अलङ्कार = पु० अलम् + कृ–भावे घञ्। १ भूषायाम्। करणे घञ्। २ हारादौ भूषणे, साहित्यविषयदोषगुणप्रतिपादके ३ ग्रन्थे, ४ शब्दभूषणे–अनुप्रासादौ, ५ शब्दार्थभूषणे–उपमादौ च। “शब्दार्थयोरस्थिरा ये धर्म्माः शोभातिशायिनः। रसादी नुपकुर्वन्तोऽलङ्कारास्तेऽङ्गदादिवत्” सा० द० उक्तम् शब्दार्थयोः शोभाकारित्वम् तल्लक्षणम्। ते च बहवः शब्दनिष्ठा अर्थनिष्ठाः उभयनिष्ठाश्च। तत्रं जात्यादयः शब्दनिष्ठाः उपमादयोऽर्थनिष्ठाः पुनरुक्तवदाभासादय उभयनिष्ठाः तत्तदन्वयव्यतिरेकाभ्यां तथात्वम् शब्दनिष्ठास्तु बहवस्तेषु केचित् तत्तच्छब्दे उक्ताः केचित् वक्तव्याश्च तद्भेदास्तावत् समासेनात्राभिधीयन्ते तत्र जात्यादयश्चतुर्विंशतिः शब्दालङ्काराः सरस्वतीकण्ठाभरणे दर्शिताः यथा “ये व्युत्पत्त्यादिना शब्दानलङ्कर्त्तुमिह क्षमाः। शब्दालङ्कारसंज्ञास्ते ज्ञंयाजात्यादयोबुधैः”। “जातिर्गतीरीतिवृत्तिच्छायामुद्रोक्तियुक्तयः। भणितिर्गुम्फना लप्या पठितिर्यमकानि च। श्लेषानुप्रासचित्राणि वाकोवाक्यं प्रहेलिका। गूढप्रश्नोत्तराध्येयश्रव्यप्रेक्ष्याभिनीतयः। चतुर्विंशतिरित्युक्ताः शब्दालङ्कारजातयः”। तेषां लक्षणादीनि क्रमेण यथा तत्र १ जातिः “तत्र संस्कृतमित्यादिर्भारती जातिरिष्यते। सा त्वौचित्यादिभिर्व्वाचामलङ्काराय जायते संस्कृतेनैव केऽप्याहुः प्राकृतेनैव केचन। साधारण्यादिभिःकेचित् केचन स्त्रेछभाषया। न म्लेच्छितव्यं यज्ञादौ स्त्रीषु नाप्राकृतं वदत्। संकीर्ण नाभिजातेषु नाप्रबुद्धेषु संस्कृतम्। देवाद्याः संस्कृतं प्राहुः प्राकृतं किन्नरादयः। पैशाचाद्यं पिशाचाद्या मगधं होनजातयः। संस्कृतेनैवकोऽप्यर्थः प्राकृ- तेनैव चापरः। शक्योरचयितुं कश्विदपम्रंशेन जायते”। तत्र जातिरपि षोढा यथोक्तं तत्रैव। “शुद्धा साधारणी मिश्रा सङ्कीर्ण्णा रम्यगामिनो। अपभ्रष्टेति साचार्य्येजातिः षोढा निगद्यते”। इति जातिः १

२ गतिः। “गद्यं पद्यं च मिश्रं च वाक्यं यत् सा गतिः स्मृता। अर्थौचित्यादिभिः साऽपि वागलङ्कार इष्यते। कश्चिद्गद्येन पद्येन कश्चिन्मिश्रेण शक्यते। कश्चिदेकेन च द्वाभ्यां काव्येऽर्थः कश्चन त्रिभिः। द्रुता विलम्बिता मध्या साथ द्रुतविलम्बिता। द्रुतमध्या च विज्ञेया तथा मध्यविलम्बिता। सा लघूनां गुरूणाञ्च बाहुल्याल्पत्वमिश्रणैः। गद्ये पद्ये च मिश्रे च षट् प्रकारोऽपि जायते। तत्र वृत्तं च जातिञ्च पद्यमाहुरथो पृथक्। समञ्चार्द्धसमं चेति विषमञ्च प्रचक्षते”। “वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेदिति” वृ० र०। “गद्यमुत्कलिकाप्रायं पद्यगन्धीतिच द्विधा। द्विधैव गद्यपद्यादिभेदान्मिश्रमपीष्यते। ललितं निष्ठुरं चूर्ण्णमाविद्धं चेति योऽपरः। विशेषः सतु गद्यस्यो रीतिवृत्त्योर्विशिष्यते”। गतिः २।

३ रीतिः यथा “वैदर्भ्यादिगतः पन्थाः काव्ये मार्ग इति स्मृतः। रीङ् गताविति धातोश्च व्युत्पत्त्या रीतिरुच्यते। वैदर्भी साथ पाञ्चाली गौडियावन्तिका तथा। लाटीया मागधी चेति षोढा रीतिर्निगद्यते। तत्रासमासा निःशेषश्लेषादिगुणगुम्फिता। विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते”। दर्पणे तु “माधुर्य्य व्यञ्जकैर्वर्ण्णै रचना ललितात्मिका अवृत्तिरल्पवृत्तिर्वा वैदर्भी रीतिरिष्यते” लक्षिता। “समस्तपञ्चषपदामोजःकान्तिविवर्ज्जिताम्। मधुरां सुकुमाराञ्च पाञ्चालीं कवयो विदुः। समस्तात्युद्भटपदामोजःकान्तिगुणान्विताम् गौडीयेति विजानन्ति रीतिं रीतिविचक्षणाः। अन्तराले तु पाञ्चालौवैदग्ध्यो र्यावतिष्ठते। सावन्तिका समस्तैः स्याद् द्वित्रैस्त्रिचतुरैस्तथा। ममस्तरीतिव्यामिश्रा लाटीया वृत्तिरिष्यते। पूर्ब्बरीते रनिर्वाहे खण्डरीतिस्तु मागधी”। रीतिः ३।

४ वृत्तिः यथा। “या विकाशेऽथ विक्षेपे संकोचे विस्तरे तथा। चेतसो वर्त्तयित्री स्यात् सा वृत्तिः सापि षड्विधा। कौशिक्यारभटी चैव भारती सात्वती परा। मध्यमार भटी चैव तथा मध्यमकौशिकी। सुमुकुरार्थसंदर्भा कौशिकी तासु कथ्यते। यातु प्रौढार्थसंदर्भा वृत्तिरारभटी तु सा। कोमलप्रौढसन्दर्भा कोमलार्था च भारती। प्रौढार्थकोमलप्रौढसंदर्भां सात्वतीं विदुः। कोमलप्रौढसन्दर्भा या सा मध्यमकौशिकी। प्रौढार्थकोमलैर्बन्धैर्मध्यमारभटीष्यते। ४

५ छाया। अन्योक्तीनामनुकृतिश्छाया सापीह षड्विधा। लोकच्छेकार्भकोन्मत्तप्रोढामत्तोक्तिभेदतः”। ५

६ मुद्रां। “स्वाभिप्रायस्य वाक्ये यद्वचसापि निवेदनम्। मुद्रां तां मुत्प्रदायित्वात् काव्यमुद्राविदो विदुः। सास्मिन् पदस्य वाक्यस्य विभक्तेर्वचनस्य च। समुच्चयस्य संवृत्त्या षोढा न्यासेन जायते”। मुद्रा ६

७ उक्तिः। “विधिद्वारेण वा यत्र निषेधेनाथ वा पुनः। प्रतीयते विशिष्टोऽर्थः सोक्तिरत्राभिधीयते। विधेरथ निषे धात् स्यादधिकारात् विकल्पनात्। नियमात् परिसंख्याया उपाधेः सेह षड्विधा”। उक्तिः ७

८ युक्तिः। “अयुज्यमानस्य मिथः शब्दस्यार्थस्य वा पुनः। योजना क्रियते यासौ युक्तिरित्युच्यते बुधैः। पदं चैव पदार्थश्च वाक्यं वाक्यार्थ एव च। विषयोऽस्याः प्रकरणं प्रबन्धश्चाभिधीयते। योगकारणपर्य्यायाङ्गाङ्गिमावपरम्पराः। पदयुक्तेर्निमित्तं स्युर्निरूढाः पदसिद्धये। विरुद्धानां पदार्थानां गत्यादीनां परस्परम्। योजनायेह तां युक्तिं पदार्थविषयां विदुः। गर्भः सह निगर्भेण संवृत्तिः सममञ्जसा। हेतवो वाक्ययुक्तीनां क्रियन्तामेवमादयः। यत्तदादेरुपादानं क्रियाभ्याससमुच्चयौ। क्रियासमभिहारश्च वाक्या र्थान् युञ्जते मिथः। यदश्रद्धेयशैलादिवर्णनाभ्युपपत्तये। वाक्यं सेह प्रकरणविषया युक्तिरिष्यते प्रबन्धविषयाप्येवं युक्तिरुक्ता मनीषिभिः”। युक्तिः ८

९ भणितिः। “उक्तिप्रकारो भणितिः सम्भवेऽसम्भवे च सा। विशेषसंवृत्त्याश्चर्य्यकल्पनासु च कल्पते”। भणितिः ९

१० गुम्फना। “वाक्ये शब्दार्थयोः सम्यग्रचना गुस्फना स्मृता। शब्दार्थसमपर्य्यायपदवाक्यकृता च सा”। गुम्फना १०

११ लप्या। “लप्येत्याहुः पदार्थानां घटना या परस्परम्। सा प्रक्रान्तेन कस्मिंश्चिदप्रक्रान्तेन कुत्रचित्। अतिक्रान्तेन कुत्रापि यथार्थवर्ण्णयोः क्वचित्। क्वचित् वाच्यार्थयोः क्वापि प्रकीर्ण्णानां च दृश्यते”। लप्या ११

१२ पठितिः “काकुस्वरपदच्छेदभेदाभिनयकान्तिभिः पाठोयोऽर्थविशेषाय पठितिः सेह षड्विधा”। पठितिः १२

१३ यमकम्। “विभिन्नार्थकरूपाया याऽवृत्तिर्वर्ण्णसंहतेः। अव्यपेतव्यपेतात्मा यमकं तन्निगद्यते। तदव्यपेतयमकं व्यपेतयमकं तथा। स्थानास्थानविभागाभ्यां पादभेदाच्च भिद्यते। तत्र पादादिमध्यान्तस्थानान्तेषु प्रकल्प्यते। यदव्यपेतमन्यद्वा तत्स्थानयमकं विदुः। चतुस्त्रिद्येकपादेषु यमकानां विकल्पना। आदिमध्यान्त मध्यान्तमध्याद्याद्यन्तसर्व्वतः। अत्यन्तं बहवस्तेषां भेदाः संभेदयोनयः सुकरा दुष्कराश्चैव,” अग्निपुराणे तु। अनेकवर्ण्णावृत्तिर्या भिन्नार्थप्रतिपांदिका। यमकं सा व्यपेत चाव्यापेतेति द्विधा मता। आनन्तर्य्यादपेता स्यात् व्यपेता व्यवधानतः। द्वैविध्येनानयोः स्थानपादभेदाच्चतुर्विधम्। आदिपादादिमध्यान्तेष्वेकद्वित्रिनियोगतः। सर्व्वथा पूर्व्वपूर्ब्बेण चेत्यादिनोत्तरोत्तरम्। एकद्वित्रिपदारम्भात्तत्पादात्तद्पदात् परम्। तृतीयं त्रिविधं पादस्यादिमध्यान्तगोचरम्। पादान्तयमकं चैव कोष्ठीयमकमेव च। संसर्गयमकं चैव विक्रान्तयमकं तथा। यमकं चक्रबालं च संदशयमकं तथा। पादादियमकं चैव तत्तु मैत्रीयमेव च। दशधा यमकं श्रेष्ठं तद्भेदाबहवोऽपरे” इत्युक्तम्। तत्रास्थानयमकमुक्तं “नादौ न मध्ये नान्ते यत् सन्धौ वा यत् प्रकाशते। अव्यपेतव्यपेतं तदस्थानयमकं विदुः। पादे श्लोके च तत्प्रायः पादसन्धौ च बध्यते। स्वभेदे च चान्यभेदे च स्थूलं सूक्ष्मं च सूरिभिः”। अन्यदग्निपुराणादौ ज्ञेयम्। यमकम् १३

१४ श्लेषः “एकंरूपेण वाक्ये न द्वयोःस्मारणमर्थयोः। तन्त्रेण यत् स शब्दज्ञैः श्लेष इत्यभिघीयते। प्रकृतिप्रत्ययोत्थौद्वौ विभक्तिवचनाश्रयौ। पदभाषोद्भवौ चेति शब्दश्लेषा भवन्ति षट्”। १४ श्लेषः

१५ अनुप्रासः। “आवृत्तिर्या तु वण्णानां नातिदूरान्तरस्थिता। अलङ्कारेषु विद्वद्भिरनुप्रासः स दर्श्यते” “श्रुतिभिर्वृत्तिभिर्वर्ण्णैः पदैर्नामभिरुक्तिभिः। लाटानामुक्तिभिश्चायं षट्प्रकारः प्रकाशते” तत्र श्रुत्यनुप्रासः १७८ पृष्ठे दर्शितः। स च त्रिविधः ग्राम्योनागर उपनागरश्चेतिभेदात्। ग्राम्योऽपि चतुर्विधः मसृणोऽमसृणो वर्ण्णोत्कटो वर्ण्णानुत्कटश्चेति भेदात्। वृत्त्यादीनां लक्षणानि तत्रैव। “मुहुरावर्त्त्यमानेषु यः स्ववर्गेषु वर्त्तते। काव्यव्यापी स संदभो वृत्तिरित्यभिधीयते। कार्ण्णाटी कौन्तली कौङ्की कौङ्कणी वानवासिका। द्राविडी माथुरी मात्सी मागधी ताम्रलिप्तिका। औड्री पौण्ड्रोति विद्वद्भिः सा द्वादशविधोच्यते”। तत्र कवर्गेणानुप्रासवती कार्ण्णाटी एवं चवर्गेण कौन्तली, टवर्गेण कौङ्की, तवर्गेण कौङ्कणी, पवर्गेण वानवासिका, यवर्गेण, द्राविडी। शवर्गेण माथुरी, द्वित्रिवर्गानुप्रासवती मात्सी। द्वाभ्यां गर्भिर्तककवर्गानुप्रासवती मागधी। स्वान्त्यसंयोगिकवर्गानुप्रासवती ताम्रलिप्तिका। स्वरूपसंयोगिग्रथिता औड्री। अस्वरूपसंयोगिग्रथिता पौण्ड्री। अन्थे तु “स्पर्शादीनामसम्बन्धः सम्बन्धोवापि योमिथः स्फुटादिबन्धसंसिद्ध्यै सेह वृत्तिर्निरुच्यते। सौकुमार्य्यमथ प्रौढिर्मन्धुरत्वञ्च तद्गुणौ। गम्भीरौजस्विनी प्रौढा मधुरा निष्ठुरा श्लथा। कठोरा कोमला मिश्रा परुषा ललिता मिता। इति द्वादशधा भिन्ना कविभिः परिपठ्यते” इत्याहुः। “यथा चम्पकपुष्पादिस्रगादेर्वर्ण उच्यते वर्ण्णावृत्तिस्तथा वाचां वर्ण्णानुप्रास उच्यते। स तु स्तवकवान् स्थानी गर्भोविवृतसंवृतः। गृहीतमुक्तः क्रमवान् विपर्य्यस्तोऽथ संपुटम्। मिथुनं वेणिका चित्रोविचित्रश्चापि वर्ण्यते”। स्थानेस्थाने वर्ण्णस्तवकस्य विन्यासात् स्तवकवान्। नियतविवक्षितस्थानविशेषे विन्यासशाली स्थानी। आवृत्तौ वर्ण्णान्तरायेण गर्भः। स्थानेस्थाने विकाशसङ्कोचायां विव्र्तसंवृतः। चक्रवालवद्दानोपादानाभ्यां गृहीतमुक्तः। क्रमेण द्वित्रवर्ण्णानां संयोगखराणामावृत्तिः क्रमवान्। खरसंयोगवर्ण्णानां क्रमेणावृत्तिश्च क्रमवान्। विपर्य्ययोपन्यासात् विपर्य्ययः। आद्यवर्ण्णवर्त्तिना स्वरेण सह पादमध्यान्तयोरनुप्रासः संपुटम्। अन्तः पादसुपसंहारोपक्रमयोर्विवक्षितस्वरानुप्रासे मिथुनम्। आ वाक्यसमाप्तेः वर्णानुप्रासनिर्वाहो वेणिका। उक्तलक्षणेभ्योऽन्यश्चित्रः। एकवर्ण्णावृत्तेर्वृत्त्यनुप्रासस्थवर्ण्णान्तरवैचित्र्येण विचित्रः। “समग्रमसमग्रं वा यस्मिन्नावर्त्तते पदम्। पदाश्रयेण स प्रायः पदानुप्रासौच्यते। विसर्गविन्दुसंयोगस्वर स्थानाविवक्षया। अनिर्वाहाय स प्रायो यमकेभ्यो विभिद्यते” “मसृणोदन्तुरः श्लक्ष्णः संपुटं सम्पुटावली। खिन्नः स्तवकवान् स्थानो मिथुनं मिथुनावली। गृहीतमुक्तनामान्यस्ततोऽन्यः पुनरुक्तिमान्। इति द्वादशभेदोऽयं मनीषिभिरिहोच्यते”। असंयुक्त वर्ण्णावृत्तेः पदानुप्रासो मसृणः। संयोगाधिक्ये दन्तुरः। स्वरेण सहावृत्तेः श्लक्ष्णः। पदाव्यवधाने संपुटम्। तेषामावली संपुटावली। रीतेरनिर्वाहात् खिन्नः।। वर्ण्णानुप्रासवत् पदानुप्रासोऽपि स्याने स्थाने निवेशे स्तवकवान्। स्थाननियमात् पदानुप्रासः स्थानी। प्रतिपादं द्वयोर्द्वयोः पदानुप्रासयोः निरन्तरमावृत्ति र्मिथुनं तदावली मिथुनावली। चक्रवालवत् पदानुप्रासो गृहीतमुक्तः पदानां पुनः पुनरावर्त्तने पुनरुक्तिमान्। “स्वभावतश्च गौण्या च वीप्साऽभीक्ष्ण्यादिमिश्च सा। नाम्नां द्विरुक्तिर्वाक्ये तु नामानुप्रास उच्यते”। आदिना निमूलसंभ्रमादि गृह्यते। “अर्थभेदे पदावृत्तिः प्रवृत्त्या भिन्नयाथ वा। स सूरिभिरनुप्रासोलाटीय इति गीयते। सचाव्यवहितो व्यस्तः समस्त उभयःपुनः। उभयं चक्रवालञ्च गर्भश्चेहाभिधीयते”।। अनुप्रासः १५।

