अवस् = अव्य० अवर + प्रथमायाः पञ्चम्याः सप्तम्या वाऽर्थे असि अवादेशः। १ अवरशब्दार्थे २ पश्चादर्थे च। अवोरमणीयम्, आगतः, वसति वा। अव–भावे असिच्। २ रक्षणे न०। कर्म्मणि असिच्। २ यशसि ३ अन्ने ४ धने च न०। “मित्रस्य चर्षणी धृतोऽवो देवस्य” य० ११, ६, २ “अवोरक्षणं द्युम्नं यशोऽन्नं वा” वेददी० गमने च “आवां रथोनियुत्वान् वक्षदवसे” ऋ० १, १३५, ४, “अवसे रक्षणाय गमनाय वा” भा०।

अवस = पु० अव + असच्। १ नृपे २ सूर्य्ये सि० कौ० ३ अर्कवृक्षे ४ पाथेयभेदे च “एतत्ते रुद्रावसं तेन” य० ३, ६१ “अवस शब्देन देशान्तरं गच्छतो मार्गमध्ये तटागादिसमीपे भोक्तव्य ओदनविशेष उच्यते” वेददी०।

अवसक्त = त्रि० अव + सन्ज–क्त। १ संलग्ने। “अनुजानुमध्यमवसक्तेति” किरा०। भावे क्त। २ संसर्गे न०।

अवसक्थिका = स्त्री अवबद्धे सक्थिनी यथा कप्। १ पर्य्यङ्कबन्धे “शयानःप्रौढापादश्च कृत्वा चैवावसकिथकाम्” मनुः “अहिना अवसक्थिकाबन्धहेतुभूतेन” किरा० १२, २२, टी० मल्लि०।

अवसण्डीन = न० अव + सम् + डी–क्त। विहगाधःपतनरूपे गतिभेदे।

अवसथ = पु० अव + सो–कथन्। १ निलये, २ ग्रामे च। अवस्यति शास्त्रमत्र अव + सो कथन्। ३ छात्रनिलये मठे हेम०।

अवसथ्य = पु० अवसथ + खार्थे यत्। अवसथशब्दार्थे।

अवसन्न = त्रि० अव + सद–कर्त्तरि क्त। १ विषादप्राप्ते २ विनाशोन्मुखे “अवसन्नतापमतमिस्रमभात्” माघः। ३ स्वकार्य्याक्षमे च

अवसर = पु० अव + सृ–अच्। १ प्रस्तावे, जिज्ञासानिवृत्तयेऽवश्य वक्तव्ये २ सङ्गतिभेदे सङ्कतयश्च तच्छशब्दे वक्ष्यन्ते ४ वत्सरे, मन्त्रभेदे, ५ वर्षणे, क्रियास्थितियोग्यतासम्पादकरूपे ६ कालिकेऽवकाशे च। “शशंस सेवावसरं सुरेभ्यः” कुमा० “अन्योन्यदर्शनप्राप्तोविक्रमावमरं चिरात्” रघुः “अवसरमधिगम्य तं हरन्त्यः” माघः।

अवसरालय = पु० अवसराय आलयो यत्र। अर्द्धरात्रे तत्र हि काले सर्ब्बेः आलयएव स्थीयते इति तस्य तथात्वम्।

अवसर्पिन् = त्रि० अव + सृप–णिनि। अधोगन्तरि स्त्रियां ङीप्।

अवसर्ग = पु० अव + मृज–घञ्। १ अप्रतिबन्धे यथेष्टं क्रियतामिति २ कामचारानुज्ञायां “अण्ववसर्गः कामचारानुज्ञा” सि० कौ०। २ स्वतन्त्रतायाञ्च।

अवसर्प = पु० अवसर्पति प्रभुनिदेशात् परम्। अव + सृप–अच्। चरे।

अवसर्पिन् = त्रि० अव + सृप–णिनि। अधोगन्तरि स्त्रियां ङीप्। सा च वौद्धानां कल्पकाले हेम० सच दशकोटिकोटिसागरवर्षमितः।

अवसाद = पु० अव + सद–घञ्। १ नाशे, २ विषादे, ३ स्वकार्य्याक्षमत्व रूपावसन्नतायाञ्च। “विपदेति तावदवसादकरी” किरा० “वैद्यासनावसादो वा रोगी वा स्यादधोमुखः “स्वरावसादो षुर्घुरक” इति च सुश्रुतः।

अवसादक = त्रि० अवसादयति अव + सद–णिच्–ण्वुल्। १ अवसन्नताकारके २ खेदकारके। “एष शोकः परित्यक्तः सर्वकार्य्यावसादकः” रामा०। ३ कार्य्याक्षमतासम्पादके च।

अवसादन = न० अव + सद णिच्–भावे ल्युट्। १ विनाशने २ कार्य्याक्षमतासम्पादने सुश्रुतोक्ते ३ व्रणचिकित्साभेदे च “अपतर्पणमालेप” इत्युपक्रम्य “व्रणधूर्पनमुत्सादनमवसा दनम्” इत्यादिना षष्टिरुपक्रमा दर्शिताः “उत्सन्नमृदुमांसानां व्रणानामवसादनम्” इति च तत्र दर्शितम्।

अवसान = न० अव + सो–ल्युट्। १ विरामे, २ समाप्तौ, ३ सीमायां, ४ समापने ५ मृत्यौ च। “न योषिद्भ्यः पृथग्दद्यादवसान दिनादृते” उ० त० स्मृतिः। “विरामोऽवसानम्” पा० “होमावसाने कृततूर्य्यनादः” हेमा० दा० स्व० पुरा०। “दोहावसाने पुनरेव दोग्ध्रीम्” “तच्छिष्याध्ययननिवेदितावसानाम्”। “दिनावसानोत्सुकबालवत्साम्” इति च रघुः “व्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा” मनुः। “दिवावसानच्छायेव” शकु० अवस्यति स्थाप्यतेऽस्मिन् “आघारे ल्युट्। ६ स्थाने। “अदाद्यमोऽवसानं पृथिव्याः य० १२, ४५, “अवसानं स्थानमिति” वेददी०।

अवसाम = न० अवरं साम अच् समा०। अधमसामनि अरण्यादौ अन्त्यकर्म्मणि च गेये सामनि।

अवसाय = पु० अव + सो–घञ्। १ समाप्तौ, २ शेषे, ३ निश्चये च। ल्यप्। ४ समाप्येत्यर्थे ५ निश्चित्येत्यर्थे च अव्य०।

अवसायक = त्रि० अव + सो–ण्वुल्। १ निश्चयकारके २ समापके च।

अवसिक्त = त्रि० अव + सिच–क्त। १ कृतसेके २ आप्लुते ३ स्नाते च

अवसित = त्रि० अव + सो–क्त। १ समाप्ते, “वचस्यवसिते तस्मिन् ससर्ज गिरमात्मभूः” कुमा०। “अवसितं हसितं प्रसितं मुदा” भट्टिः। २ ऋद्धे, ३ ज्ञाते, ४ परिपक्वे ५ निश्चिते, च ६ मर्द्दितधान्येन०। अव + सि–क्त। ७ संबद्धे त्रि०।

अवसृष्ट = त्रि० अव + सृज–क्त। १ दत्ते २ त्यक्ते ३ निःसृते च।

अवसे = अव्य० अव–तुमर्थे असेन्। रक्षितुमित्यर्थे। “आयात्विन्द्रोऽवस उय” य० २०, ४७।

अवसेक = पु० अव + सिच–भावे घञ्। समन्तात्सेचने। “अवसेको भवेद्वस्तेस्तस्मात् दोषान् विवर्ज्जयेदिति सुश्रुतोक्ते नेत्रवस्तिरोगभेदे च।

अवसेकिम = पु० असेकेन निर्वृत्तः अवसेक + इमन्। वटकभेदे।

अवसेचन = न० अव + सिच + ल्युट्। समन्तात्सेचने शोणिताधोनिस्सारणे “शोणितावसेचनोपाया जलौकसः सुश्रु० रोगभेदे च तिक्तकाद्रुमपत्राणां कार्य्यः क्वाथोऽवसेचने” सुश्रु०।

अवसेय = त्रि० अव + सो–कर्म्मणि यत्। १ निर्ण्णेये २ समाप्ये च

अवस्कन्द = पु० अव + स्कन्द–आधारे घञ्। जिगीषूणां सैन्य निवेशस्थाने १ शिविरे। भावे घञ्। २ अवतरणे, ३ आक्रमणे च

अवस्कन्दन = न० अव + स्कन्द–ल्युट्। १ सर्व्वाङ्गेणावगाहने, २ अवतरणे, ३ आक्रमणे च।

अवस्कर = पु० अव + कॄ–अप् सुट्। विष्ठादिमले। “वर्चस्केऽवस्करः” पा० “कुत्सितं वर्चः वर्चस्कमन्नमलस्” सि० कौ। मलमात्रे च। “गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम्” मिता० ना० स्मृ०। अस्मिंन् पक्षे च पृ० सुट् इति भेदः १ अपादाने अप्। २ गुह्यदेशे उपस्थादौ। अवस्करे जातः वुन्। अवस्करकः अवस्करभवे त्रि०।

अवस्कव = त्रि० अव + स्कु–अच्। हिंसके “अवस्कवं व्यधवरं कृमीन् अथ० २, ३१, ४।

अवस्तरण = न० अव + स्तृ–भावे ल्युट्। १ विस्तारे। “अवनयनावस्तरणे चावटवत्” कात्या० ५, ५, १४।

अवस्तात् = अव्य० अवरस्मिन् अवरस्सात् अवरमित्यर्थे अस्ताति अवादेशः। अवरकालादौ। अवस्तात् रमणीयम्, आगतः, वसति वा। “अवस्तात् स्वर्गलोकं प्रापयन्तः” शत० ब्रा०

अवस्तार = पु० अव + स्तृ–कर्म्मणि घञ्। (परदा) इति ख्यातायां १ जवनिकायाम्, २ आस्तरणे च।

अवस्तु = न० कुत्सितार्थे न० त०। अपकृष्टे पदार्थे “अवस्तुनिर्बन्धपरे! कथं नु ते” कुमा०।

