अर्द्धांश = पु० एकदेशित०। अंशस्य सजातीयोचितभागस्य १ तुल्यार्द्धभागे २ सर्वद्रव्यस्यार्द्धभागे च।

अर्द्धार्द्ध = पु० अर्द्धम् अर्द्धस्य तुल्यांशस्य एक० त०। तुल्यभागरूप स्यांशस्य तुल्ये अर्द्धभागे चतुर्थांशे। “चरोरर्द्धार्द्धभागाभ्यां तामयोजतामुभे” रघुः। “पञ्चाधिकस्य वा नाशेततोऽर्द्धार्द्धे तु तण्डुलाः ततोऽर्द्धार्द्धविनाशे तु स्पृशेत् पुत्रादिमस्तकम्”। कात्या० स्पृ०।

अर्द्धासन = न० अर्द्धमासनस्य। आसनस्यार्द्धभागे “यो विसर्जनावपरे मम हि दिवौकसां समक्षमर्द्धासनोपवेशितस्य” शकु०। “अर्द्धासनं गोत्रभिदाधितष्ठौ” रघुः। “अर्द्धासनं गोत्रभिदोऽध्यवात्सीत्” भट्टिः। अर्द्धं सम्पन्नमसनं त्यागः विक्षेपश्च। २ स्नेहेन दाने ३ अकुत्सने च धरणिः।

अर्द्धिक = त्रि० अर्द्धमर्हति टिठन् स्त्रियां ङीप्। १ अर्द्धभागार्हे “तदर्द्धिकं पादिकं स्यात्” मनुः २ अर्द्धसोरिशब्दार्थे च उदा० तत्रैव।

अर्द्धिन् = त्रि० अर्द्धं ग्रहीतृत्वेनास्त्यस्य इनि। अर्द्धग्रहणार्हे “सर्वेषामर्द्धिनोमुस्यास्तदर्द्धेनार्द्धिनोऽपरे। तृतीयिनस्तृतीयांशास्तुरीयांशास्त पादिनः”। गोशतमागे स्मृतिः!

अर्द्धुक = त्रि० ऋध–बा० उकञ्। सम्पन्ने वृद्धिशीले “एकमतिरिक्तं जुहोति तस्मादेकः प्रजास्वर्द्धुकः” शत० ब्रा०।

अर्द्धेन्द = पु० अर्द्धुमिन्दोः एकदे० त०। १ चन्द्रतुल्यांशे “जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम्” दुर्गाध्यानम्। तदाकारत्वात् २ नखक्षते ३ तर्जन्यङ्गुष्ठविस्ताररूपे गलहस्तमुद्रा भेदे ४ अर्द्धचन्द्राकारे वाणे च।

अर्द्धोक्त = न० अर्द्धमुक्तम् वच–भावे क्त। अर्द्धकथने। “रामभद्रेत्यर्द्धोक्ते महाराज”! इति वीरचरिते कञ्चुकिवाक्यम्।

अर्द्धोदक = न अर्द्धदेहव्यापकमुदकम् शाक० त०। देहार्द्ध व्यापके उदके। “अर्द्धोदके तु जाह्नव्यां म्रियतेऽनशनेन यः। स याति न पुनर्जन्म ब्रह्मसायुज्यमेति च” अग्निपु०। “अर्द्धोदक चरणान्नाभिपर्य्यमुदकम्” प्रा० त० रघुनन्दनः।

अर्द्धोदय = पु० अर्द्ध स्य समृद्धस्य पुण्यस्य उदयो यत्र। तिथिनक्षत्रादियोगविशेषे “माघेमासि आमावस्या यदि अर्कयुता भवेत्। नक्षत्रे श्रवणे देवि! व्यतीपातो भवेद्यदा। अर्द्धोदयः स विज्ञेयः सूर्य्यपर्वशतैःसमः। दिवैव योगः शस्तोऽयं न च रात्रौ कदाचन। अर्द्धोदये तु सम्प्राप्ते सर्वं गङ्गासमं जलम्। शुद्धात्मानो द्विजाः सर्वे भवेयुर्ब्रह्मसस्मिताः। यत् किञ्चित् क्रियते दानम् तद्दानं सेतुसन्निभमिति” निर्णया०। “अमार्कपातश्रवणैर्युता चेत् पौषमाघयीः। अर्द्धोदयः स विज्ञेय, कोटिसूर्य्यग्रहैः समः” स्क० पु०। “अर्द्धोदये च पुष्यार्के हस्तार्के रोहिणोबुधे” वृहन्नारदीयम्।

अर्द्धोदयासन = म० अर्द्धस्य देहस्य उदयेन ऊर्द्धक्षेपेणासनम् “अर्द्धोदयासनं नाथ! सर्व्वाङ्गं स्वे नियोजयेत्। केवलं हस्तयुगलं भुव्यवष्टभ्य तिष्ठति” रुद्रया० उक्ते आसनभेदे।

अर्द्धेन्दुमौलि = पु० अर्द्धेन्दुर्मौलावस्य। चन्द्रशेखरे शिवे।

अर्द्धोरुक = न० ० अर्द्धमूरोः अर्द्धोरु तत्र काशते काश–ड। १ ऊर्व्वोरधरपर्य्यन्ताङ्गाच्छादने वस्त्रे, उत्तमस्त्रीणामर्द्धोरुपर्य्यन्ते चोलकाकारे २ परिधेयवस्त्रे च।

अर्द्ध्य = त्रि० अर्द्धस्येदम् तुत्र भवो वा वा यत् १ अर्द्धसम्बन्धिनि २ अर्द्धभवेच। ऋष–णिच्–यत्। प्रवर्द्धनार्हे “विदुषाचिदर्द्धः स्तोमः। ऋ० १, १५६, १, “अर्द्ध्यं वर्द्धनार्हम्, भा० “शविष्ठं वाजं विदुषा चिदर्द्ध्यम्” ऋ० ५, ४४, १०।

अर्पण = न० ऋ–णिच्–पुक् ल्युट्। १ निक्षेपे, २ सत्वत्यागानुकूल व्यापारे ३ निवेशने च। “पादार्पणानुग्रहपूतपृष्ठम्” “सेयं स्वदेहार्पणनिष्क्रयेण” “मुखार्पणेषु प्रकृतिप्रगल्भाः” इति च रघुः “ब्रह्मार्पणं ब्रह्महविर्ब्रह्माऽग्नौ ब्रह्मणा हुतम्” “तत् कुरुष्व मदर्पणमिति” च गीता करणे ल्युट्। ४ मन्त्रादौ ५ जूहूप्रभृतौ स्त्री। संप्रदाने ल्युटि। ६ देवादिषु। अधिकरणे ल्युट्। त्यागाधिकरणे ७ वह्न्यादौ। कर्म्मंणि ल्युटि। ८ हविरादौ त्याज्यद्रव्ये

अर्पित = त्रि० ऋ–णिच्–पुक् च क्त। १ दत्ते २ निक्षिप्ते ३ निवेशिते “तदनुज्वलनं मदर्पितम्” कुमा०। “मय्यर्पित मनोवृत्तिः” गीता अनर्पितचरीं चिरात् करुणयावततीर्ण्णः कलाविति” हरिभ० “हरिचक्रेण तेनास्य कण्ठे निष्कमिवार्पितम्” इति कुमा०।

अर्पिस = पु० ऋ–णिच् पुक् च इसन्। १ हृदये, अग्रमांसे च।

अर्प्य = त्रि० ऋ–णिच्–पुक यत्। १ निवेशनीये २ देवे ३ त्याज्ये च।

अर्ब(र्व) = हिंसने भ्वादि० पर० सक० सेट्। अर्ब(र्व)ति आर्बी(र्वी)त् आन(र्ब)र्ब।

अर्बु (र्बु)द = न० अर्ब (र्व) विच् तस्मै उदेति उद् + इण्–ड। (आव् इति) ख्याते १ मांसपिण्डाकारे रोगभेदे, स च सुश्रुतोक्तवर्त्माश्रयेषुएकविंशतिरोगेषु मध्येरोगभेदः “पृथग्दोषा समस्ताश्च यदा वर्त्म व्यपाश्रयाः। सिरा व्याप्यावतिष्ठन्ते वर्त्मस्वधिकमूर्च्छिताः। विवर्द्ध्य मांसं रक्तञ्च तदा वर्त्मव्यापाश्रयान्। विकारान् जनयत्याशु नामतस्तान् निबोधत” इत्युपक्रम्य उत्सर्द्दिनोप्रभृतीन् एकविंशति भेदान् उक्त्वा तेषां प्रत्येकलक्षणान्युक्तानि तत्र० “वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम्। विज्ञेयमर्बुदं पुंसां सरक्तमवलम्बितम्” इत्यर्वुदलक्ष्मोक्तम् अर्बुदञ्च नानाविधं मांसार्वुदर्शोणितार्वुदादिभेदात्। “कृष्णस्फोटीसरक्तैश्च पिडकाभिश्च पीडितम्। यस्य वस्तिरुजश्चोग्रा ज्ञेयं तच्छोणितार्बुदम्। मांसदोषेण जानीयादर्बुदं मांससम्भवम्” एवं मेदोऽर्बुदादयोऽषि तत्रोक्ता रोगभेदा ज्ञेयाः। २ दशकोटिसंख्यायां ३ तत्संख्यातेषुम एकादिकोटिसंख्या दशगृणोत्तरा उक्त्वा अर्बुदमवजं खर्वनिखर्वमहापद्मशङ्क्षवस्तस्मात्” लीला० “इमा मेऽग्न! इष्टका धेनवःसन्त्वेका च दश च दश च शतं च शतं चेत्युपक्रम्य “अर्बुदं चन्यर्बुदञ्च इति यजु० १७, २। ४ पर्व्वतभेदे ५ असुरभेदे च पु०। “महान्तं चिदर्बुदं निक्रमी पदा” ऋ० १, ५१, ४, ६ काद्रवेये सर्पभेदे पु० पञ्चमेऽहनीत्युपऽक्रम्य “अर्बुदः काद्रवेयो राजेत्याह तस्य सर्पाविशः” इति शत० ब्रा०। अम्बूनि ददाति दा–क वेदे मस्य रः। ७ मेघे “न्यर्बुदं वावृधानो अगुः ऋ० २, ११, २०, “अम्बूनि ददातीत्यर्बुदो मेघः” भा० अर्बुदाकारत्वात् गर्भस्य ८ मांसपिण्डभेदे” “यदि पिण्डः पुमान्, स्त्री चेत्पेशी, नपुंसकेऽर्बुदमिति” सुश्रु० द्वितीयमासिकगर्भमात्रे न० “प्रथमे मासि संक्लेदभूतो धातुविमूर्च्छितः। मास्यर्बुदं द्वितीये तु तृतीयेऽङ्गेन्द्रियैर्युतः” या० स्मृ० “द्वितीये तु मासि अर्बुदमीषत्कठिनं मांसपिण्डमयं भवति” मिता०।

