आनुयव्य = त्रि० अनुयवं भवः परिमुखा० ञ्य। यवस्य पश्चाद्भवादौ।

आनुयूष्य = त्रि० अनुयूषं भवः परिमुखा० ञ्य। यूषस्य पश्चाद्भवादौ।

आनुरक्ति = स्त्री आ + अनु + रन्ज–क्तिन्। १ अनुरागे २ आनुगत्ये च।

आनुराहति = पुं स्त्री० अनुरहतोऽपत्यम् बाह्वा० इञ् अनुश० द्विपदवृद्धिः। मुनिभेदे युवापत्ये तु ततः फक् तौल्वल्वा० नं लुक्। आनुराहतायनः। तस्य युवापत्ये। आनुहारति इति पाठान्तरम्।

आनुरोहति = पुं स्त्री० अनुरोहतोपत्यम् बाह्वा० इञ्। अनुरोहन्मुनेगौत्रापत्ये तस्य युवापत्ये फक्तस्य तौ० न लुक्। आनुरोहतायनः तदीययुवापत्ये।

आनुलेपिक = त्रि० आनुलेपिकायाः स्त्रिया धर्म्म्यम् महिष्या० अण्। अनुलेपिकाया धर्म्ये कर्म्मणि।

आनुलोमिक = त्रि० अनुलोमं वर्त्तते अनुलोम + ठक्। अनुलोमाचारवति। स्त्रियां ङीप्।

आनुलोम्य = न० अनुलोमस्य भावः कर्म्म वा ब्राह्म० ष्यञ्। १ अनुक्रमे “आनुलोम्येन सम्भूता जात्या ज्ञेयास्तएव ते। “एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ तथा स्मृतौ” इति च मनुः अनुकूलत्वे “क्रियाणामानुलोम्यञ्च करोत्यकुपितोऽनिलः” सुश्रु०।

आनुवंश्य = त्रि० अनुवंशं भवः परिमुखा० ञ्य। वंशवृक्षस्यपश्चाद्भवादौ।

आनुवेश्य = त्रि० “अनुवेशं वसति “अव्ययीभावाच्च” पा० ञ्य प्रातिवेश्यसन्निकृष्टगृहवासिनि। “प्रातिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे” मनुः। “निरन्तरगृहवासी प्रातिवेश्यः तदन्तरगृहवासी आनुवेश्यः इति कुल्लू० अव्ययीभावाच्चेति सूत्रे परिमुखादिभ्य एवेष्यते इति नियमस्तु प्रायिकस्तेनात्रापीति बोध्यम्।

आनुशातिक = अनुशतिकस्येदम् अण् द्विपदवृद्धिः। अनुशतिकसन्धिनि।

आनुशासनिक = त्रि० अनुशासनाय हितंठक्। १ अनुशासनसाधने नीतिवाक्यादौ २ राज्यनीतेरनुशासनार्थे भारतान्तर्गते पर्व्वभेदे। “ततः पर्व परिज्ञेयमानुशासनिकं परम्” भा० आ० १ अ०।

आनुश्रविक = त्रि० गुरुपाठादनुश्रूयते अनुश्रवोवेदस्तत्र विहितः ठक्। स्वर्गादिसाधनतया वेदविहिते कर्म्म समूहे “दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः” सां० का०। “नानुश्रविकादपि तत्सिद्धिः साध्यत्वेनावृत्तियोगादपुरुषार्थत्वम्” सां० सू०।

आनुषङ्गिक = त्रि० अनुषङ्गात् आगतः ठक् स्त्रियां ङीप्। उद्देश्यान्तरप्रवृत्तस्य तत्कर्मनान्तरीयतया प्राप्ते प्रासङ्गिके अनुद्देश्ये “अन्यतरस्यानुषङ्गिकत्वेऽन्वाचयः” सि० कौ० यथा भो वटो! भिक्षामट यदि गां पश्येः ताञ्चानयेत्यादौ भिक्षार्थप्रवृत्तस्य दैवात् गोदर्शनात्तस्या आनयनमानुषङ्गिकं तत्रोद्देशत्वाभावात्।

आनुषज् = अव्य० आ + अनु–सन्ज–क्विप् स्वरा०। आनुपूर्व्याम्।

आनुषण्ड = त्रि० अनुषण्डे देशभेदे भवः कच्छा० अण्। अनुषण्डदेशभवे।

आनुष्टुभ = त्रि० अनुष्टुप् छन्दोऽस्य उत्सा० अञ्। १ अनुष्टुप्छन्दस्के मन्त्रादौ ऋचि स्त्री ङीप्। “अनुश्यावाश्वान्धीगवे आनुष्टुभे तृचे भवत” इति सामसं० भा० धृता श्रुतिः। अष्टुभ इदम् अज्। २ अनुष्टुप्सम्बन्धिनि। अनुष्टुप्सरस्वती देवताऽस्य अण्। ३ सार- स्वते हविरादौ” आनुष्टुभस्य हविषोयत् “ऋ० १०, १८ १, १। “आनुष्टुभोवा अश्वः” आनुष्टुभैषा दिक्” शत० ब्रा०। अत्र छान्दसोङीबभावः स्वार्थे अण्। ४ अनुष्टुप्छन्दसि न० स्वार्थिकस्य क्वचित् प्रकृतिलिङ्गातिक्रमस्य देवतावदिष्टत्वात्लिङ्गान्यत्वम्।

आनुसाय्य = त्रि० अनुसायं भवः परिमुखा० ञ्य। सायस्य पश्चाद्भवादौ।

आनुसीत्य = त्रि० अनुसीतं भवः परिमुखा० ञ्य। लाङ्गल पद्धतेः पश्चाद्भवे।

आनुसीर्य्य = त्रि० अनुसीरं भवः परिमुखा० ञ्य। लाङ्गलपश्चाद्भवादौ।

आनुसूय = त्रि० अनुसूयया अत्रिपत्न्या दत्तम् अण्। अनुसूयया दत्ते “स्फुरत्प्रभामण्डलसानुसूयं सा बिभ्रती शाश्वतमङ्गरागम्” रघुः।

आनुसृतिनेय = त्रि० अनुसृतौ भवः शुभ्रा० ढक् कल्याण्या० इनङ् च। अनुसरणभवे।

आनुसृष्टिनेय = त्रि० अनुसृष्टौ भवः शुभ्रा० ढक् कल्या० इनङ् च। अनुसर्जनभवे।

आनुहारति = त्रि० अनुहरति भवः बाह्रा० इञ् अनुशति० द्विपदवृद्धिः। अनुहरणकुर्व्वति भवे।

आनूप = त्रि० अनूपदेशेभवः कच्छा० अण्। अनूपदेशभवे स्त्रियां ङीप्। २ जलानुगतदेशभवे प्राणिवर्गे च तत्रत्यप्राणिनस्तन्मांसगुणाश्च सुश्रुते दर्शिता यथा “आनूपवर्गस्तु पञ्चविधः। तद्यथा कूलचराः प्लवाः कोशस्थाः पादिनो मत्स्याश्चेति। तत्र गजगवयमहिषरुरुचमरसृमररोहित वराहखडिगगोकर्ण्णकालपुच्छकोड्रन्यङ्क्वरण्यगवयप्रभृतयःकूलचराः प्रशवः। वातपित्तहरा वृष्या मधुरा रसपाकयोः। शीतला बलिनः स्निग्धा मूत्रलाः कफवर्द्धनाः। विरूक्षणो लेखनश्च वीर्य्योष्णः पित्तदूषणः। स्वाद्वम्लवणस्तेषां गजः श्लेष्मानिलापहः। गवयस्य तु मांसं हि स्निग्धं मधुरकासजित्। विपाके मधुरं चापि व्यवायस्य तु वर्द्धनम्। स्निग्धोष्णमधुरो वृष्यो महिषस्तर्पणी गुरुः। वातपित्तोपशमनं गुरु शुक्रप्रवर्द्धनम। तथा चमरमांसन्तु स्निगधं मधुरकासजित्। विपाके भधुरं चापि वातपित्तप्रणाशनम्। सृमरस्य तु मांसञ्च कषायानुरसं स्मृतम्। वातपित्तोपशमनं गुरु शुक्रविवर्द्धनम्। स्वेदनं वृंहणं वृष्यं शीतलं तर्पणं गुरु। स्निग्धं श्रमानिलहरं वाराहं बलवर्द्धनम्। कफघ्नं खडिगपिशितं कषायमनिलापहम्। पित्र्यं पवित्रमायुष्यं बद्धमूत्रं विरूक्षणम्। गोकर्णमांसं मधुरं स्निग्धं म कफा- वहम्। विपाके मधुरञ्चापि रक्तपित्तविनाशनम्। हंससारसक्रौञ्चचक्रवाककररकादम्बकारण्डवज्रीवञ्जीवकवकबलाकापुण्डरीकप्लवशरारीमुखनन्दीमुखमद्गूत्क्रोशकाचाक्षमल्लिकाक्षशुक्लाक्षपुष्करशायिकाकोनालकाम्बुकुक्कुटिकामेघरावश्वेतचरणप्रभृतयः प्लवाः सङ्घातचारिणः। रक्तपित्तहराः शीताः स्निघ्धा वृष्या मरुज्जितः। सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः। गुरूष्णमधुरः स्निख्धः स्वरवर्ण्णबलप्रदः। वृंहणः शुक्रलस्तेषां हंसो मारुतनाशनः। शङ्खशङ्खनखशुक्तिशम्बूकभल्लूकप्रभृतयः कोशस्थाः। कूर्म्मकुम्भीरकर्कटककृष्णककटकशिशुमारप्रभृतयः पादिनः। शङ्खकूर्म्मादयः स्वादुरसपाका मरुन्नुदः। शीताः स्निग्धा हिताः पित्ते वर्चस्याः श्लेष्मवर्द्धनाः। कृष्णकर्कटकस्तेषां बल्यः कोष्णोऽनिलापहः। शुक्लः सन्धानकृत् सृष्टविमूत्रोऽनिलपित्तहा। मत्स्यास्त द्विविधा नादेयाः सामुद्राश्च। तत्र नादेयाः रोहितपाठीनपाटलाराजीववर्म्मिगोमत्स्यकृष्णमत्स्यवागुञ्जारमुरलसहस्रदंष्ट्रप्रभृतयो नादेयाः। नादेया मधुरा मत्स्या गुरवोमारुतापहाः। रक्तपिक्तकराश्चोष्णा वृष्याः स्त्रिग्धाल्पवर्चसः। कषायानुरसस्तेषां शष्पशैबालभोजनः। रोहितो मारुतहरो नार्त्यथं पित्तकोपनः। पाठीनः श्लेष्मलो वृष्यो निद्रालुः पिशिताशनः। दूषयेदम्लपित्तन्तु कुष्ठरोगं करोत्यसौ। मुरली वृंहणो वृष्यः स्तन्यश्लेष्मकरस्तथा। सरस्तडागसम्भूताः स्निग्धाः स्वादुरसाः स्मृताः। महाह्रदेषु बलिनः स्वल्पेऽम्भस्यबलाः स्मृताः। तिमिङ्गिलकलिशपाकमत्स्यनिरालकनन्दिवारलकमकरगर्गरकचन्द्रकमहामीनराजीवप्रभृतयः सामुद्राः। सामुद्रा गुरवः स्निग्धा मधुरा नातिपित्तलाः। उष्णा वातहरा वृष्या वर्चस्याः श्लेष्मवर्द्धनाः। बलावहा विशेषेण मांसाशित्वात् समुद्रजाः। समुद्रजेभ्योनादेया वृंहणत्वादुगुणोत्तराः। तेषामप्यनिलघ्नर्त्वाच्चौण्ठ्यकौप्यौ गुणोत्तरौ। स्निग्धत्वात् स्वादुपाकत्वात् तयोर्वाप्या गुणोत्तराः। नादेया गुरवो मध्ये यस्मात्पुच्छास्यचारिणः। सरस्तडागजानान्तु विशेषेण शिरो लघु। अदूरगोचरा यस्मात्तस्मादुत्सोदपानजाः। किञ्चिन्मुक्त्वा शिरोदेशमत्यर्थं गुरवस्तु ते। अधस्ताद्वरवो ज्ञेया मत्स्याः सरसिजाः स्मृताः। उरोविचरणात्तेषां पूर्वमङ्गं लघु स्मृतम्। इत्यानूपो महाभिस्यन्दिमांसवर्गो व्याख्यातः” “मनुष्यतत्स्ययोर्वुञ्” पा० मनुष्ये तत्स्थेहसितादौ वाच्ये तुवुञ्। आनूपक इत्येय