अवस्था = स्त्री अव + स्था–अङ्। १ कालकृतायां देहादेर्दशायाम् २ अवस्थाने च। अवस्था च कालकृतः भावविकारभेदः “जायतेऽस्ति वर्द्धते विपरिणमतेऽपक्षीयते नश्यतीति” यास्कोक्तः षड्विधः। शास्त्रकारैस्तद्भेदोविषयभेदादन्यो दर्शितः। यथा “यथासंख्यमवस्थाभिराभिर्योगात्तु पञ्चभिः” अविद्याऽस्मितारागङ्केषाभिनिवेशाभिप्रायेण पोगशास्त्रे पञ्चावस्था दर्शिताः। सांख्यमते कार्य्याणां कारणात्मकतया सूक्ष्मरूपेण कारणे स्थितत्वात् उत्पत्तेः प्राक् याऽवस्था प्रागभावस्थानीया सा अनागतावस्था, ततःकारकव्यापारेण व्यक्ता अभिव्यक्त्यवास्था ततः ध्वंसस्थानीया कारणलयरूपातिरोमावावस्था इत्येवं त्रिविधा। वेदान्तिमते जाग्रत् स्वप्नसुषुप्तिरूपा जीवस्यावस्था मोक्षावस्था चेति चतस्रोऽवस्था इत्थञ्च शा० सू० “मुग्धेऽर्द्धसम्पत्तिः” इत्यनेन नुग्धावस्थायाः सुषुप्तावेवान्तर्भावो दर्शितः” “कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि। कैशोरमापञ्चदशात् यौवनं तु ततः परम्। आ षोडशाद्भवेद्बालस्तरुणस्तत उच्यते। वृद्धस्तु सप्ततेरुर्द्ध्वं वर्षीयान् नवतेः परम्” इति च स्मृत्युक्ता अवस्था अष्टौ आपञ्चदशपर्य्यन्तं बाल्यम् आ त्रिंशर्द्धर्षं कौमारम्। आ पञ्चाशद्वर्षं यौवनम् ततऊर्द्ध्वं वृद्धत्वसिति वेद्यकोक्ताश्चतस्रोऽवस्थाः। जीवमात्रस्य कौमारयौवनवार्द्धकरूपा अप्यवस्थास्तिस्रः एवमन्येषामपि वस्तूनां तत्तत्क्षणभेदेनावस्थाभेदा उन्नेयाः। सर्व्वेषां पदार्थानां कालादिकृतपरिणामान्तरत्वेऽवस्थेत्युच्यते यथा नायकयोः “श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः। दशाविशेषोयोऽप्राप्तौपूर्ब्बरागः स उच्यते” इत्युपक्रम्य “अभिलाषश्चिन्ता स्मृतिगुणकथनोद्वेगसंलापाश्च। उन्मादोऽथ व्याधिर्जडता मृतिरिति दशा कामदशाः” सा० द० उक्ता कामदशा दशविधाः। मल्लिनाथेन तु “दृङ्मनः सङ्गसङ्कल्पौ जागरः कृशताऽरतिः। ह्रीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश” इत्यन्यविधा दश दशा उक्ताः। एवं दैन्यावस्था–कारुण्यावस्थाशीकावस्था–मदावस्थादयीपि। “रसावस्थः परंभावः स्थायितां प्रतिपद्यते” “भवेदभिनयोऽवस्थानुकारः स चतुर्विधः” इति च सा० द०। “अन्तर्मदावस्थैव द्विपेन्द्रः” रघुः। “अपवित्रः पवित्रो वा सर्व्वावस्थाङ्गतोऽपि” वा पुरा० “तस्मात् सर्व्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः” रामा० ३ आकारे च। “कुम्भकर्ण्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः” रघुः।

अवस्थापन = न० अव + स्था–णिच्–पुक् ल्युट्। १ निवेशने २ स्थापने च।

अवस्थापित = त्रि० अव + स्था–णिच्–कर्म्मणि क्त। १ निषेशिते २ स्थापिते च।

अवस्थाप्य = त्रि० अव + स्था–णिच्–पुक् यत्। निवेशनीये ल्यप्। स्थापयित्वेत्यर्थे अव्य०।

अवस्थायिन् = त्रि० अव + स्था–णिनि स्त्रियां ङीप्। अवस्थितियुक्ते।

अवस्थित = त्रि० अव + स्था–क्त। १ वर्त्तमाने २ स्थिते “अन्यानपि प्रकुर्ध्वीत शुचीन् प्रज्ञानवस्थितान्” “आधिश्चोपनिधिश्चैव” इत्युपक्रमे “दीर्घकालमवस्थितौ” इति च मनुः।

अवस्थिति = स्त्री अव + स्था–क्तिन्। अवस्थाने।

अवस्यन्दन = न० अव + स्यन्द–ल्युट्। क्षरणे गहा० छ। अवस्यन्दनीयः तद्भवादौ त्रि०।

अवस्यु = त्रि० अवोरक्षणम् इच्छति–क्यच्–उन्। रक्षणेच्छायुक्ते। “बम्भारिरवस्युरसि दुवस्वान्” ता० ब्रा०। “ईलानामवस्यवे यविष्ठ” ऋ० २, ६, ६, “अवस्यवे स्वरक्षणमिच्छवे” भा०”।

अवस्रंसन = न० अव + स्रन्स–ल्युट्। १ अघः पतने, २ च्युतौ च।

अवस्रंसित = त्रि० अव + स्रन्स–णिच्–क्त। १ दलिते २ पातिते च।

अवस्रस् = त्रि० अवस्रंसते क्विप्। १ भ्रंसनशीले २ खण्डिते च।

अवस्वत् = त्रि० अवीरक्षणमस्त्यस्य मतुप् मस्य वः। रक्षणयुक्ते।

अवह = त्रि० न वहति वह–अच् न० ब०। नद्यादेःस्रोतःशून्ये १ देशे “सव्यावृतो व्रजन्त्यनवेक्षमाणा यत्रोदकमवहं भवति तत् प्राप्य सकृदुन्मज्यैकं जलाञ्जलिमुत्सृज्य नामगोत्रे गृहीत्वोत्तीर्य्यान्यानि वासांसि परिधायेति” आश्व० पृ० “अवहं यत्र देशे नद्याः स्रोतो नास्ति तदिति” शु० त० रघु०। २ तृतीयस्कन्धस्थे वायुभेदे च विवृतिर्वायुशब्दे।

अवहत = त्रि० अव + हन–कर्म्मणि क्त। अल्पाघातेन वितुषीकृते

अवहति = अव + हन–क्तिन्। अवघाते अल्पावघातेन वितुषी करणार्थे व्यापारे।

अवहनन = न० अव + हन भावे ल्युट्। अवघाते घान्यादेः वितुषीकरणसम्पादके १ व्यापारे। अवहन्यतेऽनेन शोणितम् करणे ल्युट्। देहस्थे शोणितवहे स्थानभेदे २ पुप्पसे च। “वपावसावहनननाभिः क्लोम यकृत् प्लिहा” या० स्मृ० “अवहननं पुप्पसः” मिता०।

अवहरण = न० अव + हृ–ल्युट्। १ स्थानान्तरनयने सैन्यानां युद्धस्थानात् शिविरस्थाने २ नयने च।

अवहस्त = पु० अवरं हस्तस्य एक० त०। हस्तपृष्ठे हेम०।

अवहार = पु० अव + हृ–कर्त्तरि ण। १ चौरे, २ ग्राहनामके जलजन्तुभेदे (हाङ्गोर) च। भावे घञ्। ३ निमन्त्रितविप्रादिभ्यो द्रव्यहरणे। ४ स्थानान्तरनयने सैन्यानां युद्धस्थानात् ५ शिविरनयने च। “ततोऽवहारं सैन्यानां तव तेषाञ्च मारत!” भा० भी० प० ६ विरामे ७ निवृत्तौ च “क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंवृतात्” भा० आ० प०।

अवहारक = त्रि० अव + हृ–ण्वुल्। १ स्थानान्तरनायके २ निबारके ३ युद्धात् सैन्यादिनिवारके च। (हाङ्गोर) ४ जलजन्तुभेदे पु०।

अवहार्य्य = त्रि० अव + हृ–ण्यत्। अवहरणीये १ स्थानान्तरं नेये २ अवश्यदेये। “आधिश्चोपनिधिश्चैव न कालात्ययमर्हति अवहार्य्यौ भवेतां तौ दीर्घकालमवस्थितौ” मनुः “अवहार्य्योभवेच्चैव सान्वयः षट्पणो दमः” मनुः। ३ समाप्येच।

अवहालिका = स्त्री अवहलति अधःस्थित्वा ऊर्द्ध्वं स्पशति अव + हल–विक्षेषे ण्वुल् टाप् अत इत्त्वम्। प्राचोरे हारावली।

अवहास = पु० अव + हस–घञ्। १ मृदुहासे २ उपहासे च। “यच्चापहासार्थमसत्कृतोऽसि” गीता।

अवहास्य = त्रि० अव + हस कर्म्मणि ण्यत्। उपहास्ये

अवहित = त्रि० अव + धा–क्त। कृतावधाने सावधाने।

अव(ब)हित्था = स्त्री न बहिस्तिष्ठति स्था–क पृषो०। हृद्गतभावे। “भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरबहित्था, व्यापा रान्तरासक्त्यन्यथावभाषणाविलोकनादिकरी” सा० द० उक्ते व्यभिचारिभावभेदे। “एवं वादिनि देवर्षौ पार्श्वे पितुरधोमुखी लीलाकमलपत्राणि गणयामास पार्व्वती” कुमा०। अयं वर्ग्यबमध्यस्तु न्याय्यः।

अवहेल = स्त्री न० अव + हेड–अङ् स्त्रियां, घञर्थे क वा डस्य लः। अनादरे।

अवहेलन = अव + हेड अनादरे भावे ल्युट् डस्य लः। अनादरे।

अवहेलित = त्रि० अव + हेड–कर्म्मणि क्त डस्य लः। अवज्ञाते।

अवह्वर = त्रि० अव + ह्वृ–अच्। कुटिले।

अवाक्पुष्पी = अवाक् अधोमुखं पुष्पमस्याः। (सुलफा) शतपुष्पिकायाम्।

अवाक्शाख = पु० अवाची शाखाऽस्य। “ऊर्द्धमूलमधःशाखमश्वत्थं प्राहुरव्ययम्। छन्दांसि यस्य पर्ण्णानि यस्तं वेद स वेदवित्। अधश्चोर्द्ध्वञ्च प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रबालाः। अधश्च मूलान्यनुसन्ततानि कर्म्मानुबन्धीनि मनुष्यलोके। न रूपमस्येह तथोपलभ्यते नान्तोन चादिर्न च संप्रतिष्ठा। अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा। तत्पदं तत्परिमार्गितव्यम्” गीतोक्ते संसारवृक्षे। “ऊर्द्ध्वमुत्तरः क्षराक्षराभ्यामुत्कृष्टः पुरुषोत्तमोमूलं यस्यतम्। अघैति ततोऽर्वाचीनाः कार्य्योपाधयोहिरण्यगर्भादयोगृह्यन्ते ते तु शाखाइव शाखायस्य तम्। विनश्वरत्वेन न श्वःप्रभातपर्य्यन्तमपि स्थास्यतीति विश्वासानर्हत्वादश्वत्थं प्राहुः। प्रवाहरूपेणाविच्छेदादव्ययञ्च। काः प्राहुः? “ऊर्द्ध्वमूलोऽर्व्वाक्शाखएषोऽश्वत्थः सनातन” इत्याद्याः श्रुतयः। छन्दांसि वेदायस्य पर्णानि धर्म्माधर्म्मप्रतिपादनद्वारेण छायास्थानीयैः कर्म्मफलैः संसारवृक्षस्य सर्व्वजीवाश्रयणीयत्वप्रतिपादनात् पर्णस्थानीयावेदाः। यस्तमेवम्भूतमश्वत्थं वेद स एव वेदार्थवित् संसारप्रपञ्चवृक्षस्य मूलमीश्वरोब्रह्मादयस्तदंशाः शाखास्थानीयाः सच संसारवृक्षोऽविनश्वरः प्रवाहरूपेण नित्यः वैदोक्तैः कर्म्मभिः सेव्यतामापादितश्च इत्येतावानेव हि वेदार्थः अत एवं विद्वान्वेदविदिति स्तूयते। किञ्च अधश्चेति। हिरण्यगर्भादयः कार्य्योपाधयोजीवाः शाखास्थानीयत्वेनोक्तास्तेषु च ये दुष्कृतिनस्तेऽधः पश्वादियोनिषु प्रसृताविस्तारं गताः सुकृतिनश्चोर्द्ध्वं देवादियोनिषु प्रसृतास्तस्य संसारवृक्षस्य शाखाः। किञ्च गुणैः सत्त्वादिवृत्तिभिर्जलसेचनैरिव यथायथं प्रवृद्धा वृद्धिं प्राप्ताः। किञ्च विषयारूपादयः प्रबालाः पल्लवस्थानीया यासां शाखाग्रस्थानीयाभिरि- न्द्रियवृत्तिभिः संयुक्तत्वात्। किञ्च अधः, चशब्दादूर्द्ध्वञ्च मूलानि अनुसन्ततानि विरूढानि मुख्यं मूलमीश्वर एव इमानि त्वन्तरालानि मूलानि तत्तद्भोगवासनालक्षणानि। तेषां कार्यमाह मनुष्यलोके कर्म्मानुबन्धीनि कर्म्म अनुबन्धि उत्तरभावि येषां तानि ऊर्द्ध्वाधोलोकेष्वपि भुक्तभोगवासना भिर्हि कर्म्मक्षये मनुष्यलोकप्राप्तानां तत्तदनुरूपेषु कर्म्मसु प्रवृत्तिर्भवति तस्मिन्नेव हि कर्म्माधिकारोनान्येषु लोकेषु अतोमनुष्यलोकैत्युक्तम्। किञ्च न रूपमिति। इह संसारे स्थितैः प्राणिभिरस्य संसारवृक्षस्य तथा ऊर्द्ध्वमूलत्वादि प्रकारेण रूपं नोपलभ्यते। न चान्तोऽवसानमपर्य्यन्तत्वात्। नचादिरनादित्वात्। नच संप्रतिष्ठा स्थितिः कथं तिष्ठतीति नोपलभ्यते। यस्मादेवम्भूतोऽयं संसारवृक्षोदुरुच्छेद्योऽनर्थकरश्च तस्मादेनं दृढेन वैराग्येण छित्त्वा तत्त्वज्ञानाय यतेतेत्याह अश्वत्थमेनमिति” श्रीधरः।

