अम्बु = न० अबि शब्दे–उण्। १ लग्नावधिके चतुर्थस्थाने २ (बाला) इति ख्यातायामोषधौ ३ जले “गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः का० प्र०। “छातेतराम्बुच्छटा” का० प्र० “विश्वासाय विहङ्गानामालबालाम्बुपायिनाम्। “तौ सरांसि रसवद्भिरम्बुमिः” इति च रघुः। “फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादनम्” मनुः। तच्च जलम् रसतन्मात्रादुत्पन्नो भूतविशेष इति सांख्याः पञ्चीकृतेभ्य एव पञ्चभ्यो भूतेभ्यः स्थूलतया उत्पन्नमिति वेदान्तिनः जलभूतांशबाहुल्यात् जलत्वव्यवहारः “वैशेष्यात्तद्वादः” शा० सूत्रात्। तस्य च रूपरसस्पर्शशब्दा विशेषगुणाः “योयोयावतिथश्चैषां स स तावद्गुणः स्मृत” इति मनुना भूतमध्ये चतुर्थस्य जलस्य चतुर्गुणत्वाभिधानात् “शब्दस्पर्शौ रूपरसौ सलिलस्य गुणा अमी” भा० शा० प० उक्तेश्च “जले चुलचूलध्वनिः। शीतस्पर्शः शुक्लरूपं रसो माघुर्य्यमीरितम्” पञ्चद०। “अग्नेराप” इति श्रुतेस्तस्याग्निप्रभव- त्वम् यथोक्तं “तत्तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत तस्माद्यत्र क्व च शोचति स्वेदते पुरुषस्तेजस एव तदध्यापो जायन्ते” छा० उ०। “तेज इति प्रसिद्धं लोके दग्धृपक्तृप्रकाशकं रोहितञ्चेति तत्सृष्टं तेज ऐक्षत। तेजोरूपत्वेन स्थितं सदैक्षतेत्यर्थः। बहु स्यां प्रजायेयेति पूर्ब्बवत्तदपोऽसृजत। आपो द्रवाः स्निग्धाः स्यन्दित्यः शुक्लाश्चेति प्रसिद्धं लोके।। यस्मात्तेजसः कार्य्यभृता आपस्तस्माद्यत्र क्व च देशे काले वा शोचति सन्तप्यते स्वेदते प्रस्विद्यते वा पुरुषस्तेजस एव तदापोऽघिजायन्ते। ता आप ऐक्षन्तेति पूर्व्ववदेव आकारसंस्थितं सदैक्षतेत्यर्थः भा०। “तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति “सेयं देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत्” छा० उ०।। “सेयं तिस्रो देवता अनुप्रविश्य स्वात्मावस्थे वीजभूते अव्याकृते नामरूपे व्याकरवाणीति तासाञ्च तिसॄणां देवतानामामेकैकां त्रिवृतं करवाणि एकैकस्याः त्रिवृत्करणे एकैकस्याः प्राधान्यं द्वयोर्द्वयोर्गुणभावोऽन्यथा हि रज्ज्वा इवैकमेव त्रिवृत्करणं स्यात् न तु तिसृणां पृथक् त्रिवृत्करणमिति। एवं हि तेजोऽबन्नानां पृथङ्गामप्रत्ययलाभः स्यात्तेज इदम्” इमा आपः, अऽन्नमिदमिति च पृथङ्नामप्रत्ययलाभे देवतानां सम्यग्व्यावहारस्य प्रसिद्धिः प्रयोजनं स्यात्। एवमीक्षित्वा सेयं देवतेमास्तिस्रो देवता अनेनैव यथोक्तेनैव जीवेन सूर्यबिम्बवदन्तः प्रविश्य वैराजं पिण्डं प्रथमं देवतादीनां च पिण्डमनुप्रविश्य यथासङ्कल्पमेव नामरूपे व्याकरोदसौनामायमिदंरूप इति तासाञ्च देवतानां गुणप्रथानभावेन त्रिवृतं त्रिवृतमेकैकामंकरोत्कृतवती देवता” भा०। “अद्भिः सोम्य! श्रुङ्गेन तेजो मूलमन्विच्छ” छा० उ० “अद्भिः शुङ्गेन तेजो मूलं कार्येण कारणम् अन्विच्छ “तेजो वा अद्भ्यो भूयस्तद्वा एतद्वायुमुपगृह्याकाशमभितपति तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव तत्पूर्ब्बं दर्शयित्वाऽथापः सृजते तदेतदूर्द्ध्वाभिश्च तिरश्चीभिश्च विद्युद्भिर्महाह्रादाश्चरन्ति तस्मादाहुर्विद्योतते स्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्व्वं दर्शयित्वाऽथापः सृजते तेज उपास्वेति” छा० उ०।। “तेजो वाऽद्भ्यो भूयः, तेजसोऽप्कारणत्वात्। कथमप्कारणत्वमित्याह। यस्मादब्योनिस्तेजस्तस्मात्तद्वा एतत्तेजोवायुमागृह्यावष्टभ्य स्वात्मना निश्चलीकृत्य वायुमाकाशमभिव्याप्नुवत्तपति यदा, तदाहुर्लौकिकाः अभिशोचति सन्तपति सामान्येन जगन्ति तपति देहानती वर्षि- ष्यति वै इति। प्रसिद्धं हि लोके कारणमभ्युद्यतं दृष्टवतः कार्यं भविष्यतीति विज्ञानम्।। तेज एव तत्पूर्ब्बमात्मानमुद्भूतं दर्शयित्वाऽथानन्तरमपः सृजतेऽतोऽप्स्रष्टृत्वाद्भूयोऽद्भ्यस्तेजः। किञ्चान्यत्तदेतत्तेज एव स्तनयित्नुरूपेण वर्षहेतुर्भवति। कथं ऊर्द्धाभिश्चोर्द्ध्वगाभिर्विद्युद्भिस्तिरश्चीभिश्च तिर्यग्गताभिश्च महाह्रादाः स्तनयनशब्दाश्चरन्ति। तस्मात्तद्दर्शनादाहुर्लौकिका विद्योतते स्तनयति वर्षिष्यति वा इत्याद्युक्तार्थमतस्तेज उपास्वेति भा०। नैयायिकादयस्तु परमाणुविशेषेभ्य एव तस्योत्पत्तिः। तच्च द्विविधं नित्यमनित्यञ्च नित्यं परमाणुरूपमनित्यं द्व्यणुकादि। प्रकारान्तरेण अनित्यमपि त्रिविधं देहेन्द्रियविषयभेदात्। देहः अयोनिजः वरुणचन्द्रलोकयोः श्रुत्यादिप्रसिद्धः इन्द्रियं रसनं शब्दादिषु मध्ये रसमात्रव्यञ्जकत्वात् तस्य जलीयत्वम्। द्वणुकादिकमारभ्य हिम करकसिन्धुपर्य्यन्तं विषयः उपभोग्यत्वात्। स्पर्शसंख्यापरिमितिसंयोगविभागपरत्वापरत्वानीत्यष्टौ वेगः गुरुत्वं रूपं रसःस्नेहश्च जलस्येते चतुर्द्दशसमान्यविशेषगुणाः यथोक्त “स्पर्शादयोऽष्टौ वेगश्च गुरुत्वञ्च द्रवत्वकम्। रूपं रसस्तथास्नेहो वारिण्येते चतुर्द्दश। वर्ण्णःशुल्कोरसस्पर्शौ। जले मधुरशीतलौ। स्नेहस्तत्रद्रवत्वं तु सांसिद्धिकमुदाहृतम्”। नित्यतादि प्रथमवत् किन्तु देहमयोनिजम् इन्द्रियं रसनं सिन्धुहिमादिविषयो मतः” भाषा०। एवं स्थूलभूतजलस्य उपाधिभेदेन सुश्रुते गुणदोषादिविवेकाय भेदा दर्शिता यथा “पानीयमान्तरीक्षमनिर्देश्यरसममृतं जीवनं तर्पणं धारणमाश्वासजननं श्रमघ्नं क्लमपिपासामदमूर्च्छातन्द्रानिद्रादाहप्रशमनमेकान्ततः पथ्यतमञ्च तदेवावनौ पतितमन्यतमं रसमुपलभते स्थानविशेषान्नदीनदसरस्तडागवापीकूपचुण्टी प्रस्रवणोद्भिद्विकिरकेदारपल्वलादिषु स्थानेष्ववस्थितमिति। तत्र लोहितकपिलपाण्डुपीतनीलशुक्लेष्ववनिप्रदेशेषु मधुराम्ललवणकटुतिक्तकषायाणि यथासङ्ल्यमुदकानि सम्भवन्तीत्येके भाषन्ते तत्तु न सम्यक् तत्र पृथिव्यादीनामन्योन्यानुप्रवेशकृतः सलिलरसो भवत्युत्कर्षापकर्षेण तत्र स्वगुण भूयिष्ठायां भूमावम्लं लवणञ्च। अम्बुगुणभूयिष्ठायां मधुरम्। तेजोगुणभूयिष्ठायां कटुकं तिक्तञ्च। वायुगुणभूयिष्ठायां कषायञ्च। आकाशगुणभूयिष्ठायामव्यक्तरसमव्यक्तं ह्याकाशमित्यतस्तत्प्रधानमव्यक्तरसत्वात् तत्पेयमान्तरीक्षालाभे। तत्रान्तरीक्षं चतुर्व्विधम्। तद्यथा। धारं कारं तौषारं हैममिति। तेषां धारं प्रधानं लघु- त्वात्तत्पुनर्द्विविधं गाङ्गं सामुद्रं चेति। तत्र गाङ्गमाश्वयुजे मासि प्रायशो वर्षति तयोर्द्वयोरपि परीक्षणं कुर्व्वीत शाल्योदनपिण्डमकुथितमविदग्धं रजतभाजनोपहितं वर्षति देवे वहिष्कुर्व्वीत स यदि मुहूर्त्तं स्थितस्तादृश एव भवति तदा गाङ्गं पततीत्यवगन्तव्यं वर्ण्णान्यत्वे सिक्थक्लेदे च सामुद्रमिति विद्यान्नतु तदुपादेयम्। सामुद्रमप्याश्व युजे मासि गृहीतं गाङ्गं पुनः प्रधानं तदुपाददीताश्वयुजे मासि, शुचिशुक्लविततपटैकदेशच्युतमथ वा हर्म्यतलपरिभ्रष्ट मन्यैर्व्वा शुचिभिर्भाजनैर्गृहीतं सौवर्णे राजते मृण्मये वा पात्रे निदध्यात्तत्सर्व्वकालमुपयुञ्जीत तस्यालाभे भौमम्। तच्चाकाशगुणबहुलं तत्पुनः सप्तविधम्। तद्यथा। कौपं नादेयं सारसं ताडागं प्रास्रवणमौद्भिदं चौण्टमिति तत्र वर्षास्वान्तरीक्षमौद्भिदं वा सेवेत महागुणत्वात् शरदि सर्व्वं प्रसन्नत्वात् हेमन्ते सारसं ताडागं वा, वसन्ते कौपं प्रास्रवणं वा ग्रीष्मेष्वेवं प्रावृषि चौण्टमनवमनभिवृष्टं सर्व्वञ्चेति।। कीटमूत्रपुरीषाण्डशवकोधप्रदूषितम्। तृणपर्णोत्करयुतं कलुषं विषसंयुतम्।। योऽवगाहेत वर्षासु पिबेद्वापि नवं जलम्। स वाह्याभ्यन्तरान् रोगान् प्राप्नुयात्क्षिप्रमेव तु।। तत्र यत् शैवालपङ्कहटतृणपद्मपत्रप्रभृतिभिरवच्छन्नं शशिसूर्य्यकिरणानिलैर्नाभिजुष्टं गन्धवर्णरसोपसृष्टञ्च तद्व्यापन्नमिति विद्यात्।। तस्य स्पर्शरूपरसगन्धवीर्य्यविपाकदोषाः षट् सम्भवन्ति। तत्र खरता पैच्छिल्यमौष्ण्यं दन्तग्राहिता च स्पर्शदोषाः। पङ्कसिकताशेवालबहुवर्णता रूपदोषाः। व्यक्तरसता रसदोषः। अनिष्टगन्धता गन्धदोषः। यदुपयुक्तं तृष्णागौरवशूलकफप्रसेकानापादयति स वीर्य्यदोषः। यदुपयुक्तं चिराद्विपच्यते विष्टभ्राति वा स विपाकदोष इति। त एते आन्तरीक्षे न सन्ति।। व्यापन्नानामग्निक्वथनं सूर्य्यातपप्रतापनं तप्तायःपिण्डसिकतालोष्ट्राणां वा निर्व्वापणं प्रसादनञ्च कर्त्तव्यं नागचम्पकोत्पलपाटलापुष्पप्रभृतिभिश्चाधिवासनमिति।। सौवर्णे राजते ताम्रे कांस्ये मणिमये तथा। पुष्पावतंसं भौमे वा सुगन्धि सलिलं पिबेत्।। व्यापन्नं वर्जयेन्नित्यं तोयं यद्वाप्यनार्त्तवम्। दोषसञ्जननं ह्येतन्नाददीताहितन्तुतत्।। व्यापन्नं सलिलं यस्तु पिबतीहाप्रसादितम्। श्वयथुं पाण्डुरोगञ्च त्वग्दोषमविपाकताम्।। श्वासकासप्रतिश्यायशूलगुल्मोदराणि च। अन्यान्वा विषमान् रोगान् प्राप्नुयात् क्षिप्रमेव च।। तत्र सप्त कलुषस्य प्रसादनानि भवन्ति। तद्यथा। कतकगोमेदकविषग्रन्थिशैवालमूलवस्त्राणि मुक्तामणिश्चेति। पञ्च निक्षेपणानि भवन्ति। तद्यथा। फलकं त्र्यष्टकं मुञ्चकलय उदकमञ्जिका शिक्यञ्चेति।। सप्त शीतीकरणानि भवन्ति प्रवातस्थापनमुदकप्रक्षेपणं यष्टिकाभ्रामणं व्यजनं वस्त्रोद्धरणं वालुकाप्रक्षेपणं शिक्यावलम्बनञ्चेति