आनृत = त्रि० अनृतं शीलमस्य छत्रा० अण्। सततमिथ्यानुशीलमकर्त्तरि स्त्रियां ङीप्।

आनृण्य = न० अनृणस्य भावः कर्म्म वा ष्यञ्। ऋणशून्यत्वे ऋणशोधने। “वक्तव्यं सर्वदा सद्भिरप्रियञ्चापि यद्धितम्। आनृण्यमेतत् स्नेहस्य सद्भिरेव कृतं पुरा” नरसिंहपु०।

आनृशंसि = पुं स्त्री० अनृशंसस्यापत्यम् इञ्। दयालोरपत्वे गहा० भवादौ छ। आनृशंसीयः तद्भवादौ त्रि०।

आनृशंस्य = न० अनृशंसस्य भावः कर्म्म वा ष्यञ्। १ अनिष्ठुरतायां २ कारुण्ये “आरोढुं सुमहाप्राज्ञ आनृशंस्याच्छुना विना” भा० आश्र० २ अ०। “आनृशंस्यात् ब्राह्मणस्य भुञ्जते हीतरे जनाः” मनुः। ३ अनुकम्पायाञ्च। “अर्हणं तत्कुमारीणामानृशंस्यं हि केवलम्” उद्वा० त० स्मृतिः। “आनुशंस्यमनुकम्पा” रघु०। स्वार्थे ष्यञ् ३ कारुण्ययुक्ते त्रि० “एष धर्म्मपरोनित्यमानृशंस्यश्च पाण्डवः” भा० व० प० ७१ अ०।

आनेतृ = त्रि० आ + नी–तृच्। आनयनकर्त्तरि स्त्रियां ङीप्।

आनेय = त्रि० आ + नी–कर्म्मणि यत्। देशाद्देशान्तरमानेतव्ये १ घटादौ वैश्यकुलात् विप्रतोभ्राष्ट्राद्वा आनेतुं योग्ये २ दक्षिणाग्नौ पु० आनाय्यशब्दे विवृतिः “आनेयो घटादि र्वैश्यकुलादेरानेयोदक्षिणाग्निश्च” सि० कौ०।

आ(अ)नैपुण = न० अनिपुणस्य भावः अण् उत्तरपदवृद्धिः पूर्व्वपदस्य वा। अपाटवे नैपुण्याभावे ष्यञ्। पूर्ववत् वृद्धिः आ(अ)नैपुण्यमप्यत्र।

आ(अ)नैश्वर्य्य = न० अनीश्वरस्य भावः ष्यञ्। उत्तरपदवृद्धिः पूर्ब्बस्यपदस्यवा। १ ऐश्वर्य्याभावे २ ऐश्वर्य्यविरोधिनि सांख्यादिमतसिद्धे बुद्धेर्धर्मभेदे धर्म्माधर्म्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्य्यानैश्वर्य्यरूपा अष्टौ बुद्धेर्धर्मास्ते च भापरूपा एव तैरभावानङ्गीकारात् तत्र ज्ञानभिन्नानां सप्तानां बन्धहेतुत्वम् ज्ञानेन मोक्ष इति तेषां सिद्धान्तः यथाह सांका० कौमुद्योः” “रूपैः सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृतिः। सैव च पुरुषार्थं प्रति विमोचयत्येकरूपेण” तत्त्वज्ञानवर्जं बध्नाति धर्मादिभिः सप्तभिः रूपैरिति पुरुषाथं प्रति भोगापवर्गौ प्रति आत्मनात्मानमेकरूपेण तत्त्वज्ञानेन विवेकख्यात्या विमोच्यति पुनर्भोगापवर्गौ न करोतीत्यर्थः”।

आन्त = त्रि० अम + क्त नि० वा इडभावः उपधादीर्घः। पीडिते इट्पक्षे अमितोऽप्यत्र।

आन्तर = त्रि० अन्तर्मध्ये भवः अण्। आभ्यन्तरे। “कश्चनान्तरोधर्म्मः सत्वम्” सा० द०

आन्तरतम्य = न० अन्तरतमस्य अत्यन्तसदृशस्य भावः ष्यञ्। सौसादृश्ये “बाह्यप्रयत्नाश्च यद्यपि सवर्ण्णसंज्ञायामनुपयुक्तास्तथाप्यान्तरतम्यपरीक्षायामुपयोक्ष्यन्ते” सि० कौ०।

आन्तरागारिक = त्रि० अन्तरागारस्य धर्म्यम् ठक्। अन्तरागारनियुक्तपुरुषस्य धर्म्ये अवरोधररक्षणादौ।

आन्तरप्रपञ्च = पु० कर्म्म०। आध्यात्मिके आभ्यन्तरे द्वैतविस्तारे स चान्नमयादिकोषपञ्चकं शरीरत्रयम् जन्मस्थित्यादयः षड्भावविकाराः त्वङ् मांसादिषाट्कौशिकस्थूलदेहः अशनायापिपासादि षडूर्म्मयः श्रोत्रादिज्ञानेन्द्रियपञ्चकं वागाभिकर्मेन्द्रियपञ्चकं प्राणादिवायुपञ्चकं मनआद्यन्तःकरणचतुष्टयं सङ्कल्पाद्यन्तः करणवृत्तयः जागराद्यवस्थात्रयं तदमिमानिविश्वतैजसप्राज्ञाःसमाधिमूर्च्छादयः क्रोधाद्यरिषद्द्वर्गः साधनचतुष्टयं सत्वादिगुणत्रयं सुखदुःखज्ञानाज्ञानादि अविद्यादिक्लेशपञ्चकम् मैत्र्यादिभावनाचतुष्टयं यमाद्यष्टाङ्गम् प्रत्यक्षादिप्रमाणवर्गः रोगारोग्यसमुदायोयथायोग्यं विविधनामरूपगुणधर्मादयः भोगापवर्गौ च। एवमन्यमतेऽप्यूह्यम्।

आन्तराल = त्रि० अन्तरालं मध्यस्थितिं वेत्ति अण्। देहाभ्यन्तर एवात्मनः स्थितिवेत्तरि जीवस्याणुत्ववादिनि पूर्ण्णप्रज्ञे माध्वे स हि आत्मनोविभुत्वखण्डनेन देहाभ्यन्तरे एव स्थितिं मन्यमानस्तस्याणुत्वम् प्रतिपेदे आत्मशब्दे तन्मतनुक्तप्रायम् अधिकं माध्वशब्दे वक्षते। “अणुं वदन्त्यान्तरालाः सूक्ष्मनाडीप्रचारतः। रोम्णः सहस्रभागेन नाडीषु प्रचरत्ययमिति” तस्य सिद्धान्तः “बालाग्रशतधारस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेय इति” श्रुतिमनुसृत्य तथा तु वेनाङ्गीकृतम्। दुर्विज्ञेयत्वेन सूक्ष्मत्वमौपचारिकमिति तु वेदान्त्यादयः।

आन्तरि(री)क्ष = त्रि० अन्तरि(री)क्षे भवः अण्। आकाशभवे १ उत्पातादौ “उत्पातांस्त्रिविधान् प्राह नारदो भगवान् प्रभो! दिव्यांश्चैवान्तरीक्षांश्च पार्थिवांश्च पितामह!” ज्यो०। २ अन्तरीक्षमवे जले च। अम्बु शब्दे ३३० पृष्ठेऽस्य विवृतिः।

आन्तरीपक = त्रि० अन्तरीपे भवः घूमा० वुञ्। अन्तरीपभवे धूमादिगणे द्वीपसाहचर्य्यात् देशवाचित्वाच्च अन्तरीपशब्दएव बोध्यः अन्तरीय इति पाठस्तु प्रामादिकः।

आन्तर्गणिक = त्रि० अन्तर्गणं भवः ठञ्। गणमध्यभवे स्त्रियां ङीप्।

आन्तर्गेहिक = त्रि० अन्तर्गेहं भवः ठञ्। गेहमध्यभबे स्त्रियां ङीप्। अन्तर्वेशिकान्तर्वोश्मकादयोऽप्यत्र।

आन्तर्य्य = न० अन्तरस्य भावः ष्यञ्। अन्तवत्तित्वे।

आन्तिका = स्त्री अन्तिकेव अण् अजा० टाप्। ज्येष्ठायाम् भगिन्याम्।

आन्त्र = न० अमत्यनेन अम–गतौ क्त्र उपधादीर्धः। १ वायुवाहकनाडीभेदे। अन्त्रस्येदम् अण्। २ अन्त्रसम्बन्धिनि त्रि० स्त्रियां ङीप्।

आन्दोल = दोलने मुहुश्चालने अद० चुरा० उभयु० सक० सेट्। आन्दोलयति ते आन्दुदोलत् त। क्त आन्दोलितः।

आन्दोलक = पु० आन्दोलयति ण्वुल्। दोलनकर्त्तरि।

आन्दोलन = न० आन्दोल–भावे ल्युट्। १ पुनःपुनर्दोलने, २ मुहुश्चालने “किन्त्वासामविन्दसुन्दरदृशां द्राक् चामरान्दोलनात्” उद्भटः ३ अनुसन्धाने च।

आन्धसिक = त्रि० अन्धो भक्तं शिल्पमस्य ठक्। पाचके सूदे।

आन्धीगव = न० अन्धीगुना ऋषिभेदेन दृष्टं साम–अण्। तृतीयसवने गेये आर्भवपवमानसूक्तगते सूक्तभेदे तच्च सूक्तम् ऊहगाने १ प्र० ११ क० पठितम् तच्च साम० स० भा० दर्शितम् यथा “श्यावश्वान्धीगवेऽनुष्टुवानेये ग्रथ्यतेऽथ वा। पुरेव लिङ्गं जगती चतुर्विंशति–कीर्त्तनम्। इदमाम्नायते “पञ्चछन्दा आवापः आर्भवः पवमानः सप्तसामा, गायत्रसंहिते गायत्र्ये तृचे भवतः, श्यावाश्वान्धीगवे आनुष्टुभे तृचे भवतः, उष्णिहि शफम्, ककुभि पौष्कलम्, कावमन्त्यं जगतीषु” इति। अयमर्थः अस्ति तृतीयसवने पवमानः आर्भवसंज्ञकः, तस्मिन् पञ्च सूक्तानि, सप्त सामानि, “स्वादिष्ठया नदिष्ठा” इत्येकं सूक्तम् (उ, ३ प्र, १५), तस्मिन् गायत्र्यस्तिस्र ऋचः तासु “गायत्रम्” “संहितम्” (उ, १ प्र, ८) चेति द्वे सामानी, “पुरोजिती श्रो अन्धसः” इति सूक्तान्तरम् (उ, १ प्र, १८) तत्रैकानुष्टुबुत्तरे द्वे गायत्र्यौ तासु “श्यावाश्वम्” (ऊ, १ प्र, ११) “आन्धीगवम्” (उ, २ प्र, ११) चेति द्वे सामनी, “इन्द्रमच्छ सुता” इत्यपरं सूक्तम् (ऊ, १ प्र, १८), तस्मिनुष्णिहस्तिस्रः तासु “शफम्” साम, “पवस्व मधुमत्तम” इति प्रगाथः (उ, १ प्र, १६), तस्मिन् पूर्व्वा ककुप्, उत्तरा पङ्क्तिः। तत्र “पौष्कलम्” (ऊ, १ प्र, ९) साम, “अभिप्रियाणि पवते च नोहित” इत्यन्त्यं सूक्तम् (उ, १ प्र, १९), तत्र तिस्रोजगत्यः तासु “कावम्” (ऊ, १ प्र, १३) साम”।

