वाचस्पत्यम्
आचम्य to आजू
links:
Menu अ–ह
Prev आग–आचम
Next आज्ञ–आति
आचम्य
आचार
आचारद
आज
UpasanaYoga
.org

आचम्य = अव्य० आ + चम–ल्यप्। १ आचमनं कृत्येत्यर्थे आ + चम–कर्मणि यत्। २ आचमनीये जलादौ त्रि०।

आचय = पु० आ + चि–अच्। दूरस्थस्य पुष्पादेश्चयने। हस्तेन चयने तु घञ् आचाय इत्येव। तत्र नियुक्तः आकर्षादि० कन्। आचयकः आचितौ नियुक्ते त्रि०।

आचरण = न० आ + चर–ल्युट्। १ आचारे “अधीतिबोधाचरणप्रचारणैः” नैष०। “आचरत्यनेन करणे ल्युट्। २ रथे ३ शकटे च त्रि०। “यथा प्रयोग्य आचरणे युक्तः एवमस्मिन् शरीरे युक्तः” छा० उ०। “प्रयुज्यते इति प्रयोग्योऽश्वोवलीवर्द्दोवा आचरत्यनेन आचरणो रथोऽनोवा तस्मिन् आचरणे युक्तः तदाकर्षणाय, एवमस्मिन् शरीरे रथस्थानीये प्राणः पञ्चवृत्तिः इन्द्रियमनोबुद्धियुक्तः प्रज्ञात्मा विज्ञान रूपक्रियामूर्च्छितात्मा युक्तः स्वकर्म्मफलोपभोगनिमित्तं नियुक्तः ईश्वरेण राज्ञेव सर्वाधिकारे दर्शनश्रवणचेष्टा व्यापारेऽधिकृत” इति श० भा०।

आचरित = न० आ + चर–भावे क्त। १ आचारे “वाग्देवताचरित चित्रितचित्त सद्मा” जयदेवः। २ ऋणिकादृण ग्रहणोपायभेदे। “धर्मेण व्यवहारेण छलेनाचरितेन च। प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च” मनुः। “तत्र ऋणिको यदि निःस्वो व्यवहारेण दापयितव्यः अन्यत् कर्म्मोपकरणं धनं दत्त्वा कृषिबाणिज्यादिना व्यवहारयितव्यः तदुत्पन्नं धनं तस्मात् गृह्णीयादिति” मेधा०। छसाचरितबलान्याह वृह०। “छद्मना याचितं चार्थमानीय ऋणिकाद्धनी। अन्याहृतादि व्याहृत्य दाप्यते तत्र सोपधिः। दारपुत्रपशून् हृत्वा कृत्वा द्वारोपवेशनम्। यत्रार्थोदाप्यतेऽर्थं स्वं तदाचरितमुच्यते। बद्ध्वा स्वगृहमानीय ताडनार्थै रुपक्रमैः। ऋणिकोदाप्यते यत्र बलात्कार स उच्यते” कुल्लू० धृता। कर्मणि घञ्। ३ अनुष्ठिते त्रि०। “जलं वामकरे कृत्वा या सन्ध्याऽऽचरिता द्विजैः” काशो।

आचरणीय = त्रि० आ + चर–अनीयर्। अनुष्ठेये वधपि शुद्धं लोकविरुद्धं नाचरणीयं नाचरणीयमिति” स्मृतिः। तव्य। आचरितव्यमप्यत्र त्रि०।

आचर्य्य = न० आचर्य्यतेऽत्र आ + चर–आधारे यत्। अनुष्ठानयोग्ये देशे “आश्चर्य्यमनित्ये” पा० सू० उक्तेः आश्चर्य्यम्। अद्भुते त्रि०।

आचान्त = त्रि० आ + चम–क्त। आचमनकर्त्तरि “१ आचान्तः पुनराचामेत्” काशी० स्मृतिश्च। कृतमाचमनं यस्य तादृशे २ जलादौ च “आचान्तोदकाय गौ- रिति नापितस्त्रिर्ब्रूयात्” संत० गोभिलसूत्रम्।

आचाम = पु० आ + चम–भावे घञ् वा वृद्धिः। आचमने कर्म्मणि घञ्। २ भक्ष्ये ३ भक्तनिस्रावे मण्डे(माड) “पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम्। एकरात्रोपवासः स्यात् कृच्छ्रः सौम्योऽयमुच्यते” या०। पिण्याकः निस्मृततैलस्तिलः अदननिस्रावोदस्विदुदकसक्तूनां पंञ्चानामैकैकं प्रतिदिवसमुपभुज्य षष्ठेऽह्नि उपसेदिति” मिता०। “पिण्याकः खलिः आचामः भक्तभण्डः” प्रा० वि०। “आचाममथ पिण्याकं तक्रञ्चोदकसक्तुकान्। त्र्यहं त्र्यहं प्रयुञ्जानोवायुभक्षस्त्र्यहद्वयम्। एकविंशतिरात्रैस्तु तुला पुरुष उच्यते” यमः। ४ सौत्रामणीयागाङ्गे सुरासाधने भक्तमण्डे च “कृत्वा तांश्च ब्रीहिश्यामाकौदनयोः पृथगाचामौ निषिच्य चूर्ण्णैः संसृज्य निदधाति तन्मासरम्” कात्या० १९, १, २०। “दक्षिणेन द्वारेण प्रवेश्याग्न्यागारं नग्नहु चूर्ण्णानि कृत्वा। लग्नहुः किण्व उच्यते। तांश्च शष्पादीं श्चूर्ण्णयित्वा व्रीहिश्यामाकौदनयोः पृथगाचामौ निषिच्य चूर्णैः संसृज्य निदधाति तन्मासरमुच्यते। ब्रीहियवाभ्याञ्च सुरा निष्पाद्यते सा च यागसाधनम् तेन सा तद्धर्स्मैरभिसंबध्यते। अतस्तयोश्चतुर्मुष्टिग्रहणपूर्ब्बकं पृथगोदनौ निष्पाद्येते। नग्नहुब्दार्थ माह। “सज्जत्वक्त्रिफला चैव शुण्ठी चैव पुनर्नवा। चतुर्ज्जातकसंयुक्ता पिप्पली गजपिप्पली। वंशोऽवका वृहच्छत्रा चित्रकं चेन्द्रवारुणी। अश्वगन्धां स मुत्पाद्य मूलान्येतानि निर्द्दिशेत्। धान्यकं च यवानीं च जीरकं कृष्णजीरकम्। द्वे हरिद्रे वचा चैव विरूढा ब्रीहयो यवाः”। क्रयणानन्तरं शप्पादोन्यादाय दक्षिणेन हृत्वाग्न्यागारं प्रवेश्य लग्नहुचूर्ण्णानि कृत्वा सज्जत्वगाद्यौषधानि तूष्णीं पिष्ट्वा तान् शष्पतोक्मलाजान् चूर्ण्णीकृत्य दर्शपार्ण्णमासधर्मेणं पात्रासादनादि। श्यामाकचतुर्मुष्टिकग्रहणपूर्ब्बकंफलीकरणान्तं समन्त्रकं कृत्वा वहुतरोदके पृथक् पृथक् चरू पक्त्वा शृतालम्भनानान्तं ब्रीहिश्यामाकौदनयोः पृथगाचामौ परिषिच्य पृथग्भिन्नयोः पात्रयोश्चर्व्वोर्मध्यादति रिक्तमुष्णोदकम् (मण्डम्) अवस्राव्य तदुदकं (मण्डम्) लग्नहुप्रभृतिभिश्चतुभिश्चूर्ण्णैः संसृज्य निदधाति स्थापयति तन्मासरं तस्य चूर्ण्णसंसृष्टस्याचामस्य मासरमिति संज्ञा” “एवामाचामयोश्चूर्ण्णसंसर्गानन्तरमिति” च कर्कः। सौत्रामणीशब्दे तदीयसुरासाधनसंस्कारप्रकारोवक्ष्यते

