अष्टाकपाल = त्रि० अष्टासु कपालेषु संस्कृतः अण् तस्य लुक्। “अष्टनः कपाले हविषि” वार्त्ति० आत्। अष्टसु कपालेषु संस्कृते पुराडाशादौ “आग्नेयोऽष्टाकपालः पुराडाशो भवति”। “अष्टाकपालाः मध्ये पुरोडाशा भवन्ति” इति च शत० ब्रा०।

अष्टाक्षर = त्रि० अष्टावक्षराणि यत्र पादे। १ अष्टाक्षरयुक्तपादके अनुष्टुब्जातिके वर्णवृत्तभेदे। “अष्टाक्षरा वै गायत्री” श्रुतिः गायत्र्याःषडक्षरचतुष्पादत्वेऽपि अष्टाक्षरत्रिपादरूपत्वं सर्वत्र प्रसिद्धम्। २ वक्त्रनामके मात्रावृत्तविशेषे विषमवृत्ते। “पञ्चम लघु सर्व्वत्र सप्तमं द्विचतुर्थयोः। गुरु षष्ठञ्च पादानां शेषेष्वनियमोमतः। प्रयोगे प्रायिकं प्राहुः केऽप्येतद्वक्त्रलक्षणम्। लोकेऽनुष्टुबिति ख्यातम् तस्याष्टाक्षरता कृता” छन्दोम०।

अष्टाङ्ग = पु० अष्टावङ्गानि यस्य। यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधिरूपे योगशास्त्रोक्ते १ योग विशेषे “यमनियमासनप्राणायासप्रत्याहारधारणाध्यान- समाधयोऽष्टावङ्गानीति पात० सू०”। यमोनियमश्चासनञ्च प्रजाणायामस्ततःपरम्। प्रत्याहारोधारणा च ध्यानं सार्द्धं समाधिना। अष्टाङ्गन्याहुरेतानि योगिनां योगसिद्धये इति” पुरा०। एतेषां लक्ष्म अष्टाङ्गयोगशब्दे वक्ष्यते। “जानुभ्याञ्च तथा पद्भ्यां पाणिभ्यामुरसा धिया। शिरसा वचसा दृष्ट्या प्रणामोऽष्टाङ्गईरित” इत्युक्तलक्षणे २ प्रणामे “आपः क्षोरं कुशाग्रं च दधि सर्पिः सतण्डुलम्। यवः सिद्धार्थकश्चैव अष्टाङ्गोऽर्घः प्रकीर्त्तितः” इत्यष्टद्रव्यघटिते ३ पूजोपकरणेऽर्घे, “आपः क्षीरं कुशाग्राणि घृतं मधु तथा दधि। रक्तानि करवीराणि तथा वै रक्तचन्दनम् अष्टाङ्ग एष वा अर्घो भानवे परिकोर्त्तितः” काशीख० उक्ते ४ अष्टद्रव्यात्मके सूर्य्यार्घे ५ शारीफलके च तस्य प्रत्येकपङ्क्तौ अष्टपदरूपाङ्गकत्वात्तथात्त्वम्। “६ शल्याद्यष्टाङ्गके आयुर्वेदे यथा “तद्यथा शल्यं शालाक्यं कायचिकित्सा भूतविद्या कौमारभृत्यमगदतन्त्रं रसायनतन्त्रं वाजीकरणतन्त्रमिति। अथास्य प्रत्यङ्गलक्षणसमासः। तत्र १ शल्यं नाम विविधतृणकाष्ठपाषाणपांशुलोहलोष्टास्थिबालनखपूयास्रावान्तर्गर्भशल्यीद्धरणार्थं यन्त्रशस्त्रक्षाराग्निप्रणिधान ब्रणविनिश्चयार्थञ्च।। २ शालाक्यंनाम ऊर्द्ध्वजत्रुगतानां रोगाणां श्रवणनयनवदनघ्राणादिसंश्रितानां व्याधीनामुपशमनार्थम्।। ३ कायचिकित्सा नाम सर्व्वाङ्गसंसृतानां व्याधीनां ज्वरातीसाररक्तपित्तशोथोन्मादापस्मारकुष्ठमेहादीनामुपशमनार्थम्।। ४ भूतविद्या नाम देवासुरगन्धर्व्वयक्षरक्षःपितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्तिकर्म्मबलिहरणादिग्रहोपशमनार्थम्।। ५ कौमारभृत्यं नाम कुमारभरणधात्रीक्षीरदोषसंशोधनार्थं दुष्टस्तन्यग्रहसमुत्थानाञ्च व्याधीनामुपशमनार्थम्।। ६ अगदतन्त्रं नाम सर्पकीटलूतावृश्चिकमूषिकादिदष्टविषव्यञ्जनार्थ विविधविष संयोगविषोपहतोपशमनार्थभ्।। ७ रसायनतन्त्रं नाम वयःस्थापनमायुर्मेधाबलकरं रोगप्रहरणसमर्थञ्च।। ८ वाजीकरणतन्त्रं नाम अल्पदुष्टविशुष्कक्षीणरेतसामाप्यायनं प्रसादोपचयजनननिमित्तं प्रहर्षजननार्थञ्च।। एवमसावायुर्वेदोऽष्टाङ्ग उपदिश्यते” सुश्रुतः।। कर्म० संज्ञात्वान्न द्विगुः। अष्टसु तत्तदङ्गेषु न० ब० व०।

अष्टाङ्गधूप = पु० कर्म्म० “पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी। सर्षपाः सयवाः सर्पिर्धूपनं ज्वरनाशनम्” इति चक्रदत्तोक्ते ज्वरनाशने धूपभेदे।

अष्टाङ्गमैथुन = न० कर्म्म०। “स्मरणं कीर्त्तनं कैलिः प्रेक्षणम् गुह्यभाषणम्। संकल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव व। एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः” दक्षोक्ते स्त्रीणां स्मरणादिषु अष्टसु। यदभावो ब्रह्मचर्य्यम्।

अष्टाङ्गयोग = पु० अष्टावङ्गान्यस्य कर्म०। यमनियमाद्यष्टाङ्गे योगे स च अङ्गसहितोदर्शितः तन्त्रसारे। “ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः। तव स्नेहात् समाख्याता योगविघ्नकरास्तु ये। कामक्रोघलोभमोहमदमात्सर्य्यसंज्ञकाः। योगाङ्गैरेतान्निर्ज्जित्य योगिनोयोगमाप्नुयुः। यमनियमावासनं प्राणायामस्ततःपरम्। प्रत्याहारो धारणाख्यं ध्यानं सार्द्धं समाधिना। योगाङ्गान्याहुरेतानि योगिनो योगसाधने। यमादयस्तु “अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यं दयार्ज्जवम्। क्षमा धृतिर्मिताहारः शौचञ्चेति यमा दश। तपःसन्तोष आस्तिक्यं दानं देवस्य पूजनम्। सिद्धान्तश्रवणज्ञ्चैव ह्रीर्मतिश्च जपोहुतम्। दशैते नियमाः प्रोक्तायोगशास्त्रविशारदैः। आसनानि आसनशब्दे वक्ष्यन्ते। “इडयाकर्षयेद्वायुं बाह्यं षोडशमात्रया। धारयेत् पूरितं योगी चतु षष्ठ्या तु मात्रया। सुषुम्णा मध्यगं, सत्यग्द्वात्रिंशन्मात्रया शनैः। नाड्या पिङ्गलया चैव रेचयेद्योगवित्तमः। प्राणायाममिमं प्राहुर्योगशास्त्रविशारदाः। भूयोभूयः क्रमात्तस्य व्यत्यासेन समाचरेत्। मात्रावृत्तिक्रमेणैव सम्यग्द्वादश षोडश। जपध्यानादिभिर्युक्तं सगर्भं तं विदुर्बुधाः। तदपेतं निगर्भञ्च प्राणायामं परं विदुः। क्रमादभ्यस्यतः पुंसोदेह स्वेदोद्गमोऽधमः। मध्यमः कम्यसंयुक्तो भूमित्यागः परोमतः। उत्तमस्य गुणावाप्तिर्य्यावच्छीलनमिष्यते” इन्द्रियाणां विचरतां विवयेषु निरर्गलम्। बलादाहरणं तेभ्यः प्रत्याहारोऽभिधीयते। अङ्गुष्ठगुल्फजानूरुसीमनी लिङ्गनाभिषु। हृद्ग्रीवाकण्ठदेशे तु लम्बिकायां तथा नसि। भ्रुमध्ये मस्तके मुर्द्ध्नि द्वादशान्ते यथाविधि। धारणं प्राणमरुतोधारणेति निगद्यते। समाहितेन मनसा चैतन्यान्तरवर्त्तिना। आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते। समत्वभावनां नित्यं जीवात्षपरमात्मनोः। समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम्। इत्यादि कथितं देवि कामादिरिपुनाशनम्”। पात० सू० तु अत्यथोक्तम्।

अष्टाङ्गावलेहिका = स्त्री कर्म्म० “कट्कलं पौष्करं शृङ्गी व्यीसं मासश्च कारवी। श्लक्ष्णचूर्ण्णकृतञ्चैतन्मधुना सह लेहयेत्। एषावलेहिका हन्ति सन्निपातं सुदारुणम्। हिक्वाश्वासं च कासञ्च कण्ठरोगं नियच्छति। ऊर्द्ध्वगश्लेष्महरणे उष्णे स्वेदादिकर्म्मणि। विरोध्यु ष्णे मधु त्यक्त्वा कार्य्या स्यादार्द्र जैरसैः”। चक्रदत्तोक्तेऽवलेहभेदे।

अष्टादश = त्रि० अष्टादशानां पूरणः डट् स्त्रियां ङीप् अष्टादशसंख्यापूरणे। अष्टौ च दश च अष्टाधिका दश वा अष्टादशन्। १ (आटारो) संख्यायाम् २ तत्संख्याते च त्रि०। “विद्या ह्यष्टादशैव तु” विष्णुपु० “अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियाम्” नैष० “अष्टादश पुराणानि कृत्वा सत्यवतीसुतः” भा० आ० प०।

अष्टादशधान्य = न० ब० व० कर्म० संज्ञात्वान्न द्विगुः। अष्टादशविधेषु धान्येषु। तानि च यथा। “यवगोधूमधान्यानि तिलाः कङ्गुकुलोत्थकाः। माषा मुद्गामसूराश्च निष्पावाः श्यामसर्षपाः। गवेधुकाश्च नीवारा आढक्योऽथ सतीनकाः। चणकाश्चीनकाश्चैव धान्यान्यष्टादशैव तु हेमा० दा० ख० स्क० पु०। धान्यानि, व्रीहयः, गवेधुकाः, कसेरकाः। नीवाराः आरण्यव्रीहयः सतीनका, बर्त्तुलकलायाः। चीनकाः षष्टिकविशेषाः। निष्पावाः शिम्बीभेदाः। हेमा०।

अष्टादशपरिशिष्टा = स्त्री ब० व० कर्म० संज्ञात्वान्न द्विगुः। यूपादिलक्षणादिषु अष्टादशसु परिशिष्टविद्यासु “परिशिष्टाश्च संख्याता अष्टादश शृणुष्व ताः। यूपलक्षणं छागलक्षणं प्रतिष्ठानुवाकसंख्याचरणव्यूहश्राद्धकल्पसूक्तानि परिषदमृग्यजुषमिष्टकापूरणं प्रवराध्यायोञ्छशास्त्रं क्रतुसंख्यानिगमा यज्ञपार्श्व होतृकम्। व्रतञ्च प्रसवोत्थाश्च कूर्म्मलक्षणसंयुतम्। कथिताः परिशिष्टास्तु द्व्यूनविंशति संख्यया” हेमा० दा० ख० देवीपु०।

अष्टादशपुराण = न० ब० व० कर्म्मं० संज्ञात्वात् न द्विगुः। ब्राह्मादिषु अष्टादशसु पुराणेषु “ब्राह्मं पाद्मं वैष्णवञ्च शैवं भागवतंतथा तथान्यन्नारदीयञ्च मार्कण्डेयञ्च सप्तमम्। आग्नेयमष्टमं प्रोक्तं भबिष्पन्नवमन्तथा। दशमं ब्रह्मवैवर्त्तं लिङ्गमेकादशं तधा। वाराहं द्वादशं प्रोक्तं स्कान्दञ्चात्र त्रयोदशम्। चतुर्दशं वामनञ्च कौर्म्मम्पञ्चदशं तथा। मात्स्यञ्च गारुडञ्चैव ब्रह्माण्डमष्टादशं तथा” हेमा० दा० ख० वरा० पु०।

अष्टादशभुजा = स्त्री अष्टादश भुजायस्याः। देवीमाहात्म्यस्य द्वितीयचरितदेवतायां महालक्ष्म्यां तन्मूर्त्तिर्ध्यानशब्दे वक्ष्यते

अष्टादशविद्या = स्त्री ब० व० कर्म्म० संज्ञात्वान्न द्विगुः। वेदादिषु अष्टादशसु विद्यासु। “अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः। धर्मशास्त्रं पुराणञ्च विद्याह्येताश्चतुर्द्दश। आयुर्वेदो धनुर्वेदो गान्धर्व्वश्चेति ते त्रयः। अर्थशास्त्रं चतुर्थं तु विद्याह्यष्टादशैव तु” हेमा० व्र० ख० विष्णुपुरा०। अङ्गानि अङ्गशब्दे उक्तानि शिक्षादीनिषट् इति अष्टादशसंख्यापूर्त्तिः।

अष्टादशविवादपद = न० ब० व० कर्म्म० संज्ञात्वान्न द्विगुः। ऋणादानादिषु अष्टादशसु विवादस्थानेषु “तानि च मनुनोक्तानि यथा “तेषामाद्यमृणादनं निःक्षेपोऽस्वामिविक्रयः। सम्भूय च समुत्थानं दत्तस्यानपकर्म च। वेतनस्यैव चादानं संविदश्च व्यातक्रमः। क्रयविक्रयानुशयो विवादः स्वामिपालयोः। सोमाविवादधर्मश्च पारुष्ये दण्डवाचिके। स्तेयञ्च साहसञ्चैव स्त्रीसंग्रहणमेव च। स्त्रीपुंधर्म्मो विभागश्च द्यूतमाह्वय एव च। पदान्यष्टादशैतानि व्यवहारस्थिताविह”।

अष्टादशस्मृतिकारिन् = पु० ब० व० कर्म्म० संज्ञात्वान्न द्विगुः। बिष्णु प्रभृतिषु अष्टादशसु स्मृतिकारकेषु “विष्णुः पराशरो दक्षः संवर्त्तव्यासहारिताः। शातातपोवशिष्ठश्च यमापस्तम्ब गौतमाः। देवलः शङ्खलिखितौ भरद्वाजोशनोऽत्रयः। शौनको याज्ञवल्क्यश्च दशाष्टौ स्मृतिकारिणः। हेमा० दा० ख० वृहन्मनुः।

अष्टादशाङ्ग = पुंन० अष्टादश अङ्गानि यत्र। वैद्यकप्रसिद्धे पाचनभेदे तच्च वातादिभेदेन भिन्नभिन्नप्रकारं दर्शितं चक्रदत्तेन। “दशमूली शटी शृङ्गी पौष्करं सदुरालभम्। भार्गी कुटजवीजञ्च पटोलं कटुरोहिणी। अष्टादशाङ्ग इत्येष सन्निपातज्वरापहः। कासहृद्ग्रहपार्श्वार्त्तिश्वासहिक्कावमीहरः १। भूनिम्बदारुदशमूलमहौषधाट्यतिक्तेन्द्रवीजधनिकेभकणाकषायः। तन्द्रीप्रलापकसनारुचिदाहमोहश्वासादियुक्तमखिलं ज्व रमाशु हन्ति २।। मुस्तपर्प्पटकोशीरदेवदारुमहौषधम्। त्रिफलाधन्वयासश्च नीलीकम्पिल्लकं त्रिवृत्। किराततिक्तकं पाठाबलाकटुकरोहिणी। मधूकं पिप्पलीमूलं मुस्ताद्यो गण उच्यते। अष्टादशाङ्गमुदितमेतद्वा सन्निपातनुत्। पित्तोत्तरे सन्निपाते हितञ्चोक्तं मनीषिभिः। मन्यास्तम्भे उरोघाते उरःपार्श्वशिरोग्रहे” ३। अत्यविधमप्यन्यत्रोक्तं विस्तरान्न तदुक्तम्।

