आकिञ्चन्य = न० अकिञ्चनस्य भावः ष्यञ्। दरिद्रतायाम्।

आकिदन्ति = पु० १ देशभेदे २ तद्देशवासिनि च। दामन्या० आयुधजीविसंघार्थे छ। आकिदन्तीयः तद्देशीयायुजीविसंघे। बहुषु छस्य लुक्। आकिदन्तयः।

आकीर्ण्ण = त्रि० आ + कॄ–क्त। १ व्याप्ते, ३ विक्षिप्ते च। “आकीर्ण्णमृषिपत्नीनामुटजद्वाररोधिभिः” रघुः। “स्वपुष्पैराकीर्ण्णं कुसुमधनुषो मन्दिरमहो” श्यामास्तवः।

आकीम् = अव्य० आ–कन्–वा० ङीमि। १ वर्ज्जने २ वितर्के च चादिगणे माकीमित्यत्र आकीम् इति पाठान्तरम् “आकी~ सूर्य्यस्य रोचनाद्विश्वादेवा~ उषर्बुधः” ऋ० १, १४, ९,।

आकुञ्चन = न० आ + कुचि–ल्युट्। सङ्कोचे, प्रसारितस्य संक्षिप्तत्वसम्पादनसाधने क्रियाभेदे “आकुञ्चनन्तु सत्स्वेवावयवानामारम्भकसंयोगेषु परस्परमवयवानामनारम्भकसंयोगोत्पादकं वस्त्राद्यवयविकौटिल्योत्प्रादकं कर्म्म, यतो भवति सङ्कुचति पद्मं सङ्कुचति वस्त्रं सङ्कुचति चर्म्मेति प्रत्ययः” वै० सू० उप०। स च कर्म्मभेदः कर्म्म च पञ्चविधम्। “उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्म्मांणि” वै० सू०। अत्र च उत्क्षेपणत्वावक्षेपणत्वाकुञ्चनत्वप्रसारणत्वगमनत्वानि कर्म्मत्वसाक्षाद्याप्याः पञ्च जातयः” वै० सू० उ०। कर्म्म च “एकद्रव्य मगुणं मंयोगविभागेष्वनपेक्षकारणमिति कर्म्मलक्षणम्” वै० सू० उक्वलजणकम्। विवृतञ्च उप० “एकमेव द्रव्यमाश्रयोयस्य तदेकद्रव्य न विद्यते गुणोऽस्मिनित्यगुणम्” संयोगविभागेष्वनपेक्षकारणगिति स्वोत्पत्त्यनन्तरोत्पत्तिकभाव भूतानपेक्षमित्यर्थः तेन समवायिकारणापेक्षायां पूर्ब्बसंयोगाभावापेक्षयाञ्च नासिद्धत्वम्। स्वोत्पत्त्यनन्तरोत्पत्तिकानपेक्षत्वं वा विवक्षितम् पूर्ब्बसंयोगध्वं सस्यापि स्वोत्पत्त्यनन्तरानुत्पत्तिकत्वेन अभावत्येन तस्याद्यक्षणे सम्बन्धाभावात् तेन नित्यावृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वं कर्म्मत्वम्। प्रचलतीति प्रत्ययासाधारणकारणतावच्छेदकजातिमत्त्वं वा गुणान्यनिर्गुणमात्रवृत्तिजातिमत्त्वं वा स्वोत्पत्त्यव्यवहितोत्तरक्षणवृत्तिविभागकारणतावच्छेदकजातिमत्त्वं वा” “उत्क्षेपणं तथावक्षेपणमाकुञ्चनं तथा। प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्ज च” भाषा० “सन्धिगतः पीड्यमानो न प्रवर्त्तत आकुञ्चनप्रसारणोन्नमनविनमनप्रधावनोत्कासनप्रबाहणैश्च स्रवति” “प्रसारणाकुञ्चनबन्धनपीडनैर्भृशमुपचरेत्” अनुगृह्यते चाकुञ्चनप्रसारणादिभिर्विशेषैः” इति च सुश्रुतः।

आकुञ्जित = त्रि० आ + कुचि–क्त। १ आभुग्ने २ सङ्कोचिते च। “नतांसमाकुञ्चितसव्यपादम्” भट्टिः।

आकुल = त्रि० आ + कुल–क। व्यग्रे। “तं तथा कृपयाविष्ट मश्रुपूर्ण्णाकुलेक्षणम्” गीता “त्रासाकुलः परिपतन् परितो निकेतान्यूर्म्मिः” “अभिचोद्यं प्रतिष्ठासुरासीत् कार्य्यद्वयाकुलः” इति च माघः। निराकुलः पर्य्याकुलः व्याकुलः समाकुलः। आकुलत्वञ्च मनश्चाञ्चल्यसम्पादकमानसावस्थाभेदः स्वक्रियाऽसामर्थ्यञ्च। कृत्यर्थे णिच् आकुलयति अभूततद्भावे च्वि क्राद्यनुप्रयोगः आकुलीभूतः आकुलीकृतः “द्रविणं परिमितमविकव्ययिनं जनमाकुलीकुरुते”

आकुलाकुल = त्रि० आकुल + प्रकारे द्वित्वम्। १ आकुलप्रकारे २ अत्यन्ताकुले च।

आकुलि = पु० आ + कुल–इन्। व्याकुलत्वे।

आकुलित = त्रि० आ + कुल–क्त। व्याकुलीभूते आकुल + कृत्यर्थे णिच् कर्म्मणि क्त। आकुलीकृते “मार्गाचलव्यतिकराकुलितेव सिन्धुः” कुमा०।

आकुलीकृत = त्रि० अनाकुलः आकुलः कृतः आकुल + च्वि–कृ कर्म्मणि क्त व्याकुलतां प्रापिते।

आकुलीभूत = त्रि० आकुल + च्वि–भू–क्त। स्वयं तथाभूते।

आकूत = न० आ + कू–भावे क्त। आशये अभिप्राये। “स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम्” सा० का० यथा शाक्तीकादयः–“कृतसङ्केताः परास्कन्दने प्रवृत्ताः तत्रान्यतमस्याकूतमवगम्यान्यतमः प्रवर्त्तते तथा अन्यतमस्य करणस्याकूतात् स्वकार्य्य करणाभिमुखादन्यतमं करणं प्रवर्त्तते” इति सां० कौ० “इतीरिताकूतमनीलवाजिनः” किरा०।

आकूणित = आ + कूण–क्त। ईषत्सङ्कुचिते। “मदनशरशल्य वेदनाकूणितत्रिभागेण” काद०।

आकूति = स्त्री आ + कू–भावे क्तिन्। अभिप्राये। “आकूतीनाञ्च चित्तीनां प्रवर्त्तक! नमामि ते” भा० व० २६२ अ०। द्रोपदीकृतकृष्णस्तवः। “आकूतिः सत्या मनसो मे अस्तु” ऋ० १०, १२४, ४। “सं म आकूतिरृध्यात्” ऋ० ४, ३६, २। संज्ञायां क्तिच्। स्वायम्भुवमनोः शतरूपायां पत्न्यामुत्पादिते कन्याभेदे तत्कथा यथा। “कस्य रूपमभूद्द्वेधा यत् कायमभिचक्षते। ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत। यस्तु तत्र पुमान् सोऽभून्मनुः स्वायम्भुवः स्वराट्। स्त्रो यासीत् शतरूपाख्या महिष्यस्य महात्मनः। तदा मिथुनधर्म्मेण प्रजा ह्येधाम्बभूविरे। स चापि शतरूपायां पञ्चापत्यान्यजीजनत्। प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत!। आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम!। आकूतिं रुचये प्रादात् कर्द्दमाय तु मध्यमाम्। दक्षायादात् प्रसूतिञ्च यतआपूरितं जगत्” भा० ३ स्क०।

आकृति = स्त्री आक्रियते व्यज्यते जातिरनया करणे क्तिन्। जातिव्यञ्जकेऽवयवसंस्थानभेदे। “आकृतिग्रहणा जातिः” महाभा०। “जात्याकृतिव्यक्तयस्तु पदार्थः” गौ० सू० तत्राकृतिलक्षणं तत्रैवोक्तम् “आकृतिर्जातिलिङ्गाख्या” गौ०। “जातेर्गोत्वादेः मास्नादिः संस्थानविशेषो हि लिङ्गमिति। “इयमाकृतिरेव शक्यार्थः इति केचिन्मन्यन्ते। तदभिप्रायेण, महाभा०। “येनोच्चारितेन सास्रालाङ्गूलककुदखुरविषाणिनां संप्रत्ययो भवति स शब्द इति” अनाकृतिः संज्ञा आकृतिमन्तः संज्ञिन” इति। “लोकेऽपि ह्याकृतिमतो मांसपिण्डस्य देवदत्त इति संज्ञा क्रियते” इति च महाभा०। गौतमेन तु इतरपक्षनिराकरणेन त्रयाणामेव शक्यार्थत्वमुररीकतं यथा। “आकृतिस्तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः” सू०। आकृतिः पदार्थः कुतः सत्त्वस्य प्राणिनोगवादेर्व्यवस्थानरिद्धेर्व्यवस्थितत्वसिद्धेः तदपेक्षत्वादाकृत्यपेक्षत्वात् अयमश्वोगौरयमित्यादि व्यवहारस्याकृतत्यपेक्षत्वात् आकृतिरेव शक्यार्थः। इति यन्मतं तद्दूषयित्वा जातेः पदार्थत्वमाह “व्यक्त्याकृति युक्तेऽप्यप्रसङ्गात् प्रोक्षणादीनां मृद्गवके जातिः” सू०। मृद्गवके व्यक्त्याकृतियुक्तेऽपि प्रोक्षणादीममप्रसङ्गात् जातिः पदार्थः। इतरथा मृद्गवकस्यापि व्यक्तित्वात् गवाकृतिमत्त्वाच्च वैधप्रोक्षणादिप्रसङ्ग इति भावः। एवं जात्याकृतिव्यक्तीनां प्रत्येकस्य शक्यत्वपक्षं निराकृत्य त्रयाणामेव शक्यत्वमित्याह। जात्याकृतिव्यक्तयस्तु पदार्थः” सू० “तुशब्देन एकमात्रपदार्थत्वव्यवच्छेदः एककवचनं तु तिसृष्वप्येकैव शक्तिरिति सूचनाय, विभिन्नशक्तौ कदाचित् कस्यचिदुपस्थितिः स्यात्। शक्तेस्तुल्यत्वेऽपि व्यक्तेर्विशेष्यत्वं तथैव शक्तिग्रहात्। नचाकृत्यादिसाधारणशक्यतावच्छेदकाभावात् न शक्त्यैक्यम् इति वाच्यम् तथा नियमे मानाभावात् इदं गवादिपदमभिप्रेत्याह तेन पश्वादिपदस्य जात्यवाचकत्वेऽपि न क्षतिः जातिपदं वा धर्म्म परं तथैव लक्षणस्य वक्तव्यत्वादिति” वृत्तिः। एवं शक्यत्वं व्यवस्थाप्य आकृतेर्लक्षणमुक्तं “आकृतिर्जातिलिङ्गाख्या” सू० प्राग्विवृतम्। एतेनाकृतिशब्दस्य जातिव्यक्त्योः संबन्धपरत्वकल्पनमर्वाचीनानां परास्तम् सम्बन्धस्य जातिलिङ्गत्वाभावात् तस्य शक्यतावच्छेदसम्बन्धत्वेन शक्यत्वाभावाच्च। शा० भा० आकृतीनां नित्यत्वोक्तिः तुल्याकृतिमवाहनित्यत्वाभिप्रायेण द्रष्टव्या “यत्राकृतिस्तत्र गुणा वसन्ति” नीतिः “न तुलाविषये तवाकृतिः” “त्वदुदाहरणाकृतौ गुणाः” इति च नैष० २ आकारे “इङ्गितं हृद्गतोभावो बहिराकार आकृतिरिति” सज्जनोक्तेः ३ आकृतियुक्ते देहे “किमिव हि मधुराणां मण्डनं नाकृतीनाम्” शकु०। “स्पष्टाकृतिः पत्ररथेन्द्रकेतोः” रघुः। “स्फुरितं मनोगतमिवाकृतयः” “गोवर्द्धनस्याकृतिरन्वकारि” इति च माघः। “नाकृतिगुरुता गुरुता” उद्भटः। ४ आकरे मूलग्रन्थादौ च आकृतिगणः।

आकृतिगण = पु० आकृतौ आकारप्रसिद्धोगणः शाक० त०। पाणिन्युक्ततत्तत्कर्म्मनिमित्ते शब्दसमूहे। यथा स्वरादिराकृतिगणः कण्डादिरित्यादि गणप्राठे भूरिप्रयोगः।

आकृतिच्छत्रा = स्त्री छादयति छद–णिच् कर्त्तरि ष्ट्रन् ह्रस्वः २ त०। (घोषा) घोषातकीलतायाम्।

आकृष्ट = त्रि० आ + कृष–क्त। कृताकर्षणे। “नाकृष्टं न च टङ्कितं न नमितं नोत्थापितं स्थानतः” महाना०।

आकृष्टि = स्त्री आ + कृष–क्तिन्। आकर्षणे।

आके = अव्य० आ + कन–डे। १ अन्तिके २ दूरे च निरु०। “त्वमग्ने ऋभुराके नमस्य” ऋ० २, १, १०

आकेकरा = स्त्री आके अन्तिके कीर्य्यते कॄ–कर्म्मणि अप्। “द्वष्टिराकेकरा किञ्चित्स्फुटापाङ्गे प्रसारिता। मीलितार्द्धा’परा लोके तारा व्यवर्त्तनोद्भवा” इत्युक्तलक्षणे दृष्टिभेदे नेत्रादिविशेषणत्वे न० “निमीलदाकेकरलोलचक्षुषा” माघः।

आकेनिप = त्रि० आकेऽन्तिके निपतन्ति नि + पत–ड। अन्तिकपातिनि “आकेनिपासो अहभिर्दविध्वतः” ऋ० ४, ४५, ६,

आकोकेर = पु० ज्योतिषोक्ते मकरराशौ। “क्रियतावुरिजित्त मकुलीरलेयपाथेययूककौर्पाख्याः। तैक्षिक आकोकेरोहृ- द्रोगश्चान्त्यभं चेत्थम्” ज्यो०।