अवाक्शिरस् = त्रि० अवाक्शिरोऽस्य। अवनतमस्तके “अवाक्शिरसमुत्पादम्” भट्टिः।

अवाक्श्रुति = पु० नास्तिवाक् च श्रुतिश्च यस्य। वागिन्द्रियश्रवणे न्द्रियशून्ये अनेडमूके। (कालावोवा।)

अवाकिन् = त्रि० उच्यतेऽनया वच–करणे घञ् वाकः, वागिन्द्रियं नास्ति यस्य इनि न० त०। १ वागिन्द्रयशून्ये परात्मनि। “सर्व्वमिदमभ्यात्तोऽवाक्यनादरः” छा० उ०। (वोवा)रमूके चं

अवाग्र = त्रि० अवनतमग्रमस्य। नम्रमुखे।

अवाङ्मुख = त्रि० अवाङ् मुखमस्य। अधोमुखे। “अवाङ मुखस्योपरि पुष्पवृष्टिः” रघुः।

अवाङ्मनसगोचर = पु० वाक् च मनश्च वाङ्मनसौ तयोर्गोचरो न भवति। वक्तुमशशक्ये मन्तुमशक्ये च निर्गुणे व्रह्मणि “यद्वाचानाभ्युद्यते येन वागभ्युद्यते” “यन्मनसा न मनुते येन मनोऽनुमन्यते” इत्यादि श्रुत्या तस्य तदविषयत्वोक्तेस्तथा त्वम्। तज्जन्यवृत्त्यवच्छिन्नचैतन्याविषयत्वञ्च तदविषयत्वं तयोर्वृत्तिविषयत्वस्य तस्मिन्निष्टत्वात् “फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निराकृतम्। ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता” इत्युक्तेः अतएव “मनसैवानुद्रष्टव्यः” “तन्त्वौपनिषदं वेदेत्यादि” श्रुतिषु तद्विषय यतोक्तिः सङ्गच्छते “अखण्डसच्चिदानन्दमवाङमनसगोचरम्” वे० सा०।

अवाच् = त्रि० अवाञ्चति अव + अन्च–क्विप्। १ अधोमुखगते, “अवाक्शिरसमुतपादम्” भट्टिः। अवरे २ देशे, ३ काले च। ४ दक्षिणस्यां दिशि स्त्री ङीप्। नास्ति वाक् यस्य ६ ब०। ५ वाक्यरहिते त्रि० वागिन्द्रियशून्ये ६ ब्रह्मणि न०। “अचक्षुष्कमश्रोत्रममनोऽतेजस्कम्” शत० ब्रा० पूर्वार्थे औ अवाञ्चौ अत्र अवाचौ इत्यादिभेदः। कालाद्यर्थे प्रथमादीनां स्थानेऽस्ताति तस्यलुक्। ७ अवरकालादावर्थे अव्य०। अञ्चतेर्गत्यर्थत्वे नलोपः पूजार्थत्वे तु न नलोपः। उच्यते प्रशस्यते वाक् स्तुतिः। ८ तद्रहिते च “दुष्प्राव्योऽवहन्तेदवाचः” ऋ० ४, २५, ६, अवाचःस्तुति रहिताः भा० भवादौ ख। अवाचीनस्तद्भवादौ त्रि०। तिसृभिर्भस्त्रावाचीनविला” ता० ब्रा० “अवाचीनविला अवाङ्मुखविला” भा०। दिगा० यत्। अवाच्यस्तद्भवादौ त्रि०।

अवाच्य = न० वच–ण्यत् न कुत्वम् न० त०। १ दुष्टवचने, “अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः” गीता २ वचनानर्हे, निन्दनीये त्रि० ३ अकथनीये च “अवाच्यो दीक्षितो नाम्ना यवीवानपि योभवेत्” मनुः अवाच् + भवार्थे यत्। ४ अवरकालादौ भवे त्रि०। ५ अभिधावृत्त्या बोधयितुम शक्ये च। “अवाच्यत्वादिकं तस्य वक्ष्ये व्यञ्जनरूपणे” सा० द०। यमुदिश्य कथ्यते ६ तद्भिन्ने च।

अवात = त्रि० नास्ति वातो यत्र। १ वायुशून्यदेशे वा–क्त न० त०। २ अन्यैरप्रतिगते च “वन्वन्नवातोऽस्तृतः” ऋ० ६, १६, २०। वातव्यापारशोषणशून्ये “न मृष्यन्ते युवतयोऽवाताः” ऋ० ६, ६, ७ “अवाताः वातस्य शोषणहेतुत्वात् तच्छून्यतया अशुष्काः” भा०।

अवाञ्चित = त्रि० अव + अन्च–णिच्–क्त। आनमिते “तृणवाञ्छया मुहुरवाञ्चितान्” माघः।

अवाच्यदेश = पु० अवाचि भवः यत् कर्म०। स्त्रीणामधोदेशे त्रिका०।

अवादिन् = त्रि० वद–णिनि न० त० स्त्रियां ङीप्। १ अविरोधिनि २ अवदनशीले च।

अवान = त्रि० अव + अन–अच्। शुष्कफलादौ “अवानमशुकादष्टमेकमाम्रफलं किल” भा० स० प०

अवान्तर = त्रि० अवगतमन्तरं मध्यम् प्रा० स०। १ प्रधानान्तपातिनि अङ्गादौ, २ सामान्यस्य विशेषे ३ प्रसङ्गागते च “इयं फलश्रुतिः निःश्रेयसपरमपुरुषार्थ साधनपरा भवति किन्तु वहिर्मुखानां मोक्षविवक्षयाऽवान्तर कर्मफलैः कर्मसु रुच्यर्थतोत्पादनमात्रम्” श्रीधरः। यथा “पिब निम्बं प्रदास्यामि खलु ते खण्डलड्डुकान्। पित्रैवमुक्तः पिबति तिक्तमप्यतिबालकः” पुरा०। “तएतामवान्तरां दीज्ञामपश्यन्” शत० ब्रा०।

अवान्तरदिश् = स्त्री अवान्तरा द्वयोर्दिशोर्मध्ये दिक्। अन्तरालदिशि ऐशान्यादिदिशि कीणे। “दिशोः पार्श्वेऽवान्तरदिशः पर्शवः” वृ० उ०।

अवान्तराम् = अव्य० अवान्तर + बा० आमु। सर्व्वमध्यपातिनि। “तदेतमवान्तरामात्मानमुपह्वयते” इति शत० ब्रा०।

अवापित = त्रि० वप–णिच्–क्त न० त०। यस्य वपनं न कृतं तादृशे आरोपिते १ धान्यादौ २ अच्छेदिते केशादौ च। अव + अप–णिच्–क्त–३ प्रापिते च। “विषमां कुण्डलनामवापिता” नैष०।

अवाप्त = त्रि० अव + आप–क्त। प्राप्ते। “नानवाप्तमवाप्तव्यं त्रिषु लोकेषु किञ्चन” गीता।

अवाप्तव्य = त्रि० अव + आप–तव्य। प्राप्तव्ये। “नानवाप्तमवाप्तव्यम्” गीता।

अवाप्ति = स्त्री अव + आप–क्तिन्। प्राप्तौ। “तपः किलेदं तदवाप्तिसाधनम्” कुमा० “इष्टानवाप्तेरौत्सुक्यम्” सा० द०।

अवाप्य = त्रि० अव + आप ण्यत्। १ प्राप्ये। “ज्येष्ठता च निवर्त्तेत ज्येष्ठावाप्यञ्च” यद्धनम्” मनुः। न वाप्यः। २ आरोप्ये ३ अच्छेद्ये केशे च अव + आप–ल्यप्। ४ प्राप्येत्यर्थे अव्य०।

अवाम = न०। न० त०। वामभिन्ने १ दक्षिणे “अवामे वामार्द्धे” नैष०। वामः प्रतिकूलः सुन्दरो वा विरोधे न० त०। २ अनुकूले सुन्दरभिन्ने ३ अशोभने च त्रि०।

