्रत्यवायपरिहारार्थं कर्मेति न बिरोधः। अतः कामाभावादकामयमानो न जायते मुच्यत एव। तस्यैवमकामयमानस्य कर्माभावे गमनकारणाभावात् प्राणा वागादयो नोत्क्रामन्ति नोर्द्धं क्रामन्ति देहात्। स च विद्वानाप्तकाम आत्मकामतया इहैव ब्रह्मभूतः। सर्वात्मनो हि ब्रह्मणो दृष्टान्तत्वेन प्रदर्शितमेतद्रूपम्। “तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपमिति”। तस्य हि दार्ष्टान्तिकभूतोऽयमर्थ उपसंह्रियते। अथाकामयमान इत्यादिना। स कथमेवम्भूतो मुच्यते? इत्युच्यते। यो हि सुषुप्तावस्थमिव निर्विशेषमद्वैतमलुप्तचिद्रूपज्योतिःस्वभावमात्मानं पश्यति तस्यैवाकामयमानस्य कर्माभावे गमनकारणाभावात् प्राणवागादयो नोत्क्रामन्ति। किन्तु विद्वान् स इहैव ब्रह्म भवति यद्यपि देहवानिव लक्ष्यते। स ब्रह्मैव सन् ब्रह्माप्येति। यस्मान्नहि तस्याब्रह्मत्वपरिच्छदहेतवः कामाः सन्ति। तस्मादिहैव ब्रह्मैव सन् ब्रह्माप्येति न शरीरपातोत्तरकालम्। न हि विदुषो मृतस्य भावान्तरापत्तिर्जीवतोऽन्यी भावः देहान्तरप्रतिसन्धानाभावमात्रेणैव तु ब्रह्माप्येतीत्युच्यते। भावान्तरापत्तौ हि मोज्ञस्य सर्वोपनिषद्विवक्षितोऽर्थ आत्मैकताख्यः स बाधितो भवेत्। कर्महेतुकश्च मोक्षःप्राप्नोति न ज्ञाननिमित्त इति। स चानिष्टःअनित्यत्वञ्च मोक्षस्य प्राप्नीति। न हि क्रियानिर्वृत्तोऽर्थो नित्यो दृष्टः। नित्यश्च मोक्षोऽभ्युपगम्यते। “एष नित्यो भहिमेति” मन्त्रवर्णात्” वृ० उ० भा०। २ परमात्मनि तस्य सर्व्वेषामात्मत्वेनान्यकामयितव्याभावात् आप्तकामत्वम्” आप्तः युक्तः उचितः कामः इच्छा यस्य इति विग्रहे तु। नैयायिकमतसिद्धे ३ ईश्वरे च सद्विषयकेच्छाश्रयत्वादीश्वरस्य तथात्वम्।

आप्तकारिन् = त्रि० आप्तं युक्तं करोति कृ–णिनि ६ त०। १ युक्तकारके आप्तश्चासौ कारो। २ प्रत्ययिते आज्ञाकारके भृत्यादौ। “अरक्षिता गृहे रुद्द्धाः पुरुषैश्चाप्तकारिभिः” मनुः। “भीष्मादीनाञ्च सर्वेषां सुहृदामाप्त कारिणाम्” “अन्विष्य दाहयामास पुरुषैराप्तकारिभिः” भा०। भा० आश्र० प० ११ अ०।

आप्तगर्भा = स्त्री आप्तोगर्भो यया। गर्भिण्याम् स्त्रियाम्।

आप्तवाच् = स्त्री आप्ता युक्ता प्रमादादिदोषशून्या वाक्। १ वेदे तन्मूले २ स्मृतीहासपुराणादौ च “आप्तवागनुपानानाभ्यां साध्यं त्वां प्रति का कथा” रघुः आप्तवचनाप्तवाक्यादयोऽप्यत्र न०। आप्ता युक्ता वाग् यस्य। प्रमादशून्यवाक्ये महर्षिप्रभृतौ त्रि०। आप्तवचनांप्तवाक्यादयोऽप्यत्र त्रि०

आप्तश्रुति = स्त्री कर्म्म०। १ वेदे २ स्मृत्यादौ च आप्तशब्दे उदा०।

आप्ति = स्त्री आप–क्तिन्। १ संयोगे, २ संप्राप्तौ ३ स्त्रीसंयोगे” मेदि० ४ संबन्धे, ५ लाभे हेम० ६ समाप्तौ “कामस्याप्तिं जगतः प्रतिष्ठाम्” कठोप०। कामस्याप्तिं समाप्तिम् तत्र हि सर्व्वे परिकामाःसमाप्ताः” भा० ७ सम्पदि च “सैवास्याप्तिर्या सम्पत्” शत० ब्रा०। तत्र संबन्धे “मृत्योराप्तिमतिमुच्यते” शत० ब्रा०। लाभे “सर्वावाप्त्यै सर्वस्यावरुद्ध्यै” शत० ब्रा० “तपः किलेदं तदवाप्तिसाधनम्” कुमा० “दीक्षां विवेश धर्मात्मा वाजिमेधाप्तयेततः” भा० आश्व० १८ अ०। ८ उत्तरकाले आयतौ च त्रिकाण्ड०।

आप्त्य = त्रि० आप–तव्य वेदे नि०। १ आप्तव्ये “पनित आप्त्यो यजतः” ऋ०५, ४१, ९। “आप्त्यः आप्तव्यः” भा० लोके तु आप्तव्य इत्येव। आप्तिमर्हति यत्। २ आप्तियोग्ये त्रि०।

आप्नवान = पु० अप्नवानएव स्वार्थे अण्। अप्नवानशब्दार्थे वत्सगोत्र प्रवरे ऋषिभेदे।

आप्य = त्रि० अपामिदम् अण् चातु स्वार्थे ष्यञ्। १ जलसम्ब न्धिनि अपां विकारे तु अस्मयमित्येव” सि० कौ० आपयत्। २ प्राप्ये त्रि० “योनोनेदिष्ठमाप्यम्” ऋ० ७, १५२, ३ चाक्षुषमन्वन्तरीये देवभेदे च। “चाक्षुषस्यान्तरे तात! मनोर्देवानिमान् शृणु। आप्याः प्रभूता ऋभवः पृथुकाश्च दिवौकसः। लेखानाम महाराज पञ्च देवाः प्रकीर्त्तिता” हरिवं १७ अ०। “मानुषा आशापाला अथैते देवाश्चाप्याः साध्याः अन्वाध्या मरुतः” इति शत० ब्रा० कर्म्मभिराप्यत्वात्तेषामाप्यत्वम् द्रष्टव्यम्। ४ (कुड)वृक्षे पु० रायमुकुटः।

