आदिराज = पु० आदिराद्योराजा टच् समा०। पृथुनामके नृपतौ तस्य राज्ञामादित्वात्तथात्वम् तत्कथा भाग० ४ स्क० “अथ तस्य पुनर्विप्रैरपुत्रस्य महीपतेः। बाहभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत। तद्दृष्ट्वा मिथुनं जातविस्मया ब्रह्मवादिनः। ऊचुः परमसंतुष्टा विदित्वा भगवत्कलाम्। एष विष्णोर्भगवतः कला भुवनपालिनी। इयञ्च लक्ष्मीसंभूतिः पुरुषस्यानपायिनी। क्षत्रियः प्रथमो राज्ञां पुमान् प्रथयिता यशः। पृथुर्नाम महाराजोमविष्यति पृथुश्रवाः”। तस्य वेणस्येत्यर्थः।

आदिवराह = पु० आदिराद्यो वराहः। यज्ञवराहरूपेणाविर्भूते विष्णोरवतारभेदे तत्कथा “ततो महात्मा मनसा दिव्यं रूपमचिन्तयत्। किं नु रूपमहं कृत्वा उद्ध्वरेयं वसुन्धराम्। जले निमग्नां धरणीं येनाहं वै समुद्धरे। इति सञ्चिन्त्य मनसा हरिर्नारायणः प्रभुः। जलक्रीडारुचिस्तस्माद्वाराहं वपुरस्मरत्। हरिरुद्धरणे युक्तस्तदाऽभूदस्य मूमिधृक्। अधृष्यं सर्व्वभूतात्रा वाङ्मयं ब्रह्मसंज्ञितम्। दशयोजनविस्तारमुच्छ्रितं शतयोजनम्। नीलजीभूतसङ्काशं मेघस्तनितनिस्वनम्। गिरिसंहननं भीमं श्वेतदीप्तोग्रदंष्ट्रिणम्। विद्युदग्निप्रकाशाक्षमादित्यसमतेजसम्। पीनवृत्तायतस्कन्धं दृप्तशार्दूलविक्रमम्। पीनोन्नतकटीदेशं वृषलक्षणलक्षितम्। रूपमास्थाय विपुलं वाराहममितं हरिः। पृथिव्युद्धरणार्थाय प्रविवेश रसातलम्। वेदपादो यूपदंष्ट्रः क्रतुहस्तश्चितीमुखः। अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः। अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः। आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान्। सत्यधर्म्ममयः श्रीमान् क्रमविक्रमसत्कृतः। क्रियासत्रमहाघोणः पशुजानुर्म्मखाकृतिः। उद्गात्रन्त्रो होमलिङ्गो वीजौषधिमहाफलः। वाय्नन्तरात्मा सत्रस्फिक् विकृतः सोमशोणितः। वेदिस्कन्धो ह्नविर्गन्धो हव्यकव्यातिवेगवान्। प्राग्वं शकायो द्युतिमान्नानादीक्षाभिरन्वितः। दक्षिणाहृदयो योगी महासत्रमयो महान्। उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्त्तभूषणः। नानाच्छन्दोगतिपथो गुह्योपनिषदासनः। छायापत्नीसहायो वै मणिशृङ्ग इवोच्छ्रितः। भूत्वा यज्ञवराहोऽसौ द्रागधः प्राविशद्गुरुः। अद्भिः सञ्छादितामुर्व्वीं स तामार्च्छत् प्रजापतिः। रसातलजले मग्नां रसातलतलं गतः। प्रभुर्लोकहितार्थाय दंष्ट्राग्रेणोज्जहार गाम्। ततः स्वस्थानमानीय पृथिवीं पृथिवीधरः। मुमोच पूर्व्वं सहसा धारयित्वा धराधरः। ततो जगाम निर्व्वाणं मेदिनी तस्य धारणात्। चकार च नमस्कारं तस्मै देवाय विष्णवे। एवं यज्ञवराहेण भूत्वा लोकहितार्थिना। उद्धृता पृथिवी देवी सागराम्बुधरा पुरा” हरिवं० २२४ अ०।

आदिविद्वस् = पु० आदिराद्योऽखिलसम्प्रदायप्रवर्त्तकत्वात् विद्वान्। सांख्यशास्त्रकारके सर्वसम्प्रदायप्रवर्त्तके उपासनयासिद्धे जगत्कर्त्तरि कपिले। “आदिविद्वान् सिद्ध” इति कापिलाः” कुसुमा० कपिलशब्दे विवृतिः।

आदिशक्ति = स्त्री आदिराद्या शक्तिः। परमेश्वरस्य १ मायारूपशक्तौ २ देवीमूर्त्तिभेदे च। आड्याशब्दे विवृतिः।

आदिशरीर = न० आदि आद्यं शरीरम्। भोगार्थं परमेशसृष्टे आद्ये लिङ्गाख्ये शरीरे। “अयमादिशरीरेण देवसृष्टेन मानवः। शुभानामशुभानाञ्च कुरुते सञ्चयं महत्। आयुषोऽन्ते प्रहायेदं क्षोणप्रायं कलेवरम्। संभवत्येव युगपद्यतो नास्त्यन्तरा भवः। तत्रास्य स्वकृतं कर्म्म छायेवानुगतम् तदा। फलत्यथ सुखार्हो वा दुःखार्हो वाऽथ जायते” भा० व० प० १८४ अ०। आदि कारणं शरीरं कर्म०। २ अविद्याख्ये २ सूक्ष्मशरीरे च वेदान्तिमते शरीरं त्रिविधं कारणसूक्ष्मस्थूलभेदात् तत्राविद्यायाः कारणशरीरत्वं सर्वकारणत्वात् विद्यया शीर्य्यमाणत्वाच्च अविद्यां प्रकृत्य “सा कारणशरीरं स्यात्” पञ्चद०।

आदिश्य = अव्य० आ + दिश–ल्यप्। १ अनुशिष्येत्यर्थे २ उक्त्वेत्यर्थे च।

आदिष्ट = न० आ + दिश्–भावे क्त। १ आज्ञायाम्, २ उपदेशे च। कर्म्मणि क्त। ३ उपदिष्टे, ४ व्याकरणप्रसिद्धे स्थानिजाते वर्ण्णे च त्रि० यथा इकः स्याने यण् आदिश्यते इति इकोयणादिष्टैत्युच्यते। ५ आज्ञप्ते ६ उच्छिष्टे ७ अनुशिष्टे च त्रि० “उपपातकयुक्तानामनादिष्टेषु चैव हि” विश्वा०।

आदिष्टिन् = पु० आदिष्टमादेशोव्रतादेशः अस्त्यस्य इनि। व्रतादेशोयस्य कृतस्तादृशे, ब्रह्मचारिणि। “आदिष्टी नोदकं कुर्य्यादा व्रतस्य समापनात्” मनुः आदिष्ट व्रतादेशोऽस्त्यस्येति आदिष्टी ब्रह्मचारी” कुल्लू०। आदिष्टमनेन इष्टा० इनि। २ आदेशकर्त्तरि त्रि० स्त्रियां ङीप्।