अम्बुकण = पु० ६ त०। शीकरे जलविन्दौ स्त्रीत्येके।

अम्बुकण्ठक = पु० अम्बुनः कण्टकमिव। १ कुम्भीरे, २ शृङ्गाटके च।

अम्बुकिरात = पु० अम्बुनि किरात इव हिंस्रः। कुम्भीरे।

अम्बुकीश = पु० अम्बुनि कीशः वानर इव। (शुशक) इति ख्याते शिशुमारे जलजन्तुभेदे।

अम्बुकूर्म्म = पु० अम्बुनि कूर्म्म इव। शिशुमारे (शुशक) हेम०।

अम्बुकेशर = पु० अम्बुजातः केशरोऽस्य। छोलङ्गवृक्षे रत्नमा०।

अम्बुचर = त्रि० अम्बुनि चरति चर–ट ७ त०। जलचरे हंसादौ स्त्रियां ङीप्।

अम्बुचामर = न० अम्बुनि चामरमिव। (सेओयाला) इति ख्याते शैवाले।

अम्बुचारिन् = त्रि० अम्बुनि चरति चर–णिनि ७ त०। जलचरे हंसादौ स्त्रियां ङीप्। “लूताहिसरटानाञ्च तिरश्चां चाम्बुचारिणाम्” मनुः।

अम्बुज = न० अम्बुनि जायते जन + ड। १ पद्मे २ सारसपक्षिणि। ३ चन्द्रे ४ कर्पूरे ५ हिजल् इति ख्याते वृक्षे च पु०। ६ शङ्खे पु० न०। ७ वज्रे च। वज्रस्य जलदप्रभवत्वात्तथात्वम्। “चापं पाशाम्बुज सरसिजान्यङ्कुशं पुष्पवाणमिति”ऽभुवनेश्वरीध्याने अम्बुजं पद्मं नतु शङ्खमिति तन्त्रसारोक्तेः अस्य शङ्खवाचकतापीति ज्ञायते।

अम्बुजन्मन् = न० अम्बुनो जन्मास्य जन्मोत्तर पदत्वाद्व्यधिकरणो बहुव्रीहिः। १ पद्मे २ सारसविहङ्गे ३ शङ्खे पु० च।

अम्बुजासना = स्त्री अम्बुजमासनम् यस्याः। १ लक्ष्म्याम्। २ जलोद्भवे त्रि०।

अम्बुताल = पु० अम्बुनि तालयति प्रतितिष्ठति चु० तल–प्रतिष्ठायाम् अच्। शैवाले (सेओयाला)।

अम्बुद = पु० अम्बु ददाति दा–क। १ मेघे, “नवाम्बुदश्यामवपुर्न्यविक्षत” माघः “नवाम्बुदानीकमुहूर्त्तलाञ्छने” “स्वतश्च्युतं वह्निमिवाद्भिरम्बुदः” इति च रघुः। २ मुस्तके च।

अम्बुधर = पु० अम्बूनि धरति धृ–अच्। १ मेघे “शरत्प्रमृष्टाम्बुधरोपरोधः” रघुः “अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुधराश्च योनयः” कुमा०। २ मुस्तके च।

अम्बुधि = पु० अम्बूनि धीयन्तेऽत्रधा–आधारे कि। १ समुद्रे। “रत्नावलीरम्बुधिराबबन्ध” माघः २ उदकाधारे घटादौ अम्बुधिर्घटः सि० कौ०। ३ चतुः संख्यान्विते च।

अम्बुधिप्रसवा = स्त्री अम्बुधिमिव प्रचुररसं प्रसूते प्र + सूअच्। १ घृतकुमार्य्याम्।

अम्बुनिधि = अम्बूनि निधीयन्तेऽस्मिन् अम्बु + नि + धा–आधारं कि। समुद्रे। “देवासुरैरमृतमम्बु निघिर्मममन्थे” किरा०। “ये पक्षिणः प्रथममम्बुनिधिं गतास्ते” माघः।

अम्बुप = पु अम्बूनि पाति पिवति वा पा–रुक्षणे–पाने वा क। १ जलेश्वरे वरुणे “रक्षोऽम्बुपानिलशशीशपुराणि चाष्टौ” सि० शि०। २ समुद्रे च ३ जलपायिनि त्रि०।

अम्बुपत्रा = स्त्री अम्बूनि पत्रे यस्याः। उच्चटावृत्ते। अम्बुयुक्तं पत्रमस्याः गौरा० ङीष्। अम्बुपत्रीत्यप्यत्र।

अम्बुप्रसाद = पु० अम्बूनि प्रसादयति प्र + सद–णिच्–अण् उप० स०। कतककवृक्षे (निर्माल्यि)।

अम्बुप्रसादन = न० अम्बूनि प्रसादयति प्र + सद + णिच्–ल्यु ६ त०। कतकतफले “फलं कतकवृक्षस्य यद्यम्बुप्रसादनम्” मनुः। जलप्रसादकारके त्रि० तानि ३३० पृष्ठे दृश्यानि।

अम्बुभृत् = पु० अम्बु बिभर्त्ति–भृ–क्विप् ६ त०। १ मेघे २ सुस्तके ३ समुद्रे च। ४ जलाधारमात्रे त्रि०।

अम्बुमत् = त्रि० अम्बूनिवाहूल्येन सन्त्यस्मिन्। १ बहूदकेदेशादो स्त्रियां ङीप्। सा च २ नदीभेदे। “ततोऽम्बुमत्या धर्मज्ञ! सुतीर्थञ्चाप्यनुत्तमम् भा० ब० प०।

अम्बुमात्रज = पु० अम्बुमात्रे अल्पजले जायते जन–ड ७ त०। शम्बूके, (शामुक) हेम०।

अम्बुमुच् = पु० अम्बूनि मुञ्चति मुच–क्विप् ६ त०। १ मेघे २ सुस्तके च।

अम्बुर = पु० अम्ब–बा० उरन्। द्वाराधःकाष्ठे (गोवराट) हेम०

अम्बुराशि = पु० अम्बूनां राशयो यत्र। समुद्रे। “नैतन्नभोमण्डलमम्बुराशिः” सा० द० “अभूतपूर्ब्बां रुचमम्बुराशे” माघः “शापं दधज्ज्वलनमौर्वमिवाम्बुराशिः” रघुः।

अम्बुरुह् = न० अम्बुनि रोहति रुह–क्विप् ७ त० १ पद्मे “विसृत्वरैरम्बुरुहां रजोभिः” माघः। २ सारसविहगे च

अम्बुरुह = पु० अम्बुनि–रोहति रुह–क ७ त०। १ पद्मे। “द्रक्ष्यथाम्बु रुहं दिव्यं गोशृङ्गं नांम पर्वतम्”। “नदीं गोदावरीं चैव प्रसन्नाम्बुरुहां तत” इति च रामा०। अम्बुरुहं पद्ममिव पुष्पमस्याः अर्श० अच्। स्थल पद्मिन्यांस्त्री

अम्बुरुहिणी = स्त्री अम्बुरुहाणां समूहः सन्निकृष्टदेशोवा इनि। १ पद्मसमूहे २ पद्मलतायाञ्च।

अम्बुरोहिन् = न० अम्बुनि रोहति रुह–णिनि। १ पद्मे २ सारसे च।

अम्बुवाची = स्त्री अम्बु तद्वर्षणं वाचयति सूचयति बच–णिच्–अण् उप० स० ङीप्। आर्द्राद्यपादस्थरविकालिकभूमौ “आर्द्राद्यादि विशाखान्तं रविचारेण वर्षति” इत्युक्तेस्तस्या वृष्टिसूचकत्वम्। तत्काले हि भूमेरन्तर्गतरजोयोगैत्यतस्तस्यास्तथात्वम्। यथोक्तम् “रजोयुक्क्ष्माम्बुवाची च रौद्राद्यपादगे रवौ” ज्योति०। मिथुनराशिर्हि मृगशिरःशेषार्द्धार्द्रापादचतुष्क पुनर्वसुपादत्रयात्मकः। तत्र मृगशिरसि भुक्ते यदा आर्द्रायाः प्रथमप्रादोपभोगार्थंरविर्गच्छति तदा पृथ्वी ऋतुमती भवति तच्चमिथुने ६। ४० चत्वारिंशत्कलाधिकषडंशानतीत्य आर्द्राद्यपादावधि यावत्तिष्ठति तावत्। यथोक्तं राजमा०। “रवौ रौद्राद्यपादस्थे भूमेः संजायतेरजः” इत्युपक्रम्य। “चत्वारिंशल्लिप्तिक षड्भागयुतोरविर्यदा भवति। तत्राम्बुवाची ज्ञेयाशिवर्क्षपादे स्थितो यावत्। दिग्भागशून्य लिप्तोगणितेन भवति रविर्यदा साप्त” इति। तत्र च वर्ज्र्यानि “न स्वाध्यायं वषट्कारं न देवपितृतर्पणम्।। हलानां वाहनञ्चैव वीजानां वपनं तथा” राजमा०। “तस्यां पाठोवीजवापोनाहिभीर्दुग्वपानतः” ज्यो०। यदा र्द्रर्क्षं समादाय भानोर्मन्मथगामिता। पुनस्तत्स्थेनमादाय यजनं त्रिदिनं त्यजेत्। काम्यं नैमित्तिकं चैव यात्रां मन्त्रक्रियां तथा। ऋतुमत्यां न कुर्व्वीत पूर्व्वसङ्कल्पितादृते। न कुर्य्यात् खननं भूमेः सूच्यग्रेणापि शङ्करि!। मत्स्य सू०। “यतिनोव्रतिनश्चैव विधावा च द्विजस्तथा। अम्बुवाचीदिने चैव पाकं कृत्वा न भक्षयेत्। स्वपाकं परपाकं वा अम्बुवाचीदिने तथा। भक्षणं नैव कर्त्तव्यं चण्डालान्नमयं स्मृतम्” विष्णुरहस्यम्।

अम्बुवासिन् = त्रि० अम्बुप्रधाने देशे वसति वस–णिनि ङीप्। १ पाटलावृक्षे। २ जलवासिमात्रे त्रि०।

अम्बुवासी = स्त्री अम्बु प्रधाने देशे वासो यस्याः गौरा० ङीष्। पाटलावृक्षे।

अम्बुवाह = पु० अम्बूनि वहति वह–अण् उप० स०। १ जलधरे मेघे। “व्याजेन यस्याबहिरम्बुवाहः यत्रोज्झिताभिर्मुहुरम्बुवाहैः” “हलधरपरिधानश्यामलैरम्बुवाहैः” इति च माघः। २ मुस्तके। ण्वि अम्बुवाडुभयत्र।