अवाय = पु० अव + इण् घञ्। अवयवे। “अनवायं किमीदिने” ऋ० १०, ४, २

अवार = न० न वार्य्यते जलेन वृ–कर्म्मणि घञ्। नद्यादेरर्वाक् तीरे।

अवारण = न० वृ–णिच्–ल्युट् अभावे न० त०। निषेधाभावे। न० ब०। तच्छून्ये त्रि०।

अवारणीय = त्रि० न वारणीयः वारयितुमशक्यः। वारयितुमशक्ये १ रिपुप्रभृतौ २ रोगादौ च। अवारणीयाश्च रोगाः सुश्रुते दर्शिता यथा “अथातोऽवारणीयमध्यायं व्यांख्यास्यामः। उपद्रवैस्तु ये जुष्टा व्याधयो यान्त्यवार्य्यताम्। रसायनाद्विना वत्स! तान् शृण्वेकमना मम।। वातव्याधिः प्रमेहश्च कुष्ठमर्शोभगन्दरः। अश्मरी मूढगर्भश्च तथैवोदरमष्टमम्।। अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः।। प्राणमांसक्षयश्वासतृष्णाशोषवमिज्वरैः।। मूर्च्छातिसारहिक्कामिः पुनश्चैतैरुपद्रुताः। वर्ज्जनीया विशेषेण भिषजा सिद्धिमिच्छता।। शूलं सुप्तत्वचं भग्नं कम्पाध्माननिपीडितम्। नरं रुजार्त्तिमन्तञ्च वातव्याधिर्व्विनाशयेत्।। यथोक्तोपद्रवाविष्टमतिप्रस्रुतमेव वा। पिडकापीडितं गाढं प्रमेहो हन्ति मानवम्।। प्रभिन्नं प्रस्रुताङ्गञ्च रक्तनेत्रं हतस्वरम्। पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम्।। तृष्णारोचकशूलार्त्तमतिप्रस्रुतशोणितम्। शोफातिसारसंयुक्तमर्शोव्याधिर्व्विनाशयेत्।। वातमूत्रपुरीषाणि क्रिमयः शुक्रमेव च। भगन्दरात् प्रस्रवन्ति यस्य तं परिवर्ज्जयेत्।। प्रशूननाभिवृषणं रुद्धमूत्रं रुगन्वितम्। अश्मरी क्षपयत्याशु सिकताशर्करान्विता।। गर्भकोषपरासङ्गो मक्कल्लो योनिसंवृतिः। हन्यात् स्त्रियं मूढगर्भेयथोक्ताश्चाप्युपद्रबाः।। पार्श्वभङ्गान्नविद्वेषशोफातिसारपीडितम्। विरिक्तं पूर्य्यमाणञ्च वर्ज्जयेदुदरार्दितम्। यस्ताम्यति विसंज्ञश्च शेते निपतितोऽपि वा। शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः।। यो हृष्टरोमा रूक्षाक्षो हृदि संघातशूलवान्। नित्यं वक्त्रेण चोच्छस्येत् तं ज्वरो हन्ति मानवम्।। हिक्काश्वासपिपासार्त्तं मूढं विभ्रान्तलोचनम्। सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः।। आविलाक्षं प्रताम्यन्तं निद्रायुक्तमतीव च। क्षीणशोणितमांसञ्च नरं क्षपयति ज्वरः।। श्वासशूलपिपासार्त्तं क्षीणं ज्वरनिपीडितम्। विशेषेण नरं वृद्धमतीसारो विनाशयेत्।। शुक्लाक्षमन्नद्वेष्टारमूर्द्ध्वश्वासनिपीडितम्। कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम्।। श्वासशूलपिपासान्नविद्वेषग्रन्थिमूढताः। भवन्ति दुर्बलत्वञ्च गुल्मिनोमृत्युमेष्यतः।। आध्मानं बद्धनिष्यन्दं छर्दिहिक्कातृडन्वितम्। रुजाश्वाससमाविष्टं विद्रधिर्नाशयेन्नरम्।। पाण्डुदन्तनखो यश्च पाण्डुनेत्रश्च मानवः। पाण्डुसङ्घातदर्शी च पाण्डुरोगी विनश्यति।। लोहितं छर्दयेद्यश्च बहुशोलोहितेक्षणः। रक्तानाञ्च दिशां द्रष्टा रक्तपित्ती विनश्यति।। अवाङ्मुखस्तून्मुखो वा क्षीणमांसबलो नरः। जागरिष्णुरसन्देहमुन्मादेन विनश्यति।। बहुशोऽपस्मरन्तन्तु प्रक्षीणं चलितभ्रुवम्। नेत्राभ्याञ्चविकुर्व्वाणमपस्मारो विनाशयेत्”।।

अवारपार = पु० अवारमर्वाक्तीरं पारञ्चोत्तरतीरंच स्तो यस्य अर्शआद्यच्। उभयकूलवति समुद्रे।

अवारपारीण = त्रि० अवारपारे गच्छति + ख। पारगामिनि।

अवारिका = स्त्री नास्ति वारि यत्र। धन्याके, तस्य अतिशुष्क त्वेन जलशून्यत्वात्तथात्वम्।

अवारित = त्रि० न वारितः। अनिषिद्धे “ग्रामेषु सैन्यैरकरोदवारितः” माघः।

अवारीण = त्रि० अवारं गच्छति ख। नद्यादेरर्व्वाक्पार गन्तरि।

अवार्य्य = त्रि० न वार्य्यः। अवारणीये। “उपद्रवैस्तु ये जुष्टाव्याधयो यान्त्यवार्य्यताम्” सुश्रु०।

अवावट = पु० “द्वितीयेन तु यः पित्रा सर्वणायां प्रजायते। अवावट इतिख्यातः शूद्रधर्म्मा स जातितः” स्मृत्युक्ते कुण्डगोलकादौ।

अवावन् = त्रि० ओण्–अपसारणे ङ्वनिप्। अपसारके। स्त्रियां ङीप् वनोरश्च। अवावरी।

अवासस् = त्रि० न वासोऽस्य। १ वस्त्ररहिते नग्ने २ बौद्धभेदे च।

अवासिन् = त्रि० न वसति वस–णिनि न० त०। निवासशील भिन्ने। स्त्रियां ङीप्।

अवास्तव = न० न वास्तवम्। सत्यभिन्ने मिथ्याभूते।

अवाह्य = त्रि० न० त०। वोढुमशक्ये।

अवि = पु० अव–इन्। १ सूर्य्ये, २ अर्कवृक्षे ३ मेषे, ४ छागे, “महान्त्यपि समृद्धानि गोजाविधनधान्यतः” जिनकार्म्मुकवस्तावी पृथक् दद्याद् विशुद्धये” इति च मनुः ५ पर्व्वते, ६ मूषिककम्बले, ७ प्रमौ च। ८ लज्जायां स्त्री वा ङीप्। खार्थे कन्। अविशब्दार्थे। भावादौ पुरोहिता० यक्। आविक्यम् तद्भावादौ न०।

अविकट = पु० अवि + समूहे कटच्। १ मेषसंघाते। विकट उग्रः न० त०। २ उग्रभिन्ने सौम्ये त्रि०।

अविकटोरण = पु० अविकटे मेघसंघे देयः उरणःमेषः। नृपाय शुल्करूपेण देये मेघसंघातमध्ये मेघरूपे करे।

अविकत्थन = त्रि० न० त०। श्लाघाशून्ये “सन्तुष्टाश्च क्षमायुक्ता भवेयुरविक्थनाः” देवीपुरा०।

अविकल = त्रि० न विकलः व्याकुलः। १ व्याकुलभिन्ने २ अविसंवादिनि च “कलमविकलतालं गायकैर्बोधहेतोः” र्माघः “अधिकलोऽविसंवादी” मल्लि०।

अविकार = पु० अभावे न० त०। विकाराभावे न० ब०! विकारशून्ये। विकारश्च परिणामभेदः भावधर्म्मः।

अविकार्य्य = त्रि० नविकार्यः। १ विकार्य्यभिन्ने परिणामिगुणशून्ये “अविकार्य्योऽयमुच्यते” गीता। विकार्यञ्च द्वेधा “प्रकृत्युच्छेदमम्भूतं किञ्चित् काष्ठादिभस्मवत्। किञ्चिद्गुणान्तरोत् पत्त्या सुवर्णादिविकारवत्” इति वाक्यप० उक्तं ग्राह्यम् यादृशवस्तुनश्च विकार्यकर्मत्वम् तद्भिन्ने २ पदार्थे परात्मनस्तु तदुभयाभावात् सर्वथाऽविकार्यत्वमेव।

अविकृत = त्रि० न विकृतः। परिणामिगुणशून्ये।

अविकृति = स्त्री अभावे न० त०। १ विकाराभावे न० ब० २ विकार शून्ये च। “३ सांख्योक्तायां मूलप्रकृतौ स्त्री “मूलप्रकृति रविकृतिः” सा० का०।

अविक्रिय = त्रि० नास्ति विक्रिया यस्य। विकारशून्ये।

अविक्रीत = त्रि० न विक्रीतः। विक्रीतस्याऽपि कालविशेषमध्ये पुनः प्रत्याहर्त्तुं शक्ये द्रव्यभेदोतत्र कालनियमो यथा “क्रीत्वा विक्रीय वा किञ्चित् यस्येहानुशयो भवेत्। सोऽन्तर्दशाहं तद्द्रव्यं दद्याच्चैवाददीत वा” मनुः। क्रीतानुशयकालवत् द्रव्यविशेषे विक्रयानुशयकालविशेषोग्राह्यः। “दशैकपञ्चस- प्ताहमासत्र्यहार्द्धमासिकम्। वीजायोवाह्यरत्नस्त्रीदोह्य पुंसां परीक्षणम्” या० स्मृ०। तथाच वीजे–व्रीह्यदौ पञ्चाहं, रत्ने–मुक्ताप्रबालादौ सप्ताहं, स्त्रियां–दास्यां मासं, दोह्ये–गोमहिष्यादौ त्र्यहम्, पुंसि–दासे पञ्चदशाहं, व्याप्य परीक्षणं कर्त्तव्यम् तावत्कालमध्ये अनुशये प्रत्याहर्त्तुं शक्यते इत्यवगम्यते एवञ्च मनुवचनमेतदतिरिक्तविषयम् एवं विक्रयस्यानुशयकालविशेषोद्रव्यविशेषे बोध्यः।

अविक्रेय = त्रि० विक्रेतुमनर्हः। स्मृतिनिषिद्धविक्रये लाक्षालवणादौ अपण्यशब्दे विवृतिः। “अविक्रेयस्य विक्रयः” स्मृतिः।

अविक्षत = विक्षतः नष्टः भोगादिना दुष्टोवा न० त०। १ अविनष्टे भोगादिना १ अदूषिते च। “विक्रेतुः प्रतिदेयं तत्तस्मिन्ने वाह्न्यविक्षतम्” स्मृतिः।

अविक्षित = त्रि० नास्ति विशेषेण क्षितम् क्षयोऽस्य भावे क्त। विशेषक्षयशून्ये “अविक्षितास आयुषा सुवीराः ऋ० ७, १२३४। वां दीर्घनत्वे। अविक्षीणः तत्रैव कर्त्तरि क्त न० त०। अविक्षीण इत्येव।

अविक्षिप = त्रि० विक्षेप्तुं न शक्तः क्षिप–क–। विक्षेप्तुमशक्ते। स्वार्थे कन् तत्रैव।

अविगन्धा = स्त्री अवेश्छागस्य गन्ध इव गन्धः पुष्पादावस्याः। अजगन्धावृक्षे।

अविगर्हित = त्रि० न० त०। १ अनिन्दिते

अविगीत = त्रि० न० त०। अवनिन्दिते “अविगीतशिष्टाचार परम्पराप्राप्तत्व नेति” मुक्ता०।