आदिसर्ग = पु० कर्म्म०। प्राकृतप्रलयोत्तरं प्रथमसृष्टौ “अव्यक्तात् पूर्व्वमुत्पन्नो महानात्मा महामतिः। आदिर्गुणानां सर्वेषां प्रथमः सर्ग उच्यते। महानात्मा मतिर्विष्णुर्जिष्णुः शम्भुश्च वीर्य्यवान्। बुद्धिः प्रज्ञोपलब्धिश्च तथा ख्यातिर्धृतिः स्मृतिः। पर्य्यायवाचकैः शब्दैर्म्महानात्मा विभाव्यते। तं जानन् ब्राह्मणो विद्वान् प्रभोहं नाधिगच्छति। सर्व्वतः पाणिपादश्च सर्वतोऽक्षिशिरोमुखः। सर्व्वतःश्रुतिमान् लोके सर्व्वं व्याप्य स तिष्ठति। महाप्रभावः पुरुषः सर्व्वस्यैव हि निश्चितः। अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः। तत्र बुद्धिविदो लोके सद्भावनिरताश्च ये। ध्यानिनो मित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः। ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः। प्रसन्नमनसो धीरा निर्ममा निरहङ्कृताः। विमुक्ताः सर्व एवैते महत्त्वमुपय न्त्युत। आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम्। अहङ्कारात् प्रसूतानि महाभूतानि पञ्च वै। पृधिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्। तेषु भूतानि युज्यन्ते महाभूतेषु पञ्चसु। ते शब्दस्पर्शरूपेष रसगन्धक्रियासु च। महाभूतविनाशस्तु प्रलये प्रत्युपस्थिते। सर्व्वप्राणभृतां धीरा! महदुत्पद्यते भयम्। स धीरः सर्व्वलोकेषु न मोहमधिगच्छति। विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः। एवं हि यो वेद गुहाशयं प्रभुं परं पुराणं पुरुषं विश्वरूपम्। हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान् बुद्धिमतीत्य तिष्ठति” भा० आश्व० प० अ० ४०। स च सर्गः दशविथः प्राकृतः षडिवधः, वैकृतस्त्रिविधः, उभयात्मक एकविधः इति भेदात् तद्विवरणम्” भाग० ३ स्क० १० अ०। “विश्वं वै ब्रह्म तन्मात्रं संस्थितं विष्णुमायया। ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्त्तिना १२। यथेदानीं तथाग्रे च पश्चादप्येतदीदृशम् १३। सर्गोनवविधस्तस्य प्राकृतोवैकृतश्च यः। कालद्रव्यगुणैरस्य त्रिविधः प्रतिसंक्रयः १४। आद्यस्तु महतः सर्गोगुणवैषम्यमात्मनः। द्वितीयस्त्वहमोयत्र द्रव्यज्ञानक्रियोदयः १५। भूतसर्गस्तृतीयस्तु तन्मात्रोद्रव्यशक्तिमान्। चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः १६। वैकारिको देवसर्गः पञ्चमोयन्मयं मनः। षष्ठस्तु तससः सर्गोयस्तु बुद्धिकृतः प्रभोः १७। षडिमे प्राकृताः सर्गा वैकृतानपि मे शृणु रजोभाजो भगवतोलीलेयं हरिमेधसः १८। सप्तमोमुख्य सर्गस्तु षद्धिधस्तस्थुषाञ्च यः। वनस्पत्योषधिलतात्वक् सारावीरुधो द्रुमाः १९। उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणः २०। तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधोमतः। अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः २१। गोरजोमहिषः कृष्णः शूकरो गवयोरुरुः। द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम!। खरोऽश्वोऽश्चतरोगौरः शरभश्चमरी तथा एते चैकशफाः क्षत्तः! शृणु पञ्चनखान् पशून् २२। श्वा शृगालोवृकोव्याघ्रोमार्ज्रारः शशशल्लकौ। सिंहः कपिर्गञः कूर्म्मो गोधा च मकरादयः। कङ्कगृध्रवकश्येनभासभल्लकबर्हिणः। हंससारसचक्राह्वकाकोलूकादयः खगाः २३। अर्ब्बाक्स्रोतस्तु नवमः क्षत्तरेकविधोनृणाम्। रजोऽधिकाः कर्म्मपरा दुःखे च सुखमानिनः २४। वैकृतास्त्रयएवैते देवसर्गश्च सत्तम!। वैकारिकस्तु यः प्रोक्तःकौमारस्तूभयात्मकः २५। देवसर्गश्चाष्टविधोविबुधाः पितरोऽसुराः। गन्धर्ब्बाप्सरसः सिद्धा यक्षरक्षांसि चारणाः। भूत प्रेतपिशाचाश्च विद्याध्राः किन्नरादयः। दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः”। “स्वव्यतिरिक्तसृज्याभावं दर्शयन् कालस्य सृष्टिनिमित्ततां दर्शयति विश्वमिति। विष्णुमायया संस्थितं संहृतम्। ब्रह्म तन्मात्रं सत विश्वं ईश्वरेण कर्त्रा कालेन निमित्तेन परिच्छिन्नं पृथक् प्रकाशितम्। अव्यक्ता मूर्त्तिः स्वरूपं यस्येति स्वतोनिर्व्विशेषता दर्शिता १२। अप्रतिष्ठत्वं दर्शयितुं तत्कार्य्यविश्वप्रवाहस्याप्रतिष्ठामाह यथेदानीमस्ति तथाग्ने पूर्व्वमप्यासीत्। पश्चादपि तथा भविष्यति १३। एवं सामान्यतः कालं निरूप्य विशेषतो निरूपयिष्यन् तन्निमित्तस्य पूर्व्वसर्गस्य पूर्ब्बोक्तानेव भेदान् अनुवदति सर्गैति। यस्तु प्राकृतोवैकृतश्च स तु दशमः तन्निमित्तमेव त्रिविधं प्रलयमाह कालेनैव बलेन नित्यप्रलयः द्रव्येण सङ्कर्षणमुखाग्न्यादिना नैमित्तिकः गुणैः स्वस्वकार्य्यं ग्रसद्भिः प्राकृतिकः १४। तानेव सर्गान् प्रपञ्चयति। आद्य इत्यादिना यावदध्यायसमाप्ति। महतो लक्षणम् आत्मनोहरेः सकाशात् गुणानां वैषम्यमिति। अहमः अहङ्कारस्य। तस्य लक्षणं यत्रेति। द्रव्यादयोवक्ष्यमाणास्त्रयः सर्गाः १५ तन्मात्रो भूतसर्गः। ततःसूक्ष्मसर्ग इत्यर्थः। द्रव्यशक्तिमान् महाभूतोत्पादकः ज्ञानकर्म्मेन्द्रियात्मकश्चतुर्थः १६। पञ्चमोवैकारिकः। इन्द्रियाधिष्ठातारोदेवाः मनश्च। षष्ठस्त तमसः पञ्चपर्व्वाविद्यायाः। अबुद्धिर्जीवानामावरणम् विक्षेपश्च तां करोतीत्यबुद्धिकृत् तस्य १७। मेमस्तः शृणु अनुद्वेगेन श्रोतव्यतामाह। यद्विषया मेधा संसारं हरति तस्य हरेर्लीला। यद्वा इयमिति तमआदिसर्गरूपा। रजोभाज इति ब्रह्मरूपस्येत्यर्थः। अस्मिन् पक्षेऽबुद्धिकृत इति प्रथमान्तं अनवधानकृत इत्यर्थः १८। मुखमिव प्रथमं कृतःमुख्यः सर्गः। तस्थुषां स्थावराणाम्। षड्विधमेवाह। ये पुष्पं विना फलन्ति ते वनस्पतयः। ओषधयः फलपाकान्ताः। लताः आरोहणापेक्षाः। त्वक्सारा वेण्वादयः। लता एव काठिन्येनारोहणानपेक्षा वीरुधः। येपुष्पैः फलन्ति तेद्रुमाः १९। तेषां साधारणलक्षणमाह ऊर्द्ध्वंस्रोत आहारसञ्चारो येषाम्। तमःप्राया अव्यक्तचैतन्याः। अन्तःस्पर्शमेव जानन्ति नान्यत् तदप्यन्तरेव न बहिः। विशेषिणः अव्यवस्थितपरिणामाद्यनेकभेदवन्तः २०। तिर्य्यक्स्रोतसां सर्गमाह तिरश्चामिति। स चाष्टविंशतिभेदः। तिरश्चां लक्षणम् अविदः श्वस्तनादिज्ञानशून्याः। भूरितमसः आहारादिमात्रनिष्ठाः। घ्राणज्ञाः घ्राणेनैवेष्टमर्थं जानन्ति हृदि अवेदिनः दीर्घानुसन्धानशून्याः। तथा च श्रुतिः। “अथेतरेषां पशूनाम् अशनापिपासे एवाभिज्ञानं न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति न विदुः श्वस्तनं न लोकालोकाविति” २१। अष्टविंशतिभेदानाह गवादयौष्ट्रान्ताः द्विशफाः द्विखुरानव। खरादयः चमर्य्यन्ता एकशफाः षट्। श्वादयोगोधान्ताः पञ्चनखा द्वादश २२। एवमेते भूचराः सप्तविंशतिः। मकरादयोजलचराः कङ्कादयश्च खगाः अभूचरत्वेनैकीकृत्य गृहीताः। तदेवमष्टाविंशतिभेदान् वदन्ति। तेषु कृष्णरुरुगौराः मृगविशेषाः अन्येषामपि तिर्य्यक्पाणिनामेतेष्वेव यथायथमन्तभावः २३। अध आहारसञ्चारोयस्य सोऽर्व्वाक्स्रोताः। ह्रस्वमार्षम्। नृणां सर्गः। नृणां लक्षणम्। रजः अधिकंयेषु २४। एते त्रयोवैकृताएव न कौमारवदुभयात्मकाः देवसर्गोवेकृत इत्यनुषङ्गः। वैकारिकस्तु देवसर्गः प्राकृतेषु पूर्व्वमेव प्रोक्तः अयन्तु ततोन्यूनत्वाद्वैकृतः देवसर्गएदन्तर्भूतः सनत्कुमारादीनान्तु सर्गः प्राकृतोवैकृतश्च देवत्वेन मनुष्यत्वेन च सृज्य इत्यर्थः २५। वैकृतश्च देवसर्गोऽष्टविधः अत्र विबुधादयस्त्रयोभेदाः गन्धर्ब्बाप्सरसएकः यक्षरक्षांस्येकः। मूतप्रेतपिशाचाएकः सिद्धचारणविद्याध्राः एकः किन्नराएकः आदिशब्दात् किंपुरुषाश्वमुखादयः” श्रीधरव्याख्या।