आचार = पु० आ + चर–भावे घञ। १ आचरणेअमुष्ठाने स च अनुष्ठाननिवृत्त्यात्मकभावाभावरूपः तत्र सदाचारः वेदस्मृत्यादिविहितः तत्र निषिद्धश्च कदाचारः इति भेदात् द्विविधः। सदाचारलक्ष्मोक्तं काशी०। “सदाचारे हि सर्वोऽर्थो नाचारात् रिष्यते पुनः। तस्मात् विप्रेण सततं भाव्यमाचारशालिना। विद्वेषरागरहिता अनुतिष्ठन्ति यं द्विजाः। विद्वांसस्तं सदाचारं धर्ममूलं विदुर्बुधाः”। प्रसङ्गादाचारपदार्थो गिरूप्यते तत्र शा० सू० भा०। “चरणादितिचेन्नोपलक्षार्थेति कार्ष्णाजिनिः” सू०। “अथापि स्यात् यां श्रुतिरनुशंयसद्भावप्रतिपादनायोहृता “तद्यैहरमणीयचरणा इति” सा खलु चरणाद्योन्यापत्तिं दर्शयति नानुशयात्” अन्यच्चरणमन्योऽनुशयः “चरणं चारित्रम् आचारःशीलमित्यनर्थान्तरम्। अनुशयस्तु भुक्तफलात्कर्म्मणोऽतिरिक्तं कर्म्माभिप्रेतम्। श्रुतिश्च कर्मचरणे भेदेन व्यपदिशति “यथाऽऽचारी तथा भवतीति यान्यनवद्यानि कर्म्माणि तानि सेवितव्यानि नेतराणि यान्यस्माकं सुचरितानि तानिं त्वयीपास्यानीति च”। तस्माच्चरणाद्योन्यापत्तिश्रुतेर्नानुशयसिद्धिरितिचेन्नैष दोषः यतोऽनुशयलक्षणार्थैवेषा चरणश्रुतिरिति कार्ष्णाजिनिराचार्योमन्यते” भा०। “आनर्थक्यमिति चेन्न तदपेक्षत्वात्” शा० सू०। “स्यादेतत्कस्मात्पुनश्चरणशब्देन श्रौतं शीलं विहाय लाक्षणिकोऽनुशयः प्रत्याय्यते। ननु शीलस्यैव तु श्रौतस्य विहितप्रतिषिद्धस्य साध्वसाधुरूपस्य शुभाशुभयोन्यापत्तिः फलं भविष्यति अवश्यञ्च शीलस्यापि किञ्चित् फलमभ्युपगन्तव्यम् अन्यथा ह्यानर्थक्यमेव शीलस्य प्रसज्येतेति चेन्नैष दोषः कुतः तदपेक्षत्वात् इष्टादि हि कर्मजातं चरणापेक्षं न हि सदाचारहीनः कश्चिदधिकृतः स्यात्। “आचारहीनं न पुनन्ति वेदा” इत्यादि स्मृतिभ्यः पुरुषार्थत्वादप्याचारस्य नानर्थक्यम्। इष्टादौ हि कर्म्मजाते फलमारभमाणे तदपेक्षएवाचारस्तत्रैव कञ्चिदतिशयमारप्स्यते कर्म च सर्व्वार्थकारीति श्रुतिस्मृतिप्रसिद्धिः। तस्मात्कर्म्मैव च शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारणमिति कार्ष्णाजिनेर्मतम्। न हि कर्म्मणि संभवति शीलाद्योन्यापत्तिर्युक्ता न हि पद्भ्यां पलायितुं पारयमाणोजानुभ्यां रंहितुमर्हतीति” भा०। “सुकृतदुष्कृते एवेति वादरिः” शा० सू० “वादरिस्त्वाचार्य्यः सुकृतदुकृते एव चरणशब्देन प्रत्याय्येते इति मन्यते चरणमनुष्ठानं कर्मेत्यनर्थान्तरम्। तथा ह्यविशेषेण कर्म्ममात्रे चरतिः प्रयुज्यमानो दृश्यते यो हि इष्टादिलक्षणं पुण्यं कर्म करोति तं लौकिका आचक्षते धर्म्मं चरत्येष महात्मेति। आचारोऽपि धर्म्मविशेषएव। भेदव्यपदेशस्तु कर्म्म च रणयोर्ब्राह्मणपरिव्राजकन्यायेनाप्युपपद्यते। तस्माद्रमणीयचरणाः पुण्यकर्म्माणः कपूयचरणा निन्दितकर्म्माण इति निर्णयः” मा०। अत्र शीलाचारयोः पर्य्यायत्वोक्त्या “वेदोऽखिलो धर्म्ममूलं स्मृतिशीले च तद्विदाम्। आचारश्चैव साधूनामात्मनस्तुष्टिरेव च” मनुवचने शीलस्य पृथगुक्ति र्ब्राह्मणपरिव्राजकन्यायेनेति बोध्यम्। अतएवानन्तरं मनुनैव “वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः। एतच्चतुर्विधं प्राहुः साक्षाद्धर्म्मस्य लक्षणम्” शीलस्याचारान्तर्भावाभिप्रायेण चतुष्कस्य धर्म्ममूलत्वमुक्तम्। शीलञ्च “ब्रह्मण्यता देवपितृभक्तता, सौम्यता अपरोपतापिता अनसूयता मृदुता, अपारुष्यं मैत्रता, प्रियवादित्वं कृतज्ञता, शरण्यता, कारुण्यं प्रशान्तिश्चेति त्रयोदशविधं शीलमिति” हारीतोक्तं तच्चाचार भेद एव। मेधातिथिस्तु शील समाधाविति धातोरूपमुक्त्वा “शीलं समाधानम् समाधानञ्च मानसोव्यापारः यच्चेतसोऽन्यविषयेषु विक्षेपपरिहारेण शास्त्रार्थनिरूपणप्रवणता तच्छीलमुच्यते” इत्याह। तदप्याचार एवान्तर्भवति। तत्र सदाचाराणां वेदस्मृतिमूलकत्वेन तयोरेव तन्मूलत्वं स्यान्नाचांराणामित्याङ्क्य यादृशाचारस्य धर्म्ममूलत्वं तमाह मेधातिथिः। “आचारोव्यवहारोऽनुष्ठानम्ं। यत्र श्रुतिस्मृतिवाक्यानि न सन्ति शिष्टाश्च धर्म्मेबुद्ध्याऽनुतिष्ठन्ति तदपि वैदिकवत् प्रतिपत्तव्यम् यथा विवाहादौ कङ्कणधारणादि माङ्गलिकत्वेन यत् क्रियते। याच विवाहयिष्यमाणायाः कन्यायाः प्रख्यातवृक्षचतुष्पथादिपूजा देशभेदेनेत्यादि” एवं होलकाद्याचरणम्। ग्रन्थादौ देवतास्तुतिनमस्कारादिमङ्गलाचरणञ्च बोध्यम्। स्पष्टमुक्तं प्रयोगपारिजाते स्कन्धपु०। “न यत्र साक्षाद्विधयो न निषेधाः श्रुतौ स्मृतौ। देशाचारकुलाचारैस्तत्र धर्म्मो निरूप्यते” अत्र न निषेधा इत्युक्तेः श्रुतिस्मृत्यो र्विरोधे आचारस्य न प्रामाण्यमिति गम्यते। तच्चानुपदं विवेक्तव्यम्। स च देशभेदात् कुलभेदात् पुरुषमेदाच्च नानाविधः प्रातिस्विकरूपेण गणयितुमशक्यः। श्रुतिस्मृत्यविरुद्धः सर्व्वोऽपि सदाचारः धर्म्म मूलमतएवास्यात्याज्यत्वमुक्तम् “देशानुशिष्टं कुलधर्म्ममग्रां स्वजातिधर्म्मं न हि संत्यगेच्च”। एवं पित्र्याद्याचारोऽपि धर्म्ममूलतया ग्राह्यः “येनास्य पितरोयाता येन याताः पितायहाः तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यते” मनूक्तेः। अत्र सम्मार्गमिति विशेषणात् कदाचारो न धर्म्ममूलमिति गम्यते ततश्च षोडशिग्रहणाग्रहणयोरुदितानुदितहोमयोः वैकल्पिकयोरेव पित्राद्याचारस्य प्रामाण्यं तदज्ञाने आत्मतुष्टेः इति द्रष्टव्यम्। तदयं निर्गलितार्थः। यत्र श्रुतिस्मृतिद्वैधम् तत्र सदाचारदर्शनेन शास्त्रार्थं निश्चित्य सद्भिराचरितमार्गेणाचरणं प्रथमः कल्पः। तदसम्भवे तु पित्राद्याचारदर्शनेन एकतरपक्षाश्रयणं तस्याप्यज्ञाने आत्मतुष्टियेत्र तदेवाचरितव्यमिति। यत्र साक्षात् श्रुतिस्मृती मूलं नोपलभ्येते एवं विरुद्धार्थश्रुतिस्मृती वा नोलभ्येते तत्रापि सदाचारस्य धर्ममूलत्वम् “न यत्र साक्षाद्विधयो न निषेधाः श्रुतौ स्मृतौ” इति प्रागुक्तस्कान्दवाक्यात् यत्र तु विरुद्धार्थश्रुतिस्मृती उपलभ्येते तत्र न सदाचारः प्रमाणम् यथा दाक्षिणात्यानां शिष्टानां मातुलकन्यादि परिणयनाद्याचारः। स त्वनाचारोऽपि तद्देशीयानां स्वल्पदोषायेति व्यवस्थापितमनाचारशब्दे १५७ पृष्ठे दृश्यम्। सदाचारस्य च स्मृतेरिव न साक्षात् श्रुतिकल्पकता किन्तु स्मृतिद्वारैवेति जैमिनीयन्यायमालायां प्रथमाध्याये निरूपितं तत्रैव विस्तरो दृश्यः। एवञ्च श्रुतेः स्मृत्युपजीव्यत्ववत् आचारस्य स्मृत्युपजीव्यतया ततोदुर्ब्बलत्वम् दुर्बलेन च तेन बलीयसोबाधायोगाच्च नाचारेणोपजीव्यजातीयस्मृतिबाधोगुक्तः अतएव जैभिनिना “विरोधे त्वनपेक्षमसति हानुमानमिति” सूत्रे उपजीव्योपजीवकयोर्विरोधे उपजीवकस्यानपेक्षता अननुष्ठानम् असति तु विरोधे उपजीवकेन स्मृत्याचारपदार्थेन उपजीव्ययोः श्रुतिस्मृत्योरनुमानमित्युक्तम्” ततश्च स्मृतिविरोधे आचारस्य न प्रामाण्यमिति स्थितम्। अतएव दुर्बलत्वाभिप्रायेणैव भा० आ० प०। “धर्मं जिज्ञासामानानां प्रमाणं परमं श्रुतिः। द्वितीयं धर्मशास्त्रञ्च तृतीयं लोकसंग्रहः” इति लोकाचारस्य तृतीयत्वं, श्रुतेः परमत्वोक्त्या च स्मृतेर्द्वितीयत्वमुक्तम्। स्पष्टमुक्तम्” प्रयो० पा० स्मृतौ। “स्मृतेर्वेदविरोधे तु परित्यागो यथा भवेत्। तथैव लौकिकाचारं स्मृतिबाधे परित्यजेत्” “तदलाभे शिष्टाचारः प्रमाणम्” इति वशिष्टेन शास्त्रालाभे एव शिष्टाचारस्य ग्राह्यताऽभिहिता। शिष्टाचारश्च यद्यपि देशभेदात् नानाविधः तथापि मनुना ब्रह्मार्वत्तदेशीयानामेव पारम्पर्य्यागताच्यरस्यैव सदाचारताया व्यवस्थापनात् तत्रत्यपारम्पर्य्यक्रमगाताचारएव सदाचारः। ब्रह्मावर्त्तं परिभाष्य यथाह मनुः “तस्मिन् देशे य आचारः पारम्पर्य्यक्रमागतः। वर्ण्णानां सान्तरलानां स सदाचार उच्यते” इति तथा “कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः एष व्रह्मर्षिदेशोवै ब्रह्मावर्त्तादनन्तरम्। एतद्देशप्रसूतस्य। सकाशादग्रजन्मनः। स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः” इति मनुना ब्रह्मर्षिदेशवासिविप्रसकाशात् सदाचारस्य शिक्षणीयत्वोपदेशात् तद्देशीयाचारोऽपि सदाचार इति गम्यते। सदाचारोऽपि न केबलं शास्त्रामूलकः किन्तु शास्त्रमूलकोऽपि तच्च शास्त्रं मानवादिसंहितादि। तत्र काशीखण्डे शास्त्रमृलकाः सदाचाराः समुच्चित्यप्रशंसापूर्ब्बं केचित् दर्शिता यथा। “लक्षणैः परिहीनोऽपि सम्यगाचारतत्परः। श्रद्धावाननसूयश्च नरोजीवेत्समाः शतम्। दुराचाररतोलोके गर्हणीयः पुमान् भवेत्। व्याधिभिश्चाभिभूयेत “तथाल्पायुः सुदुःखभाक्। त्याज्यं कर्म्म पराधोनं कार्य्यमात्मवशं सदा। दुःखी यतः पराधीनः सदैवात्मवशः सुखी। यस्मिन् कर्म्मण्यन्तरात्मा क्रियमाणे प्रसीदति। तदेव कर्म्म कर्त्तव्यं विपरीतं न च क्वचित्। प्रथमं धर्म्मसर्वस्वं प्रोक्ता यन्नियमायमाः। अतस्तेष्वेव वै यत्नः कर्त्तव्योधर्म्ममिच्छता। सत्यं क्षमार्ज्जवं ध्यानमानृशस्यमहिं सनम्। दमः प्रसादोमाधुर्य्यं भृदुतेति यमा दश। शौचं स्नानं तपोदानं मौनेज्याव्ययनं ब्रतम्। उपोसनोपस्थदण्डोदशेति नियमाः स्मृताः। कामं क्रोधं मदं मोहं मात्सर्य्यं लोभमेव च। अमून् षट् वैरिणो जित्वा सर्वत्र विजयी भवेत्। शनैः शनैः सञ्चिनुयाद्धर्म्मं वल्मीकशृङ्गवत्। परपीडामकुर्व्वाणः परलोकसहायकः। धर्म्मएव सहायी स्यादमुत्र न परिच्छदः। पितृमातृसुतभ्रातृयोषिद्बन्धुजनादिकः। जायेत चैकलः प्राणी प्रलीयेत तथैकलः। एकलः सुकृतं भुङ्क्तेऽश्नीयाद्दुष्कृतमेकलः। देहं पञ्चत्वमापन्नं त्यक्त्वासौ काष्ठलोष्ठवत्। बान्धवाविमुखायान्ति धर्म्मोयान्तमनुब्रजेत्। नित्य सञ्चिनुयाद्धर्म्मं ततोऽमुत्र सहायिनम्। धर्म्मं सहायिन लब्ध्वा सन्तरेद्दुस्तरं तमः। सम्बन्धानाचरेन्नित्यमुत्तमैरुत्तमैः सुधीः। अधमानधमांस्त्यक्त्वा कुलमुत्कर्षतां नयेत्। उत्तमानुत्तमानेव कुर्व्वन् हीनांश्च वर्ज्जयन्। ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम्। अनध्ययनशीलञ्च सदाचारविलङ्घिनम्। अलसं च दुरान्नादं ब्राह्मणं बाधतेऽन्तकः। ततोऽभ्यस्येत्प्रयत्नेन सदाचारं सदा द्विजः। तीर्थान्यप्यभिलष्यन्ति सदाचारसमागमम्” इति। प्रशस्य “रजनीप्रान्त्ययामार्द्धं ब्राह्मः समयौच्यते। स्वहितं चिन्तयेत्प्राज्ञस्तस्मिंश्चोत्थाय सर्वदा। गजास्य” संस्मरेदादौ ततईशं सहाम्बया। श्रीकान्तं श्रीसमेतं तु ब्रह्राण्या कमलोद्भवम् इन्द्रादीन् सकलान्देवान् वशिष्ठादीन् मुनीनपि। गङ्काद्याः सरितः सर्व्वाः श्रीशेलाद्यखिलान् गिरीन्। क्षीरोदादीन् समुद्रांश्च मानसादिसरांसि च। वनानि नन्दनादीनि धेनूः। कामदुघादिकाः। कल्पवृक्षादिवृक्षांश्च धातून् काञ्चनसुख्यतः। दिव्याः स्त्रीरुर्व्वशीमुख्या गरुडादीन् पतत्त्रिणः। नागांश्च शेषप्रमुखान् गजानैरवतादिकान्। अश्वानुच्चैःश्रवान् मुख्यान् कौस्तुभादीन् मणीन् शुभान्। अरेदरुन्धतीमुख्याः पतिब्रतवतीर्वधूः। नैमिषादीन्यरण्यानि पुरीः काशीपुरीमुखाः। विश्वेशादीनि लिङ्गानि वेदानृक् प्रमुखानपि। गायत्रीप्रमुखान् मन्त्रान् योगिनः सनकादिकान्। प्रणवादि महावीजं नारदादींश्च वैष्णवान्। शिवभक्तांश्च वाणादोन् ‘प्रह्लादादीन् दृढव्रतान्। वदान्यांश्च दधीच्यादीन् हरिश्चन्द्रादिभूपतीन्। जननीचरणौ स्मृत्वा सर्व्वतीर्थोत्तमोत्तमौ। पितरं च गुरूंश्चापि हृदि ध्यात्वाप्रसन्नधीः। ततश्चावश्यकं कर्त्तुं नैरृतीं दिशमाश्रयेत्। ग्रामाद्धनुःशतं गच्छेन्नगराच्च चतुर्गुणम्। तृणैराच्छाद्य वसुधां शिरः प्रच्छाद्य वाससा। कर्ण्णोपवीत्युदग्वक्तो दिवसे सन्ध्ययोरपि। विण्मूत्रे विसृजेन्मौनी निशायां दक्षिणामुखः। न तिष्ठन्नाप्सु नोविप्रगोवह्न्यनिलसंमुखः। न फालकृष्टे भूभागे न रथ्याऽसेव्यभूतले। नालोकयेद्दिशोभागान् ज्योतिश्चक्रं नभोऽमलम्। वामेन पाणिना लिङ्गं धृत्वोत्तिष्ठेत् प्रयत्नवान्। अथो मृदं समादत्ते जन्तुकर्करवर्जिताम्। विहाय मूषिकोत्खातां शौचोच्छिष्टाञ्च नाकुलाम्। गुह्ये दद्याम्मृदञ्चैकां पायौ पञ्चाम्बुसान्तराः। दश वामकरे चापि सप्त पाणिद्वये मृदः। एकैकां पादयोर्दद्यात्तिस्रःपाण्योर्मृदः स्मृताः। इत्थं शौचं गृही कुर्य्याइन्धलेपक्षयावधि। क्रमाद्द्विगुणमेतत्स्याद्वुह्मचार्य्यादिषु त्रिषु। दिवा विहितशौचानां रात्रावर्द्धं समाचरेत्। रात्र्यर्द्धं च तदर्द्धं च पथि चौरादिगर्हिते। तदर्द्धंयोषितां सुस्थेन्यूनंचातो न कारयेत्। अपि सर्व्वैर्नदीतोयैर्मृत्कूटैश्चापिगोमयैः। आपादमाचरन् शौचं भावदुष्टो न शुद्धिभाक्। अर्द्धधात्रीफलोन्माना मृदः शौचे प्रकीर्त्तिताः। सर्व्वाश्चाहुतयोऽप्येवं ग्रासाश्चान्द्रायणेऽपि च” ततः आचमनप्रकारोऽभिहितः स च ६२८ पृष्ठे दर्शिताः। “अथो मुखविशुर्द्ध्यर्थं गृह्णीयाद्दन्तधावनम्। आचान्तोऽप्य शुचिर्यस्मादकृत्वा दन्तधावनम्। प्रतिपद्दर्शषष्ठीषु नवम्यां रविवासरे। दन्तानां काष्ठ संयोगे दहत्यासप्तमं कुलम्। अलाभे दन्त काष्ठानां निधिद्धेऽवाथ वासरे। गण्डूषा द्वादश ग्राह्या मुखस्य परिशुद्धये। कनिष्ठाग्रपरिमाणसत्वचं निर्व्रणं दृढम्। द्वादशाङ्गुलमानञ्च साग्रं स्थाद्दन्तधावनम्। एकैकाङ्गुलिह्रासेन वर्ण्णेष्वन्थेषु तूदितम्। आम्राम्रातकधात्रीजमङ्कोठखदिरोद्भवम्। शम्यपामार्गखर्जूरीशेलुश्रोपर्ण्णिपीलुजम्। राजादनं च नारङ्गं कषायं कटुकण्टकम्। क्षीरवृक्षोद्भवं वापि प्रशस्तं दन्तधावनम्। जिह्वोल्लेखनिकां वापि कुर्य्याच्चापाकृतिं शुभाम्। “अन्नाद्याय व्यूहयध्वं सोमोराजायमागमत्। स मे मुखं प्रमार्क्ष्येत यशसा च भगेन च। आयुर्बलं यशोबर्च्चः प्रजाः पशुवसूनि च। ब्रह्म प्रज्ञां च मेधां च तन्नो धेहि वनस्पते”।। मन्त्रावेतौ समुच्चार्य्य यः कुर्य्याद्दन्तधावनम्। वनस्पतिगतः सोमस्तस्य नित्यं प्रसीदति। मुखे पर्य्युषिते यस्माद्भवेन्न शुद्धिभाङ्नरः। ततः कुर्य्यात्प्रयत्नेन शुद्ध्यर्थं दन्तधावनम्। उपवासेऽपि नो दुष्येद्दन्तधावनममञ्जनम्। गन्वालङ्कारसद्वस्त्र पुष्पमाल्यानुलेपनम्। प्रातः सन्ध्यां ततः कुर्य्याद्दन्तधाबन पूर्बिकाम्। प्रातः स्नानं चरित्वाथ शुद्धे तीर्थे विशेषतः। प्रातः स्नानाद्यतः शुद्ध्येत्कायोऽयं मलिनः सदा। छिद्रितो नवभिश्छिद्रैः स्रवत्येष दिवानिशम्। उत्साहमेधासौभाग्यरूपसंपत्प्रवर्त्तकम्। मनःप्रसन्नताहेतुः प्रातः स्नानं विशिष्यते। प्रस्वेदलालाद्यास्विन्नो निद्राधीनोयतोनरः। प्रातः स्नानात्ततोऽर्हः स्यान्मन्त्रस्तोत्रजपादिषु। प्रातः प्रातस्तु यत् स्नानं संजाते चारुणोदये। प्राजापत्यसमं प्राहुस्तन्महाबविघातकृत्। प्रातः स्नानं हरेत्पापमलक्ष्मीं ग्लागिमेव च। अशुद्धित्वञ्च दुःस्वप्नं तुष्टिंपुष्टिं प्रयच्छति। नोपसर्पन्ति वै दुष्टाः प्रातः स्नायिजनं क्वचित्। दृष्टादृष्टफलं तस्मात्प्रातः स्नानं समाचरेत्”। अन्यत्राध्याये च “अथवा प्रातरुत्थाय कृत्वावश्यकमेव च। शौचाचमनबाधाय भक्षयेद्दन्तधावनम्। विशोध्य सर्व्वगात्राणि प्रातः सन्ध्यां समाचरेत्। वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च। अध्यापयेच्छुचीन् शिष्यान् हितषेधा समर्द्धितात्। उपेयादीश्वरं चापि योगक्षेमार्थसिद्धये। ततो मध्याह्नसिद्ध्यर्थं पूर्ब्बोक्तं स्नानमाचरेत्। स्नात्वा माध्याह्निकीं सन्ध्यामुपासीत विचक्षणः। देवतां परिपूज्याथ नैत्यिकं विधिमाचरेत्। पचनाग्निं समुज्ज्वाल्य वैश्वदेवं समाचरेत्। निष्पावान् कोद्रवान् माषान् कलायांश्चनकांस्त्यजेत्। तैलपक्वं च पक्वान्नं सर्वं लवणयुक् त्यजत्। आढकांश्च ससूरांश्च वर्त्तुलान् वर्वटीस्तथा। भुक्तशेषं पर्य्युषितं बैश्वदेवे विवर्ज्जयेत्। दर्भपाणिः समाचम्य प्राणायामं विधाय च। पूष्णोदेवेति मन्त्रेण पर्य्युक्षणमथाचरेत्। प्रदक्षिणञ्च पर्य्युक्ष्य त्रिः परिस्तीर्य्य वै कुशान्। एषोहदेवमन्त्रेण वह्निं कुर्य्यात् सुसंमुखम्। वैश्वानरं समभ्यर्च्च्य वाज्य पुष्पाक्षतैरथ। भूराद्याश्चाहुतीस्तिस्रः स्वाहान्ताः प्रणवादिकाः। ओ~ भूर्भुवः स्वः स्वाहेति विप्रोदद्यात्तथाहुतिम्। तथा देवकृतस्याद्याजुहुयाच्च षडाहुतीः। यमाय तूष्णीमेकाञ्च तथा स्विष्टकृते द्वयम्। विश्वेभ्यश्चापि देवेभ्योभूमौ दद्यात्ततो बलीन्। सर्वेभ्यश्चापि भूतेभ्योनमोदद्यात्तदुत्तरे। तद्दक्षिणे पितृभ्यश्च प्राचीनावीतिकोददेत्। निर्णेजनोदकार्थं चैशान्यां वै यक्ष्मणार्च्चयेत्। ततो ब्रह्मादिदेवेभ्यो नमोदद्यात्तदुत्तरे। निवीती सनकादिभ्यः पितृभ्यस्त्वपसव्यवान्। हन्त षोडशभिर्ग्रासैश्चतुर्भिः पुष्कलं स्मृतम्। ग्रासमात्रा भवेद्भिक्षा गृहस्थसुकृतप्रदा। अध्वगः क्षीणवृत्तिश्च विद्यार्थी गुरुपोषकः। यतिश्च ब्रह्मचारी च षडेते धर्मभिक्षुकाः। अतिथिः पान्थकोज्ञेयोऽनूचानः श्रुतिपारगः। मान्यावेतौ गृहस्थानां ब्रह्मलोकमभीप्सताम्। अपि श्वपाके शुनि वा नैवान्नं निष्फलं भवेत्। अन्नार्थिनि समायाते पात्रापात्रं न चिन्तयेत्। शुनाञ्च पतितानाञ्च श्वपचां पापरोगिणाम्। काकानाञ्च कृमीणाञ्च बहिरन्नं किरेद्भुवि। “ऐन्द्रावरुणवायव्याः सौम्या वै नैरृताश्च ये। प्रतिगृह्णन्त्विमं पिण्डं काका भूमौ मयार्पितम्। द्वौश्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ। ताभ्यां पिण्डं प्रदास्यामि स्यातामेतावहिंसकौ। देवा मनुष्याःपशवो रक्षोयक्षोरगाः खगाः। दैत्याः सिद्धाः पिशाचाश्च प्रेताभूताश्च दानवाः। तृणानि तरवश्चापि मद्दत्तेनाभिलाषुकाः। कृमिकीटपतङ्गाद्याः कर्म्मबन्धा बुभुक्षिताः। तृप्त्यर्थमन्नं हि मया दत्तं तेषां मुदेऽस्तु वै”। इत्थं भूतबलिं दत्त्वा कालं गोदोहमात्रकम्। प्रतीक्ष्यातिथिमायान्तं विशेद्भोज्यगृहं ततः। अदत्त्वा वायसबलिं नित्यश्राद्धं समाचरेत्। नित्यश्राद्धेषु सामर्थ्या त्त्रीन् द्वावेकमथापि वा। भोजयेत् पितृयज्ञार्थं दद्यादुद्धृत्य दुर्बलः। नित्यश्राद्धं देवहीनं नियमादि विवर्ज्जितम्। दक्षिणारहितञ्चैतत् दातृभोक्तृव्रतोज्झतम्। पितृयज्ञं विधायेत्थ स्वच्छबुद्धिरनातुरः। अदुष्टासनमध्यास्य भुञ्जीत शिशुभिः सह। सुगन्धिः सुमनाः स्रग्वी शुचिवासोद्वयान्वितः। प्रागास्य उदगास्योवाभुञ्जीत पितृसेवितम्। विधायाचमनन्तद्वदुपरिष्टादधस्तथा। आपोशानविधानेन कृत्वाऽश्नीयात् सुधी र्द्विजः। प्रदद्याद्भुवःपतये भुवनपतये तथा। भूतानां पतये स्वाहेत्युक्त्वा भूमौ बलित्रयम्। सकृच्चाप उपस्पृश्य प्राणाद्याहुतिपञ्चकम्। दद्याज्जठरकुण्डाग्नौ दर्भपाणिः प्रसन्नधीः। दर्भपाणिस्तु योभुङ्क्ते तस्य दोषो न बाधते। केशकीटादिसंभूतं तदश्नीयात् सदर्भकः। यावत्तदन्नमश्नीयान्न ब्रूयात्तद्गुणागुणान्। भुञ्जते पितरस्तावद्यावन्नोक्ता गुणागुणाः। अतोमौनेन योभुङ्क्ते स भुङ्क्ते केवलामृतम्। अनुपीय ततः क्षीरं भक्ष्यं पानीयमेव वा। अमृतापिधानमसीत्येवं प्राश्योदकं सकृत्। पीतशेषं क्षिपेद्भूमौ तोयं मन्त्रमिमं पठन्। सुप्रक्षालित हस्तस्य दक्षिणाङ्गुष्ठमूलतः। “रौरवेऽपुण्यनिलये पद्मार्वुदनिवासिनाम्। उच्छिष्ठोदकमिच्छूनामक्षय्यमुपतिष्ठताम्”। पुनराचम्य मेधावी शुचिर्भूत्वा प्रयत्नतः। हस्तेनोदकमादाय मन्त्रमेतमुदीरयेत्। “अङ्गुष्ठमात्रः पुरुषस्त्वङ्गुष्ठञ्च समाश्रितः। ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक्”। इत्यर्थं परिसंकल्प्य प्रक्षाल्य चरणौकरौ। ततोऽन्नपरिपाकार्थं मन्त्रानेतानुदीरयेत्। “अग्निराप्याययेद्धातून् पार्थिवान् पबनेरितः। दत्तावकाशोनभसां जरयत्वस्तु मे सुखम्। प्राणापानसमानानामुदानव्यानयोस्तथा। अन्नं पुष्टिकरं चास्तु मयास्त्वव्याहतं सुखम्। समुद्रोवडवाग्निश्च व्रघ्नोब्रध्नस्य नन्दनः। मयाऽभ्यवहृतं यत्तदशेषं जरयन्त्विमे”। मुखशुद्धिं ततः कृत्वा पुराणश्रवणादिभिः। अतिवाह्य दिवाशेषं ततः सन्ध्यां समाचरेत्। गृहे गोष्ठे नदीतीरेसन्ध्या दशगुणा क्रमात्। संभेदे स्याच्छतगुणा ह्यनन्ता शिवसन्निधौ। उपासिता बहिः सन्ध्या दिवामैथुनपातकम्। शमयेदनृतोक्ताघं मद्यगन्धजमेव च। पश्चिमास्योजपेत्तावद्यावन्नक्षत्रदर्शनम्। अतिथिं सायमायान्तमपि वा भूतृणोदकैः। सम्भाव्य परिकल्प्येत्थं निशः प्राक् प्रहरं सुधीः। इत्थं दिवा कर्म्म कृत्वा श्रुतेः पठनपाठनैः। एककाष्ठमयीं शय्यां नातितृप्तोऽथ संविशेत्। उद्देशतः समाख्यात एष नित्यतनोविधिः। इत्थं समाचरन् विप्रोनावसीदति कर्हिचित्”। इत्थं नित्यधर्म्माचरणमुक्ता गृहस्थवर्ज्यावर्ज्यविशेषस्तत्रैवोक्तः ‘ऋतुकालाभिगमनं धर्म्मोऽयं गृहिणः परः। स्त्रीणां वर मनुस्मृत्य यथाकाम्यथ वा भवेत्। दिवाभिगमनं पुंसामनायुष्यंपरं मतम्। श्राद्धाहः सर्व्वपर्व्वाणि यत्नात् त्याज्या नि धीमता। तत्र गच्छन् स्त्रियं मोहात् धर्म्मात्प्रच्यवते परात्। ऋतुकालाभिगामी यः स्वदारनिरतश्च यः। स ब्रह्मचारी धर्मज्ञोविज्ञेयः स गृहाश्रमी। ऋतुःषोडशयामिन्यश्चतस्रस्तासु गर्हिताः। पुत्रास्तास्वपि या युग्माः अयुग्माः कन्यकाप्रजाः। त्यक्त्वा चन्द्रमसं दुःस्थं मघां मूलां विहाय च। शुचिः संनिर्विशेत्पत्नीं पुंनामक्ष विशेषतः। शुचिं पुत्रं प्रसूयेत पुरुषार्थप्रसाधकम्। आर्षे विवाहे गोद्वन्द्वं यदुक्तं तन्न शस्यते। शुल्कमण्वपि कन्यायाः कन्याविक्रयपापकृत्। अपत्यविक्रयी कल्पं वसेद्विट्कृमिभोजने। अतोनाण्वपि कन्यायाः उपजीवेत्पिता धनम्। स्त्रीधनान्युपजीवन्ति ये मोहादिह बान्धवाः। न ते परं निरयगास्तेषामपि हि पूर्ब्बजाः। पत्या तुष्यति यत्र स्त्री तुष्येद्यत्रस्त्रिया पतिः। तत्र तुष्टा महालक्ष्मीर्निवसेद्दानवारिणा” “बाणिज्यं नृपतेः सेवा वेदानध्ययनं तथा। कुविवाहः क्रियालोपः कुले पतनहेतवः। कुर्य्याद्वैवाहिके वह्नौ गृह्यं कर्म्मान्वहं गृही। पञ्चयज्ञक्रियां वापि पक्तिं दैनन्दिनीमपि। गृहस्थाश्रमिणः पञ्चसूनाकर्म्म दिनेदिने। कण्डनी पेषणी चूल्ली उदकुम्भस्तु मार्ज्जनी। तासाञ्च पञ्चसूनानां निराकरणहेतवः। क्रतवः पञ्च निर्द्दिष्टागृहिश्रेयोऽभिवर्द्धनाः। पठनं ब्रह्मयज्ञः स्यात्तर्पणञ्च पितृक्रतुः। होमोदैवो बलिर्भौतोऽतिथ्यर्च्चा क्रतवः क्रमात्। पितृप्रीतिं प्रकर्व्वाणः कुर्वीत श्राद्धमन्वहम्। अन्नोदक पयोमूलफलैर्वापि गृहाश्रमी। गोदानेषु च यत्पुण्यं पात्राय विधिपूर्वकम्। सत्कृत्य भिक्षवे भिक्षां दत्त्वा तत्फलमाप्नुयात्। तपोविद्यासमिद्दीप्ते हुतं विप्रास्यपावके। तारयेद्विघ्नसंघेभ्यः पापाब्धेरपि दुस्तरात्। अनर्च्चितोऽतिथिर्गेहात् भग्नाशो यस्य गच्छति। आजन्म सञ्चितात् पुत्यात् तत् क्षणात् स वहिर्भवेत्। सान्त्वपूर्ब्बाणि वाक्यानि शय्यार्थे भूस्तृणोदकैः। एतान्यपि प्रदेयानि सदा मन्तुकतुष्टये। गृहस्थः परपाकाढ्यः प्रेतः सन् पशुपतां व्रजेत्। श्रेयः परार्थपुष्टस्य गृह्णीयादन्नदोषतः। आदित्योढोऽतिथिः सायं सत्कर्त्तव्यः प्रयत्नतः। असत्कृतोऽन्थतोगच्छन् दुष्कृतं भूरि यच्छति। भुञ्जानोऽतिथिशेषान्नमिहायुर्धनभाग्भवेत्। प्रणोद्यातिथि मन्नाशी किल्विषी च गृहाश्रमी। वैश्वदेवान्तसंप्राप्तः सूर्य्योढोवाऽतिथिः स्मृतः। न पूर्घ्वकाल आयातो न च दृष्टचरः क्वचित्। बलिपात्रकरे विप्रेयद्यन्योऽतिथिरागतः। अदत्त्वा तं बलिं तस्मै यथाशक्त्यन्नमर्पयेत्। कुमाराश्च सुवासित्योगर्भिण्योऽतिरुजान्विताः। अतिर्थेरादितोऽप्येते भोज्या नात्र विचारणा। पितृदेवमनुष्येभ्योदत्त्वान्नाद्यमृतं गृही। स्वार्थं पचन्नघं भुङ्क्ते केवलं स्वोदम्भरिः। माध्याह्निकं वैश्वदेवं गृहस्थः स्वयमाच्रेत्। पत्नी सायं बलिंदद्यात् सिद्धान्नैर्मन्त्रवर्जितम्। एतत्सायन्तनं नाम वैश्वदेवं गृहाश्रमे। सायं प्रातर्भवेदेवं वैश्वदेवं प्रयत्नतः। वैश्वदेवेन ये हीना आतिथ्ये न विवर्ज्जिताः। सर्वेते वृघलाज्ञेया प्राप्तवेदा अपि द्विजाः। अकृत्वा वैश्वदेवं तु भुञ्जते ये द्विजाधमाः। इह लोकेऽन्नहीनाः स्युः काकयोनिं व्रजन्त्यथ। वेदोदितं स्वकं कर्म्मनित्यं कुर्य्यादतन्त्रितः। तद्धि कुर्व्वन् यथाशक्ति प्राप्नुयात् स्वर्गतिं पराम्। षष्ठ्यष्टम्योर्वसेत्पापं तैले मांसे सदैव हि। पञ्चदश्यां चतुर्दश्यां तथैवच भगे क्षुरे। उदयन्तं न चेक्षेत नास्तं यान्तं न मध्यगम्। न राहुणोपसृष्टं च नाम्बुसंस्थं दिवाकरम्। न वीक्षेतात्मनोरूपमप्सुधावेन्न वर्षति। नोङ्घयेद्वत्सतन्त्रीं न नग्नोजलमाविशेत्। देवतायतनं विप्रं धेनुं मधु घृतं मृदम्। जातिवृद्धं वयोवृद्धं विद्यावृद्धं तपस्विनम्। अश्वत्थं चैत्यवृक्षं च गुरुं जलभृतं घटम्। सिद्धान्नं दधि सिद्धार्थं गच्छन् कुर्य्यात्प्रदक्षिणम्। रजस्वलां न सेवेत नाश्नीयात् सह भांर्य्यया। एकवासा न भुञ्जीत न भुञ्जीतोत्कठासने। नाश्नतीं स्त्रीं समोक्षेत तेजस्कामोद्विजोत्तमः। असंतर्प्य पितॄन् देवान् नाद्यादन्नं नरः क्वचित्। पक्वान्नं चापिनो मांसं दीर्घकालं जिजीविषुः। न मूत्रं गोब्रजे कुर्य्यान्न वल्मीके न भस्मनि। न गर्त्तेषु ससत्वेषु न तिष्ठन्न व्रजन्नपि। गोविप्रसूर्यवाय्वग्नि चन्द्रार्काम्बु गुरूनपि। अभिपश्यन्न कुर्व्वीत मूत्रोच्चारविसर्ज्जनम्। तिरस्कृत्यावनीं लोष्ट्र काष्ठपर्णतृणादिभिः। प्रावृत्य वाससा मौलिं मौनो विण्मूत्रमुत्सृजेत्। यथासुखसुखोरात्रौदिने छायान्धकारयोः। भीतिषु प्राणबाधायां कुर्य्यान्मलविसर्ज्जनम्। मुखेनोपधमेन्नाग्निन्नग्नां नेक्षेत योषितम्। नाङ्घ्री प्रतापयेदग्नौ न वस्तु शुचि निक्षिपेत्। प्राणिहिंसां न कुर्व्वीत नाश्नीयात्सन्ध्ययोर्द्वयोः। न संविशेच्च सन्ध्यायां प्रत्यक्सौम्यशिरा अपि। विण्मूत्रष्ठीवनं नाप्सु कुर्य्याद्दीर्घं जिजीविषुः। नाचक्षीत धयन्तीं गां नैन्द्रं चापं प्रदर्शयेत्। नैकः सुप्यात् क्वचित् शून्ये न शयानं प्रबोधयेत्। पन्थानं नैकको यायान्न वार्य्यञ्जलिना पिबेत्। न दध्युद्धृतसारं च भक्षयेद्दधि नो निशि। स्त्रीधर्म्मिणीं नाधिवसेत् नाद्यादा तृप्ति रात्रिषु। तौर्य्यत्रिकप्रियोनस्यात् कांस्ये पादौ न धावयेत्। न धारयेदन्यभुक्तं वासश्चोपानहावपि। न भिम्नभाजनेऽश्नीयान्नाग्न्यादिपरिदूषिते। आरोहणं गवां पृष्ठे प्रेतधूमं सरित्तरम्। बालातपं दिवास्वापं त्यजेद्दीर्घं जिजीविषुः। स्नात्वा न मार्ज्जयेद्गात्रं विसृजेन्न शिखां पथि। हस्तौ शिरोन धुनुयान्नाकर्षेदासनं पदा। श्राद्धं कृत्वा परश्राद्धेऽश्नीयात् ज्ञानविवर्ज्जितः। दातुः श्राद्धफलं नास्ति भोक्ता किल्विषभुग्भवेत्। नोत्पाटयेल्लोमनखं दशनेन कदाचन। करजैः करजच्छेदं तृणच्छेदं विवर्ज्जयेत्। शुभाय न यदायत्यां त्यजेत्तत्कर्म यत्नतः। अपद्वारे न गन्तव्यं स्ववेश्मपरवेश्मनोः। क्रीडेन्नाक्षैः सहासीत न धर्म्मघ्नैर्न रोगिभिः। न शयीत क्वचिन्नग्नः पाणौ भुञ्जीत नैव च। आर्द्रपादकरास्योऽश्नन्दीर्घकालं च जीवति। संविशेन्नार्द्रचरणोनोच्छिष्टः क्वचिदाब्रञेत् शयनस्थोनचाश्नीयान्न पिबेन्न जपेद्द्विजः। सोपानत्कश्च नाचामेन्न तिष्ठ न धारया पिबेत्। सर्व्वं तिलमयं नाद्यात्सायं शर्म्माभिलाषुकः। न निरीक्षेत विण्मूत्रे नोच्छिष्टः संस्पृशेच्छिरः। नाधितिष्ठेत्तुषाङ्गार भस्मकेशकपालिकाः। पतितैः सहसंवासः पतनायैव जायते। श्रावंयेद्वैदिकं मन्त्रं न शूद्राय कदाचन। ब्राह्मण्याद्धीयते विप्रः शूद्रोधर्म्माच्च हीयते। धर्म्मोपदेशः शूद्राणां स्वश्रेयः प्रतिघातयेत्। द्विजशुश्रूषणं घर्म्मः शूद्राणां हि परोमतः। कण्डूयनं न शिरसः पाणिभ्यां शुभदं मतम्। न ताडयेत् कराभ्यां च क्रोशनं केशलुञ्चनम्। अशास्त्रवर्त्तिनोभूपाल्लोभात् कृत्वा प्रतिग्रहम्। ब्राह्मणः सान्वयोयाति नरकानेकविशतिम्। अकालविद्युत्स्तनिते वर्षर्तौ पांशुवर्षणे। महावातध्वनौ रात्रावनध्यायाः प्रकीर्त्तिताः। उत्कापाते च भूकम्पे दिग्दाहे मध्यरात्रिषु। सन्ध्ययोर्वृषलोपान्ते राजचन्द्रस्य सूतके। दर्शेऽष्टकासु भूतानां श्राद्धिकं प्रतिगृह्य च। प्रतिपद्यपि पूर्ण्णायां गजकुम्भ्या कृतान्तरे। खरोष्ट्रक्रोष्टु विरुते समवाये एदत्यपि। उपाकर्म्मणि चोत्सर्गे नावि मार्गे तरौ जले। आरण्यकमधीत्यापि वाणसाम्नोरपि ध्वनौ। अनध्यायेषु चैतेषु नाधीयीत द्विजः क्वचित्। कृतान्तरायो न पठेदूकाखुश्वाहिबभ्रुभिः। भूताष्टम्योः पञ्चदश्योर्ब्रह्मचारी सदा भवेत्। अनायुप्यकरञ्चेह परदारोपसेवनम्। पर्य्यर्द्धिभिः परित्यक्तमात्मानं नावमानयेत्। सदो- द्यमवतां यस्माच्छ्रियोविद्या न दुर्लभाः। सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम्। प्रियं च नानृतं ब्रूयादेष धर्म्मोघटोद्भव!। भद्रमेव वदेन्नित्यं भद्रमेव विचिन्तयेत्। भद्रैरेव हि संसर्गोनाभद्रैश्च कदाचन। रूपवित्तकुलैहीर्नान् सुधीर्नाधिक्षिपेन्नरान्। पुष्पवन्तौ न चेक्षेत त्वशुचिर्ज्योतिषाङ्गणम्। वातवेगं मनोवेगं जिह्वावेगञ्च वर्ज्जयेत्। उत्को च द्यूतदौत्यार्त्तद्रव्यं दूरात् परित्यजेत्। गोब्राह्मणाग्नीनुच्छिष्टः पाणिना नैवसंस्पृशेत्। न स्पृशेदनिमित्तं च खानि स्वानि त्वनातुरः। गुह्यजान्यपि लोमानि तत्स्पर्शादशुचिर्भवेत्। पादशौचोदकं मूत्रमुच्छिष्टान्नोदकानि च। निष्ठीवनञ्च श्लेष्माणं गृहाद्दूरं विनिःक्षिपेत्। अहर्न्निशं श्रुतेर्जप्याच्छौचाचरनिषेवणात्। अद्रोहरत्यागत्या च पूर्व्वजन्म स्मरेद् द्विजः। वृद्धान् प्रयत्नाद्वन्देत दद्यात्तेषां स्वमासनम्। विनम्रधमनिस्तस्मादनुयायाद्यतश्चतान्। श्रुतिभूदेवदेवानां नृपसाधुतपखिनाम्। पतिब्रतानां नारीणां निन्दां कुर्य्यान्न कर्हिचित्। न मनुष्यस्तुतिं कुर्य्यान्नात्मानमवनामयेत्। अभ्युद्यतं न प्रणुदेत्परमर्म्माणिनोच्चरेत्। अधर्म्मादेधते पूर्ब्बं विद्वेष्टॄनपि संजयेत्। सर्वतोभद्रं पश्येच्च ततोनश्येच्च सान्वयः। उद्धृत्य पञ्च मृत्पिण्डान् स्नायात् परजलाशये। अनुद्धृत्य च तत्कर्त्तुरेनसः स्यात्तुरीयभाक्। श्रद्धया पात्रमासाद्य यक्तिञ्चिद्दीयते वसु। देशे काले च विधिना तदानन्त्याय कल्पते। भूप्रदो मण्डलाधीशः सर्वत्र सुखितोऽन्नदः। तोयदाता सदा तृप्तो रूपवान् रूप्यदो भवेत्। प्रदीपदो निर्मलाक्षो गीदातार्य्यमलोकभाक्। स्वर्ण्णदाता च दीर्घायुस्तिलदः स्याच्च सुप्रजाः। वेश्मदोऽत्युच्चसौधेशोवस्त्रदश्चन्द्रलोभाक्। हय प्रदीदिव्ययानोलक्ष्मीवान् वृषभप्रदः। सुभार्य्यः शिविकादाता सुपर्य्यङ्कप्रदोऽपि च। धर्मैः सर्वर्द्धिभाक् नित्यमभयप्रदईशिता। ब्रह्मदोब्रह्मलोकेज्योब्रह्मदः सर्व्वदोमतः। उपायेनापि योब्रह्म दापयेत्सोपि तत्समः। श्रद्धया प्रतिगृ ह्णाति श्रद्धया यः प्रयच्छति। स्वर्गिणौ तावुभौ स्यातां पततोऽश्रद्धया ह्यधः। अनृतेन क्षरेद्द्यज्ञस्तपोविस्मयतः क्षरेत्। क्षरेत्कीर्त्तनतोदान मायुर्विप्रापवादतः। गन्धपुष्पकुशान् शय्यां शाकं मांसं पयोदधि। मणिमत्स्यौ गृहं धान्यं ग्राह्यमेतदुपस्थितम्। मधूदकं फलं मूलमेधांस्यभयदक्षिणाम्। अभ्युद्यतानि ग्राह्याणि त्वेतान्यपि निकृष्टतः। दासनापितगोपालकुलमित्राद्धसीरिणः। भोज्यान्नाः शूद्रवर्गेऽमी तथात्मविनिवेदकः। इत्थमानृण्यमापाद्य दे- वर्षिपितृजादृणात्। माध्यस्थ्यमाश्रयेत् गेही सुते विष्वग्विसृज्य च। मृहेऽपि ज्ञानमभ्यस्येत्काशीं वाथ समाश्रयेत्। सम्यग्ज्ञानेन वा मुक्तिः किं न विश्वेशवेश्मनि?। सम्यग्ज्ञानं भवेत् पुंसां कुत एकेन जन्मना?। वाराणस्यां ध्रुवामुक्तिः शरीरत्यागमात्रतः। अद्यश्वोवा परश्वोवा कालाद्वाथ परःशतात्। सत्वरं गत्वरोदेहः काश्यां चेदमृती भवेत्। सा च वाराणसी लभ्या सदचारवता सता। मनसापि सदाचारमतो विद्वान्न लङ्घयेत्”। वसिष्ठस्मृतौ च “आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः। छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ताइव जातपक्षाः। आचारहीनस्य तु व्राह्मणस्य वेदाः षडङ्गाअखिलाः सपक्षाः। कां प्रीतिमुत्थापयितुं समर्थाअन्धस्य दाराइव दर्शनीयाः। नैनं छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्त्तमानम्। तत्राक्षरे सम्यगधोयमाने पुनाति तद्व्रह्म यथावदिष्टम्। दुराचारोहि पुरुषोलोकें भवति निन्दितः। दुःखभागी च सततं व्याधितोऽल्पायुरेव च। आचारात् फलते धर्म्ममाचारात् फलते धनम्। आचारात् श्रियमाप्नोति आचारोहन्त्यलक्षणम्। सर्व्वलक्षणहीनोऽपि यः सदाचारवान्नरः। श्रद्द धानोऽनसूयश्च शतं वर्षाणि जीवति। आहारनिर्हारविहारयोगाः सुसंवृता धर्म्मविदा तु कार्य्याः। वाग्वुद्धिवीय्यांणि तपस्तथैव धनायुषी गुप्ततमे च कार्य्ये। उभे मूत्रपुरीषे तु दिवा कुर्य्यादुदङ्मुखः। रात्रौ कुर्य्याद्दक्षिणास्य एवं ह्यायुर्न रिष्यते। प्रत्यग्निं प्रतिसूर्यञ्च प्रति गां प्रति च द्विजम्। प्रतिसोमोदकं सन्ध्यां प्रज्ञा नश्यति मेहतः। न नद्यां मेहनं कार्य्यं न पथि न च भस्मनि। न गोमये नवा कृष्टे नोप्ते क्षेत्रे न शाद्वले। छायायामन्धकारे वा रात्रावहनि वा द्विजः। यथासुखमुखः कुर्य्यात् प्राणबाधाभयेषु च। उद्धृताभिरद्भिः कार्य्यं कुर्य्यान्न स्नानमनुद्धृताभिरपि। न हरेन्मृत्तिकां विप्रः कूलात् ससि कतां तथा। अन्तर्जले देवगृहे वल्मीके मूषिकस्थले। कृतशौचावशिष्टे च न ग्राह्याः पञ्च मृत्तिकाः। एका लिङ्गे करे तिस्रौभाभ्यां द्वे तु मृत्तिके। पञ्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः। एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः। वानप्रस्थस्य त्रिगुणं यतीनान्तु चगुर्गुणम्। अष्टौ ग्रासा मुनेर्भक्तं वानप्रस्थस्य षोडश। द्वात्रिंशत्तु गृहस्यस्य अमितं ब्रह्मचारिणः। अनड्वान् ब्रह्मचारी च आहिताग्निश्च ते त्रयः। भुञ्जानाएव सिध्यन्ति नैषां सिद्धिरनश्नताम्। तपोदानोपहारेषु व्रतेषु नियमेषु च। इज्याध्ययनधर्म्मेषु योन शक्तः स निष्क्रयः। योगस्तपोदमोदानं सत्यं शौचं दया श्रुतम्। विद्या विज्ञानमास्तिक्यमेतद्व्राह्मणलक्षणम्। सर्वत्र दान्ताः श्रुतपूर्णकर्णा जितेन्द्रियाः प्राणिबधे निवृत्ताः। प्रतिज्ञहे सङ्कुचिता गृहस्थास्ते ब्राह्मणास्तारयितुं समर्थाः। असूयुः पिशुनश्चेव कृतघ्नो दीर्घरोषकः। चत्वारः कर्म्मचाण्डाला जन्मतश्चापि पञ्चमः। दीर्घवैरमसूयाञ्च अमत्यं ब्रह्मदूषणम्। पैशुन्यं निर्द्दयत्वञ्च जानीयाच्छूद्रलक्षणम्। किञ्चिद्वेदमयं पात्रं किञ्चित् पात्रं तपोमयम्। पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे। शूद्रान्नरसपुष्टाङ्गोह्यधीयानोऽपि नित्यशः। हुत्वापि च जपित्वापि गतिमूर्द्ध्वां न विन्दति शूद्रान्नेनोदरस्थेन यः कश्चिन्म्रियते द्विजः। स भवेच्छू करोग्राम्यस्तख वा जायते कुले। शूद्रान्नेन तु भुक्तेन मैथुनं योऽधिगच्छति। यस्यान्नं तस्य ते पुत्रा नच स्वर्गार्हकोभवेत्। स्वाध्यायाढ्यं योनिमित्रं प्रशान्तं चैतन्यस्थं पापभीरुं बहुज्ञम्। स्त्रीयुक्तान्नं धार्म्मिकं गोशरण्यं व्रतैः क्षान्तं तादृशं पात्रमाहुः। आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु। विनश्येत् पात्रदौर्बल्यात्तच्च पात्रं रसाश्च ते। एवं गाञ्च हिरण्यञ्च वस्त्रमश्वं महीं तिलान्। अविद्वान् प्रतिगृह्णानो भस्मीभवति दारुवत्। नाङ्गंनखञ्च वादित्रं कुर्य्यात् नचापोऽञ्जलिना प्रिवेत्। न पादेन पाणिना वा राजानमपि हन्यात् न जलेन जलम्। नेष्टकाभिः फलानि पातयेत् न फलेन फलम्। न कल्कपुटकोभवेत्। नम्लेच्छभाषां शिक्षेत। अथाप्युदाहरन्ति। न पाणिपादचपलो न नेत्रचपलोभवेत्। नचाङ्गचपलोविप्र इति शिष्टस्य गोचरः। पारम्पर्य्यागतोयेषां वेदः सपरिवृंहणः। ते शिष्टा ब्राह्मणाज्ञेयाः श्रुतिप्रत्यक्षहेतवः। यन्न सन्तं नचासन्तं नाश्रुतं न बहुश्रुतम्। न सुवृत्तं न दुर्वृत्तं वेद कश्चित् स ब्राह्मण” एवंमन्वादिसंहितादौ बहव आचारा उक्तप्रायाः दर्शिताः। भावापरपर्य्यायः तन्त्रोक्ताचारश्च दिव्याचारवीराचारपश्वाचारभेदात् त्रिविधः यथोक्तं तन्त्रसारे। “अथ भावविधिं वक्ष्ये शृणुष्व कमलानने!। विना येन न सिध्येत्तु जन्मकोटिशतैरपि। भावस्तु त्रिविधो देवि! दिव्यवोरपशुक्रमात्। दिव्यवीरौ महाभावौ अधमः पशुभावकः। वैष्णवः पशुभावेन पूजयेत् परमेश्वरम्। शक्तिमन्त्रे वरारोहे! पशुभावो भयानकः। दिव्ये वीरे- महेशानि। जायते सिद्धिरुत्तमा। दिव्ये वीरे न भेदोऽस्तिताभ्यां भेदःपशोस्ततः। दिव्यवीरौ प्रवक्ष्यामि सर्वभावोत्तमोत्तमौ। विना शक्तेर्न पूजास्ति मत्स्यं मांसं विना प्रिये!। मुद्राञ्च मैथुनञ्चापि विना नैव प्रपूजयेत्। स्त्रीभगं पूजनाधारं स्वर्ण्णरूप्यकमेव च। अभावे सर्वद्रव्याणामनुकल्पः कलौ युगे। अथ वा परमेशानि। मानसं सर्व्वमाचरेत्। स्नानन्तु मानसं प्रोक्तं वैदिके मानसं सदा। यत्र भुक्त्वा महापूजा मानसं भोजनन्तु तत्। स्वकीयां परकीयां वा मानसन्तु रमेत् स्त्रियम्। मानसं मद्यमीनादि स्वीकुर्य्यात् साधकोत्तमः। स्वैरन्तु कुसुमं तद्वत् मानसं समुपाचरेत्। मानसं भगरोमादि मानसं भगपूजनम्। सर्ब्बन्तु मानसं कुर्य्यात् तेन सिद्धिमुपालभेत्” इति पिच्छिलातन्त्रे पूर्ब्बखण्डे दशमःपटलः। तद्विवरणं तत्तच्छब्दे दृश्यम्। आचारचन्द्रिका आचारचिन्तामणिः आचारदीपः आचारमाधवः आचारमयूस्वः आचारादर्शः आचारार्कः इत्यादायश्च ग्रन्याः आचारवेदनार्थाः भारतवर्षे देशभेदे च प्रसिद्धाः। तत एवाचारभेदा अवसेयाः। निषिद्धाचारश्च अनाचारः सच अनाचारशब्दे २५७ पृष्ठे उक्तप्रायः। अधिकं निषिद्धशब्दे वक्ष्यते।