आ(अ)कौशल = न० अकुशलस्य भावः अण् द्विपदवृद्धिः पूर्व्वस्य वा। अपाटवे।

आक्रन्द = आ + कन्द–घञ्। १ सारवे रोदने, २ आह्वाने, ३ शब्दे, च। कर्मणि घञ्। ४ मित्रे, ५ भ्रातरिच। आधारे घञ्। ६ दारुणे युद्धे, दुःखिनां ७ रोदनस्थाने च। आक्रन्दयति अच्। ८ पार्ष्णिग्राहपश्चाद्वर्त्तिनि नृपभेदे। अरिशब्दे ३५५ पृष्ठे विवृतिः “आक्रन्दे चाप्यपैहीति न दण्डंमनुरब्रवीत्” मनुः पार्ष्णिग्राहञ्च संप्रेक्ष्य तथाक्रन्दञ्च मण्डले” मनुः।

आक्रन्दन = न० आ + क्रन्द–ल्युट्। १ सारवरोदने २ आह्वाने च।

आक्रन्दिक = त्रि० आक्रन्दे दुःखिनां रोदनस्थानं धावति ठञ् टक् वा। दुःखिःनां रोदनस्थानधावके ठञि स्त्रियां ङीप्

आक्रन्दिन् = त्रि० आक्रन्दति आ + क्रदि + णिनि। रोदनपूर्ब्बकाह्वायके। “परस्पराक्रन्दिनि चक्रवाकयोः” कुमा०।

आक्रन्दे = अव्य० आ + क्रन्द–आधारे के। युद्धे निरु०।

आक्रम = पु० आ + क्रम–घञ् अवृद्धिः। १ बलेनातिक्रमणे। ल्युट्। आक्रमणमप्यत्र न०। आक्रम्यते परलोकोऽनेन करणे घञ्। परलोकप्राप्तिसाधने २ विद्याकर्म्मादौ। “अथ यथाक्रमोऽयं परलोके स्थाने भवति तमाक्रममाक्रम्योभयान् पाप्मन आनन्दांश्च पश्यति” वृ० उप। “अयं पुरुषः परलोकस्थाने प्रतिपत्तव्ये निमित्ते यथाक्रमो भवति यादृशेन परलोकप्रतिपत्तिसाधनेन विद्याकर्म्मपूर्ब्बप्रज्ञालक्षणेन युक्तोभवति तमाक्रमं परलोकस्थानायो खीभूतं प्राप्ताङ्कुरीभावमिव वीजं तमाक्रममाक्रम्यावष्टभ्य” भा० “अथ केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमते” शत० ब्रा०। ३ कृताक्रमणे ४ अभिभूते ५ व्याप्ते ६ आग्रहे च। आक्रामति पराभवति क्षुधाम् आ + क्रम–अच्। ७ अन्ने “आक्रमोऽस्याक्रमाय त्वा” यजु० १५, ९। “आक्रमोऽन्नम्” वेददीपः।

आक्रान्त = त्रि० आ + क्रम–क्त। १ पराभूते २ खोपरिगत्या व्याप्ते सममेव समाक्रान्तं द्वयं द्विरसगामिना” रघुः। “नितान्तमाक्रान्त इवाङ्गनानाम्” माघः।

आक्रान्ति = स्त्री आ–क्रम भावे क्तिन्। आक्रमणे उपरिस्थानेन प्राप्तौ “आक्रान्तिसम्मानितपादपीठम्” कुमा०।

आक्रीड = पु० आक्रीडत्यत्र आ + क्रीड–घञ्। क्रीडास्थाने उद्यानादौ। “आक्रीडपर्व्वतास्तेन कल्पिताः स्वेषु येश्मसु” कुमा० “कमप्याक्रीडमासाद्य तत्र विशिश्रमिषुः” दशकु०। कर्त्तरि अच्। २ विहारशीले त्रि०।

आक्रीडिन् = त्रि० आ + क्रीड–घिणुन्। क्रीडाशीले स्त्रि यां ङीप्

आक्रुष्ट = त्रि० आ + क्रुश–क्त। १ कृताक्रोशे यं प्रति आक्रोश कृतस्तस्सिन्। २ शब्दिते ३ निन्दिते च। “भेरीभिराक्रुष्टमहागुहामुखम्” माघः। भावे क्त। ४ परुषभाषणे न० “मार्ज्जारमूषिकास्पर्शे आक्रुष्टे क्रोधसम्भवे” कात्या० “आक्रुष्टे परुषभाषणे” श्रा० त० रघुनन्दनः।

आक्रोश = पु० आ + क्रुश–घञ्। १ विरुद्धचिन्तने, २ शापे ३ निन्दायाञ्च ल्युट् आक्रोशनमप्यत्र न०। ४ अपवादे “पूर्ण्णमासीद्दुराक्रोशं स्तनतस्तस्य भूतले” रामा० “कुलाक्रोशकरं लोके धिक् ते चारित्रमीदृशम्” रामा०।

आक्रोशक = त्रि० आ + क्रुश–ण्वुल्। आक्रोशकारके।

आक्रोष्टृ = त्रि० आ + क्रुश–तृच्। आक्रोशकारके। आक्रुश्यमानोनाक्रोशेन्मन्युरेव तितिक्षत्तः।। आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति” भा० आ० प० ८६ अ०।

आक्ली = अव्य० आ + क्लिद–डी। विकारे उर्य्यादि। आक्लीकृत्य।

आक्लेद = पु० आ + क्लिद–घञ्। आर्द्रीभावे।

आक्षद्यूतिक = न० अक्षद्यूतेन निर्वृत्तम् ठक्। आक्रीडया जाते वैरे।

आक्षपाटिक = पु० अक्षपटेक्रीडास्थाने व्यवहारस्थाने वा नियुक्तः ठक्। १ अक्षक्रीडाध्यक्षे २ व्यंवहाराध्यक्षे प्राद्धिवेके च।

आक्षपाद = त्रि० अक्षपादस्येदम् अण्। १ गौतमसाम्बन्धिमते। तेन प्रोक्तम् अण्। तत्कृते २ शास्त्रे च तच्च शास्त्रं प्रमाणादि षोडशपदार्थतत्त्वावेदकं पञ्चाध्यायात्मकम्। प्रमाणप्रमेयेत्यादि सूत्रमारभ्य हेत्वाभासाश्च यथोक्ताः इत्यन्तसूत्रसमुदात्मकम्। तस्य संक्षिप्तार्थः न्यायशब्दे वक्ष्यते। अक्षपादप्रणीतं वेत्ति अण्। न्यायमतामिज्ञे ३ नैयायिके च।

आक्षार = पु० आ + क्षर–णिच्–घञ्। अगम्यागमनं कृतं त्वयेति पुरुषं प्रति, अगम्यगमनं त्वया कृतमिति स्त्रियं च प्रति दूषणे। ल्युट् आक्षारणमप्यत्र न०। युच् टाप्। अत्रार्थे स्त्री।

आक्षारित = त्रि० आ + क्षर–णिच्–क्त। आक्षारोमिथुनविषयापवादस्तेन दूषिते।

आक्षिक = त्रि० अक्षेण दीव्यति जयति जितं वेति अक्ष + ठक्। १ अक्षेण देवके २ अक्षेण जयिनि ३ अक्षजिते च। “प्रातिभाव्यं वृथादानमाक्षिकं सौरिकं च यत्” मनुः भारभूतानक्षान् हरति वहत्यावहति वा वंशा० अक्ष पूर्ब्बात् भारात् ठक्। आक्षभारिकः अक्षभारवाहकादौ त्रि० अक्षोऽत्र वंशादिसाहचर्य्यात् कलिद्रुमः।

आक्षित् = त्रि० आ + क्षि–क्विप्। “आवर्त्तमाने “आक्षित् पूर्ब्बास्वपरा” ऋ० ३, ५५, ५। “आक्षित् आवर्त्तमानः” भा०।

आक्षिप्त = त्रि० आ + क्षिप–क्त। १ कृताक्षेपे यस्याक्षेपः कृतस्तस्मिन् २ आकृष्टे च।

आक्षीव = पु० आ + क्षोव–णिच्–अच्। १ शोभाञ्जनवृक्षे। क्षीव–क्त नि० क्षीवोमत्तः प्रादि०। २ ईषन्मत्ते ३ सम्यक्प्रमत्ते च त्रि०।

आक्षेप = पु० आ + क्षिप–घञ्। १ भर्त्सने, २ अपवादे, ३ आकर्षणे, धनादिन्यासरूपे, ४ निक्षेपे ५ अर्थालङ्कारभेदे स च ३९४ पृष्ठे दृश्यः। ६ निवेशने “गोरोचनाक्षेपनितान्तगौरैः” कुमा० ७ उपस्थापने “स्वसिद्धये पराक्षेपः परार्थे स्वसमर्पणम्। उपादानं लक्षणं चेति” काव्यप्र०। ८ अनुमाने यथा जातिशक्तिवादिनां मते व्यक्तेराक्षेपात् बोघः। सचानुमानमेव। तथा हि गामानयेति वाक्येगोत्वकर्म्मकानयनं गोकर्म्मकानयनं विनाऽनुपपन्नमित्यनुपपत्तिज्ञानेन गोत्वाश्रयस्य व्यक्तेरनुमानेन भानम्। यथोक्तं शब्दशक्ति० “गामानयेत्यादौ गोत्वादिकर्म्मकत्वेनैवानयनादेरन्वयधोः गोत्वादिशक्तत्वेन पदज्ञानस्य गोत्वाद्यानयनबुद्धिं प्रत्येवहेतुत्वात् गामनयेत्यादौ स्वाश्रयवृत्तित्वसम्बन्धेनैव प्रकृत्यर्थस्य गोत्वादेः साकाङ्क्षत्वात् गवादिकर्म्मताकत्वेन बोधस्तूत्तरकालमाक्षेपात्। कर्म्मत्वं गोवृत्ति गोत्वनिष्ठकर्मतात्वात्, आनयनं गोवृत्तिकर्मताकम् गोत्ववृत्तिकर्मताकत्वादित्याद्यनुमानसाम्राज्यात्”। ९ सतिस्कारवचनेच “विरुद्धमाक्षेपवचस्तितिक्षतः” किरा०।

आक्षेपक = त्रि० आ + क्षिप–ण्वुल्। १ निन्दके २ आकर्षके। “यदा तु धमनीः सर्व्वाः कुपितोऽभ्येति मारुतः। तदा क्षिपत्याशु मुहुर्मुहुर्देहं नभश्चरः। मुहुर्मुहुस्तदाक्षेपादाक्षेपक इति स्मृत” इत्युक्तलक्षणे ३ वातरोगभेदे ४ व्याधे च पु० मेदि०।

आक्षेपण = न० आ + क्षिप–ल्युट्। आक्षेपार्थे “पतनपीडनप्रहाराक्षेपणव्यालमृगदशनप्रभृतिभिरमिघातविशैषेः” सुश्रु०।

आ(अ)क्षैत्रज्ञ = न० अक्षेत्रज्ञ एव ब्राह्मणा० स्वार्थे ष्यञ्। द्विपदवृद्धिः पूर्ब्बपदस्य वा। अक्षेत्रज्ञे क्षेत्रानभिज्ञे।

आक्षेपिन् = त्रि० आक्षिपति आ + क्षिप–णिनि। १ आकर्षके। आक्षेपः सूक्ष्मदृष्ट्या पर्य्यालोचमस्त्र्यस्य इनि। २ सूक्ष्मदृष्ट्या आलोचनपूर्ब्बकाकर्षके च। “बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः” पात० सू०। प्राणायामशब्दे विवृतिः।

आक्षोट = पु० आ + अक्ष–ओट। शैलपीलुभेदे।

आक्षोड = पु० आ + अक्ष–ओड। शैलपीलुवृक्षे (आखरोट) इति ख्याते। “विल्वामलकमृद्वीका- फलमाम्रातदाडिमम्। भव्यं पानिवताक्षोडम्” स्मृतिः “आक्षोडम्जम्बूफलकारफलं काश्मीरप्रसिद्धम्” श्राद्धनत्त्वे रघुनन्दनः।

आख = पु० आखनत्यनेन आ + खन–ड। खनित्रे। अच् स्वार्थे कन् गौरा० पाठान्तरम् ङीप्। आखकी क्षुद्रखनित्रे स्त्री।

आखण्डल = पु० आखण्डयति भेदयति पर्व्वतान् आ + खडिडलच् डस्य नेत्त्वम्। इन्द्रे। “आखण्डलः काममिद बभाषे” कुमा० “तमीशः कामरूपाणामत्याखण्डलविक्रमः” रघुः।

आखण्डि = आ + खण्ड–इन् आखण्डके भेदके पत्र्यादि० पूर्ब्ब पदाद्युदात्तम्।

आखन = पु० आखनत्यनेन आ + खन–घ। खननसाधने खतित्रे। वेदे तु पृ०णत्वम्। “एवं तथाश्मानमाखण मृत्वा” छा० उ०। न शक्यते खनितुं कुद्दालादिभि रपि ढङ्कैश्छेत्तुं न शक्योऽखणस्तमृत्वा” शा० भाष्यम्।

आखनिक = आ + खन–कर्त्तरि इकन्। १ चौरे, २ शूकरे, ३ मूषिके च ४ खननकर्त्तरि त्रि०।

आखनिवक = पु० आ + खन–करणे कर्त्तरि वा इकवक। खनित्रे १ चौरे २ शूकरे ३ सूषिके च ५ खनके त्रि०। डर। आखरोप्यत्र। पात्रेसमितादिः युक्तारोह्यादिश्च।

आखर = पु० आ + खन–करणे ड। खनित्रे।

आखरेष्ठ = त्रि० आखरे तिष्ठति स्था–क षत्वम् वेदे नित्यमलुक्। आखरे स्थिते “कृष्णोऽप्याखरेष्ठः” सि० कौ०।

आखान = पु० आ + खन घञ्। समन्तात् खनने।

आखु = पु० आ + खन–डु। १ मूषिके, २ चौरे, ३ शूकरे च। कर्म्मणि डु। ४ देवताडवृक्षे। “विभवे सति नैवात्ति ने ददातिजुहोति न। तमाहुराखु” मित्युक्तलक्षणे ५ कृपणे च

आखुकर्ण्णपर्णिका = स्त्री आखुकर्ण्णाविवा पर्ण्णान्यस्वा वा कप्। (उन्दुरकाणी) लतायाम्।