अर्बुदि = पु० अर्बुदमिवाचरति अर्बुद + क्विप् इन्। सर्व्वव्यापके ईशाने। “अर्बुदिर्नाम योदेवईशानश्च न्यर्बुदिः। याभ्यामन्तरिक्षमावृतमियं च पृथिवी मही” अथ० ११, ९, ४।

अर्भ = पु० ऋ–भ १ बालके। २ अल्पे च। “नार्भादीषते न महोविभाती। ऋ० १, १२४, ६, “अर्भात् अल्पात्” भा०। “इन्द्रमर्भे हवामहे” ऋ० १, ७। ५। अर्भे स्वल्पेऽपि धने निमित्तभूते” भा०। “यूयं महेन एनसोयूयमर्भात्” ऋ० ८, ४७, ८, “अर्भात् अल्पात् एनसः” भा०।

अर्भक = पु० अर्भएव स्वार्थे कन्। १ बालके, “महद्भ्यो नमो अर्भकेभ्यो नमोयुवभ्यः” ऋ० १, २७, १३। “वृद्धमप्युचितनिद्र मर्भकम्” माघः “अर्भकोन कुमारकोऽधितिष्ठन्नवं रथम्” ऋ० ८, ६९, १५। २ मूर्खे च ३ कृशे, ४ अल्पे, “नमो “नमोमहद्भ्योऽर्भकेभ्यो नमोवः” यजु० १६, २६। त्रि० “अर्भकौकस्त्वात्तद्व्यपदेशाच्च” शा० सू०। अर्भकमल्पम् भा० “यथा सर्व्वगतमपि सद्व्योम सूचीपाशाद्यपेक्षयाऽर्भकौकः एवं ब्रह्मणोऽपि अर्भकौकस्त्वम्” भा० ५ सदृशे च त्रि०

अर्भग = त्रि० अर्भमल्पं गायति गै शब्दे च। बालके। “यावर्भगाय विमदाय” ऋ० १, ११६, १।

अर्म्म = न० ऋ–सन्। चिरन्तनग्रामनगरादौ “अर्म्मे चावर्णं द्व्यच् त्र्यच्” पा० गुप्तार्म्मंकुक्कुटार्म्मं अवर्णंकिम् वृहदर्म्मं द्व्यच् त्र्यच् किम् कज्जलार्म्मम् अमहन्नवमित्येव। महानवार्म्मम्। नेत्ररोगभेदे पु० न०। स च पञ्चविधः प्रस्तार्य्यर्मशुक्लार्म्मरक्तार्म्ममांसार्म्मस्नाय्वर्म्मभेदात्। तल्लक्षणं नान्तार्म्मशब्दे वक्ष्यते सुश्रुते तु नान्ततया पठितम्। अर्य्यते गम्यते कर्म्मणि मन्। ३ गन्तव्यदेशे। कुत्सितेकन्। अर्म्मकः अरणीये कुत्सितस्थाने ४ श्मशानादौ “वैलस्थानके अर्म्मके महारण्यस्थे अर्मके” ऋ० १, १३३, ३। “अर्म्मके श्मशानादौ” भा०।

अर्म्मण = पु० ऋ–बा० मन्। वैद्यकाक्त द्रोणपरिमाणं।

अर्म्मन् = न० ऋ + मनिन्। नेत्ररोगभेदे “प्रस्तारिशुक्लक्षतजाधि मांसस्नाय्वर्मसंज्ञाः खलु पञ्च रोगाः। स्युःशुक्तिका चार्ज्जुन पिष्टकौ च जालं सिराणां पिडकाश्चंयाः स्युः। रोगा बला सग्रथितेन सार्द्धमेकादशाक्ष्णोः खलु शुक्लभागे। प्रस्तारि ग्रथितमिहार्म्भ शुक्लभागे विस्तीर्णं तनुरुधिरप्रभं सनीलम्। शुक्लाख्यं मृदु कथयन्ति शुक्लभागे सश्वेतं सममिह वर्द्धते चिरेण। यन्मांसं प्रचयमुपैति शुक्लभागे पद्माभं तदुपदिशन्ति लोहितार्म्म। विस्तीर्णं मृदु वहलं यकृत्प्रकाशं श्यावं वा तदघिकमांसजार्म्म विद्यात्। शुक्ले यत् पिशितमुपैति वृद्धिमेति, इति सुश्रु०। अर्म यज्जालवद्व्यापि तदप्युन्मार्ज्यलम्बितम्। अर्म्म चाल्पन्दधिनिभन्नीलं रक्तमथापि वा। छेद्यमेव तदर्म्मस्यात् कृष्णमण्डलगञ्च यत्”। अर्म्मवन्मण्डलाग्रेण वडिशेनावलम्बिना। अर्म्माणि पिडकां हन्यात्सिराजालानि तेन वै” इति च सुश्रु०।

अर्य्य = त्रि० ऋ–यत्। १ स्वामिनि २ वैश्ये पुं स्त्री। स्त्रियां टाप्। अर्य्या वैश्यजातिस्त्रियां स्वामिन्याञ्च। पत्न्यान्तु ङीप्। अर्य्यी। वैश्यपत्न्याम् तत्र आनुक् ङीप् चार्य्याणीत्यपि “अर्य्यः स्वामिवैश्ययोः” पा० “अर्थ्यक्षत्रियाभ्यां वा” वार्त्ति०। अर्य्याणी अर्य्या स्वामिनी वैश्या वा पुंयीगे तु ङीप् सि० कौ०। ३ श्रेष्ठे त्रि०। “प्र तत्ते अद्य शिपिविष्ट नामार्यः ऋ० ७, १००, ५, “सुभद्रमर्य्यभोजनं षिभर्षि” ८, १, ३४, अर्य्यते पूज्यते बा० यत्। ४ पूजनीये। “कृष्णादुदस्थादर्या” ऋ० १, १२३, १। “अर्य्या अरणीया पूजनीया” भा०।

अर्य्यमन् = पु० अर्य्यं श्रेष्ठं मिमीते मा–कनिन्। १ सूर्य्ये, तद्देवताके २ उत्तरफल्गुनीनक्षत्रे, ३ अर्कदृक्षे, ४ पितॄणां राजनि “पितॄणामर्य्यमा चास्मि” गीता। द्वादशादित्यमध्ये ५ आदित्यभेदे च। “धातार्य्यमा च मित्रश्च वरुणोऽंशुर्भगस्तया। इन्द्रोविवस्वान् पूषा च पर्जुन्योदशमः स्मृतः। ततस्त्वष्टा ततो विष्णुरजघन्योज धन्यजः इति विष्णुध० पु० एत एव कश्यपाददित्यां जाताः। भारते तु “अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः। ये राजन्नामतस्तांस्ते कीर्त्तयिष्यामि भारत। धाता मित्रोऽर्यमा शक्रः वरुणस्त्वंशुरेव च। भगोविवस्वान् पूषा च सविता दशमःस्मृतः एकादश स्तया त्वष्टा द्वादषोविष्णुरुच्यते”। कल्पभेदान्नामभेद इत्यविरोधः। तद्रूपम् ध्यानशब्दे वक्ष्यते। “यथा नरोऽर्य्यमणोमरुतः कबन्धिनः” ऋ० ५५४, ८। “अर्य्यम्णे स्वाहेति तदेनमस्य सर्वस्यार्य्यमणं करोति शत० ब्रा०।

अर्य्यमिक = पु० अनुकम्पितः दत्तः अर्य्यमदत्तः अनुकम्पायाम् ठन् “शेवलमुपरिविशालवरुणार्य्यमादीनां तृतोयात्” पा० अन्त्यलोपः। अनुकम्पिते अर्य्यमदत्ते।

अर्य्यम्य = पु० अर्य्यमैव स्वार्थे वेदे यत्। सूर्य्ये “अर्य्यम्यं वरुणमित्र्यं वा सस्वायं वा सदमिद्धातरं वा” ऋ० ५, ८५, ७।

अर्वन् = पु० ऋ–वनिप्। १ घोटके, २ इन्द्रे, ३ गोकर्णपरिमाणे च। स्त्रियामर्वती सा च ४ बडवायां ५ कुट्टिन्यामपि। अस्य सुभिन्ने त्रादेशः अर्वन्तौ अर्व्वतः। “श्लथीकृतप्रग्रहमर्वतां ब्रजाः” माघः सौ तु अर्व्वा इत्येव लोकएव त्रादेश इति भाष्यम् वेदे तु अर्वाणौ इत्येव। ४ गमनशीले त्रि० स्त्रियां ङीप् वनोरश्च। अर्वरी।

अर्वाक् = त्रि० अवरमकति गच्छति अक–वक्रगतौ अण् पृ० अवरस्यार्वादेशः। समीपे “यन्नासत्या पराके अर्वाके अस्ति भेषजम्” ऋ० ८, ९, १५ “अर्वाके समीपे” भा०।

अर्वाक्काल = पु० अर्वाक् अवरः कालः। अवरकाले तत्रभवः ठञ् न वृद्धिः अर्वाक्कालिकः अवरकालभवे त्रि० “तान्य र्व्वाक्कालितया निष्फलान्यनृतानि च” मनुः।

अर्वाक्स्रोतस् = पु० अर्वाक् अधोगामि स्रोतोरेतोयस्य। ऊर्द्ध्वरोतोभिन्ने इन्द्रियप्रसक्ते।

अर्व्वाग्विल = पु० अर्वाक् विलमस्य। चमसे। “अर्वाग्विलश्चमस ऊर्द्ध्ववुध्नस्तस्मिन् यशोनिहितम्”। शत० ब्रा०।