एवं सामान्यतः सर्गमुक्त्वा तत्रैव २६ अध्याये विशेष उक्तः “भगवानुवाच १०। यत्तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम्। प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ११। पञ्चभिः पञ्चभिः ब्रह्म चतुर्भिर्दशभिस्तथा। एतच्चतुर्व्विंशतिकं गुणं प्राधानिकं विदुः १२। महाभूतानि पञ्चैव भूरापोऽग्निर्म्मरुन्नभः। तत्मात्राणि च तावन्ति गन्धादीनि मतानि मे। इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसननासिकाः। वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यते। १३। मनोबुद्धिरहङ्कारश्चित्तमित्यरात्मकम्। चतुर्द्धा लक्ष्यते भेदोवृत्त्या लक्षणरूपया १४। एतावानेव संख्यातो ब्रह्मणः सगुणस्य च। सन्निवेशोमयाप्रोक्तोयः कालः पञ्चविंशकः १५। प्रभावं पौरुषं प्राहुः कालमेके यतोभयम्। अहङ्कारविमूढस्य कर्त्तुः प्रकृतिमीयुषः १६। प्रकृतेर्गुणसाम्यस्य निर्विशेधस्य मानवि!। चेष्टा यतः स भगवान् काल इत्युपलक्षितः १७। अन्तः पुरुषरूपेण कालरूपेण यो बहिः। तमन्वेत्येष सत्वानां भगवानात्ममायया १९। दैवात् क्षुभितधर्म्मिण्यां खस्यां योनौ परः पुमान्। आधत्त वीर्य्यं सासूत महत्तत्वं हिरण्मयम् १९। विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः। स्वतेजसा पिबत्तीव्रमात्मप्रस्वापनं तमः २०। यत्तत् सत्वगुणं स्वच्छं शान्तं भगवतः पदम्। यदाहुर्व्वासुदेवाख्यं चित्तं तन्महदात्मकम् २१। स्वच्छत्वमविकारित्वं शान्तत्व- मिति चेतसः। वृत्तिभिर्लक्षणं प्रोक्तं यथाऽपां प्रकृतिः परा २२। महत्तत्वाद्विकुर्व्वाणाद्भगवद्वीर्य्यसम्भवात्। क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत २३। वैकारिक स्तैजसश्च तामसश्च यतोभवः। मनसश्चेन्द्रियाणाञ्च भूतानां महतामपि २४। सहस्रशिरसं साक्षात् यमनन्तं प्रचक्षते। सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् २५। कर्त्तृत्वं करणत्वञ्च कार्य्यत्वञ्चेति लक्षणम्। शान्तघोर विमूढत्वमिति वा स्यादहङ्कृतेः २६। वैकारिकाद्विकुर्व्वाणान्मनस्तत्त्वमजायत। यत्संकल्पविकल्पाभ्यां वर्तते कामसम्भवः २७। यद्विदुर्ह्य निरुद्धाख्यं हृषीकाणामधीश्वरम्। शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः २८। तैजसात्तु विकुर्व्वाणाद्बुद्धितत्त्वमभूत् सति!। द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहः २९। संशयोऽथ विपर्य्यासो निश्चयः स्मृतिरेव च। स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक् ३०। तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागतः। प्राणस्य हि क्रिया शक्तिर्बुद्धेर्व्विज्ञानशक्तिता ३१। तामसाच्च विकुर्व्वणाद्भगवद्वीर्य्य नोदितात्। शब्दमात्रमभूत्तस्मान्नभः श्रोत्रन्तु शब्दगम् ३२। अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च। तन्मात्रञ्चैव नभसो लक्षणं कवयो विदुः ३३। भूतानां छिद्रदातृत्वं बहिरन्तरमेव च। प्राणेन्द्रियात्मधिष्ण्यत्वं नभसोवृत्तिलक्षणम् ३४। नभसः शब्दतन्मात्रात् कालगत्या विकुर्वतः। स्पर्शोऽभवत्ततोवायुस्त्वक् स्पर्शस्य तु संग्रहः ३५। मृदुत्वं कठिनत्वञ्च शैत्यमुष्णत्वमेव च। एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः ३६। चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः। सर्वेन्द्रियाणामात्मत्वं वायोः कर्म्माभिलक्षणम्। बायोश्च स्पर्शतन्मात्राद्रूपं देवेरितादभूत्। समुत्थितं ततस्तेजश्चक्षूरूपोपलम्भनम्। द्रव्याकृतित्वं गुणताव्यक्तिसंस्थात्वमेव च। तेजस्त्वं तेजसः साध्वि!। रूपमात्रस्य वृत्तयः ३८। द्योतनं पचनं पानमदनं हिममर्दनम्। तेजसोवृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च। रूपमात्राद्विकुर्व्वाणात्तेजसोदेवनोदितात्। रसमात्नमभूत्तस्मादम्भोजिद्धा रसग्रहः ४०। कषायोमधुरस्तिक्तः कट्वम्ल इति नैकधा। भौतिकानां विकारेण रस एकोविभिद्यते ४१। क्लेदनं पिण्डनं तृप्तिः प्राणनाप्ययनोद(न्द)नम्। तापापनो दोभूयस्त्वमम्भसो वृत्तयस्त्विमाः ४२। रसमात्राद्विकुर्व्वाणादम्भसो देवनोदितात्। गन्धमात्रमभूत्तस्मात् पृथ्वीघ्राणस्तु गन्धगः ४३। करम्भपूतिसौरभ्यशान्तोदग्रा- दिभिः पृथक्। द्रव्यावयववैषम्याद्गन्ध एकोविभिद्यते ४४। भावनं ब्रह्मणःस्थानं धारणं सद्विशेषणम्। सर्वसत्व गुणोद्भेदः पृथिवीवृत्तिलक्षणम् ४५। नभोगुणविशेषोऽर्थो यस्य तत् श्रोत्रमुच्यते। वायोर्गुणविशषोऽर्थो यस्य तत् स्पर्शनं विदुः। तेजोगुणविशेषोर्थो यस्य तच्चक्षुरुच्यते। अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः भूमेर्गुणविशेषोऽर्थो यस्य घ्राणः स उच्यते ४६। परस्य दृश्यते धर्म्मोह्यपरस्मिन् समन्वयात्। अतो विशेषो भावानां भूमावेवोपलभ्यते ४७। एतान्यसंहत्य यदा महदादीनि सप्त वै। कालकर्म्मगुणोपेतो जगदादिरुणविशत् ४ ८। ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम्। उत्थितं पुरुषो यस्मात् उदतिष्ठदसौ विराट। एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरैः। तोयादिभिः परिवृतं प्रधानेनाकृतं बहिः। यत्र लोकवितानोऽयं रूपं भगवतोहरेः ५०। हिरण्मयादण्डकोषादुत्थाय सलिलेशयात्। तमाविश्य महादेवो बहुधा निर्बिभेद खम् ५१। निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत्। बाण्या वह्रिरथो नासे प्राणोतो घ्राण एतयोः ५२। घ्राणाद्वायुरभिद्येतामक्षिणी चक्षुरेतयोः। तस्मात् सूर्य्योऽन्वभिद्येतां कर्ण्णौ श्रोत्रं ततोदिशः ५३। निर्विभेद विराजस्त्वग्रोमश्मश्र्वादयस्ततः। ततः ओषधयश्चासन् शिश्नं निर्ब्बिभिदे ततः। रेतस्तस्मादाप आसन्निरभिद्यत वै गुदम्। गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्करः ५४। हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट्। पादौ च निरभिद्येतां गतिस्ताभ्यां ततोहरिः ५५। नाड्योऽस्य निरभिद्यन्त ताभ्योलोहितमाभृतम्। नद्यस्ततः समभवन्नुदरं समभिद्यत। क्षुत्पिपासे ततःस्यातां समुद्रस्त्वेतयोरभूत्। अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम् ५६। मनसश्चन्द्रमाजातोबुद्धिर्ब्बुद्धेर्गिरांपतिः। अहङ्कारस्ततोरुद्रः चित्तञ्चैत्त्यस्ततोऽभवत् ५७। एते ह्यभ्युत्थिता देवा नैवास्योत्थापनेऽशकन्। पुनराविशुः खानि तमुत्थापयितुं क्रमांत्। वह्रिर्व्वाचा मुखं भेजे नोदतिष्ठत्ततोविराट्। घ्राणेन नासिके वायुर्नोदतिष्ठत्ततो विराट्। अक्षिणी चक्षुराटित्यो नोदतिष्ठत्ततो विराट्। हस्ताविन्द्रोबलेनैव बोदतिष्ठत्ततो विराट्। विर्ष्णुर्गत्येव चरणौ नोदतिष्ठत्ततो विराट्। नाडीर्नद्यो लोहितेन नोदतिष्ठत्ततो विराट्। क्षुत्तृड्भ्यामुदरं सिन्धुर्नोदतिष्ठत्ततो विराट्। बुद्ध्या ब्रह्नापि हृदयं नोदतिष्ठत्ततो विराट्। श्रोत्रेण कर्ण्णौ च दिशोनो- तिष्ठत्ततो विराट्। रेतसा शिश्नमापस्तु नोदतिष्ठत्ततो विराट्। गुदं मृत्युरपानेन नोदतिष्ठत्ततो विराट्। रुद्रोऽभिमत्या हृदयं नोदतिष्ठत्ततो विराट्। चित्तेन हृदयं चैत्त्यः क्षेत्रज्ञः प्राविशद्यदा। विराट् तदैव पुरुषः सलिलादुदतिष्ठत ५९। यथा प्रसुप्तं हृदयं प्राणेन्द्रिय मनोन्वयाः। प्रभवन्ति विना येन नोत्थाप्रयितुमोजसा। तमस्मिन् प्रत्यगात्मानं धिया योगविवृत्तया। भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत्” ६०। व्याख्यातमेतत् श्रीधरेण “दैवाज्जीवादृष्टवशात् क्षुभिता धर्म्मा गुणायस्याः। योनौ अभिव्यक्तिस्थाने प्रकृतौ वीर्य्यंचिच्छक्तिम्। सा प्रकृतिर्म्महतत्त्वमसूत। महतः स्वरूपमाह हिरण्मयं प्रकाशबहुलम् १९। विश्वं अहङ्कारादिप्रपञ्चं आत्मगतं स्वस्मिन् सूक्ष्मरूपेण स्थितं व्यञ्जन् प्रकटयन् तमोऽपिबत्, कूटस्थः लयविक्षेपशून्यः, आत्मानं प्रस्वापयतीति तथा यत् पूर्ब्बं प्रलयसमये महान्त प्रकृतौ विलापयमासेति २०। प्रसङ्गात् चतुर्व्यूहोपासनमाह यत्तदिति सर्व्वागमप्रसिद्धत्वमाह। स्वच्छ विशदं शान्तं रागादिरहितं भगवतः पदमुपलब्धिस्थानम्। अतएव वासुदेवाख्यंयदाहुः। अयमर्थः अधिभूतरूपेण तस्यैव महानिति, अध्यात्मरूपेण चित्तमिति, उपास्यरूपेण वासुदेव इति, अधिष्ठाता तत्त्वस्य क्षेत्रज्ञः, एवमहङ्कारे सङ्कर्षण उपास्यः, रुद्रोऽधिष्ठाता, मनसि अनिरुद्ध उपास्य ब्रह्माधिष्ठाता, बुद्धौ प्रद्युम्न उपास्यं ब्रह्माधिष्ठातेति ज्ञातव्यम् २१। स्वच्छत्वं भगवद्विभूतिग्राहित्वम् अविकारित्वं लयविक्षेपराहित्यं अपांप्रकृतिः फेनतरङ्गादिरहिताबस्थापरा भूतसंसर्गात् प्राक्तनी सा यथा मधुरा स्वच्छा शान्ता च तद्वदित्यर्थः २२ अहङ्कारस्योत्पत्तिपूर्ब्धकं लक्षणमाह महत्तत्त्वादिति चतुर्भिः। क्रियासु शक्तिर्यस्य स क्रियाशक्तिः २३। तस्य त्रैविध्यमाह वैकारिक इति। तस्य कार्य्यमाह यतोयस्मान्मन आदीनाम् भवौत्पत्तिरिति २४। तस्मिन्नृपास्यंव्यूह माह सहस्रशिरससिति २५। कर्त्तृत्वं देवतारूपेण, करणमिन्द्रियरूपेण, कार्य्यत्वं भूतरूपेण, शान्तत्वादिकं तत्कारणगुणत्रयरूपेण २६। मनस उत्पत्तिपूर्ब्बकं लक्षणमाह वैकारिकादितिद्वाभ्याम्। संकल्पश्चिन्तनम् विकल्पोविशेषचिन्तनं यस्य मनसः संकल्पविकल्पाभ्यां कामसम्मवोवर्त्तते इति कामरूपा वृत्तिर्लक्षणत्वेनोक्ता न तु प्रद्युम्नोत्पत्तिस्तस्य संकल्पादिकार्य्य त्वाभावात् उपास्यव्यूहस्यानिरुद्धस्योक्तेः २७। शारदं शरत्कालोनमिन्दीबरं नीलीत्पलं तदिव श्यामं तच्छनैः संराध्यं वशीकर्त्तुमयोग्यं दुर्ग्रहत्वात् २८। बुद्धेरुत्पत्तिपूर्ब्बकं लक्षणमाह तैजसादितिद्वाभ्याम् हे सति!। द्रव्यस्फुरणरूपं विज्ञानमिति चित्त व्यावृत्त्यर्थमुक्तम्। इन्द्रियाणामनुग्नह इति सविकल्पज्ञाने हृषीकाणामधीश्वर इति यदुक्तं तत्तु निर्व्विकल्पक ज्ञाने २९। द्रव्यस्फुरणस्यैव प्रपञ्चः संशयादिः। विपर्य्यासो मिथ्याज्ञानं निश्चयः प्रमाणज्ञानं स्वापोनिद्रा, “प्रमाणविपर्य्ययविकल्यनिद्रास्मृतयः” इति पातञ्जलोक्ते ३०। इन्द्रियाणामुत्पत्तिमाह तैजसाहङ्काराज्जातानि वैकारिकत्वशङ्कानिवृत्त्यर्थमेवकारः द्घिविधान्यपीन्द्रियाणि तैजसान्येवेत्यर्थः। तत्र हेतुः प्राणस्येति हि यत्मात्प्राणस्य क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता अतः प्राणस्य तैजसत्वात् तदीयशक्तिमतामिन्द्रियाणां तैजसत्वम्। तथा बुद्धेस्तैजसत्वात् तदीयज्ञानशक्तिमतामपि ज्ञानेन्द्रियाणां तैजसत्वमपीत्यर्थः ३१। तन्मात्रोत्पत्तिपूर्ब्बकमाकाशादिमहाभूतोत्पत्तिन्तल्लक्षणञ्चाह। तामसादिति पञ्चभिः। श्रोत्रन्तु शब्दगमित्यादिभिर्विषयोत्पत्त्यनन्तरं तत्सम्बन्धमात्रंकथ्यते नंतूत्पत्तिःप्रागेवोत्पन्नत्वात् शब्दं गच्छति प्राप्नोतीति शब्दगम् ३२। शब्दस्य लक्षणमाह अर्थाश्रयत्वं अर्थवाचकत्वं, द्रष्टुर्लिङ्गत्वं कुड्यान्तरितस्य द्रष्टुर्ज्ञापकत्वं तदुक्तं “लिङ्गं यद्द्रष्टृदृश्ययोरिति, न भसः तन्मात्रत्वं सूक्ष्मत्वं शब्दस्य लक्षणमित्यन्वयः ३३। छिद्रदातृत्वमवकाशदादृत्वं बहिरान्तरव्यवहारास्पदत्वम् आत्मा मनः। प्राणादीनान्धिष्ण्यत्वमाश्रयत्वं नाड्यादिच्छिद्ररूपेण वृत्तिः कार्य्यमेतल्लक्षणम्। एवमुत्तरत्रापि एकेन श्लोकेन तन्मात्रमहाभूतयोरुत्पत्तिः द्वितीयेन तन्मात्रलक्षणं तृतीयेन महाभूतलक्षणं इत्यनुसन्धेयम्। आकाशात्त्वक्स्पर्शस्य सग्रहः सम्यग्ग्रहणं यया पुंस्त्वं नियतलिङ्गत्वात्। यद्वा स्पर्शस्य संग्रहस्ततोभवतीति शेषः। शब्दतन्मात्रादित्यादि तन्मात्राणामुत्तरोत्तरान्वयार्थमुक्तम् ३५। स्पर्शत्वं स्वरूपलक्षणमित्यर्थः। नभस्वतो वायोस्तन्मात्रत्वञ्च ३६। चालनं वृक्षशाखादेः। व्यूहनं मेलनं तृणादेः प्राप्तिः संयोगः द्रव्यस्य गन्धवतोघ्राणं प्रति नेतृत्वं यथा शौत्यादिमतः स्पर्शनं, शब्दस्य श्रोत्रं प्रति नेतृत्वं सर्ब्बेन्द्रियाणामात्मत्वम् उपोद्बलकत्वं कर्म्मणा कार्य्येणाभिलक्षणं भावे ल्युट्। कर्म्मैवाभिलक्षणमिति विग्रहे तु करणे ३७। द्रव्याकृतित्वं द्रव्यस्याकारसमर्पकत्वं गुणता द्रव्योपसर्जनतया प्रतीतिः शब्दस्य तु स्वातन्त्र्येणैव प्रतीतिः। अप्रत्यक्षद्रव्यस्य स्पर्शा- देरपि स्वातन्त्र्येणैव प्रतीतिः रूपस्य तु नैवमिति तस्यायं विशेषौक्तः। व्यक्तिसंस्थात्वं द्रव्यस्य या संस्था सन्निवेशः सैव संस्था यस्य द्रव्यपरिणामतया प्रतीतिरित्यर्थः। तेजसस्तेजस्त्वमसाघोरणत्वम् ३८। द्योतनं प्रकाशनं पचनं तण्डुलादेः क्षुत्तृट् अशनाया पिपासा च तद्द्वारेण पानमदनञ्च ३९। जिह्वा रसनेन्द्रियं रसोगृह्यतेऽनेनेतिं रसग्रहस्ततो भवतीत्यर्थः ४०। कषायादिषु लवणोऽपि द्रष्टव्यः। भौतिकानां संसर्गिद्रव्याणां यएकोमधृरएव सन् अनेकधा भिद्यते स रसैत्यर्थः ४१। क्लेदनमार्द्रीकरणं मृदादेः पिण्डीकरणं तृप्तिदातृत्वं प्राणनं जीवनम् “आपोमयः प्राण” इति” श्रुतेः आप्यायनं तृड्वैक्लव्यनिवर्त्तनं उदनं मृदुकरणम् उन्दनमितिपाठे सएवार्थः। भूयस्त्वं कूपादावुद्धृतस्यापि पुनःपुनरुद्गमः ४२। गन्धगः गन्धं प्राप्नोति ४३। करम्भोमिश्रगन्धः यथा व्यञ्जनादीनां हिङ्ग्वादिसंस्कारेणैव। पूतिर्दुर्गन्धः सौरभ्यं कर्पूरादेः, शान्तः शतपत्रादेः, उदग्रोलसुनादेः, संसर्गिणां द्रव्यावयवानां वैषम्यात् यएवंविभिद्यते स गन्धैत्यर्थः ४४। ब्रह्मणोभावनं प्रतिमादिरूपेण साकारतापादनं, स्थानं जलादिविलक्षणतया नैरपेक्ष्येण स्थितिः घारणं जलाद्याधारत्वं सतामाकाशादीनां विशेषणमवच्छेदकत्वं प्राणिनां तत्तत्गुणानाञ्चपुंस्त्वादीनामुतद्भेदः परिणामविशेषैः प्रकटीकरणम् ४५। श्रोत्रादीनां शब्दादिग्राहकत्वमुक्तं तेषाञ्च लक्षणमेतदेव इत्याशयेनाह पञ्चभिः श्लोकार्द्धैःनभसोगुणविशेषः शब्दोयस्यार्थोविषयः ४६। गुणविशेषं शब्दव्यावृत्त्यर्थं दर्शयति परस्य कारणस्य धर्म्मः शब्दादिः अपरस्मिन् कार्य्यवाय्वादौ कारणान्वयाद्दृश्यते अतोभावानामाकाशादीनां विशेषगुणः सर्व्वोऽपि शब्दादिः भूमावेवोपलभ्यते चतुर्णां तत्रान्वयात्, जलादिषु यथान्वयमेव न सर्व्वम् आकाशेऽन्यान्वयाभावेन एकएवेति ४७। एवं कारणोत्पत्तिमुक्त्वा कार्य्योत्पत्तिमाह सार्द्धैस्त्रिभिः। एतान्यसंहत्य अमिलित्वा यदा स्थितानि तदा जगदादिरीश्वरः प्राविशत् सप्तेति प्राधान्याभिप्रायेणोक्त प्रवेशस्तु सर्वेष्वपिविवक्षितएव ४८। अनुविद्धेभ्त्यः क्षुभितेभ्यः यंस्मादसौ विराट्पुरुष उदतिष्ठत् ४९। भगवतोरूपमिति पुरुषाभेदाभिप्रायेण ५०। तस्मिन्नध्यात्मादिविभागमाह हिरण्मयादिति नवभिः। उत्थाय औदासीन्यं विहाय, तमाविश्य अधिष्ठाय। महांश्चासौ देवश्चेति खं छिद्रम् ५१। वाण्या सह वह्निरभवत् प्राविशत्। नासे निरभिद्येतां प्राणोतः प्राणेन ऊतः स्यूतः सन् घ्राणएतयोर्नासिकयोरभवदित्य- नुषङ्गः ५२। घ्राणादनन्तरं वायुः। प्राणोतैति विशेषणं सर्वेन्द्रियेष्वपि द्रष्टव्यं न्यभिद्येतामिति अन्वभिद्येतामिति पाठद्वयेऽप्येकएवार्थः। श्रोत्रं दिशः प्राविशन् ५३। आदिशब्देन केशाः ५४। स्वराटिन्द्रः। हरिविष्णुः ५५। आभृतं जातम् ५६। बुद्ध्यादिषु हृदयमेवा धिष्ठानम्। गिरांपतिर्ब्रह्मा, चैत्त्यः क्षेत्रज्ञः ५७। अन्वयव्यतिरेकाभ्यां क्षेत्रज्ञं यिवेक्तुं सर्व्वेषां पुनः प्रवेशमाह एत इति नवभिः ५८। विवाड्देहस्य व्यष्टिदेहं दृष्टान्तत्वेनदर्शयन् साङ्ख्यानुकथनस्य प्रयोजनमाह यथेतिद्वाभ्याम् ५९। प्रथमं परमश्वरेभक्तिः ततोऽन्यत्र विरक्तिः ततोयोगप्रवृत्ता धीः एकाग्र चित्तं ततोयज्ज्ञानं तेन प्रत्यगात्मानं क्षेत्रज्ञं स्वस्मिन्नात्मनि कार्य्यकारणसङ्घाते विविच्य चिन्तयेत्” ६०। वेदान्तिमते अत्र कश्चिद्विशेषः पञ्चदश्यामुक्तः। “चिदानन्दमयब्रह्मप्रतिविम्बसमन्विता। तमोरजःसत्त्वगुणा प्रकृतिर्द्विविधा च सा। सत्त्वशुद्ध्यविशुद्धिभ्यां मायाऽविद्या च ते मते। मायाविम्बोवशीकृत्य तां स्यात् सर्व्वज्ञईश्वरः। अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा। सा कारणशरीरं स्यात् प्राज्ञस्तत्राभिमानवान्। तमःप्रधानप्रकृतेस्तद्भोगायेश्वराज्ञया। वियत्पवनतेजोऽम्बुभूवोभूताति जज्ञिरे। सत्त्वांशैः पञ्चभिस्तेषां क्रमाद्धीन्द्रियपञ्चकम्। श्रोत्रत्वगक्षिरसनघ्राणाख्यमुपजायते। तैरन्तःकरणं सर्वैर्वृत्तिभेदन तत् द्विधा। मनोविमर्षरूपं स्यात् बुद्धिः स्यान्निश्चयात्मिका। रजोऽंशैः पञ्चभिस्तेषां क्रमात् कर्म्मेन्द्रियाणि तु। वाक्पाणिपादपायूपस्थाभिधानानि जज्ञिरे। तैः सर्वैः सहितैः प्राणोवृत्तिभेदात् स पञ्चधा। प्राणोऽपानः समानश्चोदानव्यानौ च ते पुनः। बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया। शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते। प्राज्ञस्तत्राभिमानेन तैजसत्वं प्रपद्यते। हिरण्यगर्भतामीशस्तयोर्व्व्यष्टिसमष्टिता। समष्टिरीशः सर्व्वेषां स्वात्मतादात्म्यवेदनात्। तदभावात्ततोऽन्ये तु कथ्यन्ते व्यष्टिसंज्ञया। तद्भोगाय पुनर्भोग्यभोगायतनजन्मने। पञ्चीकरोति भगवान् प्रत्येकं वियदादिकम्। द्विधा विधाय चैकैकं चतुर्द्धा प्रथमं पुनः। स्वस्वेतरद्वितीयांशैर्योजनात् पञ्च पञ्च ते। तैरण्डस्तत्र भुवनभोगाश्रयोद्भवः। हिरण्यगर्भस्थूलेऽस्मिन् देहे वैश्वानरोभवेत्। तैजसा विश्वतां यातादेवतिर्य्यङ्नरादयः। ते पराग्दर्शिनः। प्रत्यक्तत्त्वबोधविवर्जिताः। कुर्वते