आखुकर्णी = स्त्री आखोः मूषिकस्य कर्ण्ण इव पर्ण्णमस्याः ङीप् (उन्दुरकाणी) नूषिककर्णतुल्यपर्णयुक्तायां लतायाम्।

आखुग = पु० आखुना मूषिकेण गच्छति। गम–ड। मूषिकवाहने गणेशे। तस्य यथा मूषिकवाहनत्वं तथा गणेशशब्दे वक्ष्यते आखुवाहनादयोऽप्यत्र।

आखुपर्णिका = स्त्री आखुः तत्कर्ण्णाविव पर्णमस्याः वा कप्। (उन्दुरकाणी) वृक्षे। कबभावे ङीप्। आखुपर्ण्णीत्यपि तत्रैव।

आखुभुज् = पु० आखुं भुङ्क्ते भुज–क्विन्। भूषिकभक्षके विडाले। क। आखुभुजोऽप्यत्र।

आखुकरीष = न० ६ त०। मूषिकशुष्क पुरीषरूपकरोषे “तस्मादाखुकरीषं सम्भरति” शत० ब्रा०।

आखुपाषाण = पु० आखुः खनकः पाषाणः कर्म० “आखुपाषाणनामायं लोहसङ्करकारकः” इत्युक्ते पाषाणभेदे राजनि०।

आखुविषहा = स्त्री आखुविषं मूषिकविषं हन्ति हन–ड। मूषिकविषहरे १ देवताडवृक्षे, २ देवतालीलतायाञ्च।

आखूत्कर = पु० आखुभिरुत्कीर्य्यते उत् + कॄ–कर्म्मणि–अप्! मूषिकैरुत्वीर्य्यमाणेषु पांसुषु। (उन्दुरमाटि)। “हिरण्यं निधायोखूत्करान्निवपति” कात्या० ४, ८, १६।

आखूत्थ = त्रि० आखुभ्य उत्तिष्ठति उद + स्था क। १ आखूत्द्भवे। भावे क। २ आखूनामुत्थाने न० सि० कौ०।

आखेट = पु० आखिट्यन्ते त्रास्यन्ते प्राणिनोऽत्र आ + खिट–घञ्। प्राणित्रासार्थायां मृगयायाम्। स्वार्थेकन् आखेटकोऽप्यत्र

आखेटशीर्षक = न०। आखेट इव शीर्षास्य।। “कपिशीर्षं द्रुमशीर्षं तथा चाखेटशीर्षकम्। इति कुट्टिमसंभेदाः स्युः” इत्युक्ते (सुडङ्ग) कुट्टिमभेदे।

