आत्मनिष्ठ = त्रि० आत्मनि आत्मज्ञाने निष्ठा यस्य। आत्मज्ञानमात्रान्वेषिणि ब्रह्मनिष्ठे मुमुक्षौ।

आत्मनीन = त्रि० आत्मने हितम् ख। १ आत्महिते “तामात्मनीनामुदवोढ रामः” भट्टिः। “अद्यापि नैवात्मनीनं कृतं कर्म यातं जनुः” नीतिः २ पुत्रे ३ श्याले नाटकप्रसिद्धे विदूषके च पु० अजयः ४ प्राणधारके बलिनि त्रि०।

आत्मनेपद = न० आत्मने आत्मार्थफलबोधनाय पदम् अलुक् स०। आत्मगामिफलबोधके व्यारणप्रसिद्धे तङादौ। “तङानावात्मनेपदम्” पा० “अनुदात्तङितः आत्मदेपदम्”। “स्वरितञितः कर्त्रभिप्राये क्रियाफले” पा० उक्तेः आत्मगामिन्येव क्रियाफले तत्पदस्य विधानात् तथात्वम् तङ् प्रत्याहारः स च “तआतां झथास् आथांध्वम् इड् वहिमहिङ्” पाणिन्युक्तः” एतेषां स्थाने एव लका रभेदे तत्तद्रूपाणि आदिष्टानि।

आत्मनेपदिन् = पु० आत्मनेपदं विहितत्वेनास्त्यस्य इनि। पाणिन्युक्ते धातुभेदे ते च गणपाठे अनुदात्तेतोहलन्ताः स्वरान्तङितश्च प ठिता धातवः। एवमन्येऽपि धातवः स्वरिते तोञितश्च कर्त्रभिप्राये क्रियाफले एव तथा अर्थविशेषे उपसर्ग विशेषयोगेन कर्त्तरिवाच्ये चात्मनेपदिनोऽपि भवन्ति ते च पाणिन्यनुशिष्टाः संक्षिप्य आशुबोघेऽस्माभिर्दर्शिताः यथा। “विपराभ्यां परस्मात्तुजयतेरात्मनेपदम्। परिव्यवेभ्यः क्रीणातेस्तङ् स्यात् कर्त्तरि नेर्विशः। आङो दोऽमुखविस्तारे शपथे शपतेर्भवेत्। पर्य्यन्ववाङः क्रीडः स्यादकूजार्थात्तु तङ् मतः। आङो नौतेः पृच्छतेश्च क्षमायामागमेर्भवेत्। नाथतेराशिषि भवेत् जिज्ञासायान्तु शिक्षतेः। हर्षात् भक्षान्नवासाय लेखनार्थात् किरस्तु तङ्। उपात् कर्त्तरि सुट् तस्य चतुष्पादेऽथ पक्षिणि। प्रतिज्ञायां, निर्णयार्थमाश्रये,ऽभीष्टबोधने। वर्त्तमानात्तिष्टतेस्तङ् तथा कर्मविवर्ज्जितात्। देवपूजासंगमयोर्मैत्र्यां मार्गगतो तथा। उपात्तङ् तिष्ठतेश्चैव मन्त्रसाधनकाच्च तङ्। तथा संप्रपरिभ्यःस्थ उदश्चानूर्द्धकर्म्मणि। स्वाङ्गकर्माकर्म्मकात् तङुद्विभ्यां तपतेर्भवेत्। हनो यमस्तथाभूतादाङः कर्त्तरि तङ् भवेत्। समः कर्म्माविवक्षायां गम्य र्त्तिश्रुदृशो भवेत्। उपसर्गादस्यतेस्तङूहतेश्च विभाषया। निसंव्युपेभ्यो ह्वयतेः स्पर्द्धायामाङ एव तङ्। सूचने, भर्त्सने, दुष्टे–सहसैव प्रवर्त्तन। सतो गुणान्तराधाने, सेवायां विनियोजने। कथने च कृञस्तङ् स्यादधेस्तु सहने तथा। वेः शब्दकर्मणस्तस्मात् कर्मणा र- हिताच्च तङ्। शास्त्रार्थवेदनेनैव सम्माने तत्त्वनिश्चये। उत्क्षेपणे प्रार्थने च ऋणनिर्यातने तथा। अन्तिकप्रापणे भृत्यां व्यये चापनये तथा। अमूर्त्ते कर्त्तृगे कर्मण्येषु तङ् नयतेर्भवेत्। उत्साहे चाप्रहितौ वृद्धौ च क्रमतेस्तु तङ्। परोपाभ्याञ्चेतरार्थे तङाङोज्योतिरुद्गमे। प्रोपाभ्यां तङ् समारम्भे वेः पादचलनार्थकात्। विभाषया क्रमेस्तङ् स्यादुपसर्गविवर्ज्जितात्। निह्नवे ज्ञोऽकर्मकाच्च संप्रतिभ्यामचिन्तने। यत्ने च ज्ञानपूर्व्वोक्तौ विमतावुपसान्त्वने। प्रार्थने च वदेर्व्यक्ते संभूयोच्चारणे तु तङ्। अनोरकर्मका द्व्यक्ते सहोक्ते विमते तु वा। अवाद्गिरः कर्त्तरि तङ् प्रतिज्ञायां समस्तथा। उदश्चरः कर्म्मयुक्तात् समोयुक्तात् तृतीयया। तृतीया चेच्चतुर्थ्यर्थे दाणः संपूर्व्वकात्तु तङ्। ज्ञाश्रुस्मृपश्यतेश्च स्यात् सनन्तात्कर्त्तरीष्यते। अनोर्जिज्ञासतेर्नैव प्रयाङ्भ्याञ्च तथा श्रुवः। स्वराद्यन्तोपसर्गात्तङ् युजे र्न यज्ञपावके। अपालने भुजेस्तङ् स्यात् क्ष्णुवः संपूर्व्वकात्तु तङ्। अस्मृत्यर्थस्य धातोर्यत् कर्म्माण्यन्तस्य चेद्भवेत्। ण्यन्तस्य कर्त्ता स, तदा तस्मात् ण्यन्तात् भवेत्तु तङ्। णिजन्ताच्च गृधेर्वञ्चेः प्रतारार्थे तु तङ् भवेत्। कविकल्पद्रुमग्रन्थे ञित्त्वेन पठितास्तु ये। णिजन्ताश्चोभयपदास्तेभ्यस्तङ कर्तृगे फले। अपाद्वदोयमोऽग्रन्थे समुदाङ्भ्यस्तथैव तङ्। उपसर्गादृते ज्ञश्च तथा तङ् कर्त्तृगे फले। समीपस्थपदेनैव कर्त्तृगस्य फलस्य चेत्। द्योतनं स्यात्तदातत्र तङ् कर्त्तरि विभाषया” उदाहरणं तत्रैव दृश्यम्। “परस्मैपदमिच्छन्ति आत्मनेपदिनः क्वचित्” व्या० कारिका।

आत्मनेभाषा = स्त्री आत्मने तदुद्देशेन भाशा परिभाषा अलुक् स०। व्याकरणप्रसिद्धे आत्मनेपदशब्दार्थे।

आत्मन्वत् = त्रि० आत्माऽस्त्यस्य मतुप् वेदे भत्वात् न नलोपः स्त्रियां ङीप्। १ आत्मविशिष्टे “तमूहथुर्नौभिरात्मन्वतीभिः” ऋ० १, ११६, ३। “आत्मन्नभोदुह्यते घृतं पयः” ऋ० ९, ७४, ४। लोके तु आत्मवान् इत्येव। २ यत्नवति ३ सुमनस्के च त्रि० स्त्रियां ङीप्।

आत्मन्विन् = त्रि० आत्मन् + अस्त्यर्थे बा० विनि भत्वम्। मनस्विनि “तन्मनोऽकुरुतात्मन्वी स्यामिति” वृ० उप० “आत्मन्वी मनस्वी” भा०।

आत्मपुराण = न० आत्मनः पुराणं सृष्ट्यादिकर्त्तृत्वादिरूपमितिवृत्तमधिकृत्य कृतो ग्रन्थः अण्। आत्मनोजगत्सृष्ट्यादिरूपेतिवृत्ताधिकारेण शङ्करापुन्दकृते अष्टाद शाध्यायात्मके उपनिषदर्थप्रकाशके ग्रन्थभेदे। तत्र प्रतिपाद्यानि १ अ० ऐतरेयोपनिषदर्थविवृतिः। २ अ० वृहदारण्यस्य कौषीतकिब्राह्मणार्थविवृतिः। ३ अ० वृ० गार्ग्यजातशत्रुसंवादार्थबिवृतिः। ४ अ० वृ० मधुकाण्डार्थविवृतिः। ५ अ० वृ० याज्ञवल्क्यकाण्डार्थ विवृतिः। ६ अ० वृ० याज्ञवल्क्यजनकसंवादार्थविवृतिः। ७ अ० वृ० याज्ञवल्क्यमैत्रेयी संवादार्थविवृतिः। ८ अ० श्वेताश्वतरोपनिषदर्थविवृतिः। ९ अ० काठकोपनिषदर्थविवृतिः। १० अ० तैत्तिरीयोपनिषदर्थविवृतिः। ११ अ० गर्भाद्युपनिषदर्थविवृतिः। १२ अ० छान्दोग्यस्य श्वेतकेतुसंवादार्थविवृतिः। १३ अ० छा० सनत्कुमारनारदसंवादार्थविवृतिः। १४ अ० छा० प्रजापतीन्द्रसंवादार्थविवृतिः। १५ अ० तलवकारोपनिषदर्थ विवृतिः। १६ अ० मुण्डकोपनिषदर्थविवृतिः। १७ अ० प्रश्नोपनिषदर्थविवृतिः। १८ अ० माण्डूक्येशाजावालिप्रभृतीनामुपनिषदां सारांशार्थविवृतिः। एतत्पुराणञ्च सुगमोपायेन वेदान्तमतज्ञानार्थमतीवोपयोगि विवृतञ्चैतत् काकारामशास्त्रिणा ततएव तत्रत्याशेषार्थाः सुग्रहाः।

आत्मप्रकाश = त्रि० आत्मनः प्रकाशः। आत्मनश्चैतन्यस्य पदार्थावभासनरूपे प्रकाशे। “आत्मनस्तत्प्रकाशत्वं यत्पदार्थावभासनम्। नाग्न्यादिदीपवद्दीप्तिर्भवत्यान्ध्यं यतोनिशि” इत्युक्तेः अग्न्यादिप्रकाशविलक्षणनित्यप्रकाशत्वेन तत्प्रकाशेनैव घटादिस्फुरणेन च तस्य तथात्वम्। “बुद्धिवृत्तिचिदाभासौ द्वावेतौ व्याप्नुतो घटम्। तत्राज्ञानं धिया नश्येदाभासात्तु घटः स्थुरेत्” इत्युक्तेस्तस्य सर्वप्रकाशकत्वम्।

आत्मप्रभ = त्रि० आत्मना स्वयमितरनैरपेक्ष्येण प्रभा यस्य। १ स्वयंप्रकागमाने “लोकानात्मप्रभान् पश्यन् फाल्गुनोविस्मयान्वितः” भा० व० प० ४२ अ०। २ परमात्मनि पु० “हृद्यन्तः स्वयं ज्योतिरिति” श्रुतेः “न तद्भासयते सूर्य्योन शशाङ्कोन पावक” इत्युक्तेश्च तस्य भासने इतरापेक्षाभावात्तस्य तथात्वम्। ३ त०। ३ स्वयंप्रभायां स्वयं प्रकाशे स्त्री।

आत्मप्रभव = पु० प्रभवत्यस्मात् प्र + भू–अपादाने अप् आत्मा देहः मनो वा प्रभवो यस्य। १ तनुजे पुत्रे मनोभवे २ कामे च ३ कन्यायां ४ बुद्धौ च स्त्री आत्मभवादयोऽप्यत्र। ५ आकाशादिषु च च परमात्मनः प्रभवत्वात्तेषां तथात्वम्।