कर्म्म भोगाय कर्म्म कर्त्तुञ्च भुञ्जते”। एतन्मतप्रपञ्चस्तु “तत्र सर्गाद्यकाले परमेश्वरः सृज्यमानप्रपञ्चवैचित्र्यहेतुप्राणिकर्म्मसहकृतापरिमितानिरूपितशक्तिविशेषविशिष्टमायासहितः सन्नामरूपात्मकं निखिलप्रपञ्चं प्रथमं बुद्धावाकलय्य इदं करिष्यामीति सङ्कल्पयति “तदैक्षत बहु स्यां प्रजायेयेति” श्रुतेः। तत आत्मन आकाशादीनि पञ्च भूतानि अपञ्चीकृतानि तन्मात्रपदप्रतिपाद्यानि उत्पद्यन्ते। तत्राकाशस्य शब्दोगुणोवायोस्तु शब्दस्पर्शौ तेजसस्तु शब्दस्पर्शरूपाणि अपान्तु शब्दस्पर्शरूपरसाः पृथिव्यास्तु शब्दस्पर्शरूपरसगन्धाः। न तु शब्दस्याकाशमात्रगुणत्वं वाय्वादावपि तदुपलम्भात्। नासौ भ्रमः बाधकाभावात्। इमानि भूतानि त्रिगुणमायाकार्य्याणि अतस्त्रिगुणात्मकानि। एतैश्च सत्त्वगुणोपेतैः पञ्चभूतैः श्रोत्रत्वक्चक्षूरसनघ्राणानि पञ्चेन्द्रियाणि मनोबुद्ध्यहङ्कारचित्तानि च जायन्ते। श्रोत्रादीनां पञ्चानां क्रमेणैव दिग्वातार्कवरुणाश्विनोऽधिष्ठातृदेवताः मन आदीनां चतुर्णां क्रमेण चन्द्रचतुर्मुखशङ्कराच्युताः अधिष्ठातृदेवताः। एतैरेव रजोगुणेपेतैः पञ्चभूतैर्यथाक्रमेण वाक्पाणिपादपायूपस्थाख्यानि कर्मेन्द्रियाणि जायन्ते। तेषाञ्च क्रमेण वह्नीन्द्रोपेन्द्रमृत्युप्रजापतयोऽधिष्ठातृदेवताः। रजोगुणोपेतैः पञ्चभूतैरेव पञ्च वायवः प्राणापानव्यानोदानसमानाख्याजायन्ते। तत्र प्रागननवान्० वायुः प्राणोनासाग्रस्थानवर्त्ती। अवागननवानपानः पाय्वादिस्थानवर्त्ती। विष्वगननवान् व्यानः अखिलशरीरवर्त्ती। ऊर्द्घमननवानुदानः कण्ठस्थानवर्त्ती। अशितपीतान्नादिसमीकरणः समानः नाभिस्थानवर्त्ती। तैरेव तमोगणोपेतैरपञ्चीकृतभूतैः पञ्चीकृतभूतानि जायन्ते “तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति” त्रिवृत्करणश्रुतेः पञ्चीकरणोपलक्षणार्थत्वात्। पञ्चीकरणप्रकारश्चेत्थम्। आकाशमादौ द्विधा विभज्य तयोरेकं भागं पुनश्चतुर्द्धा विभज्य तेषां चतुर्णामंशानां वाय्वादिषु चतुर्भूतेषु संयोजनम्। एवं वायुं द्वेधा विभज्य तयोरेकं भागं पुनश्चतुर्द्धा विभज्य तेषाम् आकाशादिषु संयोजनम्। एवं तेजोऽप्पृथिव्यंशानामपि। तदेवमेकैकभूतस्यार्द्धं स्वांशात्मकं अर्द्धान्तरञ्च चतुर्व्विधभूतमयमिति पृथिव्यादौ स्वांशाधिक्यात् पृथिव्यादिव्यवहारः। तदुक्तम्। “वैशेष्यात्तद्वादस्तद्वाद” इति शा० सू०। पूर्ब्बोक्तैरपञ्चीकृतभूतैर्लिङ्गशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्य्यन्तस्थायि मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चककर्मेन्द्रियपञ्चकप्राणादिपञ्चकसयुक्तं जायते। तदुक्तन्। “प्रञ्चप्राणमनोबुद्धि दशेन्द्रियसमन्वितम्। अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनमिति”। तच्च द्विविधं परमपरञ्च। परं हिरण्यगर्भलिङ्गशरीरम्। अपरमस्मदादिलिङ्गशरीरम्। तत्र हिरण्यगर्भलिङ्गशरीरं महत्तत्त्वम् अस्मदादिलिङ्गशरीरञ्चाहङ्कारतत्त्वमित्याख्यायते। एवं तमोगुणयुक्तेभ्यः पञ्चीकृतभूतेभ्योभूम्यन्तरिक्षस्वर्ग महोजनस्तपःसत्यात्मकस्योर्द्ध्वलोकसप्तकस्य अतलपातालवितलसुतलतलातलरसातलमहातलाख्यस्याधोलोकसप्तकस्य ब्रह्माण्डस्य जरायुजाण्डज स्वेदजोद्भिज्जाख्यचतुर्विधस्थूलशरीराणाञ्चोत्पत्तिः। तत्र जरायुजानि जरायुभ्योजातानि मनुष्यपश्वादिशरीराणि। अण्डजानि अण्डेभ्योजातानि पक्षिपन्नगादिशरीराणि। स्वेदजानि स्वेदाज्जातानि यूकमशकादिशरीराणि। उद्भिज्जानि भूमिमुद्भिद्य जातानि वृक्षादिशरीराणि वृक्षादीनामपि पापफलभोगायतनत्वेन शरीरित्वम्। तत्र परमेश्वरस्य पञ्चतन्मात्राद्युत्पत्तौ सप्तदशावयवोपेतलिङ्गशरीरोत्पत्तौ हिरण्यगर्भस्थूलशरीरोत्पत्तौ च साक्षात्कर्त्तृत्वम्, इतरनिखिलप्रपञ्चोत्पत्तौ च हिरण्यगर्भद्वारा “हन्ताहमिमास्तिस्रोदेवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति” श्रुतेः। हिरण्यगर्भोनाम मूर्त्तित्रयादन्यः प्रथमोजीवः “स वै शरीरी प्रथमः स वै पुरुषौव्यते। आदिकर्त्ता स भूतानां ब्रह्माग्रे समवर्त्तत” “हिरण्यगर्भः समवर्त्तताग्रे इत्यादि” श्रुतेः”। वेदा० प० सूक्ष्मादिस्थूलभूतान्तोत्पत्तिमुक्त्वा ब्रह्माण्डोत्पत्तिमाह आत्म पु० “उत्पाद्यस्थूलभूतानि भगवान् भूतभावनः नीरेषु स्वात्मनो वीजं सहसैव समाक्षिपत्। क्षिप्तं तेन हि तद्वीर्यं नीराणामुपरिस्थितम्। दधिमण्डोपमम् कालात् काठिन्यमगमद् घनम्। कठिना पृथिवी सेयं रूक्षा सा दृस्यतेऽधुना। तस्याः सारसमुद्भूतो गोलकोऽभून्महालयः। कुक्कुटाण्डसमाकारःसप्नलोकस्य संस्थितिः। अनुसंवत्सरं कालं नीरेष्वासीत्सम न्ततः। शुष्कालाबुसमोनित्यं वायुनाभ्याहतोभृशम्। स तु संवत्सरे पूर्णे विभिन्नः कुक्वु टाण्डवत्। तदन्तःपुरुषोजज्ञे सप्नलोकशरीरभृत्। इदं सर्वं पुमानेव मूतं भावि स्थितं च थत्। एष भोगस्य मोक्षस्य सर्वदृष्टेर्महेश्वरः। अन्नेन बर्धयत्येष स्थावराणि चराणि च। वक्ष्यमाणोऽस्य महिमा विज्ञेयः सर्वदा नृभिः। पादःसर्वाणि भूतानि त्रिपादात्मनि तिष्ठति। महिमाश्रयमूतो यो महिम्नः सोऽधिको यथा। तथैवास्व महिम्नोऽपि पुमानभ्यधिकोमतः। मार्गद्वयस्य कर्त्तायं वैदिकस्य सदा प्रभुः। प्रवृत्तेश्च निवृत्तेश्च स्वर्गमोक्षपुरं प्रति।[फगे०७०४-ब्+ ३८] अयमभ्यधिको यस्मात् सर्वस्माद्भौतिकादजः। तस्मात् विराडिति प्रोक्तो विशेवाद्राजतेयतः। अधिष्ठाय पुरः सर्वास्थिरजङ्गमदेहिनाम्। पूरयत्यात्मना यस्मात् अतोयमधिपूरुषः। यस्मादभ्यधिकः सोऽयं ब्रह्माण्डान्तःस्थितः पुमान्। तस्य कार्य्यमिदं सर्वं गिरिदेहधरादिकम्। अयं यज्ञपुमान् हेतुरृक्सामयजुषामपि। छन्दांस्यपि च सर्वाणि गायत्र्यादीनि जज्ञिरे। अस्मादजादयश्चापि विराजः पुरुषोत्तमात्। इन्द्रश्चाग्निश्च विप्राश्च मुखतोऽस्य विनिर्गताः। क्षत्रियाबाहुतस्तद्वत् ऊर्व्वावैश्याश्च जज्ञिरे। भूमिःशूद्रास्तथा पद्भ्यां जाता अस्य महात्मनः। चन्द्रमामनसोजातो नेत्रात् तद्वत् दिवाकरः। प्राणात् प्रभञ्जनोजातो नाभेस्तु गगनं महत्। मस्तकात् स्वर्गलोकोऽयं श्रोत्राज् जाता इमादिशः। एवमन्येऽपिपुं सोऽस्मात् जाता लोका महात्मनः। द्रव्याणि वा तथा कालोवसन्ताद्यात्मको महान्। देवता यजमानो वा क्रियावातःपरा न हि। सहस्रमस्तको देवः सहस्रेन्द्रियवानपि। भूतभौतिकजातं स आवृत्यात्मा परःस्थितः। बुद्धिसाक्षिणमात्मानमेतस्मात् परतः स्थितम्। स्वप्रकाशमहंवेदसर्वाज्ञानविवर्जितम्। नामरूपात्मकं सर्वं कृत्वाऽस्तेयोवदन्निव शक्र! त्वं धातृवदनात् सम्यक् विज्ञास्यते भवान्। दिशोऽपि प्रदिशस्तद्वदध ऊर्द्ध्वं सएव हि। यतस्ततोऽत्र यज्ञेन यक्ष्यन्ते तेन तं द्विजाः। धर्म्मश्ब्देन तेनैते स्वर्गं यास्यन्ति तच्छिरः। पुंसोऽस्य मूर्द्धा स्वर्गः स्यात् चन्द्रसूर्य्यौ च चक्षुषी। घ्राणः प्रभञ्जनः प्रोक्तो मध्यदेहोऽन्तरिक्षकम्। स्थलानि विविधान्यस्व मूत्राशय उदीरितः। भूर्लोकस्तु समग्रोऽयं पादावस्य प्रकीर्त्तिर्तः। वक्त्रमाहवनीयस्तद्धृदयं चावसख्यकः। सगार्हपत्यनासः स्याद्दक्षिणाग्निर्मनोमतम्। उरोवेदिस्तथा दर्भालोमजातमुरःस्थितम्। ओषध्योवनस्पतयः शेषाः केशाः शरीरगाः। किं बहूक्तेन शक्राद्य संक्षेपेणावधारय। यदस्ति यच्च नास्त्यत्र तत्सर्वं स महेश्वरः”। काणादादिमते तु आदिसर्गे वायवीयेषु परमाणुषु सृज्य मानजीवादृष्टवशात् क्रियोत्पद्यते सा च क्रिया स्वाश्रयं परमाणुं परमाण्वन्तरेण संयुनक्ति ततोह्यणुकादिक्रमेण महान् वायुरुत्पद्यते तेन नोदितेषु तैजसपरमाणुषु क्रियोत्पद्यते तया परमाणवः परमाण्व न्तरेण संहन्यमा नाः संयुज्यन्ते इत्येवंरूपेण महाभूतोत्पत्तिरेवं शरीराणि चेन्द्रियाणि चतुर्द्दश भुवनान्युत्पद्यन्ते सर्वत्र चेश्वरोनिमित्तकारणम्। एतद्विवरणमारम्भवादशब्दे दृश्यम्। तथा च आदिसर्गे एवैतेषां सर्वेषां सृष्टिः। नैमित्तिकप्रलयोत्तरन्तु न सर्वेषाम् किन्तु येषांमेव तादृशप्रलयदृशायां नाशस्तेषामेव कतिपयानामिति भेदः। वीजाङ्कुरवत् सृष्टेः प्रवाहरूपेणानादित्वेऽपि एतत्सृष्टेः सादित्वमपि तत्तद्वीजव्यक्तेरङ्कुरव्यक्तेश्च यथा सादित्वमेवमेव वर्त्तमानब्रह्मण आदिसर्गकाले महदादेरुत्पत्तेरादिसर्गत्वमवगन्तव्यम् “यथेदानीमित्यादि” भागवतवचनेन “सूर्य्याचन्द्रमसौ धाता यथापूर्ब्बमकल्पयदिति” मन्त्रलिङ्गेन च प्रबाहस्यैवानादित्वं सूचितं न तु तत्तद्व्यक्तेः। कर्म्मसापेक्ष स्यैव ईश्वरस्य स्रष्टृत्वोक्तेः पूर्बं कर्म्मणामभावे विचित्रसृष्ट्यसम्भवः। अन्यथा वैषम्यनैर्घृण्ये ईश्वरस्य प्रसज्येयाताम् जीवस्य च कृतहान्यकृताभ्यागमप्रसङ्गश्चेति दिक्।