आप्यान = न० आ + प्याय–भावे क्त। १ प्रीतौ २ वृद्धौ च। कर्त्तरि क्त। ३ प्रीते ४ वृद्धे च त्रि०।

आप्यायन = न० आ + प्याय–ल्युट्। १ वृद्धौ, २ प्रीतौ च। णिच् ल्युट्। ३ तर्पणे प्रीणने ४ वर्द्धने च “अग्नेः सोमयमाभ्यां च कृत्वाप्यायनमादितः” मनुः। ल्यु। ५ प्रीणनकर्त्तरि त्रि०। “पितृप्रसादमिच्छेयं तप आप्यायनं पुनः” भा० व० प० ८३ अ०। “दैवं हि पितृकार्य्यस्य पूर्व्वमाप्यायनं स्मृतम्” मनुः तन्त्रोक्ते ६ दीक्षणीयमन्त्रसंस्कारभेदे “मन्त्राणां दशकथ्यन्ते संस्काराः सिद्धदायिनः। जननं जीवनं पश्चात्ताडनं बोधनं तथा। अथाभिषेको विमलीकरणाप्यायने तथा। तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंक्रियाः” इति विभज्य। “कुशीदकेन मन्त्रेण प्रत्यर्ण्णं प्रोक्षणं मनोः। तेन मन्त्रेण विधिवदेतदाप्यायनं मतम्” शा० ति० उक्तम्।

आप्यायित = त्रि० आ + प्याय–णिच्–क्त। १ प्रीणिते २ पूरिते ३ वर्द्धिते च। “एषा सूर्य्यस्य वीर्य्येण सोमस्याप्यायिता तनुः। पौर्ण्णमास्यां स दृश्येत संपूर्ण्णो दिवसक्रमात्” कू० पु०। ४ आनन्दिते च।

आप्र = त्रि० आ + पृ मूल० क। १ पूरके। “स्वर्जेषे भर आप्रस्य वक्मनिः” ऋ० १, १३२, २ “चक्षुर्मित्रस्य वरुणस्याग्नेराप्रा द्यावा” सूर्य्योपस्थानमन्त्रः।

आप्रच्छन = न० आ + प्रच्छ–ल्युट्। गमनागमनसमये १ वेन्धूनानायोन्यकुशलजिज्ञासायाम् २ आनन्दसम्पादने च।

आप्रच्छन्न = त्रि० आ + प्र–च्छद–क्त। १ अत्यन्तगुप्ते २ ईषद्गुप्ते च अस्याप्रच्छनार्थत्वोक्तिः शब्दकल्पद्रुमे प्रामादिकी हेमचन्द्रे आप्रच्छनमित्येव पाठः द्वित्वनकारयुक्तपाठस्तु प्रमादिकः।

आप्रपद = अव्य० प्रपदं पदाग्रं तत्पर्य्यन्तम् अव्ययी०। पादाग्रपर्य्यन्ते

आप्रपदीन = त्रि० आप्रपदं पादाग्रान्तं व्याप्नोति ख। पादाग्रान्तं लम्बमाने वस्त्रादौ।

आप्रवण = त्रि० ईषत् प्रबणः। ईषन्नम्रे आ + प्रु–ल्युट्। ईषद्द्रवणे।

आप्री = स्त्री आप्रीणात्यनया आ–प्री–ड गौरा० ङीष्। प्रयाजयाज्यायाम् “प्रैषेभिः प्रैषेणाप्नोत्याप्रीभिराप्रीर्यज्ञस्य” यजु० १९, १९। “आप्रीभिः प्रयाजयाज्याभिः” वेददी० ताश्च याज्याः सूक्तविशेषात्मका गोत्रभेदेन भिन्नरूपाः “एकादश प्रयाजाः तेषां पैषाः प्रथमं प्रैषसूक्तमुक्तं द्वितीये। अध्वर्युप्रेषितोमैत्रावरुणः प्रेष्यति प्रेषैर्होतारम्। होता यजत्याप्रीभिः प्रैषलिङ्गाभिः” इत्युपक्रम्य “समिद्धो अग्निरिति” शुनकानां “जुषस्व नः समिधमिति वशिष्ठानां, “समिद्धो अद्येति” सर्व्वेषाम् यथाऋषि वा” इति आश्व० श्रौ० गोत्रभेदेन सूक्तभेदस्योक्तेः। अत्र नारायणवृत्तिः। “यो यस्य ऋषिस्तदानुगुण्यं यथर्षिशब्देनोच्यते तथा वाऽऽप्रीसूक्तं ग्रहीतव्यम्। स्वयं वा ऋषिनामधेयस्यानुगुणा आप्र्यः कर्त्तव्या इत्यर्थः। तत्र भगवता शौनकेन यथाऋषिपक्षे आप्रीविवेकार्थमेव श्लोक उक्तः। “कण्वाङ्गिरोऽगस्त्यशुनका विश्वामित्रोऽत्रिरेव च। वशिष्ठः कश्यपो वाध्र्यश्वो जमदग्निरथोत्तमः”। तत्र दशानां सूक्तानां प्रथमं कण्वानाम् “सुमिद्धो न आवह” इति। द्वितीयं तद्वर्जितानामङ्गिरसाम्, “समिद्धो अग्न आवह” इति। तृतीयमगस्त्यानाम्, “समिद्धो अद्यराजसि” इति। चतुर्थं शुनकानाम्, “समिद्धो अग्निर्निहितः” इति। पञ्चमं विश्वामित्राणाम्, “समित्समित्सुमनाः” इति। षष्ठमत्रीणाम्, “ये समिद्धाय शोचिषे” इति। सप्तमं वशिष्ठानाम्, “जुषस्व नः समिध” इति। अष्टमं कश्यपानाम् “समिद्धो विश्वतस्पतिः” इति। नवमं वाध्र्यश्वानाम्, “इमां मे अग्ने समिधं जुषखेड” इति। शुनकवाध्र्यश्वानाम् भृगूणां दशमं, “समिद्धो अद्य मनुषो दुरोणः” इति यथर्षिपक्षे विवेकोऽयम्”।

आप्रीत = त्रि० आ + प्री–क्त। १ सम्यक्प्रीते ३ ईषत्प्रीते च। भावे क्त। सम्यक्प्रीतौ न०।

आप्रीतप = पु० आप्रीतं पाति पा–क। विष्णौ “अथ यद्याप्याय्यमानः किञ्चिदाप्रद्येत विष्णवआप्रीतपाय स्वाहेति जुहुयात् विष्णुर्हि स तर्ह्याप्रीतपा भवत्यपपाप्मानं हत उपैनं यज्ञोनमति” शत० ब्रा०। क्विप्। आप्रीतपा अप्यत्र।

आप्लव = पु० आ + प्लु–घञभावपक्षे अप्। १ स्नाने, जलानां सर्व्वतः समुच्छलने। ल्युट् आप्लवनम् तत्रैव न०।

आप्लवव्रतिन् = पु० आप्लवः समावर्त्तनस्नानमेव व्रतमस्त्यस्य इनि। स्नातके गृहस्थभेदे यस्तु वेदानघीत्य दार परिग्रहार्थं कृतसमावर्त्तनस्नानः दारलाभात् प्राक् स्मार्त्तं बतविशेषमाचरति तादृशे द्विजे “अलाभे चैव कन्यायाः स्नातकव्रतमाचरेत्” स्मृत्युक्तं व्रतं च दर्शितं विधानपा० यथा “स्नात्वैवं विधिना काले मासमात्रमपि द्विजः। अनाश्रमी न तिष्ठेत्तु सुखस्थस्तु प्रयत्नवान्। निःस्वोरोगार्दितोभीत आपन्नोऽन्यैश्च कारणैः। स्नातकः प्रयतो वह्रिं न त्यजेदिति वै श्रुतिः। नित्यदा ब्रह्मचारी स्यात् पञ्चयज्ञपराथणः। जपतीर्थरतोवा स्यात् स्नातकोलौल्य वर्ज्जितः। श्राद्धे निमन्त्रितो गच्छेत् कुर्य्यात् षट्कर्म्म च द्विजः। येन केनाप्युपायेन व्रतचर्य्यां न लोपयेत्। शकलान् जुहुयात् प्रातः” स्मृतिः अत्र प्रातरितिविशेषणात् न सायम्। तेन प्रातः सन्ध्यामुपास्याग्निकार्य्यं कृत्वा शकलहोमः कार्य्यः तन्मन्त्राश्च तैत्तिरीयारण्ये पठिताः “दैवकृतस्यैनसोऽवयजनमसि स्वाहेत्यादिकाः। तदीय होमद्रव्यविशेषोबौधायनेनोक्तः “सएष उपनयनप्रभृति व्याहुतिभिः षडिभरेव समिद्भिः आ समावर्त्तनात्। समावर्त्तनप्रभृति आज्येनैव आ पाणिग्रहणात्। पाणिग्रहणप्रभृति व्रीहिभिर्यवैर्वा व्यस्तेनेकेन पञ्चाहुती र्जुहुयात्” “वैश्वदेवं गृहस्थस्य प्रत्यहारम्भणं भवेत्। स्नातकेनापि तत्कार्य्यं पृथक्पाको गृहे यदि” शौनकः। “यज्ञोपवीतद्वितयं सोदकं च कमुण्डलुम्। छत्रञ्चोष्णीषमाले च पादुके चाप्युपानहौ। रौक्मे च कुण्डले वेणुं कृत्तकेशनखः शुचिः। स्याध्याये नित्ययुक्तः स्यात् बहिर्माल्यञ्च धारयेत्। शुक्लाम्बरधरोनित्यं सुगन्धः प्रियदर्शनः। न जीर्ण्णमलवद्वासा भवेच्च विभवे सति। न रक्तमुल्वणं चान्यधृतं वासो न कन्थिकाम्” कूर्म्मपु०। “उपानहौ च वासश्च धृतमन्यैर्न धारयेत्। उपवीतमलङ्कारं स्रजं कनकमेव च” मनुः। “स्नातः समुद्वहेत् कन्यां प्रव्रजेत्तदनिच्छुकः। वनस्थो वा भवेद्विप्रः सुखस्थो विधिना शुचिः। अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः। आश्रमेण विना तिष्ठन् प्रायत्तीयते हि सः” इति विधा पा० धृता स्मृतिः। तस्य कन्यालाभार्थं काम्यजप उक्त ऋग्विधाने “सुषुमं प्रजपेत् सूक्तमथ सम्यक् शिवालये। अयुतं तु जपेत् कन्यां षण्मासात् लभते नर” इति।