आखेटिक = पु० आखेटे कुशलः ठक्। मृगयाकुशले १ कुक्कुरे। २ तत्कुशलमात्रे च।

आखोट = पु० आखः स्वनित्रमिव उटानि पर्णान्यस्य। (आखरोट) इति ख्याते शैलपीलौ।

आख्या = स्त्री आ + ख्यायते अनेन आ + ख्या–अङ्। संज्ञायां रूढेनाम्नि वाचकशब्दे। “पश्चादुमाख्यां सुमुखी जगाम” कुमा नाम च “येन स्वीयपदार्थस्य मुख्यतः प्रतिपादने। खोत्तरप्रयमापेक्षा तन्नाम स्यात्तदर्थकमिति” शब्दश० उक्तलक्षणकम् “यत् प्रातिपदिकं नाम तन्नाम्नो नातिरिच्यते” इति च तत्रो क्तं “यादृशशब्देन स्वोपस्थाप्ययदर्थमुख्यविशेष्यकान्वयबोधार्थं स्वोत्तरप्रथमाविभक्तिरपेक्ष्यते तादृशः शब्द एव तदर्थकं नाम। घटादयोहि शब्दाः प्रथमान्तत्वेन निश्चिता एव स्वार्थमुख्यविशेष्यकं बोधमुत्पादयन्ति नत्वन्यथा न हि घट इत्यादित इव घटादित्यादितोऽपि षटादिमुख्यविशेष्यकः सुबर्थसंख्यादेरवगमः। पीतपटेत्यादिकः समासोऽपि स्वोत्तरं प्रथमाप्रतिसन्धानदशायामेव पटादिमुख्यधर्म्मि ताकस्य पीताद्यन्वयबोधस्य जनकः अतएव “नापदं प्रयुञ्जीतेति” वृद्धाः। पदं विभक्त्यन्तं पीतपटरूपमित्यादावपि नावान्तरवाक्यार्थबोधपूर्ब्बको महावाक्यार्थबोधः पटादिनाम्नः प्रथमान्तत्वाभावेन तदर्थे पीताद्यन्वयधियः पूर्ब्बमसम्भवात् विशिष्टवैशिष्ट्याबगाहितया प्रमाणान्तरेण पटधर्म्मिकपीतनिश्चयादपि तत्र सम्भवात्। नचान्योन्यपरस्परादिनामस्वव्याप्तिः “एभ्यः प्रथमा नाभिधीयते” इति वृद्धैः स्मरणादिति वाच्यं मल्लांभ्यामन्योन्यं हन्यत इत्यादौ मल्लयोः परस्परकर्त्तृकहननकर्म्मत्वान्वयानुरोधेन तेषामपि प्रथमान्तत्वादन्यथा सकर्म्मकस्य हन्तेर्भावाख्यातसाकाङ्क्षत्वानुपपत्तेरकर्म्मकस्यैव धातोस्तथात्वात्”। तेन न्यायमते प्रथमान्तमुख्यविशेष्यकशाब्दबोधस्वीकारेण तथात्वं वैयाकरणादिमते तु न तथा “भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानीति या० उक्तेः भावप्रधानत्वे नैव बोधः तथाच “अर्थ वदधातुरप्रत्ययः प्रातिपदिकं” “कृत्तद्धितसमासाश्चेति” पा० उक्त लक्षणं प्रातिपदिकमेव नामेत्यभिधीयते अतएवोक्तम् “उणाद्यन्तं कृदन्तञ्च तद्धितान्तं समासजम्। नामसंज्ञा भवेत्तस्य स्वाद्युत्पत्तिस्तदुत्तरम्” तच्च नाम चतुर्विधम् “रूढञ्च लक्षकञ्चैव योगरूढञ्च यौगिकम्। तच्चतुर्द्धा परे रूढयौगिकं मन्वतेऽधिकम्” शब्दश० व्याख्यातं च स्वयमेव जगदीशेन। “निरुक्तं नामविभजते। रूढञ्चेत्यादि तत् नाम। चत्रयमवधारणार्थं तेन किञ्चिन्नाम क्वचिदर्थे रूढमेव यथा गोप्रभृतौ गवादि गमेर्डो दाभाभ्यां नुर्धेटैच्चेत्यादेरौणादिकप्रत्ययस्य शक्तिविरहेण यौगिकत्वविरहात्। किञ्चिल्लक्षकमेव यथा तीरादौ गङ्गादि, आद्यव्युत्पत्त्या पूरवत्तीरे शक्तिग्रहस्याविशिष्टत्वेऽप्याजानिकप्रयोगापत्त्या तदप्रामाण्यकल्पनात् शक्तेः पूर्ब्बपूर्ब्बप्रयोग नियतत्वात्। किञ्चिद्योगरूटमेव यथा पङ्कजातपद्मादौ पङ्कजादि “किञ्चित् यौगिकमेव यथा पाककर्त्रादौ पाचकादि। रूढयौगिकभप्यधिकं नाम यथा मण्डपमहारजतादि तद्धि कदाचिदवयववृत्त्या योगार्थमेव कदाचिच्च समुदायशक्त्या रूढार्थमेवाभिधत्ते इत्यपरेषाम्मतम्। गौर्व्वाहीक इत्यादौ तु शक्यार्थसदृशत्वावच्छिन्नबोधकतया गौणं गवादिपदं गोसदृशादौ लक्षकमेव न तु ततोभिद्यते” तत्र रूढादिलक्षणानि तत्रैवोक्तानि यथा “रूढं सङ्केतवन्नाम सैव संज्ञेति कीर्त्त्यते। नैमित्तिकी पारिभाषिक्यौपाधिक्यपि तद्भिदा। यन्नाम यादृशार्थे सङ्केतितमेव न तु यौगिकमपि तद्रूढं योगरूढन्तु पङ्गजादिकं न तथा रूढनामैव च संज्ञापदेनाभिलप्यते न तु रूढादिवत् संज्ञापि नाम्नोऽवान्तरभेदः, येन विभागव्याघातः स्यात्। संज्ञायाश्च त्रयोभेदाः नैमित्तिकी पारिभाषिकी औपाधिकी चेति। पाचकपाठकादयस्तु न संज्ञाः सङ्केतशून्यत्वादिति ये तु रूढस्य नाम्नश्चतुर्व्विधत्वमाहुस्तन्मतमुन्यस्यति। जातिद्रव्यगुणस्पन्दैर्धर्सैः सङ्केतवत्तया। जातिशब्दादिभेदेन चातुर्व्विध्यं परे जगुः। गोगवयादीनां गोत्वादि जात्या पश्वाढ्यादीनां लाङ्गूलधनादिद्रव्येण धन्यपिशुनादीनां पुण्यद्वेषादिगुणेन चलचपलादीनाञ्च शब्दानां कर्म्मणावच्छिन्नशक्तिमत्त्वाच्चातुर्व्विध्यजेव रूढानामिति। यदुक्तं दण्डाचार्य्यैः “शब्दैरेव प्रतीयन्ते जातिद्रव्यगुणक्रियाः। चातुर्व्विध्यादमीषास्तु शब्द उक्तश्चतुर्विध” इति तदेतज्ज्वडमूकमूर्खादीनामन्यशून्यादीनाञ्च शब्दानामपरिग्रहापत्त्या परित्यक्तमस्माभिः। नैमित्तिकसंज्ञां लक्षयति। जात्यवच्छिन्नसङ्केतवती नैमित्तिकी मता। जातिमात्रे हि सङ्केताद्व्यक्तेर्भानं सुदुष्करम्। यन्नाम जात्यवच्छिन्नसङ्केतवत् सा नैमित्तिकी संज्ञा यथा गोचैत्रा दिः सा हि गोत्वचैत्रत्वादिजात्यवच्छिन्नमेव गवादिकमभिधत्ते न तु गोत्वादिजातिमात्रं गोपदं गोत्वे सङ्केतितमित्याकारकग्रहात्गामानयेत्यादौ गोत्वादिना गवादेरन्वयानुपपत्तेः एकशक्तत्वग्रहस्यान्यानुभावकत्वेऽतिप्रसङ्गात्। ननु गामानयेत्यादौ गोत्वादिकर्मताकत्वेनैवानयनादेरन्वयधीर्गोत्वादिशक्तत्वेन पदज्ञानस्य गोत्वाद्यन्वयबुद्धिं प्रत्येव हेतुत्वात् सुबर्थकर्म्मत्वादौ खाश्रयवृत्तित्वसम्बन्धेनैव प्रकृत्यर्थस्य गोत्वादेः साकाङ्क्षत्वात् गवादिकर्मताकत्वेन बोधस्तूत्तरकालमोक्षेपात् कर्मत्वं गोवृत्ति गोत्वनिष्ठकर्मतात्वात् आनयनं गोवृत्तिकर्म्मताकं गोत्ववृत्तिकर्मताकत्वादित्याद्यनुमानसाम्राज्यात्। न च वस्तुगत्या यद्गोत्वशक्तत्वं तज्ज्ञानस्य हेतुत्वे गोपदं जातिशक्तमित्येवं ग्रहादपि शुद्धगोत्वस्यान्वयवोधापत्तिः गोत्वत्वावच्छिन्नशक्तत्वप्रकारकज्ञानत्वेन तथात्वे च लाघवाद्गोत्वावच्छिन्नशक्तताप्रकारकज्ञानत्वेनैव हेतुत्वं गोत्वत्वाद्यप्रवेशादिति वाच्यम् गोपदं गोत्वशक्तमित्याकारज्ञानत्वेन हेतुतायां शुद्धस्यैव गोत्वस्य विषयितासम्बन्धेन शक्त्यऽशे विशेषणत्वेन गोत्वत्वादिप्रवेशगौरवस्यायोगात्। न हि ससवायान्यसष्वन्धेन जातेः प्रकारतायां धर्म्मावच्छिन्नत्वनियमोमानाभावात् अयं गौरित्यादिव्यवसायोत्तरमिमं गोत्वेन जानामीत्याकारे तस्य ज्ञाततालिङ्गकानुमानेऽनुव्यवसाये वा व्यभिचाराच्च प्रागनुपस्थित्या गोत्वत्वादेस्तत्रोपनयायोगात्। एतेन जातेर्निरवच्छिन्नप्रकारत्वस्य सनवायसंसर्गावच्छिन्नत्वनियमात् केवलस्य गोत्वादेः शक्त्यंशे विषयतया सुबर्थकर्म्मत्वांशे च परम्परया प्रकारत्वायोग इत्यपि प्रत्युक्तम् उक्तस्थल एव व्यभिचारात्। नचैवं कालोगौः पदं गौरित्यादिप्रत्ययोऽपि प्रमा स्यात् कालिकादिसम्बन्धेन गोत्वादिमति तत्प्रकारकत्वादिति वाच्यं कालिकादि- सम्बन्धेन गोत्वादेः प्रामाण्यस्य गोत्वत्वाद्यवच्छिन्नप्रकारतागर्भत्वेन तादृशमतेः प्रमात्वायोगात् अन्यथा घटत्वादिजातेः संस्थानसमवेतत्वमते संयोगोघट इत्यादिप्रतीतेः समवायेन प्रमात्वस्य दुर्व्वारतापत्तेः शाब्दस्येव प्रत्यक्षस्यापि कालोगौरित्यादिबोधस्य नियमतोगवाद्यभेदावगाहित्वैनैवाप्रमात्वसम्भवाच्चेति भट्टमतानुवर्त्तिनः। तन्मन्दं विनाप्याक्षेपं गामानयेत्यादितोगवादिकर्म्मताकत्वेनानयनादेरन्वयबोधस्यानुभविकत्वात् गौर्गच्छतीत्यादौ शुद्धगोत्वे गतिमत्त्वाद्यन्वयस्यानुभवेनास्पर्शनात् गोत्वत्वाद्यनुपस्थित्या च गोत्वं गच्छतीत्याद्यनुमवस्यासम्भवात् स्वाश्रयवृत्तित्वसम्बन्धेन गतिमत्त्वादिहेतुना गवादौ साक्षात्सम्बन्धेन गतिमत्त्वाद्याक्षेपस्य व्यभिचारादिदोषेण दुःशकत्वाच्च। एतेन कर्म्मत्वादौ गोत्वादेः स्वाश्रय वृत्तित्वसम्बन्धेनान्वयबोधोत्तरं कर्मत्वस्य गोत्ववृत्तित्वं गोवृत्तित्वं विनानुपपन्नमित्यनुपपत्तिधीसहकृतेन गामित्यादिवाक्येनैव कर्मत्वं गवीयमित्यौपादानिकोगवादिव्यक्तेर्बोध इति श्रीकरमतमप्यनादेयं मिथोविरुद्धाभ्यां शाब्दत्वार्थापत्तित्वाभ्यामवच्छिन्नबोधस्यालीकत्वेन शब्दानुपपत्तिभ्यां सम्भूय तथाविधौपादानिकबोधस्य जननायोगाच्च। यत्तु गौर्ज्जायते गौर्नश्यति सर्व्वत्र गोत्वादिजातिशक्तेनैव गवादिपदेन लक्षणया गोत्वादिविशिष्टा व्यक्तिर्बोध्यते व्यक्तीनां बहुत्वेनान्यलभ्यत्वेन च तत्र शक्तेरकल्पनात् तात्पर्य्यानुपपत्तेरपि लक्षणाया वीजत्वात् यदाहुर्मण्डनाचार्य्याः “जातेरस्तित्वनास्तित्वे न हि कश्चिद्विवक्षति। नित्यत्वाल्लक्षणीयायाव्यक्ते स्ते हि विशेषणे” इति तदपि तुच्छं व्यक्तिविनांकृतायां गोत्वादिजातौ गवादिपदस्य मुख्यप्रयोगाभावेन तन्मात्रस्याशक्यत्वे तद्वति गवादौ लक्षणाया वक्तुमशक्यत्वात् शक्यसम्बन्धस्यैव लक्षणात्वात्। न च गोरन्यो महिष इत्यादौ पञ्चम्यर्थेऽवधित्वे प्रतियोगित्वे वा स्वावच्छेद्यत्वसम्बन्धेन शुद्धस्य गोत्वादेरन्वयात्तथाविधस्थल एव जातौ मुख्यप्रयोगः तत्र पञ्चम्याः स्वार्थेऽवधित्वादौ स्वनिष्ठगोत्वावच्छेद्यत्वसंसर्गेण प्रकृत्यर्थस्य गवादेरन्वयबोधकत्वात् अन्यथा गोगोत्वयोर्भक्तिशक्तिभ्यां गोपदेन बोधने वृत्तिद्वययौगपद्यापत्तेः वस्तुतः शुद्धस्य गोत्वादेः शाब्दधीप्रकारतायाःसमवायावच्छिन्नत्वनियमात्तस्यावधित्वादौ स्वावच्छेद्यत्वादिसम्बन्धेनान्वयोदुर्घटण्व। द्रव्यं घट इत्यादिप्रतीतेः समवायेन प्रमात्वानुरोधाद्घटत्वजातेर्नानात्वोपगमादिति। प्रभाकारास्तु गोत्वशक्तत्वेन ज्ञात’ पदं ताद्रूप्येण गोशाब्दत्वावच्छिन्नं प्रत्येव हेतुरतोगोत्वशक्तिग्रहान्न गोत्वेन गवयादे! न वा द्रव्यत्वादिना गोरन्वयधियोऽतिप्रसङ्गः। नचैवं जातेरिव व्यक्तेरपि शक्यत्वमावश्यकं न हि गवदिपदस्य शक्यत्वं जन्यत्वमपि तु जन्यशाब्दधीविषयत्वं तच्च गोत्वस्येव गोरप्यविशिष्टनिति वाच्यं गवादिपदधर्म्मिकस्वशक्तताज्ञानत्वावच्छिन्नशाब्दधीजनकतावच्छेदकत्वेन गोत्वादेरेव गवादिपदशक्यत्वात् गोत्वशक्ततापेक्षया गोशक्तत्वस्य गुरुतया तज्ज्ञानत्वस्य शाब्दं प्रति जगकतानवच्छेदकत्वात्। अतएवान्वयबुद्धेरात्मस्वात्मत्वाद्यवगाहित्वेऽपि न तेषां पदशक्यत्वम्। अस्तु वा गोत्वादिशक्तत्वेन ज्ञातं पदं गोत्वादिशाब्दत्वावच्छिन्नं प्रत्येव हेदुर्व्विशेष्यतया तादृशशाब्दं प्रति समवायेन गोत्वस्य नियामकत्वकल्पनाच्च नातिप्रसङ्गः गोत्वादिना गवादेरिव गवयादेर्गोत्वादिनान्वयबोधत्वावच्छिन्नं प्रत्यपि विनिगमकाभावेन गोत्वादिशक्तिज्ञानत्वेन हेतुत्वमपेक्ष्य गोत्वशाब्दत्वावच्छिन्नं प्रत्येव गोत्वस्य तच्छक्तत्वज्ञानस्य च द्वयोः कारणतायामेव लाघवात् वस्तुतोगोत्वशाब्दऽ प्रति गोत्वशऐज्ञानमेव हेतुर्नतु गोत्वमपि जातिव्यक्त्योस्तुल्यवित्तिवेद्यत्वनियमादेव गीव्यक्तीनान्तदुविषयत्वसिद्धेः प्रमाणविरहादेव गोत्वादिना गवयादिविषयत्वस्य तत्रासिद्धेश्च। यद्यपि जातेर्व्विषयत्वं तत्समवायिव्यक्तिविषतया निरूपितमिति न व्याप्तिर्गोत्वाद्यालोचने कालोगोत्ववानित्यादिबोधे च व्यभिचारात् नापि जातेर्निरवच्छिन्नप्रकारतायास्तथात्वनियमः गौरयमित्यादिज्ञानस्य प्रत्यक्षे गोत्वेनेमं जानामीत्याकारे तथात्वा त्तथाप्यन्वंयबोधस्य निरवच्छिन्नगोत्वादिप्रकारत्वं गवादिविशेष्यतानिरूपितमेवेति व्याप्तिस्तादृशविशेष्यताकत्वं विना शुद्धस्य गोत्वादेरन्वयबीधेनास्पर्शनात् गुरूणां गोत्वेन गवयादिबोधस्यालीकत्वात्। अतएव गवाद्यंशे गोत्वादिप्रकारकबोधः समवायेनेव सम्बन्धान्तरेणापि तत्प्रकारकः स्याद्गोत्वप्रकारतायां गोविशेष्यताकत्वस्येव समवायावच्छिन्नत्वस्यापि व्याप्तिबलेन सिद्धावपि सम्बन्धान्तरावच्छिन्नत्वस्य प्रमाणविरहेणासिद्धेः। एवञ्च गोत्वादिशक्तिज्ञानत्वेन जनकतायां विषयतावच्छेदकत्वाद्गोत्वादिरेव गवादिपदस्यार्थः गवादो तद्व्यवहारस्तु तादृशावच्छेदकधर्म्म वत्त्वप्रयुक्तोगौणः। नचैवं गम्यादिधातोरपि गत्यादौ शक्तिर्नस्याद्गतित्वादिशक्तिज्ञानादेव ताद्रूप्येण गत्यादेर्गम्यादिधातुतोबोधसम्भवादिति वाच्यं गुरूणां गतित्वादेः संस्थानाव्यङ्ग्यत्वेन जातित्वासम्भवात् उत्तरसंयोगाद्यवच्छिन्नक्रियात्वाद्युपाधिरूपे च तत्र स्वऌपतः शक्तिग्रहायोगात् सखण्डस्य निरवच्छिन्नप्रकारत्वाभावात् निरुक्तक्रियात्वत्वावच्छिन्नशक्तताज्ञानत्वेन हेतुतामपेक्ष्य लघुतया तादृशक्रियात्वावच्छिन्नशक्तिमत्त्वज्ञानत्वेनैव