अविग्न = पु० विज–क्त न० त०। (करमचा) १ करमर्द्दकवृक्षे। २ उद्विग्नभिन्ने त्रि०।

अविग्रह = त्रि० नास्ति विशेषेण ग्रहो यस्य। १ विशेषरूपेणाज्ञाते “अविग्रहा गतादिस्था यथा ग्रामादिकर्म्मभिः” हरिः। न विग्रहो वृत्तिसमानार्थकंवाक्यं यस्य। २ व्याकरणोक्तेनित्यसमासे। नास्ति विग्रहो देहो यस्य। ३ निरवयवे परमेशे पु० नास्ति मीमांसकोक्ते ४ विग्रहशून्ये देवे च। तैर्हिदेवानां विग्रहवत्त्वं खण्डितं तच्च शङ्कापूर्ब्बकं जै० सू० भाष्ये च दर्शितं यथा–“देवता वा प्रयोजबेदतिथिवद्भोजनस्य तदर्थत्वात्” सू० “नैतदस्ति,–अग्न्यादयोऽप्रयोजकाः–इति, सर्व्वा देवताः सर्व्वेषां धर्म्माणां प्रयोजिकाः भवितुमर्हन्ति। कुतः?। ‘भोजनस्य तदर्थत्वात्’,–भोजनं हि इदं देवतायाः, यागो नाम, भोज्यं द्रव्यं देवतायै प्रदीथते, सा भोक्ष्यते–इति, देवतासम्प्रदानको हि अयं यागः श्रूयते, सम्रदानं च नाम कर्म्मणोऽपि ईप्सिततमादभिप्रेततरम्, तस्मात् न गुणभूता देवता, देवतां प्रति गुणभूते द्रव्यकर्म्मणी। अपि च यागो नाम देवतापूजा, पूजा च पूजनीयं प्रति गुणभूता लोके दृश्यते, तदेतत् ‘अतिथिवत्’ द्रष्टव्यं, यथा यावत्किञ्चित् अतिथेः परिचरणं, सर्व्वं तत् अतिथिप्रयुक्तम् एवम् इदमपि–इति। आह,–“ननु एवं ब्रुवता, विग्रहवती देवता भ्वङ्क्ते च–इत्यभ्युपगतं भवति”। उच्यते, वाढं, विग्रहवती देवता भुङ्क्ते च। कुतः?। स्मृतेः, उपचारात्, अन्यार्थदर्शनाच्च,–एवं हि स्मरन्ति, विग्रहवती देवता–इति, स्मृतिश्च नः प्रमाणम्। तथा विग्रहवतीं देवताम् उपचरन्ति,–यमं दण्डहस्तमालिखन्ति, कथयन्ति च, तथा वरुणं पाशहस्तम्, इन्द्रं वज्रहस्तं, उपचारादपि स्मृतेर्द्रढिमानं कल्पयामः। तथा अन्यार्थवचनं, विग्रहवतीं देवतां दर्शयति,–“जगृम्भा ते दक्षिणम् इन्द्र! हस्तम्”–इति, पुरुषविग्रहस्य हि दक्षिणः सव्यश्च हस्तो भवति। तथा “इमे चित् इन्द्र! रोदसी अपारे यत् संगृ म्भा मघवन्! काशिरित्ते,–इति, काशिर्मुष्टिः, सोऽपि पुरुषविग्रहस्य एव उपपद्यते। तथा, “तुविग्रीवो वयोदरः सुबाहुरन्धसो मदे। इन्द्रो! वृत्राणि जिघ्नते” इति, ग्रीवा उदरं बाहू इति पुरुषविग्रहदर्शनं भवति। तस्मात् विग्रहवती देवता इति। भङ्क्ते च। कथम् अवगम्यते?। स्मृतेः, उपचारात् अन्यार्थदर्शनाच्च, एवं स्मरन्ति, भुङ्क्ते देवता इति। तथा च एनाम् भुञ्जानाम् इव उपचरन्ति, यदस्यै विविधान् उपचारान् उपहरन्ति। तथा च अन्यार्थवचनं भुञ्जनाम् देवतां गमयति,–“अद्धीन्द्र! पिब च प्रस्थितस्य”–इति, तथा च, “विश्वासनानि जठरेषु धत्ते” इति, “एकया प्रति धा पिबत्साकं सरांसि त्रिंशतम्” इति। आह, “न देवता भुङ्क्ते, यदि च भुञ्जीत देवतायै हविः प्रत्तं क्षीयेत”। उच्यते, अन्नरसभोजिनी देवता मधुकरीवत् अबगम्यते। कथम्?। देवतायै हविः प्रत्तं नीरसं भवति, तस्मात् अन्नरसं भुङ्क्ते देवता इति गम्यते” भा०। “आर्थपत्याच्च” सू०। “यदि कस्यचित् अर्थस्य ईशाना देवता उपचर्यमाणा च प्रसीदेत् ततः तदाराधनार्थम् इयं देवतापूजा अभिनिर्वर्त्त्येत, न च एतदुभयम् अपि अस्ति इति, तत् उच्यते, अर्थपतिर्द्देवता इति। कथम् अवगम्यते?। स्मृतेः, उपचारात् अन्यार्थदर्शनाच्च, एवं हि स्मरन्ति, अर्थानाम् ईष्टे देवता इति। तथा, देवग्रामो देवक्षेत्रम् इत्युपचारस्तामेव स्मृतिं द्रढयति। तथा अन्यार्थवचनम् ईशानां देवतां दर्शयति, “इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत् पर्वतानां, इन्द्रो वृधाम् इन्द्र इन्मेधिराणाम् इन्द्रः क्षेमे योगे हव्ये इन्द्रः’ इति, तथा, “ईशानम् अस्य जगतः स्व ईशम् ईशानम् इन्द्र! तस्थुषे” इति। तथा, स्मृत्युपचाराभ्यां प्रसीदति इत्युपगच्छामः, एवं हि स्मरन्ति, प्रसीदति देवता इति। तथा उपचरन्ति, प्रसन्नोऽस्य पशुपतिः, पुत्रोऽस्य जातः, प्रसन्नोऽस्य वैश्रवणो धनम् अनेन लब्धम् इति। तथा अन्यार्थदर्शनं भवति, आहुतिभिरिव हुतादौ देवान् प्रीणाति’ इति, तस्मै प्रीता इषमूर्जं नियच्छन्ति’ इति” भा०। “ततश्च तेन सम्बन्धः” सू०। “ततो” देवतायाः, तेन फलेन सम्बन्धः परिचरितुर्भवति, यो देवताम् इज्यया परिचरति, तं सा फलेन सम्बध्नाति। कथम् एतत् अवगम्यते?। स्मृत्युपचाराभ्यां स्मरन्ति हि, देवता यष्टुः फलं ददाति इति, तामेव उपचारेण स्मृतिं द्रढयति, पशुपतिः, अनेनौपचरितः पुत्रोऽनेन लब्धः इति। तथा अन्यार्थदर्शनम् इममेव अर्थं दर्शयति, “स, इत् जनेन स विशा स जन्मना स पुत्रैर्वाजम्भरते धना नृभिः। देवानाम् यः पितरमावि वासति श्रद्धासना हविषा ब्रह्मणस्पतिम्” इति तथा, “तृप्त एवैनम् इन्द्रः प्रजया पशुभिः तर्पयति” इति तस्मात् हविर्द्दानेन गुणवचनैश्च देवता आराध्यते, सा प्रीता सती फलं प्रयच्छति येन कर्म्मणा अग्निराराधितः, तस्य फलस्य ईष्टे, तत् कर्त्त्रे प्रयच्छति, न तत् सूर्य्यः प्रदातुमर्हति, वचनादेतत् अवगम्यते। कः किं प्रयच्छति? इति यथा अग्नौ वचनं, न तत् सूर्य्ये” भा०। “अपि वा शब्दपूर्व्वत्वाद्यज्ञकर्म प्रधानं स्याद्गुणत्वे देवताश्रुतिः” सू०। “अपि वा इति पक्षो व्यावर्त्त्यते। न चैतदस्ति यदुक्तं देवता प्रयोजिका” इति, “यज्ञकर्म्म प्रधानं स्यात्” यजतेर्जातम् अपूर्व्वम्। कुतः?। “शब्दपूर्व्वत्वात्”, यत् हि फलं ददाति, तत् प्रयोजकम् इदं फलं ददाति इत्येतत् ज्ञानं शब्दपूर्ब्बकं न प्रत्यक्षादिभिः अवगम्यते, शब्दश्च यजतिवाच्यात् फलम् आह, न देवतायाः। कथम् अवगम्यते?। दर्शपूर्णमासयोः करणत्वेन निर्द्देशः “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इति, तथा, “ज्योतिष्टोमेन स्वर्गकामो यजेत” इति, यजत्यर्थस्य हि स्वर्गकामेन समभिव्याहारो न देवतायाः। “ननु द्रव्यदेवताक्रियं यजत्यर्थः”। सत्यमेवं, किन्तु “गुणत्वे देवताश्रुतिः”, द्रव्यदेवतं हि भूतं, भावयितव्यो यजत्यर्थः, भूतभव्यसमुच्चारणे च भूतं भव्याय उपदिश्यते, तस्मात् न देवता प्रयोजिका। अथ यदुक्तं “कर्मण ईप्सितादभिप्रेततरम्” इति न अस्य अभिप्रेतताम् अपह्नुमहे, तद्धितशब्देन चतुर्थ्या वा संयुक्तस्य देवतार्थस्य वाक्यात् अभिप्रेतता अवगम्यते,। फलसंयोगस्तु वाक्यादेव यजत्यर्थस्य। तस्य च श्रुत्या करणता अवगम्यते, न देवतायाः। तत्र यद्यपि देवतार्थता यागस्य गम्यते। पलार्थतापि तेन न प्रतिषिध्यते, फलं च पुरुषार्थः पुरुषार्था च नः प्रवृत्तिः, न च असौ देवतायाः, तस्मात् न देवताप्रयुक्ताः प्रवर्त्तिष्यामहे, या तु, सम्प्रदानस्य अभिप्रेतता सा फलवतो यजेः, साधनत्वे सति उपपद्यते। यच्च,–यजिर्द्देवतापूजा सा पूज्यमानप्रधाना लोके लक्ष्यते–इति, न लोकवत् इह भवितव्यम्, इह पूज्यमानपूजा प्रधानं, यत् हि फलवत् तत् प्रयोजकं, तस्मात् यज्ञकर्म प्रयोजकम्। अपिच, एतस्मिन् पक्षे विग्रहवती देवता भुङ्क्ते च–इति अध्यवसनीयं भवति, न हि अविग्रहायै अभुञ्जनायै च दानं भोजनं वा सम्भवति–इति”। यच्च उक्तं स्मृत्युपचारान्यार्थदर्शनैर्विग्रहवती, भुङ्के चैति। तन्न, स्मृतेर्मन्त्रार्थवादमूलत्वात्–मन्त्रेभ्यश्च अर्थवादेभ्यश्च स्मृतिमूलं विज्ञानम् उत्पद्यते–इति प्रत्यक्षम् अवगम्यते, ते च मन्त्रार्थवादा नैवंपराः–इत्येतत् वक्ष्यामः। आह, ‘यदि नैवंपरा न तर्हि मन्त्रार्थवादमूलं तद्विज्ञानम्’–इति। उच्यते,–ये आलोचनमात्रेण मन्त्रार्थवादान् पश्यन्ति, तेषाम् तत् स्मृतिमूलम् ये पुनर्निपुणतः पश्यन्ति, तेषां तत् वाधितम्। अपि च कस्यचित् स्मृति मूलं भवति। तस्मात् ततः एव स्मृतिः। उपचारोऽपि स्मृतिमूल एव। यत्तु अन्यार्थदर्शनम्, उक्तं–‘जगृम्भा