अश्व = पु० अशनुते व्याप्नोति भार्गम् अश–क्वन्। घोटके “गच्छन्त मुच्चलितचामरचारुमश्वम्” माघः। “जितसिंहभयानागा यत्राश्वा विलयोनयः” कुमा०। “अमृताद्वाष्पतोवह्ने र्वेदेभ्योऽण्डाच्च गर्भतः। साम्नो हयानामुत्पत्तिः सप्तघा परिकीर्त्तिताः इत्युक्तेस्तेषाममृताद्युत्पत्तिस्थानम्। हयोत्पत्तिस्थानसंख्यासाम्याच्च २ सप्तसंख्यायाम् “काष्ठतुल्यवपुर्धृष्यो मिथ्याचारश्व निर्भयः। द्वादशाङ्गुलमेढ्रश्च दरिद्रस्तु हयो मत” इत्युक्तलक्षणपुरुषभेदे “पद्मिनी शशके तुष्टा हये तुष्टा च हस्तिनीति” रस०। अत्र प्रसङ्गात् अश्वानामङ्गविभागविशेषसंज्ञालक्षणादिकमुच्यते जयदत्तकृतादश्व शास्त्रात् सारांशः “अतिप्रसिद्धा जिह्वा तु तस्याः शूना भवेदधः। ऊर्द्धं तालु भवेत्तस्यास्ततोऽग्रे दन्तपीठकम्। ततोदन्ताः समुद्दिष्टा ऊर्द्धंदन्ता भवन्त्यधः। चिवुकं चाघरे भागे तेषां प्रोक्तं विचक्षणैः। चिवुकस्योपरिष्टात्तु अधरोष्ठः प्रकीर्त्तितः। चिवुकात्पार्श्वभागे तु हनुर्नामाभिधीयते। सृक्वद्वयं विजानीयात् वक्त्रपार्श्वगतं बुधः। उत्तरोष्ठं प्रयाणाख्यं तदूर्द्धं प्रोथ उच्यते नासाच्छिद्रेतथा पार्श्वेप्रोथस्यैव व्यवस्थिते। नासाच्छिद्राक्षिमध्ये तु घोणाख्या समुदाहृता। घोणापार्श्वगतौ गण्डौक्षीरिके च ततःपरम्। नेत्रयोरुत्तरे भागे अश्रुपात उदाहृतः। कर्णान्ते चैव नेत्रान्तमपाङ्गं ब्रुवते बुधाः। कनीनिकाख्यो विज्ञेयो यश्च नासासमीपगः। सितासितौ च तन्मध्ये नेत्रयोर्मण्डलं हि तत्। प्रच्छादनं भवेद्वर्त्म चाक्षिकूटमतःपरम्। तस्मादूर्द्धं भ्रुवोर्लेखा ललाटं च तदुत्तरम्। ऊर्द्धं ललाटदेशात्तु केशान्तं च ततः श्रवः। ततः शिरो विजानीयात् श्रवादूर्द्धगतं बुधः। शिरःपार्श्वगतौ कर्णौ तयोर्मूलं सकुन्तलम्। अपाङ्गाद्द्व्यङ्गुले चैव शङ्खं विद्याद्विचक्षणः। शङ्क्षकर्णान्तरे चैव कटाक्षं समुदाहृतम्। विदोमर्म्मविदुश्चैव कर्णस्याधः षडङ्गुले। घण्टाबन्धसमीपस्थो निगालः परिकीर्त्तितः। अधस्तले निगालस्य गलमाहुर्मनीषिणः। ततः कण्ठं विजानीयादधोभागे नतं बुधः। ग्रीवा लोकप्रसिद्धा तु तस्याश्चोपरि केशरः। ग्रीवास्कन्धान्तरे चैव वाहं प्राहुर्मनीषिणः। वाहस्योपरि यस्तु स्याल्काकसं ककुदं च तत्। ततः पृष्ठं विजानीयादासनं पृष्ठमध्यगम्। अंसके ककुदश्चैव निबन्धः परिकीर्त्तितः। स्यातामंसादधोबाहू तयोर्बाह्येषडङ्गुले। मन्दिरः पश्चिमोमागः कलापी जानुनोऽग्रिमः। जानुनश्चाधरे भागे जङ्घां विद्याद्विचक्षणः। जङ्घापार्श्वे कलां विद्यात् सन्ध्यं चैषिकसंज्ञकम्। अग्रतः पालिहस्तः स्यात् पश्चात्कूर्च उदाहृतः। किणस्तत्रैव मध्यस्थोह्यधोभागे च कुष्टकी। खुरसन्धिं ततोविद्यादधोभागे ततः खुरम। खुरस्य पार्श्वे पार्ष्णिः स्यादग्रभागे नखो भवेत्। खुरस्याधस्तलं चैव मण्डुकी तलमध्यगा। खुरमांसं विजानीयात् क्षीरकाख्यं विचक्षणः। हृदयात्परतः कुक्षी पार्श्वतश्च विभागतः। जठरं पार्श्वमध्यस्थं तस्य नाभिश्च मध्यतः। रोमराजीं ततो विद्यान्मूत्रकोशमतःपरम्। आ कट्याः पश्चिमे भागे पुटौ स्फिचौ च कीर्त्तितौ। पुच्छमूलं च वाहानां भाषते पुच्छमूलतः। तस्याधः कीर्त्तितः पायुः सीवनी च ततः परम्। मुष्कौ च कटिसन्धिं च ततोविद्यात्परं बुधः। अधस्तात्कटिसन्धेस्तु ऊरुसन्धिरुदाहृतः। सक्थिनी फलसन्धेस्तु ऊरू पादाभिधायके। ततः स्थूरं विजानीयात्तस्याधोमन्दिरं भवेत्। किणं चैव ततो विद्यान्मन्दिराख्ये सुसंस्थितम्। ततः परं विजानीयात् कालकूर्चं च कुष्टिकम्। खुरान्तसंज्ञं मण्डूकं ततो विद्याद्विचक्षणः। अग्रे जङ्घाद्वयं चैव वक्षो ग्रीवाशिरोमुखम्। पूर्वकायःसमद्दिष्टः पृष्ठदेशस्तु मध्यमः। आ कटेः पश्चिमे भागे खुरान्तश्चापरं स्मृतम्”।

तेषां लक्षणाणि “अशुभैर्लक्षणैर्युक्ता हया न ग्रहणोचिताः। अतो लक्षणमेवादौ तेषां वक्ष्यामि देहजम्। ओष्ठयोः सृक्वणोश्चैव जिह्वायां दशनेषु च। वक्त्रे तालुनि नासायां गण्डयोर्नेत्रयोस्तथा। ललाटे मस्तके चैव केशे कर्णपुटे तथा। ग्रीवायां केशरे चापि स्कन्धे वक्षसि बाहुके। ऊङ्घायां जानुनोश्चाधः कूर्चे पादे तथैव च। पार्श्वयोः पृष्ठभागे च कुक्षौ कट्यां सवालधौ। मेहने मुष्कयोश्चापि तथा चैवोरुकद्वये। आवर्त्ते च खुरे पुच्छे गतौ वर्णे स्वरे तथा। महादोषे त्यजेत्प्राज्ञश्छायायां गन्धसत्वयोः। प्रमाणस्यैव वाहानां लक्षणं यत्प्रतिष्ठितम्। शुभाशुभविवेकाय तद्विद्याद्वुद्धिमान्भिषक्। शालिहोत्रादिभिःसम्यक् त्रिकालज्ञानकोविदैः। आताम्रौ पूजितावोष्ठौ बलिहीनौ मृदुत्वचौ। सुप्रोथोत्तरसंस्थं च विपरीतं विवर्जयेत्। सृक्वणोर्मृदुता शस्ता जिह्वायां रक्तता तथा। अतश्चान्यद्धि दोषाय न त्वदीर्घा च सा शुभा। घना स्निग्धा सुबद्वा च समा दन्ताः सुशोभनाः। षट्संख्ये बन्धरे वृत्ते तेषु व्यञ्जनसंभवः। आयतं तुङ्गघोणं च निर्मांसं प्रियदर्शनम्। सुबन्धं पूजितं वक्त्रं विपरीतं विगर्हितम्। तालुरक्तं प्रशस्तं च सुपुटे चैव नासिके। नातितनू समौ गण्डौ वाहानां कीर्त्तितौ शुभौ। अत्यन्तनिर्गते चैव सुबद्धे नैव चाविले। प्रशस्ते वाजिनां नेत्रे मद्याभे मलतारके। स्रिग्धायते विशाले च श्रेष्टे मधुनिभाक्षिणी। कनकप्रतिसंकाशे शस्ते वाहस्य लोचने। सावर्त्तं च विशालं च अनिम्नं चैव वाजिनः। ललाटं पूजितं प्राहुर्मुनयः शास्त्र कोविदाः। शिरः समं तथा वृत्तमावर्त्तद्वयभूषितम्। केशाश्च मृदवश्चैव बहवश्चैव पूजिताः। ऋजुता कर्णयोश्चैव तीक्ष्णता तनुता तथा। अदीर्घरोमता चैव प्रशस्ता विप्रकीर्त्तिता। सुवृत्ताङ्कुञ्चिताञ्चैव धन्यां ग्रीवां बिदुर्बुधाः। केशरश्च जटाहीनो मृदुश्चैव प्रशस्यते। सुबद्धश्च दृढश्चैव स्कन्धोवाहस्य पूजितः। वक्षः प्रशस्त विपुलं निर्गतं विशरं च तत्। ऋजुवृक्षसमौ बाहूगूढं जानु प्रशस्यते। अवक्रा मांसहीना च वाजिजङ्घा प्रशस्यते। शुभं स्मृतं सुवृत्तं च समं चैव नतोन्नतम्। कूर्चमेवंविधं विद्याद्ग्रन्थिव्रणविवर्जितम्। दृढमण्डकिकायुक्तो वर्त्तुलः श्लिष्टसन्धिकः। खुरः खरखुराकारः प्रशस्तः ससुदाहृतः। पार्श्वे चैव समे वृत्ते ऊर्द्ध्वमांसोपशीभिते। अविलम्बि सुवृत्तं च उदरं चातिपूजितम्। नातिदीर्घं समं पृष्ठं किञ्चिच्च विनतं शुभम्। सुवृत्ता चैव पीना च कटिर्धन्या प्रकीर्त्ति ता। मृदुस्निग्धायतैर्युक्तं बालैः प्रच्छं प्रशस्यते। वृषणौ च समौ वृत्तौ ईषल्लम्बावलोमशौ। कृष्णवर्णविहीनं तु ह्रस्वं मेहनमिष्यते। अनुपूर्वं परं चैव शोभनं चोरुकद्वयम्। पूर्वजङ्घे च जङ्घादि खुरान्तं चापि पश्चिमम्। शालिहोत्रादिभिः प्रीक्तं मुनिभिः पूर्ववेदिभिः”।