अम्बुवाहिन् = त्रि० अम्बूनि वहति घारयति वह–णिनि ६ त०। १ जलधारके त्रि० २ मेघे ३ मुस्ते च पु०।

अम्बुवाहिनी = स्त्री अम्बूनि वहति स्थानान्तरं नयति वह–णिनि ६ त० ङीप्। १ नौकाजलसेचनार्थे काष्ठनिर्मिते पात्रभेदे २ जलवाहिकायां स्त्रियाञ्च।

अम्बुविहार = पु० ७ त०। जलक्रीडायाम् सन्तरणादौ “व पुरम्बुविहारहिमं शुचिना” माघः।

अम्बुविस्रवा = स्त्री अम्बूनि विस्रवति वि + स्रु–अच्। पत्रान्तर्बहूदकायां घृतकुमार्य्याम्।

अम्बुवेतस = पु० अम्बुजातोवेतसः शाक० त०। जलवेतसे।

अम्बुशिरौषिका = स्त्री अल्पः शिरीषः अल्पार्थे कन् स्त्रीत्वम् जलशिरीषे।

अम्बुसर्पिणी = स्त्री अम्बुनि सर्पति सृप–णिनि ७ त०। (जोंक) इति ख्यातायां जलौकायाम्।

अम्बुसेचनी = स्त्री अम्बूनि सिच्यन्ते नौकातः अनया सिचकरणे ल्युट् ६ त० ङीप्। नौकादेर्जलसेचनीपात्रे।

अम्बूकृत = न० अनम्बु अम्बु कृतं अम्बु श्लेष्मात्मकाम्बु उपचारात्तद्युक्तं ततः च्वि + कृ–क्त। निष्ठीवनयुक्ते वचसि।

अम्ब्ल = पु० अबि–शब्देक्ल नि० न इट्। १ अम्लरसे २ तद्वति त्रि०।

अम्भ = ध्वनौ भ्वा० आ० अक० सेट्। अम्भते आम्भिष्ट आनम्भे आनभे अयम् इदित्येके तेन आनम्भे इत्येव। अम्भः

अम्भस् = न० आप्यते आप–असुन् “उदके नुम्भौ चेति” उणा० अम्भ–शब्दे असुन् वा। १ जले “सेव्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति”?। “त्रिस्रोतसः सन्ततघारमम्भः” इति च माघः। “परिश्रमाम्भःपुलकेन सर्पता” किरा०। “कयमष्यम्भसामन्तरा निष्पत्तेः प्रतोक्षते” कुमा० “अभ्यर्ण्णेऽम्भःपतनसमये” इति मेघ०। २ देवे, जलहेतुत्वात् तथात्वम् ३ पितृलोके, तेषां जलमयचन्द्रलोके स्थितत्वात् अम्मयदेहत्वाच्च तत्त्वम्। ४ मनुष्ये “वेत्थ सौम्य! यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” छा० उ० उक्तेः। पुरुषाणां जलमयत्वात् तथात्वं पञ्चाग्निविद्यापब्देप्रपञ्चः। ५ असुरे, युद्धे देवस्पर्द्धया शब्दायमानत्वात्तथा। “तानि ह वा एतानि चत्वार्य्यम्भांसि देवा मनुष्याः पितरोऽसुरा” इति श्रुतिः। ६ बालनामोषधौ। ज्योतिषोक्ते ७ लग्नाच्चतुर्थस्थाने। योगशास्त्रोक्तासु नवविधतुष्टिषु मध्ये प्रकृत्याख्यायां ८ आध्यात्मिकतुष्टौ च। यथा “आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्यख्याः। वाह्या विषयोपरमात् पञ्च, नव तुष्टयोऽभिमताः सा० का०। “प्रकृ तिव्यतिरिक्तआत्मास्तीति प्रतिपद्य ततोऽस्य श्रवणमननादिना विवेकसाक्षात्काराय त्वसदुपदेशतुष्टो यो न प्रयतते तस्य चतस्र आध्यात्मिक्यस्तुष्टयोभवन्ति प्रकृतिव्यतिरिक्तात्मानमधिकृत्य यस्मात्तास्तुष्टयस्तस्मादाध्यात्मिक्यः, कास्ताः, इत्यत आह प्रकृत्युपादानकालभाग्याख्याः प्रकृत्यादिराख्या यासां तास्तथोक्ताः। तत्र प्रकृत्याख्या तुष्टिर्यथा कस्यचिदुपदेशः “विवेकसाक्षात्कारोहि प्रकृतिपरिणामभेदः तञ्च प्रकृतिरेव करीतीति कृतं ते ध्यानाभ्यासेन, तस्मादेवमेवास्व वत्सेति”। सेयमुपदेष्टव्यस्य शिष्यस्य प्रकृतौ तुष्टिः प्रकृत्याख्या तुष्टिः अम्भ इत्युच्यते” त० कौ०। अस्य अम्भः- शब्दवाच्यत्वे हेतुस्तद्व्याख्याने दर्शितोऽस्माभिः यथा “अस्याश्च तुष्टेरम्भस इव प्रसन्नत्वात् उपदेशरूपशब्दहेतुकत्वाच्च अम्भस्त्वम् अभि–शब्दे इति घातोरसुन्नन्तस्य शब्दहेतुकरूपार्थानुगमात्”। द्व्यावापृघिव्योः द्वि० ब० निरु०।

अम्भः(म्भस्सा)सार = न० अम्भसां सारं वा सत्वम्। मुक्तायां रा० नि०।

अम्भः (म्भस्सू)सू = पु० अम्भांसि सूते सू–क्विप् वा सत्वम्। धूमे हे०।

अम्भसांनिधि = पु० ६ स० अलुक् स०। समुद्रे “शिखाभिराश्लिष्ट इवाम्भसां निधिः” माघः।

अम्भृण = पु० भ्रण–शब्दे यङ् लुक् अच् वेदे नि०। १ महति निरु०। २ भयङ्करशब्दकारके “पिशङ्गभृष्टिमम्भृणं पिशाचिम्” ऋ० १, १ ३३, ५, “भयङ्करशब्दायमानमतिप्रवृद्धं वेति” भा०। “कुम्भीभ्यामम्भृणौ सुते” य० १९, २७।

अम्भोज = न० अम्भसि जायते जन–ड ७ त०। १ पद्मे “गिरा मुखाम्भोजमियं युयोज” नैष०। “वक्त्राम्भोजं सरस्वत्यधिवसति सदा शोणएवाधरस्ते” का० प्र०। २ सारसे ३ चन्द्रे “पिबन्ति त्वन्मुखाम्भोजच्युतं हरिकथामृतमिति” भाग०। चन्द्रादेवामृतच्युति सम्भवः ४ कर्पूरे च पु०। ५ शङ्खे पु० न०। ६ जलजातमात्रे त्रि०।

अम्भोज(ख)षण्ड = न० अम्भोजानां समूहः (ख)षण्डच्। पद्मसमूहे “कुमुदवनमुपश्रि श्रीमदम्भोजस्व(ष)ण्डम्” माघः।

अम्भोजजन्मन् = पु० अम्भोजाज्जन्म यस्य जन्माद्युत्तरपदोव्यधिकरणोऽपि साधु वामनः। चतुर्मुखे हरिनाभिपद्मजे ब्रह्मणि अब्जजशब्दे विवरणम्। “अम्भोजजन्मजनिस्तदन्तरगतो वत्सानितो वत्सपान्” भाग० अम्भोजजन्मनः हिरण्यगर्भस्य जनिरुत्पत्तिर्यस्मात् तथाविधो विष्णुरित्यर्थः।

अम्भोजयोनि = पु० अम्भोजं हरिनाभिपद्मं योनिः उत्पत्तिस्यानं यस्य। विधातरि। अब्जजशब्दे विवरणम्। “सदनमुपगतोऽहं पूर्ब्बमम्भोजयोनेरिति” प्रबो०।

अम्भोजिनी = स्त्री अम्भोज + समूहार्थे, तद्वति देशे वा पुस्करा० इनि। १ पद्मसमूहे, २ लतारूपे पद्मयुक्तदेशे च।

अम्भोद = पु० अम्भो ददाति दा–क। १ मेघे, २ मुस्तके च। ३ जलदानकर्त्तरि त्रि०।

अम्भोधर = पु० अम्भोधरति धृञ्–धारणे अच्। १ मेघे। २ मुस्तके ३ समुद्रे, च।

अम्भोधि = पु० अम्भांसि धीयन्ते यत्र धा–आधारे कि। समुद्रे। “सम्भूयाम्भोधिमभ्येति महानद्या नगापगा”। “अम्भोधिरोधसि पृथुप्रतिमानभागेति” “अम्भोधिर्विकसित वारिजाननोऽसौ” इति च माघः।

अम्भोधिवल्लभ = पु० ६ त०। प्रबाले राजनि०।

अम्भोनिधिः = पु० अम्भांसि निधीयन्तेऽत्र अम्भस्–नि + धा–कि। १ समुद्रे। “मैनाकमम्भोनिधिबद्धसख्यम्” कु० “अम्भोनिधिर्वहति दुर्वहबाडवाग्निम्” चौ० प०।

अम्भोराशि = च० अम्भसां राशिरिव एकत्रोपचितत्वात्। समुद्रे।

अम्भोरुह = न० अम्भसि रोहति रुह–क। १ पद्मे २ सारसे च ३ जलजातमात्रे त्रि० “हेमाम्भोरुहशस्यानां तद्वाप्यो धाम साम्प्रतम्” कुमा०।

अम्मय = त्रि० अपां विकारादि अप् + मयट्। १ जलविकारे २ जलप्रचुरे च “सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः” रघुः। “नह्यम्मयानि तीर्थानि न देवा मृच्छिलामया” भाग०।

अम्र = पु० अमति सौरभेण दूरं गच्छति अम–रन्। आम्रवृक्षे। फलपत्रादौ न०। एवं प्रायः सर्व्वत्र वृक्षवाचकेषु।

अम्रा(म्ला)त = पु० अम्लं रसं सर्व्वत्र पत्रपुष्पादौ अतति व्याप्नोति अत–अण् वा रस्य लत्वम्। (आमडा) आम्रातकवृक्षे। स्वार्थे कन् अम्रा(म्ला)तकोऽपि।

अम्ल = न० अम–क्ल। (घोल) १ तक्रे। (टक)रसभेदे पु०। ३ तद्वति त्रि० “कट्वम्ललवणात्युष्णतीक्ष्णरुक्षविदाहिनः” गीता। अम्लरसद्रव्याणि च सुश्रुते दर्शितानि यथा। दाडिमामलकमातुलुङ्गाम्रातककपित्थकरमर्द वदरकोलप्राचीनामलकतिन्तिडीककोशाम्रभव्यपारावतवेत्रफललकुचाम्लवेतसदन्तशठदधितक्रसुराशुक्तसौवीरकतुषोदकघान्याम्लप्रभृतीनि समासेनाम्लोवर्गः”।

अम्लक = पु० अल्पोऽम्लः अल्पार्थे कन्। (मान्दार) लकुचवृक्षे।

अम्लकाण्ड = न० अम्लं काण्डं यस्य। लवणतृणे राजनि०।

अम्लकेशर = पु० अम्लः केशरोऽस्य। वीजपूरे (गोंडानेवु)।

अम्लचूड = पु० अम्ला चूडा शिखाऽस्य। अम्लशाके।

अम्लजम्बीर = पु० अम्लो जम्बीरः। (गोंडानेवु) जम्बीरवृक्षे।

अम्लनायक = पु० अम्लं रसं नयति नी–ण्वुल्। अम्लवेतसे।

अम्लनिशा = स्त्री अम्लरसे निःशेषेण शेते शीङ् ड। शठीवृक्षे

अम्लपञ्चफल = त्रि० “कौलं च दाडिमञ्चैव वृक्षाम्लं चूक्रिका तथा। अम्लवेतसमित्येतदम्लपञ्चफलं स्मृतम्” जम्बीरं नागरङ्गञ्च तथाम्लवेतसं पुमः। तिन्तिडीकं वीजपूरमम्लपञ्चफलं स्मृतमिति चोक्ते फलपञ्चके।