आचारदीप = पु० आचारार्थः नीराजनार्थोदीपः। राज्ञां वाजिप्रभृतीनां वा नीराजनार्थे दीपे।

आचारवत् = त्रि० आचारः शास्त्रोक्तानुष्ठानं कर्त्त व्यतयाऽस्त्यस्य मतुप् मस्य वः। शास्त्रोक्तानुष्ठानयुक्ते स्त्रियां ङीप्।

आचारवर्जित = त्रि० आचारेण वर्जितः। शास्त्रोक्ताचारहीने आचारहीनादयोऽप्यत्र

आचारवेत्तृ = त्रि० आचारं वेत्ति विद–तृच् स्त्रियां ङीप्। आचाराभिज्ञे।

आचारवेदिन् = त्रि० आचारं विद–णिनि। आचाभिज्ञे स्त्रियां ङीप्।

आचारवेदी = स्त्री आचारस्य वेदीव पुण्यभूमौ हेम०।

आचाराङ्ग = न० आचारमङ्गमिव। दृष्टिवादे द्वादशसु अङ्गेष् मध्ये अङ्गभेदे हेमचन्द्रः।

आचारिन् = त्रि आचरति शास्त्रोक्तानुसारेण आ + चरणिनि। शास्त्रोक्तानुष्ठानवति स्त्रियां ङीप्।

आचारी = स्त्री० सम्यक् चारः प्रसरणं यस्याः गौ० ङीष्। (हेलञ्चा) हिलमोचिकालतायाम्।

आचार्य्य = पु० आ + चर–ण्यत्। “उपनीय तु यः शिष्यं वेदमध्यापरेत् द्विजः। सकल्पं सरहस्यं च तमाचार्य्यं प्रचक्षते” इति मनक्तलक्षणे १ वेदाध्यापयितरि, “आम्नायतत्त्वविज्ञानाच्चराचरसमानतः। यमादियोगसिद्धत्वादाचार्य्य इति कथ्यते” इत्युक्तलक्षणे २ मतप्रस्थापके शङ्कराचार्य्यादौ च। स्त्रियां टाप् आचार्य्या। आचार्य्यपत्न्यान्तु ङीष् आनुक् च आचार्य्यानी न णत्वम्। “अग्निहोत्री तपस्वी च वेदमध्यापायेच्च यः। सकल्पं सरहस्यं च तमाचार्य्यं प्रचक्षते” दक्षः “कस्मादाचार्य्य आचारं ग्राहयत्याचिनोत्यर्थान् आचिनोति बुद्धिमिति वा” निरु० “आचार्य्यस्तु ते गतिं वक्तेति” छा० उप० “आचार्य्यात् पादमादत्ते पादं शिष्यः स्वमेधया। कालेन पादमादत्ते पादं सब्रह्मचारिभिः” नीलकण्ठधृता स्मृतिः। क्रमेणाचार्य्यसच्छिष्यधर्म्मभ्रात्रे कतीर्थिनः” याज्ञ०। यज्ञादौ कर्मोपदेशके ३ गुरौ “आचार्य्यस्तु यथा स्वर्गे शक्रादीनां वृहस्पतिः तथा त्वं मम यज्ञे स्मिन्नाचार्य्यो भव सुव्रत! यथा शक्रस्य वागीश आचार्य्यः सर्व्वकर्म्म सु। तथा मया त्वमाचार्य्यः वृतोऽस्मिन् यज्ञकर्म्मणि” इति विधानपारि० पुरा०। ४ पूज्यमात्रे त्रि० सुराचार्य्यः दैत्याचार्य्यः ५ शिक्षकमात्रे च “लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्य्यकं शरैः” रघुः।

आचार्य्यक = न० आचार्य्यस्य कर्म भावो वा योपधगुरूपोत्तमत्वात् वुञ्। आचार्य्यकर्मणि। “लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्य्यकं शरैः” रघुः “र्नष जातु महेष्वासः पार्थमक्लिष्टकारिणम्। हन्यादाचार्य्यकं दीप्तं संस्मृत्य शरनिर्मितम्” भा० उ० प० १६६ अध्या०। “आचार्य्यकं विजयि मान्मथमाविरासीत्” त्व आचार्यत्वं तत्रैव न० तल् आचार्य्यता तत्रैव स्त्री। सोऽचिरेणैव कालेन परमाचार्य्यतां गतः”

आचार्य्यभोगीन = त्रि० आचार्य्यभोगाय हितम् ख “आचार्य्यादणत्वम्” वार्तिकोक्तेः न णत्वम्। आचार्य्यभोगपर्य्याप्ते द्रव्यादौ।

आचार्य्यमिश्र = पु० आचार्य्योमिश्रः। अतिशयपूज्ये।

आचिख्यासा = स्त्री आख्यातुमिच्छा आ + ख्या–सन–अ। आख्यातुमिच्छायाम्।

आचिख्यासु = त्रि० आख्यातुमिच्छु आ + ख्या–सन उ। आख्यातुमिच्छौ।

आचित = त्रि० आ + चि + क्त। १ व्याप्ते, “कचाचितौ विष्वनिवागजौ गजौ” किरा० “फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम्” (वदरीं ददृशुः) भा० व० प० १४५ अ०। २ गुम्फिते ग्रथिते “अर्द्धाचिता सत्वरमुत्थितायाः” कुमारः रघुश्च “तुला पलशतं तासां विंशत्या भार आचितः” इत्युक्ते भारात्मके ३ द्विसहस्रपलमाने। आचितं दश भाराः स्यात् शाकटोभार आचित इत्युक्ते ४ दशभारमाने न० शाकटभारे पु०। परिमाणवाचकत्वान् ५ तन्मितेऽपि। ६ संगृहीते ७ छन्ने च। “आढकाचितपात्रात् खोऽन्यतरस्याम्” पा० “आचितं सम्भवति (स्वस्मिन् सन्निशयति) अवहरति पचति वा ख ठञ् वा। आचितीनः आचितिकः। आचितपरिमाणद्रव्यस्य स्वस्मिन् समावेशनार्हे तदवहारके तत्पाचके च त्रि०। ठञि स्त्रियां ङीप्खे टाप्।