आन्ध्य = न० अन्घस्य भावः ष्यञ्। दृष्टिशक्तिराहित्ये यत्र प्रतिघाते तद्भवति तद्दर्शितंसुश्रु०। शिरानाडीरुपक्रम्य “भ्रूपु- च्छान्तयोरधोऽक्ष्णोर्बाह्यतोऽपाङ्गौ नाम तत्रान्ध्यं दृष्ट्युपघातो वा इति” तत्कारणञ्चोक्तम् “शोणितमतिनिर्ह्रियमाणं कण्डूशोफरागदाहपाकवेदना जनयेत्। अत्युष्णाभिस्विन्नातिविद्धेष्वज्ञै र्विस्रावितमतिप्रवर्त्तते अतिप्रवृत्तं शिरोऽभितापमान्ध्यमधिमन्थं तिमिरप्रादुर्भावमित्यादि चापादयति” सुश्रु०। २ प्रकाशशून्यत्वे “जगदान्द्यप्रसङ्गः” वे० प्र०

आन्ध्र = पु० आ + अन्ध–रन्। १ देशभेदे २ तद्देशवासिनि ३ तन्नृपे च ब० व०। “आन्ध्राः शका पुलिन्दाश्च यवनाश्च नराधिपाः” भा० व० प० १८८ अ०। स च देशः वृ० स० कूर्म्मविभागे आग्नेय्यां दिशि वर्ण्णितः यथा “आग्नेय्यां दिशि कोशलकलिङ्गवङ्गोपवङ्गजठराङ्काः कौणिकविर्दभवत्सान्ध्रचेदिकाश्चोर्द्धकण्ठाश्च” ग्रहभक्तौ च तत्रैवोक्तम् “द्रविडविदेहान्ध्रम्लेच्छकभासापुरं कौङ्कणाः समान्ध्रीषकाः। कुन्तलकेरलदण्डक कान्तिपुरम्लेच्छसङ्करजाः। नासिक्यमोगवर्द्धनविराटविन्ध्याद्रिपार्श्वगादेशाः। ये च पिबन्ति सुतोयां तापीं ये चापि गोमतीसलिलम्”। तेन विन्ध्याद्रिपार्श्वगः गीमतीतापीनद्योः सन्निकृष्टोऽयं देश इति गम्यते।

आन्न = त्रि० अन्नंलब्धा अन्न + ण। अन्नं लब्धरि।

आन्यतरेय = पुंस्त्री० अन्यतरस्यापत्यम् शुभ्रा० ढक्। अन्यतरस्यापत्ये स्त्रियां ङीप्।

आन्यभाव्य = न० अन्योभावोयस्य अन्यभावः तस्य भावः ब्राह्म० ष्यञ्। अन्यरूपत्वे।

आन्वयिक = त्रि० अन्वये प्रगस्तकुले भवः ठञ्। प्रशस्तकुलजाते स्त्रियां ङीप्

आन्वष्टक्य = न० अन्वष्टका + खार्थे ष्यञ्। अन्वष्टकाशब्दार्थे “अपरेद्युरान्वष्टक्यम्” आश्व० गृ०।

आन्वाहिक = त्रि० अहनि अहनि अन्वहम तत्र भवः ठञ् अनुश० द्विपदवृद्धिः। प्रतिदिनसाध्ये पाकादौ “वैवाहिकेऽग्नौ कुर्व्वीत गृह्यं कर्म्म यथाविधि। पञ्चयज्ञविधानञ्च पक्तिञ्चान्वाहिकीं गृही” मनुः।