आत्मबन्धु = पु० आत्मनो बन्धुः। १ आत्ममित्रे “आत्ममातुःस्वसुः पुत्राः आत्मपितुःस्वसुः सुताः। आत्ममातुलपुत्राश्च विज्ञेयाह्यात्मबान्धवाः २ इत्युक्ते” मातृपितृस्वस्रोः २ पुत्रे ३ मातुलपुत्रे च। “पत्नीदुहितरश्चैव पितरौ भ्रातर- स्तथा। तत्सुतो गोत्रजोबन्धुः शिष्यः सब्रह्मचारिणः” या० वचने बन्धुपदेन एतेषामात्मबन्धूनां पितृमातृबन्धूनाञ्च ग्रहणम्। आत्मबान्धवादयोऽप्यत्र। ४ आत्मनि च “आत्मैव ह्यात्मनोबन्धुरात्मैव रिपुरात्मनः” इत्युक्तेरात्मनएव आत्मोपकारज्ञानसाधनत्वेन बन्धुत्वात्तथात्वम्।

आत्मभू = पु० आत्मनोमनसो देहात् वा भवति भू–क्विप् ५ त०। मनोभवे १ कामे देहभवे २ पुत्रे ३ कन्यायां ४ बुद्धौ च स्त्री। आत्मनैव भवति भू–क्विप्। ५ ईश्वरे पु० स हि “बहु स्यां प्रजायेयेति” ईक्षणपूर्ब्बकं सृज्यवस्त्वाकारेण विवर्त्तनात् तथा। “सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः” रघुः “आत्मभूरवरजाखिलप्रजः” इति माघः ६ शिवे ७ विष्णौ च परमेश्वराभेदात्तयोस्तथात्वम्। आत्मनः ब्रह्मणः भवति भू–क्विप्। आदिजीवे ६ हिरण्यगर्भे “यो वै ब्राह्मणं विदधाति पूर्ब्बम्” इति श्रुत्या “यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः। तस्मादेतत् ब्रह्म नाम रूपपन्नञ्च जायते इति” श्रुत्या च चतुर्मुखस्यात्मजन्यत्वीक्तेस्तस्य तथात्वम् ब्रह्मेति क्लीवं छान्दसम् “यमामनन्त्यात्मभुवोऽपि कारणम्” “वचस्यवसिते तस्मिन् ससर्ज गिरमात्मभूः” कुमा० अच् आत्मनो भवति भू + अच् ५ त०। आत्मभवादयोऽप्युक्तार्थेषु।

आत्मभूत = त्रि० आत्मनोदेहात् मनसो वा भूतः। तनुजे १ पुत्रे मनोभवे २ कामे च। ३ कन्यायां ४ बुद्धौ च स्त्री ५ मनोजन्यमात्रे त्रि०। अनात्मा आत्मा भूतः श्रेण्या० कर्म्म०। अनात्मनि आत्मरूपेण भवितरि ६ देहादौ त्रि० “आत्मभूतानीन्द्रियाणीति शा० भा०। ७ अनुकूले सेवकभेदे च। “तत्रात्मभूतैः कालज्ञैरहार्य्यैः परिचारकैः” मनुः।

आत्मभूय = न० आत्मनो भावः भू–भावे क्यप् ६ त०। आत्मत्वे ब्रह्मरूपे “आत्मभूयाय कल्पते” पुरा०।

आत्ममय = त्रि० आत्मात्मकः आत्मन् + मयट्। आत्मस्वरूपापन्ने “सर्वमात्ममयं जगत्” पुरा० स्त्रियां ङीप्

आत्ममानिन् = त्रि० आत्मानमुत्कर्षेण मन्यते मन–णिनि ६ त०। १ आत्मोत्कर्षाभिमानिनि गर्व्विते २ सर्वभूतेषु आत्मत्वेन ज्ञातरि च स्त्रियां ङीप्।

आत्ममूर्त्ति = पु० आत्मनोमूर्त्तिरिव मूर्त्तिरस्य। १ भ्रातरि तस्य एकदेहोत्पन्नत्वेन, “भ्राता स्वोमूर्त्तिरात्मनः” इति मनुना भ्रातुः स्वतुल्यमूर्त्तित्वोक्तेश्च तथात्वम। ६ त०। वेदान्तिमते आत्मनः स्वरूपे २ चैतन्यादौ न्यायमते ३ कर्तृत्वादौ च स्त्री।

आत्ममूली = स्त्री आत्मैव रक्षणे मूलमस्याः दुःस्पर्शतयेतर मर्द्दनतः स्वस्य स्वयं रक्षणात् गौ० ङीष्। १ दुरालभालतायाम्। आत्मापरमात्मा मूलं यस्य। २ जगति न०। तस्यात्मप्रभवत्वात् तथात्वम् “ब्रह्म खानिलतेजांसि जलं भूश्चेति धातवः। इमे लोका एष चात्मा तस्माच्च सचराचरम्! मृद्दण्डचक्रसंयोगात् कुम्भकारो यथा घटम्। करोति तृणमृत्काष्ठै र्गृहं वा गृहकारकः। हेममात्रमुपादाय रूप्यं वा हेमकारकः। निजलालासमायोगात् कोशं वा कोशकारकः। कारणान्येवमादाय तासुतास्विह योनिषु। सृजत्यात्मानमात्मा च संहृत्य करणानि च” या० स्मृतावात्मनो भूतसृष्टिमभिधाय अनतिदूरे “सहस्रात्मा मया योव आदिदेव उदाहृतः। मुखबाहूरुपज्जाःस्यु स्तस्य वर्ण्णा यथाक्रमम्। पृथिवी पादतस्तस्य शिरसोद्यौरजायत। नस्तःप्राणा दिशः” इत्युक्तेः जगतामात्ममूलत्वात्तथात्वम् “आत्ममूलमिदं सर्व्वमात्मन्येव प्रलीयते” इति पुरा०।

आत्मम्भरि = त्रि० आत्मानं बिभर्त्ति भू–खि मुम् च उप० स०। स्वोदरमात्रपूरके देवातिथ्यनादरणेन आत्मपोषकत्वात्तस्य तथात्वम् “आत्मम्भरिस्त्वं पिशितैर्नराणाम्” भट्टिः। “यथा तआत्मम्भरयोऽकल्याणाद्यासङ्गवत्त्वात् घ्राणादयः न तथात्मम्भरिर्मुख्यः प्राणः किन्तर्हिसर्वार्थः, कथमित्युच्यते तेन मुख्येन यदश्नाति यत्पिबति लोकस्ते नाशितेन पीतेन चेतरान् घ्राणादीन् प्रतिपालयति” छा० उ० भा०।

आत्मयाजिन् = आत्मानं ब्रह्मरूपेण कर्म्मकरणादिकं भावयन् यजते यज–णिनि। “ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माऽग्नौ ब्रह्मणा हुतम्” इत्युक्तरूपभावनया ज्योतिष्ठोमादिकर्म्मकर्त्तरि आरुरुक्षौ ब्रह्मनिष्ठे १ कर्म्मयोगिनि “सर्व्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छतीति” मनूक्ते आत्मतया २ सर्व्वभूतदर्शिनि च

आत्मयोनि = पु० आत्मा योनिरस्य। १ चतुर्मुखे ब्रह्मणि २ शिवे ३ मनोभवे “प्रहर्त्तुमभ्युद्यतमात्मयोनिम्” कुमा०। ४ विष्णौ च “आत्मयोनिः स्वयं ज्ञाता” विष्णुस०। आत्मैव योनि रूपादानकारणं नान्यदिति” भाष्योक्तेः विष्णौ स्त्रीत्वमपि।

आत्मरक्षा = स्त्री आत्मन एव रक्षा यस्याः। १ इन्द्रवारुणीवृक्षे ६ त०। आत्मनो रक्षा। २ शास्त्रोक्ते विघ्नकर्त्तृभ्य आत्मनो रक्षणे च “आत्मरक्षायां जपे विनियोगः” सन्ध्याप्रयोगः।

आत्मराम = पु० आत्मनि रमते संज्ञायां कर्त्तरि घञ्। आत्मज्ञानमात्रेण तृप्ते योगीन्द्रे।

आत्मलाभ = पु० आत्मनोलाभः। आत्मनो यथास्वरूवज्ञानेन आत्मस्वरूपप्राप्तौ “आत्मलाभात्परोलाभो नास्तीति मुनयो विदुः” पुरा० “आत्मलाभपरिणामनिरोधैः” किरा०।

आत्मलोक = पु० आत्मैव लोकः प्रकाशः। स्वप्रकाशे आत्मनि।

आत्मलोमन् = न० ६ त०। मुखजाते लोमभेदे १ श्मश्रुणि(दाडि) २ आत्मलोममात्रे च।

आत्मवत् = त्रि० आत्मा चित्तं वश्यतयाऽस्त्यस्य मतुप् मस्य वः स्त्रियां ङीप्। १ वश्यचित्ते। “उदयादिष्वविकृतिर्मनसः सत्त्वमुच्यते। आत्मवान् सत्त्ववानुक्त” इत्युत्पलमालोक्ते २निर्विकारचित्ते च “प्रकृतिष्वात्मजमात्मवत्तया” रघुः “तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः”। “गृहे गुरावरण्ये वा निवसन्नात्मवान् द्विजः” “पूर्व्वं पूर्ब्बं गुरुतरं विद्यात् व्यसनमात्मवान्” “ब्रह्महत्याकृतं पापं व्यापोहत्यात्मवत्तया” इति च मनुः। “न त्वामेवंविधोभावः स्प्रष्टुमर्हति मानद!। आत्मवन्तमिव व्याधिः पुरुषं वृद्धसेविनम्” भा० व० प० २७९ अ०। आत्मा प्रकाश्यतया विद्यतेऽस्य। आत्मप्रकाशके ३ शास्त्रे “श्रुतमाविष्कृतमात्मवत् त्वया” रघुः। आत्मना तुल्या क्रिया वति। ४ आत्मतुल्यक्रियायाम् अव्य०। “आत्मवन्मन्यते जगत्” इति नीतिः “मातृवत् परदारेषु परद्रव्येषु लोष्ट्रवत्। आत्मवत् सर्वभूतेषु यः पश्यति स पण्डित” इति चाणक्यः।

आत्मवश = क्रि० आत्मनोवश आयत्ततात्र। आत्माधीने। “यद्यदात्मवशं तु स्यात्ततत् सेवेत यत्नतः” “सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्” इति च मनुः।

आत्मवश्य = त्रि० आत्मा मनो वश्योयस्य। वशीभूतमनस्के “आत्मवश्योविधेयात्मा प्रसादमधिगच्छति” गीता २ आत्मनोवश्ये च।

आत्मविक्रय = पु० ६ त०। स्वदेहविक्रये। स च “गोबधोऽयाज्यसंयाज्यपारदार्य्यात्मविक्रय” इति मनूक्तेरुपपातकभेदः।

आत्मविद् = त्रि० आत्मानं यथार्थरूपेण वेत्ति विद–क्विप् ६ त०। आत्मस्वरूपाभिज्ञे “आत्मविदोजनाः” आत्म शब्दे उदा० “अधीयन्नात्मविद्विद्याम्” भट्टिः “तरति शोकमात्मवित्” श्रुतिः “ध्यानयोगमुपागस्य प्रसन्नमतयः सदा। सुखोप चयमव्यक्तं प्रविशन्त्यात्मवित्तमाः” भा० आश्व० प० ५१ अ०। आत्मानं स्वपक्षं वेत्ति क्विप्। २ स्वपक्ष ज्ञातरि “य इहात्मविदो विपक्षमध्ये” माघः।

आत्मविद्या = स्त्री आत्मनोविद्या। आत्मनो यथास्वरूपावेदकविद्यायाम् “आन्विक्षिकीञ्चात्मविद्यां वार्त्तारम्भांश्च लोकतः” मनुः। “आत्मविद्या च पौराणी धर्मशा- स्त्रात्मिक तथा” नन्दिपु० सा च उपनिषद्रूपा तदुपकारिशारीकविद्या च। तद्विद्यासाधने २ शास्त्रे च।