अर्व्वाच् = अव्य० अवरे काले देशे वा अञ्चति अनच्–क्विन् पृषो० अर्वादेशः। १ पश्चात्काले २ मध्यकाले “अर्वाग्दशभ्यो वर्षेभ्यः” भुज० ४ तत्कालवर्त्तिनि त्रि० “ये केचिदस्मादर्वाञ्चो लोकाः” छा० उ०। “कथं वा दीयतामर्वाङ्सुनिता धर्म्मरोधिनी” किरा० स्त्रियां ङीप् अर्वाची “उर्म्मीदर्व्वा “अर्वाचीश्च पराचीश्चोपदधाति” शत व्रा०। ३ विपर्य्यस्ते अर्व्वाच् + असि तस्य लुक्। ४ अवरकालादौ ५ मध्येच अव्य०। ततोभवार्थे ट्युल् तुट् च अर्वाक्तनः। तद्भवे त्रि० स्त्रियां ङीप्।

अर्वाग्वसु = अर्वाक् अभ्यन्तरे अर्व्वाचीनं वसु वृष्टिहेतूदकं गर्भो यस्य। पर्जन्ये मेघे।

अर्वाचीन = त्रि० अर्वाग्भवः स्व। अवरकालभवे। “अर्वाचीनं सुते मनो ग्रावा कृणोतु” ऋ० १, ८४, ३, “यदूर्द्धं पृथिव्या अर्वाचीनमन्तरीक्षात्” शतव्रा०।

अर्व्वावत् = त्रि०, अवरकालोऽस्त्यस्य मतुप् पृ० अर्वामेशः दीर्घः मस्य वः। अर्वाचीने। “अर्वावतो! न आगहि परावतश्च” ऋ० ३, ४०८,। “अर्वावतः अर्वाचीनान्” भा०।

अर्व्वावसु = पु० देवानां हीतृविशेषे “इदमहमर्वावसोः सदने सीदामीति” अर्वावसुर्ताम देवानां होता तस्यैव सदने सींदति” शत० ब्रा० “अर्वाक् वस्तु धनमस्य पृयो” भा०।

अर्व्वुक = पु० अर्व–हिंसने बा० उकञ्। आटविके दक्षिणदेश स्थेनृपभेदे ते च सहदेवेन जिताः “सचीना अर्वुकाश्चैव राजानश्च महाध्वजाः। तांस्तानाटिवकान् सर्व्वान् अजयत् पाण्डुनन्दनः” भा० स० प० सहदेवदिग्विजये।

अर्श = त्रि० ऋश + अच्। अश्लीले पापिष्ठे “अनर्शरात्रिशब्दे १५१ पृष्ठे उदा०। २ अर्शोरोगे न०।

अर्शआदि = पु० अर्शआदिर्येषाम्। अस्त्यर्थे अच्प्रत्ययनिमित्त भूते “अर्श आदिभ्योऽच्” पाणिन्युक्ते शब्दसमूहे। सच गणः अर्शस् उषस् तुन्द–चतुर पलित, जटा घाटा अघ, कर्द्दम अम्ल, लवण, (स्वाङ्गाद्धीनात्) (वर्णात्) आकृतिगणोऽयम्।

अर्श(र्स)स् = न० ऋ–असुन् शुठ् (सुठ् दन्तादिरित्यन्ये)। बलिकाकारे गुह्यस्थरोगभेदे यथाह सुश्रुतः “षडर्शंसि भवन्ति वातपित्तकफशोणितसन्निपातैः सहजानि चेति।। तत्रानात्मवतां यथोक्तैः प्रकोपणैर्ब्धिरुद्धाध्यशनस्त्रीप्रसङ्गोत्कटुकासनपृष्ठयानवेगविधारणादिभिर्व्विशेषैः प्रकु पिता दोषा एकशो द्विशः समस्ताः शोणितसहिता वा यथोक्तं प्रसृताः प्रधानधमनीरनुप्रपद्याऽधोगत्वा गुदमागम्य प्रदुष्य बलीर्म्मांसप्ररोहान् जनयन्ति विशेषतोमन्दाग्नेस्तथा तृणकाष्ठोपललोष्ट्रवस्त्रादिभिः शीतोदकसंस्पर्शनाद्वा कन्दाः परिवृद्धिमासादयन्ति तान्यर्शांसीत्याचक्षते।। तत्र स्थूलान्द्रप्रतिबद्धमर्द्ध पञ्चाङ्गुलं गुदमाहुस्तस्मिन् बलयस्तिस्रोऽध्यर्द्धाङ्गुलान्तरभूताः प्रवाहणी विसर्ज्जनी संवरणी चेति। चतुरङ्गुलायताः सर्वास्तिर्य्यगेकाङ्गुलोच्छ्रिताः।। शङ्खावर्त्तनिभाश्चापि उपर्य्युपरि संस्थिताः। गजतालुनिभाश्चापि वर्णतः सम्प्रकीर्त्तिताः।। रोमान्तेभ्यो यवाध्यर्द्धं गुदौष्ठः परिकीर्त्तितः।। प्रथमा तु गुदौष्ठादङ्गुलमात्रे। तेषान्तु भविष्यतां पूर्व्वरूपाणि, अन्ने न श्रद्धा कृच्छ्रात्पक्तिरम्लीका सक्थिसदनमाटोपः कार्श्यमुद्गारबाहुल्यमक्ष्णोश्च श्वयथुरन्द्रकूजनं गुदपरिकर्त्तनमाशङ्का पाण्डुरोगग्रहणी दोषशोषणं कासश्वासौभ्रमस्तन्द्रा निद्रेन्द्रियदौर्ब्बल्यञ्च। जाते- ष्वेतानि रूपाणि प्रव्यक्ततराणि भवन्ति।। तत्र मारुतात्परिशुष्कारुणवर्णानि विषममध्यानि कदम्बपुष्पतुण्डिकेरीनाडीमुखसूचीमुखाकृतीनि च भवन्ति। तैरुपहतः सशूलं संहतमुपवेश्यते कटीपृष्ठपार्श्व मेढ्रगुदनाभिप्रदेशेषु चास्य वेदना गुल्माष्ठोलाप्लीहोदराणि चास्य तन्निमित्तान्येव भवन्ति, कृष्णत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति। पित्तान्नीलाग्राणि तनूनि विसप्र्पीणि पीतावभासानि यकृत्प्रकाशानि शुकजिह्वासंस्थानानि यवमध्यानि जलौकोवक्त्रसदृशानि प्रक्लिन्नानि च भवन्ति तैरुपहतः सरुधिरमतिसार्य्यते ज्वरदाहपिपासासूर्च्छाश्चोपद्रवा भवन्ति, पीतत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति। श्लेष्मजानि श्वेतानि महामूलानि स्थिराणि वृत्तानि स्निग्धानि पाण्डूनि करीरपनसास्थिगोस्तनाकाराणि न भिद्यन्ते न स्रवन्ति कण्डूबहुलानि च भवन्ति तैरुपहतः सश्लेष्माणमनल्पं मांसधावनप्रकाशमतिसार्य्येत शोफशीत ज्वरारोचकाविपाकशिरोगौरवाणि चास्य तन्निमित्तान्येव भवन्ति, शुक्लत्वङ्नस्वनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति।। रक्तजानि न्यग्रोधप्ररोहविद्रुमकाकणन्तिकाफलसदृशानि पित्तलक्षणानि च यदावगाढपुरीषप्रपीडितानि भवन्ति तदात्यर्थं दुष्टमनल्पमसृक् सहसा विसृजन्ति तस्यैवातिप्रवृत्तौ शोणितातियोगोपद्रवा भवन्ति।। सन्निपातजानि सर्व्वदोषलक्षणयुक्तानि।। सहजानि दुष्टशोणितशुक्रनिमित्तानि तेषां दोषत एव प्रसाधनं कर्त्तव्य विशेषतश्चात्र दुर्दर्शनानि परुषाणि पाण्डूनि दारुणान्यन्तर्मुखानि तैरुपद्रुतः कृशोऽल्पभुक् सिरासन्ततगात्रोऽल्पप्रजःक्षीण रेताः क्षामस्वरः क्रोधनोऽल्पाग्निर्ध्राणशिरोऽक्षिश्रवणरोगवान् सततमन्द्रकूजाटोपहृदयोपलेपारोचकप्रभृतिभिः पीड्यते।।” “अर्श आद्या महारोगा अतिपापाद्भवन्ति हि”। शाता० स्मृ०। पृषो० सलोपः। अर्शमप्यत्र न०।

अर्शस = त्रि० अर्शस्–अस्त्यर्थेऽच्। बलिकाकारगुह्यव्याधियुक्ते। “होनक्रियं निष्पुरुषं निश्छन्दोरोमशार्शसम्” मनुः।

अर्शसान = त्रि० ऋश–असानच् सुट् च। बाधके हिंसके “अव प्रियमर्शसानस्य” ऋ० २, २०६ “अर्शसानस्य बाधमानस्य” भा० न्वर्शसानामोषति ऋ० १०१३०, ८ २ मन्देहासुरे “इन्द्रः सूर्य्यस्य रश्मिर्न्यर्शसानमोषति ८, १२९, “अर्शसानं बाधमानं मन्दे हाख्यमसुरम्” भा०।

अर्शिन् = त्रि० अर्शमस्त्यस्य इनि। अर्शोरोगयुक्ते स्त्रियां ङीप्।

अर्शोघ्न = पु० अर्शो हन्ति हन–ट। (ओल) १ शूरणे, २ भल्लातके च १ अमनुष्यकर्त्तृकार्शोहननकारकमात्रे त्रि० “अर्शोघ्न कारभं मूत्रं मानुषन्तु विषापहम् “यच्चान्यदपि स्निग्धं मर्शोघ्नम्सृष्टमूत्रपुरीषञ्च तदुपसेवेत” इति च सुश्रुतः। स्त्रियां ङीप्। सा च तालमूल्याम् मेदि०

अर्शोहित = पु० अर्शसि हितः सेवनेन तन्नाशकत्वात् ७ त०। १ भल्लातके। २ अर्शोरोगहितकारकमात्रे त्रि० अहित इति च्छेदे। ३ तत्राहितकरे त्रि०।

अर्षण = न० ऋष–गतौ मावे ल्युट्। १ गमने करणे ल्युट्। २ गमनसाधने स्त्रियां ङीप्। “याः सीमानं विरुजन्ति मूर्द्धानं प्रत्यर्षणीः अथ० ९, १८, १३।