आवर्त्तलक्षणम् “विंशतिस्तु शुभाः प्रोक्ताः षट्सप्तत्यशुभाः” स्मृताः। उत्तरोष्ठप्रपाणस्थास्तत्रावर्त्ताः शुभावहाः। सृक्वणोश्च था प्रोक्ताः सर्वकामफलप्रदाः। त्रयश्चैवाथ चत्वारो वाजिनोर्यस्य रोमजाः। द्वौ वा ललाटजौ यस्य स तु धन्यतमः स्मृतः। आनुपूर्ब्ब्या स्थिताश्चोर्द्ध्वं ललाटे रोमजास्त्रंयः। निःश्रेणी नाम सा ख्याता भर्त्तुः सर्वार्थसाधिनी। शिरःकेशान्तयोर्म्मध्ये श्रवोनामाभिधीयते। तत्रावर्त्तः स्थितोऽश्वस्य भर्त्तुर्ज्जयविवर्द्धनः। घण्टाबन्धसमीपस्थो निगालः कीर्त्तितों बुधैः। तस्मिन्देवसणिर्नाम रोमजः शुभकृत् स्मृतः। कर्णमूले तथा बाह्वोः केशान्ते मस्तके तथा। आवत्तोः पूजिता नित्प विशेषेण तु मस्तके। आवर्त्ता यस्य चत्वारो वाजिनो वक्षसि स्थिताः। एका कण्ठे भवेत् स्पष्टं स धन्यः सर्वकामदः। रन्ध्रे चैव सदा भर्त्तुः शंसितार्थप्रदोमतः। उपरन्ध्रोद्भवश्चैव रोमजश्चाति पूजितः। शङ्खचक्रगदापद्मशुक्तिवज्रोपमाश्च ये। विशेषेण शुभाः प्रोक्ता रोमजाः शुभदेशजाः। अत ऊर्द्ध्वं प्रवक्ष्यामि रोमजानशुभाय यान्। भर्त्तुः क्लेशवहान् सर्बान्धनप्राणापहारकान्। नासिकापुटयोर्मध्ये प्रदेशः प्रोथ उच्यते। तत्र भर्त्तुर्विनाशाय रोमजोऽश्वस्थ कीर्त्तितः। ऊर्द्ध्वस्थो नासिकाच्छिद्रात् स्वामिनः क्लेशदायकः। गण्डजश्चैव भर्त्तारं हन्त्यावर्त्तो दुरासदः। अश्रुपातः समुद्दिष्टः प्रदेशश्चक्षुषोरधः। तत्रावर्त्तीभवेद्धीनः स्वामिनः कुलनाशनः। अपाङ्गाद्द्व्यङ्गुले चैव प्रदेशः शङ्ख उच्यते। तत्र भर्त्तुर्विनाशाय भवेद्वाहस्य रोमजः। भ्रुवो देशे समुद्भूत आवर्त्तो नैव पूजितः। सुहृद्वियोगकृत्सस्याद्भर्त्तुरर्थावसादकः। सव्यां ग्रीवां शिरां विद्यात्तत्रावर्त्तस्तु कुत्सितः। कक्षयोश्चापि संग्रामे स्वामिनं चाशु घातयेत्। चिवुकस्य समीपस्थो वामदक्षिणभागतः। प्रदेशस्तु हनुर्नाम तत्रावर्त्तो हि दारुणः। अधरोष्ठस्य चाधस्तु चिवुको हि प्रसिद्धकः। तस्मिन् पापो भवेद्भर्त्तुः कर्णयोश्चापि रोमजः। कण्ठस्याथ निगालस्य मध्ये वालक उच्यते। तत्रावर्त्तः स्थितः पापः स्कन्धसन्धिगतश्च यः। अधस्ताज्ज्वङ्घयोश्चैव ग्रन्थिः कूर्च इति स्मृतः। तत्रावर्त्तः स्मृतो भर्त्तुः संग्रामे जीवितान्तकृत्। कूर्चादष्टाङ्गुलं चोर्ध्वं पार्श्वयोः ककता स्मृता। तत्र भर्त्तुः शराघातै र्जीवितान्ताय रोमज। ककुदं वृषभस्येव सुव्यक्तमुपलक्ष्यते। वाजिनो यस्य तत्रस्थ आवर्त्तस्तु विनाशकृत्। ककुदस्य पुरोभागे समीपे वाह उच्यते। भर्त्तुः सुतसमेतस्य तस्मिन् नाशाय रोमजाः। काकसे तु हयस्य स्यादावर्त्तों यस्य दारुणः। रणे हतः समं भर्त्त्रा कृव्यादैः स विलुप्यते। क्रोडे चैवासने चापि हृदये र्चव वाजिनः। आवर्त्ताः स्वामिघाताय भवन्त्ये ते न संशयः। पार्श्वयोरोमजो यस्य स चाश्वोनयति क्षयम्। सपक्षं चाशु भर्त्तारं नीहाराम्बु यथाम्बुजम्। कूर्चस्याधःप्रदेशस्तु कुष्टिश्च परिकीर्त्तितः। अधन्यस्तत्र वाहस्य जघन्यो जानुजश्च यः। नाभिजोमुष्कजश्चैव त्रिकजश्च विशेषतः। पुच्छमूलस्थितश्चापि नैव धन्यः प्रकीर्त्तितः। कुक्षौ व्याधिः, क्षयायेव रोमजाः कुक्षिसंभवाः। पायुत्रिबलिमध्यस्था नैव धन्या प्रकीर्त्तिताः। स्फिचिजः खुरजश्चैव यस्यावर्त्तो हि वाजिनः। लञ्जावर्त्तः स विख्यातो भर्त्तुः सर्वार्थनाशकः। शतपादीति विख्यातस्तथा वै मुकुलोऽपरः। आवर्त्तश्चैव संघातः पादुकश्चार्द्धपादुक्रः। शुक्तिश्चैवावलीढश्च आवर्त्तः कीर्त्तितोऽष्टधा। वाजिदेहगतः सम्यक् शुभाशुभनिवेदकः। शतपादीसमाकारः शतपादीति कीर्त्तितः। जातीमुकुलसंकाशो मुकुलः समुदाहृतः। आवर्त्तो भ्रमितो बालैः संघातो रोमपुञ्जकः। शुक्तिश्च शुक्तिसंस्थानैरोमभिर्व्यक्तलक्षणैः। एतेषामेव लीढस्तु अवलीढः प्रकी र्त्तितः। पादुकः पादुकाकारस्तथाचैवार्द्धपादुकः। बालै- र्विशेषसंस्थानैर्निर्द्दिशेन्मतिमान्भिषक्। शास्त्रमार्गानुसारेण यथा प्रोक्तं तपोधनैः एतेषामेव सर्वेषामावर्त्तानां विचक्षणैः। रोम्णां तिलकृता संज्ञा वाजिलक्षणवेदिभिः। शुभाशुभौ तु यत्र द्वौ तत्रैको न फलप्रदः। एवं हेम्ना दहेत्पापं तेन दोषो न दुष्यति। अथ वा वाजिनो मुख्याः ये चाङ्गादिगुणाधिकाः। दत्त्वा ग्राह्याः क्रयेणैव दुरावर्त्तस्तु काकूदी। श्रीवृक्षो रोमजश्चैव रोचमानस्तथैव च। अङ्गादी पेषली नाम राजरत्नप्रदाः सदा। प्रयाणे मारुतं विद्याल्ललाटे च हुताशनम्। उरसि चाश्विनौ देवौ चन्द्रासूर्य्यौ च मूर्द्धनि। रन्ध्रे स्कन्दविशाखौ च उपरन्ध्रे हरीहरौ। इत्येवं पूजिताह्ये ते दशबन्धास्तु वाजिनः। अप्येकेन विहीना ये भवेयुरशुभास्तदा”।

अथ पुण्ड्रलक्षणम् अत ऊर्द्ध्वं प्रवक्ष्यामि पुण्ड्राणां लक्षणम् शुभम्। शुक्तिशङ्खगदापद्मखड्गचक्राङ्गुशोपमाः। शिरोललाटं वदनं यः पुण्ड्रो व्याप्य तिष्ठति। स धन्यः पूजितोनित्यं मृदुकश्चैव योभवेत्। पर्वतेन्दुपताकाभा ये च स्रग्दामसन्निभाः। ते सर्वे पूजिताः पुण्ड्रा धनधान्यफलप्रदाः। इति पुण्ड्राः समाख्याताः पूर्व्वशास्त्रानुसारतः। अशुभांश्चैव वक्ष्यामि–यथायीगं समासतः। काककङ्ककबन्धाहिगृघ्रगोमायुसन्निभाः। असिताः पीतका रक्ताः पुण्ड्रका न च पूजिताः। तिर्य्यगगाश्चैव विच्छिन्नाः शृङ्ललापाशशोभिताः। जिह्वाकृष्णाक्षिरूक्षाणि भस्मवर्ण्णनिभानि च। शूलाग्रा वामदेहस्थाः पुण्ड्रका न शुभप्रदाः। पुण्ड्रकाणि विनश्यन्यि भिन्नवर्ण्णानि वाजिनः”।

अथ पुष्पलक्षणम्। “आगतं वत्सरन्तस्य ये भवन्त्यन्यवर्ण्णकाः। विन्दवः पुष्पसंज्ञा वा हिताहितत्वकारकाः। तेषां प्रदेशभेदे च लक्षणं यद्व्यवस्थितम्। तत्तथैव समासेन विस्पष्टं कीर्त्त्यतेऽधुना। प्रपाणे च ललाटे च कचे मूर्द्धनि कर्णयोः। निगाले चैव केशान्ते पुष्पं धन्यतमं स्मृतम्। स्कन्धे वक्षसि कक्षे च मुष्कयोर्बाहुके मुखे। हनौ पृष्ठे च वाहानां पुष्पं स्वामिहितप्रदम्। नाभौ केशे तथा कण्ठे दन्ते चैव हि वाजिनाम्। पुष्पं धन्यतमं प्रोक्तं भर्त्तुः सर्वार्थसाधकम्। अप्रशस्तानि दृष्टानि मुनिभिर्यानि शास्त्रतः। तानि सम्यक् प्रवक्ष्यामि पुष्पाण्यन्यानि दर्शनात्। अधरोष्ठे करे प्रोथे उत्तरोष्ठे तथैव च। घोणायां गण्डयोश्चैव शङ्खयोश्च तथा भ्रुवोः। ग्रीवायां चैव वाहे च सृक्कणोःस्थूरके स्थिचि। पायौ क्रोडे च पुष्पाणि निन्दितानीति निश्चयः। रक्तं पीतं तथा कृष्णं पुष्पं सर्वत्र नेष्यते। शुभप्रदेशे सञ्जातं भवेत्साधारणं ततः। पुत्रलाभधनप्राप्तिमारोग्यं विजयं तथा। विद्यात्पुष्पैः शुभैर्भर्त्तुरशुभैश्च विपर्य्ययम्। सर्वाङ्गपुष्पितो वाहो परित्याज्यो न संशयः”।

अथ गतिशुभादिलक्षणम् “दूरमुत्क्षिप्य यः पार्दास्तप्तांगारान् स्पृशन्निव। पुलं याति शुभं हृष्टो वाजी भद्रगतिस्तुसः। पूजिता वृषमातङ्गसि हशार्दूलगामिनः। अतोऽन्यगतयो नेष्टाः मर्वशुद्धतुरङ्कमाः। संकीर्णा एकतोभ्रष्टा चङ्क्रमौध विवर्जिताः। अत्यूर्द्धा चैव वक्रा च वाजिनां निन्दिता गतिः। षोडशाछोटिकाभिस्तु करवेष्टितजानुभिः। शतं द्विगुणितं गत्वा हस्तानां पुनरेति यः। स शीघ्रगतिरित्युक्तो वाजी धन्यस्तपोधनैः। दशहीना भवन्त्येते मध्यमाधमगा हयाः।

अथ वर्ण्णभेदेन नामभेदः “श्वेतः कोकाह इत्युक्तः कृष्णः खुग ह उच्यते। पीतको हरितः प्रोक्तः कषायो रक्तकः स्मृतः। पक्कतालनिभो वाजी कयाहः परिकीर्त्तितः। पीयूषवर्णः सेराहो गर्दभाभः सुरूहकः। नीलो नीलक एवाश्वः त्रिपूहः कपिलः स्मृतः। शिलहः कपिशो वाजी पाण्डुकेशः सुबालधिः। हलाहश्चित्रकश्चत्रिपुलाहः श्वेतपीतकः। ईषत्पीतः कुलाहस्तु यो भवेत् कृष्णजानुकः। कृष्णा चास्ये भवेद्रेखा पृष्ठवंशानुगामिनी। उराहः कृष्णजानुस्तु मनाक्पाण्डुस्तु यो भवेत्। वेरुहाणः स्मृतो वाजी पाटलो यः प्रकीर्त्तितः। रक्तपीतकषायोत्थो वर्णजो यस्य दृश्यते। दुकुलाहःस विख्यातो वर्णो वाहस्य देहजः। पूंर्वोक्तानां च वर्ण्णानां मुखपुण्ड्रेण वाजिनाम्। ये भवन्ति परे भेदास्तान् ब्रवीम्यनुपुर्वगः। कोकाहः पुण्ड्रिको नाखः कोकुराहः प्रकीर्त्तितः। खुराहखरगाहौ च हरिकोहरिराहिकः। कलाहश्चैव वोल्लाहः सिराहः सिहुराहकः। कुलाहः कुलुराहस्तु सराहः शुभराहकः। चारुराहो जयेदश्वो वोरुराहो न यः स्मृतः। कुलीही दुरुणाहस्तु युद्धके नैव कोर्त्तितः। त्रिपुहस्त्रिपुक्षाहश्च युद्धके नैवकीर्त्तितः। त्रिपुहस्त्रिपुलाहश्च चित्रलाङ्गश्च यो भवेत्”।

अथ रोमवर्ण्णभेदेन शुभाश्रुभलक्षणम्। “यस्य गौराणि पीतानि गात्ररोमाणि वाजिनः। स भर्त्तुः श्रिवमाधत्ते यस्य शुक्लासितानि च। यस्य पादाः सिताः सर्वे पुच्छं वक्षो मुखं तथा। ऊर्द्ध्वजङ्घा सिता यस्य त विद्यादष्टमङ्गलम्। प्रभूतासितताराश्च प्रशस्ता मुनिभिः स्मृताः। यस्तु पीतासितैस्तारैः स घन्यः कीर्त्तितो हयः। प्रशस्तः कृष्णतारस्तु मल्लिकाक्षः प्रकीर्त्तितः। श्वेतजावेष्टितं कृष्ण रेखया तारकं च यत्। मल्लिकाक्षः सविज्ञेयः स्वामिनः सुखवर्द्धनः। सिततयाऽप्रशस्तश्च स्वामिनः क्लेशवर्द्धनः। सर्वश्वेतश्च कृष्णश्च रक्तपीतस्तथैव च। एते सांग्रामिकाः प्रोक्तास्तुरगा मुनिसत्तमैः। हरिताः किल जायन्ते वाजिनः पुण्यदर्शनाः। यतो हिता नरेन्द्राणामायुरारो ग्यश्रीप्रदाः। रक्तास्यमेहनः शस्तः श्यामकर्ण्णस्तु यः सितः। कपोतेन च वर्णेन योहयः शुक्लकेशरः। शुक्लपादमुखो वाजी प्रशस्तः परिकीर्त्तितः। चतुर्णां चैव पादानां शुक्लता यस्य वाजिनः। मुखं सिततरं चैव पञ्चभद्रः स उच्यते। श्वेतमण्डलचित्रश्च भर्त्तुः सर्वार्थसाधकः। पाण्डुरा यस्य रेखा स्यात् पृष्ठवंशानुगामिनी श्वेतकृष्णशिरा यश्च नैव धन्यः प्रकीर्त्तितः। अन्यवर्णं शिरो यस्य पुच्छ वा यस्य वाजिनः। पुच्छेन शिरसा वापि नानावर्णेन निन्दितः। अव्यक्तवर्णो योवाहस्तथा तित्तिरिसन्निभः। कुत्सितो वानराक्षश्च यीवा व्याघ्रावलीढकः”