अम्लपत्र = पु० अस्लं पत्रं यस्य। अश्मन्तकवृक्षे।

अम्लपत्री = स्त्री अम्लं पत्रं यस्याः ङीप्। पलाशीलतयाम्।

अम्लपनस = पु० अम्लः पनसः कर्स्म०। (मान्दार) लकुचवृक्षे।

अम्लपित्त = त्रि० अम्लाय पित्तम्। रोगभेदे यत्र भुक्तं सर्व्वं वस्तुमात्रं पित्तदोषेणाम्लरसतां नीयते तस्मिन् रोगभेदे।

अम्लपूर = न० अम्लेन अम्लरसेन पूर्य्यते पूर–कर्म्मणि घञ् ६ त०। वृक्षाम्ने (तेतुल) राजनि०।

अम्लफल = पु० अम्नं फलं यस्य। (तेतुल) इति ख्याते वृक्षाम्ले।

अम्लबन्ध्या = स्त्री बन्ध–कर्म्मणि ण्यत्। अम्लसम्बद्धे कन्दभेदे।

अम्लभेदन = पु० अम्लार्थं भिद्यतेऽसौ कर्म्मणि ल्युट्। अम्लवेतसे

अम्लरस = पु० अम्लो रसः। अम्ले रसे। २ तद्वति त्रि०।

अम्लरुहा = स्त्री अम्लाय रोहति रुह–क। मालवजनागबल्ल्याम्

अम्ललोनि(णि)का = स्त्री अम्नं रसं लाति गृह्णाति अम्ललः तमूनयति अत्युग्राम्लत्वात् हीनयति ऊन–ण्वुल् पृ० णत्वम्। (आमरुल) इति ख्याते लताभेदे। अम्लोनीप्यत्र।

अम्लवती = स्त्री अम्लो रसो विद्यतेऽस्याः अम्ल + रसा० मतुप् मस्यवत्वम्। (आमरुल) ख्याते लताभेदे।

अम्लवर्ग = पु० अम्लरसप्रधानानां वर्गः। सुश्रुतोक्त्वे अम्लरसप्रधानद्रव्ये। तच्च अम्लशब्दे ३३३ पृष्ठे दृश्यम्।

अम्लवल्ली = स्त्री अम्लरसवती वल्ली। त्रिपर्णिकानामकन्दभेदे

अम्लवाटिका = स्त्री अम्लस्य वाटिका स्थानमिव। नागवल्ली भेदे। पित्तरक्तप्रकोपकरत्वेन तत्स्थानत्वात् तथात्वम्।

अम्लवास्तूक = पु० अम्लरसान्वितो वास्तूकः शाकभेदः। (चुकपालङ्ग) इति ख्याते चुक्रे।

अम्लवीज = न० अम्लस्य वीजं कारणम्। (तेतुल) वृक्षाम्ले।

अम्लवृक्ष = न० अम्लरसोवृक्षे यस्य। (तेतुल) वृक्षाम्ले

अम्लवेतस = पु० अम्लावेतस इव नम्रश्च। (चुका) ख्याते चुक्रे

अम्लशाक = पु० अम्लः शाको यस्य। (चुका) इति १ ख्याते चुक्रे। २ अम्लप्रधाने शाकाम्ले पु०।

अम्लसार = पु० अम्लोरमएव सारः प्रधानं यस्य। १ चुक्रे २ निम्बुके, ३ हिन्ताले च। ४ काञ्चिके न०।

अम्लहरिद्रा = स्त्री अम्लरसान्विता हरिद्रा। (आमहरिद्रा) ख्याते वृक्षे

अम्ला = स्त्री अम्लो विद्यतेऽस्या अर्श आद्यच्। तिन्तिड्याम्।

अम्लाङ्कुश = पु० अम्लम् अङ्कुशाकारमग्रं यस्य। चुक्रे।

अम्लातक = पु० न म्लायति म्लै–तन् न० त०। अम्लवेतसे।

अम्लादन = पु० अद्यते अद–कर्म्मणि ल्युट् कर्म्म०। कुरण्टकवृक्षे।

अम्लान = पु० म्लै–क्त न० त०। आव्ला इति ख्याते महासहावृक्षे। २ म्लानभिन्ने त्रि०। “अम्लानपङ्कजां मालां शिरस्युरसि चापराम्” देवी०। ३ पद्मे न०।

अम्लानिनी = स्त्री अम्लानानां पद्मानां समूहः इनि। पद्मिन्याम्।

अम्लिका = स्त्री अम्नैवस्वार्थे कन्। १ तिन्तिड्याम्। अत्राम्लीकेत्यपि सा च २ पलाशीलतायां ३ श्वेताम्लिकायां ४ क्षुद्रा- म्लिकायाञ्च राजनि०। अम्लोस्त्यत्र उद्गारे वा ठन्। १ अम्लोद्गारे मेदि०।

अम्लिकावटक = पु० अम्लिकाया वटकः। भावप्रकाशोक्ते (अम्ल वडी) इति ख्याते वटकभेदे यथा “अम्लिकां स्वेदयित्वा तु जलेन सह मर्द्दयेत्। तन्नीरे कृतसंस्कारे वटकान् मज्जयेत् पुनः। अम्लिकावटकास्ते तु रुच्यवह्निप्रदीपनाः” भा० प्र०।

अम्ली = स्त्री अम्ल + गौ० ङीष्। चाङ्गेर्य्याम् (आमरुल)।

अम्लोटक = पु० अम्लम् उठं पत्रं यस्य। (अम्लकुचा) इति अश्मन्तकवृक्षे।

अम्लोद्गार = पु० अम्लस्य उद्गारः। अम्लररसूचके उद्गारे।

अय = गतौ भ्वा० आ० सक० सेट्। अयते आयिष्ट अयाम्बभूव अयामास अयाञ्चक्रे। अस्य परस्मैपदित्वमपि “अय मुदयति मुद्राभञ्जनः पद्मिनीनामित्युद्भटः “शुचोदयन् दीधितिमुक्थशासः यजु० १९ ६९। “उदयति विततोर्द्धरश्मिः” माघः।

अय = पु० एति सुखमनेन इण्–करणे अच्। १ प्राक्तने शुभकर्म्मणि, २ शुभदायके–दैवे “स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः” रघुः “तव धर्म्मः सदयीदयोज्ज्वलः” नै० ३ विधाने च। अयते जयमनेन। ४ कपर्द्दकरूपे एकाद्यङ्कयुक्ते द्यूतसाधने ५ पाशके च “अथास्मै पञ्चाक्षान् पाणावावपति अभिभूरस्येतास्ते पञ्च दिशः कल्पन्तामित्येष वा अयानभिभूर्यत्कलिरेण हि सर्वानयानभिभवति” इति शत० ब्रा०। “अक्षा नाम कपर्द्दकाः सुवर्ण्णनिर्म्मिता, विभीतफलामि सौवर्ण्णानि वा। ते चाक्षा द्यूतकाले निवपनीयाः। तेषां चतुर्ण्णामङ्कानां कृतसंज्ञा पञ्चानां कलिसंज्ञा तथा च शाखान्तरे स्तोमसंस्थायां कृतादिव्यवहारः कृतः “ये वै चत्वारः स्तोमाः कृतं तत्” अथ ये पञ्च कलिः इति” यदा पञ्चाप्यक्षा उत्ताना भवन्ति तदो देवितुर्जयोभवति पञ्चसु त्वेकरूपासु जय एव भविष्यतीव्यत्यत्रोक्तम्। अयशब्दः अक्षवाची” इति भा०। चतुरङ्कान्विते ६ पाशकभागे च। “यथा कृताय विजितायाधरेयाः संयन्ति” छा० उ० “कृतो नाम अयोद्यूत समये प्रसिद्भश्चतुरङ्कः स यदा जयति द्यूते प्रवृत्तानां, तस्मै विजिताय तदर्थमितरे त्रिद्व्येकाङ्का अधरेयाः त्रेताद्वापरकलिनामानः संयन्ति सङ्गच्छन्ते अन्तर्भवन्ति चतुरङ्के कृताङ्के त्रिद्व्येकाङ्कानां विद्यमानत्वादन्तर्भवन्तीति” भा०। “द्यूतस्य समयः सङ्केतस्तदनुष्ठानसमयो वा येन द्यूतविद्यायां जीयते सोऽक्षस्य कश्चिद्भागोऽयशब्दवाच्यः स च चतुरङ्कोभागः चत्वारोऽङ्काश्चिह्नान्यस्मिन्निति व्युत्पत्तेः तस्मै, कृतनामभृते, यदा द्यूते प्रवृत्तानां मध्ये स कीऽपि जयति तदा तस्मै कृतनामभृते विजिताय अधरेयाः संयन्तीति सम्बन्धः तदर्थं व्याचष्टे तदर्थमिति अधरेयान् व्याकरोति त्रेतेति। अक्षस्य यस्मिन् भागे त्रयोऽङ्काः स त्रेतानामायः यत्र तु द्वावङ्कौ स द्वापर नामायः। यत्र एकोऽङ्कः स कलिनामाय इति। तादर्थ्येनेतराङ्कानामन्तर्भावमुक्तं व्यक्तीकरोति चतुरङ्क इति तदन्तर्भवन्ति तस्मिन् कृताये त्रेतादयस्तेऽअन्तर्भवन्ति महासंख्यायामवान्तरसंख्यान्तर्भावः प्रसिद्ध इति” आनन्दगिरिः। यन्ति शाराः अस्मिन् इण–आधारे अच्। द्यूते सर्वशारगन्तव्ये ७ स्थलभेदे अयानयशब्दे विवरणम्। अयते अच्। ८ गन्तरि त्रि०। चिदया आ नाम ऋ० ६, ६६, ५।

अयःपान = न० अयः द्रवीभूतं तप्तलौहं पीयतेऽत्र ल्युट्। नरकभेदे यथा भाग० ५ स्कन्धे तामिस्रादिनरकगणनायाम् वीचिरयः पानमित्युक्त्वा तद्विवरणं सहेतुकं तत्रैवोक्तं “यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथस्तत्कलत्रं वा सुराः व्रतस्थो वा पिबति प्रमादतः तेषां निरयं नीतानामुरसि पदाक्रम्य वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति” इति।

अयःशूल = न० अय एव शूलम् उपतापकम्। १ तीव्रे उपतापे, २ लौहकृतास्त्रभेदे च। वा सत्वम्, अयश्शूलमप्यत्र।

अयक्ष्म = त्रि० नास्ति यक्ष्मा रोगोयस्य वेदे नि० अच् समा०। १ नीरोगे रोगशून्ये “यथा नः सर्वमिज्जगदयक्ष्मं सुमना असतः यजु० १६, ४ अयक्ष्मं नीरोगम् वेददी०। ५ व०। २ उपद्रवासाधने “तयास्मान्विश्वतस्त्वमयक्ष्मयापरिभुज” यजु० १६, ११, “अयक्ष्मया निरुपद्रवया” वेद दी०

अयज्ञ = त्रि० नास्ति यज्ञो यस्य। अकृतयज्ञे। “पनी” अयज्ञ अवृधा अयज्ञान्” ऋ० ७, ६, ३,।

अयज्ञिय = त्रि० न यज्ञाय हितः यज्ञ–घ न० त०। १ यज्ञकर्म्मणि दातुमनर्हे १ माषादौ “अयज्ञिया वै माषा” श्रुतिः यज्ञक्रालेऽनुच्चार्य्येऽपशब्दे च अयज्ञियवाग्वचने भ० भ० ३ यज्ञं कर्त्तुमनर्हे असंस्कृतेऽनुपनीतादौ “अयज्ञिया वै गर्भास्तमेतं ब्रह्मणैव यजुषा यज्ञियं करोति” शत० ब्रा०।

अयज्यु = त्रि० यज–वा० उ नि० युट् न० त०। १ यष्टृभिन्ने २ यज्ञविघातके च “शासस्तमिन्द्र मर्त्यमयज्युं शवसस्पते! ऋ० १, १३१, ४ “यजेदयज्योर्विभजातिभोजनम्” ऋ० २, २६, १

अयज्वन् = पु० विधिनेष्टवान् यज्वा न० त०। अकृतयज्ञे। “अयज्वानमदक्षिण्यमभिश्वैत्येति व्याहरन्” भा० द्रो० प० षोडशधा पाठः। “योऽनाहिताग्निः शतगुरयज्ज्वा च सहस्रगुः” “अयज्वनान्तु यद्वित्तमासुरं वै तदुच्यते” मनुः।