१६ चित्रम् “वर्ण्णस्थानस्वराकारगतिबन्धान् प्रतीह यः। नियमस्तद्बुधैः षोढा चित्रमित्यभिधीयते”।। स्वरस्यपृथक् निर्द्देशात् वर्ण्णा अत्र व्यञ्जनानि एकव्यञ्जनद्विवञ्जनत्रि व्यञ्जनादिभेदात् नानाविधः एवमेकद्वित्रादिस्वरचित्रम्। स्थानचित्रम्। निष्कण्ठ्यनिस्तालव्यादिभेदात् सप्तविधम् आकारचित्रम् पद्माद्याकारेण चित्रम्। तत्राष्टदलपद्म चित्रम् “कण्णि कायां न्यसेदेकं द्वे द्वे दिक्षु विदिक्षु च। प्रवेशनिर्गमौ दिक्षु कुर्य्यादष्टदलाम्बुजे” प्रकारान्तरं यथा। “अष्टधा कार्णिकावर्णाः पत्रेष्वष्टौ तथाऽपरे। तेषां सन्धिषु चाप्यष्टावष्टपत्रसरोरुहे”। प्रकारान्तरं यथा। “आकर्णिकं पुनः पर्णपर्णान्तात् पर्ण्णकर्णिके। प्रतिपत्रं व्रजेद्धीमानिह त्वष्टदलाम्बुजे” इति चतुर्द्दलं यथा “कर्णिकातो नयेदूर्द्ध्वं पत्राकाराक्षरावलीम्। प्रवेशयेत् कर्णिकायां पद्ममेतच्चतुर्दलम्”। षोडशदलं यथा “गोमूत्रिकाक्रमेणास्य वर्णाः सर्ब्बे समासतः। मध्ये त्वेकाक्षरन्यासात् पद्मोऽयं षोडशच्छदः” अष्टपत्रं कविनामाङ्कं यथा “निविष्टाष्टदलन्यास मिदं पादार्द्धभक्तिभिः। अस्पृष्टकर्ण्णिकं कोणैः कविनामाङ्कमम्बुजम्। एतानि चित्राणि अनुष्टुप्छन्दस्येव। चक्रबन्धो यथा “पुरः पुरोलिखेत् पादानत्र त्रीनुत्तरीकृतान्। तुर्य्यन्तु भ्रमयेन्नेमौ नामाङ्कश्चक्रसंविधः”। अस्योद्धारोदर्शितो माघव्याख्यायां मल्लिनाथेन। दशमण्डलरेखात्मके नवमण्डलान्तरालवति चक्रे नाभिस्थानेन सहैकविंशति कीष्ठं प्रत्येकं द्व्यक्षरवत् पङ्क्तित्रयं समरेखया लिंखित्वा तत्रैकस्यां पङ्क्तौ वामपार्श्वक्रमेण आद्यपादमालिख्य तथा प्रादाक्षिणेन द्वितीयायां तृतीययां च पङ्क्त्यां द्वितीय तृतीयौ पादौ लिखित्वा नेमिस्थाने वाह्यवलये साक्षरकोष्ठषट्केन सहाष्टादशकोष्ठवति तृतीयकोष्ठान्तवर्त्तिवर्ण्णमारभ्य प्रादक्षिण्येन तुर्य्य पादं लिखित्वा तत्रैव समापयेत्। तत्रैव माद्यन्तवर्ण्णैः तुर्य्यपादोद्वारः तत्रनेमिस्थाने आद्यपादत्रयदशमाक्षरसंवादः। तृतीयान्तकोष्ठे तुर्य्याद्यन्तवर्ण्णयोः संवादः” यथा “सत्त्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो लब्ध्वाघक्षयशुद्धिरुद्धुतरश्रीवत्स भूमिर्मुदा। मुक्त्वा काममपास्तभीः परमृगव्याधः सनादं हरेरेकोघैः समकालमभ्रमुदयी रोपैस्तदा ततस्तरे”। अत्र तृतीयवलये “माघकाव्यमिदम्”। “षष्ठवलये, शिशु- पालबधः इति काव्यनामाङ्गयोगः। एवमन्यत्रापि यथायथमूह्यम् गतिचित्रं गत्याविलोमगत्या तुरङ्गादिगत्या वा चित्रं तच्च यमकभेद एव यथोक्तं दण्डिना। “आवृत्तिः प्रातिलोम्येन पादार्द्धश्लोकगोचरा। यमकं प्रतिलोमत्वात् प्रतिलोममिति स्मृतम्” तत्र पादगता विलोमा वृत्तिर्यथा “यामताशकृतायासा सायाता कृशता मया”। रमणारकता तेऽस्तु स्तुते ताकरणामर” अर्ड्वगता यथा। “सा रमानवरारोहा नगेभागमना हि या। याहि नामग! भागेन हारोरा वनमार सा” श्लोकगा यथा। “यान मानय मारावि कशोनानजनासना। यामुदारशताघीना मायामायमनादि सा। सादिनामयमाया मानाधीता शरदाऽमुया। नासना जनना शोकविरामाय न मानया”।। तथाच पादविलोमावृत्तौ अयुक्पादयोर्गतिः युकपादयोः प्रत्यागतिः। अर्द्धावृत्तौ प्रथमपादाभ्यां गतिः शेषाभ्यां प्रत्यागतिरिति गतिप्रत्यागतिरूपचित्रमित्यवधेयम्। श्लोकावृत्तौ तु पादचतुष्टयेन गतिः प्रतिगत्या श्लोकान्तरमिति भेदः। इत्येवं गतिचित्रम्। तुरङ्कगतिचित्रं यथा “क्रमात् पादचतुष्कस्य पङ्क्तिशः परिलेखने। तुरङ्गपादायातेन श्लोकोऽन्यौपजायते” स० क०। यथा।वा१ ला३० सु९ का२० ल३ वा२४ ला११ सा२६का१६ न्ति१९ ला२ ल२९ क१० ला२७ लि४ ता२३स३१ स्वा८ सु१७ त१४ व२१ ती६ सा२५ रा१२द१८ र्पि१५ का३२ व्र७ त२८ ग१३ र्द्धि२२ त५ अत्र तुरङ्गगत्या “बालाललिततीव्रस्वा सुकला रागतर्पिका। सुदन्तिका वर्द्धिता ता वा सा साला तललासका इति दत्ताङ्कानुसारेण क्रमशोवर्ण्णग्रहणे श्लोकोऽयं जायते। अर्द्धभ्रमगतिचित्रं सर्वतोभ्रमतिगचित्रञ्च यथा। “आहुरर्द्धभ्रमं नाम श्लोचाद्धभ्रमणं यदि। तदिष्टं सर्व्वतोभद्रं सर्व्वतोभ्रमणं यदि” स० क०। तत्रार्द्धभ्रममुक्तं ३६५ पृष्ठे। सर्वतोभद्रं तु– दे वा का नि नि का वा दे वा हि का स्व स्व का हि वा का का रे भ भ रे का का नि स्व भ व्य व्य भ स्व नि अत्रार्द्धभ्रमणवत् सर्व्वं किन्तु पादानामपि अनुलोमविलोमाभ्यां तथैव सर्वतोभ्रमणेन सर्ब्बतोभद्रम् एवमग्रे दर्शयिष्य माणगोमूत्रिकाबन्धोऽपि गोमूत्रगतिमत्त्वात् गतिचित्रमपि। बन्धेन बन्धविशेषेण चित्रम् बन्धचित्रं तच्च नानाविधं तत्र द्विचतुष्कचक्रबन्धो यथा “इह शिखरिसन्धिमालां बिभृयादर्द्धं समाश्रितैर्वर्णैः। द्विचतुषकचक्रबन्ध नेमिविधौ चापरं भ्रमयेत्”। द्विशृङ्गाटकबन्ध। “शृङ्गग्रन्थः शृङ्गव्रजेदिति द्विशृङ्गाटकबन्धोऽस्सिन्नेमिः”। निविडितचक्रबन्धः। “शिखरादन्यतरस्मात् प्रतिपब्बे भ्रमति रेस्वा चाद्यर्द्धम्। नेमौ तदितरमर्द्धे निविडितचक्राभिधे बन्धे”। स० क० एतेषामुद्धारोदाहरणे तत्रैव ज्ञेये। शरपत्रबन्धः “चतुर्ष्वपि च पादेषु पङ्क्तिशोलिखितेष्विह। आदेरादेस्तुरङ्गस्य पादैः पादः समाप्यते”। यथाअ१ म१८ स्ते३ ज२० ग५ तां२२ गा५ त्र२४स९ दा२६ न११ व२८ कु१३ ल३० क्ष१५ य३२स१७ म२ स्ते१९ ज४ स२१ तां६ ना२३ त्र८मु२५ दा१० म२७ व१२ न२९ ल१४ क्ष३१ य१६अत्र तुरङ्गगत्या स एव श्लोकः। व्योमबन्धः। “अष्टादशशिख रचरीं गोमूत्रिकया चतुष्पदीं न्यस्येत। पत्राद्यन्तैर्दृष्टः स ज्ञेयो व्योमबन्धोऽत्र”

मुरजबन्धः। “अत्र पादचतुष्केऽपि क्रमशः परिलेखिते। श्लोकपादक्रमेण स्याद्रेखासु मुरजत्रयी”। सा१ से१० ना११ ग२८ म२९ ना१९ र१८ म्भे८ र९ से२ ना२७ सो१२ द२० ना३० र७ ता१७ ता१६ र२६ ना३ द१३ ज२१ ना६ म३१ त्त२४ धी२५ र२५ ना१४ ग४ म५ ना२२ म२३ या३२ तदुद्धारस्तु मल्लिनाथेन दर्शितः “तिर्य्यग्रेखालिखेत् पञ्च नवोर्द्धास्तत्र पङ्क्तयः। अष्टकोष्ठाश्चतस्रः स्युस्तासु श्लोकं लिखेत् क्रमात्। तत्राद्यद्वित्रितुर्यासु तुर्य्यत्रिद्व्याद्यपङ्क्तिषु। आद्यद्वित्रिचतुःपञ्चषट्सप्ताष्टमकोष्ठगः। दृश्यते प्रथमः पादश्चतुर्थश्चैवमेव हि। चतुर्थपङ्क्तिप्राथम्यात्प्रथमावधिवीक्षणात्। द्वितीयादावाद्यद्वित्र्योर्द्वितुर्य्ये त्रितुरीयके। तुर्य्यत्रिद्व्योस्तृतीयाद्ये द्रष्टव्योऽङ्घ्रिर्द्वितीयकः। तृतीयोऽङ्घ्रिर्द्वितीयान्ते आद्यसप्तमषष्ठयोः। द्वित्रिपञ्च मयोस्तुर्य्यषष्ठसप्तमयोः क्रमात्। तृतीयान्त्ये च लक्ष्योयमथान्यः क्रम उच्यते।। आद्यन्तयुग्मयोः पङ्क्त्योश्चिन्त्योगोभूत्रिकाक्रमः। कृत्वैकं च द्वितीयं द्वे द्वयनेकमिति क्रमात्। यद्वा दितयमेकं च द्वयमेकं द्वयं पुनः। स्वपङ्क्तिप्रक्रमादेव विन्यासद्वितयं भवेत्।। यद्वा प्रथमतुर्य्याङ्घ्री स्वपङ्क्त्योस्तदनुक्रमात्। द्वितीयोऽङ्घ्रिर्द्वितीयस्यां क्रमादाद्यचतुष्टये। व्युत्क्रमाच्च तृतीयस्यामाद्यमेव चतुष्टये। व्युत्क्रमेण द्वितीयस्यां तृतीयस्यां क्रमेण च। द्रष्टव्यो हि तृतीयोऽङ्घ्रिरन्त्यकोष्ठचतुष्टये।। बिन्यासभेदास्त्वन्येपि सन्त्येव बहबोऽत्र हि। विस्तरात्तु न लिख्यन्ते स्वयमूह्या विचक्षणैः”।। एकाक्षरमुरजो यथा। “श्लोकस्यैकस्य पादेषु लिखितेषु चतुर्ष्वपि। त्रिमृदङ्गकरीह स्याच्चतुरेकाक्षरावली”। मुरजप्रस्तारो यथा। “क्रमेणैकस्य पादेषु प्रसृतेषु चतुर्ष्वपि। तुर्य्यान् मुरजमार्गेण श्लोकोयमुपजायते”। गोमूत्रिकाबन्धः। “गतिरुच्चावचा यत्र मार्गे मूत्रस्य गोरिव। गोमूत्रिकेति तत् प्राहुः दुष्करं चित्रवेदिनाम्। स० क० तच्च नानाविधं दर्शितम्। “दुष्करत्वात् कठोरत्वात् दुर्बोधत्वादिना विधेः। दिङ्मात्रं दर्शितं चित्रं स्वयमूह्यं महात्मभिः” स० क०। “अनेकधा वृत्तवर्णविन्यासैः शिल्पकल्पना। तत्तत्प्रसिद्धवस्तूनां चित्रमित्यभिधीयते इति सामन्यतः सर्ववस्त्वाकरकल्पनया चित्रं भवतीत्युक्तम् अग्निपु०। १६

१७ वाकोवाक्यम् “उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यं विदुर्बुधाः। द्वयोर्वक्तोस्तदिच्छन्ति बहूनामपि सङ्गमे। ऋजूक्तिरथ वक्रोक्तिर्वैयात्योक्तिस्तथैव च। गूढप्रश्नोत्तरोक्तिश्च तद्भिदा त्रिविधैव तु” वाकोवाक्यम् १९।

१८ प्रहेलिका। “प्रहेलिका सकृत्प्रश्नः सापि षोढा त्त्युताक्षरा। दत्ताज्ञरोभयं मुष्टिर्विन्दुमत्यर्थवत्यपि। क्रीडागोष्ठीविनोदेषु तज्ज्ञेयाकीर्णमण्डले। परव्यामोहने चापि सोपयोगा प्रहेलिका”। तत्र “चुताक्षरा “पयोधरभराक्रान्ता सन्नमन्ती पदे पदे। पदमेकं न का याति, यदि हारेण वर्जिता”। अत्राहारेणेत्याकारच्युतिः दत्ताक्षरा यथा। “कान्तयानुगतः कोऽयं पोनस्कन्धो मदोद्यतः। मृगाणां पृष्ठतो याति, शम्बरो रूढयौवनः”। शवर इति वक्तव्ये मकारो दत्तः। च्युतदत्ताक्षरा च्युतमन्यत् दत्तञ्चान्यदक्षरं यत्र सा यथा “विदग्धः सरसो रागी नितम्बोपरि संस्थितः। तरण्यालिङ्गितः कण्ठे कलं कूजति को, विटः। अत्र घट इति वक्तव्ये घकारस्य च्युतिः विकारस्य दानमिति तथात्वम्। विन्दुमत्यादीनामुदाहरणानि स० क० दृश्यानि। प्रहेलिका १८।

१९ गूढम्। “क्रियाकारकसम्बन्धपदाभिप्रायवस्तुभिः। गोपितैः षड्विधं प्राहुर्गूढं गूढार्थवेदिभिः। “पाण्डवानां सभामध्येदुर्य्योधन उपागतः। तस्मै गाञ्च हिरण्यञ्च सर्व्वाण्याभरणानि च”। अत्र क्रियापदम् गूढम्। योऽधन उपागतस्तस्मै गवादिकमदुरित्यर्थः। गूढम् १९

२० प्रश्तोचरम्। “यस्तु पर्य्यनुयोनस्य निर्भेदः क्रियते पदैः। विदग्धगोष्ठ्यां वाक्यैर्वा तं हि प्रश्नोत्तरं विदुः अन्तःप्रश्नबहिप्रश्नबहिःरन्तःममाह्वयैः। जातिगोत्रोत्तराभिख्यैः प्रश्नैस्तदपि षड्विधम्। प्रश्नोत्तरम्। २०

२१ अध्येयम् “यद्विघौ च निषेधे च व्युत्पत्तेरेव कारणम्। तदध्येयं विदुस्तेन लोकयात्रा प्रवर्त्तते”। अध्येयम् २१

२२ श्रव्यम् “श्रव्यं शास्त्रेतिहासौ च काव्यं शास्त्रं तथैव च। काव्येतिहासः शास्त्रेतिहासस्तदपि षड्विधम्”। यथा रघुवंशादि। श्रव्यम्। २२

२३ प्रेक्ष्यम् “यदाङ्गिकैकनिवर्त्त्यमुज्झितं वाचिकादिभिः। नर्त्त कैरभिनीयेत प्रेक्ष्यं तत् क्ष्वेडितादिवत्।। तल्लास्यं ताण्डवं चैव छलिकं शम्पया सह। हल्लीसकञ्च रासं च षट्प्रकारं प्रचक्षते”। शृङ्गाररसप्रधानत्वे लास्यं वीररसप्रधानत्वे ताण्डवं, शृङ्कारवीररसप्रधानत्वे छलिकमिति किन्वरविषयं छलिकमेव शम्पा। “मण्डलेन च यत्स्त्रीणां नृत्यं हल्लीसकं तु तत्। तन्नायको भवेदेको गोपस्त्रीर्णा हरिर्यथा। तदिदं हल्लीसकमेव तालबन्धविशेषयुक्तो रासः। प्रेक्ष्यम् २३।

२४ अभिनयः “अङ्गवाक्सत्वसंहार्थ्याः सामान्याश्चित्र इत्यमी। षड्घा अभिनयास्तद्वदभिनेयं वचो विदुः”। २४