तथाङ्गविकृतितोऽशुभलक्षणम्। “काकुदी कृष्णजिह्वश्च कृष्णसेफाण्डतालुकः कराली हीनदन्तश्च शृङ्गी वाधिकदन्तकः। एकाण्डश्चैव जाताण्डः कञ्चुकी त्रिसरी तथा। मार्ज्जारपादो व्याघ्राभस्त्रिकंर्णी द्विखुरी स्तनी। यमयो वामनश्चैव काकतित्तिरसंनिभः। वानराक्षो विडालाक्षो मुशली चेन्द्रवृद्धिकः। येषां पृष्ठे हतो भर्त्ताऽ जातदन्तस्तथैव च। एते दोषान्विता वाहास्त्याज्या वै भूतिमिच्छता। धनप्राणहराह्येते बन्धुविग्रहकारकाः। एषां चिह्नं प्रवक्ष्यामि येन जानन्ति सादिनः। पूर्ब्बशास्त्रानुसारेण मुनीनां वचनं यथा। आवर्त्ता यत्र ककुदे काकुदी स उदाहृतः। करालैर्वाधरे दन्तैर्ज्जायते यस्य चोत्तरम् चतुर्भिः पञ्चभिश्चैव हीनदन्तः प्रकीर्त्तित्लः। सप्तमिश्चाष्टभिर्दन्तै र्ज्जातश्चाधिकदन्तकः। अङ्गुष्ठपर्वसंकाशं छागशृङ्गोपमन्तथा। जम्बूवदररूपं च तथा चामलकोपमम्। आम्रास्थिसदृशं चापि हरीतक्याः फलोपमम्। दग्धचर्म्मनिभं चापि बालं संस्थानमेव च। कालङ्कर्णान्तरे यस्य केशान्ते चापि दृश्यते। धोरेयः सर्वपापानां वाहः शृङ्गी स कीर्त्तितः। एवंविधेन शृङ्गेण शृङ्गी राष्ट्रे न वासयेत्। एकतोलप्रमाणेन मुष्केणैकाण्डसंज्ञकः। अत्यन्तरोमशाभ्यां तु ताभ्यां जाताण्ड उच्यते। स्कन्धे वक्षसि बाह्वोश्च अंसदेशे तथैव च। अन्य वर्णो भवेद्वाजी कञ्चुकी स प्रकीर्त्तितः। यस्यान्यवर्णा रेखा स्यात्पादे कूर्च्चे च वाजिनः। मार्ज्जारपादः प्रोक्तो-ऽसौ सोऽधन्यः कुलनाशनः। अन्यवर्णस्य वाहस्य शिरः कृष्णं यदा भवेत्। त्रिसरी नाम स प्रोक्तो भर्त्तुः कुलविनाशनः। द्विखुरं गोखुराकारखुरैर्विद्याद्विचक्षणः। अथ वा त्रिबलियुक्तै र्निम्नमध्यैश्च निर्दिशेत्। वृषणाभ्यां सुजाताभ्यां स्तनाभ्यां विहिता स्तनी। त्रिभिः कर्णैस्त्रिकर्णी च व्याघ्राभो व्याघ्रवर्णकः। एकेनाङ्गेन हीनेन निम्नेन च विशेषतः। यमयं वाजिनं विद्याद्वामनं वामनाकृतिम्। वर्णादेकेन पादेन अन्यवर्णेन यी हयः। मुसलीति स विख्यातो भर्त्तुः कुलविनाशनः। विरोधं नैव यो याति दृष्ट्वाश्वान् मुष्कवर्जितः। इन्द्रवृद्धिः स विख्यातो भर्त्तुः कुलविनाशनः। अथ चेद्बडवां दृष्ट्वा विरोधमधिगच्छति। निगूढ वृषणाख्यस्तु स धन्यः सर्वकामदः। द्विवर्षं तु समारभ्य यावद्वा पञ्चवार्षिकः। दन्तानां मुषकयोश्चैव सम्भवो वाजिनः स्मृतः। अत ऊर्द्ध्वं न जायन्ते मुष्कौ दन्ताश्च वाजिनः। अशुभं तु फलं वाच्यमभावे न ततस्तथा”।

अथाश्वाङ्गचेष्टादिशुभाशुभम्। अतःपरं प्रवक्ष्यामि तुरगाणां विभागतः ज्वलितेन यथाङ्गेन फलं वाच्यं शुभाशुभम्। यदा ज्वलति वाहानां सर्व्वगात्रे हुताशनः। तदा विद्यादनावृष्टिमव्दमेकं न संशयः। अन्तःपुरविनाशस्तु मेहनेज्वलिते भवेत्। उदरे वित्तनाशस्तु पायौ पुच्छे पराजयः। उत्तमाङ्गे च वक्त्रे च स्कन्धे चैवासने तथा। भर्त्तुर्जयाय वाहानां ज्वलनं यत्र नेत्रके। धूमं ललाटे बाह्वोश्च तथा वक्षसि निन्दितम्। तत्रैव ज्वलनं शस्तं तथा नासासमुद्भवः। यदा व्याधिं विना वाजी ग्रासं त्यजति दुर्म्मनाः। अश्रुपातं च कुरुते तदा भर्त्तुरशोभनम्। स्वयमेव यदा वक्त्रं हृष्टो लोकयते हयः। रवङ्कायप्रदाने तु तदा विद्याज्जयं प्रभोः। सर्वैदेव शिरोघ्नस्तु सर्वेषां नैव पूजितः। वामपादाभिघातस्तु प्रभीर्यात्रानिषेधकः। स्वामिनारूढमात्रेण दक्षिणं पार्श्वमात्मनः। तुरङ्गमो यदा न्यस्येत्तदा भर्त्तुर्जयो भवेत्। पुच्छं वाहं यदा वाहो वामतो विकिरेद्यदा। तदा भर्त्तुः प्रवासः स्यात् दक्षिणे विजयस्तया। प्रकिरन्ति यदात्यर्थं सर्व पुच्छ्वं तुरङ्गमाः। अकस्मादेव जाता च तेषां भीतिः प्रभोःस्मृता”।

अथाश्वमानम् “हस्तोऽङ्गुलानां विंशत्या चतुरुत्तरया स्मृतः। चतुर्हस्तस्तु विख्यातः शास्त्रोक्तेनोत्तमो हयः। अर्द्धहस्तेन हीनस्तु भवेन्मध्यस्तुरङ्गमः। मुष्टिन्यूनेन हस्तेन हीनश्चाप्यधमः स्मृतः। ऊर्द्ध्वमानप्रमाणं तु परिणाहं विनिर्दिशेत्। उत्तमानाञ्च मध्यानां होनानां चैव वाजिनाम्। अर्द्धसप्तमहस्तं तु श्रेष्ठं दैर्व्येण निर्दिशेत्। षड्भिश्च मुष्टिभिहीर्नं मध्यमं च विचक्षणः। पञ्चहस्तप्रमाणस्तु जघन्यः समुदाहृतः। द्वात्रिंशदङ्गुलं वक्त्रमुत्तमाश्वस्य कीर्त्तितम्। पृष्ठं वक्षः कटीं चैव मुखतुल्यं समादिशेत्। अङ्गुलीद्वयहीनं तु मुखादि मध्यमाधमम्। निर्दिशेन्मतिमान्वैद्यः वाजिशास्त्रविशारदः। सप्ताङ्गुलं खुरं चैव उत्तमाश्वस्य कीर्त्तितम्। षडङ्गुलं भवेन्मध्येजघन्ये चतुरङ्गुलम्। षोडशाङ्गुलदीर्घा तु जङ्घा चैवोत्तमे हये। चतुर्दशाङ्गुला मध्ये हीने च द्वादशाङ्गुला। एवंविधं प्रमाणं तु निर्दिष्टं शास्त्रशालिभिः। अपाङ्गात् पुच्छमूलं तु दैर्व्येणाश्वं प्रमाणयेत्। खुरान्तात् ककुदं यावदूर्द्धमानेन बुद्धिमान्। वक्षोभागे तु सर्बेभ्यो रज्ज्वा वा सूत्रकेण च। परिणाहं तुरङ्गस्य मापयेन्मतिमान्भिषक्। एवं प्रमाणभागेन विभक्ताङ्गश्च पूजितः। अतो हीनाधिकाङ्गाश्च हरयो नैव पूजिताः”। आवर्त्तादिकं विशेषयति हेमा० प० ख० ज्योति० पराशरसंहिता। “आवर्त्तो बहिर्मुखवृत्तमण्डलरोमा, दीर्घवृत्तार्द्धरोमा शुक्तिः। कनकमन्तर्मुखवृत्तरोमसंघातं, प्रफुल्लविकचरोम पुष्परमिति”। पुष्पं विशेषयति तत्रैव। “श्वेतं स्निग्धमन्यवर्ण्णस्थ प्रशस्तंश्वेतस्य कृष्णं पीतं रूक्षंरक्तं वा। यस्यान्यवर्णं ललाटे श्वेतं बालेन्दुतारकसंस्थानं वा पुष्पम्”।