ते दक्षिणम् इन्द्र! हस्तम्’–इति। नैतत् एवम्परं,–इन्द्रस्य हस्तो विद्यते–इति” यःतस्य दक्षिणो हस्तस्तं वयमगृहीतवन्त इति। तसमात् वाक्यात् इन्द्रस्य हस्तसत्ता न प्रतीयते। आह, ‘यदि त्वसौ नास्ति, वयं ते हस्तं गृहीतवन्तः– इत्येवं न अवकल्पते–इति हस्तसत्ता अध्यवसीयते,अस्त्यसौ हस्तः, वयं यं गृहीतवन्तः’–इति। तन्न उपपद्यते यद्यप्यस्य हस्तो भवेत्, तथापि न तम् उपगृहीतवन्तःइति प्रत्यक्षमेतत्, तथाप्येतन्न अवकल्पत एव, तत्र एतत् असम्बद्धं वा अवकल्पयितव्यं, स्तुतिर्वा, तच्च मत्पक्षेऽपि तुल्यम्। अथ एवम् उच्यते,–‘तस्य एतद्वचनं, यो गृहीतवान् तस्य हस्तम्’–इति। उच्यते, नैतत् अध्यवसेयम्, आदि मत्तादोषो वेदस्य प्रसज्येत, न च, गृहीतवान् आसीत्– इत्युच्यते, प्रमाणाभावात्। ‘एतस्मात् एव वचनात् अर्थात् कल्प्यते हस्तग्रहीता इति चेत्’। तन्न, अयथार्थस्यापि उच्चारणं सम्भवत्येव यतः, यथा, ‘दश दाडिमानि षडपूपाः’ इति। यस्यापि च एष पक्षो, विग्रहवान् इन्द्रः इति, बस्यापि इन्द्रशब्देन आमन्त्रणं सम्बोधनार्थं, सम्बोधनम् अनुवचनाय, तत्र सम्बुद्धः इत्यवगते अनुवचनं न्याय्यम् न च, असौ केनचित् प्रकारेण सम्बुद्ध इति अवगम्यते, अनवगते सम्बोधनं व्यर्थम्। ‘वचनप्रामाण्यात् सम्बुध्यते इत्येवं गम्यते इति चेत् उक्तम् अदृष्टकल्पनायां हस्तादिकल्पनानुपपत्तिरिति। न च, असौ सम्बुद्धः इति अवधार्य्यते, प्रमाणाभावात्। तस्मात् सम्बोधनवचनं न सम्बोधनाय, निर्द्देशार्थमेव। अविग्रहपक्षेऽपि तत् निर्द्देशार्थमेव भविष्यति। तत्र आमन्त्रितविभक्तिवचनं स्तुतये, एवम् इदं देवताख्यं साधयितृतमं, यच्चेतनादिवत् सम्बुध्य साधयति इति चेतनवदिव उपचर्य्यमाणः सम्बुद्भिशब्देन आमन्त्र्यते, तथा सम्बोधनशब्देन निर्द्दिश्य उच्यते, गृहीतवन्तो वयं तव हस्तं त्त्वदाश्रया वयम् इत्यर्थः, अस्माभिः इन्द्रकर्म्म कर्त्तव्यम् इत्येतत् अनेन स्मार्य्यते। तथा “इमे द्यावापृथिव्यौ दूते अपारे यत् संगृह्णासि मघवन्नहो ते पूजितो मुष्टिः” इति सन्तमिव मुष्टिं स्तुत्यर्थेन वदति,। तस्यापि भावे न प्रमाणमस्ति, न इदं वचनं, “इत् महान् काशिः” अस्ति, किन्तर्हि, यस्तव काशिः, स महान् इति, अन्यार्थस्तव काशिरस्ति इति, अन्यः तव काशिर्महान् इति। “सता हि स्तुतिः उपपद्यते इति चेत्”। नैतत्, नियोगतो यस्यापि पौरुषविधिकैरङ्गैर्न्नास्ति संयोगः, पौरुषविधिकैरङ्गैः तस्यापि स्तुतिर्भवति, यथा’ “एते वदन्ति शतवत् सहस्रवत् अभिक्रन्दन्ति हरितेभिरासभिः। विष्ट्वी ग्रावाणः सुकृतः, सुकृत्वया होतुश्चित् पूर्व्वे हविरद्यमाशत” इति। तथा, “सुखं रथं युयुते सिन्धुरश्विनम्” इति। तस्मात् न श्रुतिवचनात् अर्थापत्तिर्भवति पुरुषविधत्वे देवतायाः। तथा, “तुविग्रीव इन्द्रः, इति नैतत् युक्तं भवति, ग्रोवावान् इन्द्रः इति, किन्तर्हि याऽस्य ग्रीवा, सा महती, ग्रीवासत्त्वे नास्ति प्रमाणम्। न च, ग्रीवास्तुतिः अर्थापत्तिः, अपुरुषविधेऽपि स्तुत्युपपत्तेः। अपि च, “इन्द्रो वृत्राणि जिघ्नते” इत्येताभ्यां पदाभ्याम् इन्द्रशब्दः सम्बद्धो न शक्नोति तुविग्रीवादिभिः सम्बन्धं यातुं, द्विरुच्चारणम् अस्य प्रसज्यते, तुविग्रीवावान् इन्द्रो वेदितव्यः वृत्राणि च इन्द्रो हन्ति–इति, तथा हि सति भिद्येत, अभिन्नं च वाक्यम् उपलभ्यते, तदेवम् अवकल्पते, यदि तुविग्रीवादयोऽस्य न उपदिश्यन्ते–इति स्तुत्यर्थं सङ्कीर्त्त्यते तुविग्रीवादिः, ‘अन्धसो मदे ईट्टशो वृत्राणि हन्ति’–इति एषा तु वचनव्यक्तिः, वृत्रबधोपदेशपरम् इदं वचनमिति। यदपि वचनं,–बाहू ते इन्द्र रोमशौ, अक्षी ते इन्द्र पिङ्गले’–इति, तदपि बाह्वोः रोमशत्वम् अक्ष्णोश्च पैङ्गल्यम् आह, न बाहुसत्तामक्षिसत्तां च। यदपि अक्षिसत्तां वदति–इति गम्यते,–‘चक्षुष्मते शृण्वते ते ब्रवीमि’–इति, तदपि न चक्षुःसम्बन्धार्थं, चक्षुष्मते ब्रवीमि–इति वचनसम्बन्धार्थं, तत् सतीमिव चक्षुष्मत्तां स्तुत्यर्थम् उच्चारयति। कुतः एतत् अवगम्यते?। चतुर्थीनिर्द्देशात्, यदि प्रातिपदिकाथाऽध्यवसीयते, तथा वाक्यम्भिद्येत, चक्षुष्मान्–इत्येवं च उद्दिश्येत, चक्षुष्मते ते व्रवीमि–इति च। तस्मात् न किञ्चित् अर्न्यार्थदर्शनं पुरुषविधतां देवतायाम् इदं ख्यापयति–इति, न च, इदं भोजनं, न हि देवता भुङ्क्ते, तस्मात्, भोजनस्य तदर्थत्वात्–इति तत् असद्वचनम्। यदपि स्मृत्युपचारान्यार्थदर्शनैर्भुङ्क्ते–इति, तत् अविग्रहत्वेन प्रत्युक्तम्। अपि च, भुञ्जानायै देवतायै प्रत्तं हबिः क्षीयेत। न च, मधुकरीवत् अन्नरसभोजिन्यो देवताः –इति प्रमाणमस्ति, मधुकरीषु प्रत्यक्षं, न च तद्वत् देवतायाम्। तस्मात् न भुङ्क्ते देवता इति। यदुक्तम् देवतायै हविः प्रत्तं नीरसं भवति–इति। नैषदोषः, वातोपहतं नीरसम्भवति–इति, शीतीभूतं च। न च, असौ कस्य चित् अर्थस्य ईष्टे, अनीशा कथं दास्यति?।–इति। यदुक्तं, स्मृत्युपचारान्यार्थदर्शनैः ईशाना देवता–इत्यववगम्यते–इति। तन्न, स्मृतेः मन्त्रार्थवादमुलत्वातित्युक्तम्, उपचांरोऽपि,–‘देवग्रामो देवक्षेत्रम्’–इति उपचारमात्रम्,–यो यदभिप्रेतं विनियोगमर्हति, तत्तस्य स्वं, न च ग्रामं क्षेत्रं वा यथाभिप्रायं विनियुङ्क्ते देवता। तस्मात् न सम्प्रयच्छति–इति, देवपरिचारकाणान्तु ततो भूतिर्भवति, देवताम् उद्दिश्य, यत् त्यक्तम्। यदुक्तम्, अन्यार्थदर्शनम् ईशानां देवतां ख्यापयति,–‘इन्द्रो दिव इन्द्र ईशे’–इत्येवमादीति, तत् प्रत्यक्षाम् अनीशानां देवताम् उपलभ्य अध्यवस्यामः,–भाक्त एष शब्दः–इति। ‘तत्र आह, + वचनप्रामाण्यादेव अस्य ईशानता अवगम्यते, यद्देवलोका अर्थान् विनियुञ्जते, तद्देवताभिप्रायादेव–इत्यध्यवस्यामः’–इति। तन्न, प्रत्यक्षात् प्रमाणात् देवतापरिचारकाणाम् अभिप्रायः इत्यवगम्यते, स न शक्यो बाधितुम्। येऽपि देवताम् ईशानां वर्णयन्ति, तेऽपि न अपह्नुवते परिचारकाणाम् अभिप्रायम्। किं चाहुः, तथा देवता करोति, यथा परिचारकाणाम् अभिप्रायो भवति इति, न च, स ईशानो भवति, यः पराभिप्रायम् अनुरुध्यते, यस्य न स्वाभिप्रायात् विनियोगो भवति। अपि च, न च एतद्वचनं, वर्त्तमानकालोपदेशत्वात्, प्रत्यक्षविरोधात्, स्तुतिवादोऽवधार्य्यते, स्तुतिवादे च सम्भवति न वचनप्रामाण्यात् ईशिष्यते इति गम्यते। न च, देवता फलेन सम्बध्नाति, या तदर्थं परि चर्य्येत। यदुक्तं, स्मृत्युपचारान्यार्थदर्शनैर्द्ददाति प्रसीदति च इति। तत्र स्मृत्युपचारयोर्व्यक्तं यत् अन्यार्थदर्शनं तस्मै प्रीता इषमूर्ज्जम् इति, तन्न, अन्यस्य विधेराग्नानात् दक्षिणतः सम्परिहर्त्तव्या इत्याह” तथा “तृप्त एवैनम् इन्द्रः प्रजया पशुभिस्तर्पयति” इति अत्र ऐन्द्रस्य हविषो विधातारम्। तस्मात् देवता न प्रयोजिका इति” भा०। “अतिथौ तत्प्रधानत्वमभावः कर्म्मणि स्यात्तस्य प्रीतिप्रधानत्वात्” सू०। “यदुक्तम् अतिथिवत् इति तत् परिहर्त्तव्यम् आतिथ्यम् अतिथिप्रयुक्तं स्यात् आतिथ्ये हि तत् प्रीतिर्विषीयते अतिथिः परिचरितव्यः यथा प्रीयते तथा कर्त्तव्यम् इति। भोजनं दानं वा कार्य्यम् इति यद्यत् अतियये रोचते तत् कर्त्तव्यं यत् तस्मै न रोचते न तत् बलात् कारयितव्यम् इति इह तु कर्म्मणि अभावः प्रीतिविधानस्य। तस्मात् विषमम् अतिथिना” शवरभाष्यम्। तदेतद्वेदान्तिभिर्न्न मन्यते तैर्हि तेषां विग्रहत्त्वमङ्गीकृतं तथाच शङ्कापूर्ब्बकं देवानां विग्रहवत्त्वं शा० सूत्रे तद्भाष्ये च व्यवस्थापितं यथा। “विरोधः कर्म्मणीति चेन्नानेकप्रतिपत्तेर्द्दर्शनात्” शा० सू० “स्यादेतत् यदि