अष्टादशोपचार = पु० ब० व० कर्म० संज्ञात्वान्न द्विगुः। तन्त्रोक्तेषु आसनादिषु आष्टदशसूपचारेषु यथा “आसनं स्वागतं पाद्यमर्व्यमाचमनीयकम्। स्नानं वस्त्रोपवीतञ्च भूषणानि च सर्वशः। गन्धपुष्पे तथा धूपदीपावन्नञ्च तर्पणम्। माल्यानुलेपनञ्चैव नमस्कारविसर्जने। अष्टादशोपचारैस्तु मन्त्री पूजां समाचरेत्” तन्त्रसारः।

अष्टादशोपपुराण = न० ब० व० कर्म्म० संज्ञात्वान्न द्विगुः। सनत्कुमारादिषु अष्टादशसु उपपुराणेषु “अन्यान्युप पुराणानि मुनिभिः कथितानि तु। आद्यं सनत्कुमारोक्तं नारसिंहमतः परम्। तृतीयं नारदं प्रोक्तं कुमारेण तु भाषितम्। चतुर्थं शिवधर्म्माख्यं साक्षान्नन्दीशभाषितम्। दुर्व्वाससीक्तमाश्चर्य्यं नारदोक्तमतः परम्। कापिलं मानवं चैव तथैवोशनसेरितम्। ब्रह्माण्डं वारुणं चाथ कालिकाह्वयमेव च। माहेश्वरं तथा शाम्बं सौरं सर्व्वार्थसञ्चयम्। पराशरोक्तं प्रवरं तथा भागवतद्वयम्। इदमष्टादशं प्रोक्तं पुराणं कौर्म्मसंज्ञितम्। चतुर्द्धा संस्थितं पुण्यं संहितानां प्रभेदतः। हेमा० दा० ख० कूर्म्मपु०।

अष्टादिशाब्दिक = पु० कर्म्म० संज्ञात्वान्न द्विगुः। “इन्द्रश्चन्द्रः काशकृत्स्नापिशिली शाकटायनः। पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः” इत्युक्तेषु अष्टसु प्रथमशब्दशास्त्र प्रवर्त्तकेषु इन्द्रादिषु।

अष्टापद = पुंन० ब० व० अष्टौ अष्टौ पदानि पङ्क्तावस्य वृत्तौ संख्या शब्दस्य वीप्सार्थत्वाङ्गीकारः आत्त्वम् अर्द्धर्च्चादिः। १ शारीफलके। अष्टसु धातुषु पदं प्रतिष्ठा यस्य। २ स्वर्णे। आवर्ज्जिताष्टापदकुम्भतोयैः” कुमा०। “अचेष्टाताष्टापदभूमिरेणुः” माघः। उपचारात् स्वर्णमयेऽपि “अष्टापदेन बलवान् राजा वज्र धरोपमः” इति हरिवंशः ३ शरभे ४ लूतायाञ्च पु०। तयोरष्टपदत्वात्। अष्टं यथा स्यात्तथा पद्यते। ५ कृमौ। अष्टसु दिक्षु आपद्यते ६ कीलके। अष्टाभिः सिद्धिभिरापद्यते। आ + पद–अप् ३ त०। अणिमाद्यष्टसिद्धियुक्तक्ते ७ कैलासे पु०।

अष्टापाद्य = त्रि० अष्टभिरापद्यते गुण्यते आ + पद–कर्मणि ण्यत्। अष्टभिर्गुणनीये “अष्टापाद्यम् शूद्रस्य स्तेये भवति किल्विषम्” मनुः।

अष्टाविंशति = स्त्री अष्टाधिका विंशतिः शा० त० आदन्तादेशः। (आटाइस) १ संख्याभेदे २ तत्संख्यान्विते च। विंशच्छब्देन समासे तत्रैव “अष्टाविंशद्दिनम्” भृगुः ज्यो०। पूरणे डट्। अष्टाविंशः। तत्संख्यापूरणे त्रि० स्त्रियां ङीप्। पूरणे तमप् अष्टाविंशतितमः। तत्रैवार्थे त्रि०।

अष्टाविंशतितत्त्व = न० अष्टविंशतौस्थानेषु तत्त्वंतत्त्वज्ञानं यतः। रघुनन्दनभट्टाचार्य्यकृते मलमासादिषु अष्टाविंशतिस्थानेषु तत्त्वज्ञापके स्मृतिनिबन्धे। तानि च स्थानानि तेन प्रतिज्ञायां दर्शितानि यथा “मलिम्लुचे दायभागे संस्कारे शुद्धिनिर्णये। प्रायश्चित्ते विवाहे च तिथौ जन्माष्टमीव्रते दुर्गोत्सवे व्यवहृतावेकादश्यादिनिर्णये। तडाभगवनोत्सर्गे वृषोत्सर्गत्रये व्रते। प्रतिष्ठायां परीक्षायां ज्योतिषे वास्तुयज्ञके। दीक्षायामाह्निके कृत्ये क्षेत्रे श्रीपुरुषोत्तमे। सामश्राद्धे यजुःश्राद्धे शूद्रकृत्यविचारणे। इत्यष्टाविंशतिस्थाने तत्त्वं वक्ष्यामि यत्नतः”।

अष्टार = त्रि० अष्टौ अरा इव कोणा यस्य। अष्टकोणे। अष्टाश्राष्टाकोणादयोऽप्यत्र।

अष्टारचक्रवत् = पु० अष्टारमष्टकोणं चक्रमस्त्यस्य मतुप् मस्य वः। अष्टकोणचक्रधारके जिनभेदे।

अष्टाल = पु० घोटकदेशभेदे अश्वशब्दे विवृतिः।

अष्टावक्र = पु० अष्टकृत्वोवक्रः वृत्तौ संख्या सुजर्थपरा पृ० दीर्धः। ऋषिभेदे स च उद्दालकशिष्यकहोष्टपुत्रः। तदुत्पत्तिकथा भा० ब० १३२ अ०। “उद्दालकस्य नियतः शिष्य एको नान्ना कहोड इति विश्रुतोऽभूत्। शुश्रूषुराचार्य्यवशानुवर्त्ती दीर्घं कालं सोऽध्ययनञ्चकार। तं वै विप्रः पर्य्यचरत् स शिष्यस्ताञ्च ज्ञात्वा परिचर्य्यां गुरुः सः। तस्मै प्रादात् सद्य एव श्रुतञ्च भार्य्याञ्च वै दुहितरं स्वां सुजाताम्। तस्यां गर्भः समभवदग्निकल्पः सोऽधीयानं पितरञ्चाप्युवाच। सर्व्वां रात्रिमध्ययनं करोषि नेदं पितः सम्यगिवोपवर्त्तते। वेदान् साङ्गान् सर्व्वशास्त्रैरुपेतानधीतवानस्मि तव प्रसादात्। इहैव गर्भे तेन पितर्ब्रवीमि नेदं त्वत्तः सम्यगिवोपवर्त्तते। उपालब्धः शिष्यमध्ये महर्षिः स तं कोपादुदरस्थं शशाप। यस्मात् कुक्षौ वर्त्तभानो ब्रवीषि तस्माद्वक्रो भविताऽस्यष्टकृत्वः। स वै तथा वक्र एवाभ्यजायदष्टावक्रः प्रथितो वै महर्षिः”। सचाष्टावक्रसंहिताकारी

अष्टावक्रीय = न० अष्टावक्रमधिकृत्य कृतः ग्रन्थः छ। भा० व० प० १३२ अध्यायमारंभ्य अध्यायत्रयात्मक ग्रन्थभेदे यत्र वादेन वन्दिनं जित्वाऽष्टावक्रेण वन्दिपराजितं तेनैव जलेनिमज्जितं पितरम् कहोडनामानं मुनिं मोचयामास तेन प्रसन्नेन पित्रा तस्याष्टवक्रतादूरीकरणेन सौम्याकारता कृतेति वर्ण्णितम्।

अष्टि = स्त्री अस्यते भूमौ क्षिप्यते अस–क्तिन् पृषो० षत्वम्। (आटि) इति ख्याते १ वीजे, २ षोडशाक्षरपादके छन्दोभेदे च। “अष्ट्यत्यष्टी ततः स्मृते” वृ० र०। अक्ष–व्याप्तौक्तिन्। ३ व्याप्तौ। अश–करणे क्तिन्। ४ भोगसाधने देहे “शतशारदीया युष्मान् न जरदष्टिर्यथासम्” यजु० ३४, ५२। जरती अष्टिः शरीरं यस्य “वेददी० अष्टेः षोडशाक्षरपादत्वेन तत्संस्थासाम्यात् ५ षोडशसंख्यायां ६ तत्संख्येये च। “समाद्रिपञ्चाङ्कदिने विवाहाद्वधूप्रवेशोऽष्टिदिनान्तराले। इति मुहू० चि० फलाभ्यन्तरस्थास्थितुल्यकठिनांशवाची तु थकारमध्यः अष्ठिशब्दएव ज्यायान् अस्थितुल्यतया तस्या- ष्ठित्वम्। तकारयुक्तः पाठस्तु असमीचीनः। रसमयस्य त्वगष्ठ्यादेरभावात् फलमेव रसं पिबतेति” भाग० टी० श्रीधरः।

अष्ट्रा = स्त्री अक्ष्यते चाल्यतेऽनया अक्ष–करणे ष्ट्रन्। १ प्रतोदे “शुनमष्ट्रामुदिङ्गय” ऋ० ४, ५७, ४। “अष्ट्रांप्रतोदम्” भा० २ रथचक्रावयवभेदे च। “अष्ट्रां पूषा शिथिरास्वुमुद्वंरीवृजत्” ऋ० ६, ५८, २। “अष्ट्रामारामिति” भा०।

अष्ठीला = स्त्री अष्ठिस्तत्तुल्यकठिनाश्मानं रा–क रस्य लः दीर्घः “आध्मापयन् वस्तिगृहं रुद्ध्वा वातश्चलोन्नताम्”। कुर्य्यात्तीव्रार्त्ति मष्ठीलां मूत्रस्य मार्गरोधिनीमिति वैद्यकोक्तलक्षणयुक्ते वातजन्ये १ व्याधिभेदे। २ मूत्राघातरोगभेदे सुश्रुतः तल्लक्षणादि तत्र यथा “अथातो मूत्राघातप्रतिषेधमध्यायं व्याख्यास्यामः वातकुण्डलिकाष्ठीला वातवस्तिस्तथैव च” द्वादशभेदानभिधाय लक्षितं यथा “शकृण्मार्गस्य वस्तेश्च वायुरन्तरमाश्रितः। अष्ठीलावद्घनं ग्रन्थिं करोत्यचलमुत्तमम्। विण्मूत्रानिलसङ्गश्च तत्राध्मानं च जायते। वेदना जायते वस्तौ वाताष्ठीलेति तां विदुः”। ३ वर्त्तुलाकारे पाषाणखण्डे च। तदाकारत्वेन वाताष्ठीलाया अपि तथात्वम् “ततोजज्ञे मांसपेशी लोहाष्ठीलेव संहता” भा० आ० प० ११५ अध्या०। मूत्राघाते क्लीवत्वमपि भेदनं दीपनं हृद्यमानाहाष्ठीलनुल्लघु” सुश्रुतः।

अष्ठीवत् = पु० नास्ति अतिशयितमस्थि यस्मिन् मतुप् पृषो० नि०। (आंटु) इति ख्याते जानूर्व्वोः सन्धिस्थाने। अष्ठीवन्तौ परिकुल्फौ च देहे” ऋ० ७, ५०, २, ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम्” अथ० १०, १६३, ४, अस्य ऊरुपूर्ब्बपदत्वे द्वन्द्वे १ अदन्तता ऊर्वष्ठीवं न०। “चत्वार्य्यर्व्वष्ठीवानि” शत० ब्रा०। २ ष्ठीवद्भिन्ने त्रि०।

अस = दीप्तौ अक० ग्रहणे गतौ च सक० भ्वादि० उभ० सेट्। असति ते आसीत् आसिष्ट। “लावण्य उत्पाद्य इवास यत्नः” कुमा०।

अस = विद्यमानतायाम् अदा० अक० पर० सेट्। अस्ति स्तः सन्ति असि स्थःस्थ अम्मि स्वः स्मः। स्यात् स्युः। अस्तु स्ताम् सन्तु एधि–असानि। आसीत्। अस्य असार्व्वधातुके भ्वादेशः। तेन भूधातुवद्रूपम्। विद्यमानता च काल संबन्धधारणं तदुक्तं हरिणा “आत्मानमात्मना बिभ्रदस्तीव्यवदिश्यते। अन्तर्भावाच्च तेनासौ कर्मणा न सकर्म्मकः” “अस्त्युत्तरस्यां दिशि देवतात्मा” कुमा० यच्चावहासार्थम सत्कृतोऽसि गीता” “प्रपन्नोऽत्मि स्वैरं रतिरसमहानन्दनिरताम्” श्यामास्तवः। “स्याद्वा संख्यावतोऽर्थस्य समुदायोऽभिधायकः” फणिभा० “स्यातामसित्रे मित्रे च सहज प्राकृतावपि” माघः कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशो वराः” मनुः “दिनेदिने त्वं तनुरेधि रेऽधिकम्” नैष० “आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्” मनुः। “नत्वेवाहं जातु नासमिति” गीता। सन् सन्तौ सन्तः। “सदेव सोम्येदमग्र आसीत्” छा० उ० “योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते” मनुः। “नासतोविद्यततेऽभावोनाभावो विद्यते सतः” गीता स्त्रियां ङीप् “सती सती योगविसृष्टदेहा” कुमा० “सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी हरिः वि + अति + व्यतिहारे परस्परमेकरूपेण स्थितौ “अन्यो व्यतिस्ते तु ममापि धर्म्मः” भट्टिः।