“चत्वारो विंशतिश्चैताः शब्दालङ्कारजातयः। शब्दसंदर्भमात्रेण हृदयं हर्तुमीशते” सर० कण्ठा०। एतेषामुदाहरणानि विस्तरभयात् न लिखितानि तत एवावगन्तव्यानि। अर्थालङ्कारास्तु मतमेदेन बहवः तथाहि तेषां समष्टिः दण्डिना दर्शिता यथा। “स्वरूपाख्यानमुपमा रूपकं दीपकावली। आक्षेपोऽर्थान्तरन्यासो व्यतिरेको विभावना। समासोऽतिशयोत्प्रेक्षा हेतुः सूक्ष्मो लवः क्रमः। प्रेयोरसवदूर्जस्वि पर्यायोक्तं समाहितम्। उदात्तापह्नुतिश्लेषविशेषास्तुल्ययोगिता। विरोधाप्रस्तुतस्तोत्रे व्याजस्तुतिनिदर्शने। सहोक्तिः परिवृत्त्याशीःसङ्कीर्ण्णमथ भाविकम्। इति वाचामलङ्कारा दर्शिताः पूर्व्वसूरिभि”। सरस्वतीकण्ठाभरणेतु द्वैराश्येन तेषां समष्टिरभिहिता यथा “अलमर्थमलङ्कर्त्तुं यत् व्युत्पत्त्यादिवर्त्मना। ज्ञेया जात्यादयः प्राज्ञैस्तेऽर्थालक्षारसंज्ञया। जातिर्विभावना हेतुरहेतु सृक्ष्ममुत्तरम्। विरोधमम्भवान्योन्यं परिवृत्तिर्निदर्शना। भेदः समाहितं भान्तिर्वितर्को मीलितं स्मृतिः। भाव० प्रत्यक्षपूर्व्वाणि प्रमाणानि च जैमिनेः”। प्रत्यक्षानुमानोपमानार्थापत्त्यभावरूपाणि षट् इति चतुर्विंशतिः। एते तु अर्थमात्रनिष्ठाः। “शब्देभ्योयः पदार्थेभ्य उपमादिप्रतीयते विशिष्टोऽर्थः कवीनां सा उभयालङ्क्रिया मता। उपमा रूपकं साम्यं संशयोक्तिरपह्नुतिः। समाध्युक्तिः समासोक्तिरुत्प्रेक्षाऽप्रस्तुतस्तुतिः। सतुल्ययोगितोलेशः ससहोक्तिः समुच्चयः। आक्षेप्रोऽर्थान्तरन्यासो विशेषोक्तिः परिष्कृतिः। दीपकक्रमपर्य्याया विषमश्लेषभाविकः संसृष्टिरिति निर्द्दिष्टास्ताश्चतुर्विंशतिर्बुधैः” इत्युक्ता तेषां लक्षणानि सभेदं तत्रेव दर्शितानि चन्द्रालोकदर्पण कृदादिभिश्च सामान्यतोऽगणयित्वा नानाविधा दर्शिताः न संक्षेपतो गणिताः। अथार्थालङ्कारा एकत्र संगृह्य सोदाहरणलक्षणा अकारादिक्रमेण तेषु केचित् दर्शिता अपि क्रमानुरोधात् सर्वएवात्र प्रदर्श्यन्ते।
१ अक्रमातिशयोक्तिः “अक्रमातिशयोक्तिः स्यात् सहत्वे हेतुकार्य्ययोः” च०। “आलिङ्गन्ति ससं देव! ज्यां परांश्च शरास्तव”।
२ अतद्तुणः “सङ्गतानुगत्यनङ्गीकारमाहुरतद्गुणम्” च०। “चिरं रागिणि मच्चित्ते निहितापि न रज्यसि”।
३ अतिशयोक्तिः १०५ पृष्ठे उक्तलक्षणोदाहरणा।
४ अत्यन्तातिशयोक्तिः “अत्यन्तातिशयोक्तिस्तु कार्य्यहेतुप्रसक्तिजा” च०। “यास्यामीत्यदिते तत्व्या बलयोऽभवदूर्म्मिका”। ऊर्म्मिका बलयोऽभवदिन्वयः कृशत्वात्तथात्वम्।
५ अत्युक्तिः “अत्युक्तिरद्भुताऽतथ्यशौर्य्योदार्य्यादिवर्ण्णनम्” च० “त्वयि दातरि राजेन्द्र! याचकाः कल्पशास्विनः”।। याचकानां राजतोधनलाभेन कल्पतरुतुल्यताकथनमौदार्य्यस्यात्य्युक्तिः।
६ अधिकम् १२५ पृष्ठे लक्षणोदाहरणभेदाः उक्ताः।
७ अनन्वयः १४९ पृष्ठे उक्तलक्षणोदाहरणः।
८ अनुकूलम् “अनुकूलं प्रतिकूलमानुकूल्यानुबन्धिचेत्” च०। “कुपिताऽसि यदि तन्वि। निधाय करजक्षतम्। बधान भुजपाशाभ्यां कण्ठमस्य दृढं तदा”।
९ अनुगुणः “प्राक्सिद्धः स्वगुणोत्कर्षोऽनुगुणः परसन्निधेः” च०। “नोलोद्पलानि दधते कटाक्षैरतिनीलताम्”।
१० अनुज्ञा “दीषस्याभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात्” च०। “मय्येव जीर्ण्णतां यातु यत्त्वयेह कृतं हरे!। नरः प्रत्युपकारार्थं विपत्तिमभिकाङ्क्षति”।
११ अनुमानम् “अनुमानन्तु विच्छित्त्या ज्ञानं साध्यस्य साधनात्” च०। “यत्र पतत्यबलानां दृष्टिनिशिताः पतन्ति तत्र शराः। तच्चापरोपितशरो धावत्यासां पुरःस्मरो मन्ये”। स० क० विशेष उक्तः। यथा “लिङ्गाद्यल्लिङ्गिनोज्ञातमनु- मानं तदुच्यते। पूर्ववच्छेषवच्चैव दृष्टं सामान्यतश्च तत्। फलसामर्थ्यभेदेन द्विधैतत् भिद्यते पृथक्”। तेषु यत्र कारणं दृष्ट्वा कार्य्यमनुमीपते तत् पूर्ववत्। “अविरलविलोलगलज्जलकुटजार्ज्जुननीपसुरभिवनवातः। अयमायातः कालो हन्त हताः पथिकगेहिन्यः” अत्र वर्षर्त्तोः कारणभूतात् कार्य्यं विरहिणीमरणमनुमीयते। यत्र कार्यं दृष्ट्वा कारणमनुमीयते तच्छेषवत्। “मामागमिष्यन्नूनं पतितोऽसि पादयोस्तस्याः। कथमन्यथा ललाटे यावकार्द्रतिलकपङ्रियम्”। अत्र कार्यभूतथा यावकतिलकपङ्क्त्या कारणं पादपतनमनुमीयते। यदुभयविधभिन्नं तत् सामान्यतो दृष्टम् “मत्ता मदान्धस्य शिखण्डियूनोवृष्टेः पुरस्तादचिरप्रभेव”। सेयं विद्युदिव वृष्टेः प्रथममुपलभ्यमाना कामन्दकी अविनाभावेन मालत्यागमनं गमयतीति सामान्यतो दृष्टम्। फलसामर्थ्ययोरुदाहरणानि तत्र दृश्यानि।
१२ अन्योन्यम् “अन्योन्यं नाम यत्र स्यादुपकारः परस्वरम्” च०। “त्रियामा शशिना भाति शशी भाति त्रियामया”। स० क० भेद उक्तः। “अन्योन्यस्योपकारोयस्तदन्योन्यं त्रिधा च तत्। वाच्यं प्रतीयमानं च तृतीयमुभयात्मकम्! अन्योन्यचूलिकान्योन्यभ्रान्तिरन्योन्यरूपता। अन्योन्यालङ्कृतावन्तस्त्रयमेतदिहेष्यते”। तत्र वाच्यम्। “कण्ठस्य तस्यास्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य। अन्योन्यशोभाजनाद्बभूव साधारणो भूषणभूष्यभावः। प्रतीयमानन्तु अत्रैवान्योन्यपदानुपादाने। अन्योन्यचूलिका अन्योन्यरूपपरिवृत्तिः सा च व्यत्ययेन विनिमयेन च भवति। यथा “लोचनाधरकृताहृतरागा वासितानन विशेषितवासा। वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयञ्च वितेने”। अत्र वारुण्या यदधररागोऽपहृत्य चक्षुषि निक्षिप्तस्तेन व्यत्ययः। यच्च मुखामोदवासितया तया स्वामोदो विशेषितस्तेन विनिमयः तेन परिवृत्तिविनिमयाख्यावलङ्कारावत्रान्तर्भूताविति द्रष्टव्यम्।
१३ अपह्नवातिशयोक्तिः “रूपकातिशयोक्तिः स्यात् निगीर्य्याध्यवसानतः। यदाऽपह्नुतिगर्भत्वम् सैव सापह्नवा मता।” च० “त्वत्सूक्तिषु सुघा राजन्! भ्रान्ताः पश्यन्ति तां विधौ”।
१४ अपह्नुतिः २४१ पृष्ठे उक्तलक्षणोदाहरणा। स० कण्ठा० अन्यथोक्तम्। “अपह्नुतिरपह्नुत्य किञ्चिदन्यार्थदर्शनम्, औपम्यवत्यनौपम्या चेति सा द्विविधोच्यते” तत्र औपम्यवती यथा “न केतकीनां विलसन्ति सूचयः प्रवा- सिनो हन्त हसत्ययं विधिः। तडिल्लतेयं न चकास्ति चञ्चला पुरःस्मरज्योतिरिदं विजृम्भते “तत्र केतकीसूचीनां विधिहासतः प्रतीयमानसादृश्येन तडिल्लतायाः स्मरज्योतिषापह्वुतिः। अनौपम्या यथा “राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः। अवगच्छेयुराज्ञातमहो शीतानिलं वनम्” नचात्र सादृश्यमस्ति।
१५ अप्रस्तुतप्रशंसा २६४ पृष्ठे उक्तलक्षणोदाहरणा।
१६ अभावः। “असत्ता या पदार्थानामभावः सोऽभिधीयते। प्रागभावादिमेदेन स षड्विध इहेष्यते। स० क० प्रागभावः ध्वंसः अत्यन्ताभाव मिथ्यापदार्थाभाव इतरेतराभावः अभावाभावाश्च तत्र ध्वंसो यथा “धृतिरस्तमिता गतिश्चुता विरतं गेयमृतुर्निरुत्सवः। गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे”। इतरेतराभावो यथा। “कर्णोत्पलं न चक्षुस्ते न चक्षुः श्रवणोत्पलम्। इति जानन्नपि जनो मन्यते नेत्रदीर्धताम्” असत्याभावः यथा “प्रसीद सद्यो मुञ्चेमं चण्डि! मानं मनोगतम्। दृष्टमात्रेऽपि ते तत्र रोषः स्वकुसुमायते”। सामर्थ्याभावो यथा। “मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः। न प्रभातरलज्योतिरुदेति वसुधातलात्” अन्योदाहरणानि तत्रैव दृश्यानि।
१७ अभिदाहेतुः “अभेदेनाभिदाहेतुर्हेतोर्हेतुमता सह”। च० “लक्षमीविलासो भवतः कटाक्षवेक्षणं प्रभो”!
१८ अर्थान्तरन्यासः, ३७१ पृष्ठे उक्तोदाहरणलक्षणः।
१९ अर्थापत्तिः, ३७२ पृष्ठे उक्तलक्षणोदाहरणा। स० कण्टा० “प्रत्यक्षादिप्रतीतोऽर्थोयोऽन्यथा नोपपद्यते। अर्थान्तरञ्च गसयत्यर्थापत्तिं वदन्ति ताम्। सर्व्वप्रमाणपूर्व्वत्वा देकशोऽनेकशश्च सा। प्रत्यक्षपूर्व्वि केत्यादिभेदैः षोढा निगद्यते। प्रत्यक्षपूर्ब्धिका यथा “निर्ण्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि!। अन्यथानुपत्त्यैव पयोधरभरस्थितेः”। अनुमापूर्व्विका यथा “कपोलपुलकेनास्याः सूचितो मदनज्वरः। मनो निरन्तरासक्तः सद्यःकथयति प्रिये” योऽयं कपोलपुलकेनानुमितो मदनज्वरः स प्रिये मनसः निरन्तरासक्तिं विनानुपपद्यमानः अनुरागं कल्पयतीत्यनुमानपूर्विकार्थापत्तिः एवामन्या उदाहार्य्याः।
२० अल्पम् “अल्पन्तु सूक्षयादाधेयाद्यदाधारस्य सूक्ष्मता”। “मणिमालोर्म्मिका तेऽद्य करे जपवटायते”।
२१ अवज्ञा “वृद्धिहानी न चेत् स्यातामवज्ञालङ्कृतिश्च” सा न। “स्वल्पमेवाम्बु लभते पान्थः प्राप्यापि सागरम्” “मीलन्ति यदि पद्मानि का हानिरमृततद्युतेः”।
२२ असङ्गतिः “विरुद्धभिन्नदेशत्वं कार्य्यहेत्वोरसङ्कतिः १। अन्यत्र कारणार्थस्य ततोऽन्यत्र कृतिश्च या २। अन्यत् कर्त्तुं प्रवृत्तौ च तद्विरुद्धकृतिश्च या ३” च०। क्रमेणोदाहरणानि। “विषं जलधरैः पीतं मूर्च्छिता पथिकाङ्गना १”। “अपारिजाताम् वसुधां चिकीर्षन् द्यां तथाऽकृथाः” २। अपगतमरिजातं यस्याः नास्ति पारिजातो यत्रं इति च। “गोत्रोद्धारप्रवृत्तोहि गोत्रोद्धारं पुराऽकरोः ३। गोत्रा पृठ्वी गोत्रः पर्वतश्च।
२३ असम्भवः “असम्भवोऽर्थनिष्पत्तेरसम्भाव्यत्ववर्णनम्।” च० “कोवेद गोपशिशुकः शैलमुत्पाटयिष्यति”।
२४ आक्षेपः “आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् १। निषेधाभासमाक्षेपं बुधाः केचन मन्वते२। आक्षेपोऽन्योविधौव्यक्ते निषेधे च तिरोहिते३”। च० “चन्द्र! संदर्शयात्मानमथवास्ति प्रियामुखम्” १। “नायं दूति! तनो स्तापस्तस्याः कालानलोपमः २”। “गच्छ गच्छसि चेत् कान्त! पन्थानः सन्तु ते शिवाः। ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान्”। ३
२५ आगमः “यदाप्तवचनं तद्धि ज्ञेयमागमसंज्ञया। उत्तमं मध्यमं चाथ जघन्यं चेति तत् त्रिधा”। स० क० तत्रोत्तमं विधिरूपं निषेधरूपञ्च। विधिरूपं यथा “दमं दानं दयां शिक्षे” रित्यादौ दाम्यत दत्त दयध्वं इति विधिः। निषेधरूपं यथा “निवार्य्यतामालि! किमप्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः। न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक्”। तथाच महान्तो नापभाषितव्या इति वाक्यार्थमर्य्यादया निषेधरूप उपदेशः। तदेतदुभयमप्यवश्यानुष्ठेयत्वादुत्तमम्। मध्यममपि द्विधा निर्दिष्टवक्तृकमनिर्दिष्टवक्तृकञ्च तत्राद्यं यथा “कल्याणी वत गाथेयं लौकिकीं प्रतिभाति मे। एति जीवन्तमानन्दो नरं वर्षशतादपि” अत्र जीवन्नरः पश्यति भद्रमित्यर्थो निर्दिष्टवक्तृकतया निर्दिष्टः तत्र जीवनाय यतितव्यमिति रूपमाप्तवचनम्। “अक्षे वसति पिशाचो पिचुमर्द्दे दिनपतिर्वटे यक्षः। विश्राम्यति पद्मे श्रीस्तिष्ठति गौरी मधूकतरौ” तदिदमनिर्द्दिष्टवक्तृकमनादिलोकप्रसिद्धपारम्पर्य्यमैतिह्यम्। अत्र सर्ब्बवाक्यानां निषेधपर्य्यवसानात् अक्षं न सेवेत, पिचुमर्द्दं न निन्देत, वटं न छिन्द्यात्, पद्मं मूर्द्ध्नि न बिभूयात्, मधूकं न पदा स्पृशेत्” इति निषेधचतुष्टयरूपआगमः। जघन्यं द्वेधा काम्यं निषिद्धं च। तत्र निषिद्धविषयबिधिर्यथा “वयं बाल्ये बालांस्तरुणि- मनि यूनः, परिणतानपीच्छामो वृद्धा, परिणयविधानस्थितिरियम्। त्वयारब्धं जन्म क्षपयितुमकाण्डेन विधिना न नो गोत्रे पुत्रि! क्वचिदपि सतीलाञ्छनमभूत्” तदेतन्निषे धरूपम् निषिद्धविषयमाप्तवचनमसतीवचनरूपम्।
२६ आशीः “आशीर्नामाभिलषिते वस्तुन्याशंसनं यया”। दण्डी “पातु वः परमं ज्योतिरवाङ्मनसगोचरम्”।
२७ उत्तरम् “किञ्चिदाकूतसहितं यद्गूढोत्तरमुत्तरम्” च०। “यत्रासौ वेतसी पान्थ! तत्रासौ सुतरा सरित्”।