अयाश्वायुर्लक्षणम् “आयुर्लक्षणमश्वानामतऊर्द्ध्वं प्रवक्ष्यते। शालिहोत्रादिनिर्दिष्टं यथा पूर्ब्बं तपोधनैः। सुसंहताश्च ये वाहा ह्रस्वकर्णास्तथैव च। स्वरनेत्रस्वभावेषु न दीनाश्चिरजीविनः। महाघोणा महाकायाये चाश्वाः पृथुवक्षसः। तेषां दीर्घं भवेदायुः स्निग्धाङ्गाश्चैव ये सदा। कर्णाग्रे पीडिते येषां सिन्दूराभस्य दर्शनम्। शोणितस्य भवेत् क्षिप्रं ते मताश्चिरजीविनः। न विष्किरन्ति ये बालं खपासाय तुरङ्गमाः। न वा जिघ्रन्ति ये चापि तेऽपि दीर्घायुषो मताः। कुष्टिकानां किणा येषां दृश्यन्ते वाजिनां स्फुटाः। प्रतिस्रोतः पिब न्त्यम्भो ये च ते दीर्घजीविनः। पद्मपत्रदलाकारं जिह्वाग्रं यदि वाजिनः। दन्ताश्च मौक्तिकाकारा लिङ्गं येषां च निर्मलम्। सीत्कारं च भवेद्येषां लाङ्गूले चालनं पुनः। प्रस्वेदः शुभगन्धस्तु नखा वा दर्पणोपमाः। येषां च दृढरोमाणि ते सर्वे चिरजीविनः। स्निग्धा गम्भीरदीर्घाश्च प्रोथगा यस्य वाजिनः। भवन्ति विपुला रेखास्तं विद्याद्दीर्घजीविनम्। छत्रचामरशृङ्गारखड्गशङ्खाङ्गुशानिभाः। शुक्तिवज्रगदाकारा ध्वजपद्मसमोपमाः। श्रीवृक्षस्वस्तिकाभासाः प्रोथरेखाश्चिरायुषाम्। ऊर्द्ध्वं प्रोथोत्थिता रेखा यस्यवामेन चानता। ह्रस्वा वा यस्य वाहस्य न चिरं तस्य जीवितम्। ऊर्द्ध्वं प्रोथसमा रेखा दृश्यते यस्य वाजिनः। तस्य मृत्युः समुद्दिष्टो दशमं प्राप्य वत्सरम्। त्र्यङ्गुला चेद् दश द्वे च वर्षाणां तस्य जीवितम्। त्रयोदशाव्दं स जीवेद्यस्यास्ये चतुरङ्गुले। तिर्यग्गे चोर्द्धगे स्यातां द्वे रेखे चैव वाजिनः। प्रोथगे वाथ वाहस्य तस्य विद्याच्चतुर्द्दश। दक्षिणेन च पार्श्वेन यः शेते सर्वदा हयः। बहुमूत्रोऽल्पमूत्रश्च चिरं जीवति नो हयः। विनतः पूर्ब्बकायेन स्थूलजानुश्च योहयः। शूनाक्षिकूटस्तब्धाक्षः स्वल्पायुः स प्रकीर्त्तितः। जातन्दन्तद्वयं बाल्ये पतत्यव्दे तृतीयके। चतुरो दशनान् विद्याच्चतुर्थे पतितोत्थितान्। पञ्चमे पतितोद्भूतान् षट् च दन्तान् मनीषिणः। षष्ठाव्देषु च वर्षेषु कालिकादिसमुद्भवः। कालिका हरिणी शुक्ला कृष्णा काचा समक्षिका। शङ्खा चैव क्रमेणाश्ववयसः परिसूचिकाः। वक्त्रान्ते कालिका रेखा कृष्णा दन्ताग्रसंस्थिता। षष्ठे च सप्तमे वर्षे चाष्टमे च भवेत् क्रमात्। आपीता हरिणी ज्ञेया कालिका स्थानमाश्रिता। नवमे दशमे वर्षे भवेदेकादशे तथा। कृष्णा चैव भवेच्छुक्ता दन्ते मूर्द्ध्नि समुद्भवा। द्वादशाव्दं समारभ्य भवेद्यावच्चतुर्द्दशम्। सिता सिद्धार्थकाकारा काचेति परिकीर्त्तिता। पञ्चदशाव्दमारभ्य यावत्सप्तदशादितः। मक्षिका मक्षिकांकारा भवेदष्टादशादिषु। विंशत्यन्तेषु वर्षेषु वाजिनां दशनोद्भवा। त्रयोविंशावसानेषु एकविंशादिषु त्रिषु। शङ्खाकारा भवेच्छङ्खा प्रयुक्तस्थानमाश्रिता। छिद्रं च चलनं चैव तथा पातश्च षष्टितः”। “अतिबद्धाः कषायाश्च तनवश्चेति तत्त्रयः। ते भवन्ति द्विवर्षस्य युक्ताश्चैव द्विजन्मना। ईषच्च शिरसः सूक्ष्मा भवेच्च पतितोत्थिता। खल्लाग्रा विपुला दन्ता भवन्ति पतितोत्थिताः। खल्लभागे विनापूर्णे व्यञ्जनानां न सम्भवः। पूर्णेषु खल्लभागेषु जायन्ते कालिकादयः। निम्नं कृष्णं च दन्ताग्रं खल्लमित्यभि धीयते। पूर्णतां चास्य जानीयात् षष्ठप्रभृतिवत्सरे। खल्लेषु कालिकाऽऽयाति नैव कार्य्या विचारणा। नियता कालिका रेखा सुपूर्णे दन्तमस्तके। द्वयोर्भवति षष्ठे द्वे चतुर्णां सप्तमे तथा। खल्लमष्टसु वर्षेषु दन्तानां कालिका क्रमात्। कालिकानुक्रमेणैव हरिण्यादिषु बुद्धिमान्। द्वौ द्वौ वर्षेण जानीयाद्वाजिनां व्यञ्जनं प्रति”। देशभेदजाश्वलक्ष्म “अश्वानां जन्मदेशांस्तु प्रवक्ष्याम्यनुपूर्व्वशः। उत्तमानां च मध्यानां हीनानां चैव संमतान्। उत्तमास्त्वधिकाः प्रोक्तास्तथापारसिकाश्च ये। कोङ्कणाश्चैव ये वाहा पृष्ठजा ये च कीर्त्तिताः। उरौजाताश्च कीराश्च तुरुष्का माण्डवाश्च ये। पार्ब्बताः सैन्धवा मध्या स्तथा सारस्वता हयाः। संभलाश्चाष्टलाश्चैव जटादेशोद्भवाश्च ये। अधमाष्टङ्कणैः सार्द्धंये च प्राग्दक्षिणोद्भवाः। वृत्तदीर्घाञ्चितग्रीवाह्रस्वकर्णा महाहयाः। महाकाया महोरस्का निस्त्रासास्तेऽधिका मताः। अत्यन्तं विनतं येषां निर्म्मासं च मुखं भवेत्। पीनेन कटिदेशेन मुखराश्च भवन्ति ते। अध्वन्याश्च महासाराः संग्रामे चैव पूजिताः। अपि शस्त्रहताङ्गश्च नैव मुञ्चति सादिनम्। पारसीकोऽधिकस्तस्मात् कोङ्कणाः किञ्चिदूनकाः। स्थूलाः स्थूलशारीराश्च प्रस्थाने दीर्घपृष्ठकाः। कोङ्कणदेशजातानां मध्यमानां च वाजिनाम्। नाधिकैः सदृशं वक्त्रं बाहुल्येन विनिर्देशेत्। सुवृत्तदेहतीक्ष्णश्च स्वप्रमाणेन मध्यमः। उरुजातः समुद्दिष्टः किञ्चित्स्थूलो मनाग्जवः। अतिस्थूलोऽतितीक्ष्णश्च ह्रस्वग्रीवोरुकस्तथा। तुरुष्कः कीर्त्तितो वाजी स्थूलवक्रमुखश्च यः। कोङ्कणाकारदेहस्तु भवेन्माण्डविको हयः। शान्त्या चैव प्रसाणेन केवलं नैव तत्समः। सिब्धुदेशोद्भवो वाजी पृष्ठजश्चारुकोरुकः। आननं चापि दीर्घं च तस्य पृष्ठं प्रकीर्त्तितम्। शान्त्या चैव जवेनापि रणशूरस्त्वयंमतः। सादिभक्त्येच्छया यातिताजिकादधिकस्तथा। परिमण्डलदेहास्तु तीक्ष्णकर्ण्णमुखा हयाः। पृष्ठदेशोद्भवा दृष्टास्तथा सारस्वताश्च ये। लम्बकर्ण जटश्चैव आष्टलः परिकीर्त्तितः। सम्भलः श्लिष्टजानुश्च पदा पश्चाद्बलोपमः। वर्त्तुलाश्चापि ह्रस्वाश्च टङ्कणाः परिकीर्त्तिताः। दाक्षिणात्यो भवेत्कुण्ठो योऽधन्यः सर्ववाजिनाम्। जवहीना महादुष्टा पूर्ब्बदेशसमुद्भवाः। वाजिवद्देश जानांच वेशं विद्याद्विचक्षणः”।

अथाश्वानां विप्रादिजातिः “साम्येन जायते जाति र्ज्जातिरूपेण वाहयेत्। साम प्रदानं दण्डं च त्रिविधं विनियोजयेत्। त्रासी लुब्धोदयालुश्च विप्रः स परिकीर्त्तितः। शूरश्च दृढमन्युश्च क्षत्रियस्तुरगः स्मृतः। पापिनः कल्परूपाश्च दुष्टाः वैश्याः प्रकीर्न्तिताः। विरूपा विषमाश्चैव शूद्राश्चण्डा उदाहृताः। ब्राह्मणान् शक्तिदानेन साम्ना चैव तु क्षत्रियान्। वैश्यान् दण्डेन शब्देन शूद्रान् दण्डेन वाहयेत्”।

अथ भद्रजात्यादि हेमा० प० ख०। “युद्धेऽध्वनि तथाग्तौ च समः पीडां नियच्छति। योवा व्रजति शीघ्रंच येन केनचिदासितः। धृतिं गच्छति सर्वत्र भद्रजातिस्तुरङ्गभः। मङ्गल्यो लक्षणैर्युक्तः किञ्चित्त्वेव विगर्हितः। शीघ्रं गृह्णाति शिक्षां च क्षिप्रं च प्रतिमुञ्चति १। रात्रौ स्वपिति न तथाह्न्युपविष्टस्तुरङ्गमः। तुरङ्गमाणां क्रोधीव कामी चेर्षालुरेव च। आदौ शूरस्ततः पश्चाद्भीतत्वमुपगच्छति। न केनापि प्रकारेण चिरं पालयते तु यः। एवविवस्तु विज्ञेयो मन्दजातिस्तुरङ्गमः २। ईर्ष्यी भीतस्तथा त्रासी तथा सर्वत्र शङ्कितः। प्रसार्य्य गात्रं सकलं दिवा वा यदि वा निशि। सततं जातनिद्रोऽन्यान् वाधते च तुरङ्गमान्। न च वेत्ति प्रकरांश्च म्नानिं शीघ्रं च गच्छति। न च तुष्टिं समाप्नोति मृगजातिस्तुरङ्गमः ३। मिश्रैर्गुणैः स्यान्मिश्राख्यस्तथैव बडवा गुणैः ४। भद्रः श्रेष्ठोहयोज्ञेयो जातिरेषातु वाजिनाम्। मिश्रोमिश्राधिकोज्ञेयोगुणदोषैः समासतः”। वर्णभेदेन अन्या अपि संज्ञाः शालिहोत्रे दर्शिता विस्तरभयान्नोक्तास्ततएवावसेयाः।

वृहत्संहितायां लक्षणादि समासेनोक्तम् “दीर्घग्रीवाक्षिकूटस्त्रिकहृदयपृथुस्ताम्रताल्वोष्ठजिह्वः सूक्ष्मत्वक्केशबालः सुशफगतिमुखो ह्रस्वकर्णोष्ठपुच्छः। जङ्घाजानूरुवृत्तः समसितदशनश्चारुसंस्थानरूपो वाजी स र्वाङ्गशुद्धो भवति नरपतेः शत्रुनाशाय नित्यम्। अश्रुपातहनुगण्डहृद्गलप्रोथशङ्खकटिवस्तिजानुनि। मुष्कनाभिककुदे तथा गुदे सव्यकुक्षिचरणेषु चाशुभाः। ये प्रपाणगलकर्णसंस्थिताः पृष्ठमध्यनयनोपरि स्थिताः। ओष्ठसक्थिभुजकुक्षिपार्श्वगास्ते ललाटसहिताः सुशोभनाः। तेषां प्रपाण एको ललाटकेशेषु च ध्रुवावर्त्तः। रन्ध्रोपरन्ध्रमूर्धनि वक्षसि चेति स्मृतौ द्वौ द्वौ। षड्भिर्दन्तैः सिताभैर्भवति हयशिशुस्तैः कषायैर्द्विवर्षः सन्दंशैर्मध्यमान्त्यैः पतितसमुदितैस्त्र्य व्दपञ्चाव्दिकोऽश्वः। सन्दंशानुक्रमेण त्रिकपरिगणिताः कालिका पीतशुक्लाः काचा माक्षीकशङ्खाअथ चलनमतो दन्तपातं च विद्धि”। अश्नाति सर्वम् अशक्रन्। ३ अग्निविशेषे। अश्नुते व्याप्नोति। ४ व्यापके त्रि० अश्वपर्ण्णशब्दे उदाहरणम्। “विष्णोरश्वस्य वाजिनम्” ता० ब्रा०। ५ यदुवंश्यचित्रकस्य पुत्रभेदेऽश्वबाहुशब्दे विवृतिः। गोत्रापत्ये अश्वा० फञ्। आश्वायनः तद्गोत्रापत्ये पुंस्त्री०। चतुरर्थ्यां कुमुदा० ठक्। आश्विकः वाजिसन्निकृष्टदेशादौ त्रि०। अश्वेन चरति पर्पा० ष्ठन् अश्विकः अश्वेन चारिणि त्रि० स्त्रियां ङीप्। कस्यायमश्वः अज्ञाते क। अज्ञातस्वामिके अश्वे। कुत्सितोऽश्वः क। अश्वकः। कुत्सितेऽश्वे अश्व इव संज्ञायां कन् अश्वसदृशसंज्ञावति पु०। अश्व इव प्रकृतिकृतौ कन्। अश्वप्रतिकृतौ। अश्वानां समूहः छ यच्च अश्वीयम् अश्व्यञ्च घोटकसमूहे न०। एतदन्तस्य पादस्य बहुव्रीहौ हस्त्यादि० नान्त्यलोपः अश्वस्य पादाइव पादावस्य अश्वपाद इत्येव। जातित्वेऽपि अजा० स्त्रियां टाप्। अश्वा अश्वजातिस्त्रियाम् “अश्वे इव विषिते हासमाने” ऋ० ३, ३३, १,।

अश्वकन्दा = स्त्री अश्वस्य मेढ्रमिव कन्दोमूलमस्याः। अश्वगन्धाख्यवृक्षे। वा कप् अश्वकन्दिकाप्यत्र।

अश्वकर्ण्ण = पु० अश्वस्य कर्णैव पत्रमस्य। १ स्वनामख्याते साल वृक्षे। “पूतिकाश्वकर्ण्णागुरुणि कालेयकल्के, सुश्रु० स्वार्थे कन्। अश्वकर्णकोऽप्यत्र। ६ त०। २ अश्वस्य कर्ण्णे।

अश्वखरज = पु० अश्वश्च खरी च, अश्वा च खरश्च वा ताभ्यां जायते पुंवद्भावः। खचरे घोटकभेदे। खराश्वजोऽप्यत्र।

अश्वखुर = पु० अश्वस्य खुरमिवाकृतिरस्य। (नखीति) ख्याते १ गन्धद्रव्ये। २ अपराजितायाम् स्त्री।

अश्वकिनी = स्त्री अश्वस्य कं मुखं तत् सदृशाकारोऽस्त्यस्य इनि ङीप्। अश्विनीनक्षत्रे तस्याः श्रीपत्युक्त्या तुरगशीर्षा कारतायाः अश्लेषाशब्दे ४८० पृष्ठे उक्तत्वात्तथात्वम्।