अस = क्षेपे दिवा० पर० सक० सेट्। अस्यति अस्येत् अस्यतु आस्यत् आस्थत् आस। असिता–अस्ता असिष्यति। अस्यत् अस्यमानः अस्तः। असितुम्–अस्तुम्। असित्वाअस्त्वा अभ्यस्य, निरस्य “आरे अस्मद्दैव्यं हेलो अस्यतु”। ऋ० १, ११४, ४, “दस्यवे हेतिमस्यार्य्यम्” ऋ० १, १०३, ३, अति–अतिदूरक्षेपणे “बहुभिश्चैकमत्यस्यन्नेकेन च बहून् जनान्” भा० अत्यस्तः पा०। वि + अति। वैपरीत्येन स्थापने “व्यत्यस्तपाणिना कार्य्यमुपसंग्रहणं गुरोः” मनुः “व्यत्यासश्छलयोगतः” स्मृतिः अधि–आरोपे आरोपश्च अतस्मिन् तद्बुद्धिःअन्योपरिस्थापनञ्च आद्यार्थे “अप्रत्यक्षेऽपि ह्याकाशे बालास्तलमलिनताद्यध्यस्यन्ति” “आह कोऽयमध्यासोनाम” उच्यते स्मृतिरूपः परत्रपूर्ब्बदृष्टावभासः” शा० भा०। अनुपश्चात् सह वा क्षेपणे अन्वस्तः। “मुञ्जमेखला वल्कलेनान्वस्ता भवति” शत० ब्रा०। अप–दूरीकरणे “गतिरपास्तसंस्था मतिः” मालतीमा० “किमित्यपास्याभरणानि यौवने” कुमा०। अभि–अभ्यावृत्तौ, “अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः” कुमा० “अभ्यासेन तु कोन्तेय! वैराग्येण च गृह्यते” गीता। “शैशवेऽभ्यस्तविद्यानाम्” रघुः। अव–अवक्षेपे “तामवास्यतो गच्छति च सृजम्” शत० ब्रा० समन्तात्क्षेपे “तामवास्यत्यागच्छति मुदम्” शत० ब्रा० उद्–ऊर्द्धोत्क्षेपणे “पुच्छमुदस्यति” सि० कौ०। परि + उद् भिन्नतया बोघने। “प्राधान्यं हि विधेर्यत्र प्रतिषेधेऽप्रधानता। पर्य्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ्” मीमां० यथा श्राद्धादौ पर्य्युदस्तकालोरात्र्यादिः “अमावास्यायां पितृभ्योदद्यात्” “रात्रौ श्राद्धं न कुर्वीते” त्युभयोरेकवाक्यतया रात्रीतरामावस्यायां श्राद्धं कुर्व्वीतेति हि बोधः तत्र रात्रिः पर्य्युदस्ता एवमन्यत्रापि। परितःक्षेपणे च “अन्त्याः सर्वे पर्य्युदस्ता मृषिष्ठिरनिवेशने” भा० स० प०। वि + उद्–निवारणे। “चीराणीव व्युदस्तानि रेजुस्तत्र महावने” “रामा० त्वन्तु हेतूनतीत्यैतान् कामक्रोधौ व्युदस्यच”। भा० स० प०। उप–समीपस्थापने “तस्याधस्त स्तद्बहिरुपास्यति चमसेषु” कात्या० १०, ५, नि–अर्पणे “न मद्विधे न्यस्यति भारमग्र्यम्”। निक्षेपरूपेणार्पणे च “न्यासीकृता स्थानभिदास्मरेण” कुमा० “राज्यं न्यासमिवाभुनक्” रघुः। उच्चारणपूर्ब्बकं तत्र तत्र स्थाने अर्पणीतया ध्याने च। “आदावृष्यादिकन्यासः करशुद्धिस्ततः परम्। अङ्कुलिव्यापकन्यासौ हृदादिन्यास एव च” तन्त्रम्। उप + नि + वाचारम्भणे “उपन्यासस्तु वाङ्मुखम्” अमरः। प्रथमब्रयोगे च “भूतमप्यनुपन्यस्तं पूर्ब्बंमावेदितं न चेत्। हीयते व्यवहारेण” स्मृतिः “स तु तत्र विशेष दुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः” किरा० सम् + नि त्यागे “व्रीडादमुं देवमुदीक्ष्य मन्ये संन्यस्तदेहः स्वयमेव कामः” कुमा० विहितकर्म्मणां विधानेन त्यागे च “दशलक्षणकं धर्म्ममनुतिष्ठन् समाहितः। वेदान्तं विधिवच्छुत्वा सन्यस्येदनृणो द्विजः” मनुः। “न हि संन्यसनादेव सिद्धिं समधिगच्छति” “मयि संन्यस्य कर्म्माणि” गीता। निस्–निर्–निष्ठीवने दूरीकरणे च। निरस्यति “निष्ठीवति ष्ठिवु निरसने” पा० धातुपा० “निरस्तः परावसुः तृणनिरसने भवदेवः “निरस्तगाम्भीर्य्यमपास्तधैर्य्यम्” माघः “निरास भृङ्गं कुपितेव पद्मिनी” भट्टिः “क्वणदलिकुलनूपुरा निरासे” किरा०। त्वरितोच्चारणे च “निरस्तं त्वरितोदितम्” अमरः।परा–निराकारणे “एतेन खण्डनकारमतमपि परास्तम्” चिन्ता०परि–परावर्त्तनेन स्थापने “मुखेन पर्य्यस्तविलोचनेन” कुमा०। “पर्य्यस्यन्निह निचयः सहस्रसंख्याम्” किरा०। अर्पणे च “ताम्रौष्ठपर्य्यस्तरुचः स्मितस्य” कुमा०। वि–परि–वैपरीत्ये, परिवर्त्तने भ्रान्तिज्ञाने च “इतरथा पात्रे विपर्य्यस्येते” शत० ब्रा०। “संशयविपर्य्यासनिवारणेनेति” चिन्ता० “विपर्य्यासितदर्शनैः” बौद्धका०।प्र–प्रक्षेपे “अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत्” मनुः “अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते” गीता।अनु–प्र–आनुलोम्येन अनुगततया एकरूपेण निवेशने अनुप्रासःप्रति–प्रतिरूपक्षेपणे। “तद्यथाऽहिनिर्लयणी वल्मीके मृता प्रत्यस्ता शयीत” शत० ब्रा०।वि–विशेषरूपेण सम्यगवबोधनाय निवेशने व्यासः विग्रहवाक्यम् तस्य समस्तवाक्यार्थस्य विशेषेणावबोधहेतुतया निवेशनात् तथात्वम् विभागे “विव्याम वेदान् यस्मात् स तस्मात् व्यास इति स्मृतः” भा० आ० प०। पारावारेतिव्यस्तं समस्तं विपरीतञ्च” सि० कौ०। व्यस्तः “व्यस्तरात्रिन्दिवस्य ते” कुमा० पृथक्करणे एवैकशः प्रयीगे व्यस्तः “व्यस्तसमस्तमहाव्याहृतिहोमे” भवदेव। निवारणे च “व्यस्यन्नुदन्यां शिशिरैः पयोभिः” भट्टिः। विक्षेपे “व्यस्तास्तारागणाइव” भा०।वि–नि–अर्पणे। “विष्णोर्वक्षसि विश्वनाथकृतिना सिद्धान्तमुक्तावली विन्यस्ता” सि० मु० “विभागविन्यस्तमहार्घरत्नम्” भट्टिः।सम्–संक्षेपे “समासेन निबोधत” पुरा० समस्या। संक्षिप्यन्यसने यथा पीतम् अम्बरमिति समुदायस्य पीताम्बर इति संक्षेपेण प्रयोगः समासः। “सर्व्वोऽप्येकदेशोऽह्ना सह समस्यते” वार्त्ति०। “समस्यमानपदार्थातिरिक्तपदार्थबोधकत्वं बहुव्रीहित्वमिति सारमञ्जरी। “ससासः षडिबधोब्धैः” हरिः साकल्ये च समस्तम् “ज्ञानमस्ति समस्तस्य देवीमा० “व्यस्तसमस्त महाव्याहृति होमे विनि०” भवदे० संयोजने च समस्य सम्पादयत गुणैरिमाम्” किरा०।

असंयत = त्रि० न० त०। बन्धनशून्ये “असंयतोऽपि मोक्षार्थी” काद०। असंयतः अबद्धः अकारे विष्णौ भक्तश्च।

असंयुक्त = त्रि० विरोधे न० त०। १ वियुक्ते। २ व्यञ्जनवर्ण्णामिश्रिते व्यञ्जनवर्ण्णे ३ द्रव्यान्तरैरसंसृष्टे च।

असंयुत = त्रि० न० त०। संयुतभिन्ने “हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम्। औरस्यंतं विजानीयात् कण्ठ्यमाहुरसंयुतम्” पा० शिक्षा।

असंयोग = पु० अभावे न० त०। १ संयोगाभावे न० ब०। २ संयोगशून्ये त्रि०। संयोगः क्रियाजन्यः द्रव्याश्रयगुणविशेषः हल्वर्ण्णयोरचाऽव्यवधानञ्च। “असंयोगोपधात्” पा०।

असंलग्न = त्रि० न० त०। १ संलग्नभिन्ने विभक्ते २ असंबन्धे च।

असंवृत = त्रि० न संवृतः। १ अनावृते “नासंवृतमुखः कुर्य्यात्क्षुतं जिह्मां तथैव च” स्मृतिः” संवृतं संवरणम् न० ७ ब०। अत्यन्तावरके २ नरकभेदे न० “योह्यस्य धर्म्ममाचष्टे यश्चोपदिशति व्रतम्। सोऽसंवृतं नाम तमः सह तेनैव गच्छति” मनुः।

असंशय = पु० अभावे न० त०। १ सन्देहाभावे न० ब०। २ सन्देहशून्ये “असंशयं क्षत्रपरिग्रहक्षमा यदार्य्यमस्यामभिलाषि मे मनः” शकु० सन्देहश्च एकस्मिन् धर्म्मिणि विरुद्ध कोटिद्वयज्ञानम् यथा पर्व्वतो वह्णिमान्नवा दहनतदभावरूपविरुद्धकोटिद्वयमेकस्मिन् पर्व्वते धर्म्मिणि ज्ञायते “स्थाणुः पुरुषो वेत्यत्र अस्थाणुत्वस्य पुरुषत्वव्याप्यतावच्छेदकतया गृहीतधर्म्म कत्वेन विरुद्धत्वात्तथात्वमिति वेदः ३ निश्चये च

असंश्रव = त्रि० नास्ति संश्रवः सम्यक् श्रवणं यत्र। सम्यक्श्रवणायोग्ये दूरदेशादौ। “असंश्रवे चैव गुरोर्न किञ्चिदपि कीर्त्तयेत्” मनुः।

असंश्लिष्ट = त्रि० न० त०। संश्लेषशून्ये १ विभक्ते २ असंङ्गते च।

असंसर्ग = पु० अभावे न० त०। १ संसर्गाभावे। न० त०। २ संसर्गशून्ये निस्मम्बन्धे।

असंसर्गाग्रह = पु० असंसर्गस्य परस्परसम्बन्धाभावस्याग्रहः। मीमांसकोक्तस्य इदमिति रजतमित्यादि ज्ञानद्वयस्यापि प्रवृत्तिजनकताप्रयोजके परस्परसम्बन्धाभावस्याबोधे। विस्तरः असत्ख्यातिशब्दे अख्यातिपक्षनिरूपणे ५३२ पृष्ठे दृश्यः।

असंसृष्ट = त्रि० न० त०। १ संसर्गरहिते। संसर्गश्च द्रव्ययोः सम्बन्धः धनिनोरेकत्र द्रव्ये विभागानन्तरं समुदायस्वामित्वसम्पादनञ्च “विभक्तोयः पुनः पित्रा भ्रात्रा चैकत्र संस्थितः। पितृव्येणाथ वा प्रीत्या स तु संसृष्ट उच्यते वृह० उक्तेः। संसृष्टं द्रव्यमस्यास्ति अर्शा० अच् संसृष्टः। इनि संसृष्टी च विभानन्तरमेकत्र द्रव्येऽन्येन सह सम्बन्धवान् तद्भिन्नः असंसृष्टः अर्ससृष्टी च “अन्योदर्य्यस्तु संसृष्टोनान्योदर्य्यधनं हरेत् असंसृष्ट्यपि चादद्यात् संसृष्टोनान्यमातृजः” या० स्मृ०। “तस्माद्विमक्तासंसृष्टिन्यपुत्रे स्वर्याते पत्नी धनं प्रथमं गृह्णातीति” मिता०।

असंस्कृत = त्रि० सम् + कृ–क्त सुट् न० त०। १ गुणान्तराधान मनीते २ अपरिस्कृते ३ गर्भाधानादिसंस्काररहिते, च। असंस्कृतः सुतो ज्येष्ठोनापरो वेदपारगः” स्मृतिः “असंस्कृतास्तु संस्कार्य्या भ्रातृभिः पूर्ब्धमंस्कृतैः” या० स्मृ०। व्याकरणसंस्कारशून्ये ४ अपशब्दे पु० “संस्कारोहि सतो गुणान्तराधानम् सच लौकिकालौकिकहेतुकः। तत्र यथा गर्भाधानादिना अलौकिकेन हेतुना देहः संस्क्रियते तत्संस्काराच्च तदभिमानी देही। एवं स्नानाचमनादिनाऽपि। लौकिकेन तु पाकादिना द्रव्यान्तरयोगेन वा अन्नादौ गुणान्तरमाधीयते अतएव संस्कृतं भक्ष्याः इति पा० सूत्रेभक्ष्यस्य दध्याद्युपसेकेन संस्कार उक्तः। शरावे संस्कृतः शावावः सक्तुः दघ्नि संस्कृतः दाधिकः सूपः” सि० कौ०।

असंस्तुत = त्रि० न० त०। १ अपरिचिते। “प्रेयानप्यसंस्तुत इव परित्यक्तः” काद०। २ सम्यगस्तुते च।

असंस्थित = त्रि० न० त०। १ अप्रेते परलोकं प्रति अप्रस्थिते “असंस्थितान् प्राणान् संस्थापयेत्” शत० ब्रा० २ असुस्थिते अवस्थितभिन्ने ३ चले च। “गच्छति पुरः शरीरं धावति पश्चादसंस्थितं चेतः” इति शकु०।

असंहृत = त्रि० न संहन्यते इतरेण संसृज्यते सम् + हन–क्त न० त०। १ संघातमनापन्ने २ असंलग्ने “सर्व्वतस्त्रिवृतं पञ्चावृतं वा बहुलमयुग्ममसंहतं प्रागग्रं मूलमाच्छादयन्” गोभि० “असंहतमसंलग्नम्” सं० त० रघु०। सांख्यमतसिद्धे ३ पुरुषे पु०। तन्मते हि प्रकृत्यादेः शय्यागृहादिवत् संहत्यैव (इतरसापेक्षतयैव) पुरुषार्थकारित्वम् पुरुषस्य तु प्रकाशरूपक्रियायां नेतरापेक्षाऽस्तीति तस्यासंहतत्वम्। संहतपरार्थवात् पुरुषस्य” सां० भा० “विवादास्पदं प्रकृतिमहदादिकं परार्थं स्वेतरस्य भोगापबर्गफलकं संहतत्वात् शय्यासनादिवदित्यनुमानेन प्रकृतेः परोऽसंहत एव पुरुषः सिद्द्यति तस्यापि संहतत्वेऽनवस्थापत्तेः। पातञ्जले च “परार्थं संहत्य कारित्वादिति” सूत्रकारेणानुमानं कृतं तत् तु यथाश्रुत मेवान्त्यावयवसाधारणम्। इतरसाहित्येनार्थक्रियाकारित्व स्यैव संहत्यकारिताशब्दार्थत्वात्। पुरुषस्तु विषयप्रकाशनरू पायां स्वार्थक्रियायां नान्यदपेक्षते नित्यंप्रकाशरूपत्वात्। पुरुषस्यार्थसम्बन्धमात्रे बुद्धिवृत्त्यपेक्षणात्। सम्बन्धस्तु नासाधारण्यर्थक्रियेति। “संहतपरार्थत्वात्” सां० सू० भा० “अतोऽसंहतः संहतदेहादिभ्यःपरः पुरुषः सिध्यति”।

असकृत् = अव्य० न सकृत् न० त०। पौनःपुन्ये। “असकृदेकरथेन तरस्विना” रघुः “अन्याद्येनासकृच्चैतान् गुणैश्च परिनोदयेत्” “असकृद्गर्भवासेषु वासं जन्म च दारुणम्” इति च मनुः। “आवृत्तिरसकृदुपदेशात्” शा० सू०।

असक्त = त्रि० सन्ज–क्त न० त०। १ आसक्तिशून्ये २ फलाभिलाषशून्ये च “असक्तः सुखमन्वभूदि” ति रघुः। “कुर्य्यात् विद्वांस्तयाऽसक्तः” इति गीता “असक्तमारधयतो यथा यथम्” किरा०।