अयत = त्रि० न यम्यते यम–क्त न० त०। १ अकृतयमे अकृतेन्द्रियनिग्रहे। यतते यत–अच् न० त०। २ यत्नशूत्ये।

अयत्न = पु० अभावे न० त०। १ यत्नाभावे आयासाभावे “तदवाप्नोत्ययत्नेन यो हिनस्ति न कञ्चन” मनुः। न० ब०। २ प्रयासशून्ये त्रि० “तद्योधवारवाणानामयत्नपटवासताम्” रघुः।

अयत्नवत् = त्रि० न यत्नवान्। १ यत्नशून्ये “तेन तुल्यम् क्रिया चेद्वति” “तत्र तस्येविति” पा० वा वति। २ यत्नशून्य तुल्यक्रियादौ ३ यत्नशून्यस्य समाने च अव्य०।

अयथा = अव्य० यथा योग्यत्वे न० त०। यस्य यथा विधानमुचितं १ तथा करणाभावे २ अनुचितकरणे ३ मिथ्याभूते च नास्ति यथा योग्यत्वं यत्र। ४ अयोग्ये ५ अयत्ने च त्रि०। “तस्मा अयथं कर्षदेतत्” ऋ० १०, १८, १५ “अयथमयत्नेन लीलया” भा०।

अयथातथ = त्रि० यथा योग्यं तया न भवति “यथातथयथा पुरयोरिति” पा० निर्द्देशात् नि० स०। १ अयथार्थे यत् यर्दथं क्रियते तस्मिन् तदर्थमभूते च। “दैवे कर्म्मणि पित्र्ये च तद्गच्छत्ययथातथम्” मनुः। यत् कर्म्म यदर्थं क्रियते तन्न साधयति” कुल्लू० तस्य भावः ष्यञ् वा पूर्व्वपदवृद्धिः आयातथ्यम् अयाथातथ्यञ्च तद्भावे न०।

अयथार्थ = त्रि० विरोधे न० त०। यथार्थभिन्ने मिथ्याभूते यथा अयथार्थानुभवः। स च तदभाववति तत्प्रकारकं ज्ञानं तच्च त्रिविधम् संशयभ्रमारोपरूपतर्कज्ञानभेदात्। तेषां सर्वेषाम् तदभाववति तत्प्रकारकज्ञानरूपत्वात्तथात्वम्