अश्वक्रन्द = पु० देवसेनापतिभेदे “अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट्” भा० आ० प० अमृताहरणे देवगरुडयुद्धवर्णने।

अश्वगन्धा = स्त्री अश्वस्य गन्ध एकदेशोमेढ्रमिव मूलमस्याः। वराहकर्णतुल्यपत्रे स्वनामख्याते क्षुद्रवृक्षभेदे। “गन्धान्तो वाजिनामादिरश्वगन्धा हयाह्वया। वराहकर्ण्णी वरदाऽवरोहा कुष्ठघातिनी। अश्वगन्धानिलश्लेष्मपित्तशोथक्षयापहा। वल्या रसायनी तिक्ता कषायोष्णातिपिच्छला” भा० प्र० उक्तेः हयादिकगन्धान्तनामिका हयनामिका च “यवाश्वगन्धायष्ट्याह्वैस्तिलैश्चोद्वर्त्तनम् हितम्”। “शतावर्य्यश्वगन्धाभ्यां वायस्येरण्डजीवनैः” इति च सुश्रु०।

अश्वगन्धातैल = न० चक्रदत्तोक्ते तैलभेदे यथा “भल्लातकवृहतीफलदाडिमफलकल्कसाधितं कुरुते। लिङ्गं मर्दनविधिनाकटुतैलं वाजिलिङ्गाभम्।। कनकरसमसृणवर्त्तितहयगन्धामूलविश्वपर्य्युषितम्। माहिषमिह नवनीतं गतवीजे कनकफलमध्ये।। गोमयगाढोद्वर्त्तितं पूर्ब्बं पश्चादनेन संलिप्तम्। भवति हयलिङ्गसदृशं लिङ्गं कठिनादयि- तम्। अश्वगन्धावरीकुष्ठमांसीसिंहीफलान्वितम्। चतुर्गुणेन दुग्धेन तिलतैलं विपाचयेत्। स्तनलिङ्गकर्णपालिवर्द्धनंम्रक्षणादिदम्”।

अश्वगोयुग = न० अश्व + द्वित्वे गोयुगच्। अश्वयुग्मे।

अश्वगोष्ठ = न० अश्वानां स्थानं पशुनामत्वात् स्थानार्थे गोष्ठच्। अश्यस्थाने वाजिशालायाम् विवरणमश्वशालाशब्दे।

अश्वग्रीव = पु० अश्वस्य ग्रीवेव ग्रीवाऽस्य। दानवभेदे “चत्वारिंशद्दनोः पुत्रा” इत्युपक्रम्य। “अश्वग्रीवश्च सूक्ष्मश्च तुहण्डश्च महाबलः” भा० आ० प०। स एवांशावतारे रोचमान नृपतिरमूत् यथोक्तं तत्रैव। “अश्वग्रीव इति ख्यातः सत्ववान् यो महासुरः। रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः”। २ विष्णोरवतारभेदे हयग्रीवे अश्वशिरःशब्दे विवृतिः। यदुवंश्यवित्रकस्य पुत्रभेदे अश्वबाहुशब्दे विवृतिः।

अश्वघ्न = पु० अश्वं हन्ति अमनुष्यकर्त्तृकत्वात् हन–टक् उप० स०। करवीरे तस्य अश्वनाशकतया तथात्वम्।

अश्वचक्र = न० ६ त०। १ अश्वसमूहे २ अश्वाकारे नरपतिजय चर्य्योक्ते चक्रभेदे विवरणम् चक्रशब्दे। जाम्बवतीतनयेन कृष्णात्मजेन हते ३ शम्बरदैत्यसेनापतिभेदे पु० “वृत्तोरुरत्यायतपीनवाहुरेतेन संख्ये निहतोऽश्वचक्रः। को नाम शाम्बस्य महारथस्य रणे समक्षं रथमभ्युदीयात्” भा० व० प०।

अश्वचिकित्सक = पु० अश्वानां चिकित्सकः। अश्वानां रोगनिवारकेऽश्व वैद्ये चिकित्साविधिश्च जयदत्तकृतेऽश्वशास्त्रे दृश्यः।

अश्वचिकित्सा = स्त्री ६ त० अश्वरोगनिवारणोपाये सा च जयदत्तकृतेऽश्वशास्त्रे दृश्या।

अश्वचेष्टित = न० ६ त० १ वाजिचेष्टिते २ शुभाशुभसूचके शकुनभेदे च तद्विवृतिः वृ० स० यथा” उत्सर्गान्न शुभदमासनोपरिस्थं वामे च ज्वलनमतोऽपरं प्रशस्तम्। सर्वाङ्गज्वलनमवृष्टिटं हयानां द्वे वर्षे, दहनकणाश्च धूपनं वा। अन्तःपुरं नाशमुपैति मेढ्रे कोशः क्षयं यात्युदरे प्रदीप्ते। पायौ च पुच्छे च पराजयः स्याद् वक्त्रोत्तमाङ्गज्वलने जयश्च। स्कन्धास नांसज्वलनं जयाय बन्धाय पादज्वलनं प्रदिष्टम्। ललाटवक्षोऽक्षिभुजेषु धूमः पराभवाय ज्वलनं जयाय। नासापुटप्रोथशिरोऽश्रुपातनेत्रेषु रात्रौ ज्वलनं जयाय। पालाशताम्रासितकर्बुराणां नित्यं शुकाभस्य सितस्य चेष्टम्। प्रद्वेषो यवसाम्भसां प्रपतनं स्वेदो निमित्ताद्विना कम्पो वा वदनाच्च रक्तपतनं धूमस्य वा सम्भवः। अस्वप्नश्च विरोधिता निशि दिवा निद्रालसध्यानता सादोऽधोमुखता विचेष्टितमिदं नेष्टं स्मृतं वाजिनाम्। आरोहणमन्यवाजिनां पर्य्याणादियुतस्य वाजिनः। उपवाह्यतुरङ्गमस्य वाऽविकलस्यैव विपन्न शोभना। क्रौञ्चवद्रिपुबधाय हेषितं ग्रीवया त्वचलया च सोन्मुखम्। स्निग्धमुच्चमनुनादि हृष्टवद् ग्रासरुद्धवदनैश्च वाजिभिः। पूर्णपात्रदधिविप्रदेवता गन्धपुष्पफलकाञ्चनादि वा। द्रव्यमिष्टमथ वापरं भवेद्धेषतां यदि समीपतो जयः। भक्ष्यपानसलिलाभिनन्दिनः पत्युरौपयिकनन्दिनोऽथवा। सव्यपार्श्वगतदृष्टयोऽथवा वाञ्छितार्थफलदास्तुरङ्गमाः। वामैश्च पादैरभिताडयन्तो महीं प्रवासाय भवन्ति भर्तुः। सन्ध्यासु दीप्तामवलोकयन्तो हेषन्ति चेद्बन्धपराजयाय। अतीव हेषन्ति किरन्ति बालान् निद्रारताश्च प्रवदन्ति यात्राम्। रोमत्यजो दीनखरस्वराश्च पांशून् ग्रसन्तश्च भयाय दृष्टाः। समुद्गवद्दक्षिणपार्श्वशायिनः पदं समुत्क्षिप्य च दक्षिणं स्थिताः। जयाय शेषेष्वपि वाहनेष्विदं फलं यथासम्भवमादिशेद्बुधः। आरोहति क्षितिपतौ विनयोपपन्नो यात्रानुगोऽन्यतुरगं प्रति हेषते च। वक्त्रेण वा स्पृशति दक्षिणमात्मपार्श्वं योऽश्वः स भर्त्तुरचिरात्प्रचिनोति लक्ष्मीम्। मुहुर्मुहुर्मूत्रशकृत् करोति न ताड्यमानोऽप्यनुलोमयायी। अकार्य्यभीतोऽश्रुविलोचनश्च शुभं न भर्त्तुस्तुरगोऽभिधत्ते”।

अश्वतर = पु० तनुरश्वः अश्व + तनुत्वे ष्टरच्। अश्वायामश्वेनोत्पन्नत्वेऽश्वत्वं तस्य तनुत्वञ्चान्यपितृकत्वे। १ गर्द्दभेनाश्वायामु त्पन्ने १ खचरेऽश्वविशेषे” २ सर्पभेदे च। जातित्वेन स्त्रियामुभयत्र ङीप्। “जानश्रुतिः पौत्रायणः षट् शतानि गवां निष्कमश्वतरीरथः” इति छा० उ०। दण्डेनोपपनतं शत्रुमनुगृह्णाति योनरः। स मृत्युमुपगृह्णीयाद्गर्भमश्वतरी यथा” मनुः। “बहुत्वान्नामधेयानि पन्नगानां तपोधन! न कीर्त्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु। शेषः प्रथमतोजातो वासुकिस्तदनन्तरम्” इत्युपक्रम्य “कम्बलाश्वतरौ चापि नागःकालीयकस्तथा” भा० आ० प०। अयञ्च वरुणलोकेस्थितः” भा० स० प० वरुणसभावर्णने “कम्बलाश्वतरौ नागौधृतराष्ट्रवलाहकौ” ३ गन्धर्वभेदे। “तद्यथैवादोधावयतोऽश्वो वा अश्वतरो वा गदायेत” शत० ब्रा०।