अर्ह = योग्यत्वे भ्वा० पर० अक० सेट्। अर्हति आर्हीत् आनर्ह लोके, वेदे तु आनर्हे। प्राप्तियोग्यतार्थे गतौ च सक०। अर्ही अर्हितः अर्हितुम् अर्हित्वा अर्हणम् अर्हन् “द्वित्राण्यहान्यर्हसि सोढु मर्हन्!” रघुः। “गुरोर्गुरौ सन्निहिते गुरुवन्मानमर्हति” मनुः। “दण्डमर्हति माषकम् मनुः। स तस्माल्लब्धुमर्हति” स्मृतिः “तथापि त्वं महाबाहो नैनं शोचितुमर्हसि” गीता। क्वचिदस्यात्मनेपदित्वम् व्यत्ययेन। “मलिलं नार्हसे प्राज्ञ! दातुमेषां हि लौकिकम्” “रावणो नार्हते पूजाम्” इति च रामायणम्।

अर्ह = पूजने चुरा० उभ० सक० सेट्। अर्हयति ते आर्जिहत् त। “राजार्जिहत्तं मधुपर्कपाणिः” भट्टिः। अर्हयामास। अर्हणा अर्हयन् अर्हयितुम् अर्हयित्वा। “स्रग्विणं तल्पमामीनमर्हयेत् प्रथमं गवा” मनुः। पूजनं च स्तुतिनतिप्रभृतिभिः सस्माननम्। अभि + आभिमुख्येन सम्मानने। “अभ्यर्हितञ्च” का० वार्त्ति०।

अर्ह = पु० अर्ह्यते चु० अर्ह–कर्म्मणि यत्। पूजास्तुत्यादिभिराराध्ये १ ईश्वरे २ शक्रे च। ३ पूजनीये त्रि० “अर्हानभोजयन् विप्रो दण्डमर्हति माषकम्” मनुः ४ विष्णौ पु०। “अभि प्रायः प्रियार्होऽर्हः” विष्णुस०। “पूजास्तुतिनमस्कारादिभिः पूजनीय इत्यर्हः” भा०। भावे घञ्। ५ पूजने। अर्हति म्बा० अर्ह–कर्त्तरि अच्। ६ योम्ये त्रि०। “तस्मान्नार्हा वयं हन्तुं धार्त्तराष्ट्रान् स्वबान्धवान्” गीता। “अर्होऽसि कपिराज्य स्य श्रियं भोक्तुमनुत्तमाम्” रामा०। “नियुक्तायामपि पुमान् नार्य्यां जातोऽविधानतः। नैवार्हः पैतृकं रिक्थं पतितोत्पादितो हि सः” मनुः आर्षत्वात् कर्म्मणि न षष्ठी “पूजार्हावरिसूदन” गीतायान्तु “कर्म्मण्यण्” अण् उप० स०। भावे घञ्। ७ गतौ ८ योग्यत्वे धातूनामनेकार्थत्वात् द्रव्यक्रययोग्यत्वात्त अर्ह–कर्मणि घञ् ९मूल्ये “महार्हशय्यापरिवर्त्तनच्युतैः” कुमा० “महानर्हो मूल्यमस्यास्तादृशी शय्या” इति मल्लि०।

अर्हण = न० अर्ह–भावे ल्युट्। १ पूजने। “शिष्यवर्गपरिकल्पितार्हणम्” रघुः अर्ह्यतेऽनेनकरणे ल्युट्। सम्मानसाधने द्रव्ये। “अर्हणं तत्कुमारीणामानृशंस्याय केवलम्” मनुः भावे युच्। “अर्हणा पूजायां स्त्री। “अर्हणामर्हते चक्रुर्मुनयोनयचक्षुषे” रघुः पूर्ब्बेदेवरिपुरर्हणां हरिः” माघः।

अर्हणीय = त्रि० चु० अर्ह–कर्मणि अनीयर्। १ पूजनीये। अर्हतेऽनेन करणे अनोयर् अर्हणे साधु छ वा। पूजासाधनद्रव्ये “अर्हणीयगवानुमन्त्रणे विनियोगः” भवदेवः।