असक्थ = (किय) त्रि० नास्ति सक्थि यस्य वा टच् समा०। सक्थिशून्ये

असक्रा = स्त्री सम् + क्रम–विट् पृ० समोऽन्तलोपः न० त०। संक्रान्तर्य्यां स्त्रियाम्। “न इषं पिन्वतमसक्राम्” ऋ० ६, ६३, ८, असक्रामसक्रमणीम्” निरु०।

असखि = पु० न सखा न टच् समा०। सखिभिन्ने रिपौ।

असगोत्र = त्रि० न समानं गोत्रमस्य वा समानस्य सः। भिन्नगोत्रे “असगोत्रः सगोत्रोवा यदि स्त्री यदि वा पुमान्। यश्चाग्निदाता प्रेतस्य पिण्डं दद्यात् स एव हि” स्मृतिः पक्षे न सादेशः। असमानगोत्रः “असमानगोत्रार्षेषीम् भार्य्यां विन्देत” स्मृतिः।

असङ्कल्प = पु० विरोधे न० संकल्पाभावे। न० ब०। संकल्पशून्ये त्रि०।

असङ्कसुक = त्रि० न० त०। स्थिरमतौ।

असङ्कुल = त्रि० न सङ्कुलः। १ परस्पराविरुद्धे। २ ग्रामादिपथे ३ विस्तीर्णे पथि च पु०।

असङ्क्रान्तमास = पु० न संक्रान्तः न राश्यन्तरं प्राप्तोरविर्यत्र चान्द्रमासे। शुक्लप्रतिपदादिदर्शान्ते रवि सङ्क्रमणशून्ये मलमासे। “असङ्क्रान्तमासोऽधिमासोनिरुक्तः” विवरणमधिमासशब्दे १३१ पृ०।

असङ्क्षेप = पु० अभावे न० त०। १ संक्षेपाभावे विरोधे न० त०। २ विस्तारे न० ब०। ३ संक्षेपशून्ये विस्तीर्ण्णेत्रि०।

असङ्ख्य = त्रि० नास्ति संख्या इयत्ता यस्य। इयत्ताशून्ये। “प्रसह्य तेजोभिरसंख्यतां गतैः” माघः।

असङ्ख्यात = त्रि० सस्–ख्या–क्त न० त०। १ इत्यत्ताशून्येरवहुसंख्यान्विते च

असङ्ख्येय = त्रि० संख्यातुमशक्यः १ इयत्तारांहते २ विष्णौ पु० “असंख्येयोऽप्रमेयात्मा” विष्णुसो संख्यार्हभेदादि न विद्यते इत्यसंख्येयः भा०।

असङ्ग = पु० अभावे न० त०। १ सम्बन्धाभावे नास्ति सङ्गो विषयैर्यस्य ३ पुरुये जीवे तस्य सर्व्वसम्बन्धशून्यत्वात् तथात्वम्। “असङ्गोऽयं पुरुषः” सां० सू०। ३ सम्बन्धशून्ये ४ प्रतिबन्धशून्ये च त्रि०। “असङ्गमद्रिष्वपि सारवत्तया” रघुः।

असङ्गत = त्रि० न० त०। सङ्गतभिन्ने १ अयुक्ते २ युक्तिशून्ये ३ असंबन्धे ४ सङ्गतिश्वन्ये च।

असङ्गति = स्त्री अभावे न० त०। १ सङ्गत्यभावे। सङ्गतिश्च “सङ्गति रनन्तराभिधानव्याप्ता, आनन्तर्य्याभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयोह्यर्थः सङ्गतिः, जायते च कार्य्ये कारणे वा ज्ञाते कारणत्वस्य कार्य्यत्वस्य ज्ञानात् किमस्य कारणं कार्य्यं वेति जिज्ञासा” दीधित्युक्ता सा च षोढा तदुक्तमभियुक्तैः “सप्रसङ्ग उपोद्घातो हेतुतावसरस्तथा। निर्वाहकैककार्य्यत्वम् षोढा सङ्गतिरिष्यते” इति व्याख्यातञ्चैतत् जगदीशेन। “निर्द्दिष्टोपपादकत्वमुपोद्घातत्वम् “चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं विदुर्बुधाः” इति प्राचीनोक्तौ चिन्ता पदं कृदभिहितोभाव इति न्यायेन चिन्तनीयपरं तथा च तस्याअपि प्रकृतसिद्ध्युपपादकतया चिन्तनीयत्वं प्रकृतसिद्ध्युपपादकत्वपर्य्यवसन्नमित्यर्थः। हेतुत्वं कारणत्वम्। असरोऽनन्तरवक्तव्यत्वम् अनन्तरोद्दिष्टत्वम् तथा इति श्रीभास्करकृत्। निर्व्वाहकं कारणतानिर्व्वाहकं कार्य्यत्वमिति यावत् एकं कार्य्यं ययोरिति व्युत्पत्त्या एककार्य्य कारित्वम् प्रसङ्गत्वन्तु सङ्गतित्वे सत्युपीद्घातादिभिन्नत्वम् “स्मृतस्य उपेक्षानर्हत्वं प्रसङ्ग” इति प्रवादेऽपि स्मृतत्वमनन्तराभिधानप्रयोजकस्मृतिविषयत्वम् उपेक्षानर्हत्वञ्च प्रसङ्ग लक्षणोपेक्षा एव उपोद्घातादयस्तदन्थत्वं तेन ततोऽपि प्रागुक्तस्यैवार्थस्य लाभः” इति न्यायमतम्। वेदान्तिमते तु सङ्गतिस्त्रिविधा “शास्त्रेऽध्याये तथा पादे न्यायसङ्गतयस्त्रिधा। शास्त्रादिविषये ज्ञाते तत्तत्सङ्गतिरूह्यताम्”। शास्त्रप्रतिपाद्यमध्यायप्रतिपाद्यं पादप्रतिपाद्यमर्थमवगम्य शास्त्रसङ्गतिरध्यायसङ्गतिः पादसङ्गतिश्च तिस्रः सङ्गतय ऊहितुं शक्यन्ते इति तदर्थः। तत्र “शास्त्रं ब्रह्मविचाराख्यमध्यायाः स्युश्चतुर्विधाः। समन्वयाविरोधौ द्वौ साधनं च फलं तथा” ब्रह्मविचाराख्यशास्त्रस्य प्रथमेनाध्यायेन समन्वयः, (सर्ब्बेषां वेदान्तानां ब्रह्मणि तात्पर्य्येणावधारणम्) प्रतिपाद्यते। द्वितीयेन अविरोधः। तृतीयेन साधनम् चतुर्थेन फलम्। इत्येवमध्यायार्थाः एवमेषां प्रतिपाद्यमुक्त्वा षोडशपादप्रतिपाद्यानर्थानभिधाय। “ऊहित्वा सङ्गतीस्त्रिस्रो याश्चावान्तरसङ्गतीः तत आक्षेपदृष्टान्तप्रत्युदाहरणादिकाः। पूर्व्वपक्षस्य सिद्धान्त युक्तिं वीक्ष्य परे नये। पूर्व्वपक्षोक्तयुक्तिं च तत्राक्षेपादि योजयेत्” इति वेदा० न्या० मा० अवान्तरसङ्गतिस्त्वनेकधा। आक्षेपसङ्गतिर्दृष्टान्तसङ्गतिः प्रसाङ्गिकसङ्गतिरित्येवमादि। उदाहृतञ्च तत्रैव तद्यथा प्रथमाधिकरणे ब्रह्मविचारशास्त्रमारम्भणीयमिति सिद्ध्वान्तः। तत्र युक्तिः ब्रह्मणः। संदिग्धत्वमिति। द्वितीयाधिकरणस्य जगज्जन्मादि ब्रह्मलक्षणं न भवतीति पूर्व्वपक्षः तत्र युक्तिः जन्मादेर्जगन्निष्ठत्वादि। तदुभयमवलोक्य तयोराक्षेपसंगतिं योजयेत्। संदिग्धत्वाद्ब्रह्म विचार्य्यमित्ययुक्तं जन्मादेरन्यनिष्ठत्वेन ब्रह्मणोलक्षणत्वाभावे सति ब्रह्मैव नास्ति कुतस्तस्य संदि ग्धत्वं विचार्य्यत्वं वेत्याक्षेपसंगतिः। दृष्टान्तप्रत्युदाहरणसङ्गती अपि योजयितुं शक्येते। यथा संदिग्धत्व हेतुना ब्रह्मणो विचार्य्यत्वं तथा जन्माद्यन्यनिष्ठत्व हेतुना ब्रह्मणो लक्षणं नास्तीति दृष्टान्तसंगतिः। यथा विचार्य्यत्वे हेतुरस्ति न तथा लक्षणसद्भावहेतुं पश्याम इति प्रत्युदाहरणसंगतिः। एते दृष्टान्तप्रत्युहरणसंगती सर्व्वत्र सुलभे पूर्वाघिकरणसिद्ध्वान्त इणोत्तराधिकरणपूर्ब्बपक्षे हेतुमत्त्वसाम्यस्योत्तराधिकरणसिद्धान्तं हेतुशून्यत्ववैलक्षण्यस्य च मन्दैरप्युत्प्रेक्षितुं शक्यत्वात्। आक्षेपसंगतिर्यथायोगमुन्नेया। प्रासङ्गिकसंगति रुन्नीयते। देवताधिकरणस्याधिकारविचाररूपत्वात्समन्वयाध्याये ज्ञेयब्रह्मवाक्यविषये तृतीयपादे च संगत्यभावेऽपि बुद्धिस्थावान्तरसंगतिरस्ति। तथाहि पूर्ब्बाधिकरणेऽङ्गुष्ठमात्रवाक्यस्य ब्रह्मपरत्वादङ्गुष्ठमात्रत्वं ब्रह्मणो मनुष्यमात्रहृदयापेक्षं मनुष्याधिकारत्वाच्छास्त्रस्येति उक्तम् तत्प्रसङ्गेन देवताधिकरणं बुद्धिस्थम् सेयं प्रासङ्गिकी संगतिः। तदेवंन्यायसंगतिर्व्युत्पादिता”। एवं मीमांसासङ्गतिरपि अधिकरणमालायां दृश्या विस्तरभयान्नोक्ता ईदृशसङ्गत्यभावोऽसङ्गतिः। २ असम्बन्धमात्रे ३ अर्थालङ्कारभेदे च अलङ्कारशब्दे ३९४ पृष्ठे दृश्यः।

असङ्गम = पु० अभावे न० त०। १ सङ्गाभावे मेलनाभावे न० त० २ तच्शून्ये त्रि०।

असङ्गिन् = त्रि० सन्ज–घिनुण् न० त०। सम्बन्धशून्ये “संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम्” वे० परि०।

असच्छास्त्र = न० असत् असद्विषयकत्वेनानिष्टप्रयोजकम् शास्त्रम्। बौद्धागमे। तस्यासदर्थप्रतिपादकत्वात् वैदिकधर्म्मविरुद्धार्थकत्वाच्च तथात्वम्। “असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरमित्यादिनां तेषामीश्वरानङ्गीकारेण चासत्त्वं ज्ञेयम्”।

असज्जन = पु० विरोधे न० त०। सज्जनभिन्ने दुर्जने “न मामसज्जनेनार्य्या समानयितुमर्हसि” रामा०।

असञ्ज्ञा = स्त्री अभावे न० त०। १ संज्ञाभावे न० ब०। संज्ञाशून्ये त्रि०। संज्ञा च ज्ञानं नाम ईङ्गितादिज्ञापनञ्च तेषामभावः। “तेभ्योऽसञ्ज्ञां चकार” शत० ब्रा०।

असत् = त्रि० अस + शतृ न० त०। १ सद्भिन्ने, निरुपाख्ये निःस्वरूपे निषेधरूपेण प्रतीयमाने, २ अभावत्वाश्रये, “अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्। असदित्युच्यते पार्थे” ति गीतोक्ते अश्रद्ध्वया कृते ३ होमादौ च। ४ इन्द्रे पु०। ५ दुष्टाचारिणि असाधौ त्रि० “नच सत् नासदुच्यते” गीता। स्त्रियां ङीप् सा च ६ कुलटायाम्। “परितस्तार रवेरसत्यवश्यम्” माघः नामरूपाभ्यामव्याकृते कारणात्मनास्थिते सूक्ष्मरूपे ६ अव्यक्ते, च “असदेवाग्र आदीत्” कथमसतः सज्रायेत” च इति छा० उप० वौद्धागमसिद्धं सत्त्वमर्थक्रियाकारित्वम् तच्छून्ये ७ अकिञ्चित्करे अभावादौ ८ अविद्यमाने “नामतो विद्यते भावः” इति यत्तत् सदसतोः परमिति च” गीता “विभेदजनकाज्ञाने नाशमात्यन्तिकं गते। आत्मनोब्रह्मणाऽभेदमसन्तं कः करिष्यति” संक्षे० शा०।

असत्कर्म्मन् = न० कर्म्म०। १ वेदादिशास्त्रनिषिद्धे दुष्टकर्म्मणि न सत् कर्म्म यस्य। ३ साध्वाचारशून्ये त्रि० स्त्रियां डाप्

असत्कृत = त्रि० न० त०। १ अपूजिते २ असम्प्तानिते “असत्कृतमवज्ञातम् तत्तामसमुदाहृतम्” गीता। “यच्चावहासार्थमसत्कृतोऽसि” गीता।