अश्वत्थ = पु० न श्वश्चिरं शाल्मलिवृक्षादिवत् तिष्ठति स्था–क पृ० नि०। १ स्वनामख्याते वृक्षे, “बोधिद्रुः पिप्पलोऽश्वत्थश्चल पत्रोगजाशनः। पिप्पलो दुर्जरःशीतः पित्तश्लेष्मव्रणास्रजित्। गुरुस्तुवरकीरूक्षोबल्योयोनिविशोधनः” भा० प्र०। “अश्वत्थः सर्ववृक्षाणाम् गीता” तस्य विष्णुरूपित्वेन सर्व्वामङ्गलनाशकत्वम् अश्वत्थोत्पत्तिः “पार्वतीशिवयोर्देवैः सुरतं कुर्वतोः किल। अग्निं ब्राह्मणवेशेन प्रेष्य विघ्नं कृतं पुरा। शशाप पार्वती क्रुद्धा सर्वानेव दिवौकसः” इस्युपक्रम्य “तस्मान्मम सुखभ्रंशात् यूयं वृक्षत्वमाप्स्यथ” पार्वतीशापमुक्त्वा “तस्माद्वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः। तस्मादिमौ विष्णुमहेश्वरावुभौ बभूवतुर्बोधिवटौ मुनीश्वराः!”। बोधिस्त्वयं चार्किदिनं विनैव त्वस्पृश्यतामापदलक्ष्यीयोगात्” पद्मपु० क्रिया० १६० अध्या० उक्ता। “तस्य शनिवारमात्रे स्पृश्यताकारणमप्युक्तं तत्रैव १६१ अध्या०। लक्ष्म्या ज्येष्ठभगिन्या अलक्ष्म्या सह उद्दालकस्य विवाहमुक्त्वा पत्या “यावदागमनं मम तावत् अश्वत्थमूले त्वं निषीद” इत्युक्तया अलक्ष्म्या तत्रैव स्थितया बहुतिथे काले गतेऽपि पत्युरागमनमनालोक्य क्रन्दितं, तच्श्रुत्वा च लक्ष्म्या कनिष्ठभगिन्या नोदितो विष्णुस्तत्रागत्य तामुवाच यथा। “लक्ष्म्या सह ततो विष्णुस्तत्रागात् कृपयान्वितः। आश्वासयन्नलक्ष्मों तामिदं वाक्यमथाब्रवीत्। अश्वत्थवृक्षमासाद्य सदाऽलक्ष्मीः स्थिरा भव। ममांशसम्भवोह्येष आवासस्ते मया कृतः। मन्दवारे सदा ह्येनं लक्षमीरत्रा गमिष्यति। अस्पृश्योऽसौ भवेत्तस्मान्मन्दवारं विना किल” एवञ्च अलक्ष्म्याः सर्वदावासादन्यदिने तस्यास्पृश्यत्वं मन्दवारे लक्ष्मीसमागमाच्च स्पृश्यत्वमिति मर्य्यादा कृता। “अश्वथरूपो भगवान् विष्णुरेव न संशयः। रुद्ररूपो वटस्तद्वत् पलाशो ब्रह्मरूपधृक्। दर्शनस्पर्शनादेव ते वै पापहराः स्मृताः” तत्रैवोक्तम् अश्वत्थस्पर्शस्तु शनिवारे एव प्रागुक्तवचनात्। तस्य वैशाखे सेचनफलं पद्मपु० क्रिया० ११ अव्या०। यथा “वैशाखे सेचयेन्नित्यं विष्णुमश्वत्थरूपिणम्। चतुर्वर्गफलावाप्तिहेतवे वैष्णवोजनः। गण्डूषमात्रतोयेन कुर्य्याद्योऽश्वत्थसेचनम्। सोऽपि याति परं स्थानं विमुक्तः पापकोटिभिः” तन्मूलबन्धफलम् तत्रैव “अश्वत्थमूलं विप्रर्षे! यो बध्नाति शिलादिभिः। अश्वत्थरूपी भगवान् किं तस्मै न हि यच्छति”। तत् प्रणामफलं तत्रैव। “अश्वत्थद्रुममालोक्य प्रणामं कुरुते तु यः। आयुर्वृद्धिर्भवेत्तस्य वर्द्धन्ते सर्वसम्पपदः”। अतएव दुःस्वप्नदर्शनादौ “अश्वत्थरूपी भगवान् दुःखप्नं शमयाशु मे” इति मन्त्रेण प्रणामोविहितः। “तन्मूले धर्म्मकर्मा चरणप्रशंसा तत्रैव। “यदाश्वत्थतले विप्र! धर्मकर्म विधी- यते। न्यूनातिरिक्तता न स्यात्तस्मिन् कर्मणि जैमिने!। तत्र तीर्थानि सर्व्वाणि तिस्रोतादीनि सन्ति वै!”। तत्पूजनफलं तत्रैव। “अश्वत्थपूजकोयस्तु सएव हरिपूजकः। अश्वत्थरूपी भगवान् स्वयमेव यतो हरिः”।। तस्य तच्छाखायाश्च छेदने निषेधः तत्रैव। “तरुज्ञानात् द्विजश्रेष्ठ! योऽश्वत्थं हन्ति मुढधीः। संसारे नास्ति तत् कर्म यत् कृत्वा स च शुध्यति। अश्वत्थोवृक्षराजोऽयं हरिमूर्त्तिः प्रकीर्त्तितः। तस्मादश्वत्थहन्तॄणां त्राता कोऽपि न विद्यते। अश्वत्थशाखामेकां च स्वल्पामपि छिनत्ति यः। स कोटि ब्रह्महत्यानां फलं प्राप्नोति मानवः” इति च। अन्यान्यपि तच्छेदने पापानि तत्रैवोक्तानि दृश्यानि। तच्छाखाच्छेदनमयज्ञार्थमेव निषिद्धं यज्ञार्थच्छेदने तु न दोषः पशुहिंशावत्तस्यापि विहितत्वात् “अर्कः पलाशखदिरः अपामार्गोऽथा पिप्पल” इत्यादिना जीवहोमे तस्यैव समिधो विधानात्। २ नन्दीवृक्षरूपे अश्वत्यभेदे च “नन्दीवृक्षोऽश्वत्थभेदः प्ररीही गजपादपः। स्थालीवृक्षःक्षयतरुः क्षीरी च स्याद्वनस्पतिः। नन्दीवृक्षो लघुः स्वादुस्तिक्तस्तुवरौष्णकः। कटुपाकरसग्राहीविषपित्तकफास्रनुत्” भा० प्र०। ३ गर्द्दभाण्ड वृक्षे (वेलियापिप्पल) तद्गुणादि गर्द्दभाण्डशब्दे दृश्यम्। ४ संसारकृक्षे तस्य चिरस्थायित्वाभावत् तथात्वम्। “ऊर्द्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्” गीता तद्विवरणमधःशाखशब्दे। अश्व इव तिष्ठति स्था–क पृ०। ५ अश्विनीनक्षत्रे तस्याश्वशीर्षाकारस्याश्लेषाशब्दे उक्तत्वात्तथात्वम्। अश्वत्थनक्षत्रेण युक्तः कालः इत्यण् तस्य संज्ञायां लुप्। “अश्वत्थो मूहूर्त्तः” सि० कौ०। असंज्ञायान्तु आश्वत्थमहः आश्वत्थी रात्री। चतुरर्थ्यां काशा० इल। अश्वत्थिलः उत्क० छ अश्वत्थीयः तत्सन्निकृष्टदेशादौ त्रि०। अश्वत्थेन युक्ता पौर्ण्णमासी अण्। तस्य पौर्ण्णमास्यामपि “अग्रहायण्यश्वत्थाट्ठक्” पा० निर्द्देशात् नि० लुप् अश्वत्थयुक्तायां पौर्ण्णमास्याम्। लुपि व्यक्ति वचनोक्तेः पुस्त्वम्। तत्र भवः ठक्। आश्वत्थिकः। चान्द्राश्विनमासे।

अश्वत्थक = पु० अश्वत्थस्तत्फलम् तद्युक्तः कालोऽप्यश्वत्थस्तत्र देयमृणम् वुन्। अश्वत्थफलकाले वैशाखादौ १ देये ऋणे। स्वार्थे, कन्। २ अश्वत्थवृक्षे।

अश्वत्थकुण = पु० अश्वत्थस्य पाकः पील्वा० कुणच्। अश्वत्थपाके फलादौ।

अश्वत्थभेद = पु० अश्वत्थस्य भेदोविशेषो यत्र। नन्दीवृक्षे अश्वत्थशब्दे विवृतिः।

अश्वत्थामन् = पु० अश्वस्येव स्थाम बलमस्य अश्वैव तिष्ठति युद्धे स्थिरत्वात् स्था–क वा पृषो०। भारतप्रसिद्धे १ द्रोणाचार्य्यकृपीसुते वीरे। “गोतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः। अश्वत्थाम्नस्तु जननी कृपश्चैव महाबलः। अश्वत्थामा ततोजज्ञे द्रोणादेव महाबलः” भा० आ० प०। तस्य नामनिरुक्तिरपि दर्शिता भा० आ० १३० अध्या०। यथा “शारद्वतीं ततोभार्य्यां कृपीं द्रोणोऽन्वविन्दत। अग्निहोत्रे च धर्मे च दमे च सततं रताम्। अलभद्गौतमी पुत्रमश्वत्थामानमेव च। स जातमात्रो व्यनदद्यथैवोच्चैःश्रवाहयः। तच्छ्रुत्वान्तर्हितं भूतमन्तरीक्षस्थमब्रवीत्। अश्वस्येवास्य यत् स्थाम नदतः प्रदिशो गतम्। अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति” “अश्वस्य स्थाम्नोऽकारः वार्ति० अकारः। अश्वत्थामः। भवार्थे तु तस्य लुप् अश्वत्थामा तद्भवे। २ भारतप्रसिद्धे पाण्डवसैन्यस्थे मालवेशेन्द्रवर्म्मणः २ गजभेदे तत्कथा च “मतिमान् श्रेयसे युक्तः केशवोऽर्ज्जुनमब्रवीत्। नैष युद्धेन संग्रामे जेतुं शक्यः कथञ्चन। सधनुर्धन्विनां श्रेष्ठो देवैरपि सवासवैः। न्यस्तशस्त्रस्तु संग्रामे शक्यो हन्तुं भवेन्नृभिः। आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डवाः!। यथा नः संयुगे सर्व्वान्न हन्याद्रुक्मवाहनः। अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम। तं हतं संयुगे कश्चिदस्मै शंसतु मानवः। एतन्नारोचयद्राजन्! कुन्तीपुत्रो धनञ्जयः। अन्ये त्वरोचयन् सर्वे कृच्छ्रेण तु युधिष्ठिरः। ततो भीमो महाबाहुरनीके स्वे महागजम्। जघान गदया राजन्नश्वत्थामानमित्युत। परप्रमथनं घोरं मालवस्येन्द्रवर्म्मणः। भीमसेनस्तु सव्रीड उपेत्य द्रोणमाहवे। अश्वत्थामा हत इति शब्दमुच्चैश्चकार सः। अश्वत्थामेति हि गजः ख्यातो नामाहतोऽभवत्। कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा। भीमसेनवचः श्रुत्वा द्रोणस्तत्परमप्रियम्। मनसा सन्नगात्रोऽभूत् यथा सैकतमम्भसि। शङ्कमानः स तन्मिथ्या वीर्य्यज्ञः स्वसुतस्य वै। हतः स इति च श्रुत्वा नैव धैर्य्यादकम्पत”। “सन्दह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम्। अहतं वा हतं वेति पप्रच्छ सुतमात्मनः। स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम्। त्रयाणामपि लोकानामैश्वर्य्यार्थे कथञ्चन। तस्मात्तं परिपप्रच्छ नान्यं कञ्चिद्द्विजर्षभः। तस्मिंस्तस्य हि सत्याशा बाल्यात्प्रभृति पाण्डवे। ततो निष्पाण्डवामुर्व्वीं करिष्यन्तं युधाम्पतिम्। द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत्। यद्यर्द्धदिवसं द्रोणो युध्यते मन्युमास्थितः। सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति। स भवांस्त्रातु नो द्रोणात् सत्याज्ज्यायोऽनृतं पुनः। अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः। कामिनीषु विवाहेषु गवां भक्ते तथैव च। ब्राह्मणाभ्युपपत्तौ च अनृते नास्ति पातकम्। तयोः संवदतोरेवं भीमसेनोऽब्रवीदिदम्। श्रुत्वैवं ते महाराज बधोपायं महात्मनः। गाहमानस्य मे सेनां मालवस्येन्द्रवर्म्मणः। अश्वत्थामेति विक्रान्तो गजः शक्रगजोपमः। निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम्। अश्वत्थामा हतो ब्रह्मन्निवर्त्तस्वाहवादिति। नूनं नात्र मृषावाक्यमेवं मे पुरुषर्षभ। स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः। द्रोणाय निहतं शंस राजन्! शारद्वतीसुतम्। त्वयोक्तो नैष युध्येत जातु राजन् द्विजर्षभः। सत्यवान् हि त्रिलोकेऽस्मिन् भवान् ख्यातो जनाधिप!। तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः। भावित्वाच्च महाराज! वक्तुं समुपचक्रमे। तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः। अव्यक्तमब्रवीद्वाक्यं हतः कुञ्जर इत्युत। तस्य पूर्ब्बं रथः पृथ्य्वां चतुरङ्गुलमुन्नतः। बभूवैवन्तु तेनोक्ते तस्य वाहोऽस्पृशन्महीम्”। “अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा स्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा” इति वेणीसं०।

अश्वत्थिक = त्रि० अश्वत्थेन चरति पर्पा० ष्ठन्। अश्वत्थफलक चारिणि स्त्रियां ङीप्।

अश्वत्थी = स्त्री० क्षुद्रोऽश्वत्थः अल्पार्थे ङीप्। क्षुद्रपिप्पले ह्रस्वपत्रे वनजाते अश्वत्थाकारे क्षुद्रवृक्षभेदे स्वार्थे कन् अश्वत्थिकाऽप्यत्र।

अश्वदंष्ट्रा = स्त्री अश्वस्य दंष्ट्रेवाकारेण। गोक्षरवृक्षे।

अश्वनाय = पु० अश्वं नयति अण्–उप० स०। अश्वपालके।

अश्वन्त = पु० अश्वस्य व्यापकस्य धर्मस्यान्तो यत्र शक०। १ अशुभे २ क्षेत्रे ३ मृते ४ चुल्ल्यां च हेम० प्राणिहिंसास्था नत्वात्तस्यास्तथात्वम्।

अश्वप = पु० अश्वं पाति पा–क। हयपालके।

अश्वपति = पु० ६ त०। वाजिपालके रामायणप्रसिद्धे कैकेयेनृपभेदे च।

अश्वपत्यादि = पु० प्राग्दीवतीयेऽर्थे अण्प्रत्ययनिमित्ते पाणिन्युक्ते शब्दसमूहे सच गणः अश्वपति ज्ञानपति शतपति धनपति गणपति स्थानपति यज्ञपति वादपति, कुलपति गृहपति धान्यपति धन्यपति बन्धुपति, घर्म्मपति सभापति प्राणपति क्षेत्रपति,। आश्वपतम् पत्यन्तत्वेऽप्यवाद्रात् न ण्यः।

अश्वपर्ण्ण = त्रि० अश्वानां पर्ण्णं गमनं यत्र। अश्वगमनयुक्ते १ रथे अश्वं व्यापि पर्ण्णं पतनं यस्य। २ व्यापिगमने मेघे च। “आविद्युन्मद्भिर्मरुतः स्वर्गे रथेभिर्यात्र ऋष्टिमद्भिरश्वपर्ण्णैः” ऋ० १, ८८, वृ। यथा व्युत्पत्तिर्दर्शिता तथैव भाष्ये उक्ता।

अश्वपाद = त्रि० अश्वस्य पाद इव पादोऽस्य हस्त्या० नान्त्य लोपः। हयपादतुल्यचरणे।

अश्वपाल = पु० अश्वान् पालयति पा + णिच्–लन् अण्। घोटकरक्षके। ण्वुल्। अश्वपालकोऽप्यत्रार्थे।

अश्वपुच्छी = स्त्री अश्वस्य पुच्छमिव केशरीऽस्य। माषपर्णीवृक्षे।

अश्वपेज = पु० ऋषिभेदे। तेन प्रोक्तमधीयते शौनकादि० णिनि। आश्वपेजिनः तत्प्रोक्ताध्यायिषु ब० व०।

अश्वपेशस् = त्रि० अश्वेन पेशोरूपंरूपणीयं निरु० यस्य। अश्वेन रूपणीये। “गोअग्रामश्वपेशसम्” ऋ० २,ऽ, १६। “अश्वपेशसमश्वेन निरूपणीयां रातिम्” भा०।