अर्हत् = त्रि० “अर्हः प्रशंसायां कर्म्मणि शतृ। ४ पूज्ये “अर्ह णामर्हते चक्रुः” द्वित्राण्यहान्यर्हसि सोढुमर्हन्” इनि च रघुः “सर्ब्बज्ञो जितरागादिदोघस्त्रैलोक्यपूजितः। यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः” इत्युक्तलक्षणे जैनदेवे पु०। तन्मतं सर्व्वदर्शनसंग्रहात् संगृह्यते। “ननु न कश्चित् पुरुषविशेषः सर्व्वज्ञपदवेदनीयः प्रमाणपद्धतिमध्यास्ते सद्भावग्राहकस्य प्रमाणपञ्चकस्य तत्रानुपलम्भात् तथाचोक्तं तोतातितैः “सर्व्वज्ञोदृश्यते तावन्नेदानीमस्सदादिभिः। दृष्टो न चैकदेवोऽस्ति लिङ्गं वा योऽनुमापयेत्।। न चागमविधिः कश्चिन्नित्यसर्व्वज्ञबोधकः। न च तत्रार्थवादानां तात्पपर्य्यमपि कल्प्यते।। न चानुवदितुं शक्यः पूर्व्वमन्यैरबोधितः।। अनादे रागमस्यार्थो न च सर्व्वज्ञ आदिमान्। कृत्रिमेण त्वसत्येन स कथं प्रतिपाद्यते।। अथ तद्वचनेनैव सर्व्वज्ञोऽन्यैः प्रतीयते। प्रकल्प्येतं कथं सिद्धिरन्योन्याश्रयतस्तयोः।। सर्व्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता। कथं तदुभयं सिध्येत् सिद्धमूलान्तरादृते।। असर्व्वज्ञप्रणीतात्तु वचमान्मूलवर्जितात्। सर्व्वज्ञमवगच्छन्तस्तद्वाक्योक्तं न जानतु।। सर्व्वज्ञसदृशं किञ्चिद्यदि पश्येम सम्प्रति। उपमानेम सर्व्वज्ञं जानीयाम ततो वयम्।। उपदेशोऽपि बुद्धस्य धर्म्माधर्म्मादिगोचरः। अन्यथा नोपपद्येत सार्व्वज्ञ्यं यदि नाभवदित्यादि”।। अत्र प्रतिविधीयते यदभ्यधायि सद्भावग्राहकस्य प्रमाणपञ्चकस्य तत्रानुपलम्भादिति तदयुक्तं तत्सद्भावावेदकस्यानुमानादेः सद्भावात्। तथा हि कश्चिदात्मा सकलपदार्थसाक्षात्कारी तद्ग्नहर्णस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात् यत् यद्ग्रहणखभाभवत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययं तत् तत्साक्षात्कारि यथा अपगततिमिरादिप्रतिबन्धं लोचनविज्ञानं रूपसाक्षत्कारि। तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययश्च कश्चिदात्मा तस्मात् सकलपदार्थसाक्षात्कारीति। तावदशेषार्थग्रहणस्वभावत्वमात्मनः सिद्धं चोदनाबलान्निखिलार्थज्ञानात् नाप्यन्यथानुपपत्त्या सर्व्वमनैकान्तात्मकं सत्त्वादिति व्याप्तिज्ञानोत्पत्तेश्च। चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थमवगमयतीत्येवं जातीयकैरध्वरमीमांसागुरुभिर्विधिप्रतिषेधविचारणानिबन्धनं सकलार्थविषयकज्ञानं प्रतिपद्यमानैः सकलार्थग्रहणस्वभावकत्वसात्मनोऽभ्युपगतम्। न चाखिलार्थप्रतिबन्धकावरणप्रक्षयानुपपत्तिः सम्यग्दर्शनादित्रयलक्षण स्यावरणप्रक्षयहेतुभूतस्य सामग्रीविशेषस्य प्रतींतत्वात् अनया पुनरन्येऽपि क्षुद्रोपद्रवा विद्राव्याः। नन्वावरणप्रक्षयवशादशेषविषयं विज्ञाजं विशदं मुख्यप्रत्यक्षं प्रभवतीत्युक्तं तदयुक्तं तस्य सर्व्वज्ञस्यानादिमुक्तत्वेनावरणस्यैवासम्भवादिति चेत्तन्न अनादिमुक्तत्वस्यैवासिद्धेः सर्व्वज्ञोऽनादिमुक्तः मुक्तत्वादितरमुक्तवत् बद्धापेक्षया च मुक्तव्यपदेशः तद्रहिते चास्याप्यभावः स्यादाकाशवत्। नन्वनादेः क्षित्यादिक्रार्य्यपरम्परायाः कर्तृत्वेन तत्सिद्धिः तथाहि क्षित्यादिकं सकर्तृकं कार्त्यत्वाद्बटवदिति तदप्यसमीचीनं कार्य्यत्वस्यैवासिद्धेः। न च सावयबत्वेन तत्साधनमित्यभिधातव्यं यस्मादिदं विकल्पजालमवतरति। सावयवत्वं, समवेतद्रव्यत्वं, किमवयवसंयोगित्वं अवयवसमवायित्वम् अवयवजन्यत्वम् ३ समवेतद्रव्यत्वम् समवेतवबुद्धिविषयत्वं वा। न प्रथमः, आकाशादावनैकान्त्यात्। न द्वितीयः सामान्यादौ व्यभिचारात्। न तृतीयः साध्याविशिष्ट त्वात्। न चतुर्थः विकल्पयुगलार्गलग्रहगलत्वात् समवायसम्बन्धवत्त्वे सति द्रव्यत्वं समवेतद्रव्यत्वम्, अन्यत्र समवेतद्रव्यत्वं वा विवक्षितं हेतूक्रियते। आद्ये गगनादौ व्यभिचारः तस्यापि गुणादिसमवायवत्त्वद्रव्यत्वयोः सम्भवात्। द्वितीये साध्याविशिष्टता अन्यशब्दार्थेषु समवायकारणभूतेष्ववयवेषु समवायस्य साधनीयत्वात्। अभ्युपगग्यैतदभाणि वस्तुतस्तु समवाय एव न समस्ति प्रमाणाभावात्। नापि पञ्चमः आत्मादिनानैकान्त्यात्तस्य सावयवबुद्धिविषयत्वेऽपि कार्य्यत्वाभावात्। न च निरवयवत्वेऽप्यस्य सावयव वार्थसम्बन्धेन सावयवबुद्धिविषपयत्वमौपचारिकमित्येष्टव्यं निरवयवत्वे व्यापित्वविरोधात् परमाणुवत्। किञ्च किमेकः कर्त्ता साध्यते किं वा स्वतन्त्रः प्रथमे प्रासादादौ व्यभिचारः स्थपत्यादीनां बहूनां पुरुषाणां तत्र कर्तृत्वो- पलम्भादनेनैव सकलजगज्जननोत्पत्तावितरवैयर्थ्यञ्च। तदु क्तं वीतरागस्तुतौ “कर्त्तास्ति नित्यो जगतः स चैकः स सर्व्वगः सन् स्ववशः स सत्यः। इमाः कुहेयाः कुविडम्बनाः स्युस्तेषां न येषामनुशासकस्त्वमिति”।। अन्यत्रापि। “कर्त्ता न तावदिह कोऽपि यथेच्छया वा दृष्टोऽन्यथा कटकृतावपि तत्प्रसङ्गः। कार्य्यं किमत्र भवतापि च तक्षकाद्यैराहत्य च त्रिभुवनं पुरुषं करोतीति” तस्मात् प्रागुक्तकारणत्रितयबलादावरणप्रक्षये सार्व्वज्ञ्यं युक्तम्। न चास्योपदेष्ट्रन्तराभावात् सम्यग्दर्शनादित्रितयानुपपत्तिरिति भणनीयं पूर्व्वसर्व्वज्ञप्रणीतागमप्रभवत्वादमुष्याशेषार्थज्ञानस्य। नचान्योन्याश्रयतादिदोषः आगमसर्व्वज्ञपरम्पराया वीजाङ्कुरवदनादित्वाङ्गीकारादित्यलम्। रत्नत्रयपदवेदनीयतया प्रसिद्धं सम्यग्दर्शनादित्रितयमर्हत्प्रवचनसङ्ग्रहपरे परमागमसारे प्ररूपितं “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग” इति। विवृतञ्च योगदेवेन “येन रूपेण जीवाद्यर्थो व्यवस्थितस्तेन रूपेणार्हता प्रतिपादिते तत्त्वार्थेविपरीताभिनिवेशरहितत्वाद्यपरपर्य्यायं श्रद्धानं सम्यग्दर्शनं तथा च तत्त्वार्थसूत्रम्, “तत्त्वार्थं श्रद्धानं सम्यग्दर्शनमिति”। अन्यदपि “रुचिर्जिनोक्ततत्त्वेषु सम्यक् श्रद्धानमुच्यते। जायते तन्निसर्गेण गुरोरधिगमेन वेति”।। परोपदेशनिरपेक्षमात्मस्वरूपं निसर्गः” व्याख्यानादिरूपपरोपदेशजनितं ज्ञानमधिगमः। येन स्वभावेन जीवादयः पदार्थाः व्यवस्थिताः तेन स्वभावेन मोहसंशयरहितत्वेनावगमः सम्यग्ज्ञानम्। यथोक्तम् “यथावस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा। योऽवबोधस्तमत्राहुः सम्यगज्ञानं भनीषिण” इति।। तज्ज्ञानं पञ्चविधं मतिश्रुतावधिमनःपर्य्यायकेवलभेदेन। तदुक्तम् “मतिश्रुतावधिमनःपर्य्यायकेबलानि ज्ञानमिति”। अस्यार्थः ज्ञानावरणक्षयोपशमे सति इन्द्रियमनसी पुरस्कत्य व्यापृतः सन् ययार्थं मनुते सा मतिः। ज्ञानवरणक्षयोपशमे सति मतिजनितं स्पष्टं ज्ञानं श्रुतम्। असम्यग्दर्शनादिगणजनितक्षयोपशमनिमित्तम् अवच्छिन्नविषयं ज्ञानमवधिः। ईर्ष्यान्तरायज्ञानावरणक्षयोपशमे सति परमनोगतस्याथेस्य स्फुटं परिच्छेदकं ज्ञानं मनः पर्य्यायः। तपःक्रियाविशेषान् यदर्थं सेवन्ते तपस्विनस्तज्ज्ञानमन्यज्ञानासंस्पृष्टं केवलम्। तत्राद्यं परोक्षं प्रत्यक्षमन्यत्। तदुक्तम् “विज्ञानं स्वपराभासि प्रमाणं बाधवर्ज्जितम् प्रत्यक्षञ्च परोक्षञ्ज द्विधा मेयविनिश्चयादिति”।। अन्तर्गणि- कभेदस्तु सविस्तरस्तत्रैवागमेऽवगन्तव्यः। संसरणकर्म्मोच्छित्तावुद्यतस्य श्रद्धदानस्य ज्ञानवतः पापगमनकारणक्रियानिवृत्तिः सम्यक् चारित्रम्। तदेतत् सप्रपञ्चमुक्तमर्हता “सर्व्वथाऽवद्ययोगानां त्यागश्चारित्रमुच्यते। कीर्त्तितं तदहिंसादिव्रतभेदन पञ्जधा। अहिंसासूनृतास्तेय ब्रह्मर्य्यापरिग्रहाः।। न यत्प्रमादयोगेन जीवितव्यपरोपणम्। चराणां स्थावराणाञ्च तदहिंसाव्रतं मतम्।। प्रियं पथ्यवचस्तय्यं सूनृतव्रतमुच्यते। तत्तथ्यमपि नो तथ्यमप्रियञ्चाहितञ्च यत्।। अनादानमदत्तस्यास्तेयव्रतमुदीरितम्। बाह्याः प्राणनृणामर्थो हरता तं हता हि ते।। दिव्यौदरिककामाणां कृतानुमतकारितः। मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम्।। सर्व्वाभावेषु मूर्च्छायास्त्यागःस्यादपरिग्रहः। यदसत्स्वपि