असत्ख्याति = स्त्री असतः सत्त्वशून्यस्यानिर्वचनीयस्य ख्याति र्ज्ञानम्। अनिर्व्वनीयस्य रजतप्रपञ्चादेर्ज्ञाने। यथा शुक्तिकायां रजतमनिर्वचनीयमुत्पद्यमानमिव प्रतीयते एवं ब्रह्मणि जगत् अनिर्वचीयतयोत्पन्नमिव ख्यायते इति हि वेदान्तिनां मतम्। अस्ति हि सर्वलोकेषु प्रसिद्धम् इदं रजतमित्यादिज्ञानं तच्च प्रवर्त्तकतया सर्वैरभ्युपगम्यते। तत्र चतस्रोविधाः अख्यातिः अन्ययाख्यातिः आत्मख्यातिः असत्ख्यातिश्चेति विवरणे स्थितम्। तत्राख्यातिवादिनामयमाशयः। इदं रजतमित्यादो चक्षुराद्यसन्निकर्षात् पारिशेष्यात् रजतं स्मर्य्यते न तु ज्ञायते इति तस्य स्मरणस्याख्यातित्वमिति। तदेतन्न सम्यक् रजतस्य प्रत्यक्षत्वेनानुभूयमानत्वात् स्मर्य्यमाणस्याप्रवर्त्तकत्वाच्च नचेदमंशस्यैव प्रत्यक्षत्वं न रजतस्येति वाच्यम् यथा सत्यरजतस्थलेषु इदं रजतम् अयं घट इत्यादिषु इतरेतर संसृष्टौ सामान्यविशेषौ अपरोक्षतयाऽनुभूयेते अत्रापि तथानुभवात्। अथ सामान्यविशेषयोर्नैरन्तर्य्येण प्रतिभासात् तथा व्यवहारो न तु संसर्गज्ञानरूपविशिष्टज्ञानसम्भवादिति वाच्यम् सत्यस्थलादीषन्न्यूनताया अदर्शनात्। अथ पुरोवर्त्तिनि रजतसंसर्गाभाव एव न्यूनतेति चेन्न पुरोवर्त्तिनि रजतसत्त्वासत्त्वयोरेवावयोर्विवादात् तदभावस्य न्यूनत्वा साधकत्वात्। किञ्च पुरोंवर्त्तिनि रजतसंसर्गाभावः कथं निश्चीयते किं तद्गोचरज्ञानाभावात्? किं वा नेदं रजतमिति बाधज्ञानात्? नाद्यः तद्गोचरज्ञानाज्ञानयोरेवावयोर्विवादात् अर्थाभावेन ज्ञानाभावनिश्चयेऽन्योन्याश्रयात्। तस्मादपरोक्षज्ञानोदयादेव पुरोवर्त्तिनि रजत सत्ताङ्गीकार्य्या। न च अर्थसत्तानिश्चयाधीनः ज्ञानसत्तानिश्चय इति कल्पनात् प्रकृते चार्थासत्त्वात् न ज्ञानसत्त्वमिति वाच्यम् अर्थसत्तानिश्चयस्यापि निश्चयान्तराधीनतयाऽनवस्थाप्रसङ्गात्। तस्मात् संविन्निश्चयः स्वग्राहकसामग्रीप्रयोज्यतया स्वतएव। तदधीनस्तु अर्थसत्तानिश्चयः। नापि द्विंतीयः रजतमिति उत्तरज्ञानविरोधिज्ञानसत्त्वे नेदं रजतमिति ज्ञानानुदयेन तेन बाधायोगात्। किञ्च इदं रजतमित्यत्र यथा इदमाकाररज ताकारयोरविवेकस्त्वया कल्प्यते तथा नेदं रजतमित्यत्रापि तयोरविवेक एव कल्प्यतां न तु विशिष्टसंसर्गसंविदित्यपि अस्माभिर्वक्तुं शक्यते। अथ विशिष्टज्ञानर्स्यव संवादिप्र- वृत्तिजनकत्वमिव विशिष्टनिषेधबोधस्यैव निवर्त्तकत्वमिति निषेधस्य विशिष्टसंसर्गिविषयकत्वमिति चेन्न प्रंवृत्तिनिवृत्तिमात्रं प्रत्येव संसर्गतदभावग्रहस्य हेतुतयैवोपपत्तौ संवादिविसंवादित्वयोः तत्र प्रवेशे गौरवात् किञ्च प्रवृत्तेः संवादित्वमपि वस्तुसत्त्वासत्त्वनिबन्धनम्। तच्च सत्यासत्ययोरुभयत्राप्यस्ति। न च पुरोवर्त्तिनि रजताभावः सर्वसम्मतः। शुक्तिकायां यथावभासमेवासत्यरजतस्य शुक्तिज्ञानेन निरसनयोग्यस्यैवास्माभिः स्वीकारात्। इयांस्तु भेदः तत्र मिथ्यारजंताभ्युपगमेऽपि नेदं रजतमिति त्रैकालिक रजतनिषेधः परमार्थिकरजतविषयत्वान्न विरुव्यते। नचाप्रसक्तनिघेधानुपपत्तिः। मिथ्याभूतेऽपि रजते परमार्थ रजतार्थिनां प्रवृत्तिदर्शनेन परमार्थरजतस्य सामान्योपाधिना रजतत्वेन प्रसिद्धिसम्भवात् अन्यथा भूतलादौ घटादि निषेधोऽपि अप्रसक्तनिषेधः स्यात् तत्र घटादिसत्त्वे तदमावोव्याहत्येत। तदसत्त्वे तु अंप्रसक्तनिषेधः स्यात्। ततश्च देश सामान्योपाधिना कालसामान्योपाधिना वा यथा घटादि प्रसक्तिर्नतु तत्कालिकभूतलत्वादिना तथा परमार्थरजतस्य प्रसक्तिर्भविष्यति। एवञ्च उत्तरकाले नास्त्र्यत्र रजतमिति प्रत्यक्षं सत्यरजतविषयम् मिथ्यैव रजतपभादिति प्रत्ययश्च मिथ्यारजतविषयैत्युभयमप्युपपद्यते। एतेन रजतापरोक्ष्यं विशिष्टसंसर्गज्ञानं विनाप्यपरोक्ष शुक्तिज्ञानाविवेकादुपपद्यते इत्यपि परांस्तम्। विवेकज्ञानकालेऽप्येतावन्तं कालं रजतमनेनाविविक्तमित्येव विवेकस्यैव परामर्शप्रसङ्गात् एतावन्तं कालमिदं रजतमित्यभादिति प्रत्यभिज्ञाया अनुपपत्तेश्च। अतश्च पुरोवर्त्तिनि असद्रजतमुत्पद्यते इत्यङ्गीकार्य्यम्। अन्यथा शुक्तिज्ञानात् रजते प्रवृंत्तौ अतिप्रसङ्गः स्यात् समानविषयकज्ञानस्यैव प्रवर्त्तकत्वात् ततश्च न स्मर्य्यमाणमिदं रजतं किन्तु स्मर्य्यमाणसदृशमेव तदङ्गीक्रियते। तत्सादृश्यञ्च पूर्ब्बानुभवसापेक्षज्ञानगम्यत्वेन। नह्यननुभूतरजतस्य पुरुषस्य रजतभ्रमोभवति। ज्ञानरूपाध्यासस्य तु संस्कारजन्यत्वेन स्मृतिसादृश्यमिति भेदः। अय ज्ञानस्व प्रमाणस्मृतिर्द्वैविध्यनियमेन अध्यासस्य बाधितविषयकत्वात् परिशेषात् संस्कारमात्रजन्यज्ञानत्वाच्च स्मृतित्वमेवास्तु। न च स्मृतित्वे अतिसादृश्याच्छुक्त्यन्तरमेव कुतो न स्मर्य्यते इति वाच्यं कर्तृ गतरागादिदोषाणामपि तन्निमित्तत्वात् शुक्त्यन्तरे तदभावात् एवं तैरेव दोषैः स्मरणाभिमानस्य प्रमुषितत्वान्नं रजतस्मरणेऽपि तत्तांश उल्लि- ख्यते नवा स्मरामीत्यनुव्यवसायः तथा तैरेव विशेषावभासस्य प्रतिरोधान्न शुक्तिग्रहणेऽपि तदीयनीलपृष्ठादिविशेषग्रहः। तथा च इदमंशे ग्रहणं रजतांशे स्मरणमुभयात्मकमपि ज्ञानमविविक्ततया प्रवर्त्तकमिति तादृशग्रहणस्मरणाभ्यां रजतार्थी पुरोवर्त्तिनि प्रवर्त्तते इति चेन्न ग्रहणस्मरणे किं द्वे अपि प्रवर्त्तके आहोस्विदेकैकम् आद्येऽपि किं संभूय प्रवर्त्तके! क्रमेण, वा नाद्यः स्मृतिग्रहणयोः युगपदुदयासम्भवात्। क्रमविशिष्टयोर्द्वयोः प्रवर्त्तकत्वमपि न युक्तम् पूर्व्वज्ञानस्य उत्तरज्ञानेन व्यवधानात् प्रवृत्तिहेतुत्वानुपपत्तेः इदमिति रजतमिति च विशृङ्खलयोरपि ज्ञानयोः प्रवर्त्तकत्वापत्तेश्च। नाप्येकैकस्य प्रवर्त्तकत्वं व्यवहारस्य विशिष्टविषयकतया विशिष्टप्रवृत्तये विशिष्ट संसर्गग्रहस्यैव हेतुतायाः स्वीकार्य्यत्वादितिं।

अत्र ग्रहणस्मरंणनैरन्तर्य्येणोत्पत्त्या प्रवर्त्तकत्वसम्भवेनासत्ख्यातिर्नाङ्गोकार्य्या अपि तु विशिष्टसंसर्गस्याख्यातिंरेवेति अख्यातिवादिनामेकदेशिनः आहुः।

तदपि वेदान्तिभिः निराकृतं यथा केयमख्यातिर्नाम किं ख्यात्यभावः? उत अन्यार्थिनोऽन्यत्र प्रवृत्तिहेतुभूतविज्ञानम्? अथाविविक्तानेकपदार्थज्ञानम्?। आद्ये सुषुप्तावेव सर्व्वज्ञानाभावसत्त्वेन तत्रैव भ्रमःस्यात् नान्यत्र जाग्रतस्वप्नयोः। द्वितीये झटिति बाधादालस्यादिंना वा यत्र प्रवृत्तिर्न जाता तत्र भ्रान्तित्वं न स्यात्। तृतीयेऽप्यविविक्तत्वप्रतियोगिविविक्तत्वं नाम किम् भेदग्रहः? उत अभेदाग्रहः? आहोस्विदितरेतराभावभेदद्वित्वादिसंख्याविशिष्टज्ञानम्? नाद्यः इदमिति रजतमिति च पुनरुक्तशब्दद्वयहेतुत्वेन सामान्यविशेषयोर्भेदग्रहे सत्यपि अविवेकासद्भावात्। न द्वितीयः उत्तरीत्था भेदस्य मृहोतत्वादेवत्वतद्विरुद्धस्याभेदस्याग्रहे सति तद्ग्रहनिषेधरूपस्याविविक्तत्वस्य दुःसम्पादत्वात्। तृतीयेऽपि द्वित्वादिज्ञानमपेक्षितं किमव्यासज्यवृत्ति उतानुषङ्गिकमपि पर्य्याप्तम् आद्ये गामानय दण्डेनेत्यत्र गोदण्डयोरपि साक्षाद् द्वित्वाद्यप्रतीतेरविवेकः प्रसज्येत। द्वितीये तु पुरोवर्त्तिरजतयोरप्यानुषङ्गिक द्वित्वादिज्ञानस्य सद्भावेन दुष्परिहरणणीयत्वात्। नन्वविवेको नाम असंसर्गाग्रहः स च प्रतीयमानयोरिदं रजतयोः संभवति इदंरजते असंसृष्टे इति प्रत्ययादर्शनात् इति चेत् तदापि किं ग्रहणस्मरणयोरेवासंसर्गो विवक्षितः? उत ययोः कयोश्चित्? आहोस्वित् संसर्गज्ञानरहितयोः? आद्ये अहं मनुष्य इति भ्रमो न स्यात् उभयोरपि ग्रह- णत्वान्। द्वितीये षण्डोगौः शुक्लः पटैत्यपि भ्रमःस्यात् असंसर्गप्रतीत्यभावात्। तृतीयेऽपि सएव दोषःस्यात् न हि तत्र संसर्गाज्ञानं संभवति तद्विषयस्यैक्याभावात् ऐक्यस्यं च तद्विषयत्वस्य प्रत्यभिज्ञायमानत्वात्। यदि गुणगुण्यादि संबन्ध एव तद्विषययोरैक्यमित्युच्यते तर्हि इदं रजतमित्यत्रापि सादृश्यतत्सम्बन्धस्तद्विषयैत्यस्यापि वक्तुं शक्यत्वेन संसर्गप्रत्ययोदरुद्धरः। अथ तत्र नेदं रजतंमित्यसंसर्ग तत्प्रत्ययेन बाधान्न संसर्गतत्प्रत्ययौ सम्भवतः। तर्हि त्वन्मतेऽपि गुणगुण्यादेरितरेतराभावज्ञानाख्योऽसंसर्गप्रत्ययोऽस्त्येवेति संसर्गतत्प्रत्यययोरसम्भवात् भ्रमत्वापत्तिस्तदवस्था तस्मान्नासंसर्गाग्रहोऽप्यविवेकः।

अस्तु तर्हि प्रकृतेऽपि संस्कारजन्यैव रजतस्मृतिरिति चेत् न रजतस्य पुरोवस्थितत्वेन प्रतिभासादित्युक्तोत्तरत्वात् न च पुरोऽवस्थितत्वमविवेककृतमिति वक्तुं शक्यम्। अविवेकस्य भ्रमं प्रत्यप्रयोजकत्वात्। तथा हि किं गृह्य माणयोरविवेकः? किं वा गृह्यमाणस्मर्य्यमाणयोः? किं वा स्मर्य्यमाणयोः? नाद्यः स्वप्नदशायामात्मव्यतिरिक्तस्य कस्याप्यग्रहणेन द्वयोर्गृह्यमाणयोरभावे तदविवेकस्य भ्रमप्रयोजकंस्याप्यभावेन भ्रमाभावप्रसङ्गात्। न द्वितीयः स्वप्ने गृह्यमाणेनात्मना स्मर्य्यसाणस्य नीलादेरविवेके सति अहं नीलमिति प्रतिभासप्रसङ्गात्। तृतीये तु परोक्षमेव सर्व्वभ्रान्ताववभासेत, सर्व्वस्यापि स्मर्य्यमाणत्वात् एवं च सति प्रकृतस्य पुंरोऽवस्थितरजतज्ञानस्य स्मृतित्वानुमाने परोक्षावभासित्वोपाधिर्द्रष्टव्यः। याथार्थ्यानु मानस्य चायं प्रतिप्रयोगः। विमताः प्रत्यया न यथार्थाः बाध्यमानत्वाद्भ्रान्तिव्यवहारवदिति तस्मात् बोधद्वैराश्यदुराग्रहं परित्यज्य तृतीयं भ्रान्तिज्ञानमङ्गीकर्त्तव्यम्।