विग्रहवत्त्वाद्यभ्युपगमेन देवादीनां विद्यास्वधिकारोवर्ण्येत विग्रहवत्त्वादृत्विगादिवदिन्द्रादीनामपि स्वरूपसन्निधानेन योगेऽङ्गभावोदृश्यते न च सम्भवति। बहुषु युगपदेकस्येन्द्रस्य स्वरूपसन्निधानानुपपश्चेरिति चेन्नायमस्ति विरोधः कस्मात्? अनेकप्रतिपत्तेः एकस्यापि देवात्मनोयुगपदनेकस्वरूपप्रतिपत्तिः सम्भवति। कथमेतदवगम्यते? दर्शनात्। तथाहि “कति देवाः”? इत्युपक्रम्य “त्रयश्च त्री च शता च त्रयश्च त्री च सहस्रेति” निरुच्य” कतमे ते? इत्यस्यां पृच्छ्वयां “महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति ब्रुवती श्रुतिरैकैकस्य देवतात्मनो युगपदनेकरूपतान्दर्शयति। तथा त्रयस्त्रिंशतोऽपि षडाद्यन्तर्भावक्रमेण “कतमएको देव इति प्राण” इति प्राणैकरूपतान्देवानां दर्शयन्ती तस्यैवैकस्य प्राणस्य युगपदनेकरूपतान्दर्शयति। तथा स्मृतिरपि “आत्मनो वै सहस्राणि बहूनि भरतर्षभ! कुर्य्याद्योगी बलं प्राप्य तैश्च सर्वैर्महीञ्चरेत्। प्राप्नुयाद्विषयान् कैश्चित् कैश्चिदुग्रन्तपश्चरेत्। संक्षिपेत्तु पुनस्तानि सूर्य्योरश्मिगणानिव” इत्येवञ्जा तीयका प्राप्ताणिमाद्यैश्वर्य्याणां योगिनामपि युगपदनेकशरीरयोगं दर्शयति किमु वक्तव्यमाजानसिद्धानां देवानाम्। अनेकरूपप्रतिपत्तिसम्भवाच्चैकैका देवता बहुरूपैरात्मानं प्रविभज्य बहुषु यागेषु युगपदङ्गभावं गच्छति, परैश्च न दृश्यतेऽन्तर्द्धानादिशक्तियोगादित्युपपद्यते। अनेक प्रतिपत्तेर्दर्शनादित्यस्यापरा व्याख्या। विग्रहवतामपि कर्माङ्ग मावश्चोदनास्वनेका प्रतिपत्तिर्दृश्यते। क्वचिदेकोविग्रहवाननेकत्र न युगपदङ्गभावं गच्छति यथा बहुभिर्भोजयद्भिर्नैकोब्राह्मणो युगपद्भोज्यते। क्वचिच्चैको विग्रहवाननेकत्र युगपदङ्गभावं गच्छति यथा बहुभिर्नमस्कुर्वाणैरेको ब्राह्मणो युगपन्नमस्क्रियते तद्वदिहोद्देशपरित्यागात्मकत्वाद्यागस्य विग्रहतीमप्येकां देवतामुद्दिश्य बहवः स्वंस्वं द्रव्यं युगपत् परित्यक्ष्यन्तीति विग्रहवत्त्वेऽपि देवानां न किञ्चित् कर्मणि विरुध्यते” भा०। “शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्” सू०। “मा नाम विग्रहवत्त्वे देवादीनामुपगम्यमाने कश्चिद्विरोधः प्रसञ्जि, शब्दे तु विरोधः प्रसज्येत, कथम्? औत्पत्तिकं हि शब्दस्यार्थेन सम्बन्धमाश्रित्यानपेक्षत्वादिति वेदस्य प्रामाण्यं स्थापितम्। इदानीस्तु विग्रहवती देवताऽभ्युपगम्यमाना यद्यप्यैश्वर्य्ययोगाद्युगपदनेककर्मसम्बन्धीनि हवींषि भूञ्जीत तथापि विग्रहयोगादस्मदादिवज्जननमरणवती सेति नित्यस्य शब्दस्यानित्येनार्थेनानित्यसम्बन्धे प्रमीयमाणे यद्वैदिके शब्दे प्राभाण्यं स्थितं तस्य विरोधःस्यादिति चेन्नायमप्यस्ति विरोधः कस्मात्? अतः प्रभवात् अतएव हि वैदिकाच्छब्दाद्देवादिकञ्जगत् प्रभवति। ननु जन्माद्यस्य यत इति ब्रह्मप्रभवत्वं जगतोऽवधारितं कथमिह शब्दप्रभवत्वमुच्यते?। अपि च यदि नाम वैदिकाच्छब्दादस्य प्रभवोऽन्युपगतः कथमेतावता विरोधः शब्दे परिहृतः? यावता बसवोरुद्रा आदित्याविश्वेदेवामरुत इत्येतेऽर्था अनित्या एव, उत्पत्तिमत्त्वात् तदनित्यत्वे तद्वाचकानां वैदिकानां वस्वा- दिशब्दानामनित्यत्वं केन वार्य्यते? प्रसिद्धं हि लोके देवदत्तस्य पुत्रे उत्पन्ने यज्ञदत्त इति तस्य नाम क्रिय ते इति। तस्माद्विरोध एव इति चेन्न गबादिशब्दार्थसम्बन्धनित्यत्वदर्शनात्। न हि गवादिव्यक्तीनामुत्पत्तिमत्त्वे तदाकृतीनामप्युत्पत्तिमत्त्वं स्यात्। द्रव्यगुणकर्मणां हि व्यक्तयएवोत्पद्यन्ते नाकृतयः। आकृतिभिश्च शब्दानां सम्बन्धो नव्यक्तिभिः व्यक्तीनामानन्त्यात् सम्बन्धग्रहणानुपपत्तेः। व्यक्तिषूत्पद्यमानास्वप्याकृतीनां नित्यत्वान्न गवादिशब्देषु कश्चिद्विरोधो दृश्यते। तथा देवादिव्यक्तिप्रभवाभ्युपगमेऽपि आकृतिनित्यत्वान्न कश्चिद्वस्वादिशब्देषु विरोध इति द्रष्टव्यम्। आकृतिविशेषस्तु देवादीनां मन्त्रार्थवादाभ्यां विग्रहवत्त्वाद्यवगमादवगन्तव्यः। स्थानविशेषसम्बन्धनिमित्ताश्चेन्द्रादिशब्दाः सेनापत्यादि शब्दवत्। ततश्च योयस्तत्तत्स्थानमधितिष्ठति स स इन्द्रादिशब्दैरभिधीयते इति न दोषो भवति। नचेदं शब्दप्रभवत्वं ब्रह्मप्रभवत्ववदुपादानकारणत्वाभिप्रायेणोच्यते कथन्तर्हि? स्थितिवाचकात्मना नित्यशब्दे नित्यार्थसम्बन्धिनि शब्द व्यवहारंयोग्यार्थ व्यक्ति निष्पत्तिरतः प्रभव इत्युच्यते” भा०। “ज्योतिषि भावाच्च” सू०। “यदिदं ज्योतिर्मण्डलं द्युस्थानमहोरात्राभ्यां बंभ्रमज्जगदवभासयति तस्मिन्नादित्यादयो देवतावचनाः शब्दाः प्रयुज्यन्ते लोकप्रसिद्धेर्व्वाक्यशेषप्रसिद्धेश्च। न च ज्योतिर्मण्डलस्य हृदयादिना विग्रहेण, चेतनतया अर्थित्वादिना वा योगोऽवगन्तुं शक्यते मृदादिवदचेतनत्वावगमात्। एतेनाग्म्यादयो व्याख्याताः। स्यादेतत् मन्त्रार्थवादेतिहासपुराणलोकेभ्यो देवादीनां विग्रहवत्त्वाद्यवगमादयमदोष इति नेत्युच्यते। न तावल्लोको नाम किञ्चित् स्वतन्त्रं प्रमाणमस्ति प्रत्यक्षादिभ्यएव ह्यव्यभिचरितविशेषेभ्यः प्रमाणेभ्यः प्रसिद्ध एवार्थो लोकात् प्रसिद्ध इत्युच्यते न चात्र प्रत्यक्षादीनामन्यतमं प्रमाणमस्ति। इतिहासपुराणमपि पौरुषेयत्वात् प्रमाणान्तरमूलतामाकाङ्क्षते। अर्थवादा अपि विधिनैकवाक्यत्वात् तत्स्तुत्यर्थाः सन्तोन पार्थगर्थ्येन देवादीनां विग्रहादिसद्भावे कारणभावं प्रतिपद्यन्ते। मन्त्रा अपि श्रुत्यादिविनियुक्ताः प्रयोग समवायिनोऽभिधानार्थाः न कस्यचिदर्थस्य प्रमाणमित्याचक्षते। तस्मादभावो देवादीनामधिकारस्य” भा०। “भावन्तु वादरायणोऽस्ति हि” सू०। तुशब्दः पूर्व्वपक्षं व्यावर्त्तयति। वादरायणस्त्वाचार्य्यो भावमधिकारस्य देवानामपि मन्यते। यद्यपि मध्वादिविद्यासु देवतादिव्यामिश्रासु असम्भवोऽधिकारस्य तथाप्यस्ति शुद्धायां ब्रह्मविद्यायां सम्भवः अर्थित्वसासर्थ्याद्यप्रतिषेधापेक्षितत्वादधिकारस्य। न च क्वचिदसम्भव इत्येतावता यत्र सम्मवस्तत्राप्यधिकारोऽपोद्येत। मनुष्याणामपि न सर्वेषां ब्राह्मणादीनां सर्वेषु राजसूयादिष्वधिकारः सम्भवति तत्र योन्यायः सोऽत्रापि भविष्यति। ब्रह्मविद्याञ्च प्रकृत्य भवति लिङ्गदर्शनं श्रौतं देवाद्यधिकारस्य सूचकं “तद्योयो देवानां प्रत्यबुध्यत स एव तदभवत्” तथर्षीणामिति “ते होचुर्हन्त तमात्मानमन्विच्छामो यमन्विष्य सर्ब्बांश्च लोकानाप्नोति सर्व्वांश्च कामानिति” “इन्द्रो ह वै देवानामभिप्रवव्राज विरोचनोऽसुराणामित्यादि” च। स्मार्त्तमपि च गन्धर्ब्बयाज्ञल्क्यसंवादादि। यदप्युक्तं ज्योतिषि भावाच्चेति अत्र ब्रूमः। ज्योतिरादिविषया अप्यादित्यादायो देवतावचनाः शब्दाश्चेतनावन्तमैश्वर्य्याद्युपेतं तं तं देवतात्मानं समर्पयन्ति मन्त्रार्थवादेषु तथा व्यवहारात्। अस्ति ह्यैश्वर्य्ययो गाद्देवतानां ज्योतिराद्यात्मभिश्चावस्थातुं यथेष्टञ्च तं तं विग्रहं ग्रहीतुं सामर्थ्यम्। तथाहि श्रूयते सुब्रह्मण्यार्थवादे “मेधातिथिं ह काण्वायनमिन्द्रोमेषो भूत्वा जहारेति”। स्मर्य्यते च “आदित्यः पुरुषो भूत्वा कुन्तीमुपजगाम स” इति। मृदादिष्वपि चेतना अधिष्ठतारोऽभ्युपगम्यन्ते “मृदब्रवीत् “आपोऽव्रुयन्” इत्यादिदर्शनात्। ज्योतिरादिभूतधांतोरादित्यादिष्वप्यचेतनत्वमभ्युपगम्यते चेतनास्त्वधिष्ठातारो देवतात्मानो मन्त्रार्थवादादिव्यवहारादित्युक्तम्। यदप्युक्तम् मन्त्रार्थवादयोरन्यार्थत्वान्न देवताविग्रहादिप्रकाशनसामार्थ्यमिति। अत्र ब्रूमः प्रत्ययाप्रत्ययौ हि सद्भावासद्धावयोः कारणं नान्यार्थत्वमनन्यार्थत्वं वा। तथाहि अन्यार्थमपि