आचितादि = पु० आचित आदिर्यस्य। गतिकारकोपपदात् क्तस्यान्तोदात्ततायां पाणिना पर्य्युदस्ते गणभेदे आचित, पर्याचित, आस्थापित, परिगृहीत, निरुक्त प्रतिपन्न, अपश्लिष्ट, प्रश्लिष्ट, उपहित, उपस्थित संहितागवि।

आचूषण = न० आ + चूष–ल्युट्। ओष्ठसंयोगविशेषेण रसानुभवार्थे रसाकर्षके व्यापारभेदे (चोषा) विषशल्याद्यपकर्षणार्थे २ ओष्ठादिसंयोगभेदेनाकर्षणे च। “नाडीयन्त्राण्यनेकप्रकाराणी” त्युपक्रम्य “तानि आचूषणार्थमिति”। सुश्रु० करणे ल्युट् ३ तत्साधने (शिङ्गा) “तत्रप्रच्छिते तनुवस्त्रपटलावनद्धेन शृङ्गेण शोणितमवसेचयेदाचूषणात्” सुश्रु०।

आच्छद् = त्रि० आच्छाद्यतेऽनेन आ + छद–णिच्–क्विप् ह्रस्वः। आच्छादने वस्त्रे घञर्थे क। आच्छदोऽप्यत्र पु०।

आच्छन्न = त्रि० आ + छद–क्त। आवृते “मेवाच्छन्नेऽह्नि दुर्दिनम्” अमरः।

आच्छाद = पु० आच्छाद्यतेऽनेन आ + छद–णिच्–करणे घज्। आवरणे।

आच्छादक = त्रि० आ + छद–णिच्–ण्वुल्। आच्छादनकर्त्तरि

आच्छादन = न० आ + छद–णिच्–करणे ल्युट्। आवरणसाधने १ वस्त्रे भावे ल्युट्। २ आवरणे न०।

आच्छादित = त्रि० आ + छद–णिच्–क्त। आवृते।

आच्छादिन् = त्रि० आ + छद–णिच्–णिनि। आच्छादके “स्तनयुगपरिणाहाच्छादिना वल्कलेन” शकु०।

आच्छाद्य = अव्य० आ + छद–णिच्–ल्यप्। १ आवृत्येत्यर्थे “आच्छाद्य चार्च्चयित्वा च श्रुत शीलवते स्वयम्” मनुः आ + छद–णिच्–कर्मणि यत्। २ आवरणीये स्तनादौ ३ गोप्ये च त्रि०।

आच्छिन्न = त्रि० आ + छिद–क्त। १ बलेन गृहीते २ सम्यक्छिन्ने च।

आच्छुक = पु० आ + छो–बा० डु संज्ञायां कन्। (आइच्)। वृक्षे।

आच्छुरित = न० आ + छुर–क्त। १ सशब्दहासे, २ नखाघाते ३ नखवाद्ये च। स्वार्थे क। आच्छुरितकमप्यत्र। “सामोन्मुखेनाच्छरिता प्रियेण दत्तेऽथ काचित् पुलकेन भेदे” भट्टिः। ४ मिश्रिते च त्रि०।

आच्छेद = पु० आ + छिद–घञ्। १ समन्ताच्छेदने २ ईषच्छेदने बलात्कारेण ३ ग्रहणे च। ल्युट्। आच्छेदनमप्यत्र न०

आच्छोटन = न० आ + स्फुट–ल्युट् पृ०। अङ्गुलिमोटने (तुडिदेओया)।

आच्छोटित = त्रि० आ–स्फुट–क्त पृ०। मोटलेन कृतध्वनौ। अङ्गुल्यादौ।

आच्छोदन = न० आच्छिद्यन्तेऽत्र छिद–ल्युट् पृषो० इतओत्। मृगयायाम् अमरः।

आच्युतदत्ति = पु० अच्युतदत्तस्यापत्यम् इञ्। आयुधजीविभेदे ततः दामन्यादि० स्वार्थे छन् आच्युतदत्तीयः। संघीभूते आयुधजीविभेदे।

आच्युतन्ति = पु० अच्युतन्तस्यापत्यम् इञ्। आयुधजीविभेदे ततः दामन्यादि० स्वार्थे छन्। आच्युतन्तीयः। संघीभूते आयुधजोविभेदे।

आच्युतिक = त्रि० अच्युतस्य छात्रः काशादि० ष्ठञ् ञिठ् वा। अच्युतच्छात्रे ष्ठञि स्त्रियां ङीष्।

आछ = आयामे (दींर्घविस्तारे) इदित् भ्वादि० पर० सक० सेट्। आञ्छति आञ्छीत्। आनाञ्छ–आञ्छ आञ्छिता। कर्मणि आञ्छ्यते। णिच् आञ्छयति ते आञ्चिछत्–त। सन् आञ्चिच्छिषति। क्विप् आन् आञ्छौ। च्छ्वोरिति सूत्रे अतुकोऽपि ग्रहणमिति आन् आंशौ इत्येके। “आञ्छितः आञ्छित्वा “आञ्चेदतिक्षिप्तम्”। “चक्रयोगेनाञ्छेदूर्व्वस्थिनिर्गतम्” इति च सुश्रु०।

आज = न० आज्यतेऽनेन आ + अन्ज–घञर्थे क। १ घृते जटा०। अजस्येदम् अण्। २ छागमांसादौ त्रि०। “अलङ्कृतं कुमारं कुशलीकृतशिरंसमहतेन वाससा संवीतमैणेयेन वाऽजिनेन ब्राह्मणम्, रौरवेण क्षत्रियम्। आजेन वैश्यम्” आश्व०। गृ० “गव्यमाजं तथा चौष्ट्रमाविकं माहिषञ्च यत्। अश्वायाश्चैव नार्य्याश्च करेणूनाञ्च यत् पयः” सुश्रुतः। अजभावे घञ् न वीभावः। ३ विक्षेपे आजानेयः।

आजक = न० अजानां समूहः वुञ्। छागसमूहे।

आजकरोण = त्रि० आजकेनोपलक्षिता रोणीनदीभेदः तस्याः सन्निकृष्टदेशादि अण्। अजसभूहोपलक्षितनदीसन्निकृष्टादौ

आजकार = पु० अजस्यायमाजः कारो यस्य। शिववृषे त्रिपुरासुरबघकाले विष्णुना वृषभकृत्यकरणात् तस्य तथात्वम् यथा। “अथ विष्णुर्महायोगी सर्व्वतोऽदृश्यतत्त्वतः। वृषरूपं समास्थाय प्रोज्जहार रथोत्तमम्। समा- क्तान्तं देवगणैः समग्रबलपौरुषैः। वलवांस्तोलयित्वा तु विषाणाभ्यां महावलः। ननाद प्राणयोगेन मथ्यभान इवार्ण्णवः। तृतीयं वायुविषयं समाक्रम् य विषाणवान्। ननाद वतवात्रादं समुद्र इव पर्व्वणि” हरि० ३२४ अ०।

आजगर = न० अजगरं सर्परूपं नहुषमधिकृत्य कृतोग्रन्थः अण्। अगस्त्यशापेनाजगररूपतां प्राप्तस्य नहुषस्य युधिष्टिरेण संबादरूपे भारतान्तर्गतवनपर्व्वणि अवान्तर पर्व्वभेदे तच्च भा० वनपर्व्वणि १७६ अ० अवधि १८० अध्यायपर्य्यन्ताध्यायषट्कात्मकं तत्कथा तत्रैव दृश्या। “निवातकवचैर्युद्धं पर्व्व चाजगरं ततः” भा० आ० प० १ अ०।

आजगव = न० अजगवमेव प्रज्ञाद्यण्। १ शिवधनुषि अजगवशब्दार्थे विवृतिः अजगवं तत्सादृश्यम स्त्यत्र अण्। तत्तुल्य दृढे २ धनुषि च “आजगवं नाम धनुः शराःशृङ्गोद्भवाश्च ये” भा० व० प० १२७ अ० “तथेत्युक्त्वा पृथुर्वैण्योगृहीत्वाजगवं धनुः” भा० द्रो० प० ६९ अ०।

आजधेनवि = पुंस्त्री० अजैव धेनुरस्य पृ० पुंवत् तस्यापत्यम् वाह्वादेः आकृतिगणत्वादिञ्। छागीरूपधेनुयुक्तमुनेरषत्ये।

आजनन = अव्य० आ + जन–ल्युट्। १ विख्यातजनने “तेषामाजननं पुण्यं कर्म्मणः प्रीतिमावहेत्” भा० आ० प० सीमायाम् अव्ययी०। २ जन्मपर्य्यन्ते अव्य०।

आजन्म(न) = अव्य० जन्मनः पर्य्यन्तम् सीमायाम् अव्ययी० वा अच्। जन्मपर्य्यन्ते “सोऽहमाजन्मशुद्धानाम्” रघुः।

आजन्मसुरभिपत्र = पु० आजन्मम् सुरभि पत्रमस्य। मरु वक वृक्षे राजनि०।

आजमार्य्य = पुंस्त्री० अजमारस्यापत्यम् कूर्व्वादि० ण्य। अजमारापत्ये।

आजमीढ = पु० अजमीढो देशभेदस्तत्र भवः अण्। (आजमीर) १ देशभवे तस्य राजा अण्। तद्देशाषिपे २ नृपे बहुषु तस्य लुक्। अजमीढाः। “सधस्तुतिमाजमीढासोऽग्मन्” ऋ० ४, ४४, ६, “अजमीढासः तत्सम्बन्धिन” भा०। ३ यादव नृपभेदे च “भरतस्य कुरोः पूरोराजमीढस्य चानघ! यादवानामिमं वंशम्” इत्युप्रक्रान्तम् भा० आ० प० ७५ अ०। “ओमित्येव वशिष्ठोऽपि भारतान् प्रत्यपद्यत। अथाध्यषिञ्चत् साग्नाज्ये सर्वक्षत्रस्य पौरवम्। विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम्। भरताध्युषितं पूर्ब्बं सोऽध्यतिष्ठत् पुरोत्तमम्। पुनर्बलिभृतश्चैव चक्रेसर्वमहीक्षितः। ततः स पृथिवीं प्राप्य पुनरीजे महाबलः। आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः ९४ अ०। अजमीढेषु भवः षुञ्। आजमीढकः बहुत्ववदामीढभवे त्रि०।

आजयन = न० आजीयतेऽत्र आ + जि–आधारे ल्युट्। युद्धे

आजरस = अव्य० जरापर्य्यन्तम् अव्ययो० अच् जरसादेशः। जरापर्य्यन्ते। आगता जरा यस्य प्रा० ब० अच् जरसादेशश्च। प्राप्तजराभावे “आजरसाय समनक्त्वर्यमा” ऋ० १०, ८५, ४३,।

आजवस्तेय = पुंस्त्री० अजवस्तेरृषेरपत्यम् शुभ्रा० ढक्। अजवस्तिनामकर्षेरपत्ये गृष्ठ्या० ढञ्। आवस्तिकोऽप्यत्र स्त्रियां ङीप्।

आजवा = ह त्रि० अजोवाह्यतेऽत्र वह–णिच् आधारे घञ् अजवाहोदेशभेदः तत्र भवादि अण्। अजवाहदेशभवादौ। मचदेशः वदरिकाश्रमादुत्तरस्यां पब्बैतोपरिस्थः तत्र हि अजैरेव भारो वाह्यते इति तस्य तथात्वम्।

आजातशत्रव = पु० अजातशत्रोरपत्यम् अण्। १ युधिष्ठिरापत्ये न जातः शत्रुरस्य। अशत्रुकस्य नृपभेदस्यापत्ये २ भद्रसेने नृपे च। “एतया वै भद्रसेनमाजातशत्रवमारुणिरभिचचार” शत० ब्रा० अजातशत्रुश्च काशीराजः यथोक्तम्” छा० उ० “सहोवाचाजातशत्रुं काश्यं व्रह्म ते ब्रवाणीति”।

आजाति = स्त्री आ + जन–क्तिन्। आजनने जन्मनि “ताडयित्वा तृणेनापि संवादान्मतिपूर्ब्बकम्। एकविंशतिमाजातीः पापयोनिषु जायते। “साक्ष्येऽनृतं वदन्पाशैर्बध्यते वारुणैर्भृशम्। विवशः शतमाजातीस्तस्मात्साक्ष्ये वदेदृतम्” इति च मनुः।