अत्रानाश्रमदोषविषये किञ्चिदुच्यते स्नातको हि गृहस्थभेदोद्विजातिमात्रः समावर्त्तनस्नानस्य तेषामेव सम्भवात्। अतस्तद्विषयकमेवानाश्रमादिदोषोत्कीर्त्तनम्। तथा हि विधानपारिजातधृतयोः स्मृत्योः “स्नात्वैव विधिना काले” इत्यादौ स्नातः समुद्वहेत् कन्यामित्यादौ चोपक्रमे द्विजातिविषयकत्वावगमेन उपसंहारे अनाश्रमदोषकीर्त्तनं तद्विषयकमेव उपक्रमोपसंहारयोरेकविषयकत्वौचित्यात्। एतेन “स्वीकरोति यदा वेदं चरेद्वेद- व्रतानि च। ब्रह्मचारी भवेदूर्द्ध्वं ततः स्नातो भवेद्गृही। द्विविधो ब्रह्मचारी तु स्मृतः शास्त्रे मनीषिभिः। उपकुर्व्वाणकस्त्वाद्यो द्वितीयो नैष्ठिकः स्मृतः। योगृहाश्रम मस्थाय ब्रह्मचारी भवेत् पुनः। न यतिर्न वनस्थश्च सर्वाश्रमविवर्ज्जितः। अनाश्रमी न तिष्ठेत्तु दिनमेकमपि द्विजः। आश्रमेण विना तिष्ठन् प्रायश्चित्तीयते हि सः। जपे होमे तथा दाने स्वाध्याये च रतस्तु यः। नासौ तत्फलमाप्नोति कुर्व्वाणोऽप्याश्रमाच्च्युतः। त्रयाणामा नुलोम्यं हि प्रातिलोम्यं न विद्यते। प्रातिलोम्येन योयाति न तस्मात् पापकृत्तमः” दक्षवचनमपि वेदाध्ययनोत्तरस्नातकानामेवोपक्रमे कीर्त्तनात् अन्ते च त्रयाणामाश्रमाणामानुलोम्यविधानाच्च द्विजमात्रविषयकम् यत्तु तद्वाक्यैकदेशमादाय रघुनन्देन अनाश्रमी न तिष्ठेत्त्वित्यादि वाक्यं शूद्रोपलक्षणपरमुक्तं न तद्युक्तमुपक्रमोपसंहाराभ्यां द्विजमात्रविषयकत्वनिश्चयात्। किञ्च त्रयाणामानुलोम्योक्तेरपि न शूद्रविषयकत्वं तत्प्रदर्शितवामन पुराणवचने शूद्रस्यैकमात्राश्रमावगतेः तथा च येषामेव आश्रमचतुष्टयं तत्त्रयं तद्द्वयं वा सम्मवति तेषामेवानुलोम्य प्रातिलोम्यसम्भव एकमात्राश्रमस्य शूद्रस्यः कथन्तरामानुलोम्म्यप्रातिलोम्यसम्भवः। एतेन “व्रतेषु लोपकोयश्च आश्रमाद्विच्युतश्च यः। संदंशयातनामध्ये पततस्ताबुभावपि” इति भविष्यपुराणवचनेन दक्षस्मृतेः सङ्कोचनमपि परास्तम् “श्रुतिस्मृतिपुराणानां विरोधो यत्र दृश्यते। तत्र श्रौतं प्रमाणं तु तयोर्द्वैधे स्मृतिर्वरेति” विधान पा० धृतव्यासवाक्येन पुराणापेक्षया स्मृतेर्वरत्वकीर्त्तनेन पुराणेन स्मृतेर्बाधस्यायोग्यत्वात् “विरोधे त्वनपेक्षमसति ह्यनुमानमिति” जैमिनिसूत्रेण श्रुतिस्मृत्योर्बिरोधे स्मृतेराप्रमाण्यस्येव स्मृतिपुराणयोर्विरोधेऽपि पुराणस्याप्रमाण्यस्यैवोचितत्वात् वस्तुतः नात्र विरोधः “स्पष्टस्य तु विधेर्नान्यैरुपसंहार इष्यते” इतिन्यायेनार्थक स्मृतौ द्विजपदस्य स्पष्टतया अन्योपसंहारकत्वासम्भवेन पौराणिकयच्छब्दस्यास्पष्टार्थकतया तत्परत्वकल्पनेनैवोपपत्तौ विरोधाभावात् तथा च भविष्यपुराणवचनमेव द्विजातिविषयकं न शूद्रविषयकमित्येव कल्पनीयमिति। अत्रेदं विवेक्तव्यं किं पौराणिकास्पष्टार्थकयच्छब्दस्य यावद्वर्ण्णविषयकत्वमुत स्पष्टार्थकस्मृत्येकवाक्यतया त्रैवर्णिकमात्रविषयकत्वं तत्र पुराणेन स्मृतेर्बाधायोगेन पौराणिकयच्छब्दस्यैव स्मृत्यु क्तत्रिवर्ण्णपरत्वकल्पनं युक्तमित्य त्पश्यामः। यदपि “चत्वार आश्र- माश्चैव ब्राह्मणस्य प्रकीर्त्तिताः। ब्रह्मचर्य्यञ्च गार्हस्थ्यं वानप्रस्थञ्च भिक्षुकम्। क्षत्रियस्यापि कथिता आश्रमास्त्रय एव हि। ब्रह्मचर्य्यञ्च गार्हस्थ्यमाश्रमद्वितयं विशः। गार्हस्थ्यमुचितं त्वेकं शूद्रस्य क्षणमाचरेत्” वाम० पु० वाक्यं तत् शूद्रस्य गार्हस्थ्यमात्राधिकारबोधकम्। न तु तदकरणे पापजनकताबोधकमपि उचितमिति पदस्वारस्यात् उचितपदस्य योग्यार्थकत्वात् तेनैव उद्वा० त० क्षणमुत्सवमिति व्याख्यानेन तदीयगृहस्थाश्रमस्योत् सवार्थकत्वोक्त्या काम्यत्वसूचनात् “चत्वारिंशद्वत्सराणां साष्टानाञ्च परे यदि। स्त्रिया वियुज्यते कश्रित् स तु रण्डाश्रमी मतः। अष्टाचत्वारिंशदब्दं वयोयावन्न पूर्य्यते। भार्य्यापुत्रवियुक्तस्य नास्ति यज्ञेऽधिकारितेति” भविष्यपुराणवचनमपि यज्ञेऽधिकारिताप्रतिषेधात् द्विजविषयकमेव शूद्रस्य यज्ञेऽनधिकारात्। द्विजातीनामेव यज्ञीयाज्यावेक्षणादेः पत्रीसाध्यतया पत्न्यभावे कथमाज्यावेक्षणाद्यङ्गसिद्धिरिति युक्तः तेषामनधिकारः” यज्ञाधिकारे शूद्रस्य पर्य्युदस्तया तदधिकाराभावकथनमनर्थकं स्यात्। अतो येषामेव यज्ञाधिकारस्तेषामेव भार्य्याराहित्ये अनधिकारिताप्रतिपादने वचनं सार्थकम्। तेन तद्द्विजविषयकमेव। एवं प्रागुक्तदक्षवचने जपेहोमे तथा दाने स्वाध्याये निष्फलत्वकथनमपि उपक्रमोपसंहाराभ्यां होमस्वाध्याययोर्द्विजातीनामेव सम्भवाच्च द्विजातिविषयकमेव। अतः शूद्राणांविवाहस्य उत्सवार्थतया काम्यत्वेनाकरणे न पत्यवाय इति सुस्थितम्। एतेन बहुविवाहवादे मया दक्षवचनस्थ द्विजपदस्योपलक्षणार्थकत्वं यत् खण्डितं तत् सुस्थितमेवेति द्रष्टव्यम्।

आप्लाव = पु० आ + प्लु–पक्षे घञ्। आप्लवशब्दार्थे।

आप्लाबित = त्रि० आ + प्लु–णिच्–क्त। जलादिप्रवाहेनाभिव्याप्तो।

आप्लाव्य = त्रि० आ–प्लु–नि० कर्त्तरि ण्यत्। १ आप्लवनकारके। भावे ण्यत्। २ कर्त्तव्याप्लवने न०। कर्मणि ण्यत्। जलादिना ३ अभिव्याप्ये त्रि०।

आप्लुत = त्रि० आ + प्लु–क्त। १ स्नाते २ आर्द्रीभूते च ३ स्नातके गृहस्थभेदे पु०। भावे क्त। ४ स्नाने न०।

आप्लुतव्रतिन् = पु० आप्लुतस्य स्नातस्य व्रतमस्त्यस्य इनि। स्नातके गृहस्थभेदे। आप्लवव्रतिशब्दे विवृतिः।

आप्लुत्य = अ० आ + प्लु–ल्यप्। स्नात्वेत्यर्थे, २ उत्प्लुत्य उल्लम्फ्येत्यर्थे च।

आप्लुष्ट = त्रि० आ + प्लुष–क्त। १ ईषद्दग्धे २ सम्यग्दग्धे च।

आप्व = पु० आप–वन्। वायौ सि० कौ० कण्ठस्थाने उज्ज्वल० वन्प्रत्ययाधिकारे उणादौ निपा० अदन्तएवायम्। शब्दकल्पद्रुमे नान्तत्वकल्पनं चिन्त्यम्।