आत्मवीर = त्रि० आत्मा प्राणः वीरैव यस्य। १ विशिष्टबलयुक्ते २ श्यालके ३ पुत्रे विदूषके च पु० मेदिनिः।

आत्मवृत्ति = स्त्री आत्मनोद्धत्तिः। १ आत्मनोवर्त्तनोपाये। आत्मनि वृत्तिः स्थितिर्यस्य। २ स्ववृत्तौ पदार्थे त्रि०।

आत्मशक्ति = स्त्री ६ त०। आत्मानुरूपसामर्थ्ये। “दैवं निहत्य कुरु पौरुषमात्मशक्त्या” नीतिः शक्तिश्च कार्य्यजननानुकूलः सामर्थ्यभेदः सा च देहप्राणादिनिष्ठा। आत्मनः परमात्मनो जगज्जननशक्तौ २ मायायाञ्च “देवात्मशक्तिं स्वगुणै र्निगूढाम्” श्रुतिः।

आत्मशल्या = स्त्री आत्मा स्वरूपं शल्यमिव यस्याः। शतावर्य्याम् राजनि०।

आत्मशुद्धि = स्त्रीं आत्मनः देहस्य मनसो वा शुद्धिः। १ देहशुद्धौ २ चित्तशुद्धौ च शुद्धिश्च अशुद्धिशब्दे व्याख्याता।

आत्मश्लाघा = स्त्री ६ त०। आत्मनोऽसत्यगुणाविष्करणे गर्वभेदे “आत्मश्लाघा विवर्जितः” महापुरुषलक्षणम्।

आत्मसंयम = पु० आत्मनो मनसः संयमः। चित्तसंयमने “आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते” गीता।

आत्मसमुद्भव = पु० आत्मा देहोमनः परमात्मावा समुद्भवोऽस्य। १ पुत्रे “हतान्निहन्मेह नरर्षभेण वयं सुरेशात्मसमुद्भवेन” भा० द्रो० प० ११८ अ०। २ मनोभवे कामे च पु० ३ मनोजन्ये सुखादौ त्रि० ४ कन्यायां ५ बुद्धौ च स्त्री परमात्मसम्भूते ६ आकाशादौ त्रि०। ७ चतुर्खुखे ८ शिवे ९ निष्णौ १० परमात्मनि च पु०।

आत्मसम्भव = पु० सम्भवत्यस्मात् सम् + भू–अपादाने अप् आत्मा सम्भवो यस्य। तनूजे १ पुत्रे। “एवमात्तरतिरात्मसम्भवान् तान् निवेश्य चतुरोऽपि तत्र सः”। “चकार नाम्ना रघुरात्मसंभवम्” “तदात्मसम्भवं राज्ये मन्त्रिवृद्धाः समादधुः” इति च रघुः २ मनोजन्ये त्रि० ३ कामे सुखादौ पु० ४ कन्यायां ५ बुद्धौ च स्त्री। ६ आकाशादौ ७ भूते त्रि०। “तस्माद्वा एतस्मादात्मनः आकाशः सम्भूत आकाशाद्वायुर्वायोरग्निरग्नेरापः अद्भ्यः पृथिवीति” श्रुत्युक्तेस्तेषां तथात्वम् आत्मसंभूतादयोऽप्यत्र। आत्मा परमात्मा सम्भवोऽस्य। ७ चतुर्मुखे पु० आत्मना सम्भवति अच्। ८ शिवे ९ विष्णौ १० परमात्मनि च पु०।

आत्मसाक्षिन् = त्रि० आत्मनः बुद्धिवृत्तेः साक्षी प्रकाशकः। वेदान्तादिमतसिद्धे बुद्धिवृद्धिप्रकाशके चैतन्ये।

आत्मसात् = अव्य० कात्र्स्न्येनात्मनोऽधीनो भवति सम्पद्यते अघीनं करोति वा साति। कात्र्स्न्येनात्माधीनतया सम्पन्ने तथा भूते तथा क्रियमाणेच। अस्य च सम्पद्यादियोगे एव साधुत्वम् आत्मसाद्भूतः आत्मसात् सम्पन्नः आत्मसात्कृत इत्यादि। “दुरितैरपि कर्त्तुमात्मसात्” रघुः “अग्नीन् वाप्यात्मसात्कृत्य” या० स्मृतिः।

आत्मसिद्ध = त्रि० आत्मना सिद्धः। १ स्वयंसिद्धे २ अयत्ननिष्पन्ने च।

आत्मसिद्धि = स्त्री आत्मरूपा सिद्धिः। आत्मभावलाभे मोक्षे

आत्मसुख = त्रि० आत्मैव सुखमस्य। आत्मलाभमात्रेण सुखिनि १ आत्मैव सुखं सच्चिदानन्दरूपत्वात्। २ आत्मरूपे परमान्दे न०।

आत्मस्थ = त्रि० आत्मने आत्मज्ञानाय तिष्ठते यतते स्था–क ४ त०। १ आत्मस्वरूपज्ञानाय यतमाने आत्मनि मनसि तिष्ठति स्था–क ७ त०। २ मनोवृत्तिपदार्थे त्रि०।

आत्महत्या = स्त्री आत्मनो देहस्य हननम्। देहस्य प्राणैर्वियोजने।

आत्महन् = त्रि० आत्मानं हतवान् हन–क्विप्। “येऽन्यथा सन्तमात्मानमकर्त्तारं स्वयंप्रभुम्। कर्त्ता भोक्तेति मन्यन्ते तएवात्महनो जना,” इत्यक्तलक्षणे आत्मनो यथार्थ्यज्ञानरहिते, १ देहाद्यभिमानिनि, “अन्धं तमस्ते प्रविशन्ति ये के चात्मनोजनाः” कठ० उ० “लब्ध्वा कथञ्चिन्नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम्। यस्त्वात्ममुक्त्यै न यतेत मूढधीः स आत्महा स्वं विनिहन्त्यसद्ग्रहात्” विवे० चू०। आत्मनो यथार्थज्ञानाभावे आत्महत्वमुक्तम्। “असुर्य्यानाम ते लोका अन्धेन तमसा वृताः। तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनोजनाः” ईशोप०। “मयानुकूलेन नभस्वतेरित पुमान् भवाब्धिं न तरेत् स आत्महा” भाग० २ आत्मघातिनि जने च। आत्मघातिन्शब्दे विवृतिः।

आत्माधीन = पु० आत्मनोऽधीनः। १ पुत्रे, २ श्यालके ३ विदूषके च हेम० ४ बलयुक्ते ५ स्वाघीने त्रि०।

आत्मानुरूप = त्रि० आत्मनोऽनुरूपम्। जातिघृत्तादिना स्वतुल्ये “तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः” रघुः।

आत्मापहारक = त्रि० आत्मानमपहरति निह्नुते अप + हृण्वुल्। आत्मनो यथास्वरूपनिह्नवकारिणि “योऽन्यथा मन्तमात्मानमन्यथा सत्सु भाषते। स पापकृत्तमो लोके स्तेन आत्मापहारकः” मनुः। णिनि। आत्मपहारी अप्यत्र “किं तेन न कृतं पापं चौरेणात्मापहारिणा” स्मृतिः स्त्रियां ङीप्।

आत्माराम = त्रि० आत्मा आराममिव रतिस्थानं रतिसाधनं वा यस्य। ज्ञानाय यतमाने योगिनि “आत्मा- रामाविहितरतयोनिर्विकल्पे समाधौ” वेणी०। “आत्मक्रीडस्य सततं सदात्ममिथुनस्य च। आत्मन्येव सुतृप्तस्य योगसिद्धि र्न दूरतः। यश्चात्मव्यतिरेकेण किञ्चिद्विश्वं न पश्यति। आत्मारामः स योगीन्द्रोब्रह्मभूतो भवेदिति” काशी० उक्ते २ योगीन्द्रभेदे च।

आत्मालम्भ = पु० ६ त०। हृदयस्पर्शे “पित्र्यमन्त्रानुहरणेआत्मालम्भेवेह्यक्षणे” कात्या० स्मृ० “आत्मालम्भे हृदयस्पर्शे” रघु०।

आत्माशिन् = पु० आत्मानं स्वकुलमश्नानि अश–णिनि ६ त०। स्वकुलभक्षके मीने तस्य सकुलभक्षकत्वात् तथात्वम् अतएव “अबलस्वकुलाशिनो झषान्” नै० “मत्स्या इव जनानित्यं भक्षयन्ति परस्परमिति च” रामा० वर्णितम्।

आत्माश्रय = पु० आत्मानमाश्रयति आ + श्रि–अच् ६ त०। १ स्वस्य स्यापेक्षित्वहेतुकानिष्टप्रसङ्गरूपे तर्कदोषभेदे। तर्कः पञ्चविधः तर्कशब्दे वक्ष्यते तत्र “स्वस्य स्वापेक्षित्वेऽनिष्टप्रसङ्ग आत्माश्रयः स च उत्पत्तिस्थितिज्ञप्तिद्वारा त्रेधा यथा यद्ययं घटएतद्बटजन्यः स्यात्तदैतद्बटानधिकरणक्षणोत्तरवर्त्ती न स्यात्, यद्ययं घटएतद्बटवृत्तिः स्यात् एतद्वटव्याप्योन स्यात्, यद्ययं घटएतद्घटज्ञानाभिन्नः स्यात् ज्ञानसामग्रीजन्यः स्यात् एतद्वटभिन्नः स्यादिति वा सर्ब्बत्रापाद्यम्” न्यायसूत्रवृत्तिः। २ स्वाश्रिते ३ चित्ताश्रिते च त्रि० ६ त०। ४ स्वस्याश्रये पु०।

आत्मीय = त्रि० आत्मनोऽयम् छ। आत्मसंबन्धिनि। “आत्मीयां मतिमादाय कुरु सज्जनरञ्जनम्” सा० द० “किमिदं द्युतिमात्मीयां न बिभ्रति यथा पुरा” कुमा० “प्रसादमात्मीयमिवात्मदर्शः” रघुः अहमेनं प्रज्ञावलेनात्मीयं करिष्यामि” हितो०।

आत्मेश्वर = त्रि० आत्मनो मनस ईश्वरः। चित्तविकारनिवारके मनःसंयमकारके “आत्मेश्वराणां न हि जातु विघ्नाः समाघिभेदप्रभवोभवन्ति” कुमा०।

आत्मोत्पत्ति = स्त्री आत्मन उत्पत्तिः स्वोपाध्यन्तःकरणवृत्तिकर्म्मणाऽपूर्ब्बदेहसंयोगः। स्वोपाधीभूतान्तःकरणवृत्तिकर्म्मणाऽपूर्ब्बदेहसंयोगरूपे आत्मनो जन्मनि। तदुत्पत्तिप्रकारः मिताक्षरायां दर्शितो यथा। “निमित्तमक्षरः कर्त्ता बोद्धा ब्रह्म गुणी वशी। अजःशरीर ग्रहणात्स जात इति कीर्त्यते” “आत्मनःसकलजगत्प्रपञ्चाविर्भावेऽविद्यासमावेशवशात्समवाय्यसमवायिनिमित्तमित्येवं स्वयमेव त्रिविघमपि कारणम्। न पुनःकार्य्यकोटिनिविष्टः यस्मादक्षरोऽविनश्वरः। ननु सत्त्वादिगुणविकारस्य सुखदुःखमोहात्मकस्य कार्य्यभूते जगत्प्रपञ्चे दर्शनाद्गुण- वत्याः प्रकृतेरेव जगत्कर्त्तृतोचिता न पुनर्निर्गुणस्य ब्रह्मणः। मैवं मंस्थाः। आत्मैव कर्त्ता। यस्मादसौ जीवोपभोग्य सुखदुःखहेतुपुण्यापुण्यादेर्बोद्धा नह्यचेतनायाः प्रकृतेर्नामरूपव्याकृतविचित्रभोक्तृवर्गभोगानुकूलभोग्यभोगायतनादि योगिजगत्प्रपञ्चना घटते। तस्मादात्मैव कर्त्ता। तथा स एव ब्रह्म वृंहकोविस्तारकः। नचासौ निर्गुणः, यतः तस्य त्रिगुणा शक्तिरविद्या प्रकृतिप्रधानाद्यपरपर्याया विद्यते। अतः स्वतोनिर्गुणत्वेऽपि शक्तिमुखेन सत्त्वादिगुणयोगी कय्यते। नचैतावता प्रकृतेः कारणता यस्मादात्मैव वशी स्वतन्त्रो न प्रकृतिर्नाम खतन्त्रन्तत्त्वान्तरन्तादृग्विधत्ते प्रमाणाभावात्। न च वचनीयं शक्तिरूपापि सैव कर्तृभूतेति। यतः शक्तिमत्कारकं न शक्तिस्तस्मादात्मैव जगतस्त्रिविधमपि कारणम्। तथा अजौत्पत्तिरहितः। अतस्तस्य यद्यपि साक्षाज्जननं नोपपद्यते। तथापि शरीरग्रहणमात्रेण जात इत्युच्यते। अवस्थान्तरयोगितयोत्पत्तिर्गुहस्थोजात इति वत्” मिता० देहोत्पत्तिप्रकारःकायशब्दे वक्ष्यते।