२८ उत्प्रेक्षा “सम्भावनाः स्युरुत्प्रेक्षावस्तुहेतूद्भवाः पुनः। उक्तानुक्तास्पदाद्यात्र सिद्धासिद्धास्पदे परे”। च० “धूमस्तोमं तमः शङ्के कोकीविरहलक्षणम्” “लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः” “रक्तौ तवाङ्घ्री मृदुलौ भुवि विक्षेपणाद् ध्रुवम्”। “त्वन्मुखाभेच्छया नूनं पद्मेवैरायते शशी” “मध्यः किं कुचयोर्धृत्यै बद्धः कनकदामभिः” “प्रायोऽब्जं त्वत्पदेनैक्यं प्राप्तुं तोये तपस्यति”। दर्पणे तु अन्यथा विभज्य उदाहृतम् यथा “भवेत्सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना। वाच्या प्रतीयमाना सा प्रथमं विविधा मता वाच्येवादिप्रयोगेस्यादप्रयोगेऽपरा पुनः। जातिर्गुणः क्रिया द्रव्यं यदुत्प्रेक्ष्यं द्वयोरपि। तदष्टघापि प्रत्येकं भावाभावाभिमानतः। गुणक्रियास्वरूपत्वान्निमित्तस्य पुनश्च ताः। द्वात्रिं शद्विधतां यान्ति”। तत्र वाच्योत्प्रेक्षायामुदाहरणं दिङ्मात्रं यथा।। “ऊरुः कुरङ्गकदृशश्चञ्चलचेलाञ्चलोभाति। सपताकः कनकमयोविजयस्तम्भः स्मरस्येव”।। अत्र विजयस्तम्भस्य जातिवाचकत्वाज्जात्युत्पेक्षा।। “ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्य्ययः। गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव”।। अत्र सप्रसवत्वं गुणः।। “गङ्गाम्भसि सुरत्राण! कृपाणस्तव निःस्वनः। स्नातीवारिबधूवर्गगर्भपातनपातकी”।। अत्र स्नातीति क्रिया।। “मुखमेणीदृशोभाति पूर्णचन्द्र इवापरः”।। अत्र चन्द्रैत्येकव्यक्तिवाचित्वाद्द्रव्यम्। एते भावाभिमाने च। अभावाभिमाने यथा।। “कपोलफलकावस्य कण्ठं भित्त्वा तथाविधौ। अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ”।। अत्रापश्यन्ताविति क्रियाया अभावः। एवम न्यत्। निमित्तस्य गुणक्रियारूपत्वे यथा गङ्गाम्भसीत्यादौ स्नातीवेत्युत्प्रेक्षानिमित्तं पातकित्वं गुणः। अपश्यन्ताविवेत्यादौ क्षामतागमनरूपं निमित्तं क्रिया एवमन्यत्। प्रतीयमानोत्प्रेक्षा यथा।। “तन्वङ्ग्याः स्तनयुग्मेन मुखं न प्रकटीकृतम्। हाराय गुणिने स्थानं नदत्तमिति लज्जया”।। अत्र लज्जयेवेति इवाद्यभावात् प्रतीयमानोत्प्रेक्षा एवमन्यत्। अत्र वाच्योत्प्रेक्षायां षोडण्सु भेदेषु मध्ये विशेषमाह “तत्र वाच्याभिदाः पुनः। विना द्रव्यं त्रिधा सर्व्वाः खरूपफलहेतुगाः” तत्रीक्तेषु वाच्यप्रतीयमानोत्प्रेक्षयोर्भेदेषु मध्ये ये वाच्योत्प्रेक्षयोः षोडशभेदास्तेषु जात्यादीनां त्रयाणां ये द्वादशभेदास्तेषां प्रत्येकं स्वरूपफलहेतुगतत्वेन द्वादशभेदतया षट्त्रिंशद्भेदाः द्रव्यस्य स्वरूपोत्प्रे क्षणमेव संभवतीति चत्वार इति मिलित्वा चत्वारिंशद्भेदाः। अत्र स्वरूपो त्प्रेज्ञा यथा पूर्व्वोदाहरणेषु “स्मरस्य विजयस्तम्भ” इति सप्रसवा इवेत्यादयः जातिगुणरूपाः। फलोत्प्रेक्षा यथा।। “रावणस्यापि रामास्तोभित्त्वा हृदयमाशुगः। विवेश भुव माख्यातुमुरगेभ्यैव प्रियम्”।। अत्राख्यातुमिति भूप्रवेशस्य फलं क्रियारूपमुत्प्रेक्षितम्।। हेतूत्प्रेक्षा यथा।। “सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमूर्व्याम्। अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्”।। अत्र दुष्खरूपोगुणोहेतुत्वेनोत्प्रेक्षितः। एवमन्यत्। “उक्त्यनुक्त्योर्निमित्तस्य द्विधा तत्र स्वरूपगाः”। तेषु चत्वारिंशत्संख्याकेषु भेदेषु मध्ये येस्वरूपगायाः षोडश भेदास्ते उत्प्रेक्षानिमित्तस्योपादानानुपादानाभ्यां द्वात्रिंशद्भेदा इति मिलित्वा षट् पञ्चाशद्भेदा वाच्योत्प्रेक्षायाः। तत्र निमित्तस्योपादाने यथा पूर्व्वोदाहृते स्नातीवेत्युत्प्रेक्षायां निमित्तं पातकित्वमुपात्तम्। अनुंपादाने यथा “चन्द्रैवापरः” इत्यत्र तथाविधसौन्दर्य्याद्यतिशयोनोपात्तः। हेतुफलयोस्तु नियमेन निमित्तस्योपादानमेव तथाहि विश्लेषदुष्खादिवेत्यत्र यन्निमित्तं बद्धमौनत्वम्, आख्यातुमिवेत्यत्र च भूप्रवेशस्तयोरनुपादाने असङ्गतमेव वाक्यं स्यात्। प्रतीयमानायाः षीडशसु भेदेषु विशेषमाह “प्रतीयमानाभेदाश्च प्रत्येकं फलहेतुगाः”। यथोदाहृते तन्वङ्ग्यास्तनयुग्मेनेत्यत्र लज्जयेवेति हेतुरुत्प्रेक्षितः अस्यामपि निमित्तस्यानुपादानं न सम्भवति ईवाद्यनुपादाने निमित्तस्य च कीर्त्तने उत्प्रेक्षणस्य प्रमातुर्निश्चेतुमशक्यत्वात्। स्वरूपोत्प्रेक्षाप्यत्र न भवति धर्म्म्यन्तरतादात्भ्यनिबन्धनायामस्यामिवाद्यप्रयोगे विशेषणयोगे सत्यतिशयोक्तेरभ्युपगमात् यथा।। “अयं राजाऽषरः पाकशासन” इति।। विशेषणाभावे च रूपकस्य, यथा “राजा पाकशा सन” इति तदेवं द्वात्रिंशत्प्रकारा प्रतीयमानोत्प्रेक्षा। “उक्त्यनुक्त्योः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा”। ता उत्प्रेक्षाः। उक्तौ यथा।। “ऊरुः कुरङ्गकदृश” इति।। अनुक्तौ यथा प्रभावत्याम्।। “इह हि संप्रति दिगन्तमाच्छादयता तिमिरपटलेन। घटितमिवाञ्जनपुञ्जैः पूरितमिव मृगमदक्षोदैः। ततमिव तमालतरुभिर्वृतमिव नीलांशुकैर्भुवनम्”।। अत्राञ्जनेन षटितत्वादेरुत्प्रेक्षणीयस्य विषयो व्याप्तत्वं नोपात्तं यथा वा।। “लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः”।। अत्र तमसोलेपस्य व्यापनरूपोविवयोनोपात्तः अञ्जनवर्षणस्य तमःसंपातः, अनयोरुत्प्रेक्षानिमित्तञ्च तमसोऽतिबहुलत्वं धारावर्षणाधःसंयोगश्च यथासंङ्ख्यम्। केचित्तु अलेपनकर्तृ भूतमपि तमोलेपनकर्तृत्वेनोत्प्रेक्षितं व्यापनञ्च निमित्तम् एवं नभोपि वर्षणक्रियाकर्तृत्वेने त्याहुः। “अलङ्कारान्तरोत्था सा वैचित्र्यमधिकं बहेत्” तत्र सापह्नवोत्प्रेक्षा यथा। “अश्रुच्छलेन सुदृशोहुतपावकधूमकलुषाक्ष्याः। अप्राप्य मानमङ्गे विगलति लावण्यवारिपूर इव”। श्लेषहेतुगा यथा। मुक्तोत्करः सङ्कटशुक्तिमध्याद्विनिर्गतः सारसलोचनायाः। जानी महेऽस्याः कमनीयकम्बुग्रोवाधिवासाद्गुणवत्त्वमाप”। अत्र गुणवत्त्वे श्लेषः कम्बुग्रीवाधिबासादिवेति हेतूत्प्रेक्षाया हेतुः। अत्र जानीमहे इत्युत्प्रेक्षावाचकम् एवम् “मन्येशङ्के ध्रुवं प्रायोनूनमित्येवमादयः”। क्वचिदुपमोपक्रमोत्प्रेक्षा यथा। “पारेजलं नीरनिधेरपश्यन्मुरारिरानीलपलाशराजीः। वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवालाभाः”। इत्यत्राभाशब्दस्योपमावाचकत्वादुपक्रमे उपमा पर्य्यवसाने तु जलधितीरे शैवालस्थितेः संभवानुपपत्तेः संभावनोत्थानमित्युत्प्रेक्षा एवं विरहवर्ण्णने। “केयूरायितमङ्गदैरित्यत्र” “विकासिनीलोत्पलभिन्नकर्ण्णे मृगायताक्ष्याः कुटिलः कटाक्षः” इत्यादौ च ज्ञेयम्। भ्रान्तिमदलङ्कारे “मुग्धादुग्धधियेत्यादों भ्रान्तानां वल्लवादीनां विषयस्य चन्द्रि कादेर्ज्ञानं नास्ति तदुपनिबन्धनस्य कविनैव कृतत्वात्। इह तु संभावनाकर्त्तुर्विषयस्यापि ज्ञानमिति द्वयोर्भेदः। सन्देहे तु समकक्षतया कोटिद्वयस्य प्रतीतिः इह तूत्कटा संभाव्यभूतैका कोटिः। अतिशयोक्तौ विषयिणः प्रतीतस्य पर्य्यवसानादसत्यता प्रतीयते इह तु प्रतीतिकालएवेति भेदः। “रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु। पूरिता नु विषमेवु धरित्री संहत्रा नु ककुभस्तिमिरेण” इत्यत्र तर्व्वादो तिमिराक्रान्ततारञ्जनादि रूपेण सन्दिह्यतैति सन्देहालङ्कारैति केचिदाहुः। तन्न एकविषये समानबलतयानेककोटिस्फुरणस्यैव सन्देह त्वात् इह तु तर्व्वादिव्याप्तेः प्रतिसम्बन्धिभेदव्यापनादेर्निग रणेन रञ्जनादेः स्फुरणञ्च। अन्येत्वनिर्द्धारणरूपविच्छित्त्या श्रयत्वेनैककोट्यधिकोऽपि भिन्नोऽयं सन्देहप्रकारैतिवदन्ति स्प तदप्ययुक्तं निगीर्ण्णस्वरूपस्यान्यतादात्म्यप्रतीतिर्हि सम्भा वना तस्याश्चात्र स्फुटतया सद्भावात् नुशब्देन चेवशब्दवत्तस्या द्योतनादुत्प्रेक्षैवेयं भवितुं युक्ता अलमट्टष्टसन्देहप्रकारकल्पनया। “यदेतच्चन्द्रान्तर्जलदलवलीलां वितनुते तदा चष्टे लोकः शशकैति नो मां प्रति तथा। अहन्त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणीकटाक्षोल्कापातव्रणकिण कलङ्काङ्गिततनुम्” इत्यत्र मन्येशब्दप्रयोगेऽपि उक्तरूपायाः सम्भावनाया अप्रतीतेर्वितर्कमात्रम्” नासावपह्नवोत्प्रेक्षा।
२९ उदात्तम् “लोकातिशयसम्पत्तिवर्ण्णनोदात्तमुच्यते यद्वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत्” सा० द०। “अधः कृताम्भोधरमण्डलानां यस्यां शशाङ्कोपलकुट्टिमानाम्। ज्योत्स्नानिपातात् क्षरतां पयोभिः केलीवनं वृद्धिमुरीकरोति”। “नाभि प्रभिन्नाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा। अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान् पुरुषोऽधिशेते”।
३० उपमा “साम्यं वाच्यमवैधर्म्म्यं वाक्यैक्ये उपमा द्वयोः” सा० द०। रूपकादिषु साम्यस्य व्यङ्गत्वं व्यतिरेके च वैधर्म्म्यस्याप्युक्तिः उपमेयोपमायां वाक्यद्वयम् अनन्वये च एकस्यैव साम्योक्तिरित्यस्याभेदः। “सा पूर्ण्णा यदि सामान्यधर्म्म औपम्यवाचि च। उपमेयं चोपमानं भवेद्वाच्यम्” सा उपमा साधारणोधर्म्मो द्वयोः सादृश्यहेतुर्गु णक्रियामनोज्ञत्वादि, औपम्यवाचकमिवादि, उपमेयं मुखादि, उपमानं चन्द्रादि। “इयं पुनः। श्रौती यथेववाशब्दा इवार्थो वा वतिर्यदि। आर्थी तुल्यसमानाद्यास्तुल्यार्थो यत्र वा वतिः”। यथेववादयः शब्दा उपमानान्तरप्रयुक्ततुल्यादिपदसाधारणा अपि श्रुतिमात्रेणोपमानोपमेयगतसादृश्यलक्षणसम्बन्धं बोधयन्तीति तत्सद्भावे श्रौती उपमा। एवं “तत्र तस्यैवेत्यनेन” इवार्थे विहितस्य वतेरुपादाने। तुल्यादयस्तु “कमलेन तुल्यं मुखमित्यादौ” उपमेय एव। “कमलं मुखस्य तुल्य”मित्यादावुप्रमान एव “कमलं मुखञ्चतुल्य” मित्यादावुभयत्रापि विश्रामन्तीति तत्सद्भावे आर्थी। एवं “तेन तुल्यमित्यादिना” तुल्यार्थे विहितस्य वतेरुपादाने। द्वे श्रौती आर्थीच। उदाहरणम् “सौरभमम्मोरुहवन्मुखस्य कुम्भाविव स्तनौ पीनौ। हृदयं मदयति वदनं तव शरदिन्दुर्यथा बाले!।।” अत्र क्रमेण त्रिविधा श्रौती। “मधुरः सुधावदधरः पल्लवतुल्योऽतिपेलवः पाणिः। चकितमृगलोचनाभ्यां सदृशी चपले च लोचने तस्याः”।। “अत्र क्रमेण त्रिविधा आर्थी “पूर्ण्णा षडेव तत्। “लुप्ता सामान्यधर्म्मादेरेकस्य यदि वा द्वयोः। त्रयाणां वानुपादाने श्रौत्यार्थी सापि पूर्व्ववत्०।। सालुप्ता। तद्भेदमाह। “पूर्ण्णावद्धर्म्भलोपे सा विना श्रौतीन्तु तद्धिते”। सा लुप्तोपमा घर्म्मस्य साधारणगुणक्रियारूपस्य लोपे पूर्ण्णावदिति पूर्व्वोक्तरीत्या षट्प्रकारा, किन्त्वत्र तद्धिते श्रौथा असम्भवात् पञ्चप्रकारा। उदाहरणम्। “मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये!। वाचः खुधा इवौष्ठस्ते विम्बतुल्यो मनोऽश्मवत्”।। “आधारकर्म्मविहिते द्विविधे च क्यचि क्यङि। कर्म्म कर्त्रोर्णमुलि च स्यादेवं पञ्चधा पुनः”।। धर्म्मलोपे लुप्तेत्यनुषज्यते। क्रमेणोदाहरणम्। “अन्तःपुरीयसि रणेषु, सुतीयसि त्वंपौरं जनं, तव सदा रमणीयते श्रीः। दृष्टः प्रियामिरमृतद्युतिदर्शमिन्द्रसञ्चार मत्र भुवि सञ्चरसि क्षितीश”!।। अत्रान्तःपुरीयसीत्यत्र सुखविहारास्पदत्वस्य “सुतीयसीत्यत्र” स्नेहनिर्भरत्वस्य च साधारणधर्म्मस्य लोपः। एवमन्यत्र इह च यथादि तुल्यादिविरहात् श्रौत्यादिविशेषचिन्ता नास्ति। इदञ्च केचित् औपम्यप्रतिपादकस्य वतेर्लोपे उदाहरन्ति तदयुक्तम् क्यङादेरपि तदर्थविहितत्वेनौपम्यप्रतिपादकत्वात्। ननु क्यङादिषु सम्यगौपम्यप्रतितीर्नास्ति प्रत्ययत्वेनास्वतन्त्रत्वात् इवादिप्रयोगाभावाच्चेति चेन्न कल्पवादावपि तथा प्रसङ्गात्। न च कल्पवादोनामिवादितुल्यतयौपम्यस्य वाचकत्वं, क्यङादीनान्तु द्योतकत्वम्” इवादीनामपि वाचत्वे निश्चयाभावात्। वाचकत्वे वा समुदितं पदं वाचकं “प्रकृतिप्रत्ययौ स्वस्वार्थबोधकाविति च” मतद्वयेऽयि वत्यादिक्यङाद्योः साम्यमेवेति। यच्च केचिदाहुः “वत्यादय इवाद्यर्थेऽनुशिष्यक्ते क्यङादयस्त्वाचारार्थे इति” तदपि न। न खलु क्यङादय आचरमात्रार्था अपि तु सदृशाचारार्था इति। तदेवं धर्म्मलोपे दशप्रकारा लुप्ता। “उपमानानुपादाने द्विधा वाक्यसमासयोः”। उदाहरणम्। “तस्या मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यम्”। अत्र मुखनयनप्रतिनिधिवस्त्वन्तरयोर्गम्यमानत्वादुपमानलोपः। अत्रैव च “मुखेन सदृशम्” इत्यत्र मुखं यथेदमिति” “नयनतुल्यमित्यत्र” “दृगिवेति” पाठे श्रौत्यपि सम्भवतीत्यनयोर्भेदयोः प्रत्येकं श्रौत्यार्थीत्वभेदेन चतुर्विघत्वसम्भवेऽपि प्राचीनरीत्या द्विप्रकारत्वमेवोक्तम्। “औपम्यवाचिनो लोपे समासे ष्वपि च द्विधा”। “वदनं मृगशावाक्ष्याः सुधाकरमनोहरम्” “गर्द्दभति श्रुतिपरुषं व्यक्तं निनदन्महात्मनां पुरतः”।। अत्र “गर्द्दभतीत्यत्र” औपम्यवाचिनः क्विपो लोपः। न चेह उपमेयस्यापि लोपः। “निनदन्निति” अनेनैव निर्देशात्। “द्विधा समासे वाक्ये च लोपे धर्म्मोपमानयोः”। “तस्या मुखेनेत्यादौ” “रम्यमिति” स्थाने “लोके इति” पाठेऽनयोरुदाहरणम्। “क्विप्समासगता द्वेधा धर्म्मेवादिविलोपने”। उदाहरणम्। “विधवति मुखाब्जमस्याः”। अत्र “विधवतीति” मनोहरत्वधर्म्म लोपः। केचित्त्वत्रापि क्विप्प्रत्ययलोपमाहुः। “मुखाब्जमिति” अत्र समासगा। “उपमेयस्य लोपे तु स्यादेका प्रत्यये क्यचि”। “अरातिविक्रमालोकविकस्वरविलोचनः। कृपाणोदग्रदोर्द्दण्डः स सहस्रायुधीयति”।। अत्र स सहस्रायुधमिव आत्मानमाचरतीति वाक्ये उपमेयस्यात्मनो लोपः। न चेह औपम्यवाचकलोपः उक्तादेव न्यायात्। अत्र केचिदाहुः सहस्रायुधेन सह वर्त्तत इति ससहस्रायुधः स इवाचरतीति वाक्यात् ससहस्रायुधीयतीति पदसिद्धेः विशेष्यस्य शब्दानुपात्तत्वादिहोपमेयलोप इति तन्न विचारसहम्। कर्त्तरि क्यचोऽनुशासनविरुद्धत्वात्। “धर्म्मोपमेयलोपेऽन्या” यथा “यशसि प्रसरति भवतः क्षीरोदीयन्ति सागराः सर्व्वो”। अत्र क्षीरोदमिवात्मानमाचरन्तीत्युपमेय आत्मा साधारणधर्म्मः शुक्लता च लुप्तौ। “त्रिलोपे च समासगा”। यथा। “राजते मृगलोचना”। अत्र मृगस्य लोचने इव चञ्चले लोचने यस्या इति समासे उपमाप्रतिपादकसाधारणधर्म्मोपमानानां लोपः। “तेनोपमाया भेदाः स्युः सप्तविंशतिसंङ्ख्यकाः”। पूर्ण्णा षड्विधा लुप्ता चैकविशंशतिविधेति मिलित्वा सप्तविंशतिप्रकारोपमा। एषु चोपोमाभेदेषु मध्ये अलुप्तसाधारणधर्म्मेषु भेदेषु विशेषः प्रतिपाद्यते “एकरूपः क्कचित् क्कापि भिन्नः साधारणो गुणः। भिन्ने विम्बानुविम्बत्वं शब्दमात्रेण वा भिदा”।। तत्र एकरूपे यथा “मधुरः सुधावदधरः” इत्यादि। विम्बप्रतिविम्बो यथा। “भल्लापवर्ज्जितैस्तषां शिरोभिः श्मश्रुलैर्महीम्। तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव”।। अत्र “श्मश्रुलैरित्यस्य” “सरघाव्याप्तैरिति” च दृष्टान्तवत्प्रतिविम्बनम्। शब्दमात्रेण भिन्नत्वे यथा। “स्मेरं विधाय नयनं विकसितमिव नीलमुत्पलं मयि सा। कथयामास कृशाङ्गो मनोगतं निखिलमाकूतम्”।। अत्र एके एव स्मेरत्वविकसितत्वे प्रतिवस्तूपमावच्छब्दभेदेन निर्दिष्टे। “एकदेशविवर्त्तिन्युपमावाच्यत्वगम्यते। भवेतां यत्र साम्यस्य” यथा।। “र्नत्रैरिवोत्पलैः पद्मैर्मुखैरिव सरः श्रियः। पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव अत्र नेत्रादोनां उत्पलादिसादृश्यं वाच्यं, सरःश्रीणाञ्चाङ्गनासादृस्यं गम्यम्। “कथिता रसनोपमा। यथोर्द्ध्वमुपमेयस्य यदि स्यादुपमानता”।। “चन्द्रायते शुक्लरुचापि हंसो हंसायते चारुगतेन कान्ता। कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः”।। “मालोपमा यदेकस्योपमानं बहु दृश्यते”। यथा। “वारिजेनेव सरसी शशिनेव निशोथिनी। यौवनेनेव वनिता नयेन श्रोर्ममनोहरा”।। क्वचिदुपमानोपमेययोर्द्वयोरपि प्रकृतत्वं दृश्यते।। “हंसश्चन्द्र इवाभाति जलं व्योमतलं यथा। विमलाः कुमुदानोव तारकाः शरदागमे”।। “अस्य राज्ञो गृहे भान्ति भूपानीता विभूतयः। पुरन्दरस्य भवने कल्पवृक्षभवा इव”।। अत्रोपमेयभूतविभूतिभिः कल्पवृक्षवैभवा इवेति” उपमानभूता विभूतय आक्षिप्यन्त इति आक्षेप्रोपमा। अत्रैव “गृहे इत्यस्य” “भवने इत्यनेन प्रतिनिर्द्देशात् प्रतिनिर्द्देश्योपमा इत्यादयश्च न लक्षिताः एवंविधवैचित्र्यस्य सहस्रधा सन्दर्शनात्” सा० द०। “प्रसिद्धेरनुरोधेन यः परस्परमर्थयोः। भूयोऽवयवसामान्ययोगः सेहोपमा मता” स० कण्ठा०।