आन्वीक्षिकी = स्त्री श्रवणादनु ईक्षा पर्य्यालोचना राप्रयोजनमस्याः ठञ्। तर्कविद्यायाम् गौतमप्रर्णाताया मात्मविद्यायाम्। तत्प्रतिपादकग्रन्थश्च अक्षपादेन पञ्चाध्यायी रचितः तत्रादिमं सूत्रं “प्रमाणप्रमेयसंशय प्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्ण्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निश्रेयसाधिगम” इति अन्तिमसूत्रञ्च “हेत्वाभासाश्च यथोक्ताः” इति। तत्र प्रतिपाद्यविषयाश्च पदार्थतत्त्वज्ञानान्मुक्ति फलं तत्र क्रमोक्तिः। प्रत्यक्षानुमानोपमानागमरूप- प्रमाणचतुष्ठयम् तेषां लक्षणविभागादि। आत्मदेहेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रे त्थभावफलदुःखापवर्गरूपप्रमेयविभागः। इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मलिङ्गानि। चेष्टावदन्त्यावयवित्वमिन्द्रियाश्रयत्वं वा देहलक्षणम्। घ्राणरसनचक्षुस्त्वक्श्रोत्ररूपेन्द्रियविभागः तेषां पृथिव्यादिभ्यः क्रमेणोत्पत्तिः। तत्कारणानि च क्रमेण पृथिव्यप्तेजोवाय्वाकाशात्मकानि पञ्च भूतानि। गन्धरसरूपस्पर्शरूपविषयपञ्चकं पृथिव्यादीनां विशेषगुणास्तेषां च क्रमेण घ्राणादिभिर्ग्राह्यता। महत्तत्त्वापर्य्यायाया बुद्धेर्ज्ञानरूपत्वम्। मनसो लक्षणम्। प्रवृत्तिलक्षणम् रागद्वेषाभिनिवेशरूपदोषत्रयलक्षणम्। पुनरुत्पत्तिरूपप्रेत्यभावलक्षणम् प्रवृत्तिजनितार्थरूपफललक्षणम्। बाधनारूपं दुःखलक्षणम्। दुःखात्यन्तनिवृत्तिरूपापपर्गलक्षणम्। एकस्मिन् धर्म्मिणि भावाभावविरुद्धकोटिद्वयज्ञानत्वं संशयलक्षणम् तत्र साधारणधर्म्मवद्धर्म्मिज्ञानमसाधार्णधर्म्मवद्धर्म्मिज्ञानं विप्रतिपत्तिवाक्यजन्यकोटिद्वयोपस्थितिश्च कारणम्। प्रवृत्तिहेत्विच्छाविषयत्वं प्रयोजनलक्षणम्। वादिप्रतिवादिनोः साध्यसाधनद्वयप्रकारकतदभावद्वयप्रकारकान्यतरनिश्चयविषयत्वं दृष्टान्तलक्षणम् प्रतिवादनिरसनेन निःसन्धिग्धतया अर्थनिश्चयरूपत्वं सिद्धान्तलक्षणम्। सर्वतन्त्रसिद्धान्तः, प्रतितन्त्रसिद्धान्तः, अधिकरणसिद्धान्तः अभ्युगमसिद्धान्त इति सिद्धान्तचतुष्ठयविभागाः तल्लक्षणानि च। प्रतिज्ञाहेतूदाहरणोपनयनिगमरूपावयवविभागः। भाष्ये तु जिज्ञासा, संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदासश्चेति अधिकाः पञ्चावयवा उक्तास्तेन दशावयवा इति स्थितम्। तात्पपर्य्यटीकायां तद्व्याख्यातञ्च तत्र जिज्ञासाऽज्ञातादिबुद्धिसिद्धये प्रवर्त्तिका इच्छा जिज्ञासा। तज्जन्यश्च संशुयः शक्यप्राप्तिः प्रमाणानां ज्ञानजननसामर्थ्यं संशयव्युदासस्तर्कः इति। जिज्ञासा विप्रतिपत्तिरिति केचित्। एतेषां न्यायावयवत्वं नास्तीति वृत्तौ स्थितम्। साध्यविशिष्टतया पक्षस्य निर्देशः प्रतिज्ञालक्षणम् व्याप्तिविशिष्टहेतुबोधकः शब्दो हेतुरूपावयः। व्याप्तिश्च अन्वयव्यतिरेक भेदेन द्विविधा तथा च ज्ञातान्वय व्याप्तिककहेतुबोधकः अज्ञातव्यतिरेकव्याप्तिकहेतुबोधकश्च। साधनवत्ताप्रयुक्त साध्यवत्तानुभावकोऽवयवः साध्यसाधनव्याप्तिप्रदर्शकः उदाहरणम् तत्र व्याप्तिश्च द्विबिधा अन्वयोव्यतिरेकश्च। प्रकृतोदाहरणोपदर्शितव्याप्तिमद्धेतुविशिष्टपक्षयोधक उपनयावयवः व्याप्तिश्च अन्वयव्यतिरेकभेदेन द्विधा प्रविष्टा। व्याप्तिविशिष्टस्य हेतोः पक्षवृत्तिताकथनपूर्वकसाध्यविशिष्टपक्षबोधकवाक्यत्वं निगमनलक्षणम्। व्यापकाभाववत्त्वेन निर्ण्णीते धर्म्मिणि व्याप्यस्याहार्य्या रोपात् व्यापकस्याहार्य्यारीपः तर्क इति तर्कलक्षणम् यथा निर्वह्नित्वारोपान्निर्धूमत्वारोपः निर्वह्निःस्यान्निर्धू मःस्यादित्वादि। सन्दिग्धपक्षस्य साधनयुक्त्या प्रतिपक्षस्य बाधनयुक्त्या च अर्थावधारणं निर्णय इति तल्लक्षणम्। इत्येते १ मअ० १ म आह्निके पदार्था दर्शिताः। वादादिलक्षणानि। तत्र प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहोवादः इति वादलक्षणं प्रमाणतर्काभ्यां स्वपक्षस्य साधनं विपक्षस्योपालम्भो दूषणं चयत्र। पक्षप्रतिपक्षौ विप्रतिपत्तिकोटी तयोः परिग्रहः तत्साधनोद्देश्यकोक्तिप्रत्युक्तिरूपवाक्यविशेषो वाद इति तदर्थः। छलजातिनिग्रहस्थानादिकं विपक्षे ससुद्भाव्य तस्य दूषणेन स्यपक्षस्थापन वाक्यत्वं जल्पलक्षणम्। स्वपक्षस्थापनाराहित्येन परपक्षनिराकरणवाक्यत्वम् वितण्डालक्षणम्। सव्यभिचारविरुद्ध प्रकरणसमसाध्यसमातीतकालरूपान् पञ्च हेत्वाभासान् विभज्य तेषां लक्षणानि। वाद्युक्त वचनस्य अर्थान्तरपरत्वकल्पनेन युक्त्या तत्खण्डनं छलमिति छललक्षणम्। तच्चवाक्छलार्थच्छलोपचारच्छलभेदेन त्रिविधम्। व्याप्तिनिरपेक्षतया दूषणोक्तिर्जातिः तद्भेदाश्चतुर्विंशतिः ५ अ० वाच्याः। उद्देश्यानुगुणसम्यग्ज्ञानाभावलिङ्गत्वं निग्रहस्यानलक्षण मिति १ अ० २ आह्निके एते पदार्था उक्ताः। संशयकारणादिनिरूपणम् प्रमाणात् प्रमेयसिद्धिः। प्रत्यक्षप्रमाणलक्षणे परिशिष्टविवेचनम्। मनसोऽणुत्वे ज्ञानायौगपद्यस्य हेतुतयोक्तिः। प्रत्यक्षस्य क्वचिदन्मित्यात्मकताशङ्कायां तन्निराकरणम्। अवयवेभ्योऽवयविनोऽतिरिक्तता साधनम्। अनुमानाप्रामाण्यशङ्कातन्निरासौ। वर्त्तमानावस्थानिराकरणतत्स्थापने। उपमानाप्रामाण्यशङ्का निराकरणे। अनुमाने उपमानस्य गतार्थत्वमाशङ्क्य शाब्दवोधस्यानुमानेऽन्तर्भावमाशङ्क्यच तन्निवारणम्। सशक्तिकस्यैव शब्दस्य बोधकत्वव्यवस्थापनम्। दृष्टादृष्टार्थकत्वेन शब्दद्वैविध्यम्। तत्रादृष्टार्यकस्य वेदशब्दस्य अनृतव्याघातपुनरुक्तदोषेभ्यः अप्रामाण्यमाशङ्क्य युक्त्या प्रामाण्यसमर्थनम्। विध्यर्थवादानुवादभेदात् ब्राह्मणरूप वेदभागस्य त्रैविध्योक्तिः। विधिलक्षणम्। स्तुतिः निन्दा परकृतिः पुराकल्प इति भेदादर्थवादचातुर्विध्योक्तिः विधिविहितस्यानुकथनमनुवादैत्यनुवादलक्षणम्। वेदैकदेशविषहरमन्त्रादेः आरोग्यार्थौषधादिप्रतिपादकायुर्वेदभागस्य संवादिफलकत्वेन तद्दृष्टान्तेन इतरवेदभागस्य प्रामाण्यव्यवस्थापनम्। २ अ० १ आह्निके एते पदार्थाः। ऐतिद्यार्थापत्तिसम्भवाभावरूपाणामतिरिक्तप्रमाणत्वमाशङ्क्य ऐतिह्यस्य शब्देऽन्तर्भावः अर्थापत्तिसम्भवाभावानाञ्चानुमानेऽन्तर्भाव इति समर्थनम्। अभावस्य प्रमेयत्वव्यवस्थापनम्। शब्दस्यानित्यताव्यवस्थापनम्। शब्दस्य घण्टाद्याश्रयकत्वनिराकरणम्। व्याकरणविधौ वर्ण्णानां विकारपक्षनिराकरणेनादेशपक्षव्यवस्थापनम्। वर्ण्णानामविकारित्वेऽपि गुणान्तरापत्त्युपमर्द्दह्रासवृद्धिलेशश्लेषैः विकारव्यवहार इति व्यवस्थापनम्। तत्र उदात्तेऽनुदात्तत्वं गुणान्तरापत्तिः। उपमर्द्दो धर्म्मिनिवृत्तिः यथा अस्तेर्भूः। ह्रासःदीर्घस्य ह्रस्वता, वृद्धिर्ह्रस्वस्य दीर्धता, लेश एकदेशविकृतिः यथा अस्तेरल्लोपः। श्लेषः आगभ इडादि। एतैर्विकारव्यवहारः। पदलक्षणम्। जात्यादीनां प्रत्येकं पदार्थत्वपक्षं निराकृत्य जात्याकृतिव्यक्तीनां समुदितानां पदार्थत्वव्यवस्थापनम्। व्यक्त्याकृतिजातीनां लक्षणानि एते २ अ० २ आह्निक गतार्थाः। इन्न्द्रियचैतन्यवादनिराकरणम्। भूतचैतन्यवादनिराकारणम् उभयगोलकेनेत्रैक्यव्यवस्थापनम्। आत्मन इन्द्रियभेदे युक्तिप्रदर्शनम्। मनस आत्मत्वनिराकरणम्। आत्मनित्यतासाधनम्। मनुष्यदेहस्य पार्थिवत्वसाधनम्। तस्य पार्थिवाप्यतैजसत्वमतोपन्यासः चातुर्भौतिकत्वमतोपन्यासः पाञ्चभौतिकत्वमतोपन्यासः। इन्दियाणां गोलकातिरिक्तत्वस्य व्यवस्थापनम्। तेषामाहङ्कारिक्त्वनिराकरणेन भौतिकत्वव्यवस्थापनम्। इन्द्रियाणामप्रत्यक्षत्वेऽप्यनुमेयताव्यपस्थापनम्। चक्षुषः प्राप्यकारित्वसाधनम्। इन्द्रियैकत्वमाशङ्क्य तेषां पञ्चत्वसाधनम्। भूतानां विशेषगुणाः तेषाञ्चैकैकेन्द्रियग्राह्यतेति निरूपणम्। घ्राणादीनामनुद्भूतगन्धादिसाधनम्। ३ अ० १ म आह्निकगतार्थाः। सांख्यमतसिद्धबुद्धेर्नित्यत्वनिराकरणम् मनसोऽणुत्वेनज्ञानानां क्रमिकत्वसाधनम्। मनसोविभुत्वेगत्यभावप्रसङ्गेन सर्वेन्द्रियैः सर्वदासम्बन्धापत्त्या च सर्वविषयकज्ञानापत्तिदोषात् विभुत्वनिरासः। भावानां नियमेन क्षणिकत्वपक्षखण्डनम्। परिणामवादखण्डनम्। इन्द्रियार्थयोरन्वयव्यतिरेकसत्त्वेऽपि ज्ञानस्य न तयोर्धर्म्मत्वं किन्तु आत्मधर्म्मत्वमिति समर्थनम्। ज्ञानाऽनित्यत्वसाधनम् स्मरणायौगपव्ये कारणप्रदर्शनम्। ज्ञानवत् इच्छादीनामात्मधर्म्म- त्वव्यवस्थापनम्। इतरगुणत्वनिवारणेन ज्ञानादेरात्मधर्म्मत्वव्यवस्थापनम्। स्मरणोपयोगिप्रणिधानादिका रणानि। बुद्ध्यादेः आशुविनाशित्वव्यवस्थापनम्। रूपादेरिव यावद्द्रव्यभावित्वाभावेन ज्ञानादिविशेषगुणानां देहधर्म्मत्वनिरासेनात्मधर्म्मत्वसमर्थनम्। केशनखादिषु सुखाद्यनुलब्धेः त्वक्पर्य्यन्तस्यैव देहस्य सुखाद्यवच्छेदकत्वसाधनम्। प्रतिदेहं मनसो नानात्वखण्डनम्। एकत्वेऽपि मनसः शीघ्रसञ्चारः। ज्ञानयौगपद्यस्य भ्रमत्वसमर्थनेन मनोऽणुत्वसाधनम्। देहस्य अदृष्टसापेक्षोत्पत्तिकत्व साधनम्। अदृष्टसहकारेणैव मातापित्राहारस्य तदारम्भकत्वसमर्थनम्। अदृष्टाभावे नित्यात्मनः संयोगेऽपि न देहोत्पत्तिरिति निरूपणम्। आत्मनोविभुत्वे सर्वशरीरैः संयोगे सत्यपि तददृष्टजन्यदेह एव तस्यविशेषसंयीगः भोगसाधक इति नियमनम्। परमाणुगतादृष्टाङ्गीकर्त्तुरार्हतस्य मतनिराकरणम् अदृष्टस्य मनोगुणत्वस्यामि तन्मतसिद्धस्य निराकरणम्। ३ अ० २ आ० गतार्थाः। प्रवृत्तिसाधनरागद्वेषाभिनिवेशात्मकदीषत्रैविध्यकथनम्। तत्र मोहस्य सर्व्वानर्थमूलत्वेन पापीयस्त्वसमर्थनम्। आत्मनोनित्यत्व एव प्रेत्यभावसिद्धिः अनित्यत्वे न तत्सिद्धिस्तथा च एकजातीयशरीरेणाद्यःसम्वन्ध उत्पादः तत्र चरमसम्बन्धनाशोमरणं तयोरेकस्मिन् आत्मनि नित्ये एव सम्भवः शरीरादेर्नष्टत्वात् न तदाश्रयत्वमिति समर्थनम् उत्पत्तिप्रकारनिरूपणम्। वीजानामुपभर्द्देनाङ्कुरोत्पत्तिदर्शनात् अभावादेव भावोत्पत्तिरिति अभावोपादनत्वमतनिराकरणम्। कर्म्मनिरपेक्षस्यईश्वरस्यैव जगत्कारणत्वमत खण्डनेन कर्मसापेक्षस्य तस्य जगत्कारणत्वव्यबस्थापनम्। परमाण्वादिवदीश्वरस्य