आत्मोद्भवा = स्त्री आत्मनैवोद्भवति भू–अच्। माषपर्ण्णीवृक्षे आत्मा उद्भवो यस्याः। २ कन्यायां ३ वुद्धौ च ४ पुत्रे पु०। “आत्मोद्भवे वर्णचतुष्टयस्य” रघुः। ६ मनोभवे कामे ७ चित्तभवे शोकादौ च ८ आत्मभवार्थमात्रे च त्रि०।

आत्मोपजीविन् = त्रि० आत्मना देहव्यांपारेण उपजीव्यति उप + जीव–णिनि ३ त०। स्वदेव्यापारोपजीवके भारिकदासादौ “शूद्रांश्चात्मोपजीविनः” “नैष चारणदारेषु विधिर्न्नात्मोपजीविषु” इति च मनुः।

आत्मोपम = त्रि० आत्मा देहौपमा यस्य १ पुत्रे २ निजसदृशे च त्रि०।

आत्मौपम्य = न० उपमायाभावः ष्यञ् औपम्यम् आत्मन औपम्यम्। आत्मसादृश्ये “आत्मौपम्येन सर्व्वत्र” गीता।

आत्यन्तिक = त्रि० अत्यन्त + भवार्थे ठञ्। अतिशयेन जाते। “आत्यन्तिकासिद्धिविलम्बसिद्ध्योः” नै० “नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकंवसेत्” मनुः। “विभेदजनकाज्ञाने नाशमात्यन्तिकंगते। आत्मनो ब्रह्मणा भेदमसन्तं कः करिष्यति” वे० प० स्त्रियां ङीप्। “आत्यन्तिकी स्वत्वनिवृत्तिः” मिता०

आत्यन्तिकदुःखनिवृत्ति = स्त्री आत्यन्तिकीदुःखनिवृत्तिः। अपवर्गे मुक्तौ। सा च स्वाधिकरणदुःखप्रागभावासमानाधिकरणा दुःखनिवृत्तिः यादृश्या दुःखनिवृत्तेरुत्तरं पुनर्दुःखान्तरं नोत्पद्यते तादृशी दुःखनिवृत्तिः। दुःखञ्च अनागतसूक्ष्मावस्थ “हेयं दुःखमनागतमिति” पात० सूत्रात् अतीतदुःखस्य नष्टत्वात् वर्त्तमानदुःखस्य च तृतीयक्षण एव स्वयं नाशात् न तन्निघृत्तेः पुरुधार्थत्वमिति बोध्यम्।

आत्यन्तिकप्रलय = पु० कर्म्म०। प्रलयभेदे। प्रलयस्तावत् चतुर्विधः” यथाह वेद० प० “स च चतुर्विधः नित्यः प्राकृतो नैमित्तिक आत्यन्तिकश्चेति। तत्र नित्यप्रलयः सुषुप्तिः तस्याः सकलकार्य्यप्रलयरूपत्वात् धर्म्माधर्म्मपूर्ब्बसंस्काराणाञ्च तदा कारणात्मनाषस्थानं तेन सुप्तोत्थितस्य न सुखदुःखाद्यनुपपत्तिः न वा स्मरणानुपपत्तिः। न च सुषुप्तावन्तः करणस्यापि विनाशे तदधीनप्राणनादिक्रियानुपपत्तिः वस्तुतः श्वासाद्यभावेऽपि तदुपलब्धेः पुरुषान्तरविभ्रममात्रत्वात् सुषुप्तशरीरोपलम्भवत्। नचैवं सुषुप्तस्य परेतादविशेषः, सुषुप्तस्य हि लिङ्गशरीरं संस्कारात्मना तत्रैव वर्त्तते परेतस्य तु लोकान्तरे इति वैलक्षण्यात्। यद्वा अन्तःकरणस्य द्वे शक्ती ज्ञानशक्तिः क्रियाशक्तिश्चेति तत्र ज्ञानशक्तिविशिष्टान्तःकरणस्य सुषुप्तौ विनाशः न तु क्रियाशक्तिविशिष्टस्येति प्राणनाद्यवस्थानमविरुद्धम्। “यदा सुप्तः स्वप्नं न कञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति अथैनं वाक् सर्वैर्नामभिः सहाप्येति सता सौम्य! तदा सम्पन्नो भवति स्वमपीतोभबतीत्यादि” श्रुतिरुक्त सुप्तौ मानम्। प्राकृतप्रलयस्तु कार्य्यब्रह्मविनाशनिमित्तकः सकलकार्य्यविनाशः। यदा तु प्रागेवोत्पन्नब्रह्मसाक्षात्कारस्य कार्य्यब्रह्मणो ब्रह्माण्डाधिकारलक्षणप्रारब्धकर्नसमाप्तौ विदेहकैवल्यात्मिका परा मुक्तिः तदा तल्लोकवासिनामप्युत्पन्नब्रह्मसाक्षात्काराणां ब्रह्वणा सह विदेह कैवल्यम् “ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदमिति” श्रुतेः। एवं स्वलोकवासिभिः सह कार्य्यब्रह्मणि मुच्यमाने तदधिष्ठितब्रह्माण्डतदन्तर्व्वर्त्तिनिखिललोकतदन्तर्व्वर्त्तिस्थावरादीनां भूतानाञ्च प्रकृतौ मायायां लयः न तु ब्रह्मणि, बाघरूपविनाशस्यैव ब्रह्मनिष्ठत्वादतः प्राकृत इत्युच्यते। नैमित्तिकप्रलयस्तु कार्य्यब्रह्मणोदिवसावसाननिमित्तकः त्रैलोक्यमात्रप्रलयो नैमित्तिकप्रलयः। ब्रह्मदिवसश्चतुर्युगसहस्रपरिमितः “चतुर्युगसहस्राणि ब्रह्मणोदिनमुच्यते” इत्यादिवचनात्। प्रलयकालोऽपि दिवसकालपरिमितः रात्रिकालस्य दिवसकालतुल्यत्वात्। प्राकृतप्रलये नैमित्तिकप्रलये च पुराणवचनानि प्रमाणानि “द्विपरार्द्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः। तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय हि। एष प्राकृतिकोराजन्! प्रकृतौ यत्र लीयते” इति वचन प्राकृतप्रलये मानम्। “एव नैमित्तिकः प्रोक्तः प्रलयोयत्र विश्वसृक्। शेतेऽनन्तासने नित्यमात्मसात्कृत्य चात्मभूरिति” वचनं नैमित्तिक प्रलये मानम्। तुरीयप्रलयस्तु ब्रह्मसाक्षात्कारनिमित्तकः सर्ब्बगोक्षः सचैकजीववादे युगपदेव नानाजीववादे तु क्रमेण “सर्व्वएकीभवन्ति” इत्यादि श्रुतेः। तत्राद्यास्त्रयोऽपि लयाः कर्म्मोपरमनिमित्ताः तुरीयस्तु ज्ञानोदयनिमित्तोलयोऽज्ञानेन सहैवेति विशेषः”। अत्र तुरीयः आत्यन्तिकः तत्र विशेषमाह सि० शि० “वृद्धिर्विधेरह्नि भुवः समन्तात् स्याद्योजनं भूभवभूतपूर्वैः। ब्राह्मे लये योजनमात्रवृद्धेर्नाशो भुवः प्राकृतिकेऽखिलायाः। दिनेदिने यन्म्रियते हि भूतैर्दैनंदिनं तं प्रलयं वदन्ति। ब्राह्मं लयं ब्रह्मदिनान्तकाले भूतानि यद्ब्रह्मतनुं विशन्ति। ब्रह्मात्यये यत् प्रकृतिं प्रयान्ति सर्वाण्यतः प्राकृतिकं कृतीन्द्राः। लीनान्यतः कर्मपुटान्तरत्वात् पृथक् क्रियन्ते प्रकृतिर्विकारैः। ज्ञानाग्निदग्धाखिलपुण्यपापा मनः समादाय हरौ परेशे। यद्योगिनौ यान्त्यनिवृत्तिमस्मादात्यन्तिकं चेति लयश्चतुर्धा”। “अत्र लयो भूतविनाशः। स तु साम्प्रतं प्रत्यहमुत्पद्यते स दैनंदिन उच्यते। यो ब्रह्मदिनान्ते चतुर्युगसहस्रावसाने लोकत्रयस्य संहारः स ब्राह्मो लय उच्यते। तत्राक्षीणपुण्यपापा एव लोकाः कालवशेन ब्रह्मशरीरं प्रविशन्ति। तत्र मुखं ब्राह्मणाः, बाह्वन्तरं क्षत्रियाः, ऊरुद्वयं वैश्याः, पादद्वयं शूद्राः। ततो निशावसाने पुनर्ब्रह्मणः सृष्टिं चिन्तयतो मुखादिस्थानेभ्यः कर्मपुटान्तरत्वाद्ब्राह्मणादयस्तत एव निःसरन्ति। तस्मिन् प्रलये भुवो योजनमात्रवृद्धेर्विलयो नाखिलायाः। अथ यदा ब्रह्मण आयुषोऽन्तस्तदा यः प्रलयः स महाप्रलय उच्यते। तत्र ब्रह्मा ब्रह्माण्डे, तत् पाञ्चभौतिके, भूर्जले, जलं तेजसि, तेजो वायौ, वायुराकाशे, आकाशमहंकारे, अहंकारो महत्तत्त्वे, महत्तत्त्वं प्रकृतौ। एवं सकलभुवनलोका अक्षीणपुण्यपापा एवाव्यक्तं पविशन्ति। यदा भगवान् सिसृक्षुः प्रकृतिपुरुषौ क्षोभयति। तदा तानि भूतानि कर्म्मपुटान्तरत्वात् प्रकृतेः स्वत एव निःसरन्ति। यथाह श्रीविष्णुपुराणे पराशरो जगदुत्पत्तिकारणम्। “प्रधानकारणीभूता यतो वै सृज्यशक्तय” इति सृज्यशक्तयस्तत्कर्माणि। तान्येव सृष्टौ मुख्यं कारणम्। इतराणि निमित्तकारणानि। अन्यैरप्युक्तम्। “नाभक्तं क्षीयते कर्म कल्पकोठिशतैरपि”। “नह्यात्मनां भवति कर्मफलोपभोगः कायाद्विनेत्यादि”। अस्मिन् प्रलयेऽखिलायाभुवो नाश इत्यर्थः। तथा “ज्ञानाग्निदग्धाखिलपुण्यपापा योगिनो विषयेभ्यो मनः समादाय समाहृत्य तद्धरौ समाहितं कृत्वा यान्ति देहं त्यजन्ति। अनिवृत्तिं यान्ति। स आत्यन्तिको लय इति” प्रमिता०।

आत्ययिक = त्रि० अत्ययः नाशः प्रयोजनमस्य ठक्। नाशप्रयो जनके कर्मणि “अशिश्रवन्नात्ययिकं समेत्य” भट्टिः। “एकाकिनश्चात्ययिके कार्य्ये प्राप्ते भयप्रदे” मनुः। “कच्चिदात्यमिकं श्रुत्वा तदर्थमनुचिन्त्य च। प्रियाण्यनुभवन् शेषे न त्वमन्तः पुरे नृप!” भा० स० प० ५ अ०।