३१ उपमानम्। “सदृशात् सदृशज्ञानमुपमानं द्विधेह तत्। स्वादेकमनुभूतार्थेऽननुभूते द्वितीयकम्”। स० कण्ठा० तत्रानुभूतार्थे यथा” सर्व्वप्राणप्रवणमघवन्मुक्तमाहत्य वक्षस्तत्संङ्घाता द्विघटितदलत्खण्डमुच्चण्डरोचिः। एवं वेगात् कुलिशकरोत् व्योम विद्युत्सहस्रं भर्त्तुर्वज्रज्वलनकपिशास्ते च रोषाट्टहासाः”।। अननुभूते “तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले। समूहस्तारकाणां यः शकटाकारमाश्रितः”।।
३२ उपमेयोपमा “पर्य्यायेण द्वयोरेतदुपमेयोपमा मता” दर्पणे। “कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः”
३३ उल्लासः “एकस्य गुणदोषाभ्यामुल्लासोऽन्यस्य तौ यदि”। च०। तत्र गुणे “अपि मां पावयेत् साध्वी स्रात्वेतीच्छति जाह्नवी। दोषे, “काठिन्यं कुचयोर्दृष्टं वाञ्छन्त्यः पादपद्मयोः। निन्दन्ति विश्वधातारं त्वद्वाटीष्वरियोषितः”।
३४ उल्लेखः “क्वचिद्भेदाद्ग्रहीतॄणां विषयाणां तथा क्वचित्। एकस्यानेकधोल्लेखः यः स उल्लेख इष्यते” सा० द० “प्रिय इति गोपबधूभिः शिशुरिति वृद्धैरधीश इति देवैः। नारायण इति भक्तैर्ब्रह्मेत्यग्राहि योगिर्भिदेवः”। “गाम्भीर्य्येण समुद्रोऽसि गौरवेणासि पर्वतः”।
३५ ऊर्जस्वि “ऊर्जस्वि रूढाहङ्कारम्” इति “अपकर्त्ताहसस्मीति हृदि ते मा स्म भूद्भयम्। विमुखेषु न मे स्वड्गः प्रहर्त्तु” जातु वाञ्छति एवमुक्त्वा परोयुद्धे निरुद्धोदर्पशालिना। पुंसा केनापि तज्ज्ञेयमूर्जस्वीत्ये वमादिकम्” इति च दण्डी।
३६ एकावली पूर्व्वं पूर्व्वं प्रति विशेषणत्वेन परं परम्। स्थाप्यतेऽपोह्यते वाचा स्यात्तथैकावली द्विधा”। सा० द० स्थापने। “सरोविकसिताम्भोजमम्भोजं भृङ्गसङ्गतम्। भृङ्गायत्र ससङ्गीताः सङ्गीतं सस्मरोदयम्”। वर्जने। “न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम्। न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुंञ्जितं तन्न जहार यन्मनः”।
३७ कारकदीपकम् “क्रमिकैकगतानान्तु गुम्पःकारकदीपकम्”। च० अत्र कारकः क्रिया कर्त्तृत्वादिसंज्ञाकारित्वात् “गच्छत्यागच्छति पुनः पान्थः पश्यति पृच्छति”।
३८ कारणमाला “परंपरं प्रति यदा पूर्व्वपूर्व्वस्य हेतुता। तदा कारणमाला स्यात्”। सा० द० “श्रुतं कृतधियां सङ्गाज्जायते, विनयः श्रुतात्। लोकानुरागो विनयान्न किं लोकानुरागतः”।।
३९ काव्यलिङ्गम् “हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्”। सा० द० “जितोऽसि मन्द! कन्दर्प! मच्चित्तेऽस्ति त्रिलोचनः” अत्र पदार्थस्य हेतुता। वाक्यार्थस्य यथा। “यत्त्वन्नेत्रसमानकान्तिसलिले मग्नं तदिन्दीवरं मेघेष्वक्तरितं प्रिये तव मुखच्छायानुकारी शशी। येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गतास्त्वत्सादृश्यविनोदमात्रमपि मेदैवेन न क्षम्यते”। अत्र चतुर्थषादार्थे आद्यपादत्रयार्थानां हेतुता।।
४० काव्यार्थापत्तिः “कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते”। च० “सं जितस्त्वन्मुखेनेन्दुः का वार्त्ता सरसीरुहाम्”।
४१ कैतवापह्नुतिः “कैतवापह्नुतिर्व्यक्ते व्याजाद्यैर्निह्नवे पदैः”। च० “निर्यान्ति स्मरनाराचा बालादृक्पातकैतवात्”। इयम् व्याजापह्नुतिरित्यन्ये अपह्नुतिशब्दे विवृतिः।
४२ गूढोक्तिः “गूढोक्तिरन्योद्देश्या गीर्यदन्यं प्रति गद्यते”। च० “वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः”। जारोद्देशेन वृषं प्रत्युक्तिः।
४३ चपलातिशयोक्तिः चपलातिशयोक्तिस्तत् पौर्वापर्य्यव्यतिक्रमः”। च० “अग्रे मानोगतः पश्चादनुनीता प्रियेण सा”।।
४४ छेकापह्नुतिः “छेकापह्नुतिर तिरन्यस्य शङ्कातस्तस्य निह्नवे”। च० “प्रजल्पन् मत्पदे लग्नः कान्तः किं? न हि नूपुरः”
४५ तद्गुणः “तद्गुणः स्वगुणत्यागादन्यदीयगुणग्रहः”। च० “नयन् मधुलिहः श्वैत्यमुदंशुदशनांशुभिः”।।
४६ तुल्ययोगिता “वर्ण्यानामितरेषां वा धर्म्मैक्यं तुल्ययोगिता” “सङ्कुचन्ति सरोजानि स्वैरिणीवदनानि च”। सा त्रिधा। हिताहिते वृत्तितौल्यादमपरा तुल्यवोगिता। “प्रदीयते पराभूतिर्मित्रशात्रवयोस्त्वया”। परा श्रेष्ठा भूतिरैश्वर्य्यं पराभूतिः पराभवश्च “गुणोत्कृष्टेः समीकृत्य वचोऽन्या तुल्ययोगिता” च०। “लोकपालोयमः पाशी श्रीदः शक्रो भवानपि”। यमादिभिरुत्कृष्टैः लोकपालत्वेन समीकृतिरत्र।
४७ दीपकम् “वदलि वर्ण्ण्यावर्ण्ण्यानां धर्म्मेक्यं दीपकं बुधाः”। च० दर्पणेतु” अथ कारकमेकं स्यादनेकासु क्रियासु चेत्। “सती च योषित् प्रकृतिश्च निश्चला पुमांसमभ्येति भवान्तरेष्वपि अत्र अनुगमनरूपैकक्रियासम्बन्धः वार्ण्यावर्ण्ण्ययोः।
४८ दीपकावृत्तिः “त्रिविधा दीपकावृत्तिर्भवेदावृत्तिहेततः वस्तुनो वा स्वभावेन शक्तेर्वा हानिहेतुना। अकृतात्मीयकार्य्यः स्यादहेतुर्व्याहतस्तु यः” स० क०। “न विरचिता ललाटतठनृत्य करीभ्रुकुटी न परुषहुङ्कृतेन मृदुस्मित मन्तरितम्। न तव निशुम्भसंभ्रमवशादपि दारुणया भगवति! चेष्टया कलुषितं वदनाम्बुजम्”। अत्र कालुष्यस्य कारणे सत्यपि तज्जनने यदसामर्थ्यं तत्र त्वन्मुखाम्बुज वस्तुनः स्वभावोनिमित्तमतो न विशेषोक्तेरभेदः। शक्तिहानितोयथा। “अनुरागवती सन्ध्या दिवसश्च पुरस्मरः। अहो दैवगतिश्चित्रा तथापि न समागमः”।। अत्र दैवगत्या विद्यमानस्यपि समागमसामर्थ्यस्य कुण्ठीकरणात् हेतुशक्तिहानिकृतम् दीपकम्। पदपदार्थोभयावृत्तिभेदात्रैविध्यमुक्तं चन्द्रालोके। यथा। “वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोद्गमाः। माद्यन्ति चातकास्तृप्ता माद्यन्ति च शिखाबलाः”
४९ दृष्टान्तः दृष्टान्तस्तु सघर्म्मरः वस्तुनः प्रतिविम्बनम्। सा० द० स च साधर्म्यवैधर्म्माभ्यां द्विधा। “तत्र साधर्म्ये अविदितं गुणापि सत्कधिणितिः कर्णेसु वसति मधुरधाराम्। अनधिगत परिमलापि हि हरति दृशं मालतीमाला”। वैवर्म्ये। त्वयि दृष्टे कुरङ्गाक्ष्याः श्रंसते मदनव्यथा। दृष्टानुदयभा जीन्दौ ग्लानिः कुमुदसंहते”।
५० निर्दना “सम्भवन् वस्तुसम्बन्धोऽसम्भवन् वापि कुत्रचित्। यत्र विम्बानुविम्बत्वं बोधयेत् सा निदर्शना”।। सा० द० अत्र सम्भवद्वस्तुसम्बन्धनिदर्शना यथा। “कोऽत्र भूमिबलये जनान् मुधा तापयन् सुचिरमेति सम्पदम्। वेदयन्नितिदिनेन भानुमानाससाद चरमाचलं ततः”।। अत्र रवेरीदृशार्यवेदनक्रियायां कर्तृत्वेनान्वयः सम्बवत्येव ईदृशार्थज्ञापनसमर्थचरमाचलप्राप्तिरूपधर्म्मवत्त्वात्, स च रवेरस्ताचलगमनस्य परतापिनां विपत्प्राप्तेश्च विम्बप्रतिविम्बभावं बोधयाते। असम्भवद्वस्तुसम्बन्धनिदर्शना त्वेकवाक्यानेकवाक्यगतत्वेन द्विविधा। तत्रैकवाक्यगा यथा। “कलयति कुवलयमालाललितंकुटिलः कटाक्षविक्षेपः। अधरः किसलयलीलामाननमस्याः कलानिधेर्विलासम्”।। अत्रान्यस्य धर्म्मं कथमन्यो वहत्विति कटाक्षविक्षेपादीनां कुवलयमालादिगतललितादीनां कलनमसम्भवत् तल्ललितादिसदृशं ललितादिकमवगमयत् कठाक्षविक्षेपादेः कुवलयमालादेश्च विम्बप्रतिविम्बभावं बोधयति यथा वा। “प्रयांणे तव राजेन्द्र! मुक्ता वैरिमृगीदृशाम्। राजहंसगतिः पद्भ्यामाननेन शशिद्युतिः”।। अत्र पादाभ्यामसम्बद्धराजहंसगतेस्त्यागोऽनुपपन्न इति तयोस्तत्सम्बन्धः कल्पाते, स चासम्भवन् राजहंसगतिमिव गतिं बोधयति। अनेकवाक्यगा यथा। “इदं किलाव्याजमनोहरं वपुस्तपः क्षमं साधयितुं य इच्छति। ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेतुमृषर्व्यववस्यति” अत्र यत्तच्छब्दस्थनिर्द्दिष्टवाक्यार्थयोरभेदेनान्वयोऽनुपपद्यमानस्तादृशवपुषस्तपःक्षमत्वसाधनेच्छा नीलोत्पलपत्रधारया शमीलताच्छेदनेच्छेवेति विम्बप्रतिविम्बभावे पर्य्यवस्यति।
५१ निरुक्तिः “निरुक्तिर्योगतो नाम्नामन्यार्थत्वप्रकल्पनम्”। “ददृशैश्चरितैर्जाने सत्यं दोषाकरोविधो”। दोषाकरस्यरात्रिकरस्य दोषाणामाकरत्वरूपान्यार्थकल्पनमिह।
५२ निश्चयः “अन्यन्निषिध्य प्रकृतस्थापनं निश्चयः पुनः”। च० “वदनमिदं न सरोजं नयने नेन्दीवरे एतौ। इह सविधे मुग्धदृशो मधुकर! न मुधा परिभ्राम्य”।
५३ निषेधाभासः। आक्षेपभेदः विध्याभासे ४० पृष्ठे विवृतिः।
५४ परिकरः “उक्तिर्विशेषणैः साभिप्रायैः परिकरोमतः”। च० “सुधांशुकलितोत्तं सस्तापं हरतु वः शिवः”।
५५ परिकराङ्कुरः “साभिप्रायोविशेष्यश्चेत् भवेत् परिकराङ्कुरः”। च० “चतुर्ण्णां पुरुषार्थानां दाता देवश्चतुर्भुजः”
५६ परिणामः “विषयात्मतयारोप्ये प्रकृतार्थोपयोगिनि। परिणामोभवेत्तुल्यातुल्याधिकरणोद्विधा”। सा० द० “स्मितेनो पायनं दूरादागतस्य कृतं सम। स्तनोपनीडमाश्लेषः कृतोद्यूते पणस्तया” अन्यत्र पणौपायने वसनाभरणादिना उपयुज्येते अत्रतु नायकसम्भावनं स्मितमुपायनम् द्यूते च दृढतया आश्लेषरूपपणनम्। अत्र प्रथमार्द्धे वैयधिकरण्येन द्वितीयार्द्धे सामानाधिकरण्येनेति भेदः।
५७ परिवृत्तिः “परिवृत्तिविनिमयः समन्यूनाधिकैर्भवेत्” च० “दत्त्वा कटाक्षलक्ष्मीं सा जग्राह हृदयं मम। मयास्यै हृदयं दत्तं गृहीतो मदनज्वरः” “पूर्व्धार्द्धे समेन शेषार्द्धे न्यूलेन” “येन जर्जरकलेवरव्ययात् क्रीतमिन्दुकिरणोज्ज्वलं यशः” अन्योन्यान्तर्भाविनीति स० कण्ठा०।
५८ प्ररिसंख्या “परिसंख्या निषिध्यैकमेकस्मिन् वस्तु यन्त्रणम्” च०। “स्नेहक्षयः प्रदीपेषु न स्वान्तेषु नतभ्रुवाम्”।
५९ पर्य्यस्तापह्नुतिः “अन्यत्र तस्यारोपार्था पर्य्यस्तापह्नुतिस्तु सा” च०। नायं सुधांशुःकिंतर्हि सुधांशुः प्रेयसीमुखम्”।
६० पर्य्यायः “क्वचिदेकमनेकस्मिन्ननेकं चैकगं क्रमात्। भवति क्रियते वा चेत्तदा पर्य्याय इष्यते।।” सा० द० क्रमेण यथा। “स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः। बलीषु तस्याः स्खलिताः प्रपेदिरे क्रमेण नाभिं प्रथमोदविन्दवः”।। “विचरन्ति विलासिन्यो यत्र श्रोणिभरालसाः। वृककाकशिवास्तत्र धावन्त्यरिपुरे तव”।। “विमृष्टरागादधरान्निवर्त्तितस्तनाङ्गरागादरुणाच्च कन्दुकात्। कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः”। “ययोरारोपितस्तारो हारस्तेऽरिबधूजनैः।। निधीयन्ते तयोः स्थूलाः स्तनयोरश्रूविन्दवः”।। एषु च क्वचिदाधारः संहतरूपोऽसंहतरूपश्च। क्वचिदाधेयमपि यथा “स्थिताः क्षणमित्यत्र” उदविन्दवः पक्ष्मादावसंहतरूप आधारे क्रमेणाभवन्। “विचरन्ति” इत्यत्राधेयभूता वृकादयः संहतरूपारिपुरे क्रमेणाभवन्।
६१ पर्य्यायोक्तम् “पर्य्यायोक्तं यदा भङ्ग्या गम्यमेवाभिधीयते” सा० द० “स्पृष्टास्ता नन्दने शच्याः केशसम्भोगलालिताः। सावज्ञं पारिजातस्य मञ्जर्य्योयस्य सैनिकैः”।
६२ पिहितम् “पिहित परवृत्तान्तज्ञातुः साकूतचेष्टितम्” च०। “प्रिये गृहागते प्रातः कान्ता तल्पमकल्पयत्”। प्रिये गृहागते परनारिकया सह रात्रिजागरणेन प्रातःशयनमुचितमिति ज्ञापनाय कान्तया तल्पकल्पनं साकूतं चेष्टितम्।
६३ पुनरुक्तवदाभासः “आपाततो यदर्थस्य पौनरुक्त्यावभासनम्। पुनरुक्तवदाभासः स भिन्नाकारशब्दगः” सा० द० “भुजङ्गकुण्डली व्यक्तः शशिशुभ्रांशुशीतगुः। जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः”।। अत्र भुजङ्गकुण्डल्यादिशब्दानाम् आपातमात्रेण सर्पाद्यर्थतया पौनरुक्त्यप्रतिभासनम्। पर्य्यवसाने तु भुजङ्गरूपं कुण्डलं विद्यते यस्येत्याद्यन्यार्थत्वम्। पायादित्यस्यापायादित्यत्र पर्य्यवसानम्। भुजङ्गकुण्डलीतिशब्दयोः प्रथमस्यैव परिवृत्तिसहत्वम्। हरः शिव इत्यत्र द्वितीयस्यैव। शशिशुभ्रांशुपदयोः द्वयोरपि। शब्दपरिवृत्तिसहत्वासहत्वाभ्याम् अस्योभयालङ्कारत्वम्। “भाति सदा न त्याग इति” अत्र तु न द्वयोरपीति शब्दालङ्कारत्वमिति भेदः।
६४ पूर्व्वरूपम् “पुनः स्वगुणसंप्राप्तिः पूर्व्वरूपमुदाहृतम्। पूर्व्वावस्थानुवृत्तिश्च विकृते सति वस्तुनि”। च० “हरकण्ठांशुदीप्तोऽपि शेषस्तद्यशसा सितः”। “दीपे निर्वापितेऽप्यासीत् काञ्चीरत्नैर्महन्महः”।
६५ प्रतिवस्तूपमा “प्रतिवस्तूपमा सा स्याद्वाक्ययोर्गम्यसाम्ययोः। एकोऽपि धर्म्मः सामान्यो यत्र निर्द्दिश्यते पृथक्” सा० द० “धन्यासि वैदर्भि! गुणैरुदारैर्यया समाकृष्यत नैषधोऽपि। इतः स्तुतिः का स्वलु चन्द्रिकाया यदब्धिमप्युत्तरलीकरोति”।। अत्र समाकर्षणमुत्तरलीकरणञ्च क्रिया एकैव पौनरुक्त्यनिरासाय भिन्नरूपतया निर्द्दिष्टा। इयं मालयापि दृश्यते यथा। “विमल एव रविर्विशदः शशी प्रकृतिशीभन एव हि दर्पणः। शिवगिरिः शिवहाससहोदरः सहजसुन्दर एव हि सज्जनः”।। अत्र विमलविशदादिरर्थत एक एव। वैधर्म्म्येण यथा। “चकोर्य एव चतुराश्चन्द्रिकापानकर्म्मणि”।।