तथात्वौचित्यात् गुरुत्वादिप्रयोज्यस्य पतनत्वादेरखण्डत्वे पत्यादिधातूनान्तत्र शक्तत्वेऽपि क्षत्यभावाच्च पश्वादिपदानामपि लोमवल्लाङ्गूलादिपर्य्यवसिते पशुत्वादिमात्रे न शक्तिस्तत्र वृत्तिग्रहोत्तरं तन्मात्रस्यैवानुभवेन तदाश्रयस्यालाभात् लोमादीनां स्वाश्रयतुल्यवित्तिवेद्यत्वस्य लोमवल्लाङ्गूलवान् देश इत्यद्यनुभवे व्यमिचारादिति प्राहुः” तत्र परिभाषिकी ओपाधिकी च तत्रैव लक्षिता यथा “उभयावृत्तिधर्म्मेण संज्ञा स्यात् परिभाषिकी। औपाधिकी त्वनुगतोपाधिना या प्रवर्त्तते। उभयावृत्तिधर्मावच्छिन्नसङ्केतवती संज्ञा पारिभाषिकी यथाकाशडित्थादिः सा हि द्वितीयावृत्तिनैव शब्दादिना रूपेण् तदाश्रयमभिधत्ते नचाकाशादिपदस्य गगनादौ निरवच्छिन्नैव शक्तिः पटादिपदस्यापि पटादौ तादृशशक्त्यापत्तेः पटे शक्तमप्रि पटपदं न पटत्वावच्छिन्ने शक्तिमदित्यादिग्रहोत्तरं ततः पटत्वविशिष्टस्याननुभवादवश्यं तच्छक्तिरवच्छिन्नेति चेत् शब्दवति शक्तमप्याकाशपदं न शब्दवत्त्वावच्छिन्नशक्तिमदित्येवं ग्रहदशायामाकाशादिपदान्न शब्दवत्त्वेन गगनस्य प्रतीतिरतस्तस्यापि शब्दवत्त्वावच्छिन्नैव तत्र शक्तिरिति विभाव्यताम्। एतेन पटत्वाद्युपलक्षिते धर्म्मिण्येव शक्तिग्रहस्य ताद्रूप्येण पटाद्यनुभवं प्रति हेतुत्वान्मास्तु पटादिपदस्यापि पटत्वाद्यवच्छिन्ने शक्तिः। परन्तु पटत्वाद्युपलक्षितव्यक्तिष्वेवेति शिरोमण्युक्त्रमपि प्रत्युक्तं शब्दोप्रलक्षिते धर्मिणि शक्तिग्रहादेवाकाशादिपदात्तदंशे निर्व्विकल्पकात्मकस्मरणमन्वयानुभवश्चोत्पद्यत इति तु नानुभविकं न वा यौक्तिकम्। या चानुगतोपाध्यवच्छिन्नसङ्केतवती संज्ञा सा त्वौपाधिकी यथा भूतदूतादिः सा हि सचेतनावृत्तिविशेषगुणवत्त्ववार्त्ताहारकत्वाद्यनुगतोपाधिपुरस्कारेणैव प्रवर्त्तते शब्दादिस्तु सखण्डत्वेनोपाघिरपि नानुगतोद्वितीयावृत्तित्वादतः पारिभाषिके गगनादिपदे नातिप्रसङ्गः। घटत्वादेः संस्थानवृत्तित्वमते यदि घटादिपदं विलक्षणसंस्थानवत्त्वेन शक्त तदौपाधिकमेव यदि च परम्परया वैलक्षण्यवत्त्वेन। तदा नैमित्तिकमेव। वस्तुतः सामान्यस्य शाब्दबुद्धौ स्वरूपतः प्रकारत्वं समवायेनैवेत्यगिहितं प्रागिति”। लक्षकलक्षण मुक्तं तत्रैवं “यादृशार्थस्य सम्बन्धवति शक्तन्तु यद्भवेत्। तत्र तल्लक्षकं नाम तच्छक्तिविधुरं यदि। यादृशार्थसम्बन्धवति यन्नाम सङ्केतितं तदेव तादृशार्थेलक्षकं यदि तादृशार्थेशक्तिशून्यं भवेत्। सैन्धापादयश्च शब्दास्तुरगादिसम्बन्धिनि लक्षका अपि लवणादाविव तुरगादावपि शक्ताएवागङ्गादयस्तु तीरादावसङ्केतिताः तत्सम्बन्धिनीरादिशक्तत्वेन गृहीताएव तीराद्यन्वयं बोधयन्तीति तत्र लक्षका एव। शक्तत्वेपूर्ब्बपूर्ब्बप्रयुक्तत्वापत्तेः तस्य तद्व्याप्यत्वात् कयञ्चित्तीरादिसम्बन्धित्वेन गृहीतादपि गङ्गादिपदात्तीरादेरन्वयाबोघेन तीराद्यशक्तत्वे सति तत्सम्बन्धितामात्रन्तु न लक्षणा गङ्गागङ्गायां घोष इत्यादावपि गङ्गागङ्गेतिभागस्य निरुक्तलक्षणायाः सत्त्वेन वैयर्थ्याषावप्रसङ्गाच्च। एतेन तीराद्यशक्तत्वे सति तीरादिपरत्वं तीरादिसम्बन्ध्यनुभावकत्वं वा तल्लक्षकत्वमित्यपि प्रत्युक्तम् अपभ्रंशस्यापि लक्षकत्वापाताच्च नचेष्ठापत्तिः शक्तिलक्षणान्यतरवृत्तिमत्त्वे तस्य साधुतापत्तेः पदसाधुतायां वृत्तिमत्त्वस्यैव तन्त्रत्वात्। किञ्चानुभावकत्वं यद्यनुभवस्योपधायकत्वं तदा घोषादिपदसाकाङ्क्षस्य गङ्गादिपदस्य तीरलक्षकता न स्यात् तेन तीरसम्बन्धिनो नीरस्यानुभवानर्ज्जनात् स्वरूपयोग्यत्वन्तु गङ्गायामिति वाक्यस्य दुर्व्वारं तस्याप्याघेयताधर्मिकनीरानुभवं प्रति नीरार्थकनामोत्तरसप्तमीत्वेन तथात्वात् नीराधेयत्वस्य च नीरसम्बन्धित्वानपायात्। ननु वाक्यमपि लक्षकं भवत्येव कथमन्यथा चित्रगुसमुदायस्य लक्षणया चित्रगोस्वामिनां बोधः कथं वा गभीरायां नद्यां घोष इत्यादौ गभीरनदीतीरस्य न हि तत्र नदीपदं तीरलक्षकं गभीरायामित्यस्यानन्वयापत्तेः न हि तीरं गभीरं नापि गभीरपदम्। तथा नद्यामित्यस्यायोग्यतापत्तेः नापि तीरं नदी तस्माद्वाक्यमेव तत्र गभीरनदीतीरलक्षकमिति मीमांसकाः तन्न गभीरायां नद्यामिति विभक्त्यन्तभागस्य तादृक्तीरलक्षकत्वे घोषाद्याधेयन्वेन तदन्वयानुप्रपत्तेः समासादन्यत्र नामार्थयोर्भेदान्वयस्याव्युत्पन्नत्वात्। एतेन तादृशतीरवृत्तितायामेव तद्भागस्य लक्षणयापि न निस्तारः तादृशतीरवृत्तेश्च लक्ष्यत्वे घोषादावभेदेन तदन्वयायोगः समासभिन्नस्थले नामार्थयोरभेदान्वये ताम्नोः समानविभकिकत्वस्य तन्त्रत्वात्। न च गभीरायां नदीति भागस्यैव तादृकतीरलक्षकत्वम्। तदर्थे विभक्त्यर्थ स्यानन्वयापत्तेर्नहि स भागः प्रकृतिर्येन तदर्थे विभ त्यर्थस्यान्वयः स्यात् गभीरायां नदीं व्रजेत्यादितोऽपि गभीरनदीतीरकर्म्मकत्वादिबोधापत्तेस्तद्भागस्य वाक्यादन्यत्वाच्च तस्माद्गभीरापदं नदीपदं वा तत्र गभीरनदीतीर लक्षकं पदान्तरन्तु तत्र तात्पर्य्यग्राहकमिति सिद्धान्तविदः। चट्पटाद्यनुकरणस्य हुंफडादिस्तोभस्य च स्वानुभावकत्वमपभ्रंशानामिव शक्तिभ्रमादेव। गौर्व्वाहीक इत्यादौ तु शक्यार्थसदृशत्वावच्छ्रिन्नबोधकतया गौणं गवादिपदं गोसदृशादौ लक्षकमेव न ततोभिद्यते”। तस्य विभागोऽपि दर्शितस्तत्रैव। “जहत्स्वार्थाजहत्स्वार्थनिरूढाधुनिक्यादिकाः। लक्षणा विविधास्ताभिर्लक्षकं स्यादनेकधा। काचिल्लक्षणा शक्यावृत्तिरूपेण बोधकतयाजगत्स्वार्थेत्युच्यते यथा तीरत्वादिना गङ्गादिपदस्य। काचिच्छक्यलक्ष्योभयवृत्तिना शक्यवृत्तिनैव वा रूपेणानुभावकत्वादजहत्स्वार्था यथा द्रव्यत्वादिना नीलघटत्वादिना च घटपदस्य। काचित्लक्ष्यतावच्छेदकीभूततत्तद्रूपेण पूर्ब्बपूर्ब्बं प्रत्यायकत्वात् निरूढा यथा आरुण्यादिप्रकारेण तदाश्रयद्रव्यानुभावकत्वादरुणादिपदस्य। काचिच्च पूर्ब्बपूर्ब्बं ताद्रूप्येणाप्रत्यायकत्वादाधुनिकी यथा घटत्वादिना पटादिपदस्य। आदिना शक्यसदृशत्वप्रकारेण बोधकतया गौण्युपगृह्यने यथा अग्निर्माणवक इत्यादावग्निसदृशत्वादिना अग्न्यादिपदस्य। तदेवं विविधलक्षणावत्त्वाल्लक्षकं नामापि जलत्स्वार्थादिभेदादनेकविधमित्यर्धः। स्यादेतत् यदि तीरादिलक्षकतया गङ्गादिपदस्य ज्ञानं तीराद्यनुभवे भवेद्धेतुर्भवेदप्युक्तक्रमेण लक्षकाणां विभागः नत्वेतदस्ति तीराद्यन्वयबोधं प्रति तीरादिशक्तेत्वेनैव पदज्ञानस्य लाघवेन हेतुतया लक्षकाणा मननुभावकत्वात् गुरूणाम् अग्नौ शैत्यं स्पृशेदित्यादौ शक्येन दहनादिनेव गङ्गायां घोव इत्यादौ लक्षितेन तीरादिना सार्द्धंमगृहीतासंसर्गकस्यैव सप्तम्यर्थाधेयत्वादेरन्वयबोधप्रविष्टत्वादिति चेन्न प्रकृत्यर्थावच्छिन्नस्यैव प्रत्ययार्थस्य धर्म्यन्तरेऽन्वयबुद्धेर्व्युत्पन्नतया तीराद्यविशेषितस्य सुबर्थाधेयत्वादेर्घोषादावान्वयबोधायोगात्। न च शक्तस्यैव पदस्य स्वसाकाङ्क्षपदान्तरोपस्थाप्यार्थान्वितस्वार्थधर्मिकान्वयबीधं प्रति हेतुत्वात्नान्वयबुद्धौ लक्ष्यार्थस्य प्रवेशः कुन्ताः प्रविशन्तोत्यादौ लक्ष्यस्य कुन्तधरादेरन्वयविशेष्यतानुपपत्तेः कुमतिः पशुरित्यादौ लक्ष्यार्थयोर्मिथोऽन्वयबोधस्याप्यानुभविकत्वाच्च तस्माच्छक्तेरिव भक्तेरपि ज्ञानमनुभावकं भवत्येव कार्य्यतावच्छेदकस्य सङ्कोचाच्च न व्यभिचारः”। लक्षणाभेदेन लक्षकशब्दभेदा बहवः लक्षणाभेदाश्च सा० द० दर्शिताः लक्षणशब्दे विवृतिः। तत्र योगरूढलक्षणमुक्तं शब्दश०। “स्वान्तर्निविशिष्टशब्दार्थस्वार्थयोर्बोधकृन्मिथः। योगरूढं न यत्रैकं विनान्यस्यास्ति शाब्दधीः। यन्नाम स्वावयववृत्तिलभ्यार्थेन समं स्वार्थस्यान्वयबोधकृत् तन्नाम योगरूढं यथा पङ्कजकृष्णसर्पाधर्म्मादि तद्धि स्वान्तर्निविष्टानां पङ्कादिशब्दानां वृत्तिलभ्येन पङ्कजनिकर्त्रादिना समं स्वशक्यस्य पद्मादेरन्वयानुभावकम्। पङ्कजमित्यादितः पङ्कजनिकर्तृ पद्ममित्यनुभवस्य सर्वसिद्धत्वात्। इयांस्तु विशेषोयद्रूढमप्रि मण्डपरथकारादिपदं योगार्थविनाकृतस्य रूढ्यर्थस्येव रूढ्यर्थविनाकृतस्यापि योगार्थस्य बोधकं, मण्डपे शेते इत्यादौ योगार्थस्य मण्डपानकर्त्रादेरिव मण्डपं भोजयेदित्यादौ समुदितार्थस्य गृहादेरयोग्यत्वेनान्वयाबोधात्। योग रूढन्तु पङ्कजादिपदमवयववृत्त्या रूढ्यर्थमेव ससुदायशक्त्या चावयवलभ्यार्थमेवानुभावयति नत्वन्यं व्वुत्प्रत्तिवैचित्त्यात्तथैव साकाङ्क्षत्वात्। अतएव पङ्कजं कुमुदमित्यत्र पङ्कजनिकर्तृत्वेन, भूमौ पङ्कजमुत्पन्नमित्यादौ च पद्मत्वेन पङ्कजपदस्य लक्षणयैव कुमुदस्थलपद्मयोर्बोध इति वार्त्तिकम्। ननु पुष्पं पङ्कजेत्यादौ पङ्कजादेरन्वयस्याबोधात् बोधाच्च पङ्गजपुष्पमित्यादौ निर्विभक्तिकेन पङ्कजादिपदेनोपस्याप्यार्थस्यान्वयधीसामान्यं प्रत्येव तादृशपङ्कजादिपदोत्तरशब्दोपस्थाप्यत्वं तन्त्रम् एवं पुष्पं पङ्कजमित्यादौ अन्वयबोधदर्शनात्तदनुरोधेन सविभक्तिकपङ्कजादिपदोपस्थाप्यार्थान्वयबोधं प्रति स्वसमानविभक्तिकपदोपस्थाप्यत्वञ्च अतस्तदुपस्थापितस्य पङ्कजातादेः कथं पदान्तरानुपस्थापिते पद्मादावन्वय इति चेदपङ्कजवृत्तिः मत्तेत्यादौ स्खलदक्षरसंशोभि तरुण्या मुखपङ्कजमित्यादौ च व्यभिचारादुक्तव्युत्पत्तेः सङ्कोचेनेति गृहाण। न च धेनुपदस्य धानकर्म्मत्वविशिष्टायां गवीव पङ्कजादिपदस्यापि पङ्कजातत्वादिविशिष्टपद्मादौ रूढिरेवास्तु न तु योगरूढिरिति साम्प्रतम् अन्यत्र कॢप्तशक्तिकेम्यः पङ्कजन्यादिपदेभ्य एवाकाङ्क्षादिसाचिव्येन पङ्कजनिकर्तृत्वादेर्लाभसम्भवे तद्विशिष्टस्य पद्मस्य गुरोः समुदायाशक्यत्वादनन्यालभ्यस्यैव शब्दार्थत्वात्। यद्यपि कर्तृवाचकडप्रत्यय एव पद्मत्वविशिष्टस्य लक्षणया लाभसम्भवान्न पङ्कजभागस्य तत्र शक्तिरुचिता प्रकारान्तरालभ्यस्यैव शब्दशक्यत्वमित्युक्तत्वात् कृतिवर्त्तमानत्वयोरिवैकपदार्थयोरपि कर्तृपद्मयोर्मिथोऽ- न्वयस्य सम्भवित्वात् तथाप्यवयवार्ना शक्तेरग्रहे ग्रहेऽपि वा पद्मादौ तदर्थस्यान्वयधीविरोधिधीदशायां पङ्कजमस्तीत्यादितः पद्ममस्तीत्याद्यनुभावार्थमवश्यम्पद्मत्वादिविशिष्टे पङ्कजादिभागस्य रूढिरुपेया इतरथा प्रकृत्यर्थावच्छिन्नस्यैव प्रत्ययार्थस्य पदार्थान्तरेणान्वयस्य व्युत्पन्नतया डप्रत्ययोपस्थापितस्यापि पद्मस्यास्तित्वादिना सहान्वयानुपपत्तेः अतएव पङ्कजादिपदाद्गृहीतशक्तिकस्य पुंसः पङ्कजमस्तीत्यादितो जात्वपि कर्त्तास्तीत्याकारकोनान्वयबोधः प्रत्ययमात्रोपस्थाप्यस्य कर्त्तुरन्यत्रान्वये निराकाड्क्षत्वादिति वक्ष्यते। किञ्चैवमेकाक्षरकोषावधृतशक्तिकानां कखादिप्रत्येकवर्णानामेव निरूढलक्षणया तत्तदर्थानुभावकत्वसम्भवादकनखादिसमुदायस्यापि तत्तदर्थे शक्तिर्व्विलीयेत कादिप्रत्येकवर्ण्णस्य शक्तिग्रहं विनापि अकादिशब्दादकादेरनुभवार्थं तत्र समुदाये शऐरिति तु प्रकृतेऽपि समानं डादिप्रत्ययमात्रस्य पद्मादौ वृत्तिमत्त्वाग्रहेपि पङ्कजादिसमुदायात् पद्मादेरनुभवस्य सर्व्वसिद्धात्। नचैवं चित्रगुरित्यादावपि चित्रगोखाम्यादौ समुदायस्य शक्तिप्रसङ्गः समासत्वस्याविशिष्टत्वादिति वाच्यम् अगृहीतावयववृत्तिकस्य पुंसस्ततोऽर्थानधिगमेनावयवानां वृत्तेरवश्यापेक्षायां तेषामेव तथाविधार्थबोधकत्वौचित्यस्य वक्ष्यमाणत्वादिति” योगरूढभेदस्तत्रैवोक्तः। “सामासिकं तद्धिताक्तमिति तत् द्विविधं भवेत्। योगरूदं कृदन्तस्य समासत्वव्यवस्थितेः। तत् योगरूढं सामासिकं समासात्मकं कृष्णसर्पादि तद्धिताक्तं वासुदेवादि। कृदन्तस्य पङ्कजादियोगरूढस्य सामासिक एवान्तर्भाव इति नाधिक्यम्। यौगिकलक्षणविभागौ तत्रैव। “योगलभ्यार्थमात्रस्य बोधकं नाम यौगिकम्। समासस्तद्धिंताक्तञ्च कृदन्तञ्चेति तत्त्रिधा। यन्नाम स्वान्तर्निविष्टशब्दानां योगलभ्यस्यैव यादृशार्थस्यान्वयबोधं प्रति हेतुस्तन्नाम तादृशार्थे यौगिकम्। योगरूढन्तु कृष्णसर्पादिपदं योगेनावच्छिन्नस्य रूढ्यर्थस्य बोधकं न तु तन्मात्रस्य तच्च यौगिकं त्रिविधं समासस्तद्धिताक्तं कृदन्तञ्चेति। द्वन्द्वोऽपि समासः स्वघटकशब्दानामाकाङ्क्षया लभ्यस्य धवखदिराद्यर्थस्यान्वयबोटकतया यौगिकएव। सर्व्वञ्चेदं रूढान्यत्वेन विशेषणीयं नातः कृष्णसर्पादौ वासुदेवादौ पङ्गजादौ च