आदीनव = पु० आ + दी–भावे क्त आदीनस्य वानं प्राप्तिः वा० क १ दोषे, २ क्लेशे, च। कर्मणि क। ३ दुर्दमे ४ परिक्लिष्टे च त्रि०।

आदीपक = त्रि० आदीपयति अन्यगृहमग्निना आ + दीपणिच्–ण्वुल्। १ परगृहस्य दाहके। “राज्ञोबधं चिकीर्षेद्यस्तस्य चित्रो बधो भवेत्। आदीपकस्य स्तेनस्य वर्ण्णसङ्करिकस्य च” भा० शा० ८६ अ०। २ उद्दीपके च।

आदीपन = न० आ + दीप–णिच्–ल्युट्। तण्डुलादिचूर्ण्णमिश्रितजलेन गृहादौ १ चित्राकारलेपनभेदे (आलिपना) २ उद्दीपने च।

आदीपित = त्रि० आ + दीप–णिच्–क्त। दत्तादीपने १ गृहाङ्गनादौ। २ उद्दीपिते च।

आदुरि = त्रि० आ + दॄ–अन्तर्भूतण्यर्थे कि। दारयितरि “वामं वामं त आदुरे देवोददात्वर्यमा” ऋ० ४, ३०, २४। “हे आदुरे! शत्रूणां दारयितः!” भा०।

आदृत = त्रि० आ + दृ–कर्त्तरि क्त। १ सादरे कृतादरे। कर्म्मणि क्त। यस्यादरः कृतस्तस्मिन् २ सम्मानिते ३ पूजिते च।

आदृत्य = त्रि० आ + दृ–कर्म्मणि क्यप्। आदरणीये १ आदर्त्तव्ये। ल्यप्। २ सम्मान्येत्यर्थे अव्य०।