६६ प्रतिषेधः “प्रतिषेधः प्रसिद्धस्य निषेधस्यानुकीर्त्तनम्”। च० “न द्यूतमेतत् कितवाः! क्रीडनं निशितैः शरैः”।
६७ प्रतीपम् “प्रतीपमुपमानस्याप्युपमेयत्वकल्पनम् १। अन्योपमेयलाभेन वर्ण्ण्यस्यानादरश्च तत् २। वर्ण्योपमानलाभेन तथान्यस्याप्यनादरः३। वर्ण्ण्यान्यस्योपमाया अनिष्पत्तिर्वचश्च तत् ४। प्रतीपमुपमानस्य कैमर्य्यमपि मन्वते” ५ च० “क्रमेण यथा। “त्वल्लोचनसमं पद्मम्” १ “अलं गर्वेण ते वक्त! कान्त्या चन्द्रोभवादृशः” २। “कःक्रौर्य्यदर्पस्तेमृत्यो! त्वत्तुल्याः सन्ति हि स्त्रियः” ३। “मिथ्यावादोहि मुग्धाक्षि! त्वन्मुखाभं किलाम्बुजम्”। ४। “दृष्टं चेत् वदनं तस्याः किं पद्मेन किमिन्दुना”। ५।
६८ प्रत्यक्षम्। “प्रत्यक्षमक्षजं ज्ञानं मानसं चाभिधीयते। स्वानुभूतिभवं चैवमुपचारेण कथ्यते”। स० कण्ठा०। तच्च युगपदेकशोबा तत्र युगपत् यथा। “क्रान्तकान्तवदनप्रतिविम्बे मग्नबालसहकारसुगन्धौ। स्वादुनि प्रण- दितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः” एकशो यथा। “मन्दमन्दविगलत्त्रपमीषच्चक्षुरुल्लसितपक्ष्मदधत्या। वीक्ष्यते स्म शनकैर्नवबध्वा कामिनो मुखमधोमुखयेव” सुण्वादिविषयं मानसं यथा अस्तोकविस्मयमविस्मृत पूर्ब्बवृत्तमुद्भूतनूतनभयज्वरजर्ज्जरं नः। एकक्षणत्रुटित संघटितप्रमोदमानन्दसेकशबलत्वमुपैति चेतः”।
६९ प्रत्यनीकम् “प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः” च० “जैत्रनेत्रानुगौ कर्ण्णावुत्पलाभ्यामधःकृतौ”।
७० प्रस्तुताङ्कुरः “प्रस्तुतेन प्रस्तुतस्य द्योतने प्रस्तुताङ्कुरः”। च० किं भृङ्ग! सत्यां मालत्यां केतक्या कण्टकस्थया”।
७१ प्रहर्षणम् “उत्कण्ठितार्थसंसिद्धिर्विना यत्नं प्रहर्षणम् १ वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणम् २। यत्नादुपायसिद्धार्थात् साक्षाल्लाभः फलस्य तत् ३” च०। क्रमेण “तामेव ध्यायते तस्मै विसृष्टा सैव दूतिका” १ “दीपमुद्दीपयेद्यावत्तावदभ्युदितो रविः” २ “निध्यञ्जनीषधीमूलं खनताऽऽसादितोनिधिः”। ३।
७२ प्रेयः “प्रेयः प्रियतराख्यानम्” दण्डी “अद्य या मम गोविन्द! जाता त्वयि गृहागते। कालेनैषा भवेत् प्रीतिस्तवैच गमनात् पुनः। इत्याह युक्तं विदुरो नान्यतस्तादृशीधृतिः। भक्तिमात्रसमाराध्यः स प्रीतश्च ततो हरिः” इदञ्च दर्पणकारादिभिरनुक्तमपि काव्यादर्शादावुक्तम्।
७३ प्रौढोक्तिः “प्रौढोक्तिरुत्कर्षहेतौ तद्धेतुत्वप्रकल्पनम्” च०। “कचाः कलिन्दजातीरतमालस्तोममेचकाः”।
७४ भावः। “अभिप्रायानुकूल्ये तु प्रवृत्तिर्भाव उच्यते सोद्भेदोऽथ निरुद्भेदश्चैकतश्चाभितश्च सः हृद्यं सूक्ष्मञ्च भिद्येत न हि भावात् कथञ्चन” तत्र प्रार्थनावेदनाभ्यामुद्भिद्यमानः सोद्भेदो भावोहृद्यमित्युच्यते। “निरुद्भेदस्तु यो भावः स सूक्ष्मस्तु निगद्यते। इङ्गिताकारलक्ष्यात् स सूक्ष्मात् स्याद्भूमिकान्तरमिति” स० कण्ठा०। स भावः भूमिकोन्तरमवस्थान्तरम्। तत्र हृद्यभावयोरुदाहरणे तत्रैव दृश्ये सूक्ष्मस्य सूक्ष्मालङ्कारे वक्ष्यते।
७५ भाविकम् “अद्भुतस्य पदार्थस्य भूतस्याथ भविष्यतः। यत् प्रत्यक्षायमाणत्वं तद्भाविकमुदाहृतम्” २। सा० द० तत्र भूतस्य “मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः यैनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ”। भाविनः “आसीदञ्जनमत्रेति पश्यामि तव लोचने। भाविभूषणसंभारां साक्षाद् कुर्वे तवाकृतिम्”।
७६ भेदकातिशयोक्तिः “भेदकातिशयोक्तिः स्यात् तस्यैवान्यत्व- कल्पनम्” च०। “अन्यद्देवस्य गाम्भीर्य्यमन्यर्द्धैर्य्यञ्च भूपत!।
७७ भ्रान्तापह्नुतिः “अन्यस्य शङ्कया भ्रान्तापह्नुतिः भ्रान्ति वारणे”। च० “तापं करोति सोत्कम्पं ज्ज्वरः किन्नु? सखे! स्मरः”।
७८ भ्रान्तिमान् “साम्यादतस्मिंस्तद्बुद्धिर्भ्रान्तिमान् प्रतिभोत्थिता” सा० द० “मुग्धा दुग्धधिया गवां विदधते कुम्भानधो वल्लवाः कण्ठे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि। कर्कन्दूफलमुच्चिनोति शवरी मुक्तफलाशङ्कया सान्द्रा चन्द्रमसोन कस्य कुरुते चित्तभ्रमं चन्द्रिका” प्रतिभेतिविशेषणात् स्वरससिद्धे शुक्तिकायां रजतभ्रमे न। साम्यादित्युक्तेः “सङ्गमविरहविकल्पे वरमिह विरहो न सङ्गमस्तस्याः। सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे” इत्यादौ त्रिभुवनवर्त्तियावद्वस्तुनः साम्याभावान्न भ्रान्तिमान्। अयं भ्रान्तिरित्यन्ये।
७९ मालादीपकम् “मालादीपकं पुनः। धार्म्मिणामेकधर्म्मेण सम्बन्धोयत् यथोत्तरम्” सा० द०। “त्वयि सङ्गरसंप्राप्ते धनुषासादिता शराः। शरैररिशिरस्तेन भूस्तया त्वं, त्वया यशः” अत्रासादनक्रियाधर्म्मस्य यथोत्तरं सम्बन्धः।
८० मिथ्याध्यवसितिः “किञ्चिन्मिथ्यार्थसिद्ध्यर्थं मिथ्यार्थान्तरकल्पनम् मिथ्याध्यवसितिर्वेश्यां वशयेत् खस्रजं वहन्”। च० मिथ्यापह्नुतिस्तु अपह्नुतिभेदः।
८१ मींलितम् “मीलितं यदि सादृश्याद्भेद एव न दृश्यते” च० “रसोनालक्षि लक्षायाश्चरणे सहजारुणे”।
८२ मुद्रा “सूच्यार्थसूचनं मुद्रा प्रकृतार्थ परैः पदैः”। च० “नितम्ब गुर्व्वी तरुणी दृग्युग्मविपुला च सा”।
८३ यथासंख्यम् “यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः” च० शत्रुंमित्रंविपत्तिं च जय रञ्जय भञ्जय”। क्रम इत्यन्ये
८४ युक्तिः “युक्तिः पराभिसन्धानं क्रियया मर्म्मगुप्तये” च०। “त्वामालिखन्ती दृष्ट्वान्यां धनुः पौष्पं करेऽलिखत्”।
८५ रत्नावली “क्रमिकप्रकृतार्थानां न्यासं रत्नावलीं विदुः” च०। “चतुरास्यः पतिर्लक्ष्म्याः सर्व्वेशस्त्वं महीपते!”। चत्वारि आस्यानि चतुरं निपुणमास्यमास्यव्यापारो वचनं च यस्य।
८६ रसवत्। “रसवद्रसपेशलम्” दण्डी “रसेन पेशल माख्यानमित्यनुषङ्गः रसवत्। “मृतेति प्रेत्य सङ्गन्तुं यया मे मरणं मतम्। सैषा तन्वी मया लन्धा कथमत्रैवजन्मनि” तत्समर्थनञ्च तत्रैव “प्राक् प्रतिदर्शिता सेयं रतिः शृङ्गारतां गता। रूपबाहुल्ययोगेन तदिदं रसवद्वचः। वाच्यस्याग्राम्यतायोनिर्माधुर्य्ये दर्शितोरसः। इह त्वष्टरसायत्ता रसवत्ता स्मृता गिराम्”। दण्डी।
८७ रूपकम् “रूपकं रूपितारोपात् विपये निरपह्नवे। तत् परम्परितं साङ्गं निरङ्गमिति च त्रिधा”। तत्र “यस्य कस्यचिदारोपः परारोपणकारणम्। प्रत्येकं केवलं मालारूपञ्चेति चतुर्विधम्” सा० द०। तत्र श्लिष्टशब्दनिबन्धनं केवलपरम्परितं यथा। “आहवे जगदुद्दण्डराजमण्डलराहवे। श्रीनृसिंह! महीपाल! स्वस्त्यस्तु तव बाहवे”।। अत्र राजमण्डलं नृपसमूह एव चन्द्रविम्ब मित्यारोपो राजबाहोराहुत्वारोपे निमित्तम्। तदेव माला रूपं यथा। “पद्मोदयदिनाधीशः सदागतिसमीरणः। भूभृदावलिदम्भोलिरेक एव भवान् भुवि”।। अत्र पद्माया उदय एव पद्मानामुदयः, सतामागतिरेव सदागमनं भूभृतो राजान एव पर्व्वता इत्याद्यारोपो राज्ञः सूर्य्यत्वारोपे निमित्तम्। अश्लिष्टशब्दनिबन्धनं केवलं यथा “पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः। त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः”। अत्र त्रैलोक्यस्य मण्डपत्वारोपो हरिबाहूनां स्तम्भत्वारोपे निमित्तम्। अश्लिष्टमालारूपं यथा। “मनोजराजस्य सितातपत्रं श्रीखण्डचित्रं हरिदङ्गनायाः। विराजति व्योमसरःसरोजं कर्पूरपूरप्रभमिन्दुविम्बम्” अत्र मनोजादेराजंत्वाद्यारोपश्चन्द्रबिम्बस्य सितातपत्रत्वाद्यारोपे निमित्तम्। एषु च “राजभुजादीनां राहुत्वाद्यारोपो राजमण्डलत्वारोपे निमित्तमिति” केचित्। “अङ्गिनो यदि साङ्गस्य रूपणं साङ्गमेव तत्। समस्तवस्तु विषयमेकदेशविवर्त्ति च”। तत्र “आरोप्याणाशेषाणां शाब्दत्वे प्रथमं मतम्”। प्रथमं समस्तवस्तुविषयं, यथा। “रावणावग्रहक्लान्तमिति वागमृतेन सः। अभिवृष्य मरुच्छस्यं कृष्णमेघस्तिरोदधे”।। अत्र कृष्णस्य मेघत्वारोपे वागादीनाममृतत्वाद्यारोपितत्वम्। “यत्र कस्यचिदार्थत्वमेकदेशविवर्त्ति तत्”। कस्यचिदारोप्यमाणस्य। यथा। “लावण्यमधुभिः पूर्णमास्यमस्या विकस्वरम्। लोकलोचनरोलम्बकदम्बैः कैर्न पीयते”।। अत्र लावण्यादौ मध्वाद्यारोपः शाब्दो मुखे पद्मत्वारोप आर्थः। न चेयमेकदेशविवर्त्तिन्युपमा विकस्वरत्वधर्म्मस्यारोप्यमाणे पद्मे मुख्यतया वर्त्तनात् मुखे चोपचरितत्वात्। “निरङ्गं केवलस्यैव रूपणं तदपि द्विधा। माला केवलरूपत्वात्” तत्र मालारूपं निरङ्गं यथा। “निर्म्माणकौशलं धातुश्चन्द्रिका लोकचक्षुषाम्। क्रीडागृहमनङ्गस्य सेयमिन्दीवरेक्षणा”।। केवलं यथा। “दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि! नात्र दूये। उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रैर्यद्भिद्यते मृदु पदं ननु सा व्यथा मे”।। “तेनाष्टौ रूपके भिदाः”। चिरन्तनैरुक्ता इति शेषः। क्वचित् परम्परितमप्येकदेशविवर्त्ति यथा। “खड्गः क्ष्मासौविदल्लः समिति विजयते मानवाखण्टलस्य”। अत्रार्थः क्षमाया महिषीत्वारोपः स्वड्गे सौविदल्लत्वारोपे हेतुः। अस्य भेदस्य पूर्व्ववन्मालारूपत्वेऽप्युदाहरणं मृग्यम्। “दृश्यन्ते क्वचिदारोप्याः श्लिष्ठाः साङ्गेऽपि रूपके”। तत्रैकदेशविवर्त्ति श्लिष्टं यथा। “करमुदयमहीधरस्तनाग्रे गलिततमःपटलांशुके निवेश्य। विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः” समस्तवस्तुविषयं यथा। अत्रैव “विचुम्बतीत्यादौ” “चुचुम्बे हरिदबलामुखमिन्दुनायकेन इति” पाठे। न चात्र श्लिष्टपरम्परितम् तत्र हि। “भूमृदावलिदम्भोलिरित्यादौ” राजादौ पर्वतत्वादिरूपणं विना वर्णनीयस्य राजादेर्दम्भोलितादिरूपणं सर्व्वथैव सादृश्यासम्भवादसङ्गतम्। तर्हि कथं “पद्मोदयदिनाधीश इत्यादौ” परम्परितं, राजादेः सूर्य्यादिना सादृश्यस्य तेजस्वितादिहेतुकस्य सम्भवादिति न वाच्यम् तथा हि राजादेस्तेजस्वितादिहेतुकं सुव्यक्तं सादृश्यं न तु प्रकृते तद्विवक्षितं पद्मोदयादेरेव द्वयोः साधारणधर्म्मतया विवक्षितत्वात्, इह तु महीधरादेः स्तनादिना सादृश्यं पीनोत्तुङ्गत्वादिना सुव्यक्तमेवेति न श्लिष्टपरम्परितम्। कचित् समासाभावेऽपि रूपकं दृश्यते। यथा। “मुखं तव कुरङ्गाक्षि! सरोजमिति नान्यथा”। क्वचिद्वैयधिकरण्येऽपि। यथा। “विदधे मधुपश्रेणीमिह भ्रूलतया विधिः”। क्वचिद्वैधर्म्येऽपि यथा। “सौजन्याम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुणज्योत्स्नाकृष्णचतुर्द्दशी० सरलतायोगश्वपुच्छच्छटा। यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत् कौशलम्”।। अत्र च केषाञ्चिद्रूपकाणां शब्दश्लेषमूलत्वेऽपि रूपकविशेषत्वादर्थालङ्कारमध्ये गणनम्। एवं वक्ष्यमाणालङ्कारेषु बोद्धव्यम्। “अधिकारूढवैशिष्ट्यं रूपकं यत्तदेव तत्”। तदेवाधिकारूढवैशिष्ट्यसञ्ज्ञरूपकम्। यथा। “इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः सुधाधाराधारश्चिरपरिणतं विम्बमधरः। इमे नेत्रे रात्रिन्दिवमधिकशोभे कुवलये तनुर्लावण्यानां जलधिरवगाहे सुखतरः”।। कलङ्कराहित्यादिनाघिकम्।
८८ रूपकातिशयोक्तिः “रूपकातिशयोक्तिः स्यान्निगीर्य्याध्यवसानतः” च० “पश्यनीलोत्पलद्वन्द्वान्निःसरन्ति शिताःशराः”
८९ ललितम् “प्रस्तुते वर्ण्ण्यवाक्यार्थप्रतिविम्बस्य वर्ण्णनम्”। ललित” निर्गते नीरे सेतुमेषा चिकीर्षति च०।
९० लेशः “लेशःस्याद्दोषगुणयोर्गुणदोषत्वकल्पनम्”। च० “अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु। शुक! पिञ्जरबन्धस्ते मधुराणां गिरां फलम्”। स० क० तु लवत्वेनायमुक्तः।
९१ लोकोक्तिः “लोकप्रवादानुकृतिर्लोकोक्तिरिति” कथ्यते च०। “सहस्व कतिचिन्मासान् मीलयित्वा विलोचने”।
९२ विकल्पः “विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयुतः” च०। “सद्यः शिरांसि चापान् वा नमयन्तु महीभुजः”।
९३ विकस्वरः “यस्मिन् विशेषसामान्यविशेषाः स विकस्वरः”। च० “स न जिग्ये महान्तोहि दुर्जयाः सागराइव”।
९४ विचित्रम् “विचित्रं तद्विरुद्धस्य कृतिरिष्टफलाय चेत् च०। “प्रणमत्युन्नतिहेतोर्जीवनहेतोर्विमुञ्चति प्राणान्। दुःखीयति सुखहेतोः कोमूढः सेवकादन्यः”।
९५ वितर्कः “ऊहो वितर्कः सन्देहनिर्ण्णयान्तरधिष्ठितः। द्विधासौ निर्ण्णयान्तश्चानिर्ण्णयान्तश्च कीर्त्त्यते। तत्त्वानु पात्यतत्त्वानुपाती यश्चोभयात्मकः” स० कण्ठा०। तेषु निर्ण्णयान्तस्तत्त्वानुपाती यथा। “मैनाकः किमयं रुणाद्धि गगने मन्मार्गमव्याहता शक्तिस्तस्य कुतः ? स बज्रपतनाद्भीतो महेन्द्रादपि। तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणमा ज्ञातं स जटायुरेषजरसा क्लिष्टो बधं वाञ्छति”। स एवातत्त्वानुपाती यथा। “अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकनिधिः स्वयं नु मदनो मासोनु पुष्पाकरः। वेदाभ्यासज डः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेत् मनोरममिदं रूपं पुराणो मुनिः” चन्द्रादिष्वन्यतमेन प्रजापतिना भवितव्यमित्यतत्त्वानुपाती निर्ण्णयान्तोवितर्कः। स एव उभयात्मा यथा “चित्ते निवेश्य परिकल्पितसत्त्वयो नाद्रूपोच्चयेन रचिता मनसा कृता नु। स्त्रीरत्नसृष्टिर परा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः” अत्र तत्त्वातत्त्वनुपातित्वादुभयात्मा निर्णयान्तो वितर्कः। अनिर्ण्णयान्तो मिथ्याविषयो यथा। “अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुस्वीभिर्दृष्टोच्छ्रायश्चकितचकितं मुग्घ सिद्धाङ्गनाभिः”। स एवामिथ्यारूपो यथा। “अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशि मौलिना। समधिरूढमनेन च जिष्णुना स्विदिति वेग- वशान्मुमुदे गणैः”। स एव उभयात्मा यथा। माया स्विदेषामतिविभ्रमो वा ध्वस्तं नु मे वीर्य्यमथाहमन्यः। गाण्डीव मुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते”।