योगरूटेऽतिप्रसङ्गः। ब्राह्मणी श्वश्रूः शूद्रे त्यादौ ङीवादेः स्त्रीत्ववाचित्वे तादृशं नाम यौगिकमेव अन्यथा तु स्त्रीत्वादिमति तत्तदर्थे रूढमेव नातोविभागस्य व्याघातः”। वैयाकरणमते समासानां योगरूढत्वमेव यथोक्तं” वै० भू०। “समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत्। बहूनां वृत्तिधर्म्माणां वचनैरेव साधने। स्यान्महद्गौरवं तस्मादेकार्थी भाव आश्रितः। चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम्। कर्त्तव्यं ते न्यायसिद्धं त्वन्माकं तदिति स्थितिः। अषष्ठ्यर्थबहुब्रीहौ व्युत्पत्त्यन्तरकल्पना। कॢप्तत्यागश्चास्ति तव तत् किं शक्तिं न कल्पयेः। समास इति वृत्तिमात्रोपलक्षणम्। “समर्थः पदविधिः” इत्यत्र पदमुद्दिश्य योविघोयते समासादिः स समर्थः विग्रहवाक्याभिधानशक्तः सन् साधुरिति सूत्रार्थस्य भाष्याल्लाभात्। पदोद्देश्यकविधित्वञ्च कृत्तद्धितसमासैकशेषसनाद्यन्तघातुरूपासु पञ्चस्वपि वृत्तिष्वस्त्येव। विशिष्टशक्त्यस्वीकर्त्तृणां मते दूषणं शक्तिसाधकमेवेत्याशयेनाह पङ्कजशब्दवदिति। पङ्कजनिकर्त्तुरपि योगादेवोपस्थितौ तत्रापि समुदायशक्तिर्न सिध्येत्। न च पद्मत्वरूपेणोपस्थितये सा कल्प्यत इति वाच्यम्। चित्रग्वादिपदेऽपि स्वामित्वेनोपस्थितये तत्कल्पनावश्यकत्वात्। लक्षणयैव तथोपस्थितिरिति चेत् पङ्कजपदेऽपि सा सुवचा। एवं रथकारपदेऽपि तथा च “वर्षासु रथकारोऽग्निमादधीत” इत्यत्रापि विना लक्षणां कॢप्तयोगेन ब्राह्मणादिविषयतयैंवोपपतौ तत्कल्पनां कृत्वा जातिविशेवस्याघिकारित्वं प्रकल्प्यापूर्ब्बकल्पनमयुक्तं स्यादिति भावः। साधकान्तरमाह बहूनामिति वृत्तेर्धर्म्मा विशेषणलिङ्गसंख्याद्ययोगादयस्तेषां वचनैरेव साधने गौरवमित्यर्थः। अयं भावः विशिष्टशक्त्यस्वोकारे राज्ञः पुरुष इत्यत्रेव राजपुरुष इत्यत्रापि स्याद्विशेषणाद्यन्वयः राजपदेन स्वतन्त्रोपस्थितिसत्त्वात्। विभाषावचनञ्च ससासनियमवारणाय कार्य्यमिति। ननु “सविशेषणानामिति” वचनान्न विशेषणाद्यन्वयः विभाषावचनञ्च कृतमेवेत्याशङ्क्य समाधत्ते वचनैरेवेति। न्यायसिद्धमेव सूत्रम्। व्यपेक्षाविवक्षायां वाक्यस्य एकार्थीभावे समासस्येति स्वभावत एव प्रयोगनियमसम्भवात्। सविशेषणेत्यपि विशिष्टशक्तौ राज्ञः पदार्थैकदेशतयान्वयासम्भवात् न्यायसिद्धमिति भावः। अतएव व्यपेक्षापक्षमुद्भाव्य अर्थतस्मिन् व्यपेक्षायां सामर्थ्ये योऽसावेकार्थीभावकृतो विशेषः स व्यक्तव्य इति भाष्यकारेण दूषणमप्युक्तम्। तथा धवखदिरौ, निष्कौशाम्बिर्गोरथो घृतघटो गुडधानाः केशचूडः सुवर्णालङ्कारो द्विदशाः सप्तपर्ण इत्यादावितरेतरयोगादिक्रान्तयुक्तपूर्णमिश्रसङ्घातविकारसुच्प्रत्ययलोपो, वी- प्साद्यर्थोवाचनिको वाच्य इत्यतिगौरवं स्यादिति। दूषणान्तरमाह। चकारादीति आदिना घनश्यामः हंसगमनैत्यादाविवादीनां पूर्ब्बोक्तानाञ्च संग्रहः। दूषणान्तरमाह। बहुव्युत्पत्तिभञ्जनमिति। अयमाशयः चित्रगुरित्यत्र स्वाम्यादिप्रतीतिरनुभवसिद्धा। न च तत्र लक्षणा प्राप्तोदकोग्राम इत्यादौ तदसम्भवात्। प्राप्तिकर्त्रभिन्नमुदकमित्यादिबोधोत्तरं तत्सन्धन्धिग्रामलक्षणायामप्युदककर्तृकप्राप्तिकर्म्मग्रामैत्यर्थालाभात्। प्राप्तेति क्तप्रत्ययस्यैव कर्त्रर्थकस्य कर्म्मणि लक्षणेति चेत्तर्हि समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरुदकाभिन्नप्राप्तिकर्म्मेति स्यात्। अन्यथा समानाधिकरणप्रातिपदिर्थयोरभेदान्वयव्युत्पत्तिभङ्गापत्तेः प्राप्तेर्धात्वर्थतया कर्तृतासम्बन्धेन भेदेनोदकस्य तत्रान्वयासम्भवाच्च। अन्यथा देवदत्तः पच्यतैत्यत्र कर्तृतासम्बन्धेन देवदत्तस्यान्वयसम्भवेनानन्वयानापत्तेः। अथोदकाभिन्नकर्तृका प्राप्तिरिति बोधोत्तरं तत्सम्बन्धीग्रामो लक्ष्यत इति चेन्न प्राप्तेर्धात्वर्थतया क्तार्थकर्तारं प्रति विशेष्यताया असम्भावात्। प्रकृतिप्रत्यययोः प्रत्ययार्थप्राधान्यमिति व्युत्पत्तेः। प्राप्तपदे प्राप्तेर्विशेष्यत्वे तस्याएव नामार्थत्वेनोदकेन सममभेदान्वयापत्तेश्च। एवमूढरथः उपहृतपशुः उद्धृतौदना बहुपाचिकेत्यादावपि द्रष्टव्यम्। अत्र हि रथकर्म्मकवहनकर्त्ता, पशुकर्म्मकोपहरणोद्देश्यः, ओदनकर्म्मकोद्धरणावधिः बहुपाककत्त्रधिकरणमिति बोधाभ्युपगमात् अतिरिक्तशक्तिपक्षे च घटत्वविशिष्टे घटपदस्येवोदककर्तृकप्राप्तिकर्म्मत्वविशिष्टे प्राप्तोदकैत्यादिसमुदायशक्त्यैव निर्वाहैति भावः। साधकान्तरमाह। अषष्ठ्यर्थेति। अयं भावः चित्रगुरित्यादिषु चित्रगवखाम्यादिप्रतीतिर्न विना शक्तिमुपपद्यते। नच तत्र लक्षणा सा हि न चित्रपदे चित्रस्वामी गौरितिबोधापत्तेः। गवादिमात्रस्य लक्ष्यैकदेशत्वेन तत्र चित्रादेरन्वयायोगात्। नच चित्राभिन्ना गौरिति शक्त्युपस्थाप्ययोरन्वयबोधोत्तरं तादृशगवस्वामी गोपदेन लक्ष्यतेइति वाच्यम्। गोपदस्य चित्रपदस्य वा विनिगमनाविरहेण लक्षकत्वासम्भवात्। नच गोपदे साक्षात् सम्बन्धएव विनिगमक इति वाच्यम्। एवमपि प्राप्रोदकः कृतविश्व इत्याद्यषष्ठ्यर्थबहुव्रीहौ विनिगमकाप्राप्तेः। यौगिकानां कर्त्राद्यर्थकतया साक्षात्सम्बन्धाविशेषात्। नच पदद्वये लक्षणेति नैयायिकोक्तं युक्तम् बोधावृत्तिप्रसङ्गात्। न च परस्परं तात्पर्य्यग्राहकत्वादेकस्यैवैकदा लक्षणा न द्वयो- रिति न बोधावृत्तिरिति वाच्यम् एवमपि विनिगमनाविरहतादवस्थ्येन लक्षणाया असम्भवात्। नच चरमपदे एव सा प्रत्ययार्थान्वयानुरोधात् प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधकत्वव्युत्पत्तेरिति वाच्यम् एवं हि बहुव्रीह्यसम्भवापत्तेः “अनेकमन्यपदार्थे” इत्यनेकसुवन्तानामन्यपदार्थप्रतिपादकत्वे तद्विधानात्। किञ्च एवं सति घटादिपदेष्यपि चरमवर्ण एव वाचकताकल्पना स्यात् पूर्ब्बबर्णानां तात्पर्य्यग्राहकत्वेनोपयोगसम्भवात् एवं सति चरमवर्णमात्रश्रवणेऽर्थबोधापत्तिरिति चेदत्राप्युदकपट्मात्रश्रवणादर्थ प्रत्ययापत्तिस्तुल्येत्यन्यत्र विस्तरः। एवञ्च अषष्ठ्यर्थबहुब्रीहौ व्युत्पत्यन्तरकल्पना उक्तशक्तेः अगत्या शक्त्यन्तरकल्पनेत्यर्थः कॢप्तत्यागः इत्यस्य कॢप्तशक्त्योपपत्तिरिति व्युत्पत्तित्यागश्च तवास्ति तत्किम् सर्ब्बत्र समासे शक्तिं न कल्पयेरिति वाक्यार्थः। यत्तु व्यपेक्षावादिनो नैयायिकमीमांसकादायः न समासे शक्तिः राजपुरुष इत्यादौ राजपदादेः सम्बन्धिलक्षणयैव राजसम्बन्ध्यभिन्नः पुरुषैति बोधोपपत्तेः। अतएव राज्ञः पदार्थैकदेशतया न तत्र शोभनस्येत्यादिविशेषणान्वयः। न वा घनश्यामनिष्कोशाम्बिर्गोरथैत्यादौ इवादिप्रयोगापत्तिः उक्तार्थतया इवक्रान्तादिपदप्रयोगासम्भवात्। न वा “विभाषेति” सूत्रानावश्यकत्वम् लक्षणया राजसम्बन्ध्यभिन्नैति बुबोधयिषायां समासस्य, राजसम्बन्धवानिति बुबोधयिषायां विग्रहस्येत्यादिप्रयोगनियमसम्भवात्। नापि पङ्कजपदप्रतिबन्द्री शक्तिसाधिका तत्रावयवशक्तिमजानतोऽपि बोधात्। नच शक्त्यग्रहे लक्षणया तेभ्योविशिष्टार्थ प्रत्ययः सम्भवति। अतएव राजादिपदशक्त्यग्रहे राजपुरुषश्चित्रगुरित्यादौ न बोधः। नच चित्रगुरित्यादौ लक्षणासम्भवेऽप्यषष्ठ्यर्थबहुब्रीहौ लक्षणाया असम्भवः बहुव्युत्पत्तिभञ्जनापत्तेरिति वाच्यम् प्राप्तोदकैत्यादावुदकपदे एव लक्षणास्वीकारात्। पूर्व्वपदस्ययौगिकत्वेन तल्लक्षणाया धातुप्रत्ययतदर्शज्ञानसाध्यतया विलम्बितत्वात्। प्रत्ययानां सन्निहितपदर्थ गतखार्थबोधकत्वव्युत्पत्त्यनुरोधाच्च। घटादिपदे चातिरिक्ता शक्तिः कल्प्यमाना विशिष्टे कल्पाते विशिष्टस्यैव सङ्केतितत्वात्। बोधकत्वस्यापि प्रत्येकं वर्ण्णेष्वसत्त्वात्। प्रकृते चात्यन्तसन्निधानेन प्रत्ययार्थान्वयसोलभ्यायोत्तरपदे एव सा कल्प्यतैति विशेषः स्वीकृतञ्च घटादिपदेष्वपि चरमवर्णस्यैव वाचकत्वं मीमांसकम्मन्यैरित्याहुः। अत्रोच्यते। समासे शक्त्यस्वीकारे तस्य प्रातिपदिकसंज्ञादिकं न स्यात् अर्थवत्त्वाभावात् “अर्थवदधातुरप्रत्ययः प्रातिपदिकम्” इत्यस्याप्रवृत्तेः। न च “कृत्तद्धितसमासा” श्चेत्यत्र समासग्रहणात् सा। तस्य नियमार्थतया भाष्यसिद्धताया वैयाकरणभूषणे स्पष्टं प्रतिपादितत्वात्। समासवाक्ये शक्त्यभावेन शक्यसग्वन्धरूपलक्षणाया अप्यसम्भवेन लाक्षणिकार्थवत्त्वस्वाप्यसम्भवात्। अथ तिप्तस्झि इत्यारभ्य ङ्योस्सुविति तिपप्रत्याहारोभाष्यसिद्धः तमादायातिप्प्रतिपदिकमित्येव सूत्र्यताम् कृतमर्थवदादिसूत्रद्वयेन। समासग्रहणञ्च नियमार्थमस्तु तथा च सुप्तिङन्तभिन्नं प्रातिपदिकमित्यर्थात्समासस्यापि सा स्यादिति चेत्तथापि प्रत्येकं वर्णेषु संज्ञावारणायार्थवत्त्वावश्यकत्वेन समासाव्याप्तितादवस्थ्यमेव। तथा च प्रातिपदिकसंज्ञारूपं कार्य्यमेवार्थवत्त्वमनुमापयति धूमैव वह्निम्। किञ्चैवं चित्रगुमानयेत्यादौ कर्म्मत्वाद्यनन्वयापत्तिः प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः विशिष्टोत्तरमेव प्रत्ययोत्पत्तेर्विशिष्टस्यैव प्रकृतित्वात्। यत्तु सन्निहितपदार्थगतस्वार्थबोधकत्वव्युत्पत्तिरेव कल्प्यत इति तन्न उपकुम्भं अर्द्धपिप्लीत्यादौ पूर्ब्बपदार्थे विभक्त्यर्थान्वयेन व्यभिचारात्। न च तत्रापि सन्निधानमेव आनुशासनिकसन्निधेर्विवक्षितत्वात् तथा च यत्पदोत्तरं यानुशिष्टा सा तदर्थगतं स्वार्थं बोधयति। समासे च समस्यमानपदोत्तरमेवानुशासनमिति वाच्यम् अर्थवत्सूत्रेण विशिष्टस्यैव विक्तक्त्यनुशासनात्। अथ प्रकृतित्वाश्रये विभक्त्यर्थान्वय इत्येव कल्प्यत इति चेत्तर्हि पङ्कजमानय दण्डिनं पश्य शूलिनं पूजयेत्यादौ पङ्कदण्डशूलेष्वानयनदर्शनपूजनादेरन्वयप्रसङ्गात् अघटमानयेत्यत्र घटेप्यानयनान्वयापत्तेश्च। न च दण्डादीनां विशेषणतया न तत्रानयनाद्यन्वयः। पाकान्नीलः घर्म्मात्सुखी इत्यादौ पाकधर्म्मादिहेतुताया रूपसुखादावनन्वयप्रसङ्गात्। यच्च प्रकृत्यर्थत्वं तज्जन्यज्ञानविषयत्वमात्रं तच्चात्राविरुद्धमिति तन्न घटं पश्येत्यत्र घटपदात्समवायेनोपस्थिताकाशवारणाय वृत्त्या प्रकृत्यर्थत्वस्यावश्यकत्वात्। अथ प्रत्ययप्राग्वर्त्तिपदजन्योपस्थितिविशेष्यत्वं प्रकृत्यर्थत्वमितिचेन्न गामानयति कृष्णोदण्डेनेत्यत्र कृष्णे तृतीयार्थान्वयप्रसङ्गात्। अथ समस्यमानपदार्थबोधकत्वं समासोत्तरविभक्तेः कल्प्यत इति चेन्न अकॢप्तकल्पनां कॢप्तव्युत्पत्तित्यागञ्चापेक्ष्य समुदायशक्तिकल्पनस्यैव युक्तत्वादिति दिक्। अपि च समासे विशिष्टशक्त्यस्वीकारे राजपुरुषः चित्रगुः नीलोत्पलमित्यादौ सर्व्वत्रान्व यप्रसङ्गः। राजपदादेः सम्बन्धिनि लक्षणायामपि तण्डुलः पचतीत्यादौ कर्मत्वादिसंसर्गेण तण्डुलादेः पाकादावन्वयवारणाय प्रातिपदिकार्थप्रकारकबोधऽ प्रति विभक्तिजन्योपस्थितेर्हेतु ताया आवश्यकत्वात् पुरुषादेस्तथात्वाभावात्। तण्डुलः शुक्ल इत्यादौ च प्रातिपदिकार्थकप्रथमार्थे तण्डुलादेस्तस्य च शुक्ले अभेदेनैवान्वयः। शुभ्रेण तण्डुलेनेत्यादौ च विशेषणविभक्तिरभेदार्था पार्ष्णिकोवान्वय इति नातिप्रसङ्गः। तथा च समासे परस्परमन्वयासम्भवादावश्यिकैव समुदायस्य तादृशे विशिष्टार्थे शक्तिः। किञ्च राजपुरुषैत्यादेः सम्बन्धिनि सम्बन्धे वा लक्षणा। नाद्यः राज्ञः पुरुष इति विवरणविरोधात् समानार्थकवाक्यस्यै विग्रहत्वात्। अन्यथा तस्माच्छक्तिनिर्ण्णयोन स्यात् नान्त्यः राजसम्बन्धरूपः पुरुष इति बोधप्रसङ्गात् विरुद्धविभक्तिरहितप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरित्यादि प्रपञ्चितं वैयाकरणभूषणे। अतएव “वषट्कर्त्तुः प्रथमभक्षः” इत्यत्र न भक्षमुद्दिश्य प्राथम्यविधानं युक्तम् एकप्रसरत्वभङ्गापत्तेरिति तृतीये, “अङ्गैः स्विष्टकृतं यजति” इत्यत्राङ्गानुवादेन न त्रित्वविधानं युक्तम् एकप्रसरत्वभङ्गापत्तेरिति दशमे च निरूपितं सङ्गच्छते। सङ्गच्छते चारुणाधिकरणारम्भः। अन्यथा “अरुणया एकहायन्या पिङ्गाक्ष्या सोमं क्रीणातीत्यत्रारुण्यपदवदितरयोरपि एकत्वादिगुणमात्रवाचकतया अमूर्त्तत्वात् क्रीणातौ करणत्वासम्भवस्य तुल्यत्वादारुण्यस्यैव वाक्याद्भेदशङ्काया असम्भवादिति प्रपञ्चितं भूषणे। तस्मात्समासशक्तिपक्षो जैमिनीयैरवश्याभ्युपेयैत्यःस्तां विस्तरः”।