जायेत मूर्च्छया चित्तविप्लवः।। भावनाभिर्भावितानि पञ्चभिः पञ्चधा क्रमात्। महाव्रतानि लोकस्य साधयन्त्यव्ययं पदमिति”।। भावनापञ्चकप्रपच्चनञ्च प्ररूपितम् “हास्यलोभभयकोधप्रत्याख्यानैर्निरन्तरम्। आलोच्य भाषणेनापि भावयेत् सूनृतं व्रत” मित्यादिना।। एतानि सम्यग्ददर्शनज्ञानचारित्राणि मिलितानि मोक्षकारणं न प्रत्येकं यथा रसायनज्ञानं श्रद्धानाचरणानि सम्भूय रसायनफलं साधयन्ति न प्रत्येकम्। अत्र संक्षेपतस्तावज्जीवाजीवाख्ये द्वे तत्त्वे स्तः तत्र बोधात्मको जीवः अबोधात्मकस्त्वजीवः। तदुक्तं पद्मनन्दिना “चिदचिद्द्वे परे तत्त्वे विवेकस्तद्विवेचनम्। उपादेयमुपादेयं हेयं हेयञ्च कुर्व्वतः।। हेयं हि कर्तृरागादि तत् कार्य्यमविवेकिनः। उपादेयं परं ज्योतिरुपयोगैकलक्षणमिति”।। सहजचिद्रूपपरिणतिं स्वीकुर्व्वाणस्य ज्ञानदर्शने उपयोगः स परस्परप्रदेशात्तु प्रदेशबन्धात् कर्म्मणैकीभूतस्यात्मनोऽन्यत्वप्रतिपत्तिकारणं भवति। सकलजीवसाधारणं चैतन्यमुपशमक्षयक्षयोपशमवशादौपशमिकक्षयात्मकक्षयौपशमिकभावेन कर्म्मोदयवशात् कलुषान्याकारेण च परिणतजीवपर्य्यायजीवविवक्षायां स्वरूपं भवति यदवोचद्वाचकाचार्य्यः “औपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य सत्त्वमौदयिकपारिणामिकौ चेति”। अनुदयप्राप्तिरूपे कर्म्मण उपशमे सति जीवस्योत्पद्यमानो भावः औपशमिकः यथा पङ्के कलुषतां कुर्व्वति कतकादिद्रव्यसम्बन्धादधः पतिते जलस्य स्वच्छता। कर्म्मणः क्षयोपशमे सति जायमानो भावः क्षायिकः यथा मोक्षः। उभयात्म भावो मिश्रः यथा जलस्यार्द्धस्वच्छता। कर्म्मोदये सति भवन् भाव औदयिकः। कर्म्मोपशमाद्यनपेक्षः सहजो भावश्चेतनत्वादिः पारिणामिकः। तदेतत् सत्त्वं यथासम्भवं भव्यस्याभव्यस्य वा जीवस्य तत्त्वं स्वरूपमिति सूत्रार्थः। तद्क्तम् स्वरूपसम्बीधने “ज्ञानाद् भिन्नो नचाभिन्नो भिन्नाभिन्नः कथञ्चन। ज्ञानं पूर्व्वापरीभूतं सोऽयमात्मेति कीर्त्तितः” इति।। ननु भेदाभेदयोः परस्परपरिहारेणावस्थानादन्यतरस्यैवावास्तवत्वादुभयात्मकत्वमयुक्तमिति चेत्तदयुक्तं बाधे प्रमाणाभावात् अनुपलम्भो हि बाधकं प्रमाणं न सोऽस्ति समस्तेषु वस्तुष्वनेकरसात्मकत्वस्य स्याद्वादिनो मते सुप्रसिद्धत्वादित्यलम्। अपरे पुनर्जीवाजीवयोरपरं प्रपञ्चमाचक्षते जीवाकाशधर्म्माधर्म्मपुद्गलास्तिकायमेदान्। एतेषु पञ्चसु तत्त्वेषु कालत्रयसम्बन्धितया स्थितिव्यपदेशः अनेकप्रदेशत्वेन शरीरवत् कायव्यपदेशः। तत्र जीवा द्विविधाः संसारिणोमुक्ताश्च। भवाद् भवान्तरप्राप्तिमन्तः संसारिणः। ते च द्विविधाः समनस्काअमनस्काश्च तत्र संज्ञिनः समनस्काः शिक्षाक्रियाकलापग्रहणरूपा संज्ञा तद्विधुरास्त्वमनस्काः। ते चामनस्का द्विविधाः त्रसस्थावरभेदात् तत्र द्वीन्द्रियादयः शङ्क्षगण्डोलकप्रभृतयश्चतुर्विधास्त्रसाः पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः। तत्न मार्गगतधूलिः पृथिवी इष्टकादिः पृथिवीकायः पृथिवीकायत्वेन येन गृहीता स पृथिवीकायकः पृथिवीं कायत्वेत यो ग्रहीष्यति स पृथिवीजीवः। एवमबादिष्वपि भेदचतुष्टयं योज्यम्। तत्र पृथिव्यादिकायत्वेन गृहीतवन्तो ग्रहीष्यन्तश्च स्थावरा गृह्यन्ते न पृथिव्यादिपृथिवीकायादयः तेषां जीवत्वात्। ते च स्थावराः स्पर्शनैकेन्द्रियाश्च। भवान्तरप्राप्तिबिधुरा सुक्ताः धर्म्माधर्म्माकाशास्तिकायास्ते एकत्वशालिनो निष्क्रियाश्च द्रव्यस्य देशान्तरप्राप्तिहेतवः। तत्र धर्म्माधर्म्मौ प्रसिद्धौ आलोकेनाविच्छिन्ने नभसि लोकाकाशपदवेदनीये सर्व्वत्रावस्थितिगतिस्थित्युपग्रहो धर्म्माधर्म्मयोरुषकारः अतएव धर्म्मास्तिकायः प्रवृत्त्यनुमेयः अधर्म्मास्तिकायः स्थित्यनुमेयः अन्यवस्तुप्रदेशमध्येऽन्यम्य वस्तुनः प्रवेशोऽवगाहः तदाकाशकृत्यम्। स्पर्शरसवर्णवन्तः पुद्गलाः ते च द्विविधाः अणवः स्कन्धाश्च भोक्तुमशक्या अणवः द्व्यणुकादयः स्कन्धाः। तत्र द्व्यणुकादिस्कन्धभेदादण्वादिरुत्पद्यते अण्वादिसंघातात् द्व्यणुकादिरुत्पद्यते क्वचिद्भेदसंघाताभ्यां स्कन्धोत्पत्तिः। अत एव प्रयन्ति गलन्तीति पुद्गलाः। कालस्यानेक- प्रदेशत्वाभावेनाऽस्तिकायत्वाभावेऽपि द्रव्यत्वमस्ति तल्लक्षणयोगात् तदुक्तं गुणपर्य्योयवद्द्रव्यमिति। द्रव्याश्रया निर्गुणाः गुणा यथा जीवस्य ज्ञानत्वादिसामान्यरूपाः पुद्गलस्य रूपत्वादिसामान्यस्वभावाः धर्म्माधर्म्माकाशकायानां यथासम्भवं गतिस्थित्यवगाहहेतुत्वादिसामान्यानि गुणाः। तस्य द्रव्यस्योक्तरूपेण भवनमुत्पादः तद्भावः परिणामः पर्य्यायः इति पर्य्यायाः यथा “जीवस्य घटादिज्ञानसुखक्लेशादयः पुद्गलस्य नृत्पिण्टघटादयः धर्म्मादीनां गत्यादिविशेषाः अतएव षट् द्रव्याणीति प्रसिद्धिः। केचन सप्त तत्त्वानीति वर्णयन्ति तदाह जीवाजीवास्रवबन्धसंवरनिर्जरमोक्षास्तत्त्वानीति”। तत्र जीवाजीवौ निरूपितौ आस्रवो निरूप्यते औदारिकादिकायादि चलनद्वारेणात्मनश्चलनं योगपदवेदनीयमास्रवः यथा सलिलावगाहिद्वारं नद्यास्रवणं कारणत्वादास्रव इति निगद्यते तथा योगप्रणाडिकया कर्मास्रवतीति स योग आस्रवः। यथा आर्द्रं वस्त्रं समन्ताद्वा नीतं रेणुजातमुपादत्ते तथा कषायजलार्द्र आत्मा योगानीतं कर्म्म सर्व्वप्रदेशैर्गृह्णाति यथा वा निष्टप्तायःपिण्डे जले क्षिप्ते अम्भः समन्ताद् गृह्णाति तथा कषायोष्णो जीवो योगानीतं कर्म्म समन्तादादत्ते। कषति हिनस्त्यात्मानं कुगतिप्रापणादिति कषायःक्रोधो मानो माया लोभश्च। स द्विविधः शुभाशुभभेदात् तत्राहिंसादिः शुभः काययोगः सत्यमितहितभाषणादिः शुभो वाम्योगः। तदेतदास्रवभेदप्रभेदजातं कायवाङ्मनःकर्म्मयोगः स आस्रवः शुभः पुण्डस्य, अशुभः पापत्येत्यादिना सूत्रसन्दर्भेण ससंरम्भमभाणि। अपरे त्वेवं मेनिरे आस्रवयति पुरुषं विषयेष्विन्द्रियप्रवृत्तिरास्रवः, इन्द्रियद्वारा हि पौरुषं ज्योतिर्विषयान् स्पृशद्रूपादिज्ञानरूपेण परिणमत इति। मिथ्यादर्शनाविरतिप्रमादकषायवशाद्योगवशाच्चात्मा सूक्ष्मैकक्षेत्रावगाहिनामनन्तान्तप्रदेशानां पुद्गलानां कर्स्पबन्घयोग्यानामादानमुपश्लेपणं यत् करोति स बन्धः। तदुक्तं “सकषायत्वाज्जीवः कर्म्म भावयोग्यान् पुद्गलानादत्तेस बन्ध” इति। तत्र कषायग्रहणं सर्व्वबन्धहेतूपलक्षणार्थम्। बन्धहेतून् पपाठ वाचकार्य्यः “मिथ्यादर्शनाविरतिप्रमादकषाया बन्धहेतवः” इति। मिथ्यादर्सनं द्विविधं मिथ्याकर्म्मोदयात् परोपदेशानपेक्षं तत्त्वाश्रद्धानं नैसर्गिकमेकम् अपरं परोपदेशजम्। पृथिव्यादिषट्कापादानकं षडिन्द्रियासंयमनञ्च अविरतिः।। पञ्चसभितिगुप्तिष्वनुत्साहः प्रमादः। कषायः क्रोधादिः। तत्र कषायान्ताः स्थित्यनुभावबन्धहेतवः प्रकृतिप्रदेशबन्धहेतुर्योग इति विभागः। बन्धश्चतुर्विध इत्युक्तं प्रकृतिस्थित्यनुभावप्रदेशास्तु तद्विधय इति यथा निम्बगुडादेस्तिक्तत्वमघुरत्वादिस्वभावः एवमावरणीयस्य ज्ञानदर्शनावरणत्वमादित्यप्रभोच्छेदकाम्भोधरवत् प्रदीपप्रभातिरीधायककुम्भवच्च सदसद्वेदनीयस्य सुखदुःखोत्पादकत्वमसिधारामधुलेहनवद्दर्शनमोहनीयस्य तत्त्वार्थाश्रद्धानकारित्वं दुर्जनसङ्गवच्चारित्रे मीहनीयस्यासंयमहेतुत्वं मद्यमदवदायुषो देहबन्धकर्तृत्वं जलवत् नाम्नो विचित्रनामकारित्वं चित्रिकवद्गोत्रस्योच्चनीचकारित्वं कुम्भकारवद्दानादोनां विघ्ननिदानत्वमन्तरायस्य स्वभावः कोशाध्यक्षवत्। सोऽयं प्रकृतिवन्धोऽष्टविधः द्रव्यकर्म्मावान्तरभेदमूलप्रकृतिवेदनीयः। तथावोचदुमास्वातिवाचकाचार्य्यः “आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तराया” इति तद्भेदञ्च समगृह्णात् पञ्चनवाष्टाविंशतिचतुर्द्विचत्वारिंशद्द्विपञ्चदशभेदा यथाक्रममिति। एतच्च सर्वं विद्यानन्दादिभिर्विवृतमिति विस्तरभयान्न प्रस्तू यते। यथा अजागोमहिष्यादिक्षीराणामेतावन्तमनेहसं माधुर्यस्वभावादप्रच्युतिस्थितिः तथा ज्ञानावरणादीनां