आफूक = न० ईषत् फूत्कारैव फेनोऽत्र पृ० तलोपः। अफेनेवैद्यकम्।

आबद्ध = न० सम्यक् आबद्धम् + वन्ध–भावे क्त। दृढबन्धने। १ आधारे क्त। २ प्रेम्णि। कर्मणिक्त। ३ बद्धे ४ आप्ते ५ प्रतिरुद्धे च त्रि०। “पयोधिमाबद्धचलज्जलाबिलम्” माघः “आबद्धभीमभ्रुकुटीकरालम्” भट्टिः। “स्यन्दनाबद्धदृष्टिषु” रघुः। ६ भूषणे च। बा० करणे क्त। ७ योक्त्रे।

आबन्ध = पु० आ + बन्ध–घञ्। १ दृढबन्धे, करणे घञ्। २ योक्त्रे आधारे घञ्। ३ प्रेम्णि च। ल्युट् आबन्धनप्यत्र न०।

आबर्ह = पु० आ + बर्ह–हिंसायां घञ्। १ उत्पाटने २ हिं सने च ल्युट्। आबर्हणमप्यत्र न०।

आबर्हिन् = त्रि० आबर्होस्त्यस्य इनि। उतपाटनयुक्ते “मूलमस्याबर्हिं” पा० आबर्ह आबर्हणं तदस्यास्ति आबर्हिसि० कौ०।

आबाध = पु० आ + बाध–घञ्। पीडायां “आबाधे” पा० “आबाधे पीडायाम्” सि० कौ० “यथासुखमुखः कुर्य्यात् प्राणाबाधबाधभयेषु च” “न चैनंपादत कुर्य्यान्न प्राणाबाधमाचरेत्” मनुः “तत्र मनःशरीराबाधकराणि शल्यानि” सुश्रु० नास्ति बाधा यस्य। ३ पीडाशून्ये त्रि०।

आबाधा = स्त्री आ + बाध–भावे अ। १ पीडायाम् २ तापत्रये क्लेशे च। “आबाधामरणभयार्चिषा चिराय” किरा० लीलावत्युक्ते ३ अबाधाशब्दार्थे २३९ पृष्ठे विवृतिः।

आबिल = त्रि० आ + बिल–भेदने क। १ अस्वच्छे कालुष्ययुक्ते अस्वच्छस्य हि जलादेः सम्यग्द ष्टिप्रसारभेदनात्तथात्वम्। “पयोधिमाबद्धचलज्जलाबिलम्” माघः। २ भेदके त्रि०

आबिलकन्द = पु० आबिलोभूमेराभेदकः कन्दो मूलमस्य। मालाकन्दे क्षुपभेदे तस्य मालाकारकन्दतया भूमेः सम्यग्भेदनात्तथात्वम्।

आबुत्त = पु० आपनमाप् क्विप् आपे प्राप्त्यै उत्ताम्यति उद् + तम–दृ। नाट्योक्तौ भगिनीपतौ। बहुप्राप्तो सन्तोषा भावेन दु खित्वात्तस्य तथात्वम्।

आब्द = त्रि० अब्दे मेघे भवः तस्येदम् इति वा अण्। १ मेघभवे २ मेघसम्बन्धिनि च।

आभग = पु० सम्यक् भगं माहात्म्यं यस्य। आभाग्येदेवे “सोमोमूत्यावपानेष्ठा भगोदेवोदेवेष्वाभगः” ऋ० १, ३६, ४

आभण्डन = न० आ + भण्ड–ल्युट्। निरूपणे शब्दचि०।

आभयजात्य = पुं स्त्री अभयजातस्यापत्यं गर्गा० यञ्। अभयजातस्यापत्ये स्त्रियां ङीप् यलोपः। ततः कण्वा० अण् यलोपः। आभयजातः तदपत्ये पुं स्त्री स्त्रियां ङीप्

आभरण = न० आ + भृ–कर्मणि ल्युट्। भूषणे। “किमित्यपास्याभरणानि यौवने” कुमा० “वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिता” “वाहनानि च सर्वाणि शस्त्राण्याभरणानि च” मनुः “पाण्डवानां सभामध्येऽदुर्य्योऽधन उपागत। तस्मै गाञ्च हिरण्यञ्च सर्वाण्याभरणानि च” विदग्धसु० भावे ल्युट्। २ सम्यक्पोषणे न०।

आभरित = त्रि० आभर आभरणं जातोऽस्य इतच् आ + भृबा० इतच् इट् च १ पूरिते २ अलङ्कृते। “हस्ताभरणपूर्णेन केयूराभरितेन च” हरिवं० १६ अ०।

आभर्म्मन् = न० आ + भृ + मनिन्। १ सम्यग्भरणे गर्भादेः २ पोषणे

आभा = स्त्री आ + भा–अङ्। १ दीप्तौ, २ शोभायाम् कान्तौ, ३ उपमाने, आभा “ववूलपर्य्यायः कथितः कोविदैरिह” भा० प्र० उक्ते ४ ववूले च। “आभाफलत्रिकैर्व्योर्षैः सर्वैरेभिः समीकृतैः तुल्यगुग्गुलुरायोज्योभग्नसन्धिप्रसाधकः” चक्रद०।

आभाति = स्त्री आभाति त्युल्परूपतया आ + भा–क्तिच्। प्रतिविम्बे राजनि०। तस्य विम्बतुल्यतया द्रीप्तेस्तथात्वम्।

आभाषण = न० आ + भाष–ल्युट्। परस्परकथने २ आलापे “सम्बन्धमाभाषणपूर्य्यमाहुः” रघुः। ३ सम्बोधने च।

आभाष्य = त्रि० आ + भाष–ण्यत्। आमन्त्रणीये १ संबोध्ये ३ आलाप्ये च “जनमाभाष्यमिमं न मन्यसे” रघुः। आ + भाष–ल्यप्। ५ संबोध्येत्यर्थे अव्य०।