आख्यात = त्रि० आ + ख्या–कर्मणि क्त। १ कथिते। आख्यायतेऽनेन बा० करणे क्त। तिङ्रूपे प्रत्यये तल्लक्षणमाह शब्दश० “धात्वर्थेन विशिष्टस्यविधेयत्वेन बोधने। समर्थः स्वार्थयत्नस्य शब्दोवाख्यातमुच्यते” इति। व्याख्यातं चैतत् स्वेनैव “धात्वर्थावच्छिन्नस्वार्थयत्नविधेयताकान्वयबोधसमर्थः शब्दो वाख्यातं तदेव च तिङ् इत्यर्थाल्लभ्यते तिङाख्यातयोः पर्य्यायत्वात्। पाकश्चैत्रस्येत्यादौ नामार्थेनैव विशिष्ट स्वार्थकर्तृत्वस्याभिधायकः षष्ठ्यादिकोन तु धात्वर्थेन विशिष्टस्य। चैत्रः पचतीत्यादौ धात्वर्थावच्छिन्नस्य यत्नस्य विधेयतया बोधकावपि नामधातू न स्वार्थस्य। चैत्रः पाचक इत्यादौ तु धात्वर्थविशेषितस्य यत्नस्य न विधेयता किन्तु कर्त्तुरेव कृतां धर्म्मिशक्तत्वातन्यथा पाचकश्चैत्र इत्यादिकम योग्यमेव प्रातिपादकार्थयोः पाचकचैत्रयोर्भेदेनान्वयस्याव्युत्पन्नतया कृदर्थ कृतेश्चैत्रादावन्वयायोगाच्च। अयं पक्तुं कालैत्यादौ तुमादिना धात्वर्थावच्छिन्नोऽनुकूलत्वादिः, इयं चिकीर्षेत्यादौ च सनादिनेच्छादिरेव विधेयत्वेनानुभाव्यते इति न तेष्वतिप्रसङ्गः। अत्रेदं तत्त्वम्। जीवनयोन्यादिनिखिलयत्नगतं यत्नत्वमेव तिङः शक्यतावच्छेदकं न तु चेष्टाया जनकत्वस्य चिकीर्षाया वा जन्यत्वस्यावच्छेदकतया सिद्धं प्रवृत्तित्वम्। चैत्रोनिश्वसितीत्यादितोऽपि श्वासाद्यनुकूलप्रयत्नस्य प्रतीतेः। तिङर्थकृतौ च धात्वर्थस्य तं करोमीतिप्रतीतिनियामकः साध्यत्वाख्यविषयता प्रभेदस्तद्विशिष्टफलोपधायकत्वलक्षणममुकूलत्वं वा संसर्गमर्य्यादया भासते तथैव साकाङ्क्षादतोगत्यादिगोचरनिवृत्तिदशायां गच्छतीत्यादिको न प्रयोगः। “तत्र निश्वासवत्त्वमात्रप्रतीतावपि प्रयत्नत्वमेव तिङः शक्यतावच्छेदकं न तु प्रवृत्तित्वं पचतीत्यतः पाककृतिमानिति प्रतीतेः नहि प्रवृत्तित्वमेव कृतित्वं पाके प्रवृत्तोऽस्मीत्यस्याप्यनुभवस्य पाकं करोमीत्यतोविषयवैलक्षण्यस्य सर्वसिद्धत्वात्नित्यकृतौ रागप्रयोज्यस्य प्रवृत्तित्वस्य बाधादीश्वरः करोतीत्यादिवाक्यस्या योग्यतापाताच्च। निविडनिखातस्तु पुरुषः समुत्थानगोचरप्रयत्नवानपि न तदुपधायकप्रयत्नवान् अतस्तत्रायमुत्तिष्ठतीत्यादिकोन प्रयोगः नचैवमीश्वरः पचतीत्यपि स्यात् तस्यापि पाकानुकूलप्रयत्नवत्त्वादिति वाच्यं तिङर्थकृतेरवच्छेदकत्वेनैव संसर्गेण नामार्थान्वयस्य व्युत्पन्नत्वादङ्गुली पचतीत्यादि प्रयोगस्येष्टत्वात् अन्त्यावयविनिष्ठावच्छेदकत्वस्यैव तादृशतिङर्थ कृतेः संसर्गत्वे क्षत्यभावाच्च। नित्यप्रयत्नव्यावृत्तस्यैवानुकूलत्वविशेषस्यतिङर्थकृतौ धात्वर्थस्य संसर्गत्वमित्यप्याहुः”। ईश्वरो जानातीच्छति रथोगच्छ्रतीत्यादौ च ज्ञानादिमत्त्वमात्रप्रतीतेः समवायित्वे, चैत्रोजानातीत्यादाववच्छेदकत्वे, वुद्धिरवगाहते घटोभासत इत्यादौ दैशिकाश्रयत्वे, नश्यतीत्यादौ च प्रतियोगित्वे, तिङोनिरूढलक्षणा। कृतित्ववदाश्रयत्वादेरखण्डत्वे तदवच्छिन्नेऽपि ज्ञानेच्छादेरपि तिङः शक्तिरेव। हस्तादिकस्त्ववयवः प्रयत्नस्यैवावच्छेदको न तु ज्ञानेच्छादेरपि प्रमाणाभावादतः करोजानातीत्यादिको न प्रयोगः। प्रागुक्तैव वा रीतिरत्रापि। पयः पतति स्यन्दते इत्यादावपि पतनादेः समवायित्वमेव तिङानुभाव्यते न तु तदनुकूलं गुरुत्वद्रवत्वादि येन कृतितुल्यशरीरेषु तेष्वपि तिङः शक्तिरापाद्यते। पटानां शतं पततीत्यादौ च शतपदार्थस्यैकदेशएव शतत्वसंख्यायां षष्ठ्यर्थपर्य्याप्तेरन्वयात् संख्यायाः पतनादिसमवायित्वविरहेऽपि न क्षतिः पटानां शतं संख्या इत्याद्यनुरोधेनैव शतादेर्गुणवाचित्वसम्भवात्। तत्र कृत्यादिकं नाख्यातस्यार्थः किन्तु कालः संख्या व तयोः प्रकारान्तरालभ्यत्वात् चैत्रः पचति रथोगच्छतीत्यादौ धात्वर्थस्यैव पाकगत्यादेः कृतिमत्त्वाश्रयत्वादिसम्बन्धेन चैत्रादौ प्रकारत्वात् मैत्रः पच्यत इत्यादितोमैत्रादेः कर्तृत्वादिना तण्डुलः पचतीत्यादौ तण्डुलादेः कर्मत्वादिना संसर्गेण पाकादावनन्वयेन धात्वर्थ एव धर्मिणि नामार्थस्य भेदेनान्वयोऽव्युत्पन्नोन तु नामार्थेऽपि धात्वर्थस्य। नचैवं ज्ञानं चैत्र इत्यादितोऽपि बोधरूपस्य धात्वर्थस्याश्रयत्वसम्बन्धेन चैत्रे धर्मिण्यन्वयप्रसङ्गः, तत्र ज्ञानादिपदस्य बुद्ध्यर्थकनामतया तदर्थस्य नामान्तरार्थे भेदेनान्वयस्याव्युत्पन्नत्वादेव तदसम्भवात् इति प्राभाकराः। तदसत् धात्वर्थान्वयिस्वार्थकर्तृतायामेव लडादेः स्वोपस्थाप्यवर्त्तमानत्वाद्यनुभावकत्वव्युत्पत्तेः कृत्यादेस्तिङर्थत्वं विना तदनुपपत्तेः अन्यथातिप्रसङ्गात्। न च प्रकृत्यर्थएव तिङः स्वार्थवर्त्तमानत्वाद्यनुभावकत्वनियमः पाकमनिष्पाद्य क्रियान्तरव्यासक्तेऽपि पुरुषे पचतीतिप्रयोगापत्तेः तदानीमपि पाकस्यानुवर्त्तमानत्वात् तिङाद्यन्तधात्वर्थस्य पाकादेर्व्वर्त्त मानकृत्यादिसम्बन्धेनैव प्रथमान्तस्य नाम्नोऽर्थे साकाङ्क्षत्वान्नैवमिति चेत् किं कालस्यापि तिङर्थत्वप्रत्याशया संसर्गविधयैव तस्य ल ब्धत्वात्। पचतीत्यादितोवर्त्तमानत्वादिवत्कृतिप्रकारकप्रतीतेरानुभविकत्वाच्च। किञ्च धात्वर्थस्यैव कृत्यादिसम्बन्धेन चैत्रादावन्वये पचत्यपि चैत्रे तायं पचतीतिप्रयोगप्रसङ्गः संयोगादिसम्बन्धेन पाकाद्यभावस्य तत्र सत्त्वात् कर्तृत्वादेर्वृत्त्यनियामकतया तत्सम्बन्धावच्छिन्नपाकाद्यभावस्यालीकत्वेन प्रत्येतुमशक्यत्वात्। एतेन मण्डनमते फलस्य धात्वर्थत्वात् तदनुकूलक्रियैवा ख्यातेन चैत्रादावनुभाव्यते इति कृतेस्तिङर्थत्वाभावादुक्तलक्षणमसम्भवीत्यपि प्रत्युक्तं फलस्य धात्वर्थत्वे संयोगोगुणैतिवद्गतिर्गुणोऽनेकाश्रिता इत्यादिप्रयोगापत्तेश्च न हि भावकृतामपि क्रियार्थः प्रमाणाभावात्। ननु वदि स्वार्थ कर्तृत्वएव लडादिना वर्त्तमानत्वमनुभाव्यते इति नियमः कथं तर्हि केवलात् पच्यत इत्यादितः चाकादो वर्त्तमानत्वधीरिति चेत् कवमाह् तत्राप्येकपदोपात्तत्वेन कर्म्माख्यातोपस्थापिते कर्तृत्वएव वर्त्त मानत्वस्या न्वयात्। इयान् परं विशेषोयत् कर्तविहितेन लटा धात्वर्थस्य विशेष्यत्वेन, कर्म्मविहितेन तु तस्य विशेषणत्वेन स्वार्थकर्तृत्वमनुभाव्यते तथैव साकाङ्क्षत्वात्। एतेन चैत्रेण पक्वमित्यादाविव चैत्रेण पच्यते इत्यत्रापि तृतीययैव कर्तृत्वमनुभाव्यते नत्वाख्यातेन, तिङर्थकृतेर्धात्वर्थविशेष्यत्वनियमादिति दीधितिकृन्मतमप्यनादेयम् एकपदोपात्तत्वेन स्वार्थएव कर्तृत्वे शतृशानजादेरिव लडादेर्व्वर्त्तमानत्वबोधकतया सुबर्थकृतौ तदन्वयासम्भवात् सुबर्थे तिङर्थान्वयस्यादृष्टचरत्वाच्चेति। शाब्दिकास्तु चैत्रः पचतीत्यादितः पाकादिकृतिमत्तयेव तत्कर्त्रभेदेनापि चैत्रादेरन्वयस्यानुभविकत्वात् कृतिरिव कर्त्तापि तिङर्थः कृतित्वमपेक्ष्य कर्तृत्वस्य गुरुत्वान्न तदाख्यातस्य शक्यतावच्छेदकमिति तु रिक्तं वचः लक्ष्यतावच्छेदके लक्षणाया इव शक्यतावच्छेदकेऽपि शक्तेरसत्त्वमते तद्गुरुत्वस्याकिञ्चित्करत्वात् एकैकात्मनिष्ठानामनन्तकृतीनां शक्यत्वमपेक्ष्य निखिलात्मनामेव कर्तृत्वे शक्यतायां विपरीतलाधवाच्च। न च कर्त्रनुभवजनकतया सङ्केतितत्वरूपं कर्तृशक्तत्वमेव तिङामसिद्धं, कत्रेन्वयानुभवजनकतासत्त्वे तत्प्रकारकेश्वर सङ्केतस्य तत्रावश्यम्भावादीश्वरेच्छायाः सदर्थावगाहित्वनियमादन्यथा। कर्त्रनुभवस्वरूपायोग्यत्वादेव तिङा कर्त्तर्य्य शक्तत्वसम्भवे कृत्यपेक्षया कर्त्तरि गुरुत्वोपन्यासस्योन्मत्तप्रलपितत्वापत्तेः। अथैवं पटपदस्यापि लक्षणादिना घटाद्यन्वयानुभावकत्वात् तत्प्रकारकनित्यसङ्केतवत्त्वेन तदपि घटशक्तं स्यात्, न स्यात् पटपदं घटे न शक्त मित्यादिव्यवहारस्य प्रामाणिकत्वेन घटादिपदनिष्ठस्यैव घटानुभावकतया नित्यसङ्केतितत्वस्य घटशक्तित्वात् इत्याख्यातं न कर्तृशक्तमित्येवं व्यवहारस्यासत्त्वात् प्रत्युत पाणिन्यादिप्रामाणिकैस्तिङः कर्तृशक्तत्वेन व्यवहृतत्वात्। एतेन गुणवचनस्य नीलादेर्गुणिशक्तत्वमपि व्याख्यातम् इति प्राहुः”। आख्यातार्थस्य धात्वर्थादौ विशेषण तयैवान्वय इति तु वैयाकरणाः यथाह वै० भू० सा०। “फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः। फले प्रधानं व्यापारस्तिङर्थस्तु विथेषणम्” इति। अस्य व्याख्यायाम् ‘कर्त्तरि कृत्’ “लः कर्मणि च” पा० सूत्रान्यां चकारेण कर्त्तरि कर्मणि च निङः शक्तिरिति लाभे तत्र व्यापाराश्रयः कर्त्ता फलाश्रयः कर्मेति फलव्यापाररूपयोः विशेषणयोर्धातुनैवोपस्थाप्यत्वात् अनन्यलभ्यस्याश्रयस्यैव तिङर्थत्वम् इत्येवं व्यवस्थाप्येत्थमाह। “पदार्थं निरूप्य वाक्यार्थं निरूपयति फले इत्यादि। विक्लित्त्यादि फलं प्रति। तिङर्थः कतृकर्मसंख्याकालाः। तत्र कर्तृकर्म्मणी फलव्यापारयोर्विशेषणे, संख्या कर्तृप्रत्यये कर्त्तरि, कर्मप्रत्यये कर्म्मणि, समानप्रत्ययोपात्तत्वात्। तथाचाख्यातार्थसंख्याप्रकारकबोधं प्रत्याख्यातजन्यकर्त्तृकर्म्मोपस्थितिर्हेतुरिति कार्य्यकारणभावः फलितः। नैयायिकादीनामाख्यातार्थसंख्यायाः प्रथमान्तार्थे एवान्वयादाख्यातार्थ संख्याप्रकारक बोधे प्रथमान्तपदजन्योपस्थितिर्हेतुरिति कार्य्यकारणभावो वाच्यः सोऽपि चन्द्रैव मुखं दृश्यते, देवदत्तोभुक्त्वा व्रजतीत्यादौ चन्दक्त्वार्थयोः आख्यातार्थानन्वयादितराविशेषणत्वघटित इत्यतिगौरवम्। इदमपि कर्त्तृकमणोराख्यातार्थत्वे मानमिति स्पष्टं भूषणे। कालस्तु व्यापारे विशेषणम्। तथा हि “वर्त्तमाने लट्” इत्यत्राधिकाराद्धातोरिति लब्धम् तच्च धात्वर्थं वदत्प्राधान्याद्व्यापारमेव ग्राहयतीति तत्रैव तदन्वयः। न च संख्यावत् कर्तृकर्मणोरेवान्वयः शङ्ख्यः अतीतभावनाके कर्त्तरि पचतीत्यापत्तेः अपाक्षीदित्यनापत्तेश्च पाकानारम्भदशायां कर्तृसत्त्वे पक्ष्यतीत्यनापत्तेश्च। नापि फले तदन्वयः फलानुत्पत्तिदशायां व्यापारसत्त्वे पचतीत्यनापत्तेः पक्ष्यतोत्यापात्तेश्चेत्यवधेयम्। न चामवातजडीकृतकलेवरस्योत्थानानुकूलयत्रसत्त्वादुत्तिष्ठतीति प्रयोगापत्तिः। परयत्नस्याज्ञानादप्रयोगात्। किञ्चिच्चेष्टादिनावगतौ चायमुत्तिष्ठति शक्त्यभावात् फलन्तु न जायत इति लोकप्रतीतेरिष्टत्वात्। एवञ्च तिङर्थो विशेषणमेव भावनैव प्रधानम्। यद्यपि प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यमन्यत्र दृष्टं, तथापि “भावप्रधानमाख्यातं सत्वप्रधानानि नामानीति” निरुक्तोक्तेः भूवादिसूत्रादिस्थक्रियाप्राधान्यबोधकभाष्याच्च धात्वर्थभावनाप्राधान्यमध्यवसीयते। अपि च आख्यातार्थप्राधान्ये तस्य देवदत्तादिभिः सममभेदान्वयात्प्रथमान्तस्य प्राधान्यापत्तिः। तथा च पश्य मृगोधावतीत्यत्र भाष्यसिद्धैकवाक्यता न स्यात् प्रथमान्तमृगस्य धावनक्रियाविशिष्टस्य दृशिक्रियायां कर्मत्वापत्तौ द्वितीयापत्तेः। न चैवम् अप्रथमासामानाधिकरण्यात् शतृप्रसङ्गः। एवमपि द्वितीयायादुर्व्वारत्वेन पश्य मृगैत्यादिवाक्यस्यैवासम्भवापत्तेः। न च पश्येत्यत्र तमिति कर्म्माध्याहार्य्यम्। वाक्यभेदप्रसङ्गात् उत्कटघावनक्रियाविशेषस्यैव दर्शनकर्मतयान्वयस्य प्रतिपिपादयिषितत्वात् अध्याहारे अनत्वयापत्तेश्च। एवञ्च भावनाप्रकारकबोधे प्रथमान्त- पदजन्योपस्थितिः कारणमिति नैयायिकोक्तं नादरणीयम् किन्तु आख्यातार्थकर्तृप्रकारकबोधे धातुजन्योपस्थितिर्भावनात्वावच्छिन्नविषयतया कारणमिति कार्य्यकारणभावोद्रष्टव्यः। भावनाप्रकारकबोधं प्रति तु कृज्जन्योपस्थितिवत् धात्वर्थभावनोपस्थितिरपि हेतुः पश्य मृगोधावति, पचति भवतीत्याद्यनुरोधादिति दिक्। इत्थञ्च पचतीत्यत्रैकाश्रयिका पाकानुकूला भावना, पच्यते इत्यत्रैकाश्रयिका या विक्लित्तिस्तदनुकूला भावनेति बोधः। देवदत्तादिपदप्रयोगे त्वाख्यातार्थकर्त्रादिभिस्तदर्थस्याभेदान्वयः। घटोनश्यतीत्यत्रापि घटाभिन्नैकाश्रयकोनाशानुकूलोव्यापार इति बोधः। स च व्यापारः प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानम्। अतएव तस्यां सत्यां नश्यति, तदत्यये नष्टः, तद्भावित्वे नङ्क्ष्यतीति प्रयोगः। देवदत्तोजानातीच्छतीत्यादौ च देवदत्ताभिन्नैकाश्रयकोज्ञानेच्छाद्यनुकूलोवर्त्तमानो व्यापार इति बोधः स चान्तत आश्रयतैवेति रीत्योह्यम्”। एवञ्च वैयाकरणमते सुब्भिन्नत्वे सति संख्याबोधकप्रत्ययत्वमाख्यातत्वमिति लक्षणम् “सुपां कर्म्मादयोऽप्यर्था संख्या चैव तथा तिङामित्युक्तेः यद्यपि आख्यातसामान्यस्य संख्यासामान्यशक्तत्वज्ञापकं सूत्रं नास्ति तथापि लडादेशैकवचनादीनां तत्तत् संख्याशक्तताज्ञापकसूत्रेण आदेश गतं तथात्वं स्थानिनि लकारे कल्पितमिति संख्याबोधनयोग्यत्वमादाय लक्षणसमन्वय इति बोध्यम् “आख्यातमाख्यातेन क्रियासातत्ये” मयूर० गणसूत्रम् तत्र आख्यातपदं च तदन्तपरम् “प्रत्ययग्रहणे तदन्तग्रहणम्। इति नियमात् ३ आख्यातान्ते च।