अयथावत् = अव्य० अयोग्यरूपमर्हति अर्हार्थे वति। अननुरूपे यथोचितभिन्ने।

अयथेष्ट = अव्य० न० त०। १ इच्छानुरूप्याभावे। अर्श आद्यच् २ स्वल्पे त्रि०।

अयन = न० अय–भावे ल्युट्। १ गतौ, दक्षिणत उत्तरस्याम्, उत्तरतश्च दक्षिणस्यां सूर्य्यस्य चन्द्रस्य च २ गतौ, तथाहि द्वादशराश्यात्मकस्य राशिचक्रस्यार्द्धं मकरावधिमिथुनपर्य्यन्तम् राशिषट्कं क्रमेण उत्तरावनतं तत्र स्थितोऽर्कश्चन्द्रो वा स्वगत्या प्राचीं गच्छन्नपि किञ्चित् किञ्चित्तिर्य्यग्गत्या उत्तरामभिक्रामति, एवं कर्कटावधिधनुःपर्य्यन्तं राशिषट्कं क्रेमेण दक्षिणावनतं तत्र स्थितोऽर्कश्चन्द्रो वा प्राग्वत् दक्षिणामेवाभिक्रामति सेयं गतिरयनशब्देन ज्योतिषे व्यव- ह्रियते तत्र सूर्य्यस्यायनं सौरैः षड्भिर्मांसैरेकं भवतीति च तत्रैव प्रसिड्वम्। “अयनविष्णुपदीषडशीतय” इत्युक्तेः ३ अयनाख्यसंक्रान्तौ सा हि परिभाषिकायनशब्दवाच्या। नभोमण्डले प्रवहानिलेन पश्चाद्गत्या बंभ्रम्यमाणस्य राशिचक्रस्य निराधारतया दोलायमानत्वेन सप्तविंशांशपर्य्यन्तं प्राक् पश्चाच्च गतिर्भवति। क्रान्तिस्थानञ्च अष्टमासाधिक ६६।८ षट्षष्टिवर्षैरेकैकमंशमतीत्य प्राक्, पश्चाद्वा चलतीति १८०० अष्टदशशतवर्षैः सप्तविंशांशपर्य्यन्तं प्राक्गत्वा पुनः पश्चात्, पश्चाद्गत्वा च पुनः प्रागवलम्बते। यदा चैवं राशिचक्रस्यायनस्थानं प्राक् गच्छति तदा राशिचक्रनिर्द्दिष्टमेषादिस्थानात् उक्तकालभेदेनेकैकांशातिक्रमेण क्रमशः प्राचि, प्राक्तरे, प्राक्तने, वा स्थाने रव्यादिग्रहाणां प्रभापुञ्जसञ्चारः। यदा तु पश्चादवलम्बते तदा निर्दिष्टमेषादिस्यानात् तथैव परे, परतरे, परतमे, च स्थाने ग्रहाणां प्रभापुञ्जसञ्चार इति भेदः। इदानीञ्च पश्चिमायनं तेन राशिस्थानात् पश्चादेव ग्रहप्रभापुञ्जसञ्चारः। तथाच ज्योतिघोक्तगणितरीत्या मीनान्तात् पश्चादेकविंशांशे एवेदानी विषुवादिसंक्रान्तिर्भवति एवं विष्णुपद्यादीनामपि तत्तदंश एव ग्रहप्रभापुञ्जसञ्चारः। अयञ्चायनानुसारेण ग्रहप्रभापुञ्जसञ्चारस्वीकारः दिनमानविशेषस्य लग्नपरिमाणस्य छायापदविशेषस्य, च बोधार्थमिति सिद्धान्ते प्रसिद्धम्। करणे ल्युटि। ४ उक्तायनज्ञानसाधने शास्त्रे, “ज्योतिषामयनञ्चैवेति” ५ सैन्यनिवेशविशेषरूपव्यूहप्रवेशमार्गे च “अयनेषु च सर्व्वेषु यथाभागमवस्थिताः” इति गीता। आधारे ल्युट्। ६ पथि, ७ गृहे, ८ आश्रये, ९ स्थाने, “ता यदस्यायनं पूर्ब्बमिति” मनुः। प्रागुक्तराशिचक्रस्य क्रान्तिवृत्ता रम्भस्थानविशेषे १० अंशादौ च “तत्काले सायनार्कस्येति” नीलकण्टः। तथाहि मीनान्तो हि युगादौ अयनांशप्रथम स्थानं ततःप्राग्गत्या कियदंशपर्य्यन्तचलनेन परावृत्य पश्चाद्गत्या पूर्वराशेः कियदंशपर्य्यन्तं गत्वा पुनःप्राग्गत्या प्राथमिकचलन स्थानप्राप्तौ अयनस्यैकोविलक्षणो भगणो भवति इत्येवं स्थिते तद्भगणपूरणकालादिज्ञापनाय किञ्चिदभिधीयते। सूर्य सिद्धान्ते। “त्रिंशत्कृत्यो युगे भानां चक्रं प्राक परिलम्बते। तद्गुणाद्भूदिनैर्भक्ताद्द्युगणाद्यदवाप्यते।। तद्दोस्त्रिघ्ना दशाप्तांशा विज्ञेया अयनाभिधाः। तत्संस्कृताट्ग्रहात् क्रान्तिच्छायाचरदलादिकम्” इति।। “भानां चक्रं राशीनां वृत्तं क्रान्तिवृत्तं स्वस्वविक्षेपमितशलाकाग्रप्रोतनक्षत्रगणैर्युक्तमित्यर्थः। युगे महायुगे प्राक् पूर्ब्बविभागे त्रिंशत कृत्यस्त्रिंशत्सङ्ख्यका कृयः र्विंशतयः षट्शतमित्यर्थः। परिलम्बते ध्रुवाधारभगोलस्थानात् तद्दूरमवलम्बते। अत्र परिलम्बत इत्यनेन भचक्रपूर्णभ्रमणाभाव उक्तोऽन्यथा ग्रहभगणप्रसङ्गेन मध्याधिकार एवैतदुक्तं स्यात्। तथा च तद्दूरमवलम्बनोक्त्या परावृर्त्य यथास्थितं भवतीत्यागतं यथापि स्वस्थानात् तथैव पश्चिमतोऽप्यवलम्बत इति सूचितम्। एवञ्च भचक्रं पश्चिमत ईश्वरेच्छया प्रथमतः कतिचिद्भागैश्चलति ततः परावृत्य यथास्थितं भवति ततोऽपि तद्भागैः क्रमेण पूर्ब्बतश्चलति ततोऽपि परावृत्य यथावस्थानंस्थितमित्येको विलक्षणो भगणः। तेन प्रागित्युपलक्षणम्। पश्चिमावलम्बनानुक्तिस्तु संवादकाले तदभावात्। अत्र त्रिंशत्कृत्व इति पाठः प्रामादिकः। “युगे षट्शतकृत्वो हि भचक्रं प्राग्विलम्बते” इति सोमसिद्धान्तविरोधात्। “तत् पश्चाच्चलितं चक्रमिति” ब्रह्मसिद्धान्तोक्तेश्च। अहर्गणात् तद्गुणात् षट्शतगुणिताद् भूदिनैर्युगीयसूर्यसावनदिनैर्भक्ताद्यत् फलं भगणादिकं प्राप्यते तस्य भगणत्यागेन राश्यादिकस्य भुजः कार्यस्तस्माद्दशाप्तांशा दशभिर्भजनेनाप्तभागास्त्रिगुणिता अयनसंज्ञका ज्ञेयाः। भुजांशास्त्रिगुणिता दशभक्ताः फलमयनांशा इति तात्पर्य्यार्थः। तत्संस्कृतात् तैरयनांशैर्भचक्रपूर्ब्बापरचलनवशाद्युतहीनाद्ग्रहात् पूर्ब्बापरभचक्रचलनावगमस्त्वयनग्रहस्य षद्भान्तर्गतानन्तर्गतत्वक्रमेण क्रान्तिच्छायाचरदलादिकं साध्यम्। न केवलात्, बिशेषोक्तेः। छाया वक्ष्यमाणा चरदलं चरं पूर्ब्बाधिकारोक्तम्। आदिशब्दादयनवलनमायनदृक्कर्म्म सङ्गृह्यते। यद्यपि तत्संस्कृताद्ग्रहात् क्रान्तिरित्येव वक्तव्यमन्येषामत्र तदुपजीव्यत्वाद्ग्रहणं व्यर्थं तथापि क्रान्तिरित्युक्त्या केवलक्रान्तिज्ञानार्थं तत्संस्कृतग्रहात् क्रान्तिः साध्या। पदार्थान्तरोपजीव्यायाः क्रान्तेः साधनं तु केवलादित्यस्य वारणार्थं क्रान्तिमात्रं तत्संस्कृतात् साध्यमिति सूचकं छायाचरदलादिकथनम्। ईश्वरेच्छया क्रान्तिवृत्तं स्वमार्गे पश्चिमतः सप्तविंशत्यंशैः क्रमोपचितैश्चलितं ततः परावृत्य स्वस्थान आगत्य तत्स्थानात् पूर्बतः सप्तविंशत्यंशैश्चलितम्। तथा च सृष्ट्यादिभूतक्रान्तिविषुवद्दृत्तसम्पाताश्रितक्रान्तिवृत्तप्रदेशो रेवत्यामन्नः प्रागानीतग्रहभोगावधिरूपः स्वस्थानात् पूर्ब्बमपरत्र वा क्रान्तिवृत्तमार्गे गतः। विषुवद्वृत्ते तु तद्भागस्य वा पश्चिमभागः पूर्व्वभागो वा गतः। सम्पाते तद्वृत्तयोर्याम्योत्तरान्तराभावात् क्रान्त्यभावः। पूर्ब्बसम्पातप्रदेशे तु तयोर्य्याम्योत्तरान्तरत्वात् क्रान्तिरुत्पन्नातो यथास्थितग्रहभो- गात् क्रान्तिरसङ्गतेति सम्पातावधिकग्रहभोगात् क्रान्तिर्युक्ता तत्र सम्पातावधिकग्रहभोगज्ञानार्थं पूर्ब्बसम्पातावधिकः पूर्ब्बाधिकारोक्तो ग्रहमोगो वर्त्तमानसम्पातपूर्ब्बसम्पाताश्रितक्रान्तिवृत्तप्रदेशयोरन्तरभागैरयनांशाख्यैः पूर्व्वसम्पातप्रदेशस्य पूर्ब्बपश्चिमाव्स्थानक्रमेण युतहीनो भवति। क्रान्त्यु पजींव्याः पदार्था अपि वर्त्तमानसम्पातादुत्पन्ना इति तत्साधनमपि तत्संस्कृतग्रहात्। अथायनांशज्ञानं तु षट्शतभगणेभ्यः पूर्ब्बानुपातरीत्याहर्गणाद्ग्रहभोगो भगणादिकस्तत्र गतभगणमितं परपूर्ब्बभचक्रावलम्बनं गतम्। वर्त्तमानं त्वारम्भे पश्चिमावलम्बनाद्राशिषट्कान्तर्गते राश्यादिके पश्चिमावलम्बनमनन्तर्गते पूर्ब्धावलम्बनम्। तत्रापि त्रिभान्तर्गगतानन्तर्गतत्वक्रमेण चलनं परावर्त्तनमिति भुजः साधितस्ततो नवत्यंशैर्यदि सप्तविंशतिमागास्तदा भुजांशैः कि मित्यनुपातेनं गुणहरौ नवभिरपवर्त्य भुजांशास्त्रिगुणिता दशभक्ता इति सर्व्वमुपपन्नम् रङ्ग०”।। “स्फुटं दृक्तुल्यतां गच्छेदयने विषुवद्वये। प्राक् चक्रं चलितं हिदं छायार्कात् करणागते।। अन्तरांशैरथावृत्य पश्चाच्छेषैस्तथाधिके” सू० सि०। “अयने दक्षिणोत्तरायणसन्धौ विषुवद्वये गोलसन्धौ चलितं चक्रंदृक्तुल्यतां दृष्टिगोचरतां स्फुटमनायसं गच्छेत्। तत्र प्रत्यक्षतस्तस्मिन् गत्यन्तरं द्वश्यत इत्यर्थः। तथा च सृष्ट्यादिकाले रेवतीयोगतारासन्नावधिमेषतुलाद्योः कर्कमकराद्योर्विषुवायनप्रवृत्तेरिदानीमन्यत्र तत्खरूपे प्रत्यक्षे इति क्रान्तिवृत्तं चलितमन्यथा तदनुपपत्तेरिति भावः। ननु पूर्व्वतोऽपरत्र वा चलितमिति कथं ज्ञेयमित्यत आह। प्रागिति। छायार्काद्यद्दिने सूर्यस्यायनदिक्परावर्त्तनमुदये प्राच्यपरसूत्रस्थत्वं वा तस्मिन् दिनेऽन्यन्मित् दिने वा मध्याह्नच्छायातो वक्ष्यमाणप्रकारेण सूर्यः साध्यस्तस्मादित्यर्थः। करणागते प्रागुक्तप्रकारेणातीतः स्पष्टः सूर्यस्तस्मिन्नित्यर्थः। न्यूने सति अन्तरांशैः सूर्ययोरन्तरांशैश्चक्रं क्रान्तिवृत्तं प्राक् पूर्ब्बस्मिन् चलितमिति ज्ञेयम्। अथ यद्यधिके सति शेषै सूर्ययोरन्तरांशै श्चक्रमावृत्य परिवृत्य पश्चात् पश्चिमाभिमुखं तथा चलितमिति ज्ञेयम्। अत्रोपपत्तिः। छायातो वक्ष्यमाणप्रकारेण सूर्य्यो वर्त्तमानसम्पाताद्गणितागतस्तु रेवतीतारासन्नाद्यवधितोऽतस्तयोरन्तरमयनांशास्तत्र क्रान्तिवृत्तस्य पूर्ब्बचलने गणितागतच्छायार्कोऽधिको भवति पश्चिमचलने तु न्यूनो भवतीति सर्व्वगुपपन्नम्”। रङ्गनाथः।। एवमयनस्य प्रकृतस्थानात् चलने स्थिते सौरागमे “त्रिंशत्कृत्योयुगे भाना” मित्युक्तेः सोमसिद्धान्ते “युगे षट्शतकृत्वो हि भचक्रं प्राक् विलम्बते” इत्युक्तेश्च ४३२०००० वर्षमिते युगे षट्शतैर्विभाजिते लब्धैः ७२०० वर्षैरेकोऽयनस्य भगणी भवतीति गम्यते। एवञ्चोक्तदिशा युगादितः प्रथमं मीनान्तात् मेषसप्तविंशतिपर्यन्तं प्राक् गत्वा ततः परिवृत्य मीनशेषपर्यन्तं सप्तविंशत्यशैरागत्य ततोऽपि पश्चाद्गत्या सप्तविंशत्यंशैः मीनचतुर्थांशपर्यन्तमागत्य परावृत्य प्राग्गत्या पुनः सप्तविंत्यंशैः मीनशेषपर्यन्तं धावति इत्येवं चतुर्भिः सप्तविंशत्यंशैः