नोपादानत्वमिति व्यवस्थापनम्। भाष्पे तु गुणविशिष्टमात्मान्तरमीश्वर इतीश्वरलक्षणमुक्तम्। तदर्थश्च “गुणैर्नित्यज्ञानेच्छाप्रयत्नरूपविशेषगुणैः सामान्यगुणैश्च संयोगादिभिर्विशिष्टम् आत्मान्तरं जीवेभ्यो भिन्न आत्मा जगदाराध्यः सृष्ट्यादिकर्त्ता वेद्द्वारा हिताहितोपदेशकोजगतः पितेति” वृत्तावुक्तः। कण्टकतैक्ष्ण्यवज्जगतामाकस्मिकत्वखण्डनम्। सर्वानित्यत्वखण्डनम्। सर्वनित्यत्वखण्डनम्। घटादीनां परमाणुपुञ्जात्मकतावादखण्डनेन एकावयविसाधनम् सर्वभूतानामभावरूपतानिराकरणम्। संख्यैकान्तवादनिराकरणम्। संख्यैकान्तवादाश्च भाष्ये बहवो दर्शिताः। “सर्वमेकं सदविशेषात्, सर्वं द्वेधा नित्यानित्यभेदात्, सर्वं त्रेवा ज्ञाता ज्ञेयं ज्ञानमिति, सर्वं चतुर्द्धा प्रमाता प्रमाणम् प्रमितिः प्रमेयमिति, एवमन्येऽपि”। तत्र यथा नित्यत्वानित्यत्वाभ्यांद्वैधं तथा सत्त्वेनैक्यम् घटः सन् पटः सन्नित्येकाकारसत्त्वप्रतीतेः। अन्ये तु एकमित्यद्वैतमाहुस्तथा च ब्रह्मैवैकं निर्विशेषं सत् सर्वमन्यन्मिथ्या। अन्येऽपीति रूपसंज्ञासंस्कारवेदनानुभवाः पञ्चस्कन्धाः षट्पदार्थी सप्तपदार्थीत्यादि मतभेदाः। तत्राद्वैतपक्षनिराकरणं यथा ब्रह्माद्वैतस्वीकारे तत्साधकप्रमाणस्यासिद्धिः प्रमाणसत्त्वे तु न सर्त्त्वैकत्वसिद्धिरित्थं दूषणेन सत्त्वैकत्ववादनिराकरणम्। यथा वृक्षमूलसेकात् तदीयावयवोपचयद्वारवशेन फलोत्पत्तिस्तथा यागादेर्नाशेऽपि तज्जन्यादृष्टरूपद्वारसत्त्वात् स्वर्गाद्युत्पत्तिरिति व्यवस्थापनम्। स्वर्गादेः स्वरूपेण फलत्वसाधनम्। फलस्य उत्पत्तेः प्रागसत्त्वेन शशशृङ्गादेरिव उत्पत्त्यसम्भवः सत्त्वे च उत्पत्त्ययोग्यतया कारणव्यापारानर्थक्यं सदसत्त्वाङ्गीकारे च विरोध इत्याशङ्क्य फलस्य उत्पत्तेः प्राक् असत्त्वव्यपस्थापनम् असत उत्पत्तौ इह तन्तुषु पटो भविष्यतीति प्रागभावज्ञानस्यैव प्रवर्त्तकतयाऽनियमवारणम्। कर्म्मकर्त्तृदेहादेर्नाशेऽपि अदृष्टस्यात्मन्येवोत्पत्तेः तेनैव चादृष्टेन जायमाने स्वर्ग्यादिदेहे सुखभोगे सामानाधिरण्यसम्भवेनादृष्टजन्यस्वर्गादिफलस्यात्मनिष्ठत्वव्यवस्थापनम्। सुखदुःखयोरेव सुख्यफलत्वं स्त्रीपुत्रादेस्तु तत्सावनत्वादौपचारिकफलत्वमिति नादृष्टसामानाधिकरणव्याघात इति समर्थनम्। देहसम्बन्धस्यैव विविधबाधनायोगहेतुत्वाद्दुःखरूपत्वकथनम् विविधदुःखयुक्ततया शरीरस्य दुःखत्वेन भावनाकथनम् दुःखमध्ये सुखस्यास्युत्पत्ते स्तत्प्रत्याख्यानानौचित्येऽपि तदुपार्ज्जनादौ दुःखबाहुल्यात् देहसंबद्धं सर्व्वं दुःखमित्येव भावनीयमिति निरूपणम्। प्रतिषिद्धभोजनमैथुनादौ प्रवृत्तिनिवारणार्थमपि दुःखस्य हेयोत्वोक्तिः। आर्षदैवपैत्रर्ण्णापाकरणानुबन्धेनापवर्गकालाभावमाशङ्क्य आयुषश्चतुर्थभागेऽपवर्गसाधनकालत्वसाधनम् तथा कामनाशून्यस्य विरक्तस्य ततोऽर्वागपि तत्सेवनव्यवस्थापनम्। तत्त्वज्ञानोत्पत्तौ प्रारब्धातिरिक्तकर्म्मजन्यादृष्टमात्रनाशेन न खर्गफलकादृष्टेन प्रतिबन्ध इति कथनम्। क्लेशानुबन्धकृतापवर्गाभावमाशङ्क्य सुषुप्तस्य सर्व्वक्लेशाभाववदपवर्ग इति सुषुप्तिदृष्टान्तेन हेत्वभावेनाऽपवर्गे दु खाभावसाधनम्। रागशून्यस्यानुत्पत्तेः रागादीनां च मित्थाज्ञाननिमित्तकत्वेन तत्त्वज्ञानेन च मिथ्याज्ञाननिवृत्तौ दुःखनिवृत्तिरिति क्रमकथनम् ४ अ० १ आ० गतार्थाः। देहात्मबुद्ध्वेर्दोषजन्यतया दोषस्य च मिथ्याज्ञानाधीनत्वेन तत्त्वज्ञानात् आत्मनोदेहादिभ्यो भेदज्ञाननिवृत्तौ तदभेदज्ञाननिरासेन मिथ्याज्ञाननिवृत्तिः तस्यां च सत्यां क्रमेण प्रवृत्तिनिवृत्त्या दुःखनिवृत्तिरूपापवर्गसिद्धिः अतोऽपवर्गसाधनं तत्त्व ज्ञानमित्येवंप्रतिपादनम्। साधुतया भावितानां रूपादिविषयाणां दोषहेतुत्वकथनम्। सौन्दर्य्यं पश्यतो रागादिर्ब्रह्मणोऽप्यसुकरपरिहार इत्याशङ्क्यतत्र सौन्दर्य्यबुद्धे रागाधीनतया तरुण्यादिदेहे सौन्दर्य्याभिमानस्य त्याज्यताकथनम्। भाष्ये तु “परिष्कारबुद्धिरनुरञ्जनसंज्ञा सा हेया दोषदर्शनमशुभसंज्ञा सा भावनीया” इत्युक्तम्। तथा च “खेलत्खञ्जननयना परिणतविम्बधारा पृथुश्रोणी। कमलसु कुलस्तनीयम् पूर्ण्णेन्दुमुखी सुखाय मे भवितेति” अनुरञ्जनसंज्ञा। “चर्म्मनिर्म्मितपात्रीयं मांसासूक्पूयपूरिता। अस्यां रज्यति यो मूढः पिशाचः कस्ततोऽधिकः” अशुभसंज्ञा एवं स्वदेहादावपि चिन्तनम्। परमाणुपुञ्जस्यैव घटादिरूपताऽतोनास्ति अतिरिक्तोऽवयवीति सौत्रान्तिकवैभाषिकयोर्मतस्य पूर्ब्बदूषितस्यापि स्वमतदार्ढ्याय पुनर्दूषणम्। परमाणोस्त्रुटिपरत्वव्यवस्थापनम्। आकाशस्य सर्व्वगतत्वं सर्वमूत्तसंयोगित्वं तत्र संयोगस्याव्याप्यवृत्तितया तदवच्छेदकभेदं विनाऽनुपपत्त्या सावयेवत्वापत्तिमाशङ्क्य मूर्त्त पदार्थस्यैवावयवानां तदवच्छेदकत्वम् इत्युक्त्या तस्य निरयवत्वसमर्थनम्। सर्व्वत्र शब्दोत्पत्त्या तज्जनकसंयोगानुमानात् आकाशस्य सर्व्वमूर्त्तसंयोगित्वसमर्थनम् आकाशे च प्रतिहतस्य परावर्त्तनरूपव्यूहस्य उत्तरदेशगतिप्रतिबन्धरूपविष्टम्भस्याभावात् विभुत्वव्यवस्थापनम्। परसाणोः संयोगवत्त्वान्यथानुपपत्त्या सावयवत्वापत्तिः संयोगस्य अव्याप्यवृत्तितया अव्याप्यवृत्तेश्चावच्छेदकभेदं विना सत्त्वासम्भवादित्याशङ्क्य तदवयवानामपि संयोगसिद्धये सावयवत्व कल्पनायामनवस्थापत्तिरतो दिग्विभागानामेव संयोगावच्छेदकत्वकल्पनेन परमाणोर्निरवयवत्वसमर्थनम्। ज्ञानातिरिक्तोबाह्यपदार्थो नास्तीत्यत्र यदि प्रमाणमस्ति तदा ज्ञानातिरिक्तप्रमाणरूपबाह्यस्य सत्त्वान्न बाह्यामाबः अथ तत्र प्रसाणं नास्ति तदा निष्प्रमाणकत्वान्न तत्सिद्धिरित्येवं रूपेण बाह्यार्थाभावाङ्गीकर्त्तृमतनिराकरणम्। स्वप्नस्य स्मृतिविशेषरूपत्वं व्यवस्थाप्य शुक्तिरजतविज्ञाने रजतांशस्य ज्ञानलक्षणया उपनीतस्य संसर्गमात्र बोध इति व्यवस्थापननेन स्वप्लदृष्टान्तेन ज्ञान- मात्रस्यासद्विषयकत्ववादिमतनिराकरणम्। इत्येवंघाह्यार्यभङ्गनिराकरणम्। ज्ञानसामान्यात् तत्त्वज्ञानस्यापि क्षणिकत्वात् तन्नाशे प्रतिबन्धकापाये पूर्ब्बवासनावशात् मिथ्याज्ञानं पुनरुतपपद्येतेति तत्त्वज्ञानस्य न मिथ्याज्ञानोच्छेदकतेत्याशङ्कायां तन्निरासः। समाधिविशेषाभ्यासात् तत्त्वज्ञानस्य विवृद्धिः। तद्वृद्ध्या च मिय्याज्ञानवासनातिरोमावान्न तत् फलायालमिति समर्थनम्। ततश्च तत्त्वज्ञानसंस्कारः अन्यसंस्कारप्रतिवन्धी भवतीति व्यवस्थापनम्। तत्र प्रतिवन्धश्च कार्य्याक्षमत्वसम्पादनं विनाशोवेति। स्वाभाविकविषयरागादिना प्रतिबन्धात् समाध्यसम्भवमाशङ्क्य पूर्ब्बकृतेश्वराधनादिना अभ्यासपाटवे जनिते तत्संस्कारात् समाधिसिद्धिरिति समर्थनम्। तथा च पूर्व्वकृतेश्वरानुसन्धानादिसहकारेणैव तत्त्वज्ञाने जननीये न रागादेः प्रतिबन्धकत्वम्। अरण्यगुहापुलिनादिषु योगाभ्यासस्थानत्वकथनम्। अपवर्गे प्रारब्ध कर्म्मानुसारेण देहादेः सत्त्वेन तदनुरूपार्थायभाससद्भावकथनम्। प्रारब्धकर्म्मावसाने देहाभावे विदेहकैवल्यप्राप्ति कथनम्। समाधिसिद्धये यमनियमाद्यष्टाङ्गयोगाभ्यास स्यावश्यरुतोक्तिः। श्रवणमनननिदिध्यासनैरात्मसाक्षात्कारोत्पत्तिकथनम्। एतच्छास्त्राभिज्ञैः सह स्वनिश्चितार्थदार्ढ्याय एतच्छास्त्रोदितार्थनिश्चयस्य संवादः कर्त्तव्य इति प्रतिपादनम्। संवादश्च शिष्यगुरुसब्रह्मचारिश्रेयीर्थिभिः जिगीषाहीनैः सह कार्य्य इति निरूपणम्। तत्त्वनिर्ण्णयार्थं प्रतिकूलपक्षहीनतया संवादः करणीयः न जिगीषयेति निरूपणम्। तत्त्वनिश्चयसंरक्षणार्थं वीजप्ररोहसंरक्षार्थ कण्ठकवरणवत् त्रयीबाह्यैः सह जल्पवितण्डे आश्रय णीये न वाद इत्येत्कथनम् तथा च यदि त्रयीबाह्यैः स्वपक्षआक्षिप्यते तदा जल्पवितण्डाभ्यां तेषां मतं खण्डनीयम्। एते अर्थाः ४ अ० २ आ० उक्ताः। साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेतुत्वर्थापत्त्यविशेषोपपत्त्युपलब्धिनित्यानित्यकार्य्यसमाश्चतुर्विशतिं जातोर्विभज्य तल्लक्षणान्युक्तानि। कथाभासप्रकरणम्। ५ अ० १ मआ० गतार्थाः। प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञा विरोधः प्रतिज्ञासंन्यासः हेत्वन्तरमर्थान्तरम् निरर्थक मविज्ञातार्थमप्राप्तकालं न्यूनमधिकं पुनरुक्तमननुभाषणनज्ञानमप्रतिभा विक्षेपोमतानुज्ञा पर्य्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तोहेत्वाभासाश्च निग्रह- स्थानानि इति निग्रहस्थानानि विभज्य तेषां क्रमेण लक्षणानि उक्तानि ५ अ० २ आ० गतार्थाः। यथा पदार्थ तत्त्वज्ञानादपवर्गस्तथा तन्मतं सर्व्व० द० ममग्राहि। यथा “ननु तत्त्वज्ञानान्निःश्रेयसम्भवतीत्युक्तं तत्र किं तत्त्वज्ञानादनन्तरमेव निःश्रेयसं सम्पद्यते, नेत्युच्यते तत्त्वज्ञानाद्दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभाव इति। तत्र मिथ्याज्ञानं नामानात्मनि देहादावात्मबुद्धिः तदनुकूलेषु रागः तत्प्रतिकूलेषु च द्वेषः वस्तुतस्त्वात्मनः प्रतिकूलमनुकूलं वा न किञ्चित् समस्ति परस्परानुबन्धत्वात्तु रागादीनां, मूढोर ज्यति रक्तो मुह्मति मूढः कुप्यतिकुपितो मुह्यतीति ततस्तैर्दौषैः प्रेरितः प्राणी प्रतिषिद्धानि शरीरेण हिंसास्तेयादीन्याचरति वाचा अनृतादीनि, मनसा परद्रोहादीनि, सेयं पापरूपा प्रवृत्तिरधर्ममावहतीति। शरीरेण प्रशस्तानि दानपरपरित्राणादीनि, वाचा हितसत्यादीनि, मनसा अहिंसादीनि, सेयं पुण्यरूपा प्रवृत्तिर्धर्मम्। सेयमुभयी प्रवृत्तिः ततः स्वानुरूपं प्रशस्तं निन्दितं वा जन्म पुनः शरीरादेः प्रादुर्भावः तस्मिन् सति प्रतिकूलवेदनीयतया वासनात्मकं दुःखं भवति त इमे मिथ्याज्ञानादयो दुःखान्ता अविच्छेदेन प्रवर्त्तमानाः संसारशब्दार्थो घटीचक्रवन्निरवधिरनुवर्त्तते। यदा कश्चित् पुरुषधौरेयः पुराकृतसुकृतपरिपाकवशादाचार्य्योपदेशेन सर्व्वमिदं दुःखायतनं दुःखानुषक्तञ्च पश्यति तदा तत्सर्ब्बं हेयत्वेन बुध्यते ततस्तन्निवर्त्तकमविद्यादि निवर्त्तयितुमिच्छति तन्निवृत्त्युपायश्च