आदृष्टि = स्त्री प्रा० स०। त्रिविभागसंकोचितदृष्टौ।

आदेय = त्रि० आ + दा–यत्। ग्राह्ये। “पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः” “अनादेयस्य चादानादादे यस्य च वर्ज्जनात्” इति च मनुः।

आदेवक = त्रि० आदीव्यति आ + दिव–ण्वुल्। द्युतकारके

आदेवन = न० आ + दिव–भावे ल्युट्। १ द्यूतक्रीडायाम् करणे ल्युट्। २ द्यूतसाधने पाशकादौ। आधारेल्युट्। द्यूतक्रीडाधारे (छक) ३ द्यूतफलके।

आदेश = पु० आ + दिश–भावे घञ्। १ उपदेशे २ आज्ञायाम् “अथात आदेशोनेति नेतीति” वृ० उ० “उत तमादेशमप्राक्षः” “उत स क आदेशः”। “आदित्योब्रह्मेत्यादेश” इति च छा० उ० “आदेशं देशकालज्ञः शिष्यः शासितुरानतः” रघुः व्याकरणप्रसिद्धे कस्यचित् वर्ण्णादितः ३ कस्यचिद्वर्ण्णस्योत्पत्तौ च। आदिश्यते कर्म्मणि घञ्। ४ आदिष्टे ५ कथिते ६ उपदिष्टे कस्यचित् स्थाने जाते कस्मिंश्चिद्वर्णे च “धातोः स्थान इवादेशं सुग्रीवं सन्न्यवेशयत्” रघुः “आदेशप्रत्यत्ययोः” पा० “आगमादेशयोर्मध्ये बलीयानागमोविधिः” व्या० कारि० “स्थानिवदादेशोऽनल्विधौ” पा० “लोपोऽप्यादेशौच्यते” व्या० का० “ज्योतिर्विदुयुक्ते ८ शुभाशुभफले च “नादेशास्तस्य निष्फलाः” वृहत्सं०।

आदेशक = त्रि० आदिशति आ + दिश + ण्वुल्। १ आदेशकारके २ आज्ञाकारके।

आदेशन = न० आ + दिश–भावे ल्युट्। आदेशे “कृतोपनयनस्यास्य व्रतादेशनमिष्यते” मनुः।

आदेशिन् = त्रि० आदिशति आ–दिश–णिनि। १ आदेशकारके “कपोलपाटलादेशि बभूव रघुचेष्टितम्” रघुः २ दैवज्ञे गणके पु० हेम०।

आदेश्य = त्रि० आ + दिश–कर्मणि ण्यत्। १ उपदेश्ये २ आज्ञाप्ये ३ कथनीये च।

आदेष्टृ = पु० आ + दिश–तृच्। ऋत्विजं प्रति ममेष्टसम्पादनार्थं कर्म क्रियतामित्यादेशकर्त्तरि १ यजमाने, २ आज्ञा कर्तृभात्रे त्रि० स्त्रियां ङीप्।

आद्य = त्रि० आदौ भवः दिगा० यत्। १ आदिभवे। “एतदन्ताश्च गतयो ब्रह्माद्याः समुदाहृताः”। “स्वायम्भु वाद्याः सप्तैते मनवो भूरितेजसः” मनुः। अशौचान्त द्वितीयदिनकर्त्तव्ये २ प्रेतश्राद्धभेदे न० “मृताहनि तु कर्त्तव्यं प्रतिमासन्तु वत्सरम्। प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि” या० स्मृ०। तस्य षोडशश्राद्धानामादिभूतत्वात् आद्यत्वम्। “श्राद्ध्वमग्निमतः कुर्य्याद्दाहादेकादशेऽहनि। ध्रुवाणि तु प्रकुर्व्वीत प्रमीतानां च सर्व्वदा। द्वादश प्रतिमास्यानि आद्यं षाण्माषिके तथा। सपिण्डीकरणञ्चैव इत्येतत् श्राद्धषोडश” छन्दो ग० प०। निरग्नेस्तु सरणावध्येवएकादशाहे तत् कर्त्त व्यमिति भेदः। एकादशपदञ्च स्वजात्युक्ताशौचान्तद्वितीयदिनपरम्। ३ प्रधाने श्रेष्ठे त्रि० “आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव” रघुः अद + कर्मणि ण्यत्। ४ अदनीयद्रव्यमात्रे त्रि० ५ धान्ये न० राजनि० तस्यादनीयत्वात् “अन्नमूलं हि जीवनम्” इत्युक्तेश्च जीवनसूलत्वेन प्रधानत्वद्वा आद्यत्वम्।

आद्यकवि = पु० कर्म०। आदिकवौ चतुर्मुखे १ हिरण्यगर्भे २ वाल्मिकौ च

आद्यमाषक = पु० मष्यतेऽनेन करणे घञ् कर्म्म०। पञ्चगुञ्जापरिमाणे, (माषा) इति ख्याते “माषकः सप्त कृष्णला” इत्युक्तेराद्यत्वविशेषणम् तस्य कार्य्यविशेषोपयोगितया गौणत्वान्न मुख्यत्वम् अतएव “दशार्द्धगुञ्जं प्रवदन्ति माषमिति” भास्कराचार्य्येण माषस्य पञ्चगुञ्जात्मकत्वमेवोक्तम्।

आद्यवीज = न० कर्म्म०। मूलकारणे आदिकारणे, १ ईश्वरे सांख्यमते २ प्रधाने च।

आद्या = स्त्री आदौभवा दिगा० यत्। १ दुर्गायां तन्त्रोक्तायां युगभेदे २ सुन्दर्य्यादौ च “सत्ये तु सुन्दरी आद्या, त्रेतायां भुवनेश्वरी, द्वापरे तारिणी आद्या कलौ काली प्रकीर्त्तिता” मुण्डमालातन्त्रोक्तेस्तासां तथात्वम्”। आदिभवायां तिथ्यादौ च। “युगाद्या वर्षवृद्धिश्चेति” ति० त० पुरा०।

आद्याकाली = स्त्री नित्यस०संज्ञात्वान्न पुं वत्। “कालसंग्रसनात् काली सर्वेषामादिरूपिणी। कालत्वादादिभूतत्वात् आद्याकालीति गीयते” निर्वाणतन्त्रोक्तायां परमप्रकृतौ

आद्यादि = पु० आदिराद्यो यस्य। पञ्चम्पाःस्थाने तसिप्रत्यय निमित्ते का० वा० उक्ते शब्दगणभेदे। स च आदि, मध्य, अन्त, पृष्ठ, पार्श्व, आकृतिगणः तेन “स्वरतो वणेतो वेति” सिद्धम्।