अष्टोत्तरशतांशैः प्राग्पश्चाद्गतिभेदेन एकोऽयनभगणोभवतीति प्रागुक्तैः ७२०० वर्षैः यदि १०८ अंशाः तदा एकांशे किमित्यनुपातेन ६६। ८ अष्टमासाघिकषट्षष्टिवर्षैरेकेकांशायनचलनम् इति प्रतिभाति ततश्च यदि ६६। ८ वर्षादिभिः ६० कलात्मकोऽंशस्तदा एकवर्षेण किमित्यनुपाते ५४ विकलाः प्रतिवर्षमयन स्थानचलन मायाति अत्र प्रागित्युक्तेः सृष्ट्यादौ युगादौ च प्रथमं प्रागेव गतिर्न तु पश्चिमतः तथात्वे इदानीन्तनांशवैषम्यापत्तेः। तथा हि ४३२०००० युगे यदि षट्शतानि अयनभगणास्तदा १७२८००० कृतयुगे किमित्यनुपातेन २४० भगणाः १२९६००० त्रेतायुगे १८० भगणाः ८६४००० द्वापरे १२० भगणाः इत्येवं त्रिपुगे ५४० भगणा गता इदानीं कलियुगस्य वर्षागता ४९७३ यदि ७२०० वर्षेषु १०८ अंशात्मकीभगणस्तदा ४९७३ वर्षेषु किमिति त्रैराशिके ७४ अंशाः ३५ कलाः ४४ विकलाः लब्धा तथा च १०८ अंशात्मकायनभगणमध्ये एतावदंशादयो गता इति लभ्यते। तत्र यदि प्रथमं पश्चाद्गत्या भगणारम्भस्तदा मीनान्तात् चतुर्थांशं यावत् पश्चाद्गत्या परावृत्य मीनपर्य्यन्तगमने ५४ अंशाः गताः तत प्राग्गत्या मेषसप्तविं शत्यं शैर्गतिस्वीकारे इदानीं मेषस्य २०। ३५। ४४ अयनांशादिः स्यात्। नच तत् छायादिसंवादि प्रथमं प्राग्गति स्वीकारे तु प्राग्गत्या प्रथमं मीनान्तात् मेषस्य सप्तविंशत्यं शपर्यन्तं गत्वा पश्चाद्गत्या सप्तविंशत्यंशैः मीनान्तगमने ५४ अंशाः गताः ततः पश्चाद्गत्या मीनस्य एते २०। ३५। ४४ अंशादयोगतास्तथा च पश्चाद्गत्या मीनस्य नवमांशे इदानीमयनांशादिरिति सर्व्वज्योतिर्वित्सम्पदायः। अतएव एतदयनांशमादायैव ग्रहस्पष्टादिकं ग्रहणं साध्यते दिनमानादिकञ्चानीयते। इदीन्तनाः ज्योतिविदांशिरोमणयः सर्वगणकावतंसाः पण्डितोत्तमाः श्रीमन्तोवापुदेवशास्त्रिणः अयनचलनस्य राहुदृष्टान्तेन सर्व्वथा विलोमगतितयायनभगणम् यदुरीचक्रुः तत्र विरोधादिकं प्रदर्शयिष्यते तद्दृष्ट्वा विद्वद्भिस्तस्य प्रमादोऽप्रमादो वा वगन्तव्यः। तथा हि छायादिना अयनभोगस्य प्रतिबर्षं ५४ विकलाः इदानीं पश्चादयनस्थानचलनं च सर्वज्योतिर्वित्प्रसिद्धम्। तत्र केवलं पश्चाद्गत्याऽयनस्थानचलनेन भचक्रस्य भ्रमणाङ्गीकारे। यदि ५४ विकलाभिः एको वर्षस्तदा १२९६००० विकलात्मकभचक्रभ्रमणे कति वर्षा इत्यनुपातेन २४००० वर्षेष्वेको भगणो भवति यदि २४००० वर्षैः एकोभगणः तदा ४३२००० वर्षात्मके महायुगे कति भगणाभवन्ति इत्यनुपातेन १८० भगणाभवन्ति। ततश्च सौरसोमसिद्धान्तोक्तषट्शतसंख्याविरोधः इदानीं मीननवांशे अयनस्थानेविरोधश्च। तथा हि तन्मते राशिचक्रस्य केवलं विलोमगत्यायनभगणस्वीकारेण प्रागुक्तटिशा २४००० वर्षैरेकोभगणः तदा १७२८००० वर्षात्मके कृतंयुगे कतीत्यनुपातेन ७२ भगणाः। १२९६००० वर्धात्मकत्रेतायाम् ५४, ८६४००० द्वापरे ३६ इत्येवं त्रियुगे १६२ भगणाः गताः इदानीं कलेः ४९७३ गताब्देषु किमिति जिज्ञासायाम् यदि ५४ विकलाभिरेको वर्षस्तदा ४९७३ वर्षेषु किमित्यनुपाते ७४। ३५। ४४ अंशादयोगताः इत्यायाति तन्मते च मीनान्तात् सर्वथा पश्चाद्गत्या भगणपूरणस्वीकारेण मीनान्तात् ७४। ३५। ४४ अंशादितः पूर्ब्बमयनस्थानापत्तिः तथाच मीनान्तात् तावद्भिरंशैः पूर्व्वं मकरस्य पञ्चदशांशे अयनांशादि स्यात्। न च तथा प्रत्यक्षादिभिरवगम्यते नापि ज्योतिर्विदां केषाञ्चित्सम्मतम् अतोऽयनस्थानेन केवलविलोमगत्या भचक्रस्य भ्रमणोक्तिः साहसमेव। किञ्च अतिचिरन्तनकालैः संवादनीये प्राग्गतित्वे पश्चाद्गतित्वे वा आर्ष ज्ञानं विना निर्णयासम्भवः अतः सौराद्यागमोक्तं प्राग्गतित्वमनादृत्य प्रथमं पश्चाद्गतिस्वीकारः केवलपश्चाद्गतिस्वीकारः अयनचलनस्य तद्भगणसंख्यातो विषमकल्पनञ्चार्वाग्दृशां आगसविरोधात् वचनमात्रेण न श्रद्धाय प्रभवति। किञ्च सौरागमाद्युक्तं प्राग्गतित्वंमनादृत्य केवलं पश्चाद्गतित्वं यत् स्वीकृतं तत् सर्व्वव्ययहारलोपकम् तिथ्यादिसाधनाङ्गायनांशादिविलोपकञ्च। एतेन इंलण्डिया अपि ज्योतिर्वेत्तारः सृष्टिकालस्य षट्सहस्रकालमात्रपरिमितिवादिनोऽपि परास्ताः। तैरपि प्रतिवर्षं ५४ विकलाः अयनांशभोगाः स्वीकृताः स्वीकृतश्च षटषष्टिवर्षैरकांशभोगः तथा च ६६। ८ वर्षादिभिर्यदि एको-ऽंशः पश्चाद्गच्छति तदा तदुक्तसृष्टिकाले ६००० कतीत्यनुपाते ९० अंशाः समायान्ति तेन मीनान्तात् ९० अंशान्तरे पश्चाद्गत्या धनुःशेषांशेऽयनारम्भः स्यात् तदेतद्दृष्टविरुद्धत्वादपेक्ष्यमेवंमीनान्तं विहाय अन्यत्र कान्तिवृत्तारम्भस्थानतश्चलनकल्पने न विनिगमकममस्ति इति विजातीयज्योतिर्विदाम्मतमसङ्गतमेव तैरपि तदवधिक्रान्तिवृत्तारम्भांशचलनस्वीकारात्। इदानीं च संवाद्ययनानुसारेण मीनान्तात् २०। ३५। ४४ तत्रानुपातेप्रायेण १३७० वर्षा आयान्ति तत्रैव सृष्टिकल्पनन्तु नैव सम्भवति ख्रीष्टाब्द १८७३ कालस्यततोऽधिकत्वेन तत्पूर्ब्बं सृष्टेरुचितत्वात्। पुनर्भगणान्तरस्वीकारे तु २४००० वर्षास्ततोऽधिकाः स्युस्तेन २५३५ वर्षाः सृष्टि कालाः अन्ततः स्युः तावतिथेच काले सर्वग्रहाणां मेषादौ स्थित्यसम्भव एव इति सर्वथा तन्मतमनादरयणीयमेव। प्राग्दर्शितसरणौ प्रीचीनसम्मतिरपि यथा। “मृगसंक्रान्तितः पूर्ब्बं पश्चात्तारादिनान्तरे। प्रतिवर्षं चतुः पञ्चपलमानक्रमेण तु। षट्षष्टिवत्सरानेकदिनं स्यादयनं रवेः। एवं चतुःपञ्चदिनादयनारम्भणं क्रमात्। व्युत्क्रमेण च तद्वत् स्यादुदग्यानं रवेर्ध्रुवम्। कर्किसंक्रमणे तद्वदभितोदक्षिणायनम्। अयनांशक्रमेणैव विषुवारम्भणं तथा। रविसंक्रान्तितोमेषतुलयोरभितः पुनः” तिथि० त०। अधिकमयनसंक्रान्तिशब्दे वक्ष्यते। एति सूर्य्योदक्षिणामुत्तरां वाऽत्र आधारे ल्युट्। पूर्व्वोक्तरीत्या सूर्यस्योत्तरदक्षिणागत्याधारे ११ काले तथा च। “तपस्तपस्यौ शिशिरावृतुः मधुश्च माधवश्च वासन्तिकावृतुः शुक्रश्च शुचिश्च ग्रीष्मावृतुः अथैतदुत्तरायणं देवानां दिनं नभश्च नभस्यश्च वार्षिकावृतुः इषश्च ऊर्जश्च शारदावृतुः सहाश्च सहस्यश्च हैमन्तिकावृतुः अथैतद्दक्षिणायनं देवानां रात्रिः” इति श्रुतौ “अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदोजनाः। धूमोरात्रिस्तथा वह्निः षण्मासादक्षिणायनमिति” गीतायाञ्च षण्मासानामेव अयनत्वेनाभिधानात्। १२ अयनाभिमानिदेवेषु “आतिवाहिकास्तल्लिङ्गात्” शा० सू०। अर्च्चिरादीनां तदमिमानदेवतापरत्वव्यवस्थापनात् “तेऽचिर्षमभिसम्पद्यन्ते अर्च्चिषोऽहः अह्न आपूर्य्यमाणपक्षम् आपूर्य्यमाणपक्षात् यानुदङ्ङेति तान्मासान् मासेभ्यः संवत्सरमित्युपक्रम्य सएतान् ब्रह्म गमयतीति” छा० उ० श्रुतौ ब्रह्मगमयितृत्वोक्तेः तेषां चेतनपरत्वौचित्यम्। “अयते याति अनेन ऋतुत्रयेण सूर्य्योदक्षिणाशामुत्तराशां वेति ऋतुत्रयमयन तथा च वाजसनेयिनः पञ्चाग्निविद्यायां दक्षिणोत्तरमार्गयोः समामनन्ति। “यान् षण्मासान् दक्षिणादित्य एति, यान् षण्मासानुदङ्ङादित्य एतीति” तथा छन्दोगा अधीयते। “यान् षड्दक्षिणैति–मासान् तान्, यान् षडुत्तरैति मासांस्तानिति” तैत्तिरीयाः क्रतु ग्रहब्राह्मणेपठन्ति “तस्मादादित्यः षण्मासान् दक्षिणेनैति षड् त्तरेणैति” एवंचादित्यगतिमुपजीव्यायननिष्पत्तेः सौरमेवैतत् अत एव विष्णु धर्म्मोत्तरे सौरमानमधिकृत्योक्तम् “ऋतुत्रयं चायनंस्यादिति” केचित्तु चान्द्रमानेनायनद्वयमभ्युपगच्छन्ति “मार्गमासादिकैस्त्रिभिः ऋतुभिः कल्पितः कालः षण्मासात्मकमुत्तरायणं ज्यैष्ठमासादिकैः दक्षिणायनमिति तत्र प्रमाणं ज्योतिः शास्त्रादौ मृग्यं श्रौतस्मार्त्तकर्मानुष्ठाने तु मकरकर्कटसंक्रान्त्यादिक एवायनद्वयकाल इति यथोक्तश्रुतिस्मृतिभ्यामवगन्तव्यम् उत्तरायणस्य यागकर्माङ्गचं कण्वा अधीयते “उदगयन आपूर्य्यमाणे पक्षे पुण्याहे द्वादशाहमुपसद्वती भूत्वेत्यादि”। चौलादीनामुत्तरायणकर्त्तव्यता गृह्यस्मृतिषु प्रसिद्धा। सत्यव्रतश्च देवताप्रतिष्ठादीनामुत्तरायणदक्षिणायनयोर्विधिनिषेधावाह “देवतारामवाप्यादिप्रतिष्ठोदङ्नुखे रवौ। दक्षिणाभिमुखे कुर्व्वन् न तत्फलमवाप्नुयादिति” उग्नदेवतानां प्रतिष्ठा दक्षिणायने कर्त्तव्या तथा च वैखानससंहितायामभिहितम् “मातृभैरववाराहनारसिंहत्रिविक्रमाः। महिषासुरहन्त्री च स्थाप्या वै दक्षिणायन इति” कालमाधवीये माधवः। “सौरेण द्युनिशोर्वामं षडशीतिमुखांनिच। अयनं विषुवच्चैव संक्रान्तेः पुण्यकालता”। सू० सि० उक्तेः अयनं सौरमानेनैवेत्यवगम्यते। कान्तिवृत्तारम्भस्थानचलनं च सर्वेषां राशीनां स्वस्वस्थानात् प्राक् पश्चाद्वा अयनांशानुसारेणान्यत्र स्थाने भवति। तस्य स्फुटानयनमयनसंक्रान्तिशब्दे वक्ष्यते। “संक्रान्तिषु यथा कालस्तदीयेऽप्ययने तथा” का० मा० स्मृतिः। एति समृद्धिमनेनकरणे ल्युट्। १२ सत्रविशेषे यथा गवामयनम् तद्विवरणं गवामयनशब्दे। अयनेननिर्वृत्तम् अयनस्येदंवा अण्। आयनम् अयनसाध्ये अयनसम्बन्धिनि च त्रि०। “युतायनांशोडुपकोटिशिञ्जिनी जिनांशमौर्व्या गुणिता विभाजिता। द्युजीवया लब्धफलस्य कार्म्मुकम् भवेच्छशाङ्कायनदिक्कमायनमिति” आयनं वलनमस्फुटेषुणा सङ्गुणं द्युगणभाजितं हतम्। पूर्ण्णपूर्ण्णधृतिभिर्गृहाश्रितव्यक्षभोदयहृदायनाः कलाः “अस्फुटेषुवलनाक्षतिस्तु वा पष्टिहृत् फलकलाः स्युरायनाः” इति च सि० शि०। अयने भवः ठञ्। आयनिकः अयनभवे त्रि० स्त्रियां ङीप्।