मूलप्रकृतीनामादितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटिकोट्यः परा स्थितिरित्याद्युक्तं कालदुर्द्धानवत् स्वोयस्वभावादप्रच्युतिस्थितिः। यथा अजागोमहिष्यादिक्षीराणां तीब्रमन्दादिभावेन स्वकार्य्यकारणे सामर्थ्यविशेषोऽनुभावः। तथा कर्मपुद्गलानां कार्य्यकरणे सामर्थ्य विशेषोऽनुभावः कर्म्मभावपरिणतपुद्गलस्कन्धानामनन्तान्तप्रदेशानाम् आत्मप्रदेशानुप्रवेशः प्रदेशबन्धः। आस्रवनिरोधः संवरः येनात्मनि प्रविशत् कर्म्म प्रतिषिध्यते स गुप्ति समित्यादिः संवरः। संसारकारणाद्योगादात्मनोगोपनं गुप्तिः। सा त्रिविधा कायवाङ्मनोनिग्रहभेदात्। प्राणिपीडापरिहारेण सम्यगयनं समितिः सा ईर्ष्याभाषादिभेदात् पञ्चधा। प्रपञ्चितञ्च हेमचन्द्राचार्य्यैः “लोकातिवाहिते मार्गे चुम्बिते भास्वदंशुभिः। जन्तुरक्षार्थमालोक्य गतिरोर्ष्या मता सताम्।। आपद्य रागतः सर्व्वजनीनं मितभाषणम्। प्रिया वाचंयमानां सा भाषासमितिरुच्यते।। द्विचत्वारिंशता भिक्षादोषैर्नित्यमदूषितम्। मुनिर्यदन्नमादत्ते सैषणासमितिर्मता।। आसनादीनि संवीक्ष्य प्रतिलङ्घ्य च यत्नतः। गृह्णीयान्निक्षिपेद्ध्यायेत् सा दानसमितिः स्मृता।। कफमूत्रमलप्रायैर्निर्जन्तु जगतीतले। “यत्नाद्यदु त्सुजेत् साधुः सोत्सर्गसमितिर्भवेत्”।। अत एव, “आस्रवः स्रोतसो द्वारं संवृणोतीति संवरः” इति निराहुः तदुक्तमभियुक्तैः “आस्रवो भवहेतुः स्यात् स्वंवरो मोक्षकारणम्। इतीयमार्हती मुष्टिरन्यदस्याः प्रपञ्चनम्”।। अर्जितस्य कर्म्मणस्तपःप्रभृतिभिर्निर्जरणं निर्जराख्यं तत्त्वं चिरकालप्रवृत्तकषायकलापं पुण्यं सूखदुःखे च देहेन जरयति नाशयति केशोल्लुञ्चनादिकं तप उच्यते। सा निर्जरा द्विविधा यथाकालौपक्रमिकभेदात् तत्र प्रथमा यस्मिन् काले यत् कर्म्म फलप्रदत्वेनाभिमतं तस्मिन्नेव काले फलदानाद्भवन्ती निर्जरा कामादिपाकजेति च सा गोयते। यत् कर्म्म तपोबलात् स्वकामनयोदयावलिं प्रवेश्य प्रपद्यते तत् कर्म निर्जरा। यदाह “संसारवीजभूतानां कर्म्मणां जरणादिह। निर्जरा सम्मता द्वेधा सकामा कामनिर्जरा।। स्मृता सकामा यमिनामकामा त्वन्यदेहिनामिति”। मिथ्यादर्शनादीनां बन्धहेतूनां निरोधः अभिनवकर्म्माभावात् निर्जराहेतुसन्निधानेनार्ज्जितस्य कर्म्मणो निरसबादात्यन्तिककर्म्ममोक्षणं सोक्षः बन्धहेतुभवहेतुनिर्जराभ्यां कृत्स्नकर्म्मविप्रमोक्षणं मोक्ष इति तदनन्तरमूर्द्ध्वं गच्छत्यालोकान्तात् यथा हस्तदण्डादिभ्रमिप्रेरितं कुलालचक्रमुपरतेऽपि तस्मिन् तद्बलादेवासंस्कारक्षयं भ्रमति तथा भवस्थेनात्ममा अपवर्गप्राप्तये बहुशो यत् कृतं प्रणिधानं मुक्तस्य तदमावेऽपि पूर्ब्बसंस्कारादालोकान्तं गमनमुपपद्यते यथा वा मृत्तिकालेपकृतमलावूद्रव्यं जलेऽधःपतति पुनरपेतमृत्तिकाबन्धमूर्द्ध्वं गच्छति तथा कर्म्मरहित आत्मा असङ्गत्वादूर्द्ध्वं गच्छति बन्धच्छेदादेरण्डवीजवच्चोर्द्ध्वगतिस्वभावाच्चाग्निशिस्वावत्। अन्योन्यं प्रदेशानुप्रवेशे सत्यविभागेनावस्थानं बन्धः परस्परप्राप्तिमात्रं सङ्गः। तदुक्तं “पूर्व्वप्रयोगादसङ्गत्वाद्बन्धच्छेदात्तथा गतिपरिणामाच्चाविरुद्धं कुलालचक्रवद्व्यपगतलेपालाबुवदेरण्डवीजवदग्निशिखावच्चेति”। अतएव पठन्ति “गत्वागत्वा निवर्त्तन्ते चन्द्रसूर्य्यादयो ग्रहाः। अद्यापि न निवर्त्तन्ते त्वालोकाकाशमागता” इति।। अन्ये तु गतसमस्तक्लेशतद्वासनस्यानावरणज्ञानस्य सुखैकतानस्यात्मन उपरिदेशावस्थानं मुक्तिरित्यास्थिषत। एवमुक्तानि सुखदुःखसाघनाभ्यां पुण्यपांपाभ्यां सहितानि नव पदार्थान् केचनाङ्गीचक्रुः। तदुक्तं सिद्धान्ते “जीवाजीवौ पुण्यपापयुतावास्रवः संवरो निर्जरणं बन्धो मोक्षश्च नव तत्त्वानीति”। सङ्ग्रहेप्रवृत्ता वयमुपरताः स्म। अत्र सर्व्वत्र सप्तभङ्गिनयाख्यं न्यायमवतारयन्ति जैनाः “स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति च। स्यादवक्तव्यः स्यादस्ति चावक्तव्यः स्यान्नास्ति चावक्तव्यः स्यादस्ति च नास्ति चावक्तव्य इति”। तत्सर्व्वमनन्तवीर्य्यः प्रत्यपीपदत् “तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत्। स्यान्नास्तीति प्रयोगः स्यात्तन्निषेघे विवक्षिते।। क्रमेणोभयवाञ्छाथां प्रयोगः समुदायभाक्। युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः।। आद्योवाच्यविवक्षायां पञ्चमो भङ्ग इष्यते। अन्त्योवाच्याविवक्षायां षष्ठोभङ्गसमुद्भवः।। समुच्चयेन युक्तश्च सप्तमो भङ्ग उच्यत इति”। स्याच्छब्दः स्वल्वयं निपातः तिङन्तप्रतिरूपकोऽनेकान्तद्योतकः। यथोक्त्रम् “वाक्येष्वनेकान्तद्योति गम्यं प्रति विशेषणम्। स्यान्निपातोऽर्थयोगित्वात्तिङन्तप्रतिरूपक” इति।। यदि पुनरेकान्तद्योतकः स्याच्छब्दोऽयं स्यात्तदा स्यादस्तोति वाक्ये स्यात्पदमनर्थकं स्यात् अनेकान्तद्योतकत्वे तु स्यादस्ति कथञ्चिदस्तीति स्यात्स्यात्पदात् कथञ्चिदिति अयमर्थो लभ्यते इति नानर्थक्यम्। तदाह “स्याद्वादः सर्व्वथैकान्तत्यागात् किं वृततद्विधेः। सप्तभङ्गिनयापेक्षो हेयादेयविशेषकृदितिः”।। यदि वस्त्वल्येकान्ततः सर्व्वथा सर्व्वत्र सर्व्वात्मनास्तीति न उपादित्साजिहासाभ्यां क्वचित् कदा केनचित्प्रवत्तेत निवर्त्तेत वा प्राप्तप्रापणीयत्वहेयहानानुपपत्तेश्च। अनेकान्तपक्षे तु कथञ्चित् केनचित् सत्त्वेन हानोपादाने प्रेक्षावतामुपपद्येते। किञ्च वस्तुनः सत्त्व स्वभावः असत्त्वं येत्यादि प्रष्टव्यं न तावदस्तित्वं वस्तुनः स्वभाव इति समस्ति षटोऽस्तीत्यनयोः पर्य्यायतया युगपत्प्रयोगायोगात् नास्तीति प्रयोगविरोधाच्च एवमन्यत्रापि योज्यम्। यथोक्तम् “घटोऽस्तीति न वक्तव्यं सन्नेव हि यतो घटः। नास्तीत्यपि न वक्तव्यं विरोधात् सदसत्त्वयोरित्यादि” तस्मादित्थं वक्तव्यं सदसत्सदसदनिर्ब्धचनीयवादभेदेन प्रतिवादिनश्चतुर्विधाः पुनरप्यनिर्ब्धचनीयमतेनामिश्रितानि सदसदादिमतानीति त्रिविधाः तान् प्रति किं वस्त्वस्तीत्यादिपर्य्यनुयोगे कथञ्चिदस्तेत्वादिप्रतिवचनसम्भवेन ते वादिनः सर्ब्बे निर्विण्णाः सन्तः तूणीमासत इति सम्पूर्णार्थविनिश्चायिनः स्याद्वादमङ्गीकुर्व्वतस्तत्र तत्र विजय इति सर्व्वमुपपन्नम्। यदवोचदाचार्य्यः स्याद्वादमञ्जर्य्याम्। “अनेकान्तात्मकं वस्तु गोचरः मर्व्वसंविदाम्। एकदेशविशिष्टोऽर्षो न यस्य विषयो मतः।। न्यायानामेकनिष्ठानां प्रवृत्तौ श्रुतवर्त्मनि। सम्पूर्णार्थविनिश्चायि स्याद्वस्तु श्रुतमुच्यते “अन्योन्यपक्षप्रतिपक्षभावाद्यथापरे मत्सरिणः प्रबादाः। नयानशेषानविशेषमिच्छन्नपक्षपाती समयस्तथार्हतः” इति।। जिनदत्तसूरिणा जैनं मतमित्थमुक्तम्। “बलभोगोपभोगानामुभयोर्दानलाभयोः। अन्तरायस्तथा निद्रा भीरज्ञानं जुगुप्सितम्। हिंसा रत्यरती रागद्वेषौ रतिरतिस्मरः। शोको मिथ्यात्वमेतेऽष्टादश दीषा न यस्य सः। जिनो देवोगुरुः सम्यक् तत्त्वज्ञानोपदेशकः। ज्ञानदर्शनचारित्राण्यपवर्गस्य वर्त्मनि। स्याद्वादस्य प्रमाणे द्वे प्रत्यक्षमनुमापि च। नित्यानित्यात्मलं सर्ब्धंनव तत्त्वानि सप्त वा। जीवाजीवौ पुण्यपापे चास्रवःसंवरोऽपि च। बन्धो निर्जरणं मुक्तिरेषां व्याख्याधुनोच्यते। चेतनालक्षणो जीवः स्यादजीवस्तदन्यकः। सत्कर्म्मपुद्गलाः पुण्यं पापं तस्य विपर्य्ययः। आस्रवः कर्म्मणां बन्धो निर्जरस्तद्वियोजनम्।। अष्टकर्म्मक्षयान्मीक्षोऽथान्तर्भावश्च कैश्चन। पुण्यस्य संस्रवे पापस्यास्रवे क्रियते पुनः।। लब्धानन्तचतुष्कस्य लोकागूढस्य चात्मनः। क्षीणाष्टकर्म्मणोमुक्तिर्निर्व्यावृत्तिर्जिनोदिता सरजोहरणा भैक्षभुजो लुञ्चितमूर्द्धजाः। श्वेताम्बराः क्षमाशीलाः निःसङ्गा जैनसाधवः।। लुञ्चिताः पिच्छिकाहस्ताः पाणिपात्रा दिगम्बराः। ऊर्द्ध्वाशिनो गृहे दातुर्द्वितीयाः स्युर्जिनर्षयः।। भुङ्क्ते न केबलं न स्त्रीं मोक्षमेति दिगम्बरः। प्राहुरेषामयं भेदोमहान् श्वेताम्बरैः सहेति”।।