आभास = पु० आभासते आ + भास अच्। उपाधितुल्यतया भासमाने १ प्रतिविम्बे “आभासोरूपसूर्य्यकवत्” शा० सू० “बुद्धिवृत्तिचिदाभासौ द्वावेतौ व्याप्नुतो घटम्। तत्राज्ञानं धिया नश्येदाभासात्तु घटः स्फुरेत्” वेदा० का०। २ दुष्टे हेत्वादौ “हेत्वाभासाश्च पञ्चधा” भाषा०। “सव्यभिचारविरुद्धप्रकरणमसाध्यसमातीतकाला हेत्वाभासाः” गौ० सू०। पक्षसत्त्वसपक्षसत्त्वविपक्षासत्त्वाबाधितत्वासत्प्रतिपक्षितत्वोपपन्नोहेतुर्गमकः स इवाभासत इति हेत्वाभासस्तेन तद्भिन्नत्वे सति तद्धर्म्मवत्त्वम् पञ्चरूपोपपन्नत्वाभावे सति तद्रूपेणाभासमानत्वं हेत्वाभासत्वमिति फलितार्थः “हेत्वाभासाश्च यथोक्ताः” गौ० सू०। एवं प्रमाणाभासः युक्त्याभासः आगमाभासैत्यादावपि प्रामाण्याद्यभाववत्त्वे सति प्रमाणादिरूपेणाभासमानत्वमर्थः। “एवं बहवो विप्रतिपन्नायुक्तिवाक्यतदाभाससमाश्रयाः सन्तः” शा० भा०। तथा च यद्वाचकपदोत्तरमाभासशब्दः प्रयुज्यते तस्य दुष्टत्वंतेन गम्यते। रसाभासादावपि तिर्य्य ग्योन्यादिगतत्वेन परनायकगतत्वेन च दुष्टत्वाद्रसाभासत्वम्। पुनरुक्तवदाभासादौ च न दुष्टत्वम् किन्तु पुनरुक्तभिन्नत्वेनाभासमानत्वात् वस्तुतोऽपुनरुक्त्वमेव गम्यते इत्येव तत्र विशेषः। “रस्यत इति रस इति व्युत्पत्तिदर्शनात् भायतदाभासादयोऽपि गृह्यन्ते” सा० द० तत्र रसाभासः “मधु द्विरेफः कुसुमैकपात्रे” इत्यादि। “अत्र हि सम्भोग शृङ्गारस्य तिर्य्यग्विषयत्वाद्रसाभासत्वम्” सा० द०। “आपाततोयदर्थस्य पुनरुक्तावभासनम्। पुनरुक्तवदाभासः” सा० द०। भावे घञ्। ३ तुल्यप्रकाशे। आभास्यतेऽनेन आ + भास–णिच्–करणे अच्। ग्रन्थावतारणार्थं ४ ग्रन्थाभिप्रायवर्ण्णने व्याख्यानांशभेदे च।

आभासुर = त्रि० आ + भास–घुरच्। सम्यग्दोप्तिशीले।

आभास्वर = त्रि० आ + भास–वरच्। १ सम्यग्दीप्तिशोले चतुः बष्टिमिते २ गणदेवभेदे “आत्मा ज्ञाता दमोदान्तः शान्तिर्ज्ञामं शमस्तपः। कामः क्रोधोमदोमोहो द्वादशाभास्वराइमे” इत्युक्ते ३द्वादशमिते गणभेदे च पु०। एषाञ्च स्वस्ववृत्त्याभास्वरत्वात्तथात्वम्।

आभिचरणिक = त्रि० अभिचरणं प्रयोजनमस्य ठञ्। अथर्व्ववेदादिप्रोक्ते शत्रुप्रभृतेर्मारणोच्चाटनवशीकरणादिरूपाभिचारसाधने १ मन्त्रादौ तत्साधने २ विधानभेदे च। “रौद्रं राक्षससासुरमाभिचरणिकं मन्त्रमुक्त्वा पित्र्यमात्मानं चालभ्योपंस्पृशेदपः” कात्या० १, १०, १४, “अभिचरणम् अभिचारः प्रयोजनमस्यासावाभिचारणिकः प्रयोजनमित्यर्थे ठञ्। “बधान देव! सवितः परमस्यां पृथिव्यां शतेन पाशै र्योऽस्मान् द्वेष्टियं च वयं द्विष्म स्तमतोमा मौक्” यजु० १, २५, “द्विषतो बधोऽसि य० १२८ इत्यादि तत्र शत्रुनामादिसंयुक्तः अभिचारार्थमेव प्रयुज्यमान आभिचरणिक इत्युच्यते तेमाभिचरणबुद्ध्यभावे मन्त्रस्याभिचरणप्रयोजनाभावान्नाभिचरणिकत्वम् अतस्तदुच्चारणे उदकस्पर्शाभाव” कर्कः। एवमन्येऽपि मन्त्रा अथर्ववेदोक्ता ज्ञेयाः। तद्विधानञ्च अथववेदान्तर्गते आङ्गिरसकल्पे विस्तृतम्। एवं तन्त्रोक्ताभिचारविधानम् तन्त्रसारादौ विस्तृतम्। अभिचार + प्रयोजनार्थे ठञ्। आभिचारिकोऽप्यत्र। स्त्रियामुभयत्र ङीप्।

आभिजन = त्रि० अभिजनादागतः अभिजनस्येदं वा अण्। अभिजनाद्वं शादागते “तां पार्वतीत्याभिजनेन नाम्ना” कुमा०। २ वंशसम्बन्धिनि च।

आभिजात्य = न० अभिजातस्य भावः ष्यञ्। १ कौलीन्ये २ पाण्डित्ये ३ सौन्दर्य्ये च।

आभिजित = त्रि० अभिजिति नक्षत्रे जातः अण्। अभिजिन्नक्षत्रे जाते तस्य वा लुक्। अभिजिदपि तत्रैवार्थे। अभिजित इदम् अण्। गवामयनान्तर्गताभिजिन्नामकदिन सम्वन्धिनि सामादौ त्रि०।

आभिजित्य = त्रि० अभिजिति भवः अण् ततः स्वार्थे यञ। अभिजिद्भवे।

आभिधा = स्त्री अभिधैव स्वार्थेऽण्। अभिधाशब्दार्थे १ शब्दवृत्तिभेदे २ कथने च

आभिधातक = न० आभिधां तकति सहते अच्। शब्दे

आभिधानीयक = न० अभिधानीयस्य भावः योपधगुरूपोत्तमत्वात् वुञ्। कथनीयत्वे

आभिप्लविक = त्रि० अभिप्लवे विहितः ठक्। अभिप्लवविहित सूक्तसामादौ। अभिप्लवशब्दार्थश्च अभिप्लवशब्दे दृश्यः। तच्च साम “ज्योतिर्गौरायुर्गौरायुर्ह्योतिरित्यादि” सूक्ते गेयम्। अभिप्लवाय हितः ठक्। गवामयनान्तर्गतषडहभेदे पु०।