आत्रेय = पु० अत्रेरपत्यम् ढक्। अत्रिमुनेरपत्ये तस्यापत्यानि बहूनि तेषु मन्वन्तरभेदे केचित् सप्तर्षिमध्यपातिनः यथा ५ मन्वन्तरे “वेदबाहुर्यदुघ्नश्च मुनिर्वेद शिरास्तथा। हिरण्यरोमा पर्जन्य ऊर्द्ध्ववाहुश्च सोमजः। सत्यनेत्रस्तथात्रेव एते सप्तर्षयोऽन्तरे”। ८ मन्वन्तरे। “रामोव्यासस्तथात्रेषो दीप्निमानिति विश्रुतः भारद्वाजस्तथाद्रौणिरश्वत्थामा महाद्युतिः। गोतमस्यात्मजश्चैव शरद्वान्नाम गौतमः। कौशिको दानवश्चेव रुरुः काश्यप एव च। एते सप्त महात्मानो भविष्यामुनिसत्तमाः। ब्रह्मणः सदृशाश्चेति धन्याः सप्तर्षयः स्मृताः”। ९ मन्वन्तरे। “मेधातिथिस्तु पोलस्त्यो वसुः काश्यप एव च। ज्योतिष्मान् भार्गवश्चैव द्युतिमानङ्गिरास्तथा। सवनश्चैव वाशिष्ठ आत्रेयोहव्यवाहनः पौलहः सत्य इत्येते मुनयो रौहितेऽन्तरे”। १० मन्वन्तरे “हविष्मान् पौलहश्चैव सुकृतिश्चैव भार्गवः। आपोमर्त्तिस्तथाऽत्रेयो वाशिष्ठश्चाष्टकः स्मृतः। पौलस्त्यः प्रमतिश्चैव नभोगश्चैव काश्यपः। अङ्गिरा नभसः सत्यः सप्तैव परमर्षयः” ११ मन्वन्तरे। “हविष्मान् काश्यपश्चापि हविष्मान् यश्च भार्गवः। तरुणश्च तथात्रेयो वासिष्ठस्तनयस्तथा। अङ्गिराश्चोदधिष्णश्च पौलस्त्योनिश्चरस्तथा। पौलहश्चाग्नितेजाश्च भाव्याः सप्त महर्षयः” १२ मन्वन्तरे। “द्युतिर्वसिष्ठपुत्रश्च आत्रेयः सुतपास्तथा। अङ्गिरास्तमसोमूर्त्तिस्तपस्वी काश्यपस्तथा। पयोऽशनश्च पौलस्त्यः पौलहश्च तपोरविः। भार्गवः सप्तमस्तेषां विज्ञेयश्च ततोधृतिः”। १३ मन्वन्तरे। अङ्गिराश्चैव धृतिमान् पौलस्त्यो हव्यपस्तु यः। पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सुकः। निष्प्रकम्पस्तथाऽऽत्रेयो निर्मोहः काश्यपस्तथा। सुतपाश्चैव वासिष्ठः सप्तैते तु महर्षयः” १४ मन्वन्तरे। अग्नीध्रः काश्यपश्चैव पौलस्त्यो भार्गवस्तथा। भार्गवो ह्यतिबाहुश्च शुचिराङ्गिरसस्तथा। शुक्रश्चैव तथात्रेयः शुक्रो वासिष्ठ एव च। अजितः पौलहश्चैव अन्त्याः सप्तर्षयोमताः” हरिवं० ७ अ०। तथा च मन्वन्तरभेदे सप्तर्षिमध्ये अत्रिपुत्रा सत्यनेत्रादयः। वैवास्वते तु मन्वन्तरे दत्तः दुर्वासाः सोमश्चेति त्रय आत्रेयाः प्रसिद्धाः। ते च ब्रह्मेशाच्युतांशजाः तथोक्तम्” भाग० ४ स्क० १ अध्या०। “अत्रेःपत्न्यनसूया त्रीन् जज्ञे सुयशसः सुतान्। दत्तं दुर्व्वाससं सोममात्मेशब्रह्मसंभवान्। श्रीविदूरौवाच। अत्रेर्गृहे सुरश्रेष्ठाः स्थित्युत्पत्त्यन्तहेतवः। किञ्चिच्चिकीर्षवीजाता एतदाख्याहि मे गुरो। श्रीमैत्रेयौवाच। ब्रह्मणा नोदितः सृष्टावत्रिर्ब्रह्मविदांवरः। सहपत्न्या ययावृक्षं कुलाद्रिं तपसिस्थितः। तस्मिन् प्रसून स्तवकपलाशाशोककानने। वार्भिः स्रवद्भिरुद्घुष्टे निर्व्विन्ध्यायाः समन्ततः। प्राणायामेन संयम्य मनो वर्ष शतं मुनिः। अतिष्वदेकपादेन निर्द्वन्द्वोऽनिलभोजनः। शरणं तं प्रपद्येऽहं य एव जगदीश्वरः। प्रजामात्मसमां सह्यं प्रयच्छत्विति चिन्तयन्। तप्यमानम् त्रिभुवनम् प्राणायामैधसाग्निना। निर्गतेन मुनेर्मूर्द्ध्नः समीक्ष्य प्रभवस्त्रयः। अप्सरोमुनिगन्धर्व्वसिद्धविद्याधरोरगैः। वितायमानयशसस्तदाश्रमपदं ययुः। तत्प्रादुर्भावसंयोगविद्योतितमना मुनिः। उत्तिष्वन्नेकपादेन ददृशे विबुधषभान्। प्रणम्य दण्डवद्भूमावुपतस्थेऽर्हणाञ्जलिः। वृषहंससुपर्णस्थान्स्वैः स्वैश्चिह्नैः सुचिह्नितान्। कृपालोकेन हसद्वदनेनोपलम्भितान्। तच्छोचिषा प्रतिहते निमील्य मुनिरक्षिणी। चेतस्तत्प्रवणं युञ्जन्नस्तावीत् संहताञ्जलिः। श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयसः। अत्रिरुवाच। विश्वोद्भवस्थितिलयेषु विभज्यमानैर्म्मायागुणैरनुयुगं विगृहीतदेहाः। ते ब्रह्मविष्णुगिरिशाः प्रणतोऽस्म्यहम् वस्तेभ्यः कएव भवतां म इहोपहूतः। एकोमयेह भगवान् विविधप्रधानैश्चित्तीकृतः प्रजननाय कथं नु यूयम्। अत्रागतास्तनुभृतां मनसोऽपि दूरा ब्रूत प्रसीदत महानिह विस्मयोमे। श्रीमैत्रेयौवाच। इति तस्य वचः श्रुत्वात्रयस्ते विबुधर्षभाः। प्रत्याहुः श्नक्ष्णया वाचा प्रहस्य तमृषिं प्रभो!। श्रीदेवाऊचुः। यथा कृतस्ते संकल्पोभष्यस्तेनैव नान्यथा। स ते सङ्कल्प्स्यते ब्रह्मन् यद्वै ध्यायति ते वयम्। अथास्मदंशभूतास्ते आत्मजालोक विश्रुताः। भवितारोऽङ्ग भद्रन्ते विस्रप्स्यन्ति च ते यशः। एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः। सभाजितास्तयोः सम्यग्दम्पत्योमिषतोस्ततः। सोमोऽभूद्ब्रह्मणोऽंशेन दत्तोविष्णोस्तु योगवित्। दुर्व्वासाः शङ्करस्यांशोनिवोधाङ्गिरसः प्रजाः”। आत्रेयश्च शुक्लयजुः सम्प्रदायप्रवर्त्तकः वंशगणनायाम् “भरद्वाज आत्रेयात् आत्रेयोमाण्टेः” शत० ब्रा० पठितः स्त्रियां ङीप्। “आत्रेय्यस्मि” उत्तरच० शुक्लयजुषां सम्प्रदायप्रवर्त्तक वंशगणनायाम् “आत्रेयीपुत्रादात्रेयीपुत्र इति” शत० ब्रा०। “पुत्रमन्थनकर्मणः र्स्त्रासंस्काराङ्गत्वेनोक्तत्वात् तत्सन्निघानादयं वंशः स्त्रीप्राधान्येनोच्यते” भा०। २ अत्रिगोत्रमध्ये श्रेष्ठे पु०। “आत्रेयाय चाग्नीध्रवत्सदसःपुरस्तादुपविष्टाय क आत्रेयं क आत्रेयमिति त्रिरुक्त्वा” कात्या० १०, २, २१। “आत्रेयाय अत्रिसगोत्राय अतिप्रवराय” वा कर्कः “आत्रेयाय हिरण्यं ददाति” शत० ब्रा०। बहुषु ढकोलुक् अत्रयः अत्रिपुत्रेषु क्वचिन्न। “आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः। सर्वस्य जगतः श्रेष्ठाः पूजिता ब्राह्मणास्तथा” भा० व० २१ अ०। तेषां श्रेष्ठत्वं च यज्ञे अनिनृत्विद्भ्योऽपि तेभ्यो दक्षिणादानस्य” शत० ब्रा० उक्तेः यथा “आत्रेयाय हिरण्यं ददातीत्युपक्रम्य “अत्रिर्वा ऋषीणां होतासावैतत् स दोऽसुरतमसमभिपुप्रुवे त ऋषयोऽत्रिमब्रुवन्ने हि प्रत्यङ् इदं तमोऽपजहीति स एतत्तमोऽपाहन्नयं वै ज्योतिर्य इदं तमोऽपाबधीदिति तस्मा एतद्दक्षिणामनयन् ज्योतिर्हिरण्यं तद्वैस तत्तेजसा वीर्य्येणर्षिस्तमोऽपजघानाथैष एतेनेवैतज्ज्योतिषा तमोऽपहन्ति तस्मादात्रेयाय हिरण्यं ददातीति”। अत्रिप्रशंसया च तद्वंशजानां प्रशंसा। सचानृत्विगेव “आत्रेयाय चाग्नीध्रवदित्यनन्तरम् “ऋत्विग्भ्यो दक्षिणां ददातीति कात्या० सूत्रे” ऋत्विक्त्वविशेषणात् तत्पूर्बस्य अनृक्त्वमिति” कर्कः। ३ देहस्थरसभेदे” हेम० ४नदीभेदे स्त्री “करतोया तथात्रेयी लौहित्यश्च महानद” भा० स० प० ९ अ० वर्ण्णिता। “आत्रेयीं वक्ष्यामो रजस्वलामृतुस्नातामात्रेयीमाहुः अत्रेत्येयामपत्यं भवतीत्यात्रेयीमिति” वशिष्ठोक्तनिर्वचनयुक्तायामृतुस्नातायां ५ स्त्रियां स्त्री “हत्वा गर्भ मविज्ञातमेतदेव ब्रतं चरेत्। राजन्यवैश्यावीजानावात्रेयीमेव च स्त्रियम्” मनुः “आहिताग्नेर्ब्राह्मणस्य हत्वा पत्नीमनिनिन्दिताम्। ब्रह्महत्याव्रतं कुर्य्यादात्रेयीघ्नस्तथैव च” अङ्गि०। “यागस्थक्षत्रविड्घाती चरेद्ब्रह्म- हनोव्रतम्। गर्भहा च यथावर्ण्णं तथात्रेयीनिसूदकः” या०। आत्रेयोयमिति ज्ञात्वा तस्या वधे तु ब्रह्महत्याब्रतद्विगुणव्रतम् कार्य्यम् ब्रह्महत्याव्रतमुक्त्वा “एवं तु समभिज्ञातामात्रेयीं वा निपातयेत्। द्विगुणा ब्रह्महत्या वै आत्रेयीनिधने भवेत्” भा० शा० प० १६५ अ० उक्तेः। अश्वादि० भरद्वाजार्थे फञ्। आत्रेयायणः भारद्वाजरूपे तद्गोत्रजे पुंस्त्री०। छागलशब्दात् आत्रेयार्थेअण्। छागल आत्रेयः अन्यः छागलिः सि० कौ०। आत्रेयो + स्वार्थे कन्। आत्रेयिका ऋतुमत्यामृतुस्नातायां स्त्रियाम् स्त्री।