अर्हन्त = पु० अर्ह–बा० झ। जैनदेवे अर्हति।

अर्हन्ती = स्त्री अर्हतः पूज्यस्य भावः ष्यञ् नुम् ङीष् यलोपः। पूज्यतायाम्–“श्रौत्रार्हन्तोचणैर्गुण्यैः” सि० कौ०।

अर्हा = स्त्री चु० अर्ह–अङ्। पूजायाम्। युच् क्तिनएव बाधकः

अर्हित = त्रि० अर्ह–क्त। पूजिते। “अभ्यर्हितञ्च” का० वा०

अर्ह्य = त्रि० चु० अर्ह–कर्म्मणि ण्यत्। १ प्राप्तुंयोग्ये २ स्तोतुं योग्ये च। चु० अर्ह–यत्। ३ पूज्ये।

अल = भूषणे, वारणे, भ्वा० उभ० सक० पर्य्याप्तौ अक० सेट्। अलति ते आलीत् आलिष्ट।

अल = न० अल–अच्। १ वृश्चिकपुच्छस्थे कण्टकाकारे पदार्थे। हेम०। २ हरिताले रत्नमा०।

अलक = पु० अलति भूषयति मुखम् अल–क्कुन्। १ ललाटस्थे छिन्नाग्रे कुटिलकेशे, “कलकलोऽलकलोलदृशाऽन्यया” माघः “ललाटिकाचन्दनधूसरालका” कुमा० “अस्पृष्टालकबे- ष्टनौ” “अलकेषुचमृरेणुश्चूर्ण्णप्रतिनिधीकृतः” इति च रघः। “अङ्गलिप्तकुङ्कमे२” च। क्षिपकादित्वात् कापि नेत्त्वम्। अलका। अष्टवर्षावघिदशवर्षपर्य्यन्तवयस्कायां ३ कन्यायां ४ कुवे रपूर्य्याञ्च स्त्री। साच पुरी मेरुशिखरोपरिस्थेति अग्निलोकशब्दे दर्शितम्। तस्याः स्वरूपमुम् “सभा वैश्रवणी राजन्! शतयोजनमायता। विस्तीर्णसप्ततिश्चैव योजनानि सितप्रभा। तपसा निर्ज्जिता राजन्! स्वयं वैश्रवणेन सा। शशिप्रभा प्रावरणा कैलासशिखरोपमा। गुह्य कैरुह्यमाना सा खे विषक्तेव शोभते। दिव्या हेममयैरुच्चैः प्रासादैरुपशोभिता। महारत्नवती चित्रा दिव्यगन्धा मनोरमा। सिताभ्रशिखराकारा प्लवमानेव दृश्यते। दिव्या हेममयैरङ्गैर्विद्युद्भिरिव चित्रिता। तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः। स्त्रीसहस्रैर्वृतः श्रीमनास्ते ज्वलितकुण्डलः। दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते। दिव्यपादोपधाने च निषण्णः परमासने। मन्दाराणा मुदाराणां वनानि परिलोडयन्। सौगन्धिकवनानाञ्च गन्धं गन्धवहो वहन्। नलिन्या श्चालकाख्याया नन्दनस्य वनस्य च। शीतोहृदयसंह्लादी वायुस्तमुपसेवते” भा० स० प०। गन्धवतीं नाम वायुपुरीं वर्ण्णयित्वा काशी० ख० “ततःपरं कुवेरस्य श्रीमत्येषालका पुरीत्युक्तम्। “अलफामतिवाह्यैव” कुमा०।

अलकनन्दा = स्त्री अलति पर्य्याप्तोति क्वुन् अलका नन्दयतीति अच् नन्दा कर्म्मं०। १ गङ्गायाम्। “विष्णुपदी विष्णुपदात् पतिता मेरौ चतुर्द्धास्मात्। विष्कम्भाचलस्रस्तसरःसङ्गता गता वियता। सीताख्या भद्राश्वं सालकनन्दा च भारतं वर्षम्” सि० शि०। “तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्वहूनि गिरिकूटानि अतिक्रम्य हेमकूटहिमकूटान्यतिरभसरंहसा लुठन्ती भारतमभि वर्षं दक्षिणस्यां दिशि लवणजलधिमभिप्रविशति” भा० ५ स्क०। अलकैर्नन्दति अच्। २ कन्यायाम्। सा हि अलकैस्तुष्यति।

अलकप्रभा = स्त्री अलका पर्य्याप्ता प्रभा यस्वाः। कुवेरपुर्य्यामलकाख्ययाम्।

अलकप्रिय = पु० अलकान् प्रीणाति चिक्कणीकरोति प्री–क। (पियासाल) पीतसालवृक्षे।

अलकाधिप = पु० अलकाया अधिपः ६ त०। कुवेरे। अलकेश्वरादयोऽप्यत्र। “अत्यजीवदमरालकेश्वरौ” रघुः।

अलक्त = पु० न रक्नोऽस्मात् ५ ब० रस्य लत्वम्। १ लाक्षारसे, स्वार्थे कन्। अलक्तकोऽप्यत्र २ तद्धेतौ लाक्षायाञ्च। “अलक्ताकाङ्कां पदवीं ततान” कुमा० रघुश्च। “चिरोज्झि- तालक्तकपाटलेन” कुमा० गोरचनालक्तककुङ्कुमेनेति” तन्त्रम्।

अलक्षण = न० लक्षणमनुमापकं सुचिह्नं न० त०। १ अननुमापके, सुचिह्नभिन्ने २ दुर्लक्षणे च। लक्षणञ्च इतरभेदानुमापकं लिङ्गम् यथा पृथिव्यागन्धवत्त्वम् जलस्य स्नेह्वत्त्वम्। शुभसूचकं चिह्नविशेषश्च लक्षणं तच्च लक्षणशब्दे यक्ष्यते। तदुभयभिन्नमलक्षणम् “आचाराद्धनमक्षय्यमाचारोहन्त्यलक्षणम्” मनुः। नास्ति लक्षणं अनुमापकोऽव्यभिचारिहेतुः अशुभसूचकहेतुश्च यस्य। ३ तद्वति त्रि० “आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्” मनुः। “क्लेशावहा भर्त्तुरलक्षणाहम्” रघुः। “अलक्षणा भवन्ति यद्वै नास्ति तदलक्षणमसन्तम्” शत० ब्रा०। “निरृतीः कृष्णास्तुषपक्वास्तिस्रोऽलक्षणाः” कात्या० १७, २४, २३।

अलक्षित = त्रि० लक्ष–क्त न० त०। १ अज्ञाते २ लक्षणेनाननुमिते “अलक्षिताभ्युत्पतनो नृपेण” रघुः “वपुर्विरूपाक्ष मलक्षिता जनिः काव्य० प्र०। ३ अकृतचिह्ने च। “दक्षिणेन द्वारं सोमक्रयणी तिष्ठत्यनुक्षिता व्यङ्गा” कात्या०। ७, ६, १४, “अलक्षिता अनङ्किता” कर्क०।

अलक्ष्मी = स्त्री विरोधार्थे नञ् त०। लक्ष्मीविरुद्धायां निरृतौ “आलक्ष्मीति” ख्यातायाम्। “अलक्ष्मीः कालकर्ण्णि च” पुरा० “अलक्ष्मीरपक्रामति” सुश्रुतः।

अलक्ष्य = त्रि० न लक्ष्यते लक्ष–कर्म्मणि यत् न० त०। १ अज्ञेये २ दुर्ज्ञेये। “वपुर्विरूपाक्षमलक्ष्यजन्मता” कुमा०। न लक्ष्या लक्षणया बोध्या। ३ लक्षणाबोध्यभिन्ने “न वाच्यत्वादिकं तस्य” इत्यस्य व्याख्याने ‘आदिशब्दादलक्ष्यत्वादि’ सा० द०। नास्ति लक्ष्यं व्याजोयस्य। ४ व्याजशून्ये त्रि०।

अलगर्द्द = पु० लगति स्पृशति क्विप् लग् अर्द्दयति अर्द्द–अच् अल् स्प्रशन् सन् अर्दो न भवति। १ विषशून्थे जलव्याले पृषो० धत्वम् अलः पर्य्याप्तो गृघ्नोति वा गृध–अच् वा। अलगर्द्धोऽप्यत्र। दर्वीकरगणनायां सुश्रुतः “महाशिरा अलगर्द्द आशीविष” इति। २ जलायुकाभेदे स्त्री। “अथ जलायुका वक्ष्यमे। जलमासामायुरिति जलायुका जलंमासामोक इति जलौकसः। ता द्वादश तासां सविषाः षट् तावत्य एव निर्विषाः। तत्र सविषाः कृष्णा कर्व्वुरा अलगर्दा इन्द्रायुधा सामुद्रिका गोचन्दनाचेति। “रोमशा महापार्श्वा कृष्णमुख्यलगर्द्दा” इति च सुश्रु०।

अलग्न = त्रि० न लग्नः संसृष्टः। लग्नभिन्ने असंमृष्टे “अलग्नमिव ह वै वाग्वदेद्यन्मनो न स्यात्” शत० ब्रा० “अलग्नमिव वक्तव्यपदार्थेन सहासंसृष्टम्” भा०। अलग्लमित्यपाठः। भाष्यानुक्तेः। ज्योतिषोक्ते पापाक्रान्तादिदुष्टलम्मे न०।

अलघु = त्रि० न लघुः विरोधे न० त०। लघुवर्णभिन्ने १ गुरुवर्णे आकारादौ २ गोरवयुक्ते लाघवशून्ये। “जवनमलघुपीवरोरुकृच्छ्रा” माघः २ दीर्घे च “अलघुप्रसारितविलोचनाञ्जलिः” माघः। स्त्रियां षा ङीप्।

अलङ्करण = न० अलम् + कृ–भावे ल्युट्। १ भूषायाम्। करणे ल्युट्। २ वलयादो भूषणे। आवसथोन्मर्दनालङ्करणदन्त प्रक्षालनान्यध्वर्योरदीक्षितस्य” कात्या० ८, ९, २८,। न चालङ्करणं धार्य्यं क्वचिद्देहेतया पुनः” विधवाधर्म्मे पुरा०।

अलङ्करिष्णु = त्रि० अलम् कृ–इष्णुच्। भूषके मण्डनकरणशीले। “अलङ्करिष्णवस्ते च शब्दमर्थ मुभौ त्रिधा” अग्निपु०।

अलङ्कर्त्तृ = त्रि० अलम् + कृ–तृच्। भूषणर्त्तरि स्त्रियां ङीप्।

अलङ्कर्म्मीण = त्रि० अल समर्थः कर्म्मणे ख। कर्म्मक्षमे।

***