अश्वबडव = पु० अश्वश्च बडवा च। अश्ववडवरूपसमासार्थे न परवल्लिङ्गम्।

अश्वबाल = पु० अश्वस्य बालः केशर इव तदाकारपुष्पत्वात्। (क्याशा) इति ख्याते १ काशे। ६ त० अश्वस्य २ केशे च।

अश्वबाहु = पु० यदुवंश्यचित्रकस्य पुत्रभेदे। “क्रोष्टोस्तु शृणु राजेन्द्र! वंशमुत्तमपौरुषम्। यदोर्वंशधरस्याथ” इत्युपक्रम्य। “गान्धारी चैव माद्री च क्रोष्टोर्भार्य्ये बभूवतुः” इत्युक्त्वा “माद्र्याः पुत्रौ च जज्ञाते स्मृतौवृष्ण्यन्धकाबुभौ। जज्ञाते तनयौ वृष्णेः शफल्कश्चित्रकस्तथा” इत्युक्त्वा शफल्कवंशमुक्त्वा च। चित्रकस्याभवन् पुत्राः पृथुर्विपथुरेव च। अश्वग्रीवोऽश्वबाहुश्च सुपार्श्वकगवेषणौ। अरिष्टनेमिरश्वश्च सुधर्म्मा धर्म्मवित्तथा। सुबाहुर्वहुबाहुश्च श्रविष्ठाश्रवणे स्त्रियौ” हरि० ३४, ३५, अध्या०।

अश्वमहिषिका = अश्वमहिषयोवैरम् वुन्। अश्वमहिषयोर्वैरे।

अश्वमार = पु० अश्वं मारयति मृ–णिच् अण्। करवीरे ण्वुल्। अश्वमारकोप्यत्र।

अश्वमुख = पु० अश्वस्य मुखमिव सुखमस्य। अश्वाकारमुखे पुरुषाकारान्याङ्गे किन्नरे। जातित्वात् स्त्रियां ङीप् “भिन्दन्ति मन्दां गतिमश्वसुख्यः” कुमा० अश्ववदनादयोऽप्यत्र।

अश्वमेध = पु० अश्वः प्रधानतया मेध्यते हिंस्यतेऽत्र मेध–हिंसने घञ्। यज्ञभेदे स च शत० ब्रा० १३ काण्डे पञ्चभिरध्यायैरुक्तः। यजु० २४ अ० तदीययूपशुविशेषा विहिता यथा। तत्राद्यमन्त्रोपोद्घाते यजु० वे० दी० उक्तम् अ- श्वमेधे एकविंशतिर्यूपा सन्ति तत्र मध्यमोयूपोऽग्निष्ठसंज्ञः तत्र सप्तदश पशवोनियोजनीयाः अश्वः १ तुपरः २ (शृङ्गोत्पत्तिकालेऽतीतेऽपि शृङ्गहोनः छागः) गोमृगः गवयः ३। द्वौ चाग्नेयौ ४ एकादशावयवयुक्तौ। अग्निममन्त्रे वक्ष्यमाणा रोहितादयः द्वादश गाव इति सप्तदश पशवोमध्यमयूपे बन्धनीयाः। द्वयोरेकादशावयवाश्च मध्ये कृष्णग्रीवः, अश्वस्य रराटे पुरस्तात् ललाटे हन्वोरधस्तात् मेषी, अधोभागे शुक्लौ छागौ, बाह्वोरश्वस्य पूर्ब्बपादयो रेकैकः। अश्वस्य नाभ्यां श्यामश्वेतकृष्णरोमाऽजः श्वेतः छागः दक्षिणपार्श्वे, वामे कृष्णः। बहुरोमपुष्पकौ छागौ पश्चात् पादयोरेकैकः। अश्वस्य पुच्छे श्वेतः, वेहत् गर्भघातिनी, वामनः खर्व्वः पशुः पुच्छे एवम् एकादशानामश्वावयवतया कल्पयित्वा तथाविधौ एकादशि नौ द्वौ मध्ययूपे बन्धनीयौ अन्येषु एकेक इति भेदः पृषतीत्यादीनां श्वेताः सौर्य्या इत्यन्तानां शतत्रयसख्यकानां पशूनां मध्ये पञ्चदश पशवः एकैकस्मिन् अश्वादयस्त्रयः एते द्वादश च इत्येते पर्य्यङ्ग उच्यन्ते। अत्राश्वस्य शरीरं तुम्बीफलवत् रज्ज्वा गुस्फनीयम्। ततः कृष्णग्रीव इत्यादयः अश्वस्य शरीरे यथोक्तस्थाने संबद्ध्वा रज्ज्वा बन्धनीयाः ततो रोहितादयः वक्ष्यमाणा द्वादश नियोज्याः इतरेषु विंशतौ यूपेषु पञ्चदश पञ्चदश पशवः प्रत्येकमेकादशिनः इतिषोडश इति भेदः”।