आख्याति = स्त्री आ + ख्या–क्तिन्। कथने।

आख्यातृ = त्रि० आ + ख्या–तृच्। उपदेशके। “आख्यातो पयोगे” पा०।

आख्यान = न० आ + ख्या–भावे ल्युट्। १ कथने। २ पूर्व्ववृत्तकथने “आख्यानं पूर्ब्बवृत्तोक्तिः” सा० द०। “यथा देशः सोऽयमरातिशीणितजलैर्यस्मिन् द्रदाः पूरिताः” वेणी० ३ प्रतिवचने च। प्रश्नाख्यानयोः” पा० “विभाषाख्यानपरिप्रश्नयोरिञ्” पा०। करणे ल्युट्। ४ भेदके धर्मे। “लक्षणेत्थम्भूताख्यानेत्यादि” पा० इत्थंभतः कञ्चित् प्रकारं प्राप्त आख्यायते अनेन इति व्युत्पत्तेः कञ्चित्प्रकारं प्राप्तस्य भेदकोधर्म्म इति सूत्रार्थः यथा भक्तोविभुमभि। ५ आर्ष महाकाव्यान्तर्गतसर्गभेदे तेन हि कथाविशेषेण वर्ण्णनीयचरिताख्यानात्तथात्वम् महाकाव्यं लक्षयित्वा तदीयसर्गनामकरणे विशेषमाह” सा० द० “नामास्य सर्गोपादेयकथया सर्गनाम तु” इत्यभिधाय “अस्मिन्नार्षे पुनः सर्गा भवन्त्याख्यानसंज्ञकाः” यथा भारते रामोपाख्यानम्। नलोपाख्यानं शकुन्तलोपाख्यानमित्यादि आख्यान + अस्त्यर्थे अर्श० अच्। ६ प्रसिद्धाख्यानसंज्ञकसर्गयुक्ते आर्षमहाकाव्य भारतादौ। “स्वाध्यायं श्रावयेत् पित्र्ये धर्म्मशास्त्राणि चैव हि। आख्यानानीतिहासांश्च पुरणानि खिलानि च” मनुः साङ्गोपनिषदान् वेदान् चतुराख्यानपञ्चमान्” भा० व०। स्वार्थे कन् तत्रैव “नाटकाख्यानकादेशव्याख्यानादिक्रियानिपुणैः” काद०।

आख्यानकी = स्त्री “आख्यानकी तौ जगुरू गओजे जतावनोजे जगुरू गुरुश्चेदिति” लक्षिते विषमवृत्तभेदे।

आख्यायक = पु० आ + ख्या–ण्वुल्। परोक्तस्यान्यत्र कथके १ दूते “आख्यायकेभ्यः श्रुतसूनुवृत्तिः भट्टिः” २ कथकमात्रे त्रि०।

आख्यायिका = स्त्री आ + ख्या–ण्वुल् “आख्यायिका कथावत् स्यात् कवेर्वंशादिकोर्त्तनम्। अस्यामन्यकवीनाञ्च वृत्तम् गद्यं क्वचित् क्वचित्। कथांशानां व्यवच्छेद आश्वास इति बध्यते। आर्य्याबक्त्रापवक्त्राणां छन्दसा येन केनचित्। अन्योपदेशेनाश्वासः मुखे भाघ्यर्थसूचनम्” सा० द० उक्ते कथाभेदे कथा च “कथायां सरसं वस्तु गद्यैरेव विनिर्म्मितम्। क्वचित्तत्र भवेदार्य्या क्वचिद्वक्त्रापवक्त्रके। आदौ पद्यैर्नमस्कारः खलादेर्वृत्तकोर्त्तन” मित्युक्तलक्षणयुक्ता तत्र आख्यायिका यथा हर्षचरितादि” कथा कादम्बर्य्यादिः। २ उपलब्धार्थबोधककथायाञ्च” अमरः।

आख्यायिन् = त्रि० आ + ख्या–णिनि। १ कथके। २ आवेदके दूतादौच “रहस्याख्यायीव स्वनसि मृदु कर्ण्णान्तिकचरः” शकु०। “रहस्याख्यायिनाञ्चैव प्रणिधीनाञ्चचेष्टितम्” याज्ञ०

***