तत्त्वज्ञानमिति कस्यचिच्चतमृभिर्विद्याभिर्विमक्तं भावयतः सम्यग्दर्शनपदवेदनीयतया तत्त्वज्ञानं जायते तत्त्वज्ञानान्मिथ्याज्ञानमपैति, मिथ्याज्ञानापाये दोषाः अपयान्ति, दोषापाये प्रवृत्तिरपैति, प्रवृत्त्यपाये जन्मापैति, जन्मापाये दुःखमत्यन्तं निवर्त्तते सात्यन्तिकी निवृत्तिरपवर्गः। निवृत्तेरात्यन्तिकत्वं नाम निवर्त्त्यसजातीयस्य पुनस्तत्रानुत्पाद इति तथा च पारमर्षसूत्रम् “दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्ग” इति। ननु दुःखात्यन्तोच्छेदोऽपवर्ग इत्येतदद्यापि कफोणिगुडायितं वर्त्तते तत्कथं सिद्धवत्कृत्वा व्यवह्रियत इति चेन्मैवं सर्व्वेषां मोक्षवादिनामपवर्गदशायामात्यन्तिकी दुःखनिवृत्तिरस्तीत्यस्यार्थस्य सर्व्वतन्त्रसिद्धान्तसिद्धतया घण्टापथत्वात् नह्यप्रवृत्तस्य दुःखं प्रत्यापद्यते इति कश्चित् प्रपद्यते तथा हि आत्मोच्छेदो मोक्ष इति माध्यमिकमते दुःखोच्छेदोऽस्तीत्येतावत्तावदवि- वादम्। अथ मन्येथाः शरीरादिवदात्मापि दुःखहेतुत्वादुच्छेद्य इति तन्न सङ्गच्छते विकल्पानुपपत्तेः किमात्मा ज्ञानसन्तानो विवक्षितः तदरिक्तो वा। प्रथमे न विप्रतिपत्तिः कः खल्वनुकूलमाचरति प्रतिकूलमाचरेत्। द्वितीयेतस्य नित्यत्वे निवृत्तिरशक्यविधानैव प्रवृत्त्यनुपपत्तिश्चाधिकं दूषणं न खलुकश्चित् प्रेक्षावान् “आत्मनस्तु कामाय सर्वं प्रियं भवतीति” सर्व्वतः प्रियतमस्यात्मनः समुच्छेदाय प्रयतते सर्वोहि प्राणी मुक्त इति व्यवहरति। ननु धर्मिनिवृत्तौ निर्मलज्ञानोदयो महोदय इति विज्ञानवादिवादे सामग्र्यभावः सामानाधिकरण्यानुपपत्तिश्च भावनाचतुष्टयं हि तस्य कारणमभीष्टं तच्च क्षणभङ्गपक्षे स्थिरैकाधारासम्भवात् लङ्घनाभ्यासादिवदनासादितप्रकर्षं न स्फुटमभिज्ञानमभिजनयितुं प्रभवतिसोपप्लवस्य ज्ञानसन्तानस्य बद्धत्वे निरुपप्लवस्य च मुक्तत्वे यो बद्धः स एव मुक्त इति सामानाधिकरण्यं न सङ्गच्छते। आवरणमुक्तिर्मुक्तिरिति जैनजनाभिमतोऽपि मार्गो न निर्गतो निरर्गलः। अङ्गभवान् पृष्टो व्याचष्टां किमावरणम्? धर्म्माधर्मभ्रान्तय इति चेत् इष्टमेव। अथ देहमेवावरणं तथा च तन्निवृत्तौ पञ्जरान्मुक्तस्य शुकस्येवात्मनः सततोर्द्ध्वगमनं मुक्तिरिति चेत्तदा वक्तव्यं किमयमात्मा मूर्त्तोऽमूर्त्तो वा। प्रथमे निरवयवः सावयवो वा निरवयवत्वे निरवयवो मूर्त्तः परमाणुरिति परमाणुलक्षणापत्त्या परमाणुधर्मवदात्मधर्माणामतीन्द्रियत्वं प्रसजेत्। सावयवत्वे यत् सावयवं तदनित्यमिति प्रतिबन्धवलेनानित्यत्वापत्तौ कृतप्रणाशाकृताभ्यागमौ निष्प्रतिबन्धौ प्रसज्येयाताम्। अमूर्त्तत्वे गमनमनुपपन्नमेव चलनात्मिकायाः क्रियायाः मूर्त्तप्रतिवन्धात्। पारतन्त्र्यं बन्धः स्वातन्त्र्यं मोक्ष इति चार्वाकपक्षेऽपि स्वातन्त्र्यं दुःखनिवृत्तिश्चेदविवादम्। ऐश्वर्य्यं चेत् सातिशयतया सदृक्षतया च प्रेक्षावतां नाभिमतम्। प्रकृतिपुरुषान्यत्वख्यातौ प्रकृत्युपरमे पुरुषस्य स्वरूपेणावस्थानं मुक्तिरिति साङ्ख्यख्यातेऽपि पक्षे दुःखोच्छेदोऽभ्युपेयते विवेकज्ञानं पुरुषाश्रयं प्रकृत्याश्रयं वेति एतावदवशिष्यते तत्र पुरुषाश्रयमिति न श्लिष्यते पुरुषस्य कौटस्थ्यात् स्थाननिरोधापातान्नापि प्रकृत्याश्रयः अचेतनत्वात् तस्याः। किञ्च प्रकृतिः प्रवृत्तिस्वभावा वा निवृत्तिस्वभावा वा आद्ये अनिर्मोक्षः स्वाभावस्यानपायात् द्वितोये सम्प्रति संसारोऽस्तमियात्। नित्यनिरतिशयसुखाभिव्यक्तिमुक्तिरिति भट्टसर्ब्बज्ञाद्यभिमतेऽपि दुःखनिवृत्तिरभिमतैव परन्तु नित्यसुखं न प्रमाणपद्धतिमध्यास्ते। श्रुतिस्तत्र प्रमाणमिति चेन्न योग्यानुपलब्धिबाधिते तदनवकाशादवकाशे वा ग्रावप्लावेऽपि तथाभावप्रसङ्गात्। ननु सुखाभिव्यक्तिर्मुक्तिरिति पक्षं परित्यज्य दुःखनिवृत्तिरेव मुक्तिरिति स्वीकारः क्षीरं विहायारोचकग्रस्तस्य सौवीररुचिमनुहरतीति चेत्तदेत न्नाटकपक्षपतितत्वद्वच इत्युपेक्ष्यते। सुखस्य सातिशयत्वेन प्रत्यक्षतया बहुप्रत्यनीकाक्रान्ततया साधनप्रार्थनापरिक्लिष्टतया च दुःखाविनाभूतत्वेन विषानुषक्तमधुवत् दुःखपक्षनिक्षेपात्। नन्वेकमनुसन्धित्सतोऽपरं प्रच्यवते इति न्यायेन दुःखवत् सुखमप्युच्छिद्यत इति अकाम्योऽयं पक्ष इति चेन्मैवं मंस्थाः सुखसम्पादने दुःखसाधनबाहुल्यानुषङ्गनियमेन तप्तायःपिण्डे तपनीयबुद्ध्या प्रवर्त्तमानेन साम्यापातात् तथा हि न्यायोपार्ज्जितेषु विषयेषु कियन्तः सुखखद्योताः कियन्ति दुःखदुर्दि नानि, अन्यायोपार्ज्जितेषु तु यद्भविष्यति तन्मनसापि चिन्तयितुंन शक्यमित्येतत् स्वानुभवमप्रच्छादयन्तः सन्तोविदांकुर्व्वन्तु विदांवरा भवन्तः। तस्मात् परिशेषात् परमेश्वरानुग्रहवशाच्छ्रवणादिक्रमेणात्मतत्त्वसाक्षात्कारवतः पुरुषधौरेयस्य दुःखनिवृत्तिरात्यन्तिकी निःश्रेयसमिति निरवद्यम्। नन्वीश्वरसद्भावे किं प्रमाणं प्रत्यक्षमनुमानमागमो वा न तावदत्र प्रत्यक्षं क्रमते रूपादिरहितत्वेनातीन्द्रियत्वात् नाप्यनुमानं तद्व्याप्तिलिङ्गाभावात् नागमः विकल्पासहत्वात् किं नित्योऽवगमयत्यनित्यो वा। आद्ये अपसिद्धान्तापातः द्वितीये परस्पराश्रयापातः। उपमानादिकम शक्यशङ्कमनियतविषयत्वात्। तस्मादीश्वरः शशविषाणायते इति चेत्तदेतन्न चतुरचेतसां चेतसि चमत्कारमाविष्करोति। विवादास्पदं नगसागरादिकं सकर्तृकं कार्य्यत्वात् कुम्भवत्। न चायमसिद्धो हेतुः सावयवत्वेन तस्य सुसाधत्वात्। ननु किमिदं सावयवत्वम् अवयवसंयोगित्वम् अवयवसमवायित्वं वा नाद्यः गगनादौ व्यभिचारात् न द्वितीयः तन्त्वादावनैकान्त्यात्। तस्मादनुपपन्नमिति चेन्मैवं वादीः समवेतद्रव्यत्वंसावयवत्वमिति निरुक्तेर्वक्तुं शक्यत्वात्। अवान्तरमहत्त्ववत्त्वेन वा कार्य्यत्वानुमानस्य सुकरत्वात्। नापि विरुद्धो हेतुः साध्यविपर्य्य यव्याप्तेरभावात्, नाप्यनैकान्तिकः, पक्षादन्यत्र वृत्तेरदर्शनात्। नापि कालात्ययोपदिष्टः, बाधकानुपलम्भात्। नापि सत्प्रतिपक्षः, प्रतिभटादर्शनात्। ननु नगादिकमकर्तृकं शरीराजन्यत्वात् गगनवदिति चेन्नैतत् परीक्षाक्षममीक्ष्यते नहि कठोरकण्टीरवस्य कुरङ्गशावः प्रतिभटो भवति अजन्यत्वस्यैव समर्थतया शरीरविशेषणवैय- र्य्यात्। तर्ह्यजन्यत्वमेव साधनमिति चेन्नासिद्धेः नापि सोपाधिकत्वशङ्काकलङ्काङ्कुरः सम्भवी अनुकूलतर्कसम्भवात् यद्ययमकर्तृकः स्यात् कार्य्योऽपि न स्यादिह जगति नास्त्येव तत्कार्य्यं नाम यत्कारकचक्रमवधीर्य्यात्मानमासादयेदित्येतदविवादम्। तच्चर्सवं कर्तृविशेषोपहितमर्य्यादं कर्तृत्वं चेतरकारकाप्रयोज्यत्वे सति सकलकारकप्रयोक्तृत्वलक्षणं ज्ञानचिकीर्षाप्रयत्नाधारत्वम्। एवञ्च कर्तृव्यावृत्तेस्तदुपहितसमस्तकारकव्यावृत्तावकारणककार्य्योत्पादप्रसङ्ग इति स्थूलः प्रमादः। तथा निरटङ्कि शङ्करकिङ्करेण। “अनुकूलेन तर्केण सनाथे सति साधने। साध्यव्यापकताभङ्गात् पक्षे नोपाधिसम्भव” इति। यदीश्वरः कर्त्ता स्यात्तर्हि शरीरी स्यादित्यादिप्रतिकूलंतर्कजातं जागर्त्तीति चेदीश्वरसिद्ध्यसिद्धिभ्यां व्याघातात् तदुदितमुदयनेन! “आगमादेः प्रमाणत्वे बाघनादनिषेधनभ्। आभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धटा” इति। न च विशेषविरोधः शक्यशङ्कः ज्ञातत्वांज्ञातत्वविकल्पपराहतत्वात्। तदेतत् परमेश्वरस्य जगन्निर्म्माणे प्रवृत्तिः किमर्था स्वार्था परार्था वा आद्येऽपीष्टप्राप्त्यर्था अनिष्टपरिहारार्था वा नाद्यः अवाप्तसकलकामस्य तदनुपपत्तेः अतएव न द्वितीयः। द्वितीये प्रवृत्त्यनुपपत्तिः कः खलु परार्थं प्रवर्त्तमानं प्रेक्षावानित्याचक्षीत। अथ करुणया प्रवृत्त्युपपत्तिरित्याचक्षीत कश्चित् तं प्रत्याचक्षीत तर्हि सर्व्वान् प्राणिनः सुखिन एव सृजेदीश्वरः न दुःखशवलान् करुणाविरोधात्। स्वार्थमनपेक्ष्य परदुःखप्रहरणेच्छा हि कारुण्यं तस्मादीश्वरस्य जगत्सर्जनं न युज्यते। तदुक्तं भट्टाचार्य्यैः। “प्रयोजनमनुद्दिश्य न मन्दो हि प्रवर्त्तते। जगच्च सृजतस्तस्य किं नाम न कृतं भवेदिति”। नास्तिकशिरोमणे! तावदीर्ष्याकषायिते चक्षुषी निमील्य परिभावयतु भवान् करुणया प्रवृत्तिरस्त्येव न च निसर्गतः सुखश्नयसर्गप्रसङ्गः, सृज्यप्राणिकृतसुकृतदुष्कृतपरिपाकविशेषाद्वैचित्र्योपपत्तेः न च सातन्त्र्यभङ्गः शङ्कनीयः स्वाङ्गं स्वव्यवधायकं न भवतीति न्यायेन प्रत्युत तन्निर्वाहात् एक एव रुद्रो नद्वितीयोऽवतस्थे” इत्यादिरागमस्तत्र प्रमाणम्। यद्येवं तर्हि परस्पराश्रयबाधव्याधिं समाधत्स्वेति चेत् तस्यानुत्थानात् किमुत्पत्तौ परस्पराश्रयः शङ्क्यते ज्ञप्तौ वा। नाद्यः आगमस्येश्वराधीनोत्पत्तिकत्वेऽपि परमेश्वरस्य नित्यत्वेनोत्पत्तेरनुपपत्तेः नापि ज्ञप्तौ परमेश्वरस्य आगमाधीनज्ञप्तिकत्वेऽपि तस्यान्यतोऽवगमात् नापि तदनित्यत्व ज्ञप्तौ आगमानित्यत्वस्य तीव्रादिधर्म्मोपेतत्वादिना सुगमत्वात्। तस्मान्निवर्त्तकधर्म्मानुष्ठानवशादीश्वरप्रसादसिद्धावभिमतेष्टसिद्धिरिति सर्व्वमवदातम्”। अस्याश्चात्मतत्त्वज्ञानहेतुत्वादात्मविद्यात्वम्। “त्रयी चान्वीक्षिकी चैव वार्त्ता च भरतर्षभ! दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः” शा० प० ५९ अध्या०। “त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिञ्च शाश्वतीम्। “आन्वीक्षिकीञ्चात्मविद्यां वार्त्तारम्भांश्च लोकतः” मनुः “तत्रौपनिषदं तात परिशेषन्तु पार्थिव। मथ्नामि मनसा तत्त्वं दृष्ट्वा चान्वीक्षिकीं पराम्” भा० शा० प०। “आन्वीक्षिकी कोशलानामिति” गीता। “सेयसान्वीक्षिकी विद्या प्रमाणादिभिः पदार्थैः प्रविभज्यमाना। प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्। आश्रयः सर्वधर्माणां विद्योद्देशे परीक्षिता” पक्षिलस्वामी। अन्वीक्षा शीलमस्याः तस्यै हितं वा ठक्। २ दुर्गायाञ्च “आत्मवेदनशी लत्वादन्वीक्षणपराऽथ वा। अन्वीक्षाकारणत्वाद्वा तस्मादान्वीक्षिकी स्मृता” देवीपु० तंन्निरुक्तिः।