प्रस्थितः पथि पतितं तृणर्पणाद्यस्तीत्येवं प्रतिपद्यते। अत्राह विषम उपन्यासः तत्र हि तृणपर्ण्णादिविषयं प्रत्यक्षं प्रवृत्तमस्ति येन तदस्तित्वं प्रतिपद्यते अत्र पुनर्विध्युद्देशैकवाक्यभावे स्तुत्यर्थेऽर्थवादेन पार्थ गर्थ्येन न वृत्तान्तविषया” प्रवृत्तिः शक्याऽध्यवसाययितुम्। न हि महावाक्ये प्रत्यायके इवान्तरवाक्यस्य पृथक् प्रत्यायकत्वमस्ति यथा “न सुरां पिबेदिति नञ्वति वाक्ये पद त्रयसम्बन्धात् सुरापाणप्रतिषेध एवैकोऽर्थो गम्यते, न पुनः सुरां पिबेदिति पदद्वयसम्बन्धात् सुरापाणविधिरपीति। अत्रोच्यते। विषमौपन्यासः युक्तं यत् सुरापाणप्रतिषेधे पदान्वयस्यैकत्वादवान्तरवाक्यार्थस्याग्रहणं” विध्युद्देशार्थ वादयोस्त्वर्थवादस्थानि पदानि पृथमन्वयं वृत्तान्तविषयम्प्रतिपद्यानन्तरं कैमर्थ्यवशेन विधिस्तावकत्वं प्रतिपद्यन्ते। यथाहि “वायव्यं श्वेतमालभेत भूतिकामः” इत्यत्र विध्युद्देशवर्त्तिनां वायव्यादीनां पदानां विधिना सम्बन्धः “वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिङ्गमयतीति” इत्येषामर्थवादगतानाम् पदानाम्। नहि भवति वायुर्व्वाआलभेत क्षेपिष्ठा देवता वा अलभेतेत्यादि। वायु स्वतावसङ्कीर्त्तनेन त्ववान्तरमन्वयं प्रतिपद्य एवंविशिष्ट दैवत्यमिदं कर्म्मेति विधिं स्तु वन्ति। तद्यत्र योऽवान्तरवार्क्यार्थः प्रमाणान्तरगोचरोभवति तत्र तदनुवादेनार्थवादः प्रवर्त्तते। यत्र प्रमाणान्तरविरुद्धस्तत्र गुणवादेन। यत्र तु तदुभयं नास्ति तत्र किं प्रमाणान्तराभावाद्गुणवादः स्यात् आहोस्वित् प्रमाणान्तराविरोधाद्विद्यमानार्थवाद इति प्रतीतिशरणैर्ब्बिद्यमानार्थवादआश्रथणीयो न गुणवादः। एतेन मन्त्रो व्याख्यातः। अपि च विघिभिरेवेन्द्रादिदैवत्यानि हवींषि चोदयद्भिरपेक्षितमिन्द्रादीनां स्वरूपम्। न हि स्वरूपरहिता इन्द्रादयश्चेतसि आरोहयितुं शक्यन्ते। न च चेतस्यऽनारूदायै तस्यै तस्यै देवतायै हविः प्रदातुं शक्यते। श्रावयति च “यस्यै देवतायै हवि र्गृहीतं स्यात् तान्ध्यायेत् वषट्करिष्यन्निति”। न च शब्द मात्रमर्थस्वरूपं सम्भवतीति शब्दार्थयोर्भेदात् तत्र यादृशं मन्त्रार्थवादयोरिन्द्रादीनां स्वरूपमवगतं न तत् तादृशं शब्दप्रमाणकेन प्रत्याख्यातुं युक्तम्। इतिहासपुराणमपि व्याख्यातेन मार्गेण सम्भवन्मन्त्रार्थवादमूलत्वात् प्रभवति देवताविग्रहादि प्रपञ्चयितुम्। प्रत्यक्षमूलमपि सम्भवति, भवति ह्यस्माकमप्रत्यक्षमपि चिरन्तनानां प्रत्यक्षम्। तथाच व्यासादयो देवंताभिः प्रत्यक्षं व्यवहरन्तीति स्मर्य्यते। यस्तु ब्रूयादिदानीन्तनानामिव पूर्व्वेषामपि नास्ति देवादिभिर्व्यवहर्त्तुं सामार्थ्यमिति स जगद्वैचित्र्यम्प्रतिषेधेत् इदानीमिव च नान्यदापि सार्वभौमः क्षत्रियोऽस्तीति ब्रूयात् ततश्च राजसूयादिचोदना उपरुन्ध्यात् इदानीमिव च कालान्तरेऽपि अव्यवस्थितप्रायान् वर्ण्णाश्रमाधर्म्मान् प्रतिजानीत ततश्च व्यवस्थाविधायिशास्त्रमनर्थ कं कुर्य्यात्। तस्मात् धर्मोकर्षवशाच्चिरन्तनाः देवताभिः प्रत्यक्षं व्यवजह्वुरिति श्लिष्यते। अपिच स्मरन्ति “स्वाध्यायादृष्टदेवतासम्प्रयीग” इत्यादि योगोऽप्यणिमाद्यैश्वर्य्यप्राप्तिफलकः स्मर्य्यमाणो न शक्यते साहसमात्रेण प्रत्याख्यातुम्। श्रुतिश्च योगमाहात्म्यं प्रत्याख्यापयति “पृथ्व्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगयुणे प्रवृत्ते। न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरमिति”। ऋषीणामपि मन्त्रब्राह्मण दर्शनात् सामर्थ्यं नास्मदीयेन सामर्थ्येनोपमातुं युक्तम्। तस्मात् समूलमितिहासपुराणम्। लोकप्रसिद्धिरपि न सति सम्भवे निरालम्बनाध्यवसातुं युक्ता। तस्मादुपपन्नो मन्त्रादिभ्यो देवादीनां विग्रहवत्त्वाद्यवगमः। ततश्चार्थित्वादिसम्भवादुपपन्नो देवादीनामपि व्रह्मविद्यायामधिकारः। क्रममुक्तिदर्शनान्यप्येवमेवोपपद्यन्ते इति” भा०। विग्रहादिपदेन “विग्रहोहविषां भोगऐश्वर्य्यञ्च प्रसन्नता। फलप्रदानमित्येतत् पञ्चकं विग्रहादिकमिति” आन० गि० उक्तं पञ्चकं ग्राह्यं तच्च क्रमेण मीमांसाभाष्ये पूर्ब्बपक्षे दर्शितम्। शब्दचिन्तामणावपि देवानां विग्रहवत्त्वं चेतनत्वञ्च व्यवस्थापितम् यथा “एवं देवतादावपि इन्द्रमुपासीतेत्यादौ लोके प्रयोगस्यानियमाद्गौणतयैव व्यवहाराच्चार्थाद्यनध्यवसायेन लौकिके सहस्राक्षादाविन्द्रादिपदशक्तिग्रहः प्रमाणञ्च इन्द्र सहस्राक्ष इत्यादिविधिसमभिव्याहृतोऽर्थवादएव स्वर्गपदवत्। अथ स्वर्गपदे प्रवृत्त्यन्थथानुपपत्या “तत्सुखं स्वःपदास्पदमिति” श्रुतेश्चार्थवादादेव शक्तिग्रहः नचेह तथार्थवादः किन्तु “इन्द्रः सहस्राक्षः इत्यादिस्तावकत्वेन प्रवृत्तिपर इति चेत् न इन्द्रः सहस्राक्षः” इत्यादिप्रसिद्धपदसामानाधिकरण्यश्रुतितो बाधकं विना सहस्राक्षस्यैवेन्द्रादिपदवाच्यत्वावधारणात् प्रसिद्धपदसमन्वयबलेन प्रतीयमानमर्थमबाधितमादायैव तेषां प्रवृत्तिपरत्वात् मन्त्रप्रकाशितशशिशेखराद्युपेतमुद्दिश्य हविस्त्यागेन तत्रैव याज्ञिकानां देवताव्यवहारात् अपि च शिवाय गां दद्यादित्यादौ देवतासंप्रदानत्वश्रुतेः, शिवादिसहस्रनाम्नां पर्य्यायत्वेन श्रुते र्महाजनपरिग्रहेण प्रमाणत्वाताराधितदेवताया वरदातृत्वश्रुतेश्च बाधकं विना चेतनैव देवता। अथ देवताचैतन्मे तत्प्रीतिरेव यागव्यापार इति नापूर्वसिद्धिरिति चेत् न प्रीतेः सुखस्य तदनुभवस्य चाशुतरविनाशित्वात् तज्जन्यसंस्कारस्य स्वाविषये फलाहेतुत्वात् फलहेतुस्थायिकृतिव्यापारापेक्षायां लाघवेन कृतिसमानाश्रयस्यैव व्यापारत्वकल्पनात् नानायागेष्वेकदाह्वाने चैकदा सन्निधानं तद्बुद्धिविशेष एव प्रतिष्ठितविधिना प्रतिमादावहङ्कारवत्। अथ राजसूयादिफलत्वेन श्रुतेरिन्द्रादिरचेतनएव। देवता चेतना नास्ति मानाभावात् किन्तु देशनादेशितचतुर्थ्यन्तपदनिर्द्दिश्यत्वं देवतात्वम् इन्द्रायेत्यादिपदमेव देवता। अतएवाग्निप्रकाशक मन्त्रेऽग्निप्रणयनस्यान्तरम् अग्नये इति नियमतो हविस्त्यागः न पर्य्यायान्तरेण। न चेन्द्रोद्देशेन हविस्त्यागः इन्द्रनिष्ठकिञ्चिज्जनकः तत्स्वरूपाजनकत्वे सति तदुद्देशेन क्रियमाणत्वात् ब्राह्मणायदानवदिति वाच्यम् अप्रयोजकत्वात् तदर्थत्वेन क्रियमाणत्वस्योपाधित्वाच्च इन्द्रायस्वाहेत्यत्र न तादर्थ्ये चतुर्थी किन्तु स्वाहादि पद–योगौपपदविभक्तिरेव अन्यथा नमःस्वस्तिस्वाहास्वधेत्यादिसूत्रवैयर्थ्यात् मैवं चतुर्थ्यन्तपदस्य देवतात्वे मानाभावात् चतुर्थीं विनापि इन्द्रो देवतेति व्यवहारदर्शनात् अग्नये कव्यवाहनायेत्यादौ देवताद्वय प्रसङ्गाच्चः” इन्द्र सहस्राक्ष इत्यर्थवादस्य “इन्द्रमुपासीत” त्यादिविधिसमभिव्याहारेण ऐकवाक्यतयोपास्यत्वात् देवस्वं नाददीतेत्यत्र देवमुद्दिश्य त्यक्ते शिष्टानां देवस्वत्वेन व्यवहारात् अग्नय इति पदेन नियमतस्त्यागम्य श्रुतिबोधितत्वेन तथात्यागस्य फलहेतुत्वात्। नच वीजा क्षराणां देवतात्वात् तत्रैव शिवादिपदशक्तिग्रह इति वाच्यम् वीजाक्षराणांचतुर्थ्यन्तत्वानियमात् तदप्रतीतावपि प्रकाशितशशिशेखराद्युपेतमुद्दिश्य हविस्त्यागेन तत्रैव याज्ञिकानां व्यवहारः। वीजाक्षराणां हविस्त्यागि त्वेनानुद्देश्यत्वात् शिवस्य प्रतिमन्त्रं वीजाक्षराणां नानात्वा दननुगमेन तत्तत्पदशक्तिग्रहस्याशक्यत्वाच्च नच मूर्त्तिभेदेन शिवशरोराणामननुगतत्वेत् तवापि न शक्तिह इति वाच्यम्बाल्यादिना भिन्नशरीरेषु चैत्रत्ववछिवत्वजातेरदृष्टविशेषोपगृहीतत्वस्य चानुगतत्वात् अदृष्टशून्थस्य चेश्वरस्य न देवतात्वम्। ईशानश्च तद्भिन्न एव”।

***