आभिमानिक = त्रि० अभिमानेन निर्वृत्तः ठक्। सांख्यमतसिद्धे अभिमानोत्पादिते उभयेन्द्रिये शब्दादिपञ्चन्मात्रे च। यथैषाभिमाभिककत्वं तथीक्तं सां० प्र० भा० “तन्मात्रेन्द्रियाण्यभिमानवद्द्रव्योपादानकान्यभिमानकार्य्यद्रव्यत्वात् यन्नैवं तन्नैवम् यथा पुरुषादिरिति। नन्वभिमानवद्द्रव्यमेवासिद्धमिति चेत् अहं गौर इत्यादि वृत्त्युपादानतया चक्षुरादिवत् तत्सिद्धेः। अनेन चानुमानेन मन आद्यतिरेकिमात्रस्य तत्कारणतया प्रसाध्यत्वात्। अत्र चायमनुकुलस्तर्कः “बहु स्यां प्रजायेयेत्यादि” श्रुतिस्मृतिभ्यस्तावद्भूतादिसृष्टेरभिमानपूर्ब्बकत्वाद् बुद्धि पूर्ब्बकसृष्टौ कारणतयाभिमानः सिद्धः। तत्र चैकार्थ समवायप्रत्यासत्त्यैवाभिमानस्य सृष्टिहेतुत्वं लाघवात्”