आन्वीपिक = त्रि० अन्वीप वर्त्तते ठक्। अनुकूले।

आप = प्राप्तौ वा चुरा० उभ० पक्षे स्वादि० प० सक० अनिट्। आपयति ते आपिपत् त। पक्षे आप्नोति आप्नुतः आप्नुवन्ति आप्नुयात् आप्नोतु आप्नोत् आप्नुवम्। आपत् आप आपथुः आपुः आपिथ। आप्ता आप्यात् आप्स्यति आप्स्यत्। आप्तव्यः आप्यम् आपनीयम् आप्ता आप्तः आप्तिः आत्वा अवाप्य। क्विप् ह्रखः आपः अपः अद्भिः। असुन् आपः। शतृ आप्नुवन् ताच्छील्ये चानश् आप्नुवानः। “अयशोमहदाप्नोति” “इहाग्र्यां कीर्त्तिमाप्नोति” मनुः। “नत्वेवाधौ सोपकारे कौषीदीं वृद्धिमाप्नुयात्” या० स्मृतिः “पुत्रमेवंगुणोपेतं चक्रवर्त्तिनमाप्नुहि” शकु० “येन श्रेयोहऽमाप्नुयाम्” गीता “स दुष्पापयशाः प्रापत्” रघुः। “शतं क्रतूनामपविघ्नमाप सः” रघुः। “यदिदं सर्वं मृलुनाप्तम्” श्रुतिः “नानवाप्तमवाप्तव्यं वर्त्त एव च कर्म्मणि” गीता। कर्म्मणि आप्यते आपि। प्रेरणे णिच्। आपयति ते आपिपत् त। सन् ईप्सति ईप्सितः।प्र–प्रकर्षेणाप्तौ प्राप्नोति प्राप्तः प्राप्तिः “अप्राप्तस्य च याप्राप्तिःसंयोगः स उदाहृतः” भाषा०।सम् + संपूर्ण्णतायां समाप्तः समाप्तिः समापनम्।अव + प्राप्तौ, “अनवाप्तमवाप्तव्यम्” गीता “तपः किलेदं तदवाप्ति साधनं” कुमा०।परि + प्रचुरत्वे समर्थत्वे समुदितत्वे पर्य्याप्तः पर्य्याप्तिः। “सहि धर्मः सुपर्य्याप्तः सर्वस्य पदवेदने” गीताभा०। “अपर्य्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्। पर्य्याप्त त्विदमेतेषां बलं भीमाभिरक्षितम्” गीता।अनु + प्रा–पश्चात्प्राप्तौ “नदीं गङ्गामनुप्राप्ताः” भा० आ० प०।वि + विशेषेण आप्तौ व्याप्तिः व्याप्तः, व्याम्यः व्यापकः व्यापनम् “व्याप्तस्य पक्षधर्मत्वधीःपरामर्श उच्यते”। “व्याप्तिः साध्यवदन्यस्तिन्नसम्बन्ध उदाहृतः” भाषा०। “अस्यात्मनेपदित्वमपि स्वाराज्यं प्राप्स्यते भवान्” इति दुर्गादासः।

आप = पु० आप्यते आप–कर्मणि घञ्। अष्टसु वसुषु मध्ये ४ र्थे बसौ, “धरो ध्रुवः सोमनामा तथापोऽप्यनिलोऽनलः। प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः” विष्णु ध०। “सव्यदक्षौ वसोर्यस्य चोर्द्धौ हस्तौ सशक्तिकौ। सीराङ्कुशान्वितौ चाधः स भवेदापसंज्ञकः” इति तद्ध्यानम् “आपश्चैवानिलश्चैव ववर्षतुररिन्दमौ” हरिवं० २४५ अ० देवासुरयुद्धे। “आपस्य दुहिता भार्य्या सहस्य परमा प्रिया! भूपतिर्भुवभर्त्ता चाजनयत् पावकं परम्” भा० व० २२१ अ०। भा० आ० प० ६६ अ० तु “धरोध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः। प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविति स्मृताः। धूम्रायास्तु धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा। चन्द्रमास्तु मनस्विन्याः श्वासायाः श्वसनस्तथा। वातायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः। प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ” इति आपस्थाने अह इति नामान्तरत्वेन कीर्त्तितम् कल्पभेदादविरुद्धम्। प्रभासस्यैव द्युनामता अष्टमस्य वसोः आपगेयशब्दे दर्शयिष्यमाणे भा० ९९ अध्याये द्युनामतोक्तेः अपां समूहः अण्। २ जलसमूहे न०। ३ आकाशे निरुक्त०। तस्य सर्वर्मूत्तसंयोगित्वात्तथात्वम्।

आपक = त्रि० आप–ण्वुल्। प्राप्तरि। गौरा० स्त्रियां ङीप्

आपकर = त्रि० अपकरे भवः अण् अञ्च। अपकरजाते स्त्रियां ङीप्।

आपक्व = न० ईषत् पक्वम् आ + पच–क्त। १ ईषत्पक्वे कलायादौ भर्ज्जिते हरितयवादौ (हडापोडा) २ ईषत्पक्ववस्तुमात्रे त्रि०।

आपक्षिति = पु० अपक्षितस्यापत्यम् इञ्। अपक्षयापन्नस्यापत्ये स्त्रियां क्रौड्या० ष्यञ्। आपक्षित्या।

आपगा = स्त्री आपेन जलसमूहेन गच्छति वहति डं। नद्याम्। “फेनायमानं पतिमापगानाम्” “सम्भूयाम्भोधिमभ्येति महानद्या नगापगा” मावः। “शिखरिणामिव सागरमापगाः” रघुः।

आपगेय = पु० आपगायां गङ्गायां भवः ढक्। गाङ्गेये भीष्मे तस्म तत उत्पत्तिकथा भा० आ० ९८ अ० शान्तनुप्रार्थने गङ्गावाक्यं यथा। “एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च। वसूनां समयं स्मृत्वाऽथाभ्यगच्छदनिन्दिता। उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा। भविष्यामि महीपाल! महिषी ते वशानुगा। यत्तु कुर्य्यामहं राजन्! शुभं वा यदि वा शुभम्। न तद्वारयितव्याऽस्मि न वक्तव्या तथाऽप्रियम्। एवं हि वर्त्तमानेऽहं त्वयि वत्स्यामि पार्थिव!। वारिता विप्रियं चोक्ता त्यज्येयं त्वामसंशयम्”। वैश० उक्तिः “तथेति राज्ञा सा तूक्ता तदा भरतसत्तम। प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम्। आसाद्य शान्तनुस्ताञ्च बुभुजे कामतो वशा। न प्रष्टव्येति मन्वानो न स तां किञ्चिदूचिवान्। स तस्याः शीलवृत्तेन रूपौदार्य्यगुणेन च। उपचारेण च रहस्तुतोष जगतीपतिः। दिव्यरूपा हि सा देवी गङ्गा त्रिपथगामिनी। मानुषं विग्रहं कृत्वा श्रीमन्तं वरवर्णिनी। भाग्योपनंतकामस्य भार्य्या चोपनताऽभवत्। शान्तनोर्न्नृपसिंहस्य देवराजसमद्युतेः। सम्भोगस्नेहचातुर्य्यैर्हावलास्य मनोहरैः। राजानं रमयामास यथा रेमे तथैव सः। स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः। संवत्सरानृतून्मासान् बुबुधे न बहून् गतान्। रममाणस्तया सार्द्धं यथाकामं नरेश्वरः। अष्टावजनयत्पुत्त्रांस्तस्याममरसन्निभान्। जातं जातञ्च सा पुत्त्रं क्षिपत्यम्भसि भारत। प्रीणाम्यहं त्वामित्युक्त्वा गङ्गास्रोतस्यमज्जयत्। तस्य तन्नप्रियं राज्ञः शान्तनोरभवत्तदा। न च तां किञ्चनोवाच त्यागाद्भीतो महीपतिः। अथैनामष्टमे पुत्त्रे जाते प्रहसतीमिव। उवाच राजा दुःखार्त्तः परीप्सन् पुत्त्रमात्मनः। मा बधीः कस्य काऽसीति किं हिनस्ति सुतानिति। पुत्त्रघ्नि! सुमहत्पापं सम्प्राप्तं ते सुगर्हितम्”। स्त्र्युवाच। “पुत्त्रकाम! न ते हन्मि पुत्त्रं पुत्त्रवतां वर!। जीर्णोऽस्तु मम वासोऽयं यथा स समयः कृतः। अहं गङ्गा जह्नुसुता महर्षिगणसेविता। देवकार्य्यार्थसिद्ध्यर्थमुषिताऽहं त्वया सह। इमेऽष्टौ वसवो देवा महाभागा महौजसः। वशिष्ठशापदोषेण मानुषत्वमुपागताः। तेषां जनयिता नान्यस्त्वट्टते भुवि विद्यते। मद्विधा मानुषी धात्री लोके नास्तीह काचन। तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता। जनयित्वा वसूनष्टौ जिता लोकास्त्वयाऽक्षयाः। देवानां समयस्त्वेष वसूनां संश्रुतो मया। जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति। तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः। स्वस्ति तेऽस्तु गमिष्यामि पुत्त्रं पाहि भहाव्रतम्। एष पर्य्यायवासो मे वसूनां सन्निधौ कृतः। मत्प्रसूतं विजानीहि गङ्गादत्तमिमम् सुतम्”। हृत निजधेनुकान् वसून् प्रति गङ्गया वशिष्ठशापस्तत्रैवोस्यः ९९ अ०। “अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः। नचापश्यत्स गां तत्र सवत्सां काननोत्तमे। ततः स मृगयामास वने तस्मिंस्तपोधनः। नाध्यागमच्च मृगयंस्तां गां मुनिरुदारधीः। ज्ञात्वा तथाऽपनीतां तां वसुभिर्दिव्यदर्शनः। ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा। यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुबालधिम्। तस्मात्सर्व्वे जनिष्यन्ति मानुषेषु न संशयः। एवं शशाप भगवान् वसूंस्तान् भरतर्षभ!। वशं क्रोधस्य सम्प्राप्त आपवो मुनिसत्तमः। शत्वा च तान्महाभागस्तपस्येव मनो दघे। एवं स शप्तवान् राजन्! वसूनष्टौ तपोधनः। महाप्रभावो ब्रह्मर्षिर्देवान् क्रोध समन्वितः। अथोश्रमपदं प्राप्तास्ते वै भूयी महात्मनः। शप्ताःस्म इति जानन्त ऋषिं तमुपचक्रमुः। प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ!। लेभिरे नच तस्मात्ते प्रसादमृषिसत्तमात्। आपवात्पुरुषव्याघ्र! सर्वधर्म्मविशारदात्। उवाच च स धर्म्मात्मा शप्ता यूयं धरादयः। अनुसं वत्सरात्सर्वे शापमोक्षमवाप्स्यथ। अयन्तु यत्कृते यूयं मया शप्ताः स वत्स्यति। द्यौस्मदा मानुषे लोके दीर्घकालं स्वकर्म्मणा। नानृतं तच्चिकीर्षामि क्रुद्धो युष्मान् यदब्रवम्। न प्रजास्यति चाप्येष मानुषेषु महामनाः। भविष्यति च धर्म्मात्मा सर्वशास्त्रविशारदः। पितुः प्रियहिते युक्तः स्त्रीभोगान् वर्जयिष्यति। एवमुक्ता वसून् सर्वान् स जगाम महानृषिः। ततो मामुपजग्मुस्ते समेता वसवस्तदा। अयाचन्त च मां राजन्! वरं तच्च मया कृतम्। जातान् जातान् प्रक्षिपास्मान् स्वयं गङ्गे! त्वमम्भसि। एवं तेषामहं सम्यक् शप्तानां राजसत्तम!। मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम्। अयं शापादृषेस्तस्य एक एव नृपोत्तम। द्यौराजन्! मानुषे लोके चिरं वत्स्यति भारत!। वैशाम्पायन उवाच। एतदाख्याय सा देवी तत्रैवान्तरधीयत। आदाय च कुमारं तं जगामाथ यथे प्सितम्। स तु देवव्रतो नाम गाङ्गेय इति चाभवत्। द्युनामा शान्तनोः पुत्त्रः शान्तनोरधिको गुणैः”। “अथापगेयं भीष्मं तं रामेणेच्छामि धीमता। रणे विनिर्ज्जितं द्रष्टुं कुर्य्यात्तदपि भार्गवः” “यदि त्वामापगेयो वै न नयेद्गजसाह्वयम्” इति च भा० उ० प० ७७ अ०।