९६ विधिः “सिड्वस्यैव विधानं यत् तामाहुर्विध्यलङ्कृतिम्” च०। “पञ्चमोदञ्चने काले कोकिलः कोकिलोऽभवत्”।
९७ विध्याभासः वस्तुनोवक्तुमिष्टस्य तु विशेषप्रतिपत्तये। निषेधाभास आक्षेपो वक्ष्यमाणोक्तगोद्विधा। अनिष्टस्य तथार्थस्य विध्याभासः परोमत इति” सा० द०। उदाहरणं तत्र ज्ञेयम्। आक्षेपभेद इत्यन्ये।
९८ विनोक्तिः “विनोक्तिः स्याद्विना किञ्चित् प्रस्तुतं हीनसुच्यते। तच्चेत् किञ्चिद्विना रम्यं विनोक्तिः सापि कथ्यते”। च० हीनत्वे “विद्या हृद्यापि सावद्या विना विनयसम्पदम्”। रम्यत्वे “विना खलैर्विभात्येषा राजेन्द्र! भवतः सभा”। विनार्थगम्यतायामपि सा० द०। “निरर्थकं जन्मगतं नलिन्या यया न दृष्टं तुहिनांशुविम्बम्। उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन”।
९९ विभावना “विभावना विनापि स्यात् कारणं कार्य्यजन्म चेत् १ हेतूनामसमग्रत्वे कार्य्योत्पत्तिश्च सा मता २। कार्य्योत्पत्तिस्तृतीया स्यात् सत्यपि प्रतिबन्धके ३ अकारणात् कार्य्य जन्म चतुर्थीस्याद्विभावना ४। विरुद्ध्वात् कार्य्यसम्पत्तिर्दृष्टा काचिद्विभावना ५। कार्य्यात् कारणजन्मापि दृष्टा काचित् विभावना ६” च०। क्रमेण यथा। “अपि लाक्षारसाऽसिक्तं रक्तं ते चरणद्वयम्” १। “अस्त्रैरतीक्ष्णकठिनैर्जगज्जयति मन्मथः”। २। “नरेन्द्रानेव ते राजन्! दशत्यसिभुजङ्गमः”। ३। नरेन्द्रोनृपो गरुडविद्याभिज्ञश्च दंशनप्रतिबन्धकमारुडविद्या सन्निधानेऽपि दंशनोत्पत्तेस्तृतीया विभावना” “शङ्खाद्वी णानिनादोऽयमुदेति महदद्भुतम्”। ४। “शीतांशुकिरणास्तन्वीं हन्त सन्तापयन्ति ताम्”। ५। “यशःपयोराशिरभूत् करकल्पतरोस्तव”। ६। दर्पणे तु “विभावना विना हेतुं कार्य्योत्पत्तिर्यदुच्यते। उक्तानुक्तनिमित्तत्वात् द्विधा सा परिकीर्त्तिता” इति लक्षयित्वा “विना कारणमुपनिबध्यमानोऽपि कार्य्योदयः किञ्चिदन्यत् कारणमपेक्ष्यैव भवितुं युक्तं तच्च कारणान्तरं क्वचिदुक्तं क्वचिन्नेति” व्यवस्थाप्य उदाहृतम् “अनायासकृशं मध्यमशङ्कतरले दृशौ। अभूषणमनोहारि वपुर्वयसि सुभ्रुवः”। अत्र वयोरूपं निमित्तमुक्तम् “वपुर्भाति नतभ्रुत इति पाठे तदनुक्तमिति भेदः।
१०० विरोधः “जातिश्चतुर्भिर्जात्याद्यैर्गुणो गुणादिभिस्त्रिभिः। क्रिया क्रियाद्रव्याभ्यां यद् द्रव्यं द्रव्येण वा मिथः। विरुद्धमिव भासेत विरोधोऽसौ दशाकृतिः”। सा० द० क्रमेण यथा। “तव विरहे मलयमरुद्दावानलः शशिरुचोऽपि सोष्माणः। हृदयमलिरुतमपि भिन्तेनलिनीदलमपि निदाघरविरस्याः”। “सन्ततमुसलासङ्गाद्बहुतरगृहकर्म्मघटनया नृपतौ। द्विजपत्नीनां कठिनाः सति भवति कराः सरोजसुकुमाराः”। “अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः। स्वपतो जागरूकस्य याथार्थ्यं वेद कस्तवः”। “वल्लभोत्सङ्गसङ्गेन विना हरिणचक्षुषः। राकाविभावरीजानिर्विषज्वालाकुलोऽभवत्”। “नयनयुगासेचनकं मानसवृत्त्यापि दुष्प्रापम्। रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति च मे”। “त्वद्वाजिराजीत्यादि” “वल्लभोत्सङ्गेनेत्यादि” श्लोके चतुर्थपादे “मध्यन्दिनदिनाधिप” इति पाठे द्रव्ययोर्विरोधः। अत्र “तव विरह” इत्यादौ पवनादीनां बहुव्यक्तिवाचकत्वाज्जातिशब्दानां दावानलोष्णहृदयभेदनसूर्य्यैर्जातिगुणक्रियाद्रव्यरूपैरन्योन्यं विरोघो मुखत आभासते। विरहहेतुकत्वेन समाधानम्। अजस्येत्यादौ अजत्वादिगुणस्य जन्मग्रहणादिक्रियाविरोधः। भगवतः प्रभावस्यातिशयितत्वात्तु समाधानम्। “त्वद्वाजीत्यादौ” “हरोऽपि शिरसा गङ्गां न धत्ते” इति विरोधः। “त्वद्वाजीत्यादिकविप्रोढोक्त्या तु समाधानम्। स्पष्टमन्यत्। विभावनायां कारणाभावेनोपनिबध्यमानत्वात् कार्य्यमेव बाध्यत्वेन प्रतीयते। विशेषोक्तौ च कार्य्याभावेन कारणमेव। इह त्वन्योन्थं द्वयोरपि बाध्यत्वमिति भेदः।
१०१ विरोधाभासः। “आभासत्वं विरोधस्य विरोधाभासैष्यते चन्द्रा० “अमित्रजिन्मित्रिजिदौजसा स यत् विचार दृक्चारदृगप्यवर्त्तत” नैषधम्।
१०२ विवृतोक्तिः “विवृतोक्तिः श्लेषगुप्तं कविनाविष्कृतं यदि” च०। “वृषापेहि परक्षेत्रादिति वक्ति ससूचनम्”।
१०३ विशेषः “यदाधेयमनाधारमेकञ्चानेकगोचरम्। किञ्चित् प्रकुर्व्वतः कार्य्यमर्शक्यस्येतरस्य वा। कार्य्यस्याकरणं दैवाद्विशेषस्त्रिविधस्ततः”। सा० द० क्रमेण यथा। “दिवमप्युपयातानामाकल्पगुणगणा येषाम्। रमयन्ति जगन्ति गिरःकथमपि कवयो न ते वन्द्याः”। “कानने सरिदुद्देशे गिरीणामपि कन्दरे। पश्यन्त्यन्तकंसङ्काशं त्वामेकं रिपवः पुरः”। “गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ। करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम्?”।
१०४ विशेषोक्तिः “सति हेतौ फलाभावो विशेषोक्तिस्तथा द्विधा” सा० द०। तथेत्युक्तानुक्तनिमित्तत्वात्। तत्रोक्तनिमित्ता यथा। “धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चलाः। प्रभवोऽप्यप्रमत्तास्ते महामहिमशालिनः” अत्र महामहिमशालित्वं निमित्तमुक्तम्। अत्रैव चतुर्थपादे “कियन्तः सन्ति भूतले” इति पाठे त्वनुक्तम्। अचिन्त्यनिमित्तत्वं च अनुक्तनिमित्तस्यैव भेद इति पृथग्नोक्तम् यथा “स एव शस्त्रोजयति जगन्ति कुसुमायुधः। हरतापि तनुं यस्य शम्भुना न हृतं बलम्”। अत्र तनुहरणेऽपि बला हरणे निमित्तमचिन्त्यम्। इह च कार्य्याभावः कार्य्यविरुद्धसद्भावमुखेनापि सा० द०।
१०५ विषमम्। “गुणैः क्रिये वा यत् स्यातां विरुद्धे हेतुकार्य्ययोः। यद्वाऽऽरब्धस्य वैफल्यमनर्थस्य च सम्भवः। विरूपयोः सङ्घटना या च तद्विषमं मतम्”। सा० द० क्रमेण यथा। “सद्यः करस्पर्शमवाप्य चित्रं रणेरणे यस्य कृपाणलेखा। तमालनीला शरदिन्द्रुपाण्डु यशस्त्रिलोकाभरणं प्रसूते”। अत्र कारणरूपासिलतायाः “कारणगुणा हि कार्य्यगुणमारभन्ते” इति स्थितेर्विरुद्धा शुक्लयशस उत्पत्तिः। “आनन्दममन्दमिमं कुवलयदललोचने! ददासि त्वम्। विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे”। अत्रानन्दजनकस्त्रीरूपकारणात्तापजनकविरहोत्पत्तिः। “अयं रत्नाकरोऽम्भोधिरित्यसेवि धनाशया। धनं दूरेऽस्तु वदनमपूरि क्षारवारिभिः”। अत्र केवलं काङ्क्षितधनलाभी नाभूत् प्रत्युत क्षारवारिभिर्वदनपूरणम्। “क्व वनं तरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता। नियतं प्रतिकूलवर्त्तिनोवत धातुश्चरितं सुदुःसहम्”। अत्र वनराजश्रियोर्विरूपयोः सङ्घटना।
१०६ विषादनम् “इष्यमाणविरुद्धार्थसंप्राप्तिश्च वितादनम्” च०। “दीपमुद्दीपयेद्यावत्तावन्निर्व्वाण एव सः”।
१०७ व्यतिरेकः “आधिक्यमुपमेयस्योपमानान्न्यूनताथवा। व्यतिरेक एक उक्ते हेतौ नोक्ते स च त्रिधा।। चतुर्विधोऽपि साम्यस्य बोधनाच्छब्दतोऽर्थतः। आक्षेपाच्च द्वादशघा श्लेषेऽपीति त्रिरष्टधा। प्रत्येकं स्यान्मिलित्वाष्टचत्वारिंशद्विधः पुनः”।। सा० द० उपमेयस्योपमानादाधिक्ये हेतुरुपमेयगतमुत्कर्षकारणमुपमानगतं निकर्षकारणञ्च। तयोर्द्वयोरप्युक्तावेकः” प्रत्येकं समुदायेन वानुक्तौ त्रिविध इति चतुर्विधेऽप्यस्मिन्नुपमानोपमेयस्य निवेदनं शब्देनार्थेनाक्षेपेण चेति द्बादशप्रकारोऽपि श्लेषेऽपिश- ब्दादश्लेषेऽपि चतुर्बिंशतिप्रकारः। उपमानान्न्यूनतायामनयैव भङ्ग्या चगुर्विंशतिप्रकारतेति मिलित्वाऽष्टचत्वारिंशत्प्रकारो व्यतिरेकः। उदाहरणम्। “अकलङ्कं मुखं तस्या न कलङ्की विधुर्यथा”। अत्रोपमेयगतमकलङ्कत्वमुपमानगतञ्च कलङ्कित्वं द्वयमप्युक्तम्। यथाशब्दप्रतिपादनाच्च शाब्दमौपम्यम्। अत्रैव “न कलङ्कि विधूपममिति” पाठे आर्थम् “जयतीन्दुं कलङ्किनमिति” पाठे तु इवादितुल्यादिपदविरहादाक्षिप्तम्। अत्रैवाकलङ्कपदत्यागे चोपमानगतनिकर्षकारणानुक्तिः” द्वयोरनुक्तौ द्वयोरनुक्तिः। श्लेषे यथा। “अतिगाढगुणायाश्च नाब्जवद्भङ्गुरा गुणाः”। अत्र इवार्थे वतिरिति शाब्दमौपम्यम् उत्कर्षनिकर्षकारणयोर्द्वयोरप्युक्तिः। गुणशब्दः श्लिष्टः। अन्येभेदाः पूर्व्ववदूह्याः। एतानि चीपमेयस्योपमानादाधिक्ये उदाहरणानि। न्यूनत्वे दिङ्मात्रम्। यथा। “क्षीणःक्षीणोऽपि शशी भूयोभूयोऽभिवर्द्धते नित्यम्। विरम प्रसीद सुन्दरि! यौवनमनिवर्त्ति यातं तु”।। “अत्रोपमेयभूतयौवनास्थैर्य्यस्याधिक्यं तेनात्र “उपमानादुपमेयस्याधिक्ये विपर्य्यये वा व्यतिरेक इति” केषाञ्चिल्लक्षणे “विपर्य्यये वेति पदमनर्थकमिति” यत् केचिदाहुः तन्न विचारसहम्। तथा ह्यत्राधिकन्यूनत्वे सत्त्वासत्त्वे एव विवक्षिते। अत्र च चन्द्रापेक्षया यौवनस्यासत्त्वं स्फुटमेव। अस्तु वात्रोदाहरणे कथञ्चिद्गतिः। “हनूमदाद्यैर्यशसा मया पुनर्द्विषां हसैर्दूतपथः सितीकृतः”।। इत्यादिषु का गतिंरिति सुष्ठूक्तं “न्यूनताथ वेति”।
१०८ व्याघातः “व्याघातः स तु केनापि वस्तु येन यथा कृतम् तेनैव चेदुपायेन कुरुतेन्यस्तदन्यथा १। सौकर्य्येण च कार्य्यस्य विरुद्धं क्रियते यदि २। सा० द० “दृशादग्धं मनसिजं जीवयन्ति दृशैव याः”। “इहैव त्वंतिष्ठ द्रुतमहमहोभिः कतिपयैः समागन्ता कान्ते! मृदुरसि नचायाससहना। मृदुत्वं मे हेतुः सुभग! भवता गन्तुमधिकं न मृद्वी सोढा यद्विरहकृतमायासमसमम्”।। अत्र विदेशं जिगमिषुणा नायकेन नायि कायाः मृदुत्वं सहगमनाभावहेत्वेनोक्तं नानिकया तु प्रत्युत सहगमने ततोऽपि सौकर्य्येण तदेव हेतुतयोक्तम्।
१०९ व्याजनिन्दा “निन्दायानिन्दया व्यक्तिर्व्याजनिन्देति गीयते” च०। “विधे! स निन्द्योयस्तेप्रागेकमेवाहरच्छिरः”। अत्र एकशिरोहर्त्तृशिवनिन्दाव्याजेन विधेर्निन्दाया व्यक्तिः।
११० व्याजस्तुतिः “उक्ता व्याजस्तुतिः पुनः। निन्दास्तुतिभ्यां वाच्याभ्यां गम्यत्वे स्तुतिनिन्दयोः”। सा० द०। निन्दाया स्तुतेर्गम्यत्वे व्याजेन स्तुतिरिति व्युत्पत्त्या व्याजस्तुतिः स्तुत्या निन्दाया गम्यत्ये व्याजरूपा स्तुतिः। क्रमेण यथा। “स्तनयुगमुक्ताभरणाः कण्टककलिताङ्गयष्टयो देव!। त्वयि कुपितेऽपि प्रागिव विश्वस्ता रिपुस्त्रियो जाताः”।। “व्याजस्तुतिस्तव पयोद! सयोदितेयं यज्जीवनाय जगतस्तव जीवनानि। स्तोत्रन्तु ते महदिदं घन! धर्म्मराजसाहाव्वमर्ज्ययसि यत् पथिकान्निहत्य”।।
१११ व्याजोक्तिः “व्याजोक्तिरन्यहेतूक्त्या यदाकारस्य गोपनम्” च०। “सखि! पश्य गृहारामपरागैरस्मि धूसरा”।
११२ शुद्धापह्नुतिः “शुद्धापह्नुतिरन्यस्यारोपार्थे धर्म्मनिह्नवः”। च० “नायं सुधांशुः किं तर्हि? व्योमगङ्गासरोरुहम्”।
११३ श्लेषः शाब्दोऽलङ्कारः आर्थश्च शाब्दस्तूक्तः ३८९ पृष्ठे आर्थो यथा “शब्दैः स्वभावादेकार्थे श्लेषोऽनेकार्थवाचनम्” सा० द०। स्वभावादेकार्थैरिति शब्दश्लेषाद्व्यवच्छेदः। “सर्व्वदो माधवःपायात् स यो गङ्गामदीधरत्”।
११४ संसृष्टिः “यद्येत एवालङ्काराः परस्परविमिश्रिताः। तदा पृथगलङ्कारौ संसृष्टिः सङ्करस्तथा” सा० द० “देवः पायादपायान्नः स्मेरेन्दीवरलोचनः। संसारध्वान्तविध्वंसहंसः कसनिसूदनः। अत्र पायात्पायादिति यमकम् स्मेरेन्द्रीवरेत्यादौ चानुप्रास इति शब्दालङ्कारयोः, संसारध्वान्तेत्यत्र उपमा, हंस इत्यत्र रूपकमित्यर्थालङ्कारयोः, शब्दार्थालङ्कारयोश्च परस्परानपेक्षयैवात्र ससर्गः।
११५ सङ्करः “अङ्गाङ्गित्वेऽलङ्कृतीनां तद्वदेकाश्रयस्थितः। सन्दिग्धत्वे च भवति सङ्करस्त्रिविधः पुनः” सा० द०। तत्राङ्गाङ्गिभावे यथा। “आकृष्टवेगविगलद्भुजगेन्द्रभोगनिर्म्मोकपट्टपरिवेष्टनयाम्बुराशेः। मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमवेष्टत पादमूले”।। अत्र निर्म्मोकपट्टापह्नवेन मन्दाकिन्या आरोप इत्यपह्नुतिः। सा च मन्दाकिन्या वस्तुवृत्तेन यत्पादमूलवेष्टनं तच्चरणमूलवेष्टनमिति श्लेषमुत्थापयतीति तस्याङ्गम् श्लेषश्च पादमूलवेष्टनमेव चरणमूलवेष्टनमित्यतिशयोक्तेरङ्गम् अतिशयोक्तिश्च “मन्थव्यथाव्युपशमार्थमिव” इत्युत्प्रेक्षाया अङ्गम्। उत्प्रेक्षा चाम्बुराशिमन्दाकिन्योर्नायकनायिकाव्यवहारं गमयतीति समासोक्तेरङ्गम्। यथा वा। “अनुरागवती सन्ध्या दिवसस्तत्पुरःसरः। अहो दैवगतिश्चित्रा तथापि न समागमः”।। अत्र समासोक्तिर्विशेषोक्तेरङ्गम्। सन्देहसङ्करो यथा। “इदमाभाति गगने भिन्दानं सन्ततं तमः। अमन्दनेयनानन्दकरं मण्डलमैन्दवम्”।। अत्र किं मुखस्य चन्द्रतयाध्यवसानादतिशयोक्तिः, उत इदमिति मुखं निर्दिश्य चन्द्रत्वारोपाद्रूपकं, अथ वा इदमिति मुखस्य चन्द्रमण्डलस्य च द्वयोरपि प्रकृतयोरेकधर्म्माभिसम्बन्धात्तुल्ययोगिता, आहोस्विच्चन्द्रस्याप्रकृतत्वाद्दीपकं किं वा विशेषणसाम्यादप्रस्तुतस्य मुखस्य गम्यत्वात् समासोक्तिः, यद्वाऽप्रस्तुतस्य मुखस्यावगतिरित्यप्रस्तुतप्रशंसा, यद्वा मन्मथोद्दीपनः कालः स्वकार्य्यभूतचन्द्रवर्णनामुखेन वर्ण्णित इति पर्य्यायोक्तिरिति बहूनामलङ्काराणां सन्देहात् सन्देहसङ्करः। यथा वा मुखचन्द्रं पश्यामीत्यत्र किं मुखं चन्द्र इवेत्युपमा उत चन्द्र एवेति रूपकमिति सन्देहः साधकबाधकयोर्द्वयोरेकतरस्य सद्भावे पुनर्न सन्देहः। यथा “मुखचन्द्रं चुम्बति” इत्यत्र चुम्बनं मुखस्यानुकूलमित्युपमायाः साधकम्। चन्द्रस्य तु प्रतिकूलमिति रूपकस्य बाधकम्, “मुखचन्द्रः प्रकाशते” इत्यत्र प्रकाशाख्यो धर्म्मो रूपकस्य साधको मुखे उपचरित्वेन सम्भवतीति नोपमाबाधकः। “राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम्”। अत्र योषित आलिङ्गनं नायकस्य सदृशेनोचितमिति लक्ष्म्यालिङ्गनस्य राजन्यसम्भवादुपमाबाधकं नारायणे सम्भवाद्रूपकम्। “एवं वदानम्बुजमेणाक्ष्या भाति चञ्चललोचनम्”। अत्र वदने लोचनस्य सम्भवादुपमायाः साधकता, अम्बुजे चासम्भवाद्रूपकस्य बाधकता। एवं “सुन्दरं वदनाम्बुजम्” इत्यादौ साधारणधर्म्मप्रयोगे, “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” इति वचनादुपमासमासो नं सम्भवतीति उपमाया बाधकः। एवञ्चात्र मयूरव्यंसकादित्वाद्रूपकसमास एव। एकाश्रयानुप्रवेशो यथा। “कटाक्षेणापीषत् क्षणमपि निरीक्षेत यदि सा तदानन्दः सान्द्रः स्फुरति पिहिताशेषविषयः। सरोमाञ्चोदञ्चत्कुचकलशनिर्मिन्नवसनः परीरम्भारम्भः क इव भविताम्भोरुहदृशः”।। अत्र “कटाक्षेणापीषत्क्षणमपि” इत्यत्र छेकानुप्रासस्य “निरीक्षेत” इत्यत्र क्षकारमादाय वृत्त्यनुप्रासस्य चैकाश्रयेऽनुप्रवेशः। एवं चात्रैवानुप्रासार्थापत्त्यलङ्कारयोः। यथा वा। “कुरवका रवकारणतां ययुरिति” अत्र रवकारवका इत्येकं वकारवकार इत्येकमिति यमकयोः। सा० द०।