आथर्वण = पु० अथर्वणा मुनिना दृष्टो वेदः अण् आथर्वणः तमधीते वेत्ति वा पुनः अण्। १ अथर्ववेदज्ञे ब्राह्मणे, आथर्वणिकस्य धर्म आम्लायो वा अण् इकलोपश्च। २ अथर्ववेदिधर्म्मे ३ तदाम्नाये च। अथर्वाणं वेदमधीते वेत्ति वा अण्। ४ अथर्ववेदस्याध्येतरि ५ वेत्तरि च तत्कल्पज्ञातरि ६ पुरोहिते पु०। तेषां समूहः अण्। ७ अथर्वसमूहे न०। अथर्वणा प्रोक्तमधीयते अण् तस्य तु बहुषु लुक्। अथर्वाण इत्येव। अथर्व्वणि विहितं कर्म अण्। अथर्ववेदविहिते ८ अभिचारादौ कर्मणि न “आथर्वणेन हन्ता च” स्मृतिः ९ तत्रत्ये कर्म्ममात्रे च “अग्नौ साक्षिण्याथर्वणेन विधिनाऽर्प्यमणम्” दशकुमा०।

आथर्वणिक = त्रि० अथर्व्वाणं वेदमधीते वेत्ति ठक् दाण्ड्या० नि०। अथर्ववेदपाठके विप्रे।

आदंश = पु० आ + दन्श–भावे यञ्। दंशने। “आदंशः सर्वलूतानामेतदादंशलक्षणम्” सुश्रु०। आदंशश्च दन्तादि साध्यव्यापारभेदः। आदश्यते अत्र आधारे घञ्। २ आदंशस्थाने “आदंशं स्वेदितं चूर्ण्णैः प्रच्छितं प्रतिसारयेत्” सुश्रु०। करणे घञ्। ३ दन्ते

आददि = त्रि० आ + दा–कि द्विश्च। आदानकर्त्तरि “बीलु द्वेषा अनुवश ऋणमाददि” ऋ० २, २४, १३।

आदर = पु० आ + दृ–कप। १ गौरवहेतुके कर्म्मणि सम्माने,। “न जातहार्द्देन न विद्विषादरः” किरा० “दरादराभ्यां दरकम्पिनो पपे” नैष०। “तद्दर्शनादभूच्छम्भोर्भूयान् दारार्थमादरः” कुमा०। २ आरम्भे ३ आसक्तौ। “तां प्रणामादरस्रस्तजाम्बूनदविभूषणाम्” कुमा०। ४ यत्ने च “ग्रहयन्त्रपताकाश्रीरपौरादरनिर्मिता” कुमा०।

आदरणीय = त्रि० आ + दृ–अनीयर्। सम्माननीये। तव्य। आदर्त्तव्योऽप्यत्र त्रि०।

आदर्श = पु० आदृश्यतेऽत्र दृश–आधारे घञ्। १ दर्पणे, तत्र हि विम्बपदार्थस्य प्रतिविम्बपतनात्, तत्संयोगेन नयनरश्मीनां परावर्त्तने वा विम्बग्राहितया विम्बं दृश्यते इति तस्य तथात्वम्। “आदर्शविम्बस्तिमितायताक्षी” कुमा० नेपथ्यदर्शिनश्छाया तस्यादर्शहिरण्मये” रघुः। आदृश्यते सम्यग्रूपेण ज्ञायते ग्रन्थार्थोऽस्मिन्। टीकायां ३ प्रतिरूपपुस्तकादौ यत्रत्यमक्षरसन्निवेश द्वष्ट्वा तदनुरूप मन्यल्लिख्यते तादृशे पुस्तके। “यथादर्शं तथा लिखित मिति भूरिप्रयोगः। आदर्शोगुणानाम् काद०। तत्र तदीयगुणान् द्वष्ट्वा परैस्तथागुणा आश्रीयन्त इति तस्य तथात्वम् ४ जनपदसोमाभेदे च। ततोभवादौ वुञ्। आदर्शकः। जनपदावधिसूचकस्थानभवे त्रि०।

आदर्शमण्डल = पु० आदर्शैव मण्डलमस्य। आदर्शाकार मण्डलयुक्ते सर्पभेदे सर्पभेदानुक्त्वा। “मण्डलनिनस्तु आदर्शमण्डलः श्वेतमण्डलः” इति सुश्रु० उक्तः। आदर्शोमण्डलमिव। २ मण्डलाकारे दर्पणे न०।

आदहन = न० आ + दह–भावे ल्युट्। १ दाहे २ हिंसायां ३ कुत्सने च। आदह्यतेऽत्र आधारे ल्युट्। ४ श्मशाने। “अर्द्धमादहनं प्राप्त आसीनोदक्षिणामुखः” छन्दो० प०। “आदह्यतेऽस्मिनिति आदहनं श्मशानम्” शु० त० रघु०।

आदातृ = त्रि० आ + दा–तृच्। ग्रहीतरि “दाता नित्यमना दाता सर्वभूतानुकम्पकः” या० आदाननित्याच्चादातुः” मनुः।

आदादिक = त्रि० अदादिगणे पठितः ठक्। अदादिगणपठिते धातुभेदे। “आदादिकस्य ग्रहणं” सि० कौ०।

आदान = न० आ + दा–भावे ल्युट्। ग्रहणे। “कुशाङ्कुरादान परिक्षताङ्गुली” कुमा०। “आदानं हि विसर्गाय सतां वारिमुचामिवं” रघुः। “आदानमप्रियकरं दानञ्च प्रियकारकम्” “आदाननित्याच्चादातुः” “निन्दितेभ्योधनादानं बाणिज्यं शूद्रसेवनम्” मनुः आदाने नियमविशेषाश्च स्मृतौ दर्शिताः। “भूमेः प्रतिग्रहं कुर्य्याद्भूमेः कृत्वा प्रदक्षिणम्”। विष्णुध०। प्रदक्षिणं न सर्ब्बस्या भूमेः किन्तु तत्रस्थायाः प्रदक्षिणावर्त्तनमात्रं भूमेरसन्निधाने तामुद्दिश्य प्रदक्षिणम् रघु० तत्रैव। “करे गृह्य तथा कन्यां दासदास्यौद्विजोत्तमाः!। करन्तु हृदि विन्यस्य धर्म्म्योज्ञेयः प्रतिग्रहः। आरुह्य च गजस्योक्तः कर्णे चाश्वस्य कीर्त्तितः। तथाचैकशफानान्तु सर्व्वेषामविशेषतः। प्रतिगृह्णीत गां पुच्छे पुच्छे कृष्णाजिनं तथा। आरण्याः पशवश्चान्ये ग्राह्याः पुच्छे विचक्षणैः। प्रतिग्रहमथोष्ट्रस्य आरुह्य च तथा चरेत्। वीजानां मुष्टिमादाय रत्नान्यादाय सर्व्वतः। बस्त्रं दशान्तमादद्यात् परिधाय तथा पुनः। आरुह्योपनाहौ यानमारुह्यैव च पादुके। ईशायान्तु रथो ग्राह्य श्छत्रदण्डौ च धारयेत्। आयुधानि समादाय तथा भूष्यं विभूषणम्। धर्म्मध्वजौ तथा स्पृष्ट्वा प्रविश्य च तथा गृहम्। अवतीर्य च सर्व्वाणि जलस्थानानि वै द्विजाः!। द्रव्याण्यन्यान्यथादाता स्पृष्ट्वा योब्राह्मणः पठेत्। प्रतिग्रहीता सावित्रीं सर्वत्रैव प्रकीर्त्तयेत्। ततस्तु सार्द्धं द्रव्येण तस्य द्रव्यस्य दैवतम्”। भूमिर्विष्णुदेवताकेत्यादि कीर्त्तयेदित्यर्थः। “समापयेत्ततः पश्चात् कामस्तुत्या प्रतिग्रहम्। विधिं धर्म्ममथोज्ञात्वा यस्तु कुर्य्यात् प्रतिग्रहम्। दात्रा सह तरत्येव कालदुर्गाणि वै द्विजः”। विष्णुध० “गां पुच्छे करिणं करे” मिता० वाक्यस्य प्रथमं करे गृहीत्वा पश्चादारोह इत्यर्थः एवमन्यत्र विरोधः समाधेयः। आदीयते औषधार्थं वैद्यैः आ + दा–कर्मणि ल्युट् ङीप्। २ हस्तिघोषायां स्त्री रत्नमाला।

आदाय = अव्य० आ + दा–ल्यप्। गृहीत्वेत्यर्थे “तेषां सर्व्वस्वमादाय राजा राष्टात् प्रवासनम्” मनुः। आ + दाभावे घञ्। २ आदाने पु०।

आदायचर = त्रि० आदाय चरति चर–ट उप० स०। गृहीत्वा चारिणि। “द्विषन् वनेचराग्र्याणां त्वमादायचरोवने” भट्टिः।

आदायिन् = त्रि० आ + दा–णिनि स्त्रियां ङीप्। ग्रहीतरि “योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणोधनम्। याजनाध्यापनेनापि यथा स्तेनस्तथैव सः” मनुः।

आदार = पु० आ + दृ–वेदे बा० घञ्। आदरे “आदारो वा सभानाम्” ऋ० १, ४६, ४।

आदारिविम्बी = स्त्री आदारिणी विम्बीव नि० पुंवत्। (आनेरी) अम्लवेतसतुल्यपुष्पायां लतायां “आदारिविम्बीं सुकदम्ब पुष्पीं विपाच्य सर्पिर्विपचेत् कषाये” सुश्रु०।

आदि = पु० प्रथमं दीयते गृह्यते आ + दा–कि। १ प्रथमे, २ प्राक्सत्तायाम्, ३ कारणे, ४ सामीप्ये, ५ प्रकारे, ६ अवद्धवे च। ७ आद्ये त्रि० अमरः। “जगदादिरनादिस्त्वम्” कुमा०। “अपएव ससर्जादौ तासु वीजमवासृजत्”। “वेदशब्देभ्यएवादौ पृथक्संस्थाश्च निर्म्ममे” “मरीच्यादींस्तथा मुनीन्” इति च मनुः। “कथमेतत् विजानीयां त्वमादौ प्रोक्तवानिति”। “अहमादिश्च भूतानाम्” इति च गीता। “भूवादयोधातवः” पा०। भूश्च वाश्च भूवौ आदिश्च आदिश्च आदी भूवौ आदी येषाम् आद्य आदि शब्दःप्रभृत्यर्थः द्वितीयःप्रकारार्थस्तेन भूप्रभृतयोवाप्रकाराः क्रियावाचित्वेन धातवैत्यर्थः। एवमेव वैया० भू०। आदिशब्देन गणोऽपि सूच्यते। “भ्वाद्यदादी जुहोत्यादिर्दिवादिः स्वादिरेव च। तुदादिश्च रुधादिश्च तनक्र्यादि चुरादयः” व्या० कारिका। तत्र भवः दिगा० यत्। आद्यः डिमच्। आदिमः। आदिभवे त्रि०।

आदिकर = त्रि० आदिं करोति अहेतादावपि ट स्त्रियां ङीप्। प्रथमकारके प्राक्सत्ताकर्त्तरि।

आदिकर्त्तृ = पु० आदिः कर्त्ता। आद्यकारके ईश्वरे “कस्माच्च ते न नमेरन् महात्मन्! गरीयसे ब्रह्मणोऽप्यादिकर्त्त्रे” गीता।

आदिकर्म्मन् = न० कर्म्म० स०। १ क्रियाकूटात्मकस्य कर्मणोऽवयवभूते प्रथमे कर्म्मणि प्रथममारभ्यमाणक्रियायाम्। “उदुपधाद्भ्वादेर्विभाषा भावादिकर्मणोः” “भावादिकर्म्म णोरन्यतरस्याम्” “आदिकर्म्मणि क्तः कर्त्तरि च” पा०। २ प्रथमजे कर्म्ममात्रे च। ब०। ३ त याकर्म्मयुक्ते त्रि०।