अन्यथाख्यातिरिति नैयायिकादयः। ते हीत्थमुररीचक्रुः ननु तर्हि मा भूदख्यातिः अस्त्वन्यथाख्यातिः। तथा हि देशकालान्तरगतं हि रजतं शुक्तिसंप्रयुक्तेन दोषो पहितेनेन्द्रियेण शुक्त्यात्यना गृह्यते न चैवमननुभूतस्यापि ग्रहणप्रसङ्गः। सादृश्यादेर्नियाकत्वादिति”। तदेतदसत् किं ज्ञानेऽन्यथात्वं? किं वा? फले उत वस्तुनि?। नाद्यः रजताकारं ज्ञानं शुक्तिमालम्बते इति ज्ञानेऽन्यथात्वं वाच्यम्। तत्र शुक्तेरालम्बनत्वं नाम किं ज्ञानं प्रति स्वाकारसमर्पकत्वम् उत ज्ञानप्रयुक्तव्यवहारविषयत्वम् नाद्यः। रजताकारग्रस्तं ज्ञानं प्रति शुक्तेः स्वाकारसमर्पणासम्भवात्। न द्वितीयः व्याघ्रादिदर्शन प्रयुक्तव्यवहारविषयस्य खड्गकुन्तधनुरादेर्व्याघ्रादि ज्ञानालम्बनत्वप्रसङ्गात्। नापि फलेऽन्यथात्वम् फलस्य स्फुरणस्य भ्रान्तौ सम्यग्ज्ञाने वा स्वरूपतो वैषम्यादर्शनात्। वस्तुन्यपि कथमन्यथात्वं किं शुक्तिकायां रजततादात्म्यं किंवा रजताकांरेण परिणामः। आद्येऽपि किं शुक्तिरजतयोरत्यन्तभेदः किंवा भेदाभेदौ। नाद्यः। अत्यन्तभिन्नयोर्वास्तवतादात्म्यासम्भवात् अनिर्व्वचनीयस्य त्वया अनभ्युपगमात् शून्यतादात्म्यंप्रतीतौ च गुणगुण्यादावपि तत्सम्भवेन भ्रान्तित्वं दुर्व्वारम्। समवायस्य च प्रक्रियामात्रसिद्धस्य तादात्म्यानतिरेकात्। मेदाभेदपक्षे तु षण्डोगौरितिवदभ्रान्तिः स्यात्। परिणामपक्षेऽपि बाधोन स्यात्। विमतं रजतज्ञानमबाध्यं परिणामज्ञानत्वात् क्षीरपरिणामदुग्धज्ञानवत्। अतः क्षीरवदेव शुक्तिर्न पुनर्बाध्येत। ननु कमलमुकुलविकाशरूपपरिणामहेतोः सूर्य्यतेजसोऽपगमे पुनर्मुकुलीभाववद्रजतपरिणामहेतोर्दोषस्यापगमे पुनः शुक्तिभावोऽस्तु इति चेत् मैवं विकसितमेव मुकुलमासीदितिवत् रजतमेव शुक्तिरासीदिति प्रतीत्यभावात् कथञ्चित् तद्भावेऽपि न परिणामपक्षो युक्तः निर्दोषस्यापि रजतप्रतीतिप्रसङ्गात् नचैकमेव क्षीरं दधिरूपेण कञ्चित् पुरुषं प्रति परिणतमन्यंप्रति नेति दृष्टचरं तस्मान्नान्यथाख्यातिः सुनिरूपा। ज्ञानलक्षणया देशान्तरगतरजतभानन्तु साक्षात्करोमीति साक्षात्कारोल्लेखिबुद्धेरन्यथानुपत्त्या न सम्भवतीति द्रष्टव्यम्। किञ्च ज्ञानलक्षणायाः प्रत्यासत्तित्वे तथैव पर्व्वते वह्निज्ञानसम्भवेनानुमानादेरुच्छेदः स्यात् अनुव्यवसायात्तत्सत्त्वकल्पने तु प्रकृतेऽपि साक्षात्क्मरानुव्यवसायसत्त्वेन तुल्यत्वात। आत्मख्यातिरिति बौद्धाः। तथाहि सर्व्वासां बुद्धीनां विषयमन्तरेणापि तदाकारोल्लेखसम्भवेन रजतज्ञानभपि बुद्धिरूपतया न विषयान्तरमपेक्षते इत्यात्मनः बुद्धेरेव ख्यातिः प्रतिभासः “सहोपालम्भनियमादभेदोनीलतद्धियोः। भेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवाद्वयः। अविभागोऽपि बुद्ध्यात्मा विपर्य्यासितदर्शनैः। ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते” इति तेषां सिद्धान्तात्। तथाच विमतं रजतं बुद्धिरूपं चक्षुरादिसंप्रयोगं विनाऽप्यपरोक्षित्वात् सम्मतबुद्धिवत् इत्यनुमानेन रजतादेस्तद्रूपतासिद्धिः। ते हिं मन्यन्ते शब्दस्पर्शरूपरसगन्धविषयाः सुखादिविषयाश्च षडपि प्रत्ययाः आलम्बनसमनन्तरसहकार्य्यधिपतिरूपान् प्रत्ययपदवाच्यान् चतुरोहेतूनपेक्ष्यैव उत्पद्यन्ते। तत्र नीलावभासरूपस्य चित्तरूपज्ञानस्य नीलालम्बनवतो नीलाकारता भवति। समनन्तरप्रत्ययात् पूर्ब्बतनज्ञानवासनारूपात् बोधरूपता, सहकारिप्रत्ययादालोकात् स्पष्टतावभासः। चक्षुरादेरधिपतिप्रत्ययात् विषयप्रतिनियम इति। तत्रेदमुच्यते प्रकृते न तावत् सहकारिप्रत्ययाख्यादालोकात् रजताकारोदयो भवति तस्य स्पष्टतामात्रहेतुत्वात्। नाम्गधिपतिप्रत्ययाख्याच्चक्षुरादेः सम्भवति तस्य विषयविशेषं प्रत्येव नियमनमात्र हेतुत्वात्। नापि समनन्तरप्रत्ययाख्यात् पूर्ब्बज्ञानात्। विजातीयघटादिज्ञानानन्तरं विजातीयरजतभ्रमोदयप्रसङ्गात्, नाप्यालम्बनप्रत्ययाख्याद्बाह्यार्थाद् भवति। विज्ञानवादिभिस्त स्यानङ्गीकारात्। ततश्च रजतादिबाह्यार्थासत्त्वे विज्ञानस्य कथं रजताकारतासमर्पणम्। संस्कार सामर्थ्येन तत्कल्पनेऽपि न निस्तारः संस्कारस्य क्षणिकस्थायित्वविकल्पासहत्वात्। तथाहि स्थायित्वे सिद्धान्तहानिः। क्षणिकत्वे पूर्वानुभवोत्तरमुत्पन्नस्य तस्य द्वितीयक्षणे नाशात रजताकारोल्लेखसमये तस्यासत्त्वात् कथं तेन तदाकारोल्लेखः सम्भवति। किञ्च संस्कारस्य विज्ञानातिरिक्तत्वे क्षणिकविज्ञानमात्रसिद्धान्तहानिः। अथानादिज्ञानसन्ततौ यदा कदाचित् पूर्ब्बं रजतज्ञानमुत्पन्नं तदेव संस्कार इत्यङ्गीक्रियते स च यद्यपि विजातीयानेकज्ञानव्यवहितः तथापि कदाचित् सजातीयं ज्ञानान्तरमुत्पादयत्येव यथा ब्रीहिवीजमनेकाङ्कुरादिकार्य्यव्यवधोनेऽपि कदाचित् सजातीयान्तरमुत्पादयति तद्वत्। अथ न पूर्व्ववीजादुत्तरवीजोत्पत्तिः किन्तु पूर्ब्बवीजजन्याङ्कुरसन्तानादेव तदुत्पत्तिरिति चेत् तर्ह्यत्रापि पूर्ब्बरजतज्ञानजन्यज्ञानसन्तानएव संस्कारोऽस्तु अतो न सिद्धान्तहानिः। एवं पूर्ब्बरजतज्ञानमपि ततः पूर्व्वतररजतज्ञानादुत्पद्यते ततोऽनादिवासनाप्रापितं रजतं बुद्धिरूपमेव सत् भ्रान्त्या बहिर्वदवभासते इति चेत् अत्रोच्यते वेदान्तिभिः, किं तद्रजतमलौकिकं लौकिकं वा अलौकिकत्वेऽपि किं जन्मरहितम् उत लौकिकरजतवदेव जायते। अंलौकिकत्वे जन्मरहितत्वे च जायमानस्य ज्ञानस्य रूपं न स्यात्। द्वितीयेऽपि किं बाह्यार्थात् जायते, उत ज्ञानात् नाद्यः तैर्बाह्यार्थानङ्गीकारात् ज्ञानादेव तदुत्पादाभ्युपगमे दुष्टकरणजन्यज्ञानादुत्पादो वाच्यः तथा च जनकस्य पूर्ब्बसत्त्वनियमेन तज्जनिका प्रतीतिः न रजतं गृह्णीयात् वर्त्तमान पदार्थस्यैवाकारार्पकत्वनियमात् क्षणिकयोर्जन्यजनकयोर्भिन्नकानीनत्वेन रजतस्यापरोक्षकाले पूर्ब्बज्ञानस्यासत्त्वात् तेन ग्रहीतुमशक्यत्वात् अतोरजतापरोक्षव्यवहारो विलुप्तः स्यात्। यदि अन्येन केनचित् दुष्टकरणजन्यज्ञानेन तदुत्पादस्ततः स्वात्मकबुड्या तद्ग्रहःस्यादित्यङ्गीक्रियते तदाऽतिप्रसङ्गः किञ्च दुष्टकरणजन्यज्ञानस्यैव तदुत्पादंकत्वं वाच्यं तत्र करणस्य दुष्टत्वञ्च अर्थक्रियाकारिताशून्यविषयग्राहित्वेनैव तथा च असति रजते कथं करणस्य दुष्टत्व निर्ण्णयः। अथ अदुष्टकरणजन्यज्ञानं तदुत्पादयति तदा तस्य घटादिवत् अर्थक्रियाकारित्वरूपसत्त्वसम्भवेन देशान्तरवर्त्तिरजतविषयकादविशेषः स्यात्। किञ्च रजतस्यानुत्पत्तौ न तस्य ज्ञानविषयता ज्ञानाकारार्पकतयैव विषयत्वस्य त्वया स्वीकारात् अनुत्पन्नस्य कथं ज्ञाने स्वाकारार्पकत्वंसम्भवः। तस्मादात्मख्यातिपक्षे रजतमेव ज्ञानेन न प्रतीयेत।

एवमख्यात्यन्य याख्यात्यात्मख्यातिपक्षेषु निरस्तेषु इदानीमसत्ख्यातिपक्षः वेदान्तिभिरभ्युपगतः आक्षेपपूर्ब्बकं प्रदर्श्यते इदं रजतमिति ज्ञानं स्मृतिग्रहणाभ्यामन्यत् अध्यासनामकं ज्ञानं यत्र असतोऽनिर्वचनीयस्य उत्पन्नस्य रजतार्देभानमीदृशं ज्ञानमसत्ख्यातिपदवेदनीयमस्ति। ननु ज्ञानस्य स्मृतिग्रहणाभ्यामन्यः प्रकारो न सम्भवति इति चेन्न किं विलक्षणसामग्र्यनिरूपणात् तदसम्भवः? उत विलक्षणज्ञानस्वरूपानिरूपणात्? उत विलक्षणविषया निरूपणात्? नाद्यः संप्रयोगसंस्कारदोषाणामेव तत्सामग्रीतया कल्पनात् न चंदोषस्य पूर्ब्धप्राप्तकार्य्यानुदयं प्रत्येव हेतुत्वं न पूर्ब्बकार्य्योदयं प्रतीति वाच्यं कार्य्यानुदयस्य तत्प्रागभावरूपतयाऽनादिनि तत्र दोषहेतुत्वासम्भवात्। वातपित्तश्लेष्मणाञ्चापूर्व्वकार्य्योत् पादकत्वदर्शनाच्च न च दोषस्य संस्कारोद्बोधकत्वेनान्यथांसिद्धिः तदुद्बोधस्य तद्व्यापारत्वात् न हि व्यापारेण व्यापारिणोऽन्यथासिद्धिरिति नियमात् नह्युत्पतननिपतने कुर्व्वन् कुठारः छिदिक्रियां प्रति अहेतुर्भवतिं। ननु इन्द्रिय संप्रयोगस्य इदन्तामात्रे सत्त्वात् रजतांशेऽसत्त्वात् इदन्तताबोधनेन तस्योपक्षीणंत्वात् एवं संस्कारस्य स्मृतिमात्र जनकत्वनियमेन वेदान्तिमते अध्यासात्मकज्ञानस्य स्मृतित्वानङ्गीरात्, दोवस्य च स्वातन्त्रेप्रण ज्ञानहेतुत्वस्य कुत्राप्यदर्शनाच्च कथं रजतावभास इति चेत् उच्यते प्रथमं दोषसहितेनेन्द्रियेण इदन्तामात्रविषयाऽन्तःकरणवृत्तिर्जन्यते तत्र इदन्तायां तद्ग्राहकवृत्तौ च चैतन्यमभिव्यज्यते तच्चैतन्यनिषा शुक्त्यविद्या च दोषवशात्संक्षुब्धा भवति तत्रेदमंगावच्छिन्नचैतन्यस्थाऽविद्या दोषेण क्षुभिता सती सादृश्याद्युद्बोधितसंस्कारवशात् रजताकारेण विवर्त्तते। वृत्त्यवच्छिन्नचैतन्यस्थाऽविद्या तु रजतग्राहिवृत्तिसंस्कार सहकृता वृत्तिरूपेण विवर्त्तते। तौ च रजततद्वृत्तिरूपविवर्त्तौ स्वाधिष्ठानेन साक्षिचैतन्येनावभास्येते इत्येवं रजतावभासः कल्प्यते। यद्यम्यन्तःकरणवृत्तिरविद्यावृत्तिश्चेतिज्ञानद्वयम् तथापि तद्विषयौ सत्यानृते इदंरजते अन्योन्यात्मकतामापन्नौ इति विषययोरैक्यात् वृत्तिद्वयस्यैक्यम् ततश्च विषयावच्छिन्नफलस्याप्येकत्वेन ज्ञानैक्यमुपपद्यते। एवं मिथ्याज्ञानतद्विषययोर्निरूपणेन द्वितीयतृतीयविकल्पौ निरस्तौ वेदितव्यौ। यदाप्यन्यत्र संप्रयोगसंस्कारौ परस्परं निरपेक्षो प्रमितिस्मृत्योर्जनने समर्थौ दृष्टौ तथापि क्रमेण स्मृतिप्रमित्योरुत्पत्तौ प्रवर्त्तकत्वानुपत्तौ प्रवृत्त्यन्वथानुपपत्त्या ताभ्यां प्रत्यभिज्ञाव देकं विशिष्टं मिथ्याज्ञानं जन्यते इति कल्प्यते यथा नैयायिकादिभिः निरन्तरोत्पन्नेष्वपि वर्ण्णज्ञानेषु यौगपद्याभावात् पदार्थज्ञानानुपवत्त्या पूर्ब्धज्ञानजन्य संस्कारसहितमन्त्यवर्णज्ञानमेव पदार्थबुद्धिहेतुत्वेन कल्प्यते तद्वत्। ननु विमतं ज्ञानं नैकं भिन्नकारणजन्यत्वात् रूपरसादिज्ञानवदिति चेत् न अनुमानप्रत्यभिज्ञानयोर्व्यभिचारात् उभयोरपि नानाकारणजन्यत्वात्। अनुमानं हि व्याप्तिज्ञानसंस्कारलिङ्गदर्शनपरापर्शजन्यम्। प्रत्यमिज्ञा च इन्द्रियसंप्रयोगसंस्काररजन्येति सर्व्वैरङ्कीक्रियते न च शुक्तौ अनिर्वचनीयस्य रजतस्योत्पत्तौ तस्य च शुक्तौ संसर्गात् कथं तस्य मिथ्यात्वमसत्त्वञ्च स्यादिति वाच्यम् सत्तात्रैविध्याङ्गीकारेण तत्र व्यावहारिकसत्ताशून्यत्वेनैव तस्य मिथ्यात्वस्य कल्पनात्। तथाहि सत्त्वं त्रिविधं पारमार्थिकं त्रैकालाबाध्यत्वरूपं यथा ब्रह्मणः। व्यावहारिकं ब्रह्मज्ञाननिर्वर्त्त्यम् यथा आकाशादेःप्रातीतिकम अधिष्ठानज्ञाननिवर्त्त्यं यथा शुक्तिरजतादेः। न च मिथ्यात्वकल्पनं मानहीनम्” “अथ रथान् रथयोगान् पथः सृजते” इति श्रुतेः मिथ्यवात्र रजतमभादिति रजततजज्ञानयोर्मिथ्यात्वप्रत्यभिज्ञानस्य च मानत्वात्। अतो मतान्तरवत वेदान्तमते नानुभवविरोधोनिर्मूलत्वं वा। अख्यातिपक्षे अपरोक्षावभासिनः स्मर्य्यमाणत्वं विरुध्यते। ज्ञानहयपक्षे रजतस्य पारोक्ष्यं स्मृतौ स्मरणाभिमानमोषादिकम, अन्यथाख्यातौ रजतंस्य आपरोक्ष्यानुभवबिरोधः आत्मख्यातिपक्षे विषयाभावेनापरोक्षाबभासविरोधः”। पमेवविवरणसारांशः।