११६ सन्देहः “स्यात् स्मृतिभ्रान्तिसन्देहैस्तदङ्कालङ्कृतित्रयम्” च० “पङ्कर्ज वा सुधांशुर्वा अस्माकन्तु न निर्णयः”।।
११७ समम् “समं स्यादानुरूप्येणश्लाघायोग्यस्य वस्तुनः”। सा० द० “शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिघिमनरूपं जह्नुकन्याऽवतीर्णा”। आनुरूप्यञ्च कारणा- नुरूप्यं तदन्यामुरूप्यम् इष्टपदार्थस्यायत्नसिद्धिहेतुकत्वञ्च। “स्यरूपमपि कार्य्यस्य कारणेन समं विदुः। विना यत्नेन। तत्सिद्धिर्यदर्थं कर्त्तुमुद्यममिति” च० उक्तेः तत्राकारणानुरूप्यमुक्तम् कारणानुरूप्यं यथा “नीचप्रवणता लक्ष्मि! जलजायास्तवोचिता”। तृतीयं यथा “युक्तोवारणलाभोऽयं भूपतेर्वारणार्थिनः”।
११८ समाधिः “समाधिः सुकरे कार्य्ये दैवाद्वस्त्वन्तरागमात्” च०। “मानमस्यानिराकर्त्तुं पादयोर्मे पतिष्यतः। उपकाराय दिष्ट्येदमुदीर्ण्णं घनगर्जितम्”। स० कण्ठा० तु “समाधि मन्यधर्म्माणामन्यत्रारोपणं विदुः। निरुद्भेदोऽथ सोद्भेदः स द्विधा परिपठ्यते” इति लक्षितम्। उदाहरणं मृग्यम्।
११९ समासोक्तिः “समासोक्तिः समैर्यत्र कार्य्यलिङ्गविशेषणैः। व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुनः” सा० द०।। तत्र समेन कार्य्येण प्रस्तुतेऽप्रस्तुतव्यवहारसमारोपः यथा। “व्याधूय यद्वसनमम्वुजलोचनाया वक्षोजयोः कनककुम्भविलासभाजोः। आलिङ्गसि प्रमभमङ्गमशेषमस्या धन्यस्त्वमेव मलयाचलगन्धवाह!”। अत्र गग्धवाहे हठकामुकव्यवहारसमारोपः। लिङ्गसाम्येन यथा। “असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः। अनाक्रम्य जगत् कृत्स्नं नो सन्ध्यां भजते रविः”।। अत्र पुंस्त्रीलिङ्गत्वसात्रेण रविसन्ध्ययोर्नायकनायिकाव्यवहारः। विशेषणसाम्यन्तु श्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च त्रिघा। तत्र श्लिष्टतया यथा। “विकसितमुखीं रागासङ्गाद्गलत्ति मिरावृतिं दिनकरकरस्पृष्टामैन्द्रीं निरीक्ष्य दिशं पुरः। जरठलवलीपाण्डुच्छायो भृशं कलुषान्तरः श्रयति हरितं हन्त प्राचेतसीं तुहिनद्युतिः”।। अत्र मुखरागादि श्लिष्टता। अन्यदुदाहार्य्यम् सा० द०।
१२० समुच्चयः “समुच्चयोऽयमेकस्मिन् सति कार्य्यस्य साधके। खलेकपोतिकान्यायात्तत्करः स्यात् परोऽपि चेत्।। गुणौ क्रिये वा युगपत् स्यातां तद्वा गुणक्रिये” सा० द०। यथा। “हंहो धीर! समीर! हन्त जननं ते चन्दनक्ष्माभृतो दाक्षिण्यं जगदुत्तरं परिचयो गोदावरीवारिभिः। प्रत्यङ्गं दहसीह मे त्वमपि चेदुद्दामदावाग्निवन्मत्तोऽयं मलिनात्मको वनचरः किं वक्ष्यते कोकिलः”।। अत्र दाहे एकस्मिंश्चन्दनभूभृज्जन्मरूपे कारणे सत्यपि दाक्षिण्यादीनां हेत्वन्तराणामुपादानम्। अत्र सर्व्वेषामपि हेतूनां शोभनत्वात् सद्योगः। अत्रैव चतुर्थपादे मत्तादीनामशोभनानां योगादसद्योगः। सदसद्योगो यथा। “शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः। प्रभुर्धनपरायणः सततदुर्गतःसज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे”।। “अरुणे च तरुणि! नयने तव मलिनञ्च प्रियस्य मुखम्। मुखमानतञ्च सखि! ते ज्वलितश्चास्यान्तरे स्मरज्वलनः”।। अत्राद्येऽर्द्धे गुणयोर्यौगपद्यं द्वितीये क्रिययोः। उभयोर्यौगपद्ये यथा। “कलुषञ्च तवाहितेष्वकस्मात् सितपङ्के रुहसोदरश्रि चक्षुः। पतितञ्च महीपतीन्द्रा तेषां वपुषि प्रस्फुटमापदां कटाक्षैः।। “धुनोति चासिं तनुते च कीर्त्तिम्” इत्यादावैकाधिकरण्येऽप्येष दृश्यते।
१२१ सम्बन्धातिशयोक्तिः “सम्बन्धातिंशयोक्तिः स्यादयोगे योग कल्पनम् १ योगेऽप्ययोगसम्बन्धातिशयोक्तिरितीर्य्यते” २ च० “सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम्”। १। “त्वयि दातरि राजेन्द्र! स्वर्द्रुमान्नाद्रियामहे”।
१२२ सम्भवः “प्रभूतकारणालोकात् स्यादेवमिति सम्भवः। स विधौ। वा निषेधे २ वा द्वये ३ वा नद्वयेऽपि वा” ४ स० क० क्रमेण यथा “त्वय्यादातुं जलमुपनते शार्ङ्गिणोवर्ण्णचौरे न स्यात् सिन्धोः पूथुरपि ततो दूर भावात् प्रवाहः। प्रेक्षिष्यन्ते गगनगतयो न्यूनमावर्ज्य दृष्टीरेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम्”। अत्र उक्तरूपेण दृश्योभविष्यसीति विधेः सम्भाव्यमानत्वादयं विधिरूपसम्भवः अत्रैव पूर्व्वार्द्धे सिन्धुप्रवाहस्य पृथुत्व निषेधरूपसम्भवश्च एवंविधिनिवेधतदुभयानात्मकसम्भवयो रुदाहरणे मृग्ये।
१२३ सम्भावनम् “सम्भावनं यदीदं स्यादित्यूहोऽन्यस्य सिद्धये” च०। “यदि त्रिलोकी गणनापरा स्यात्तस्याः समाप्तिर्यदि नायुषः स्यात्। पारेपरार्द्धं गणितं यदिस्याद् गणेयनिःशेषगुणोऽपि स स्यात्”।
१२४ सहोक्तिः “सहार्थस्य बलादेकं यत्र स्याद्वाचकं द्वयोः। सा सहोक्तिर्मूलभूतातिशयोक्तिर्यदा भवेत्” सा० द०। अतिशयोक्तिरप्यत्राभेदाध्यवसायमूला कार्य्यकारणपौर्व्वापर्य्यविपर्य्ययरूपा च। अभेदाध्यवसायमूलापि श्लेषनिमित्ता अन्यथा च क्रमेणोदाहरणम्। “सहाधरदलेनास्या यौवने रागभाक् प्रियः” अत्र रागपदे श्लेषः। “सह कुमुदकदम्बैः काममुल्लासयन्तः सह घनतिमिरौघैर्धैर्य्यमुत्साहरयन्तः। सह सरसिजषण्डैः स्वान्तमामीलयन्तः प्रतिदिशममृतांशोरंशवः सञ्चरन्ति”।। अत्रोल्लासादीनां सम्बन्धिभेदादेव मेदो न तु श्लिष्टतया।
१२५ सामान्यम् “सामान्यं प्रकृतस्यान्यतदात्म्यं सदृशैर्गुणैः”। च० “मल्लिकाचितधम्मिल्लाश्चारुचन्दनचर्चिताः। अविभाव्याः सुखं यान्ति चन्द्रिकास्वभिसारिकाः।
१२६ साम्यम् “द्वयोर्यत्रोक्तिचातुर्य्यादौपम्यार्थोऽवगम्यते। उपमारूपकान्यत्वे साम्यमित्यामनन्तितत्। तदानन्त्येन भेदानां संख्यानं तस्य दुष्करम्,। दृष्टान्तोक्तिः प्रपञ्चोक्तिः प्रतिवस्तूक्ति रेव च। तत्रेवादेः प्रयोगेण दृष्टान्तोक्तिं प्रचक्षते। इवादेरप्रयोगेण प्रपञ्चोक्तिं मनीषिणः। वस्तु किञ्चिदुपन्यस्य न्यसनात् तत् सधर्म्मणः। साम्यप्रतीतिरस्तीति प्रतिवस्तूक्तिरुच्यते। तत्र क्रियाजातिगुणद्रव्ययोगादिहेतुके। साम्ये पूर्व्वादिभेदेन दृष्टान्तोक्तिर्विधीयते” स० क०।। तत्र क्रियानिमित्तम् “स्थितः स्थितामुच्चलितःप्रयातां निषेदुषीमासनबन्धधीरः। जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत्”।। इदं पूर्व्वम्। उत्तरं यथा। “रूपं तदोजस्वि तदेव वीर्य्यं तदेव नैसर्गिकमुन्नतत्वम्। न कारणात् स्वाद्बिभेदे कुमारः प्रवर्त्तितो दीप इव प्रदीपात्”। अन्यान्युदार्य्याणि।
१२७ सारः “उत्तरोत्तरमुत्कर्षो वस्तुनः सार उच्यते”। च० “मधुरं मधु, पीयूषं तस्मात्, तस्मात् कवेर्वचः”।
१२८ सूक्ष्मम् “संलक्षितस्तुसूक्ष्मार्थ आकारेणेङ्गितेन वा। कयापि सूच्यते भङ्ग्या यत्र सूक्ष्मं तदुच्यते”। सा० द० सूक्ष्मः स्थूलमतिभिरसंलक्ष्यः। तत्राकारेण यथा। “वक्त्रस्यन्दिस्वेदविन्दु प्रबन्घैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे। पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ स्वड्गलेखां लिलेख” अत्र कयाचित् कुङ्कुमभेदेन संलक्षितं कस्याश्चित् पुरुषायितं रतं पाणौ पुरुषचिह्नखड्गलेखालिखनेन सूचितम्। इङ्गितेन यथा। “सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया। हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम्”।। अत्र विटस्य भ्रूक्षेपादिना लक्षितः सङ्केतकालाभिप्रायो रजनिकालभांविना पद्मनिमीलनेन प्रकाशितः।
१२९ स्तोकोक्तिः “स्तोकोक्तिर्यत्र लोकोक्तिः स्यादर्थान्तरगर्भिता”। च० “भुजङ्ग एव जानीते भुजङ्गाचरणं सखे”।
१३० स्मरणम् “सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते”। सा० द० “अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलम्। स्मरामि वदनं तस्याश्चारुचञ्चललोचनम्”। स० कण्ठा० तु भेदोदर्शितः। “सदृशादृष्टचिन्तादेरनुभूतार्थवेदनम्। स्मरणं प्रत्यभिज्ञानस्वप्रावपि न तद्बहिः”। तत्र सदृशवस्तुदर्शन जन्यं स्मरणमुक्तोदाहरणे। अदृष्टहेतुकं यथा “मुनिसुताप्रणय- स्मृतिरोधिना मम वियुक्तमिदं तमसा मनः। मनसिजेन सखे! प्रहरिष्यता धनुषि चूतशरश्च निवेशितः”। अत्र कण्वसुता शकृन्तलाप्रणयस्मृतिविरोधिना अज्ञानेन मम मनो वियुक्तमित्यदृष्टकृतं स्मरणम् न सदृशवस्तुदर्शनजन्यम्। चिन्ताजन्यम् यथा “पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां विपर्य्यासं यातो घनविरलभावः क्षितिरुहाम्। अहो दृष्टं कालादपरिमिव जातं वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं जनयति”। अत्र प्रत्यक्षेषु स्रोतस्तरुवनादिषु चिन्ताजन्यत्वात् चिन्तोद्भूतं स्मरणम् आदिग्रहणात् परप्रयत्नादपि यथा “दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन। स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता”। अत्र परप्रयत्नजन्यत्वात्तथात्वम्। प्रत्यभिज्ञानं यथा। “स्पर्शः पुरा परिचितो नियतं स एष संजीवनश्च मनसः परिमोहनश्च”। अत्र य एव पूर्व्वानुभूतः स एवैषः इति प्रत्यभिज्ञा स्मरणम्। स्वप्नरूपं यथा। नागानन्दे “अद्य खलु स्वप्ने जानामि सैव प्रियतमा अत्र चन्दनलतागृहे चन्द्रकान्तमणिशिलायामुपविष्टां प्रणयकुपिता किमपि मामुपलभमानेव रुदती मया दृष्टा” जीमूतवाहनेन विदूषकसमीपे स्वप्नस्य वर्ण्णनम्। स्वप्नप्रत्यभिज्ञयोः पूर्वानुभूतसंस्कारजातत्वात् स्मरणत्वम्।
१३१ स्वभावोक्तिः “नानावस्थं पदार्थानां रूपं साक्षाद्विवृन्वती। स्वभावोक्तिश्च जातिश्चेत्याख्यासालङ्कृतिर्मता” दण्डी “तुण्डै राताम्रकुटिलैः पक्षैर्हरितकोमलैः। त्रिवर्णराजिभिः कण्ठैरेजे मञ्जुगिरः शुकाः”। “कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः। पारावतः परिभ्रम्य रिरंसुश्चुम्बति प्रियाम्”। “बध्नन्न मन्दरोमाञ्चं कुर्ब्बन् मनसि निर्वृतिम्। नेत्रे चामीलय न्नेव प्रियास्पर्शः प्रवर्त्तते”। “कण्ठेकालः करस्थेन कपालेनेन्दुशेखरः। जटाभिः स्निग्धताम्राभिराविरासीद्वृषध्वजः”। “जातिक्रियागुणद्रव्यस्वभावाख्यानमीदृशम्। शास्त्रेष्वस्यैव साम्राज्यं काव्येष्वप्येतदीप्सितम्”। इयं जातिरपि।
१३२ हेतुः “हेतोर्हेतुमता सार्द्धं वर्ण्णनं हेतुरुच्यते १। हेतु हेतुमतोर्वैक्यवर्ण्णनं हेतुरुच्यते २”। “च० असावुदेति शीतांशु र्मानच्छेदेन सुभ्रुवाम्” १। “लक्ष्मीविलासोभवतः कटाक्षावेक्षणं प्रभो! २।
१३३ हेत्वपह्नुतिः “युष्ट्या स एव पूर्ण्णश्चेदुच्यते हेत्वपह्नुतिः।” च० स एव धर्म्मनिह्नव एव। “नेन्दुस्तीव्रो न निश्यर्कः मिन्धोरोर्व्वोऽयमुत्थितः”। अत्येऽलङ्काराएष्वेवान्तर्भूताः। देह भूषणानि च शिरस्त्रादीनि तानि च प्राघान्यादष्टौ “शिरस्यं मृकुटं हारः कुण्डलं चाङ्गदं तथा। कङ्कणं वलयञ्चैव मेखलेत्यष्टधा वरम्”। वरं प्रधानं तेन अप्रधानानि पादकटकादीन्यपि। तत्र भूषणद्रव्याणि “पद्मरागश्चवज्रञ्च गोमेदोविजयस्तथा। मुक्ता वैदूर्य्यनीलानि तथा मरकतादयः। सुवर्णेनापि घटना सर्वेषामुपदृश्यते। प्रधानभूषणेष्वेवमप्रधाने न निश्चयः। प्रधानभूषणं प्रायः शिरसोह्यं विधीयते”। भृगु० “सुखदा मणयः शुद्धा दुःखदा दोषशालिनः” युक्ति क० नवालङ्गारधारणे विहितनक्षत्रादि यथा “रेवत्यश्विघनिष्ठासु हस्तादिष्वपि पञ्चसु। गुरुशुक्रबुधाहेषु वस्त्रालङ्कारधारणम्” ज्योति० अत्रापवादः “उद्वाहे राजसम्माने ब्राह्मणानाञ्च सम्मतौ। अनिष्टेष्वपि निर्द्दिष्टं वस्त्रालङ्कारधारणम्”। ६ नायकयोरङ्गजादिभावभेदेषुते च यथा “यौवने सत्वजास्तासामष्टाविंशतिसंख्यकाः। अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः। शोभा कान्तिश्च दीप्तिश्च माधुर्य्यञ्च प्रगल्भता। औदार्य्यं धैर्य्यमित्येते सप्तैव स्युरयत्नजाः। लीला विलासोविच्छित्तिर्व्विव्वोकः किलकिञ्चितम्। मोट्टायितं कुदृमितं विभ्रमोललितं मदः। विकृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम्। हसितं चकितं केलिरित्यष्टादशसंख्यकाः। स्वभावजाश्च भावाद्यादश पुंसां भवन्त्यपि”। पूर्व्वे भावादयो धैर्य्यान्ता दश नायकानामपि सम्भवन्ति किन्तु सर्व्वेऽप्यभी नायिकाश्रिता एव विछित्ति विशेषं पुष्णन्ति” सा० द० उक्ताः। एषां लक्षणानि तत्तच्छब्देवक्ष्यन्ते। ७ अन्तगुरौ चतुष्कले”।।ऽइत्याकारे गणभेदे च।।

***