आभिमुख्य = न० अभिमुखस्यभावः ष्यञ्। अभिमुखत्वे आनुकूल्यार्थसम्मुखीभवने “प्राप्ताभिमुख्यः पुरुषः क्रियासु विनियुज्यते” वाक्यप०। “अनुकूलत्वे २ विशेषादाभिमुख्येन चरन्तोव्यभिचारिणः। स्थायिन्यु न्मग्ननिर्ग्नास्त्रय स्त्रिंशच्च तद्भिदाः” सा० द०। तत्र यात्रादौ राहोराभिमुख्य निषेधः ज्यो० त० “पश्चादर्के विधौ वह्नौ सौम्यां ज्ञे वायवे कुजे। रक्षोऽधीशे भृगौ याम्यां गुरावीशे शनौ दिने। राहुर्भ्रमति यामार्द्धादश्वगत्या च वामतः। प्रतीच्यां वह्नि कोणे तु ततः सौम्यामतोऽसृपे। ततः प्राच्यामतोवायौ तस्माद्याम्यां ततः शिवे। रवावेवमन्यवारेषूह्यमेवं क्रमेण हि द्यूते युद्धे विवादे च यात्रायां सम्मुखस्थितम्। राहुं विवर्ज्जयेत् यत्नाद्यदीच्छेत् कर्मणः फलम्”। एवं योगिन्याभिमुख्येऽपि गमनं न शस्तम् यथा “प्रतिपन्नवमी पूर्वे रामा रुद्राश्च पावके। शरस्त्रयोदशी याम्ये वेदा मासाश्च नैरृते। षष्ठी चतुर्द्दशी पश्चात् वायव्यां मुनिपूर्ण्णिमे। द्वितीया दशमी यक्षे ऐशान्यामष्टमी कुहूः। योगिनी नवदण्डाश्च शेषा वर्ज्या विशेषतः। दक्षसम्मुखयोगिन्यां गमनं नैव कारयेदिति” ज्यो० त०। पीयूषधारायान्तु “पृष्ठतोदक्षिणे वापि योगिनीगमने हिता। वामसम्मुखयोर्नैव वायुमेवं चिन्तयेत्” जयकल्पलता वाक्ये तन्मूलके मुहूर्त्त० चि० वाक्ये च “नवभूम्यः शिववह्नयोऽक्षविश्वेऽर्ककृताः शक्रस्तुरङ्गतिथ्यः। द्विदशामावसवश्च पूर्व्वतः स्युस्तिथयः सम्मुखवामगा न शस्ताः” वामगाया अशुभत्वमुक्तम्। अन्योर्व्यवस्था देशभेदेन। कालपाशयोराभिमुख्येन यानमपि न शस्तम् “कौवेरीतो वैपतीत्येन कालो वारेऽर्काद्ये सन्मुखे तस्य पाशः। यात्रायुद्धेसम्मुखे वर्ज्जनीयावेतो रात्रौ व्यस्तसंज्ञौ विचिन्त्यौ” मुहू०। स्पष्टं रत्नसारे “रवावुत्तरतः कालः सोम्ये वायव्यभागके। भौमे तु पश्चिमे भागे बुधे नैरृतकोणके। जीवे च याम्य दिग्भागे भृगौ चाग्नेयकोणके। शनौ तु पूर्व्वदिग्भागे कालचक्रं प्रकीर्त्तितम्। पाशस्तत्सम्मुखदिशि” कालापेक्षया पञ्चमदिशि पाश इत्यर्थः यथा रवौ दक्षिणस्यां, सोमे आग्नेय्यां, भौमे पूर्य्यस्यां, बुधे ऐशान्यां, गुरावुत्तरस्यां, शुक्रे वायव्यां, शनौ पश्चिमायाम्। कालपाशयोराभिमुख्यं यात्रादौ निषिद्धं वामदक्षिणयोस्तु शुभाशुमफलकत्वं यथाह स्वरो० “दक्षिणस्तु शुभः कालः पाशोवामदिगाश्रयः। यात्राया समरे श्रेष्ठस्ततोऽन्यत्र न शोभनः” “अन्यत्र सम्मुखपृष्ठभागयोः” पी० धा०। रात्रौ तु कालपाशयोर्विपर्य्यासेन स्थितेस्तदनुसारेणैव फलम्। पूर्ब्बादिदिगभिमुखानि नक्षत्राणि। “पूर्व्वादिषु चतुर्द्दिक्षु सप्त सप्तानलर्क्षतः” मुहू० तेन कृत्तिकादीनि सप्त पूर्व्वदिग्मुखानि। मघादीनि सप्त दक्षिणाभिमुखानि। अनुराधादीनि साभिजित्कानि सप्त पश्चिसाभिमुखानि। धनिष्ठादीनि भरण्यन्तादीनि सप्त उत्तराभिमुखानि। तैस्तैर्नक्षत्रैस्तत्तद्दिगभिमुखगृहकरणं तत्प्रवेशश्च शुभाय। “यद्दिग्द्वारं मन्दिरं तद्दिगृक्षैरुक्तर्क्षैः स्यात् सन्निवेशो न सर्व्वैः” वशि०। पूर्व्वादिदिगभिमुखा राशयो यथा। “पूर्ब्बादिदिक्षुमेषाद्याःक्रमाद्दिग्द्वारराशयः। दिग्द्वारराशयः सर्व्वे तद्दिग्यातुः शुभप्रदाः। तद्वर्गाश्च तदंशाश्च तद्दिग्यातुस्तथाविधाः” वशिष्ठः। “दिग्द्वारभे लग्नगते प्रशस्ता यात्रार्र्थदास्त्री जयकारिणी च। हानिं विनाशं रिपुतोभयञ्च कुर्य्यात् तथा दिक् प्रतिलोमलग्ने” इति मूहू०। शुक्राभिमुख्यं त्रिविधम् “उदयति दिशि यस्यां, याति गोलभ्रमाद्वा, विचरति च भचक्र यत्र दिग्द्वारभेषु। त्रिविधमिह सितस्य प्रोच्यते सम्मुखत्वं मुनिभिरुदयएव त्यज्यते तत्र यत्नात्” श्रीपतिः। “उदेति यस्यां दिशि यत्र याति गोलभ्रमाद्वाथ ककुब्भचक्रे। त्रिधोच्यते सम्मुखएव शुक्रो यत्रोदितस्तां तु दिशं न यायात्” मुहू०। “शुक्रः यस्यां दिशि प्राच्यां प्रतीच्यां वा कालवशेनोदयं करोति तत्र गन्तुः पुंसः शुक्रः सम्मुखः अयमेकः प्रकारः। अथ गोलभ्रमातुत्तर दक्षिणगोलभ्रमणवशेन यस्यां दिशि उत्तरस्यां दक्षिणस्यां वा याति तत्र गन्तुः शुक्रः समुखः स्यादिति द्वितीयः प्रकारः। प्राच्यादिदिग्द्वारकृत्तिकादिगतिवशेन यद्दिङ्नक्षत्रे शुक्रश्चरति तत्र दिशि गन्तुः शुक्रः सम्मुखःस्यादिति तृतीयःप्रकारः। तत्रोदयशुक्रे दोषाधिक्यमिति” पी० धा०। अतएव वशिष्ठः “पश्चादभ्युदिते शुक्रे प्रतीर्ची दक्षिणां दिशम्” इति उदयदिग्गतस्यैव शुक्रस्याभिख्येयात्रादि न्यषेधत्। अत्रापवादः “वुधोऽनुकूलो यदि तत्र संचलन् रिपून जयेन्नैव जयः प्रतीन्दुजे” मुहू०। शुक्राभिमुख्यादिदोषमुक्त्वा। “एवं विधेऽप्यास्फुजिते च यायाद्बु धोयदि स्यादनुकूलवर्त्ती” श्नीपतिः। अनुकूलः पृष्ठदिक्संस्थं” इति पी० धा०। अपवादा न्तरम् “नोचगोऽरिगृहस्थो वा वक्रगोवा पराजितः। यातुर्भगप्रदः शुक्रः स्वोच्छस्थश्चेद्धनप्रदः” इति नारदः। प्रतिशुक्रादेदोषोनृणां प्रथमयात्रायां राज्ञां च विजय यात्रायामेव यथाह रैभ्यः। “प्रतिशुक्रादिदोषोऽय नूतने गमने नृणाम्। राज्ञां विजययात्रायां नान्यदा दोषमावहेत्” चन्द्रस्य नक्षत्रविशेषस्थितौ तदपवादः। “यावच्चन्द्रः पूषभात् कृत्तिकाद्ये पादे शुक्रोऽन्धो न दुष्टोऽ ग्रहदक्षे” मुहू०। “पौष्णादिवह्निभाद्याङ्घ्रिं यावत्तिष्ठति चन्द्रमाः। तावच्छुक्रो भवेदन्धः सम्मुखे गमनं हितम्” पराशरः। राज्ञां विजययात्रायां विशेषः। मध्येमार्गं भार्गवास्तेऽपि राजा तावत्तिष्ठेत् सम्मुखत्वेऽपि तस्य” मुहू०। अत्यन्तापदि शान्तिं कृत्वा यावात्। शान्तिश्च पी० धा० यात्राप्रकरणे दर्शिता ततएव ज्ञेया। नृपविजययात्रायां वुधकुजशुक्राभिसुख्यमपि निषिद्धम्। “प्रतिशुक्रं प्रतिबुघं प्रतिभौमं गतोनृपः। बलेन शक्रक्रतुल्योऽपि हतसैन्योनिवर्त्तते” इति वशिष्ठः। एतदभिप्रायोणैव कुमा० वर्ण्णितम्। “दृष्टिप्रपातं परिहृत्य तस्य कामः पुरःशुक्रमिव प्रयाणे” इति। दिगीशाभिमुख्येगमनंशस्तं प्रातिमुख्येऽशस्तम्। तत्रदिगीशाः “सूर्य्यः शुक्रः क्षमापुत्रःसैंहिकेयः शनिः शशी। सौम्यस्त्रिदशमन्त्री च पूर्ब्बादीनां दिगीश्वराः। दिगीशाहे शुभा यात्रा पृष्ठाहे मरणं ध्रुवम्” ज्यो० त०। नववध्वागमनेऽपि शुक्राभिमुख्यनिषेधः सप्रतिसवः ज्यो० त० दर्शितो यथा। दीपिकायां “स्त्रीशुद्ध्यालिघटाजसंगतरवौ काले विशुद्धे भृगुं संत्यज्य प्रतिलोमगं शुभदिने यात्रा प्रवेशोचिते। त्यक्त्वाहस्तु निरंशकं नववधूयात्राप्रवेशौ पतिः कुर्य्यादेकपुरादिषु प्रतिभृगोर्नेच्छन्तिदोषं बुधाः”। पैत्रागारे कुचकुसुमयोः सम्भवो वा यदि स्यात् कालः शुद्धोन भवति यदा संमुखोवापि शुक्रः। मेषे कुम्भेऽलिनि च न भवेत् भास्करश्चेत्तथापि स्वामी भद्रेऽहनि नववधूं वेशयेन्मन्दिरं स्वम्। भर्त्तुर्गोचरशोभने दिनपतौ नास्तं गते भार्गवे सूर्य्ये कीटघटाजगे शुभदिने पक्षे च कृष्णेतरे। हित्वा च प्रतिलोमगौ बुधसितौ जीवस्य शुद्धौ तथा चानीता गुणशालिनी नववधूर्नित्योत्सवा मोदते। एकग्रामे चतुःशाले दुर्भिक्षे राष्ट्रविप्लवे। पतिना नीयमानायाः पुरः शुक्रोन दुष्यति”। तथा “काश्यपेषु वशिष्ठेषु भृग्वत्र्याङ्गिरसेषु च। भारद्वाजेषु वात्स्येसु प्रतिशुक्रोन दोषकृत्” शम्भोराभिमुख्यं पूजने निषिद्धं यथा “न प्राचीमग्रतः शम्भोर्नोदोचीं शक्तिसंस्थिताम्। न प्रतीचीं यतःपृष्ठमतोदक्षंसमाश्रयेत्” रुद्रया०। “यजमानः शम्भोः प्राचीमवस्थितये न समाश्रयेत्। शम्भोर्जगत्संहारकस्याग्रतः सांमुख्यात् पञ्चवक्त्रपक्षे प्रधानं वक्त्रं प्राच्यवस्थितम् एकवक्त्रपक्षे सुतरां तथा” ति० त० रघु०।

***