आदिकवि = पु० आदिराद्यःकविः। हिरण्यगर्मेतस्य प्रथमोत्पन्नत्वात् स्वयंप्रतिभातवेदत्वाच्च कवितया तथात्वम्। “तेने ब्रह्म हृदा य आदिकवये” भाग०। २ वाल्मीकौ च।

आदिकारण = न० आद्यं कारणम्। १ परमेश्वरे तदधीनत्वात् इतरकारणानाम् स हि प्रथसं स्वोपाधिभूताविद्यषा सृज्यमानजीवादृष्टवशादिदमित्थं कर्त्तव्यमिति ईक्षणपूर्ब्बकं स्रष्टव्यपदार्थाकारेण विवर्त्तमानः सूक्ष्मभूतानि प्रथममुत्पाद्य ततः स्थूलभूतानि भौतिकानि च सजर्जेत्यागमसिद्धम् इति वेदान्तिनः। सांख्यमते २ प्रधाने प्रधानं हि मूलकारणं तस्यैव महदाद्याकारेण परिणमनात्तथात्वम्। नैयायिकादिमते कारणशब्दस्य निमित्तार्थत्वे ईश्वरस्यैव तथात्वम्। समयायिकारणार्थत्वेपरमाणूनां मूलकारणत्वमिति भेदः इति तेन तन्मते ३ ईश्वरे ४ परमाणषु च।

आदिकाव्य = न० आदि आद्यं काव्यं पादचतुष्ठयरूपच्छन्दोबद्धं वाक्यम्। बाल्मीकिरचिते रामायणे तस्य चाद्यकाव्यत्वं दर्शितं तत्रैव आदिका० २ सर्गे “ददर्श क्रौञ्चयोस्तत्र मिथुनं चारुदर्शनम्। तस्माच्च मिथुनादेकमागत्यानुपलक्षितः। जघान बद्धानुशयो निषादो मुनिसंनिधौ। तं शोणितपरीताङ्गं चेष्टभानं महीतले। दृष्ट्वा क्रौञ्ची रुरोदार्ता करुणं खेपरिभ्रमा। तं तथा निहतं दृष्ट्वा निषादेनाण्डजं वने। मुनेः शिष्यसहायस्य कारुण्यं समजायत। ततः करुणवेदित्वाद्धर्म्मात्मा स द्विजोत्तमः। निशम्य करुणं क्रौञ्जीं रुदतीं तां जगाविदम्। मा निषाद! प्रतिष्ठां त्वमगमः शाश्वतीःसमाः। यत्क्रौञ्चमिथुनादेकमबधीः काममोहितम्। तस्येदमुक्त्वा वचनं चिन्ताभूत् तदनन्तरम्। शकुनं शोचता ह्येवं किमतेद्व्याहृतं मया मुहूर्त्तमिव च ध्यात्वा वाक्यं तत् प्रविमृष्य च। शिष्यमाह स्थितं पार्श्वे भारद्वाजमिदं वचः। पादैश्चतुर्भिः संयुक्तमिदं वाक्यं समाक्षरैः। शोचतोक्तं मया यस्मात् तस्माच्छ्लोको भवत्विति”। एवं चिन्तयतस्तस्याश्रमे स्वयं ब्रह्मणागत्योपदिष्टम्। “महर्षे! यदथं प्रोक्तस्त्वया क्रौञ्चबधाश्रयः। श्लोक एवास्त्वयं बद्धस्तव वाक्यस्य शोचतः। स्वच्छन्दादेव ते ब्रह्मन्! प्रवृत्तेयं सरस्वती। रामस्य चरितं कृत्स्नं कुरुत्वमृषिसत्तम”! इत्युपदिष्टस्य वाल्मोकेः रामायणरचनेमतिरभूत् यथाह तत्रैव। “तस्य बुद्धिरभूत् तत्र वाल्मीकेरथ धीमतः। कृत्स्नं रामायणं श्लोकैरीदृशैः करवाण्यहम्” इत्येवमभिनिवेशं कृत्वा कृत्स्नं रामायणं कृतमिति सर्गशेषे तत्रैवोक्तम् “ततः स रामस्य चकार कीर्तिमान्। समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारधीः परम्”। इह लोके चतुष्पादश्लोकस्यादौ तेनैव प्रचारणात् तत्कृतकाव्यस्यादिकाव्यत्वम्। वेदे तु बहूनामनुष्टुप्छन्दस्कानां श्लोकानां सत्त्वेऽपि लोके प्रथमप्रचारा भावात्तस्याद्यत्वम्। तेन “ईशा वास्यमिदं सर्व्वं यत् किञ्च जगत्यां जगत्। तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम्” इत्युपक्रमे “असुर्यानाम ते लोका अन्धेन तमसा वृताः। तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः” इत्यादयः श्लोकाः शु० य० वे० ४० अध्याये पठिताः। एवम् ऋग्वेदादावपि बहबः तथाविधाः सन्ति” तथा च वेदे सत्त्वेऽपि लोके तेन प्रथमप्रचारणात्तस्याद्यकाव्यत्वम्। यत् तु उत्तरचरिते “चित्रमाम्नायादन्याऽयं नूतनश्छन्दसामवतार” इति वर्ण्णितम् तत् यथा श्रुतार्थेऽसङ्गतमेव। अन्यः लोकसिद्धवाक्यादित्यध्याहारेण आम्नायात् आम्नायं वेदं मूलत्वेन प्राप्य छन्दसां नवावतारैति व्याख्याने तु न कोऽपि दोष इति युक्तम्।

आदिकेशव = पु० कर्म्म० काशीस्थे केशवमूर्त्तिभेदे “आदिकेशव पूर्ब्बेण स्वयमादित्यकेशवः” “आदिकेशवमुख्यांश्च केशवान् परितोष्य च” इति च काशी०।

आदिगदाधर = पु० १ काशीस्थे विष्णुमूर्त्तिभेदे “दत्तात्रेयेश्वरात् पूर्ब्बमेष आदिगदाधर” इति काशी० ३६ अ०। २ गयातीर्थस्थे विष्णुसूर्त्तिभेदे च। “आद्येन गदया चासौ यस्माद्दैत्यः स्थिरीकृतः। स्थित इत्येव हरिणा तस्मादादि गदाधरः” इति वायु० गया० २ अ० तन्नामनिरुक्तिः उक्ता। “गयाशिरश्छादयित्वा गुरुत्वादास्थिता शिला। कालान्तरेण व्यक्तश्च स्थित आदिगदाधरः। तथा व्यक्तोऽव्यक्त रूपी आसीदादौ गदाधरः। आदिरादौ पूजितोऽत्र देवैर्ब्रह्मादिभिर्यतः। पाद्यार्घगन्धपुष्पाद्यैरत आदि गदाधरः” इति गारु० पु० निरुक्तिः। “आगत्य विष्णुः क्षीराब्धेः शिलायां संस्थितोऽभवत्। शिलायां निश्चलत्वाय स्वयमादिगदाधरः” वायुपुराणम्।

आदिजिन = पु० कर्म० स०। ऋषभदेवे हेम०।

आदितस् = अव्य० आदि + तसि। १ आदौ इत्यर्थे “पतीन् प्रजानामसृजन्महर्षीनादितोदश” मनुः। आद्या० पञ्चम्यास्तसिः। २ आदेरित्यर्थे च। “इदं शास्त्रन्तु कृत्वादौ मामेव स्वयमादितः” मनुः आदित आदिमारभ्येत्यर्थः।

आदिताल = पु० कर्म्म०। “एकएव लघुर्यत्र आदितालः स लथ्यते। गुरुस्तत्परतोवाच्यः प्रायेणैतन्निदर्शनम्” सङ्गीतशास्त्रलक्षिते तालभेदे।

आदितेय = पु० अदित्या अपत्यम् ढक्। १ सुरमात्रे २ सूर्य्ये च अदितिजशब्दे विवृतिः पृ० २१५। “यदेनमदधुर्यज्ञियासो दिवि देवाः सूर्य्यमादितेयम्” ऋ० १०, ८८, ११।

आदित्य = पु० अदितेरपत्यं ण्य। १ देवमात्रे “तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवने संप्रयन्ति” छा० उ०। २ सूर्य्ये च “आदित्योब्रह्मेत्यादेशः” छा० उ० “जिगीषुरेष दिनकृदादित्येष्विवकल्पते इति” माघः। “अमीच कथमादित्याः प्रतापक्षतिशीतलाः” कुमा०। ३ तदधिष्ठिते गगने दिवानिशं बंभ्रम्यमाणे लोकप्रकाशकरे तेजो मण्डले च “अग्नौ प्रस्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” मनुना अग्निहुतद्रव्याणां हविराज्यादीनां परमाणु मात्रतयाऽवस्थितानां दग्धशेषाणां सूर्य्यरश्मिनाकर्षणेन सूर्य्यलोकप्राप्त्या वृष्टिहेतुत्वमुक्तम् तच्च मण्डलार्थपरत्वएव सम्भवति “अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम” “अथ यदेवैतदादित्यस्य शुक्लं भाः सैव सा, अथ यन्नील कृष्णं तदम” इति च छा० उ०। अत्र शुक्लकृष्णभायुक्ततया मण्डलपरत्वं गम्यते। “असौ वा आदित्यो देवमधु” छा० उ० अत्र च मण्डलपरत्वम् उत्तरत्र आकाशे रश्मि सम्बन्ध कीर्त्तनात् स्पष्टमेव। “ज्योतिश्चरणाभिधानात्” शा० सू० भाष्ये च चक्षुर्वृत्तेर्निरोधकं शार्व्वरादिकं तमौच्यते तस्या एवानुग्राहकमादित्यादिकं ज्योतिः” इत्यादित्यस्य चक्षुर्वृत्तेरनुग्राहकतथा ज्योतिःपदार्थपरत्वमुक्तम्। ४ आदित्यमण्डलार्न्तर्गते हिरण्यवर्ण्णे परमपुरुषे” विष्णौ “स्वयंभूः शम्भुरादित्यः” विष्णुस०। विष्णोश्चादित्यशब्दवाच्यत्वे कारणमुक्तंभाष्येयथा “आदित्यमण्डलान्तःस्थोहिरण्मयः पुरुष आदित्यः, द्वादशादित्येषु विष्णुर्वा, “आदित्यानामहं विष्णुरिति” स्मृतेः, अदितेरखण्डिताया महत्या अयं पतिरिति वा “इयं वा अदितिर्मही” “देवी विष्णुपत्नीति” श्रुतेः यथादित्यएकएवानेकजलेष्वनेकवत् प्रतिभासते एवमनेकेषु शरीरेषु एकएवानेकवत् प्रतिभासत इत्यादित्यसाधर्म्म्याद्वा आदित्यः” तत्र हिरण्म यपुरुषस्य सूर्थ्यमण्डलमध्यवर्त्तित्वे च “य एषोऽन्तरादित्ये हिरण्मयः पुरुषोदृश्यते हिरण्यश्मश्रुः हिरण्यकेश आप्रणखात् सर्वएव सुवर्णः” इति छो० उ० श्रुतिर्मानम् “अथ य एषोऽन्तरादित्ये आदित्यस्यान्तर्मध्ये हिरण्मयो हिरण्मय इव हिरण्मयो नहि सुवर्णविकारत्वम् देवस्य सम्भवति, ऋक्सामगेष्णत्वापहतपाप्मत्वासम्भवात्। नहि सोवर्णेऽचेतने पाप्मादिप्राप्तिरस्ति येन प्रतिषिध्येत चाक्षुषे चाग्रहणात्। अतो लुप्तोपम एव हिरण्मयशब्दो ज्योतिर्म्मय इत्यर्थः। उत्तरेष्वपि समाना योजना। पुरुषः पुरि शयनात्, पूरयति वा स्वेनात्मना जगदिति। दृश्यते निवृत्तचक्षुर्भिः समाहितचेतीभिर्ब्रह्मचर्य्यादिसाधनापेक्षैः। तेजस्विनोऽपि श्मश्रुकेशादयः कृष्णाः स्युरित्यतो विशिनष्टि हिरण्यश्मश्रुर्हिरण्यकेश इति। ज्योतिर्मयान्येवास्य श्मश्रूणि केशाश्चेत्यर्थः” शाङ्करभाष्यम्। उपासकानामतिवाहनाय ईश्वरनियुक्ते अर्च्चिरादिमार्गस्थिते आतिवाहिके५ देवभेदे च “संवत्सरादादित्यमादित्याच्चन्द्रमसम्” छा० उ०। आदित्याश्च द्वादश यथोक्तं विष्णुधर्मोत्तरे भारते च “घाता मित्रोऽर्य्यमा रुद्रो वरुणः सूर्य्यएव च। भगो विवस्वान् पूषा च सविता दशमः स्मृतः। एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते” इति विष्णुध०। “धातार्य्यमा च मित्रश्च वरुणोऽंशुर्भगस्तथा। इन्द्रो विवस्वान् पूषा च पर्ज्जन्यो दशमः स्मृतः। ततस्त्वष्टा ततो विष्णुरजघत्यो जघन्यज” इति भा० आ० प० कल्पभेदादनयोर्व्यवस्था। मासभेदे आदित्यभेदा आदित्यहृदये दर्शिता यथा “अरुणो माघमासे तु सूर्य्यो वै फाल्गुने तथा। चैत्रे मासि च वेदज्ञो वैशाखे तपनः स्मृतः। ज्यैष्ठे मासि तपेदिन्द्रः आषाढे तपते रविः। गभस्तिः श्रावणे मासि यमोभाद्रपदे तथा। इषे हिरण्यरेताश्च कार्त्तिके च दिवाकरः। मार्गशीर्षे तपेच्चित्रः पौषे विष्णुः सनातनः। इत्येते द्वादशादित्याः काश्यपेयाः प्रकीर्त्तिताः”। ६ अर्कवृक्षे पु०। आदित्यस्यापत्यम् ण्य यलोपः। ७ आदित्यापत्ये पुंस्त्री०।