आजाद्य = पु० स्त्री अजमत्ति अद–अण् उप० स० तस्यापत्यम् गर्गा० यञ्। छागभक्षकस्य मुनेरपत्ये स्त्रियांङीप् यलोपश्च।

आजान = अव्य० जनोजननमेव अण् जानः तत्पर्य्यन्तम् अव्ययी०। सृष्टिकालपर्य्यस्ते मुख्ये। “अद्भ्यः सम्भृतः पृथिव्ये रसः विश्वकर्म्मणः समवर्तताग्रे तस्य त्वष्टा विदधद्रू पमेति तन्मर्त्यस्य देवत्वमाजानमग्रे” यजु० ३१, १७, “पूर्ब्बकल्पे पुरुषमेधयाजी आदित्यरूपं प्राप्तः स्तूयते। “अद्भ्यः जलात् पृथिव्याः सकाशात् पृथिव्यपां ग्रहणं भूतपञ्चकोपलक्षकम् भूतपञ्चकात् योरसः सम्भृतः पुष्टः तथा विश्वं कर्म्म यस्य विश्वकर्मणः कालस्य रसात्प्रीतेः योरसोऽग्रे प्रथमं समयर्तत समभवत् भूतपञ्चकस्य कालस्य च सर्व्वं प्रति कारणत्वात् पुरुषभेधयाजिनो लिङ्गशरीरे पञ्चभूतानि पुष्टानि कालश्च ततः पुष्टेभ्यः कश्चिद्रसयिशेषफलरूपोत्तमजन्मप्रद उत्पन्न इत्यर्थः। तस्य रसस्य रूपंविदधत् धारयन् त्वष्टा, आ- दित्यः एति प्रत्यहमुदयं करोति अग्रे प्रथमं मर्त्यस्य मनुष्यस्य सतस्तस्य पुरुषमेधयाजिनः आजानं देवत्वं मुख्यं देवत्वम् सूर्य्यरूपेण। द्विविधा देवाः कर्मदेवा आजानदेवाश्च कर्म्मणोत्कृष्टेन देवत्वं प्राप्ताः कर्म्मदेवाः सृष्ट्यादावुत्पन्ना आजानदेवाः ते कर्म्मदेवेभ्यः श्रेष्ठाः “ये शतं कर्म्मदेवानामानन्दाः स एक आजानदेवानामानन्द इति श्रुतेः” वेददी० जननसाधने २ प्रकृतौ च। “न हस्तिनं प्रतिगृह्णीयात् पुरुषाजानोहि हस्तोति” शत० भा० पुरुषाजानः पुरुषप्रकृतिकः” इति भा०। आ + जन घञ् दीर्घः” ३ उत्पत्तौ पु०।

आजानज = त्रि० आजानं जायते। सृष्टिकालादरभ्यजाते देवादौ। द्विविधा हि देवाः केचित् कर्म्मदेवाः केचिदाजानदेवाश्च यथ “ते ये शतमाजनजानां देवानामानन्दाः स एकः ये कर्म्मणा देवानपियन्ति” ऐत० उ०।

आजानदेव = पु० आजानं सृष्टिकालमारभ्य देवः देवत्वमाप्तः। कर्म्मणानुत्पन्नदेवभावे चिरप्रसिद्ध्वेदेवे “अथ ये शतं कर्म्मदेवानामानन्दाः स एक आजानदेवानामानन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतोऽथ ते शतमाजानदेवानामानन्दाः” वृ० उ०। “आजानदेयानामेक आनन्दः उत्पत्तितएव ये देवास्ते आजानदेवाः” भा०।

आजानि = त्रि० आ + जन–अन्तर्भूतण्यर्थे इण् छन्दसीति दीर्घः। १ जनकेजननकर्त्तरि। “त्रीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने!” ऋ० ३, १७, ३। आजानीः जनयित्र्योमातरः” भा०। अन्तर्भूतण्यर्थाभावे। २ अनुजाते च “तत्रैव पक्षान्तरे आजनयः अनुजाताः स्वसार इति भाष्यकृता व्याख्यातम्।

आजानिक्य = न० आजानौ भवः ठन् तस्य भावादौ पुरो० यक्। आजन्मसिद्धपदार्थस्य भावे कर्मणि च।

आजानेय = पु० आजे विक्षेपेऽपि आनेयोऽश्ववाहो यथा स्थानमस्य। “शक्तिभिर्भिन्नहृदयाः स्खलन्तश्च पदेपदे। आजानन्ति यतः संज्ञामाजानेयास्ततः स्मृताः” इत्युक्तलक्षणे उत्तमाश्वे।

आजायन = पुंस्त्री अजस्यापत्यम् नडा० फक्। अजनामकनृपस्य ब्रह्मणोवाऽपत्ये।

आजि = स्त्री अजन्त्यस्याम् अज–इण् न वीभवः। १ समरभूमौ २ संग्रामे, “आजिं न जग्मुर्गिर्वाहो अश्वाः” ऋ० ६, २४, ६, “ते यावन्तएवाजौ तावान् स ददृशे परैः” रघुः। “अस्माकमिन्द्र! दुष्टरं पुरोयाचालमाजिषु” ऋ० ५, ३५, ७ “आजिषु संग्रामेषु” मा०। ३ मर्य्यादायां स्त्री वा ङीप्। “अतोयान्यानि वीर्य्यवन्ति कर्म्माणि यथाग्नेर्मन्थनम् आजेः सरणम् दृढस्य धनुषआयमनम्” छा० उ० “आजेः मर्य्यादायाः सरणं घावनम्” शङ्करभा० ५ क्षणे ६ मार्गे पु०। “धन्वना गां धन्वनाजिं जयेम” यजु० २९, ३९। “धन्वना आजिं मार्गं जयेम अजन्ति गच्छन्ति यस्मिन्नसावाजिर्मार्गः” वेददी०। भावे इण् ७ आक्षेपे।

आजिनीय = त्रि० अजिन + चतुरर्थ्यां कृशाश्वा० छण्। चर्म्मसन्निकृष्टदेशादौ।

आजिरि = त्रि० अजिर + चतुरर्थ्यां सुतङ्गमा० इञ्। अङ्गनसन्निकृष्टदेशादौ।

आजिरेय = त्रि० अजिर + शुभ्रादि० ढक्। अङ्गनभवादौ।

आजिहीर्षा = स्त्री आहर्त्तुमिच्छा आ–हृ सन्–भावे अ। आहरणेच्छायाम्। उ। आजिहींषुः। आहरणेच्छौ त्रि०।

आजीकूण = न० आजों कूणति आवृशोति यस्मिन् आ + कूणआधारे क। मर्य्यादावरके देशभेदे ततः धूमादि० भवादौ पथ्यादौ वुञ्। आजीकूणिकः। आजीकूणदेशभवे–पथि अध्याये, न्याये, विहारे, मनुष्ये, हस्तिनि, गोमये च।

आजीगर्त्ति = पुंस्त्री० अजीगर्त्तस्यापत्यम् बाह्वा० इञ्। अजीगर्त्त स्यापपत्ये।

आजीव = पु० आजीव्यतेऽनेन आ + जीव–करणे घञ्। १ आजीवनोपाये द्रव्यादौ २ उपाये च। अन्नाशनमुपक्रम्य “तस्मिन् काले स्थापयेत्तत्पुरस्तात् वस्त्रं शस्त्रं पुस्तकं लेखनीञ्च। स्वर्ण्णं रौप्यं यच्च गृह्णाति बालस्तैराजीवैस्तस्य वृत्तिः प्रदिष्टा” मु० चि०। नृणां जन्मलग्नावधि दशमभावे मेषादीनां क्षेत्रहोराद्रेक्काणनवांशद्वादशांशत्रिं शाशरूपैः षड्भिर्वर्गैः क्रमेणाजीवोपायविशेषज्ञानं भवति यथोक्तं जातके “अथ कल्याणवर्म्मोक्तां दशमेऽंशविभेदजाम्। वृत्तिचिन्तां लिखेत्कर्म्माजीवोक्तामपि चिन्तयेत्। “वाटिकाकृषिबणिग्रससेवादूत्यतोऽजगणतः स्वभे भवेत्। जोवनं वृषगणाच्चतुष्पदैः पक्षिधान्यशकटादिसंग्रहैः। मौक्तिकादिजलजैर्लिपिलेख्यैर्विद्रु मादिकबणिक्क्रियादिभिः। द्वन्द्वभागत अथो कुलीरतोनीरजैर्विषभगाग्निशस्त्रजैः। वनाद्रिकाष्ठसन्नाह कुप्याकुप्यैश्च धान्यकैः। कृषिपाषाणबाणिज्यैर्वृत्तिः सिंहांशतः खभे। गान्धर्वशिल्पशकटैर्मणिहेमकर्म्मगन्धक्रयैर्नभसि षट्कगणैश्चलेख्यैः। हेमाम्बुगोमहिषधान्यकृषिक्रयैश्च मूलैर्धनैर्नृपतितोऽपि तुलोत्थवर्गे। स्त्रीसङ्गमाप्तधनचौर्य्यचिकित्सितैश्च निन्द्योद्यमैर्नृपतिसेवनतोऽलिवर्गे। भैषज्यरूपगणितादिकयन्त्रबिद्याभूपालमन्त्रिगिरिदुर्गवशाद्धनुःस्थे। वराङ्गना वारिभवोत्थवित्ताः श्रेष्ठा रताश्चापि रसायने स्युः। क्रीडासु रामासु महापणेषु मृगास्यवर्गे दशमेऽतिवित्ताः। शस्त्राग्निभेदखननादिकवीर्य्यभारस्कन्धोपवृत्तिरपि बाहुबलाद्घटोत्थे। खस्थे गणे झषभवे जवशस्त्रवाहयोनि प्रपायनधनानि नरस्य पण्यैः”। भावे घञ्। ३ आजीवार्थमालम्बने। आजीवति कर्त्तरि अच्। ४ आजीवनकारिणि” कर्म्माजीवः नृपाजीव इत्यादो तु आ + जीव–अण्। उप० स० इति भेदः।

आजीवन = न० आजीवत्यनेन करणे ल्युट्। वृत्त्युपाये भावे ल्युट्। वृत्त्यर्यमुपायग्रहणे “आजीवनार्थं धर्म्मस्तु दानमध्ययनं यजिः” मनुः “स्त्रीणामाजीवनार्थञ्च प्रदेयं प्रीतिपूर्ब्बकम्”। “स्त्रीणामाजीवनक्षयादिति” च स्मृतिः।

आजीविका = स्त्री आजीवयति आ + जीव णिच्–ण्वुल्। जोविकायां वृत्तौ जीवनार्थे व्यापारे। आ + जीव–कर्त्तरि ण्वुल्। आजीवकः आजीवनकर्त्तरि त्रि०।

आजीव्य = त्रि० आजीव्यतेऽनेन बा० करणे ण्यत्। आजीवनोपाये १ वृत्त्यादौ “आजीव्यः सर्व्वभूतानाम्” रामा० आजीव्यते वृत्त्यर्थमालम्ब्यतेऽसौ आ–जीव–कर्मणि अच्। २ वृत्त्यर्यमालम्बनीये नृपादौ। आजीव्यतेऽत्र आधारे बा० ण्यत्। ३ आजीवनीयदेशे “रम्यमानत् सामन्तं स्वाजीव्यं देशमावसेत्” मनुः। तेऽपि सर्वेनिवर्त्तन्तां येऽपि सूदानुयायिनः मया यथोचिताजीव्यैः संविभक्ताश्च वृत्तिभिः” भा० व० प० ९३ अ०।

आजू = स्त्री आजवति आ + जु–क्विप् दीर्घः। भृतिं विना कर्भकारके। (वेगार) “हठादभृतिकः क्लेशैर्वृष्टिराजूश्च कीर्त्त्यते। इत्युक्ते कर्म्मकरभेदे।

आजूर् = स्त्री आ + ज्वर–क्विप् ऊठ्। विष्टौ मुकुटः।

***