आद्युदात्त = त्रि० आदिः उदात्तो यस्य। यस्य आदिरुदात्तः तादृशे प्रत्ययादौ। स च पाणिन्यादिभिर्दर्शितः “प्रत्ययः” इत्यचिकारे “आद्युदत्तः” पा० असति अपवादे सर्वोऽपि प्रत्यय आद्युदात्तः। कर्त्तमत्र तेति उदात्तः। “स्वपादिहिंसानामच्यनिटि” पा० अदाद्यन्तर्गणस्वपादेर्हिनस्तेश्च अनिटि अजादौ लसार्वधातुके परे आदिरुदात्तोवा। स्वपन्ति इत्यत्र स्वेत्यस्य वा उदात्तता। “अभ्यस्तानामादिः” पा० सूर्व्वोक्तविषये अभ्यस्तसंज्ञकानामादिरुदात्तः। दघति, इत्यादौ देत्यस्योदात्तता “अनुदात्ते च” पा० अविद्यमानोदात्ते ल सर्वधातुके परे अभ्यस्तानामादिरुदात्तः। दधासि अनजादावपि देत्यस्योदात्तता “आदिर्णमुल्यन्यतरस्याम्” पा० अभ्यस्तानामादिर्णमुलि परे उदात्तो वा। लोलूयं लोलूयम् पक्षे लित्स्वरः। “अचः कर्त्तृयकि” पा० कर्म्मकर्त्तरि यकि परे उपदेशेऽजन्तानामादिरुदात्तो वा। लूयते केदारः स्वयमेव। “सर्वस्य सुपि” पा० सुपि परे सर्वशब्दस्य आदिरुदात्तः सर्वे अत्र सेत्यस्योदत्तता। “ञ्नित्यादिनित्यम्” पा० ञिदन्तस्य निदन्तस्यादिरुदात्तः। व्यञोञित्त्वात् तदन्तस्यादिरुदात्तः “पथिमथोः सवनामस्थाने” पा० अन्योरादिरुदात्तः सुर्वनामस्थाने परे। पन्थाः पेत्युदात्तः। “क्षयोनिवासे” पा० निवासार्थे क्षयस्यादिरुदात्तः। “जयः करणम्” पा० करणवाची जयशब्द आद्युदात्तः। “वृषादीनाञ्च” पा० एषामादिरुदात्तः! वृष जन ज्वर ग्रह हय गय नय ताय तय चय अम वेद सूद अंश गुह्य (शमरणौ संज्ञायाम्) (संमतौ भावकर्म्मणोः)। मन्त्र शान्ति काम याम तारा धारा कारा वह कल्प पाद। “आकृतिगणत्वात् अविहितलक्षणमाद्युदात्तत्वं वृषादिषु ज्ञेयम्” सि० कौ०। “संज्ञायामुपमानम्” पा० चञ्चेव चञ्चा। “निष्ठा च ह्यजनात्” पा० निष्ठान्तस्य द्व्यचः संज्ञायामादिरुदात्तः नत्वाकारान्त। दत्तः। आकारस्तु स्नातः। “शुष्कधृष्टौ” पा० एतावाद्युदात्तौ असंज्ञायाम् “आशितः कर्त्ता” पा० कर्त्तृवाची आशितशब्द आद्युदात्तः “रिक्ते विभाषा” पा० रिक्तस्यादिरुदात्तः असंज्ञायाम्। “जुष्टार्पिते च छन्दसि” पा० एतौ आद्युदात्तौ असंज्ञायाम् “युष्मदस्मदोर्ङसि” पा० अनयोः ङसि परे आदिरुदात्तः। “ङयि च” पा० अनयोर्ङयि परे आदिरुदात्तः। “यतोऽनावः” पा० यत्प्रत्ययान्तस्य द्व्यच आदिरुदात्तः नावं विना। गव्यम् काम्या। “ईडवन्दवृहसदुहां ण्यतः” पा० ण्यद न्तानामेषामादिरुदात्तः। “विभाषा बेण्विन्धानयोः” पा० एतयोरादिरुदात्तः। “त्यागरागहासकुहश्वठक्रथानाम्” पा० एषाम् आदिरुदात्तः। फिट्सूत्रे शान्तनवाचार्य्यैरन्येऽपि आद्युदात्ता उक्ता यथा “दक्षिणस्य साधौ” फि० स्याङ्गार्थकदक्षिणशब्दस्यादिरुदात्तोवा दक्षिणोबाहुः “छन्दसि च” फि० “शुक्लगौरयोरादिः” फि० “अनयोरादिरुदात्तः “अङ्गुष्ठोदकवकवशानां छन्दस्यन्तः” फि० लोके तु आदिरुदात्तः। “अथादिः प्राक् शकटेः” फि० २ पादे १ सू०। अधिकारोऽयम् शकटिशकष्ट्योरिति यावत्। “ह्रस्वान्तस्य स्त्रीविषयस्य २”। आदिरुदात्तः स्यात्। वलिःतनुः। “नब्विषयस्यानिसन्तस्य” ३। वनं वयः। इसन्तस्य तु सर्पिः। नप् नपुंसकम्। “तृणधान्यानां च द्व्यषाम्” ४। द्यचामित्यर्थः। कुशाः, काशाः, माषाः, तिला, बह्वचान्तु गोधूमाः। “न्रः संख्यायाः” ५। पञ्च, चतस्रः। “स्वाङ्गशिटासदन्तानाम्” ६। शिट् सर्व्वनाम, “कर्ण्णाभ्यां चुचूकादधि” “ओष्ठाविव मधु” “विश्वो विहायाः”। “प्राणिनां कुपूर्वम्” ७। कवर्ग्गात् पूर्ब्ब आदिरुदात्तः। काकः, वृकः, “शुकेषु मे”। प्राणिनां किम्, “क्षीरसर्पिर्मधूदकम्”। “खय्युवर्ण्णं कृत्रिमाख्या चेत्” ८। खयि परे उवर्ण्णमुदात्तं स्यात्, कन्दूकः, “उनर्व्वनन्तानाम्” ९। उन। “वरुणं वोऽरि- शादसम्”। ऋ। “स्वसारन्त्वाकृणवै”। वन्। “पीवानं मेषम्”। “वर्ण्णानान्तणतिनितान्तानाम्” १०। आदिरुदात्तः, एतः हरिणः, शितिः, पृश्निः, हरित्। “ह्रस्वान्तस्य ह्रस्वमनृ ताच्छील्ये” ११। ऋद्वर्जं ह्रस्वान्तस्यादिभूतं ह्रस्वमुदात्तं स्यात्। मुनिः। “अक्षस्यादेवनस्य” १२। आदिरुदात्तः, “तस्य नाक्षः” देवने तु “अक्षैर्म्मा दीव्य”। “अर्द्धस्यासमद्योतने” १३। अर्द्धो ग्रामस्य, समेऽंशके तु अर्द्धं पिप्पल्याः। “पीतद्र्वर्थानाम्” १४। आदिरुदात्तः, पीतद्रुः, सरलः। “ग्रामादीनाञ्च” १५। ग्रामः, सोमः, यामः। “लुबन्तस्योपमेयनामधेयस्य” १६। चञ्चेव चञ्चा, स्फिगन्तस्येति पाठान्तरम्। स्फिगिति लुपः प्राचां संज्ञा। “न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम्” १७। एषामुपमेयनाम्नामादिरुदात्तो न। ताल इव तालः, मेरुरिव मेरुः, व्याघ्रः, सिंहः, महिषः। “राजविशेषस्य यमन्वा चेत्” १८। यमन्वा वृद्धः, आङ्ग उदाहरणम्। अङ्गाः प्रत्युदाहरणम्। “स्त्रीविषयवर्ण्णाक्षुपूर्व्वाणाम्” २०। एषान्त्रयाणामाद्युदात्तः, स्त्रीविषयः, मल्लिका, वर्णः, श्येनी, हरिणी, अक्षुशब्दात् पूर्वोऽस्त्येषान्ते अक्षुपूर्वाः, तरक्षुः। “शकुनीनाञ्च लघुपूर्वम्” २१। पूवं लघु उदात्तं स्यात्, कुक्कुटः, तित्तिरिः,। “नर्त्तुप्राण्याख्यायाम्” २२। यथालक्षणं प्राप्तमुदात्तत्वन्न, वसन्तः, कृकलासः। “धान्यानाञ्च वृद्धक्षान्तानाम्” २३। आदिरुदात्तः, कान्तानाम्, श्यामाकाः, षान्तानाम्, राजमाषाः। “जनपदशब्दानामपान्तानाम्” २४। केकयः, “हयादीनामसंयुक्तलान्तानामन्तः पूर्ब्बं वा” २५। हयिति हलःसंज्ञा। पललम्, शललम्, हयादीनां किम् एकलः असंयुक्तेति किं मल्लः। “इगन्तानाञ्च द्व्यषाम्” २६। आदिरुदात्तः, कृषिः एतानि २ पादस्थानि। “मकरवरुडपारेवतवितस्तेक्ष्वार्ज्जिद्राक्षाकलोमाकाष्ठायुतष्ठा काशीनामादिर्वा” ३, ९,। एषामादिर्द्वितीयो वा उदाच्चः। मकरः वरुडः। “छन्दसि च” १०। अमकराद्यर्थ आरम्भः। लक्ष्यानुसारादादिर्द्वितीयम् वा उदात्तं ज्ञेयम्। “कर्दमादीनाञ्च” ११। आदिर्द्वितीयं वोदात्तः। “सुगन्धितेजनस्य ते वा” १२। आदि र्द्वितीयं ते शब्दश्चेति पर्य्यायेण वोदात्ताः। “नपः फलान्तानाम्” १ ३। आदिर्द्वितीयं वोदात्तम्। राजादनफलम्। “ईषान्तस्य हलादेरादिर्वा” १४। हलीषा लाङ्गलीषा। उशीरदाशेरकपालपलाशशैवालश्यामाकशरीरशरावहृदयहिरण्यारण्यापत्यदेवराणाम्” १९। “एषामादिरुदात्तः स्यात्। “महिष्याषाढयोर्ज्जायेष्टकाख्यां चेत्” २०। आदि रुदात्तः, “महिषी जाया” आषाढा उपदधाति। एतानि ३ पादस्थानि। “निपाता आद्युदात्ताः” फि० ४, १२। स्वाहा “उपसर्गाश्चाभिवर्ज्जम्” फि० ४, १३। तथा च पाणिनिशान्तनवाचार्य्यादिभिर्यस्यादेरुदात्तत्वं विहितं ते शब्दा लोके वेदे च आद्युदादात्ता भवन्ति।

आद्यून = त्रि० आ + दिघ–क्त ऊट् नत्वञ्च। औदरिके (पेटुक) जिगीषावर्ज्जिते। जिगीषायान्तु न नत्वम्। आद्यूतः। जिगीषया देवनकर्त्तरि।

आद्योपान्त = पु० आद्यावधि उपान्तः अन्तपर्य्यन्तः। प्रथमावधिशेषपर्यन्ते।

आधमन = न० आधीयते आ + धा–कमनन्। बन्धकदाने आधौ,। “योगाधमनविक्रीतं योगदानप्रतिग्रहम्। यस्य वाप्युपधिं पश्येत्तत् सर्वं विनिवर्त्तयेत्” स्मृतिः “एकोऽपि स्थावरे कुर्य्याद्दानाधमनविक्रयम्” स्मृतिः एकोऽह्यनीशः सर्वत्र दानाधमनविक्रये” कात्या० स्मृतिः आधिशब्देऽस्य विवृतिः।

आधमर्ण्ण्य = न० अधमर्ण्णस्य भावः कर्म वा ष्यञ्। ऋणग्रहणे अवश्यदेयद्रव्यस्वामित्वे “आवश्यकाधमर्ण्ययोर्णिनिः” पा०।

आधर्म्मिक = त्रि० अधर्मं चरति ठञ्। अधर्मशीले दैववशात् अधर्म्मानुष्ठातरि तु नास्य साधुत्वम्। अधार्म्मिक इत्यत्र तु न धार्म्मिक इति विग्रह इति भेदः।

आधर्ष = पु० आ + धृष–भावे घञ्। १ तिरस्कारे २ वलाद्पीडने च

आधर्षण = न० आ + धृष–भावे ल्युट्। १ आधर्षे २ बलात्पीडने।

आधर्षित = त्रि० आ + धृष–क्त अवैयात्ये इट् गुणश्च। १ अवमानिते २ तिरस्कृते ३ बलात्कारेणाभिभूते च “स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः। आवेदयति चेद्राज्ञे व्यवहारपदं हि तत्” या० स्मृतिःधाष्ठ्येर्तु आधृष्ट इत्येव।

आधर्ष्य = त्रि० आ + धृष–णिच्–यत्। १ अवमाननीये २ बलात् पीडनीये ३ दुर्बले च भावे यत्। ४ दुर्बलत्वे न०। “आधर्ष्यं पूर्ब्बपक्षस्य यस्मिन्नर्थवशाद्भवेत्। विवादे साक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः” नार०। “आधर्य्यं दुर्वलत्वम्” व्य० त० रघु०।

***