आदित्यकेतु = पु० धृराष्ट्रपुत्रभेदे तद्गणनायां भा० आ० प० ६७ अ०। “आदित्यकेतुर्बह्वाशी नागदत्तानुयायिनौ” ६ त०। आदित्यस्य केतौ अरुणे।

आदित्यकेशव = पु० आदित्यपूजितः केशवः। काशीस्थे “केशवमूर्त्तिभेदे “आदिकेशवपूर्व्वेण स्वयमादित्यकेशवः” काशीख०।

आदित्यपत्र = पु० आदित्यस्य अर्कवृक्षस्य पत्रमिव पत्रमस्य। क्षुपभेदे। ६ त०। अर्कवृक्षपत्रे न०।

आदित्यपर्णिनी = स्त्री आदित्यवर्ण्णं नित्यं पर्णमस्त्यस्या इनि। “मूलिनी पञ्चभिः पत्रैः सुरक्ता शुककोमलैः। आदित्यपर्ण्णिनी ज्ञेया सदादित्यानुवर्ण्णिनी” “आदित्यपर्ण्णिनी ज्ञेया तथैव हि हिमक्षये” सुश्रुतोक्तलक्षणायामोषधौ।

आदित्यपुराण = न० आदित्येनोक्तं पुराणम्। उपपुराणभेदे। उपपुराणगणनायाम् “माहेश्वरं तथा साम्बं सौरं पाराशराह्वयम्”। कौर्म्मे सौरत्वेनदं पठितम्। मत्स्यपुराणे तु “यत्रसाम्बं पुरस्कृत्य भविष्योत्थकथानकम्। प्रीच्यते तत् पुनर्लोके साम्बमेव शुचिव्रतम्। एवमादित्यसंज्ञं च तत्रैव परिपठ्यते” आदित्यसंज्ञमित्युक्तं देवीपु० “पराशरोक्तमपरं मारीचं भास्कराह्वयम्” भास्करत्वेनोक्तं तथा चादित्यपुराणस्यैव नामान्तरं सौरं भास्करञ्चेत्यादि। अधिकमुपपुराणशब्दे वक्ष्यते। एतदीयप्रतिपाद्यविषयाः सौरशब्दे दृश्याः।

आदित्यपुष्पिका = स्त्री आदित्यवर्ण्णं रक्तं पुष्पमस्याः। रक्तपुष्पे अर्कवृक्षे।

आदित्यभक्ता = स्त्री आदित्येभक्ता। (हुढुडिया) अर्कवल्लभायाम् ओषृधौ।

आदित्यव्रत = न० आदित्यस्य तदुपासनार्थं व्रतम्। सूर्य्योपासनार्थे व्रतभेदे। आदित्यव्रतस्य ब्रह्मचर्य्यमस्य ठञ्। आदित्यव्रतिकः तद्व्रतार्थब्रह्मचर्य्ययुक्ते त्रि०।

आदित्यसूनु = पु० ६ त०। सूर्य्यपुत्रे १ सुग्रीवे २ कर्ण्णे, ३ यमे ४ शनैस्वरे च अरुणात्मजशब्दे विवृतिः पृ०।

आदित्सु = पु० आ + दा–सन्–उ। ग्रहीतुमिच्छौ, “आदित्सुभि र्नूपुरशिञ्जितानि” कुमा०।

आदिदेव = पु० आदौ दीव्यति स्वयं राजते दिव–अच् ७ त०। १ नारायणे २ शिवे। आदिः कारणं देवः। ३ आदिकारणे परमात्मनि। “सहास्रात्मा मया योव आदिदेव उदाहृतः” या० स्मृ०। “पुरुषं शास्वतं दिव्यमादिदेवमजं विभुम्” गीता। “वासुदेवो वृहद्भानुरादिदेवः पुरन्दरः” विष्णुस० “आदिः कारणं देव इत्यादिदेवः दानादिगुणवान् वा” भा० “देवोदानात्दीपनात् भवतीति” यास्कोक्तदेवशब्दनिरुक्तिमाश्रित्य भाष्ये तथोक्तम्।

आदिदैत्य = पु० कर्म्म०। हिरण्यकशिपौ दैत्ये तस्य देतेः प्रथमजत्वात्तथात्वम्। “एक एव दितेः पुत्रः हिरण्यकशिपुः पुरा” भा० आ० प० ६५ अ०। आदिदैत्योमहावीर्य्यो हिरण्यकशिपुः पुरा” भा० व० प० १०४ अ०।

आदिन् = त्रि० अत्तीति अद–णिनि। भक्षके। स्त्रियां ङीप्।

आदिनब = पु० आदीनवस्य पृ० वेदे ह्रस्वः। आदीनशब्दार्थे “आदिनवं प्रतिदीव्ने घृतेनास्मा~ अभिक्षर” अथ० ७, ११०, ४।

आदिपर्व्वन् = न० आदि आद्यं पर्व्व। महाभारतान्तर्गते आद्ये पर्वणि। “इत्येतदादिपर्वोक्तं प्रथमम्बहुविस्तरम्” भा० आ०।

आदिपुराण = न० आदि आद्यं पुराणम् कर्म्म०। पुराणभेदे सर्वेषामष्टादशानां पुराणानामुपपुराणानाञ्चादिभूते चतुर्लक्षात्मके ब्रह्मनिर्म्मिते पुराणभेदे। नारदपुराणे उपसंहारपादशेषे मरीचिं प्रति ब्रह्मवाक्यम् “अष्टादशमनौपम्य सारात् सारतरं द्विज!। ब्रह्माण्डञ्च चतुर्लक्षं पुराणत्वेन पठ्यते। तदेव व्यस्य गदितमत्राष्टादशधा पृथक्। पाराशर्य्येण मुनिना सर्वेषामपि मानद”। वस्तुग्रहाय तेनैव मुनीनां भावितात्मनाम्। मत्तः श्रुत्वा पुराणानि लोकेभ्यः प्रचकाशिरे। मुनयो धर्मशोलास्ते दीनानुग्रहकारिणः। मया चेदं पुराणन्तु वसिष्ठाय पुरोदितम् तेन शक्त्रिसुतायोक्तं जातूकर्ण्णाय ते न च। व्यासोलब्ध्वा ततश्चैतत् प्रभञ्जनमुखोद्गतम्। प्रमाणीकृत्य लोकेऽस्मिन् प्रावर्त्तयदनुत्तमम्” तथा च व्यासोक्तब्रह्माण्डन्तु द्वादशसाहस्रं तस्यैव संक्षेपार्थप्रतिपादकम्। एवञ्च तस्यैव चतुर्लक्षात्मकस्य सर्वपुराणमूलतया आद्यत्वात् आदिपुराणत्वम्। देवलोके तु आदिपुराणस्य शतकोटिश्लोकात्मकता यथोक्तं तत्रैव। प्रथमपादे मरीचिं प्रति ब्रह्मवाक्यम्। “शृणु वत्स! प्रवक्ष्यामि पुराणानां समुच्चयम्। यस्मिन् ज्ञाते भवेज्ज्ञातं वाङ्मयं सचराचरम्। पुराणमेकमेवासीत् सर्वकल्पेषु मानद!। चतुवर्गस्य वीजञ्च शतकोटिसुविस्तरम्। प्रवृत्तिः सर्वशास्त्राणां पुराणादभवत्ततः। कालेन ग्रसनं दृष्ट्वा पुराणस्य महामबिः। हरिर्व्यास स्वरूपेण जायते च युगे युगे। चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा। तदष्टादशधा कृत्वा भूलोके निर्दिशत्यपि। अद्यापि देवलोक तु शतकोटिसुविस्तरम् अस्त्येव तस्य सारस्तु चतुर्लक्षेण वर्ण्यते” एवञ्च तदानों लोकप्रसिद्धचतुर्लक्षात्मकरप ब्रह्माण्डनामकपुराणान्तररयैव व्यासप्रणीत चतुर्लक्षात्मकाष्टादशपुराणानामादिसूतत्वादादिपुराणत्वेन प्रसिद्धमासीत्। तच्च क्रमशौच्छिन्नप्राय संस्कृत शालायान्तु तस्य स्वल्पांशमात्रस्य सत्त्वेऽपि सर्वांशस्य प्रायशः कुत्रापीदानीमलाभात् न तत्रत्यप्रतिपाद्यविषया वण्णायतुं शक्याः। हेमाद्रि माधवादिभिरादित्यपुराणनाम्ना बहूनि वचनानि लिखितानि। तेषां काले च तत्पुराणस्य प्रचार आसीत् क्रमश इदानीमुच्छिन्नप्रचारतया समग्रलाभासम्भवः इति तत्रत्यप्रतिपाद्यविषयप्रदर्शनादुपरतमस्माभिः।

आदि(पु)पूरुष = पु० आदौ पुरि देहे, वसति वस–उषन् स्वेनात्मना पूरयति जगत् पूर–उषन् वा पृ० वा ह्रस्वः। आदिजीवे १ हिरण्यगर्भे २ नारायणे च। “ते च प्रापुरुदन्वन्तं बुबुधे चादिपु(पू)रुषः” रघुः। “दैत्ये श्वरसभां गत्वा पाणिं संस्पृश्य पाणिना। दैत्यानामादिपुरुषः मुरारिर्दितिनन्दनः” भा० व० प० २७१ अ०। ह्रस्वाभावे पूरुषोऽप्यत्र “तमर्घ्यमर्घादिकयादिपूरुषः” माघः।

आदिभव = पु० आदौ भवतीति भू–अच्। १ हिरण्यगर्भे “हिरण्यगर्मःसमवर्त्तताग्रे” इति श्रुतौ तस्याग्रभवत्वोक्तेः तथात्वम्। २ सर्व्वस्यादिः कारणं भवति। सर्व्वस्य कारणभूततयाविर्भूते ३ विष्णौ च “रसातलादादिभवेन पुंसा” रघुः २ अग्रजमात्रे त्रि०।

आदिम = त्रि० आदौ भवः आदि + डिमच्। आदौ भवे।

आदिमत् = त्रि० आदिरस्त्यस्य मतुप् स्त्रियां ङीप्। आदियुक्ते १ सकारणे २ आदिसीमायुक्ते च।

***