अयनकाल = पु० अयधारः कालः। अयनांशाधारे काले

अयन(च)वलन = न० ६ त०। अयनांशस्य प्राक् पश्चाद्वा स्थानान्तरचलने।

अयनज = पु० अयनात् राशीनां स्वस्वस्थानचलनात् जायते जन–ड। अयनांशजाते मासादौ।

अयनभाग = पु० अयनज्ञापको मागः। अयनांशे।

अयनमास = पु० अयनकृतः मासः। अयनांशानुसारेण दिनमानादिज्ञानार्थे कल्पिते मासे।

अयनसंक्रम = पु० अयनांशानुसारेण संक्रमः। मेषादिषु राशिषु अयनांशानुसारेण ग्रहाणां प्रभापुञ्जसञ्चारे अयनसंक्रान्तिशब्दे विवरणम्।

अयनसंक्रान्ति = स्त्री अयनेन राशिचक्रस्य पश्चात्, प्राग्वागत्या कृता संक्रान्तिर्ग्रहाणां प्रभापुञ्जस्य सञ्चारः सम् + क्रम–क्तिन्। चलसंक्रान्तौ, संक्रान्तिस्त्रिविधा मध्याचला अचला चेति भेदात् मध्यानुपदं बक्ष्यते मेषादिभिर्द्वादशभिः स्थानैर्विभक्तस्य निराधारतया स्थितस्य राशिचक्रस्य दोलायमानतया प्राक् पश्चाद्वा निर्द्दिष्टमेषादिस्थानात् पश्चात् पूर्ब्बं वा राश्यन्तरे मण्डलगतिं विनापि ग्रहाणां प्रभापुञ्जमात्रसंचारः चलसंक्रान्तिः अनियतस्थानतया चलत्वात्। निर्द्दिष्टराशिस्थानेषु ग्रहाणां मण्डलसञ्चारः अचलसंक्रान्तिः राशिसंक्रान्तिरिति चोच्यते तस्या नियतमेकस्थानएव जायमानत्वादचलत्वम्। अनयैव संक्रान्त्या यथा मासादिव्यवहारे न दोषः चलसंक्रान्त्या तु बहवों दोषास्तथा निरूप्यते तथा हि ग्रहाणामाक्रान्तराशितो राश्यन्तरक्रमण संक्रान्तिरित्युच्यते सा च द्विधा मध्यमा स्पष्टा च। षट्कर्म्मसंस्कृतो मध्यग्रहो यदा राश्यन्तरं संक्रांमति तदा मध्यसंक्रान्तिरित्युच्यते यदा तु स्पष्टीकृतसंस्कारो ग्रहो राश्यन्तरं गच्छति सा स्पष्टसंक्रान्तिरित्युच्यते तत्र मध्यसंक्रमस्य स्पष्टीकरणार्थत्वादेव तज्जनितसंक्रान्तेः स्पष्टीकार एवोपयोगात् लोकशास्त्रयोर्व्यवहारे न तस्य उपयोगः किन्तु “गुरोर्भध्यमसंक्रान्तिहीनोयश्चान्द्रवत्सरः। अधिसंवत्सरस्तस्मिन् कारयेन्न सवत्रयम्। वर्जनीया प्रयत्नेन प्रतिष्ठा सर्वनाकिनाम् स्फुटसंक्रान्तिहीनश्चेत् केऽप्याहरधिमासकम्” इति कालमाधवीयधृतस्मृतेः मध्यसंक्रान्तेरपि अधिवत्सरोपयोगिता तदन्यत्र तु तस्या- नोपयोगः इति स्पष्टसंक्रान्तेरेव लोकशास्त्रोपयोगः। स्पष्टसंक्रान्तिरपि द्विविधा सायनांशा निरयनांशा चेति भेदात् यदा सिद्वान्तगणनयायनांशसंस्कृतो ग्रहोराश्यन्तरं गच्छति सा सायनांशा संक्रान्तिः। यदा तु अयनांशसंस्काररहितः राश्यन्तरं गच्छति सा निरयनांशा संक्रान्तिरुच्यते। संक्रान्तिश्च “त्रुटेः सहस्रभागोयः स कालोरविसंक्रम” इत्युक्तसूक्ष्मकालरूपा एतच्च क्रियैव काल इति मते अन्यमतेतु संक्रान्त्युपलक्षितस्तादृशसूक्ष्मकालैति भेदः। तादृश सूक्ष्मकालस्य संक्रान्तिशब्दार्थत्वे संक्रान्तिशब्दे वक्ष्यमाणदानाद्यङ्गत्वासम्भवेन “मुख्याभावे प्रतिनिधिः शास्त्रार्थं” इति न्यायेन गौणकालस्याप्यदर्त्तव्यता स्नानाद्यङ्गत्वान्ययानुपपत्त्या च तथा कल्प्यत्वे स्मृत्याद्युक्तंकालविशेष एव तदङ्गत्वेन कल्पाते यथोक्तं कालमाधवीये स्नानदानाद्यङ्गभूते संक्रान्तिकाले मुख्यकल्पस्यासम्भवादनुकल्पएवादर्त्तव्यः यथाहं देवलः “संक्रान्तिसमयः सूक्ष्मोदुर्ज्ञेयः पिशितेक्षणैः। तद्योगादप्यधश्चोर्द्धं त्रिशंन्नाड्यः पवित्रिताः” इति देशव्यवधानराहित्येनात्यन्तसंश्लिष्टयोः पूर्ब्बोत्तरराश्योर्मध्ये सूर्य्यः पूर्बराशिं परित्यज्य यावता कालेनोत्तरराशिं प्रविशति स कालः योगदृष्टिं बिना मांसदृष्ट्या दुर्ल्लक्ष्यः अतोऽनुष्ठाने मुख्यसंक्रान्तिकालग्रहणासंभवात् संक्रान्तिसम्बन्धिनौ पूर्ब्बोत्तरकालौ ग्रहीतव्यौ संक्रान्तेः पूर्बोत्तरयोरेकैकस्मिंस्त्रिंशद्वटिकाः पुण्या इति सामान्यत उक्तमिति”। तत्र अचलसंक्रान्तेरिव चलसंक्रान्तेरपि पुण्यकालतास्ति यथोक्तं तत्रैव मेषादिसंक्रान्तयो यस्मिन्दिने भवन्ति तस्माद्दिनात् पूर्वेभ्य एकादशदिनेभ्यः प्राचीने दिने मेषायनमेवं वृषभायनभित्येयं तनामाङ्कितस्यवति तत्काले तस्मिन्नयते स्नानादिषु पुण्यकालमाह जावालिः “संक्रान्तिषु यथा कालस्तदीयेऽप्ययने तथा। अयने विंशतिः पूर्वा मकरे विंशतिः परेति” मकरव्यतिरिक्तैकादशसंक्रान्तिसम्बन्धिष्वयनेषु तत्तत्संकान्तिवत् पुण्यकालोऽवगन्तव्यः मकरसंक्रान्तिसंम्बन्धिनि त्वयने संक्रान्तिवैलक्षण्यं, तद्यथा मकरमिन्ने प्राचीना विंशतिषटिकाः पुण्याः मकरसंक्रान्तौ तु पाश्चात्त्या विंशतिघटिकाः पुण्या इति”। न केवलमादित्यस्यैव संक्रान्तिष्वयने पुण्यकालः किन्तु सर्वेषामपि ग्रहाणां नक्षत्रराशिसंक्रमे पुण्यकालो भवति इयांस्तु विशेषोरवेरेव राशिसंक्रमे पुण्यकालः अयनसंक्रमे तु चन्द्रादीनामपि कालविशेषे पुण्यता यथाह तत्रैव ल्योतिःशास्त्रे “नक्षत्रराश्योरविसंक्रमे स्युरर्वाक् सरस्ताद्रसवन्द्रनाद्यः पुण्यास्तयेन्दोस्त्रिधरालवैर्युता एकैव नाडी मुनिभिः शुभोक्ता। नाड्यश्चतस्रः सपलाः कुजस्य। बुथस्य तिस्रः पलविश्वयुक्ताः। अध्यर्द्धनाड्यः पलसप्तयुक्ता गुरोश्चतस्रः सपलाश्च शुक्रे। द्विनागनाड्यः पलसप्तयुक्ताः शनैश्चरस्याभिहिताः सुपुण्याः। आद्यन्तमध्ये जपहोमदानं कुर्वन्नवाप्नोति सुरेन्द्रधामेति”। अयमर्थः आदित्यस्य राशिनक्षत्रगमने अर्वाक् परतश्च षोडश घटिकाः पुण्यकालः तथा चन्द्रस्यापि घटिकैका पलानि च त्रयोदशार्वाक्परतश्वपुण्यकालः। एवं मङ्गलस्य चतस्रो घटिकाः पलमेकं च पुण्यकालः तथा बुधस्य तिस्रो घटिकाश्चतुर्दश पलानि च पुण्यकालः वृहस्पतेरपि सार्द्धचतस्रो घटिकाः सप्न पलानि च पुण्यकालः। शुक्रस्य चतस्रो घटिकाः पलमेकञ्च पुण्यकालः शनैश्चरस्य द्व्यशीतिघटिकाः पलानि च सप्न पुण्यकालः। पीयूषघारायां तु जैमिनिवचनत्वेन एतद्वचनमुपन्यस्तम्। मेषायनादिषु संक्रान्तिस्फुटीकरणञ्च मुहूर्त्तचिन्तामणौ “तथायनांशाः खरसाहताश्च स्पष्टार्कगत्या विहृतादिनादि। मेषादितः प्राक् चलसंक्रमाः स्युर्दाने जपादौ बहुपुण्यदास्ते”। यथा राशिसंक्रमाः बहुपुण्य दास्तथा चलसंक्रमा अपीति द्योतनाय तथाशब्दः। अयनांशाः षष्ठ्या गुण्या स्पष्टया सूर्य्यगत्या विहृताः लब्धैर्दिनाद्यैः दिनघटीपलैः कलां कृत्वा मेषादिद्वादशराशिसंक्रमणकालात् प्राक्चलसंक्रमाश्चल संक्रान्तयः चलसंक्रमदाने ब्राह्मणेभ्यो दक्षिणादाने जपादौ जपश्राद्वहोमादौ बहुपुण्यदा भवन्ति तदुक्तं वशिष्ठसिद्धान्ते चलसंक्रमयुङ्मासे संक्रमोयः स संक्रमः अजागलस्तन इव राशिसंक्रान्तिरुच्यते” पुलस्त्यः “अयनांशसंस्कृतोभानुर्गोलेचरति सर्वदा अमुख्या राशिसंक्रान्तिस्तुल्यः कालविधिस्तयोः। स्नानदानजपश्राद्धव्रतहोमादिकर्म्मणि यत् कृतं चलसंक्रान्तावक्षयं पुरुषोऽश्नुते” इति रत्नमालायाम् “यावद्भिरंशैरयनच्युतिः स्यात्तद्भोग्यकालेन दिवाकरस्य। च्युतिर्भवेद्विष्णुपदादिकानां रहस्यमेतन्मुनिभिः प्रदिष्टमिति” अयनोशानयनञ्च अयनशब्दे दर्शितम्। तत्तद्राश्यादिमार्गेषु सूर्य्यादि तेजःपुञ्जसञ्चारश्चलसंक्रमोमण्डलमध्यसंपर्कश्च राशिसंक्रम इतिविषयवियेकः तद्यथा रथ्यायां प्राक् पश्चाद्वा नीयमानस्य दीपस्याग्रेदीपप्रभा यस्मिन्प्रदेशे गच्छति तस्मिन्नेव प्रदेशे क्षणान्तरेण दीपोऽपि गच्छति एवं सर्वेषामपि ग्रहाणां चससंक्रमा द्रष्टव्याः नन्वेवं चलसंक्रमस्य मुख्यत्वे तेनैव मानेन पञ्चाङ्गगणना स्यात् इति चेत् न अश्विन्यादिभानां विसंवादात् तथाहि सूर्य्याक्रान्तराशितश्चतुर्द्दशनत्रस्यैव सन्ध्याकाले प्रथममुदयोज्योतिषे प्रसिद्धः सर्वसम्मतश्च। तत्र यदि अयनांशशोधनमन्तरेणैव सूर्य्यस्य तत्तद्राशिघटकनक्षत्रस्थितिस्वीकारस्तदा इदानीमयनांशानुसारेण २०, ३५, ४४, एतदं शादितः पूर्बं रवेर्मेषादौ गत्यावश्यकत्वात् तस्य च तद्घटकनक्षत्रस्थितेस्ततश्चतुर्द्दशनक्षत्रस्य सन्ध्यायां प्रथमोदयापत्तिर्न च तथा दृश्यते तथा यस्मिन् दिने इदानीममापूर्णिमादयो दृश्यन्ते ततः पूर्वं २०, ३५, ४४ सूर्य्यचन्द्रयोरेकराशिस्थत्वेन अमावस्यापत्तिस्ततः पञ्चदशेऽहनि पूर्णिमापत्तिश्च नचैतत् प्रत्यक्षसंवादीति। अयनांशशोधतेन निरयनांशसंक्रमादितस्तु सर्व्वं प्रत्यक्ष संवादि। किं च सायनसंक्रमरहितस्य चान्द्रमासस्याऽधिमासत्वव्यवहारप्रसङ्गः संक्रान्तिद्वययुतस्य तस्य क्षयसासत्वव्यवहारप्रसङ्गश्च। एवं च बहुविप्लवात् चलसंक्रान्तेः मुख्यत्वेऽपि तेनैव मासवर्षगणनादिशङ्का न कार्य्या प्राग्प्रदर्शितपुलस्थ वचनेन, अयनशब्दे दर्शितेन सौरागमवाक्येन, “दिनरात्रि प्रमाणानां निर्णयो न भसंक्रमात्” अतः सकलकर्म्माणि” इति, सिद्वान्तशिरोमणिवाक्येन च स्मार्त्तकर्म्मविशेषे, लग्नज्ञानादिकर्म्मस्वेव तस्य मुख्यत्वाभिधानात् न तेन सर्वव्यवहारः अन्यथा तत्तद्विशेषोपादानं व्यर्थं स्यात्। एकान्तेन राशिसंक्रमानङ्गीकारे प्रागुक्तवचनजाते राशिसंक्रान्तिवत् पुण्यकालतामिघानानुपत्तिः तथा च यथा मासवत्सराणामनेकविधत्वेऽपि क्रियाविशेषे तेषां ग्राह्यता एवं चलस्थिरसंक्रान्त्योरपि विषयविशेषेऽपि ग्राह्यता। किञ्च सायनसंक्रममात्रेण सर्वव्यवहारे अनेके विसंवादा पीयूष धारायां दर्शिताः। तेऽप्यत्रोपदर्श्यन्ते। सायनगणनया त्वयोग्येऽपि काले ग्रहःकदाचिदेकनक्षत्रान्तरे नक्षत्रयोरन्तरे वोपलभ्येत सूर्य्यचन्द्रयोस्तु तेजोबहुत्वान्नक्षत्रतेजः परिभबान्न नक्षत्रसंनिधावुपलम्भो यद्यपि। तथापि कदाचित् क्षीणचन्द्रस्याप्युपलम्भोदृश्यत एव गोचरादिविषयक दुष्टफलानि एकराशिस्थितग्रहयोगफलानि च विरुध्येरन् ग्रहणादिविसंवादश्च। तस्मान्निरयनगणनयैव सर्वोऽपि व्यव हारो युक्तः यत्तु अजागलस्तनैवेत्यादि प्रागुक्तवचनम् “पुण्यत्वंराशिसंक्रान्तेः केचिदाहुर्मनीषिणः नैतन्मम मतमित्यादिवशिष्ठवाक्यञ्च तत् चलसंक्रान्तेः स्तुतिपरम् “न निन्दामिन्दनीयं निन्दति किन्तु विधेयं स्तौतीति” न्यायात् अन्यथा संक्रान्तिशब्दे दर्शयिष्यमाणानां राशिसंक्रान्तिपुण्यकालताबोधकवचनानां बहूर्ना विप्लवापत्तेः “दिनपति संक्रमात् प्राक् षोडश नाड्यस्तु पुण्यकाणः सः। परतः षोडश नाड्यः स्नानदानकार्य्येष्विति” वशिष्ठस्यैव वच- नान्तरेण विरोधः स्यात् अयनसंक्रान्तिषु तु अन्थविधस्यैव तेन पुण्यकालतीक्तेस्ततो विलक्षणविषयत्वौचित्यं तादृशवचनानाम्।

अयनांशज = पु० अयनस्य अंशः तज्जः। प्राथमिकक्रान्ति वृत्तारम्भस्थानातिक्रमेण जाते मासे “अयनांशजमासान्ते व्युत्क्रमेणादितो बुधैः” ज्यो० तत्त्व०।

***