शुक्तिरजतादि ज्ञान्ततष्टान्तेनज्ञाननिवर्त्त्यतया सर्व्वेषां घटपाटादिज्ञानानामसत्ख्यातित्वं तद्विषयाणां वस्तु- तोऽसत्त्वात् असत्त्वेऽपि सत्त्वेन व्यवहार्य्यतामात्रमिति शुक्तिजतादिभ्यो घटादीनां विशेषः इति अध्यासखरूपमिथ्याज्ञानमाक्षिप्य तत् समर्थयता च भाष्यकृता तथैव व्यवस्थापितम्” यथा “युष्मदस्मत् प्रत्यगोचरयोर्विषयविषयिणोस्तमःप्रकाशवद्विरुद्धस्वभावयोरितरेतरभावानुपपत्तौ सिद्धायां तद्धर्म्माणामपि सुतरामितरेतरमावानुषपत्तिरित्यतोऽस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्म्माणाञ्चाध्यासस्तद्विपर्य्ययेण विषयिणस्तद्धर्म्माणाञ्च विषयेऽध्यासोमिथ्येति भवितुं युक्तम्। तथाप्यन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्म्मां श्चाध्यस्येतरेतराविवेकेणात्यन्तविविक्तयोर्धर्म्मधर्म्मिणो र्मिथ्याऽज्ञाननिमित्तः सत्यानृते मिथुनीकृत्याहमिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारः।। आह कोऽयमध्यासोनामेति उच्यते स्मृतिरूपः परत्र पूर्ब्बदृष्टावभासः। तं केचिदन्यत्रान्यधर्म्माध्यास इति वदन्ति। केचित्तु यत्र यदध्यासस्तद्विवेकाग्रहणनिबन्धनो भ्रम इति। अन्येतु यत्र यदध्यासस्तस्यैव विपरीतधर्म्मत्वकल्पनामा चक्षते इति सर्वथापि तु अन्यस्यान्यधर्म्मावभासतां न व्यभिचरति। तथा च लोकेऽनुभवः शुक्तिका हि रजतवदवभासते एकश्चन्द्रः स द्वितीयवदिति। कथं पुनः प्रत्यगात्मन्य विषयेऽध्यासो विषयधर्म्माणाम्?। सर्व्वी हि पुरोऽवस्थिते विषये विषयान्तरमध्यस्यति। युष्मत्प्रत्ययापेतस्य च प्रत्यगात्मनोऽविषयत्वं ब्रवीषि। उच्यते। न तावदयमेकान्तेनाविषयः अस्मत्प्रत्ययविषयत्वात् अपरोक्षत्वाच्च प्रत्यगात्म प्रसिद्धेः। नचायमस्तिवियमः पुरोऽवस्थित एव विषये विषयान्तरमध्यसितव्यमिति अप्रत्यक्षेऽपि ह्याकाशे बालास्तलमलिनताद्यध्यस्यन्ति। एवमविरुद्धः प्रत्यगात्मन्यऽन्यऽनात्माध्यासः। तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते। तद्विवेके च वस्तुस्वरूपावधारणं विद्यामाहुः। तत्रैवं सति यत्र यदध्यासस्तत्कृतेन दोषेण गुणेण वा अणुमात्रेणापि स न संबध्यते। तमेतमविद्याख्यमात्माऽनात्मनोरितरेतराध्यासं पुरस्कृत्य सर्व्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्च प्रवृत्ताः सर्वाणि च शास्त्राणि विधिप्रतिषेधमोक्षपराणि। कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि? शास्त्राणि चेति। उच्यते। देहेन्द्रियादिष्वहंममाभिमानहीनस्य प्रमातृत्वानुपपत्तौ प्रमाण प्रवृत्त्यनुपपत्तेः। नहीन्द्रियाण्यनुपादाय प्रत्यक्षादिव्यवहारः संभवति। नचाधिष्ठानमन्तरेण इन्द्रियादिव्यापारः संभवति। नचानध्यस्तात्मभावेन देहेन कश्चित् व्याप्रियते। न चैतस्मिन् सर्व्वस्मिन्नसत्यसङ्गस्यात्मनः प्रमातृत्वमुपपद्यते। न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति। तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति”। चतुर्थसूत्रभाष्ये च जगतोव्यावहारिकत्वे अन्यदीयमतं संवादितम् यथा “गौणमिथ्यात्मनोऽसत्त्वे पुत्रदेहादिबाधनात्। सद्ब्रह्मात्माहमित्येव बोधे कार्य्यं कथं भवेत्?” इत्याक्षिप्य। “अन्वेष्टव्यात्मविज्ञानात् प्राक् प्रमातृत्वमात्मनः। अन्विष्टः स्यात् प्रमातैव पाष्मदोषादिवर्ज्जितः। देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः। लौकिकं तद्वदेवेदं प्रमाणं त्वाऽऽत्मऽनिश्चयात्” यथा च लौकिकक्यवहार्य्यपदार्थानां पारसार्थिकसत्त्वाभावेऽपि तत्सत्त्वमङ्गीकृत्य सर्वे व्यवहाराः तेषां च व्यवहारिकसत्त्ववत्त्वम् तथा प्रपञ्चेन समर्थितं खण्डनकृता खण्डन खण्डयाद्ये। यथा “अथ कथायां वादिनोनियममेतादृशं मन्यन्ते प्रमाणादयः सर्व्वतन्त्रसिद्धान्ततया सिद्धाः पदार्थाः सन्तीति कथकाभ्यामभ्युपेयम्। तदपरे न क्षमन्ते। तथाहि प्रमाणादीनां सत्त्वं यदभ्युपेयं कथकेन, तत् कस्य हेतोः? किं तदनभ्युपगच्छद्भ्यां वादिप्रतिवादिभ्यां तदभ्युगमसाहित्यनियतस्य तस्य प्रवर्त्त यितुमशक्यत्वात्, उत कथकाभ्यां प्रवर्त्त नीयवाग्व्यवहारं प्रति हेतुभावात्, उत लोकसिद्धत्वात्, अथ वा तदनभ्युपगमस्य तत्त्वनिर्णयविजयातिप्रसञ्जकत्वात्। न तावदाद्यः तदनभ्युपगच्छतोऽपि चार्व्वाकमाध्यमिकादेर्वाग्विषयविस्तराणां प्रतीयमानत्वात् तस्यैव वा अनिष्पत्तौ भवतस्तन्निरासप्रयासानुपपत्तेः। सोयमपूर्व्वः प्रमाणादिसत्त्वानभ्युपगमात्मा वाक्स्तम्भनमन्त्रो भवताभ्यूहितो नूनं, यस्य प्रभावाद्भगवता सुरगुरुणा लोकायतसूत्राणि न प्रणीतानि, तथागतेन वा मध्यमागमा नोपदिष्टाः भगवत्पादेन वा वादरायणीयेषु सूत्रेषु भाष्यं नाभाषि। प्रमाणाद्यनभ्युपगमेऽपि प्रवर्त्तन्तां तन्मते वाचोभङ्ग्यः तास्तु साधनवाधनक्षमा न भवन्ति तावतेति ब्रूमैति चेन्न प्रमाणाद्यनभ्युपगम्य प्रवर्त्तितत्वं तदीयसाधनबाधनाक्षमतायां न नियामकं किन्तु सद्वचनाभासलक्षणयोगित्वमित्यवश्याभ्युपेयं भवता, येनाभ्युपगम्यापि प्रमाणादीनि प्रवर्त्तिताः मतान्तरानु सारिभिर्व्यवहारा अभ्युपगतप्रमाणादिसत्त्वैर्म्मतान्तरव्यवहारानुसारिभिरपरैस्तथाभूता इति कथ्यन्ते। यदि त्वस्मद्वचसि सद्वचनाभासलक्षण न भवान् दर्शयितुमीष्टे तदा अनभ्युपगम्य प्रमाणादि भवताप्र- वर्त्तितोऽयं व्यवहारैति शतकृत्वस्त्वयोच्यमानेऽपि नास्माकमादरः। अन्यथाभ्युपगम्य प्रमाणादीनि भवता प्रवर्त्तितोऽयं व्यवहार इत्येतावता भवदीयो व्यवहाराभास इत्यस्माभिरपि वक्तुं शक्यतएव। ननु यदि प्रमाणादीनि न सन्ति व्यवहारएव धर्म्मी कथं सिद्ध्येत् दूषणादिव्यवस्था वा कथं स्यात् सर्व्वविधिनिषेधानां प्रमाणाधीनत्वात्। मैवम्। न ब्रूमोवयं न सन्ति प्रमाणादीनीति, स्वीकृत्य कथारभ्येति। किन्नाम सन्ति न सन्ति वा प्रमाणादीनीत्यस्यां चिन्तायामुदासीनैर्यथा स्वीकृत्य तानि भवता व्यवह्रियते तथा व्यवहारिभिरेव कथा प्रवर्त्त्यतामिति। अन्यया न सन्ति प्रमाणादीनीति मतमम्माकमारोप्य यदिदम्भवता दूषणमुक्तं तदपि न वक्तुं शक्यं कीदृशीं मर्य्यादामालम्ब्य प्रवर्त्तितायां कथायां दूषणमुक्तं किं प्रमाणादीनां सत्त्वमभ्यु प्रगम्योभाभ्यां वादिभ्यां प्रवर्त्तितायां कथायाम् उतासत्त्वमभ्युपेत्य अथैकेन सत्त्वमपरेण चासत्त्वमङ्गीकृत्य। न तावदाद्यः अभ्युपगत प्रमाणादिसत्त्वं प्रति तादृक्पर्य्यनुयोगानवकाशात्। द्वितीये तु स्वतोऽप्यापत्तेः न तृतीयः तथैव कथान्तरस्य प्रसक्तेः उभयाभ्यु पगमानुरोधित्वाच्च कथानियमस्य। अन्यथा स्वाभिप्रायमालम्ब्य तेनापि तद्वचसि यत्किञ्चिद्वागात्मनि दूषणेऽभिहिते कस्य जयो व्यवतिष्ठताम् प्रमाणाद्यभ्युपगन्तुरेव यावन्नियमभरयन्त्रणा महती स्यात्। तस्मात् प्रमाणादिसत्त्वासत्त्वाभ्युपगमौदासीन्येन व्यवहारनियमे समयं वद्ध्वा कथायां प्रवर्त्तितायां भवतेदं दूषणमुक्तं युक्तमेव तथा सति स्यात्। योऽयं भवान् स्वाभिप्रायमपि नावधारयितुं शक्तोऽतिदूरतस्तस्मिन् पराभिसन्धानावधारणप्रत्याशा। अथ वादीकृत्य दुर्वैतण्डिकं तस्मिन् बाधोऽभिधीयत इत्येव नेष्यते शिष्यादयस्तु तस्य कथानधिकारं ज्ञाप्यन्ते अतएव भाष्यकारः “सप्रयोजनमनुयुक्तो यदि प्रतिपद्यत” इत्याहस्म न तु प्रतिपद्यस इति। मैवम् शिष्यादीन् प्रत्यपि चार्ब्बाकादेर्दोषोऽयमित्येवाभिधातव्यम्। कथञ्च तथा स्यात् तस्य कथाप्रवेशाप्रवेशयोस्तद्वाधाक्षमत्वात्कथायामेव हि निग्रहः। नापि द्वितीयः तथाहि स्यादप्येवं यदि कथकप्रवर्त्त नीयवाग्व्यवहारं प्रति प्रमाणादीनां हेतुता तत्सत्त्वानभ्युपगमे निवर्त्तेत नचैवं सम्भवति तथा सति तत्सत्त्वानभ्युपगन्तॄणां वाग्व्यवहारस्वरूपमेव न निष्पद्येत हेत्वनुपपत्तेः। उक्तवायमर्थो यन्माध्यमिकादिवाग्व्यवहाराणां स्वरूपापलापो न शक्यत इति। अथ मन्यसे कथकवाग्व्यवहारं प्रति हेतुत्वात् प्रमाणादीनां सत्त्वं सत्त्वाच्चाभ्युपगमः यत्सत्तदभ्युपगम्यतैति स्थितेरिति। मैवम्। कयापि नियमस्थित्या प्रवृत्तायां कथायां कथकवाग्व्यवहारं प्रति हेतुत्वात् प्रमाणादीनां सत्त्वं सत्त्वाच्चाभ्युपगमो भवता प्रसाध्यः। कथनात्पूर्ब्बं तत्तत्त्वावधारणं वा परपराजयं वा अभिलषद्भ्यां कथकाभ्यां यावता विना तदभिलषितं न पर्य्यवस्यति तावदनुरोद्धव्यम् तच्च व्यवहारनियमस्यानुबन्धादेव द्वाभ्यामपि ताभ्यां सम्भाव्यतैति व्यवहारनियमसमयमेव बध्नीतः सच प्रमाणेन तर्केण च व्यवहर्त्तव्योवादिना प्रतिवादिनापि कथाङ्गतत्त्वज्ञानविपर्य्ययलिङ्गप्रतिज्ञाहान्याद्यन्यतमंनिग्रहस्थानं तस्य दर्शनीयम् तद्व्युत्पादने प्रथमस्य भङ्गोव्यवहर्त्तव्योऽन्यथा द्वितीयस्यैव। तादृशेतरौ च जेतृतया व्यवहर्त्तव्यौ प्रामाणिकपक्षस्तात्त्विकतया व्यवहर्त्तव्य इत्यादिरूपः। अतएवं व्यवहारनियमबन्धेऽपि हेतुर्वक्तव्यः तथा च सोऽपि हेतुः कथायां प्रवृत्तायामभिधातुं युक्तैतिप्रमाणसत्त्वाभ्युपगमहेत्वभिधानवत् प्रत्यवस्थानमनवकाशम्। द्वाभ्यामपि वादिभ्यां विचारप्रवृत्त्याभिलष्यमाणतत्त्वव्यवस्थाजयमूलत्वेन व्यवहारनियमस्य स्वेच्छयैव परिगृहीतत्वात् नचैवं प्रमाणानुपज्ञस्वेच्छामात्रगृहीतमूलत्वान्मूलापरिशुद्धिसम्भवेन सर्व्वविचारविचार्य्यतत्फलविप्लवापत्तिः स्यात्। अविद्याविद्यमानानादिपारम्पर्य्यायातस्य लोकव्युत्पत्तिगृहीतसंवादस्य च तस्यान्यथाभावासम्भाव्यतालक्षणस्वतःसिद्धिशुद्धत्वात्। नच प्रमाणादीनां सत्तापीत्थमेव ताभ्यामङ्गीकर्त्तुमुचिता। तादृशव्यवहारनियममात्रेणैव कथाप्रवृत्त्युपपत्तेः प्रमाणादिसत्तामभ्युपेत्यापि तथा व्यवहारनियमव्यतिरिक्तकथाप्रवृत्तिं विना तत्त्वनिर्ण्यस्य जयस्य वाभिलषितस्य कथकयोविपर्य्यवसानात्। नापि तृतीयः लोकव्यवहारो हि प्रामाणिकव्यवहारो वा स्यात् पामरादिसाधारणव्यवहारो वा। नाद्यः। विचारप्रवृत्तिमन्तरेण तस्य दुर्न्निरूपत्वात् तदर्थमेव च पूर्ब्बं नियमस्य गवेषणात्। नापि द्वितीयः शरीरात्मतादीनामपि तथा सति भवता स्वीकर्त्तव्यतापातात्। पश्चात्तद्विचारबाध्यतया नाभ्युपेयतैति चेत् तर्हि प्रमाणादयोऽपि यदि विचारबाध्या भविष्यन्ति तदा नाभ्युपेया एव अन्यथा तूपगन्तव्या इति लोकव्यहारसिद्धतया सत्त्वमभ्युपगम्यत इति तावन्न भवति। नापि चतुर्थः यादृशोभवता प्रमाणादीन्यभ्युपगम्य व्यवहारनियमः कथायामालम्ब्यते। तस्यैव प्रमाणादिसत्त्वासत्त्वानुसरणोदासीनैरस्माभिरप्यवलम्बनात्। तस्य यदि मां प्रति फलातिप्रसञ्जकत्वं तदा त्वां प्रत्यपि समानः प्रसङ्गः। स्यादेतन्नियतवाग्व्यवहारक्रियासमयबन्धेन कथां प्रवर्त्त यतापि व्यवहारसत्ताभ्युपगन्तव्या नहि सत्तामनभ्युपगम्य व्यवहारक्रियाभिधातुं शक्या। क्रिया हि निष्पादना असतः सद्रूपताप्रापणमिति यावत् प्रमाणैर्व्यवहर्त्तव्यमिति नियमबन्धने प्रमाणानां कारणभावो नियतः तद्भावश्च नियतपूर्ब्बसत्तारूपं कारणत्वम् प्रमाणानामनादाय न पर्य्यवस्येत्। दूषणानाञ्चास्तित्वेन भङ्गावधारणनियमबन्धने साधनाङ्गानां व्याप्त्यादीनां सत्त्वेन तद्विषयस्य तत्त्वरूपताव्यवहारनियमनादौ च कण्ठोत्थमेव तस्य तस्य सत्त्वमङ्गीकृतमिति रिक्तमिदमुच्यते प्रमाणादीनां सत्तामनभ्युपगम्य कथारम्भाः शक्यन्त इति। मैवम्। एभिरपि बाधकैः कथायामारब्धायामेवाभिमतस्य प्रसाधनीयत्वे पूर्ब्बोक्तबाधायामनिस्तारात्। न च व्यवहारनियमस्य स्वेच्छाकृतस्यैव प्रमाणादिसत्तास्वीकारपर्य्यवसायितया नायं दोषः स्यात्। यतः सत्ताज्ञानस्य तत्राङ्गत्वं न तु सत्तायाः। तत्र किं सत्तावगममात्रात्सत्ताभ्युपगम्येति मन्यसे अबाधितात्तदवगमाद्वा। न तावदाद्यः मरुमरीचिकादौ जलरूपतासद्भावाभ्युपगमप्रसङ्गात्। द्वितीयेऽपि किंवादिप्रतिवादिमध्यस्थमात्रस्य तस्यापि किं कथाकालमात्रएव बाधितत्वावगमाभावात्। अथवा कस्यचिदपि कालान्तरेऽपि च बाधितत्वबोधविरहात्। नाद्यः अतिप्रसङ्गात् पुरुषत्रयावगतस्य एकक्षणावगतस्य च पुरुषान्तरेण तेनापि क्षणान्तरे बहुलं बाध्यतादर्शनादिति। नचासावर्थोऽसन्नपि द्वित्रादिपुरुषमात्रपूर्ब्बजाततत्प्रतीत्यनुरोधाद्वाधदर्शने सत्यपि तथैव सन्नित्यभ्युपगम्यते। तस्माद्द्वितीयः पक्षः परिशिष्यते यत्र सर्व्वप्रकारेण बाधितत्वं नास्ति तत्सदित्यभ्युपगन्तव्यम्। तदित्थं यदि नाम वादिघ्रतिवादिमध्यस्थमात्रस्य दूषणादिसत्तावगमः कथाकालमात्रे तैरबाध्यमानः कथाङ्गत्वेनाभ्युपेयते किमायातं सर्व्वप्रकाराबाधिततत्तत्सत्तावगमायत्ततत्तत्सत्त्वाभ्युपगमकथानङ्गताङ्गीकारस्य। कतिपयप्रतिपत्तृकतिषयकालतथात्वावगमादेव च प्रायेण लौकिकव्यवहारः प्रतोयते तादृशश्चायं सत्त्वावगमः कथाङ्गमेतत्तदुच्यते व्यवहारिकीं प्रमा णादिसत्तामादाय विचारारम्भ इति। तस्माद्यादृग्व्यवहार नियमः कृतः तन्मर्य्यादानेन नोल्लङ्घितेति। यद्वादिवाग्व्यवहारे मध्यस्थावगमः स विजयते यस्य च वचसि नैवं तस्यावगमस्तस्य पराजयः। यत्र वाद्युक्तनिग्रहसत्त्वावगमः स निगृहीतः तदितरस्तु न तथेत्यादिनियम एव कथारम्भाय ग्राह्यः। अनेन नियमेन व्यवहर्त्तव्यमित्यस्य ह्ययमर्थोऽनेन नियमेनोक्तमनेन नेति मध्यस्थावगमस्य विषयी भवितव्यमिति। नच वाच्यमन्ततस्तदवगमस्यापि सत्ताभ्युपेयेति। तस्यापि सत्ताचिन्तायां तत्सत्तावगमान्तरस्यैव शरणत्वात्। नचैवमनवस्था तदनुसरणावश्यम्भावानङ्गीकारात्। एवं त्रिचतुरज्ञानजन्मनोनाधिकमतिरिति न्यायात्। नचान्तिमासत्त्वे पूर्ब्बपूब्बप्रवाहासत्त्वापत्ति स्तथाचावगममादायापि न निस्तार इति वाच्यम्। अस्त्वेवं हि तथापि त्रिचतुरज्ञानकक्षागवेषणमात्रविश्रान्तेन विचारेण ततःपरमननुसरणरमणीयेनैव समयं बद्ध्वा कथाया मिथःसम्प्रतिपत्त्या प्रवर्त्तनात्। अन्यथा प्रमाणादिसत्ताभ्युपगमेऽपि ज्ञानानवस्थायादुष्परिहरत्वात्। नच वाच्यं मत्पक्षे स्वरूपसता ज्ञानेन व्यवहारस्य चरितार्थयितु” शक्यत्वात् न ज्ञानस्य परम्परानुसरणमुचितं नत्वेवं त्वत्पक्षे ज्ञानस्वरूपसत्ताङ्गीकारप्रसङ्गादिति। स्वरूपसत्तामादायापि परिहरतोऽनवस्थाप्रसङ्गस्य स्वप्रकाशप्रस्तावे वक्तव्यत्वात्। यथा त्वत्पक्षे स्वरूपसदविशेषेऽपि ज्ञानस्वरूपसत्तैव परं व्यवहारोपपादिका न घटादिसत्ता। एवमेवासत्ताऽविशेषेऽपि ज्ञानमेवासद्व्यवहारोपपादकं नान्यत्। असच्चोपपादकञ्चेति व्याहतमिति चेन्न सदुपपादकमिति कुतो न व्याहतम्। नहि सदुपपादकमसच्च नेति क्वचिदावयोः सिद्धम्। ननु तदसत्ताऽविशेषात्तत्कार्य्यस्यान्यदापि प्रसङ्गः, न कार्य्यस्याद्यसत्ताक्षण इवान्यदापि सामग्रीसत्त्वाविशेषात्तवापि किं नान्यदा कार्य्यजन्म। अथ न मम तदानीन्तनं सामग्रीसत्त्वं तदातनस्य कार्य्यजन्मनो नियामकं किन्तु ततः प्राक् सामग्रीसत्त्वं तथादर्शनात्। तर्हि ममापि कालान्तरस्थमपि तदसत्त्वं तदातनकार्य्यजन्मनोनियामकं तथादर्शनादेव। मम तदव्यवहितोत्तरत्वं तदा कार्य्यजन्मनियामकमिति चेत् न समसमयत्वादागन्तुकत्वाच्चाविशेषेण नियम्यनियामकव्यवस्थानुपपत्तेः तस्मादन्यदास्थाया एव सामग्य्रास्तदा कार्य्यनियमोऽभ्युपेयः तथादर्शनादित्येव मन्तव्यम्। तथा च समः समाधिः। तथापि कार्य्यजन्मकालस्य कोविशेषः। कार्य्यजन्मैव। अन्यथा यद्विशेषान्तरं तदपि विशेषान्तरवतः कालस्य स्यादिति अपर्य्यवसानमेव पर्य्यवस्येत्। तथापि तत्कालस्यानुगतं किं रूपमिति चैन्न रूपान्तरवतोपि किं रूपमित्यपि पर्य्यनुयोगस्यानुवृत्तेः। किञ्च