अश्वादिपशुभेदाः देवसहिताः यजु अ० २४ उक्ता यथा

“अश्वस्तूपरो गोमृगस्ते प्राजापत्याः कृष्णग्रीव आग्नेयो रराटे। पुरस्तात्सारस्वती मेष्यधस्ताद्धन्वोराश्विनावधोरामौबाह्वोः सौमापौष्णः, श्यामोनाभ्यां, सौर्य्ययामौ श्रेतश्च कृष्णश्च, पार्श्वयोस्त्वाष्ट्रौ लोमशसक्थौ, सक्थ्योर्वायव्यः श्वेतः, पुच्छैन्द्राय स्वपस्याय, वेहद्वैष्णवोवामनः १। रोहितोधूम्ररोहितः कर्कन्धुरोहितस्ते सोम्या, बभ्रुररुणबभ्रुः शुकबभ्रुस्ते वारुणाः, शितिरन्ध्रोऽन्यतः शितिरन्ध्रः समन्त शितिरन्ध्रस्ते सावित्राः, शितिबाहुरन्यतःशितिबाहुः समन्तशितिबाहुस्ते वार्हस्पत्याः, पृषती क्षुद्रपृषती स्थूल पृषती ता मैत्रावरुण्यः २। शुद्धबालः सर्वशुद्धबालो मणिबालस्तआश्विनाः, श्येतः श्येताक्षोऽरुणस्ते रूद्राय पशुपतये, कर्णायामा अवलिप्ता रौद्रानभोरूपाः पार्जन्याः ३। पृश्निस्तिरश्चीनपृश्निरूर्ध्वपृश्निस्ते मारुताः, फल्गूर्लोहितोर्ण्णी पलक्षीताः सारस्वत्यः, प्लीहाकर्णः शुण्ठा कर्णोऽद्ध्यालोहकर्णस्ते त्वाष्ट्राः, कृष्णग्रीवः शितिकक्षोऽ- ञ्जिसक्थस्तऐन्द्राग्नाः” कृष्णाञ्जिरल्पाञ्जिर्महाञ्जिस्तौषस्याः ४। शिल्पा वैश्वदेव्यो, रोहिण्यस्त्र्यवयो वाचे,ऽविज्ञाता अदित्यै, सरूपा धात्रे, वत्सतर्यो देवानां पत्नीभ्यः। ५। कृष्णग्रीवा आग्नेयाः, शितिभ्रवो वसूनां, रोहिता रुद्राणां, श्वेता अवरोकिण आदित्यानां, नभोरूप्राः पार्जन्याः। ६। उन्नत ऋषभो वामनस्त ऐन्द्रवैष्णवाः, उन्नतः शितिवाहुः शितिपृष्ठस्त ऐन्द्राबार्हस्पत्याः, शुकरूपा वाजिनाः, कल्माषा आग्निमारुताः, श्यामाः पौष्णाः। ७। एता ऐन्द्राग्ना, द्विरूपा अग्नीषोमीया, वामना अनड्वाह आग्नावैष्णवा, वशा मैत्रावरुण्यो,ऽन्यत एन्यी मैत्र्यः। ८। कृष्णग्रीवा आग्नेया, बभ्रवः सौम्याः, श्वेता वायव्या, अविज्ञाता अदित्यै, सरूपा धात्रे, वत्सतर्यो देवानां पत्नीभ्यः। ९। कृष्णा भौमाः, धूम्रा आन्तरिक्षा, वृहन्तो दिव्याः, शवला, वैद्युताः सिध्मास्तारकाः १०। धूम्रान् वसन्तायालभते, श्वेतान् ग्रीष्माय, कृष्णान् वर्षाभ्यो,ऽरुणाञ्छरदे, पृषतो हेमन्ताय, पिशङ्गाञ्छि शिराय ११। त्र्यवयो गायत्र्यै, पञ्चावयस्त्रिष्टुभे, दित्यवाहो जगत्यै, त्रिवत्सा अनुष्टुभे, तुर्यवाह उष्णिहे १२। पृष्ठवाहो विराजे, उक्षाणोवृहत्या, ऋषभाः, ककुभे,ऽनड्वाहः पङ्क्त्यै, धेनवोऽतिच्छन्दसे १३। कृष्णग्रीवा आग्नेया, बभ्रवः सौम्या, उपध्वस्ताः सावित्रा, वत्सतर्य्यः सारस्वत्याः, श्यामाः पौष्णाः, पृश्नयो भारुता, बहुरूपा वैश्वदेवा, वशा द्यावापृथिवीयाः १४। उक्ताः संचरा एता ऐन्द्राग्नाः, कृष्णा वारुणाः, पृश्नयो मारुताः, कायास्तूपराः १५। अग्नयेऽनीकवते प्रथमजानालभते, मरुद्भ्यः सान्तपनेभ्यः सवात्यान्, मरुद्भ्यो गृहमेधिभ्यो वष्किहान्, मरुद्भ्यः क्रीडिभ्यः संसृष्टान्, मरुद्भ्यः स्वतवद्भ्योऽनुसृष्टान् १६। उक्ताः संचरा एता ऐन्द्राग्नाः, प्राशृङ्गा माहेन्द्रा, बहुरूपा वैश्वकर्म्मणाः १७। धूम्रा बभ्रुनीकाशाः पितृणां सोमवतां, बभ्रवो धूम्रनीकाशाः पितॄणां बर्हिषदां, कृष्णा बभ्रुनीकाशाः पितॄणामग्निष्वात्तानां, कृष्णाः पृषन्त स्त्रैयम्बकाः १८। उक्ताः संचराः एता शूनासीरीयाः, श्वेता वावव्याः, श्वेताः सौर्य्याः १९। एवं समाप्ना यूपाः इत्यश्वाद्याः सौर्य्यान्ताः सप्तविंशत्यधिकशतत्रयमिताः ग्राम्याः पशवः सर्वे उक्ताः। आरण्यानाह। “वसन्ताय कपिञ्जलानालभते, ग्रीष्माय कलविङ्कान्, वर्षा भ्यस्तित्तिरा, ञ्छरदे वर्त्तिका, हेमन्ताय ककरा, ञ्छिशिराय विककरान् २०। समुद्राय शिशुमारानालभते, पर्जन्याय मण्डूका, नद्भ्योमत्स्या, न्मित्राय कुलीपयान्, वरुणाय नाक्रान् २१। सोमाय हंसानालभते, वायवे बलाका इन्द्राग्निभ्यां क्रुञ्चान्, मित्राय मद्गून्, वरुणाय चक्रवाकान् २२। अग्नये कुटरूनालभते, वनस्पतिभ्य उलूका, नाग्नीषोमाभ्यां चाषान्, अश्विभ्यां मयूरान्, मित्रावरुणाभ्यां कपोतान् २३। सोमाय लबानालभते, त्वष्ट्रे कौलीकान्, गोषादीर्देवानां पत्नीभ्यः, कुलीका देवजामि भ्यो,ऽग्नये गृहपतये पारुष्णान् २४। अह्ने पारावतानाल भते, रात्र्यै सीचापू, रहोरात्रयोः संधिभ्योः जतू, र्मासेभ्यो दात्यौहान्, संवत्सराय महतः सुपर्णान् २५। भूम्या आखूना लभते,ऽन्तरिक्षाय पाङ्क्त्रान्, दिवे कशान्, दिग्भ्यो नकुलान्, बभ्रुकानवान्तरदिशाभ्यः २६। वसुभ्य ऋश्यानालभते, रुद्रेभ्योरुरून्, आदित्येभ्योन्यङ्कून्, विश्वेभ्यो देवेभ्यः पृषतान्, साध्येभ्यः कुलुङ्गान् २७। ईशानाय परस्वत आलभते, मित्राय गौरान्, वरुणाय महिषान्, वृहस्पतये गवयां, स्त्वष्ट्रौष्ट्रान् २८। प्रजापतये पुरुषान् हस्तिन आलभते, वाचे प्लु~षी, श्चक्षुषे मशका, ञ्छोत्राय भृङ्गाः, २९। प्रजापतये च वायवे च गोमृगो, वरुणायारण्योमेषो, यमाय कृष्णो, मनुष्यराजाय मर्कटः, शार्दूलाय रोहिद्, ऋषभाय गवयी, क्षिप्रश्येनाय वर्तिका, नीलङ्गोः कृमिः, समुद्राय शिशुमारी, हिमवते हस्ती ३०। मयुः प्राजापत्य, उलो हलिक्ष्णो वृषदंशस्ते धात्रे, दिशां कङ्को, धुङ्क्षाग्नेयी कलविङ्को लोहिताहिः पुष्करसादस्ते त्वाष्ट्रा, वाचे क्रुञ्चः ३१। सोमाय कुलुङ्ग, आरण्योऽजो नकुलः शका ते पौष्णाः, क्रोष्टा मायो, रिन्द्रस्य गौरमृगः, पिद्वोन्यङ्कुःकक्कटः, स्तेऽनुमत्यै, प्रतिश्रुत्कायै चक्रवाकः ३२। सौरी बलाका, शार्गः सृजयः शयाण्डकस्ते मैत्राः, सरस्वत्यै, शारिः पुरुष वाक्, श्वाविद्भौमी, शार्दूलो वृकः पृदाकुस्ते मन्यवे, सरस्वते शुकः पुरुषवाक् ३३। सुपर्णः पार्जन्य, आतिर्वाहसो दर्विदा ते वायवे, वृहस्पतये वाचस्पतये, पैङ्गराजो,ऽलज आन्तरिक्षः, प्लवोमद्गुर्मत्स्यस्ते नदीपतये, द्यावापृथिवीयः कूर्मः ३४। पुरुषमृगश्चन्द्रमसो, गोधा कालका दार्वाघाटस्ते वनस्पतीनां, कृकवाकुः सावित्रो, हंसो वातस्य, नाक्रो मकरः कुलीपयस्तेऽकूपारस्य, ह्रियै शल्लकः ३५। एण्यह्नो, मण्डूको मूषिका तित्तिरिस्ते सर्पाणां, लोपाश आश्विनः। कृष्णो रात्र्या, ऋक्षो जतूः मुषिलीका तैतरजनानां, जहका वैष्णवी ३६। अन्यवापोऽर्धमासानामृश्यो मयूरः सुर्पणस्ते गन्धर्वाणा, सपामुद्रो मासां, कश्यपो रोहित् कुण्डृणाची गोलत्तिका तेऽप्सरसां, मृत्यवेऽसितः २। ७। वर्षाहू रृतूना, माखुः कशो मान्थालस्ते पितॄणां, बलायाजगरो, वसूनां कपिञ्जलः, कपोत उलूकः शशस्ते निरृत्यै, वरुणायारण्यो मेषः ३८। श्वित्र आदित्याना, मुष्ट्रो घृणीवान् वार्ध्रीनसस्ते मत्या, अरण्याय सृमरो, रुरू रौद्रः, क्वयिः कुटरुर्दात्यौहस्ते वाजिनां, कामाय पिकः ३९। खड्गो वैश्वदेवः, श्वा कृष्णः कर्णो गर्दभस्तरक्षुस्ते रक्षसा, मिन्द्राय सूकरः। सिंहो मारुतः, कृकलासः पिप्पका शकुनिस्तेशरव्यायै विश्वेषां देवानां पृषतः। ४०। एवं षष्ट्यधिकं शतद्वयमारुण्याः पशव उक्ताः। मध्यमयूपे द्वौ एकादशिनौ अन्येषु एकैके एकादशिनः इति एकविंशतियूपेषु द्वाविंशतिरेकादशिनः। अतः सप्तविंशत्यधिकशतत्रयम् अश्वादि सौर्य्यान्तं द्वाविंशत्या सह मिलिताम् सत् ऊनपञ्चाशदधिकं शतत्रयम्! ताः ग्राम्यापशवः आरण्यास्तु २६० मिलिताः ६०९ पशवोऽश्वमेधे र्विहिताः तदुक्तं श्लोके। “षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि। अश्वमेधस्य यज्ञस्य नवमिश्चाधिकानि च”। तेषु ग्राम्या आलभ्या आरण्या बन्धनान्मोच्या न तु हिंस्या इति। एवञ्चात्राश्वस्य प्रधान्यात् अश्वमेधत्वम्। अश्वलक्षणं तु” कालाम्भोधरसङ्काशः स्वर्णवर्णमुखोबली। यस्य पार्श्वावुभावर्द्धचन्द्राकारौ सुशोभनौ। पुच्छं विद्युत्प्रतीकाशमुदरं कुन्दसन्निभम्। पादाश्चैव हरिद्वर्णाः कर्णौ सिन्दूरसन्निभौ। ज्वलदग्निनिभा जिह्वा चक्षुषी भास्करोपमे, विराजितो रोमराज्या सानुलोमविलोमया। विचित्रैर्विविधैर्वर्णैश्चित्रोरजतविन्दुभिः। यो वेगे वायु तुल्यः स्यादुच्चैरुच्चैःश्रवायथा। यस्य गात्रोद्भवोगन्धो गन्धर्व्वमपि मोहयेत्। एवं लक्षणसंयुक्तो यज्ञियः पशुरुच्यते” वाशि० रा०। “गोक्षीरसमवर्णञ्च कुन्देन्दुहिमसन्निभम्। पीतपुच्छं श्यामकर्णं सर्वतोगतिमत्तमम्। श्यामं वापि महीपाल। यज्ञेऽस्मिंस्तुरगं विदुरिति” पुरा०। शत० ब्राह्मणे तु “द्विरूपएवैषोऽश्वः स्यात् कृष्णसारङ्गः प्रजापतेर्वाएषोऽक्ष्णः सममवत् द्विरूपं वा इदं चक्षुः शुक्लं चैव कृष्णंच तदेनं स्वेन रूपेण समर्धयतीति। अथ होवाच सात्ययज्ञिः त्रिरूप एवैषोऽश्वः स्यात्तस्य कृष्णः पूर्वार्धः शुक्लोऽपरार्धः कृत्तिकाञ्जिः पुरस्तात्तद्यत् कृष्णः पूर्वार्धो भवति यदेवेदं कृष्णमक्ष्णस्तदस्य तदथ यच्छुक्लोऽपरार्धो भवति यदेवेदं शुक्लमक्ष्ण स्तदस्य तदथ यत्कृत्तिकाञ्जिः पुरस्तात्सा कनीनिका स एवं रूपसमृद्ध्वोऽती यतमोऽस्योपकल्पेत बहुरूपो वा द्विरूपो वा त्रिरूपो वा कृत्तिकाञ्जिस्तमालभेत जवेन त्वेव समृद्धः स्यात्”। “कृत्तिकाकारं कृत्तिकान्तिकरोहिणीशकटा कारमञ्जिं पुण्म्रं ललाठे यस्य भा०। ललामम्”। का त्या० २०। १। ३३। “नीलपौण्ड्रकयुक्तमिति” कर्क०। तस्योत्सर्ज्जनं चोत्तरपूर्व्वदिशि। “पशुवदुत्सर्ज्जनं निरष्टेऽश्वशते” कात्या० २०। २। १। “पशुवदित्युत्तरपूर्व्वा दिग् लक्ष्यते निरष्टे निरमणे वृद्धतया। अध्वर्युयजमानौ अश्वशते शतानामप्यश्वानां मध्ये पशुवदुत्सर्ज्जनं कुरुतः कीदृशे निरष्टे अश्वस्य वयोव्यञ्जनानि एकैकं त्रीणि त्रीणि वर्षाणि अनुवर्त्तन्ते तानि निर्गतान्यस्मादिति निरष्टम् अतीतचतुर्विंशतिवर्षमित्यर्थः” कर्कः। तेन वृद्धतया स्कन्दनसामर्थ्यराहित्यं सूचितम् तथा हि तस्याश्वस्य “बडवाभ्यो वारणम्” “प्रस्नेयाच्चोदकात्” कात्या० २०। २। १। २। ३। वाक्येन वडवाभ्यो निवारणं, प्रस्नेयात् यथेच्छस्नानार्हादुदकाच्च मिवारणम् विहितम्। अतएव “प्रजाते वायव्यम्” कात्या० २०। ३। २०। बडवायां रेतःस्कन्दने प्रजातैत्युच्यते तस्मिन् वायव्यपयोनिर्वापोविहितः। तस्य रक्षकाश्च यथारूपाः कर्त्तव्यास्तथाह शत० ब्रा०। “तस्यैते पुरस्ताद्रक्षितार उपकॢप्ता भवन्ति। राजपुत्राः कवचिनः शतं राजन्या निषङ्गिणः शतं सूतग्रामण्याः पुत्त्रा इषुपर्षिणः शतं क्षात्रसंगृहीतॄणां पुत्त्रा दण्डिनः शतमश्वशतं निरष्टं निरमणं यस्मिन्नेनमपिसृज्य रक्षन्ति” अवधिकालमाह “तस्मात् पारिप्लवं षट्त्रिंशतं दशाहा नाचष्टे” इति शत० ब्रा० सावनगणनया संवत्सरे गते दीक्षा। “अश्वापदीज्या चरुभिः सावित्रम्” इत्यादिना “मृतेचादर्शने च” इत्यन्तेन कात्या० २०, ३, २०। प्रायत्तविशेषानुक्त्वा “अन्यस्य रशनादानादि करोत्यश्वयुक्तम्” मृते अश्वस्यादर्शने च” का० २०, ४, १। अपुनरागमसम्भवे च अन्यस्याश्वस्य रशनादानादि अश्वयुक्तमश्वसंबन्धि अश्वोपकारकं सर्व्वं कर्म्म पुनः करोति” कर्कः। अश्वमेधारम्भकालश्च। “अष्टम्यां नवम्यां चा फाल्गुनीशुक्लस्य” कात्या० २०, १, २, फाल्गुनशुक्लपक्षेऽष्टम्यां नवम्यां वा प्रारम्भः। “याऽसौ फाल्गुनी पौर्ण्णमासी भवतीति” प्रकृत्य “तस्यै पुरस्तात् षडहे वा सप्ताहे वा ऋत्विज उपसमायन्तीति” शत० ब्रा० ग्रीष्मेत्वेके” कात्या० २०, १, ३, “ज्यैष्ठाषाडयोः शुक्लाष्टम्यां नवम्यां वेत्येके” कर्कः। एकविंशतिपूपसन्निवेशमानादि यथा “एकविंशतिर्यूपाः सर्व्व एकविंशत्य रत्नयोराज्जुद्दालोऽग्निष्ठो भवति पैततुदारवावभितः, षड्बैल्वास्त्रय इत्थात्त्रय इत्थात्, षट् खादिरास्त्रय एवेत्थात्त्रय इत्थात्, षट् पालाशास्त्रय एवेत्थात्त्रय इत्थात्, शत० ब्रा०। एतेषां नामनिर्व्वचनं तत्रैव दृश्यम्।

अश्वमेधस्य यौगिकानि द्वादश नामानि दर्शितानि शत० ब्रा० १३ काण्डे। “एष वै प्रभूर्नाम यज्ञः १। यत्रैतेन यज्ञेन यजन्ते सर्व्वमेव प्रभूतं भवति। एष वै विभूर्नाम यज्ञः २। यत्रैतेन यज्ञेन यजन्ते सर्व्व मेव विभूतं मवति। एष वै व्यष्टिर्नाम यज्ञः ३। यत्रैतेन यज्ञेन यजन्ते सर्व्वमेव व्यष्टं भवति। एष वै विधृतिर्नाम यज्ञः ४। यत्रैतेन यज्ञेन यजन्ते सर्व्वमेव विधृतं भवति। एष र्व व्यावृत्तिर्नाम यज्ञः ५। यत्रैतेन यज्ञेन यजन्ते सर्वमेव व्यावृत्तं भवति। एष वा ऊर्जस्वन्नाम यज्ञः ६। यत्रैतेन यज्ञेन यजन्ते सर्व्वमेवोर्जस्वद्भवति। एष वै पयस्वान्नाम यज्ञः ६। यत्रैते न यज्ञेन यजन्ते सर्व्वमेव पयस्वद्भवति। एष वै ब्रह्म वर्चसी नाम यज्ञः ८। यत्रैतेन यज्ञेन यजन्त आब्राह्मणो वर्चसी जायते। एष वाअतिव्याघिर्नाम यज्ञः ९। यत्रैतेन यज्ञेन यजन्त आराजन्योऽतिव्याधिर्जायते। एष वै दीर्घो नाम यज्ञः १०। यत्रैतेन यज्ञेन यजन्तऽआदीर्घारण्यं जायते। एष वै कॢप्तिर्नाम यज्ञः ११। यत्रैतेन यज्ञेन यजन्ते सर्व्वमेव कॢप्तं भवति। एष वै प्रतिष्ठा नाम यज्ञः १२। यत्रैतेन यज्ञेन यजन्ते सर्व्वमेव प्रतिष्ठितं भवति”। “तरति ब्रह्महत्यां योऽश्वमेधेन यजते” शत० ब्रा० “अश्वमेधे न शुध्यन्ति महापातकिनस्त्विमे” भा० अश्व० प०।

अश्वमेध = पु० अश्वमेधोऽस्त्यस्य अर्श० अच्। राजर्षिभेदे। “यो मैति प्रवोचत्यश्वमेधाय सूरये” ऋ० ५, २७, ४। अश्वमेधाय राजर्षये” भा०।

***