आपच्चिक = त्रि० आपदं चिक्कति कृन्तति चिक्क–अण् पृ० कलोपः। आपत्कत्तेके। गौरा० स्त्रियां ङीष्।

आपटव = न० न सन्ति पटवोऽस्य तस्य भावः अण्। पटुशून्यत्वे। न पटुरपटुरिति तत्पुरुषात्तु ष्यञि उत्तरपदस्यैव वृद्धिः। अपाटवम्। “अपाटवाद्यशैचाद्यैर्यदि विघ्नं प्रजायते” स्मृतिः।

आपण = पु० आपणायन्ते विक्रीणन्त्यत्र आ + पण–नि० आधारे घ। १ हट्टे २ क्रयविक्रेयद्रव्यशालायाञ्च। “शकटापणवेशाश्च बणिजोवन्दिनस्तथा। नराश्च मृगयाशीलाः शतशोऽथ सहस्रणः” भा० व० प० २३८। “भक्ष्यमाल्यापणानाञ्च ददृशुः श्रियमुत्तमाम्” भा० स० प० ४ अ०। “अस्वामिना तु यद्भुक्तं गृहक्षेत्रापणादिकम्। सुहृद्बन्धुसकुल्यस्य न तद्भोगेन हीयते” दा० त० वृ० “आपणः पण्यवीथिका” रघु० व्य० त० “आपणो विक्रयस्थानम्” तेनैवोक्तम्। “पूर्ण्णापणाविपणिनो विपणीर्विभेजुः” माषः। भावे घञ् आपाणः। क्रयविक्रयव्यवहारे पु०।

आपणिक = त्रि० आपणादायस्थानादागतः ठक्। १ हट्टस्थानादा गते राजकरादौ। आपणस्य धर्म्म्यम् ठक्। २ हट्टस्थबणिग्धर्म्म्ये। आपणस्यावक्रयः राज्यग्राह्यः ठक्। ३ हट्टस्य राजग्राह्ये द्रव्ये (तोलां) आ + पण–इकन्। ४ बणिग्जने उज्जपलदत्त।

आपतन = न० आ + पत–भावे ल्युट्। १ आगमने २ प्राप्तौ ३ ज्ञाने “क्वचित् प्राकरणिकादर्थादप्राकरणिकार्थास्यापतनम्” सा० द० दैववशात् ४ पतने च।

आपति = पु० आपतति आ + पत–इन्। सततगामिनि वायौ “आपतये त्वा परिपतये गृह्णामि” य० ५, ५, आपतिः सततगतिर्वायुः” वेददी०।

आपतिक = पु० आपतति शीघ्रम् आ + पत–इकन्। १ श्येने २ दैवायत्ते त्रि० उज्ज्वलदत्तः।

आपतित = त्रि० आ + पत–क्त। १ इठादागते २ दैवायत्तपतने च

आपत्कल्प = पु० आपद्यु चितः कल्पोविधिः शा० त०। आपत्कालिकविधौ स च विधिर्गौतमेनोक्तः यथा “आपत्कल्पोब्राह्मणस्याब्राह्मणाद्विद्योपयोगोऽनुगमनं शुश्रूषाऽऽसमाप्तेर्ब्राह्मणोगुरुः याजनाध्यापनप्रतिग्रहाः सर्व्वेषां पूर्ब्बः पूर्ब्बोगुरुस्तदलाभे क्षत्रवृत्तिस्तदलाभे वैश्यवृत्तिः तस्यापण्यं गन्धरसकृतान्नतिलशाणक्षौमाजिनानि रक्तनिर्णिक्ते वाससी क्षीरञ्च सविकारं मूलफलपुष्पौषधमधुमांसतृणोदकापथ्यानि पशवश्च हिंसासंयोगे पुरुष- वशाकुमारीवेहतश्च नित्यं भूमिव्रीहित्यवाजाव्यश्च ऋषभधेन्वनडूहश्चैके। विनिमयस्तु रसानां रसैः पशूनाञ्च न लवणकृतान्नयोः, तिलानाञ्च समेनामेन तु पक्वस्य संप्रत्यर्थे सर्व्वधातुवृत्तिरशक्तावशूद्रेण तदप्येके प्राणसंशये, तद्वर्णसङ्करोऽभक्ष्यनियमस्तु प्राणसंशये ब्राह्मणोऽपि शस्त्रमाददीत राजन्यवैश्यकर्म्म, राजन्योवैश्यकर्म्म”

आपत्काल = पु० आपद्युक्तः कालः शा० त०। आपद्युक्ते समये “अब्राह्मणादध्ययनमापत्काले विधीयते” मनुः “आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि। मनस्तापेन शुध्येत्तु द्रुपदां वा शतं जपेत्” प्रा० त० स्मृ०।

आपत्कालिक = त्रि० आपत्काले भवः काश्या० ष्ठञ् ञिठ् घा। आपत्कालभवे ष्ठञि स्त्रियां ङीष् ञिठि तु टाबिति भेदः।

आपत्ति = स्त्री आ + पद–क्तिन्। आपदि आपच्च रोगाद्यभिभूततावस्था सम्यग्वर्त्तनोपायानुपलम्भश्च। आपदि धर्माचरणञ्च या० स्मृ० दर्शितम् यथा “क्षात्रेण कर्म्मणा जीयेद्विशां वाप्यापदि द्विजः। निस्तीर्य्य तामथात्मानं पावयित्वा न्यसेत् पथि। फलोपलक्षौमसोममनुष्यापूपवीरुधः। तिलौदनरसक्षारान् दधि क्षीरं घृतं जलम्। शस्त्रासवमधूच्छिष्टमधुलाक्षाश्च वर्हिषः। मृच्चर्म्मपुष्पकुतपकेशतक्रविषक्षितीः। कौशेयनीललवणमांसैकशफसीसकान्। शाकार्द्रौषधिपिण्याकपशुगन्धांस्तथैव च। वैश्यवृत्त्यापि जीवन्नो विक्रीणीत कदाचन। धर्म्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः। लाक्षालबणमांसानि पतनीयानि विक्रये। पयोदधि च मद्यञ्च हीनवर्णकराणि च। आषद्गतः सम्प्रगृह्णन् भुञ्जानो का यतस्ततः। न लिप्येतैनसा विप्रोज्वलनार्कसमो हि सः। कृषिः शिल्पं भृतिर्विद्या कुसीदं शकटं गिरिः। सेवाऽनूपं नृपोभैक्षमापत्तौ जीवनानि तु। बुभुक्षितस्त्र्यहं स्थित्वा धान्यमब्राह्मणाद्धरेत्। प्रतिगृह्य तदाख्येयमभियुक्तेन धर्मतः। तस्य वृत्तं कुलं शीलं श्रुतमध्ययनं तपः। ज्ञात्वा राजा कुटुम्बञ्च धर्म्म्यां वृत्तिं प्रकल्पयेत्”। विस्तरस्तु भा० शा० प० आपद्धर्म्म पर्व्वणि दृश्यः। २ प्राप्तौ। “स्थानापत्तेर्द्रव्येषु धर्मलाभः” कात्या० ४, ३, १९ “इतरेतरभावापत्तिः” शा० भा० व्यतिरेकव्याप्त्या ३ अर्थादेः सिद्धौ। अर्थापत्तिः ४ अनिष्टप्रसङ्गे स च व्याप्यस्याहार्य्यारोपात् व्यापकस्याहार्य्यरोपः। यदि निर्वह्निः स्यात् निर्धूमः स्यादित्येवं रूपः।

आपत्य = पु० अपत्याधिवारे विहितः अण्। पाणिन्यादिभिः तस्यापत्यमित्यधिकारे विहिते प्रत्थये। “आपत्यस्य च तद्धितेऽनाति” पा०।

आपथि = पु० अभिमुखः पन्थाः यस्य वेदे नि० इत् समा०। अभिखमार्गसम्बन्धिनि “आपथयोविपथयोऽन्तस्पथा अनुपथाः” ऋ० ५, ५२१०। आपथयः अभिमुखा मार्गा येषां तादृशाः” भा० स्त्रियां वा ङीप् “हिरण्ययेभिः पविभिः पयोवृधः उज्जिघ्रन्त आपथ्यो न पर्व्वतान्” ऋ० १, १६४ १२।

आपद् = स्त्री आ + पद–सम्पदा० क्विप्। विपत्तौ आपत्तिशब्दे विवृतिः” दैवीनां मानुषीणाञ्च प्रतिहर्त्ता त्वमापदाम्” रघुः। “सम्पदो मे निरापदः” रघुः “अविवेकः परमापदां पदम्” किरा० “मन्त्रशक्तिविनिवारितापदः” माघः। “आपत्कल्पः आपत्कालः। आपत्प्राप्तः। आपद्गतः। आपद्ग्रस्तः। आपद्धर्मः” हलन्तत्वाद्वा टाप्। आपदाप्यत्र। आपत्काले न्यूनादपि विद्याधिगन्तव्या यथा वृ० उ० “वाचा स्मृ वै पूर्ब्ब उपयन्ति सहोपायनकीर्त्त्योवास” अत्र भाष्यम् “वाचा स्म किल पूर्ब्बे ब्राह्मणाः विद्यार्थिनः सन्तः क्षत्रियान् वैश्यान् वा क्षत्रिया वैश्यानुपयन्ति शिष्यवृत्त्या उपगच्छन्ति नोपायनशुश्रूषाभिः अतः स गौतम उपायनकीर्त्त्या उपगमनकीर्त्तनमात्रेणैव उवास ऊषिवान् नीपायनंचकार”। “आपदि समादधिकाद्वा विद्याप्राप्त्यसम्भवावस्थायाम् उपायनमुपगमनं पादोपसर्पणम्” आन०।

आपदकाल = पु० आपदा कृतोऽकालः। आपदा कृते दुष्टे काले “पीडा चापदकालश्च पत्तिज्ञानञ्च पाण्डव!” भा० शा० प० ५९ अ०।

आपदेव = पु० आपस्य जलसमूहस्य देवः। वरुणे।

आपद्धर्म = पु० आपदि कर्त्तव्यो धर्म्मः। १ आपद्यनुष्ठेये धर्म्मे आपद्धम्ममधिकृत्य कृतोग्रथः अण्। भारतान्तर्गतशान्तिपर्वमध्यगते व्यासकृते २ अवान्तरपर्वभेदे न० तच्च भा० शा० प० १३१ अध्यावधि १७३ अध्यायपर्य्यन्तम्।

***