“अन्तर्भावितसत्त्वञ्चेत्कारणं तदसत्ततः। नान्तर्भावितसत्त्वञ्चेत्कारणं तद सत्ततः।”

तथाह्यन्तर्भूतसत्वे यदि कारणत्वं तदा स्वविशिष्टे स्ववृत्तिरसतः स्वाश्रयत्वमापादयति। विशिष्टस्यार्थान्तरत्वेऽपि च स्वस्मिन् स्ववृत्तिव्यतिरेकवत् स्वविशिष्टे स्ववृत्तिव्यतिरेके नियमदर्शनात् न सैव सत्ता तस्मिन्निति अन्यस्यास्तस्याविशिष्टवृत्त्यभ्युपगमे तामसन्निवेश्य कारणत्वमभ्युपगन्तुः सर्व्वथैव कारणमसत्पर्य्यवस्यति। अपरापरसत्तानिवेशने वा पर्य्यवसानमेव। न च सत्ताभेदानन्त्यमस्त्येवेत्यपि पादप्रसारिका निस्ताराय, सत्ताभेदे हि सद्बुद्धिव्यवहारानुगमननिबन्धनलङ्घिनः प्रथमापि सत्ता न स्यादिति। सत्त्ववृद्धिमिष्टवतो मूलमपि ते नष्टमिति कष्टतरम्। न च स्वरूपसत्तोपगमाय स्वस्ति भिन्नानप्यनुगतबुद्ध्याद्याधानपदेऽभिषिञ्चता त्वया जातिमात्राय जलाञ्जलिर्वितीर्येत। माभूदनुगतिः स्वरूपसत्त्वस्येति च वदन् तद्गर्भिणीं कारणतां कथमनुगमयितासीति। किञ्च स्वरूपसत्त्वं स्वरूपात् घटाद्यात्मनो नाधिकमसतोपि स्वरूपं स्वरूपमेव न ह्यमन् घटादिर्न घटादिः तथा सति घटादिर्नेत्यपि न स्यात् असतोऽघटादित्वात्। अथ सदपि सत्तामनन्तर्भाव्य कारणं तदानीमसदपि ततथास्तु सत्तासत्तयोः कारण कोट्यप्रवेशाविशेषात्। अथ न सत्ता कारणकोटिनिविष्टा किन्तु कारणत्वं सत्त्वं नियतपूर्ब्बसत्तां हि कारणताम्मन्यैति मन्यसे, तर्हि मत्पक्षे सैव कारणतास्तु तर्हि कारणसत्तामभ्युपगतवानसीति घट्टकुट्यां प्रभातमिति चेन्न भावानवबोधात् सत्तामसतीमभ्युपगच्छतापि सत्ता मयाभ्यु पगतैव। अन्यया कासावसतीति त्वमपि किं सत्तान्तत्सत्तामन्तर्भाव्य कारणत्वमिच्छसि। नत्वेवं पूर्व्ववत् क्वापि सत्तात्यागो वा अनवस्थायां पर्य्यवसानं स्यात्। असत्ताऽ विशेषात् कारणनियमः कथं स्यादिति चेन्न सत्ताविशेषेऽपि तुल्यत्वात्। सत्त्वेऽस्त्यन्वयाद्यनुविधानं तस्य तज्जातीयस्य वा त्वत्पक्षे त्वसत्त्वाविशेषात् व्यतिरेकः परं सोऽप्यनियतो यदा कारणाभावस्तदा कार्य्याभावावश्यम्भावानभ्युपगमात् नित्यासतः कारणस्यासत्त्वएव कदाचित्कार्य्योत्पादात्। अन्वयस्तु न कदाचिदपीति चेन्न तुल्यत्वात् अन्वयो नास्तीत्यभ्युपगच्छतापि अन्वयोपगमात् अन्वयस्यापि सत्तान्तर्भावने कथितदोषापत्तेः। एतेन “आशामोदकतृप्रा ये ये चोपार्ज्जितमोदकाः। रसवीर्य्यविपाकादि तेषां तुल्यं प्रसज्यते”।।

इत्यस्यापि बाधकत्वमाशामोदकायते। सत्तान्तर्भावानन्तर्भावाभ्यां प्रत्यादेशात् आशामोदकादिनापि च रुसवीर्य्यविपाकादिजननात्। तदसत्कथं कार्य्यं स्यादिति चेन्न सत्तामन्तर्भाव्य कार्य्यत्वोपगमे कारणवत्कार्य्योपि उक्तदोषस्यानन्तर्भावे वाऽविशेषस्य पूर्ब्बवदावृत्तेः तस्मात्। “पूर्ब्ब सम्बन्धनियमे हेतुत्वे तुल्यएव नौ।” “हेतुतत्त्वबहिर्भूतसत्त्वासत्त्वकथा वृथा।” आस्तां प्रतिवन्दिग्रहग्रहः कथं पुनरसतः कारणत्वमवसेयं प्राक्सत्त्वनियमस्य विशेषस्यानभ्युपगमात् असत्त्वस्य चाविशेषादिति चेन्न इदमस्मान्नियतं प्राक्सदितिबुद्ध्याविशेषात्। भ्रान्त्यैवंबुद्धिगोचरेऽतिप्रसङ्ग इति चेन्न यादृश्या हि धिया त्रिचतुरकक्षाबाघानवरोधविश्रान्तया वस्तुसत्त्वनिश्चयस्ते, तादृश्येव विषयीकृतस्य ममापि कारणतानिश्चयः। केवलन्ततः परास्वपि कक्षासु बाधात् पूर्ब्बपूर्ब्बभ्रान्तिसम्भवेन न तावता सत्त्वावघारणं वयं मन्यामह इति विशेषः। परदर्शनसिद्धान्तस्य भूरिकक्षाधाविनोऽपि ततः परकक्षाबाध्यमानत्वेनातथाभावोपगमात् अन्यथैकदर्शनपरिशेषः स्यात्। एतेन सत्त्वाविशेषात् कथं कस्यचित् पक्षस्य त्रिचतुरकक्षाधावित्वमास्तामित्यपि निरस्तम्। अनेवंबुद्धिविषयतादशायां कोविशेष इति चेत् यदा कदापि तादृशबुद्धिविषयतैव। अन्यथा कथय कथमन्यदा तादृशबुद्धिविषयतया अन्यदा सत्त्वं स्यात्। तदा सत्त्वमन्यदास्थेन गृह्यत इति चेत् अन्यकालिकमेव तर्हितत्तदातनकारणत्वोपयोगीति समानम् तदेतत् संवित्तिसत्त्वमिति गीयते असती सा न विशेषिका सती सानेष्टेत्यभिसन्धानेन द्वैतापत्तेरि संवित्तिरपि सती न वेति पृच्छन् प्रतिवक्तव्यः ज्ञानं तावद्व्यवहारोपपादकतया द्वाभ्यामप्यनुमतं तस्यापि जिज्ञासायां त्रिचतुरकक्षाविश्रान्तग्वेषणस्य यदि सत्तोपपन्ना भविष्यति तदा सत्ता, तेनेदमुपपादितम्भविष्यति। अथासत्ता तस्य पर्य्यवस्यति तदा असत्तैव तेनेद मुपपाद्यत इति स्वीकर्त्तव्यं भ्रमविषयेणेव भ्रमे विशिष्टताव्यवहारः। अविचार्य्यैव तावत्तस्य सदसत्त्वं विचार आरब्धव्यः। अन्यथा प्रथममेव मतिकर्द्द मे कथारम्भणमशक्यमापद्येत। स्वीकृतञ्च भवतापि भविष्यदादिविषये विज्ञाने विशिष्टव्यवहारनिदानत्वमसतो विषयस्य, कारणशक्तेश्च विशेषकमसदेव कार्य्यम्। न च कालान्तरसम्बन्धिनी सत्ता तस्या एकत्रान्यत्र नान्यदापीति वैधम्यमेतयोरपीति वक्तव्यम् विशिष्टव्यवहारप्रवृत्तिसमये द्वयोरप्यसत्ताऽविशेषात् प्रयोजनानुपयुक्ते काले तस्य स्वरूपतोऽवस्थानं पाटच्चरलुण्ठिते वेश्मनि यामिकजागरणवृत्तान्तमनुहरति तथापि कालान्तरस्थित्या घटादिकं स्वरूपतो विशेषणतश्च व्यवच्छिन्नं, तद्विज्ञानेन स्वभावबलात् स्वविशेषणत्वेनोपादीयते। नत्वेवमत्यन्तासद्भवितुमर्हति तस्य स्वरूपतो विशेषणतश्च व्यवच्छिन्नतयानङ्गीकारात् कुत्र स्वभावतोविज्ञानं सम्बन्धि निरुच्यते न। उक्तमत्र असतोऽपि तदेव रूपं तस्य नियतस्व रूपस्यैव नियतविशेषणस्यैवासत्त्वादन्यथातिप्रसङ्गात् भ्रान्तिविषयेण दत्तोत्तरत्वाच्चेत्यलमतिविस्तरेण”। खण्डनखण्डखाद्यम्।

***