अफल = त्रि० नास्ति फलं पुष्पप्रभवं धर्म्मप्रभवं सुखादिकं वा यस्य। १ बन्ध्ये फलकाले फलशून्ये (रा~डावृक्षे) २ धर्मकार्यसुखादिशून्ये ३ निष्फले च। “यथा षौण्डऽफलः स्त्रीषु यथा गौर्गवि चाफला। यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचो’फल इति” मनुः। अफलं दानमाह ममुः “धूर्त्ते वन्दिनि मल्ले च कुवैद्ये कितवे शठे चाटचारणदासेषु दत्तं भवति निष्फलमिति” हारीतः। “अथासद्द्रव्यदानमस्वर्ग्यं दत्त्वा परितप्यते तर्ह्यदानमफलं यच्चोपकारिणे ददाति यच्च तन्मात्रं परिक्लिष्टं यच्च सोपधं ददाति अन्यश्रावितमल्पं यच्चापात्राय ददाति अनिष्टदानं स्रवति यच्च दत्त्वा प्रकीर्त्त्यते स्मयदानं यच्चाश्रद्धया ददाति क्रोधाद्राक्षसं यच्चाक्रुश्य ददाति दत्त्वा वा क्रोशति असत्कृतं पैशाचं यच्चावज्ञातं ददाति बावजानीते मुमूर्षोस्तामसं यच्चाप्रकृतो ददाति”। “एतैर्दानोपसर्गैरुपसृष्टं दानमप्रशस्तमस्वर्ग्यमयशस्यमध्रुवफलं भवत्यल्पफलं वा रघु० (झाउ)। ४ झावुकवृक्षे पु० तस्य फलशून्यत्वात्तथात्वम्। नास्ति फलमिव वृषणावस्य। ५ इन्द्रे! स हि गौतमशापात् वृषणशून्योमेषवृषणश्चासीत् यथोक्तं रामायणे “नित्यं पुष्पफलोपेतैः पादपैरूपशोभिते।। स चेह तप आतिष्ठदहल्यासहितो मुनिः। संवत्सरसहस्राणि बहूनि रघुनन्दन!।। तस्यान्तरं विदित्वाथ कामार्तस्त्रिदिवेश्वरः। मुनिवेशधरो भूत्वा सोऽहल्यामिदमब्रवीत्।। ऋतुकालः प्रतीक्ष्योऽपि न प्रतोक्षे सुमध्यमे। संगमं शोघ्रमिच्छामि पृथुश्रोणि! सह त्वया।। मुनिवेशधरं शक्रं सा ज्ञात्वापि परंतप!। मतिं चकार दुर्मेधा देवराजकूतुहतात्” इत्युपृक्रम्यः।। “सोऽपि दृष्ट्वैव देवेन्द्रं मुनिवेशधरं मुनिः।। दुर्वृत्तं वृत्तसंपन्नो रोषाद्वचनमब्रवीत्। मम रूपं समास्थाय कृतवानसि दुर्मते!।। अकर्तव्यमिदं यस्मात्तस्मात् त्वं विफलो भव। गौतमेनैवमुक्तस्य सरोषेण महात्मना।। पेततुर्वृषणौ भूमौ सहस्राक्षस्य राघव!। व्यथितः स तदा चासीद्धतौजा विफलीकृतः।। धर्षितस्तपसोग्रेण कश्मलं चापि सोऽविशत्” इत्युक्त्वा। “गौतम क्रोधमुत्पाद्य सुरकार्यं चिकीर्षुणा।। अफलोऽहं कृतस्तेन क्रोधात् सा च निराकृता। शापदोषेण तेनास्य तपोविघ्नः कृतो मया।। तन्मां सुरगणाः! सर्वे! सर्षिसंघाः! सचारणाः। सुरकार्यार्थमफलं सफबं कर्तुमर्हथ।। शतक्र तोर्वचः श्रुत्वा देवा अग्निपुरोगमाः। ऊचुः पितृगणान् वाक्यमिदं तत्र समागतान्।। एष मेषः सवृषणःशक्रश्चावृषणीकृतः। अस्येमौ वृषणौ च्छित्त्वा महेन्द्राय प्रयच्छत।। अफलस्तु कृतो मेषः परां तुष्टिमुपैष्यति। भवतामुपयोगेन तच्चास्य सुमहत् फलम्।। तस्मान्मेषस्य वृषणौ च्छ्रित्त्वेमौ दातुमर्हत। इन्द्राय सुरकार्यार्थं विफलाय पितामहाः!।। श्रुत्वाथाग्निपुरोगाणां देवानां पितरो वचः। उत्कृत्य मेषवृषणाविन्द्रायोपददुस्तदा।। ततःप्रभृति कावुत्स्थ! पितरः कव्यभोजिनः। अफलं भुञ्जते मेषं सफलं तु न भुञ्जते।। इन्द्रश्च मेषवृषणस्ततःप्रभृति राघव! गौतमस्य प्रभावेन बभूवामिततेजसः” रामा०।। ६ मेषे च तस्य वृषणेन शक्रवृषणकरणात्तस्य तथात्वम् नास्ति फलं यस्याः जातित्वेऽपि “फलान्नञ” इति पा० ग० अजादित्वात् टाप्। ७ घृतकुमार्य्याम् ८ भूम्याकल्याञ्च स्त्री तयोः फलशून्यत्वात्तथात्वम्। फलं प्रयोजनम् ९ तच्छून्ये त्रि०। “अन्यथा ते वर्त्तमानस्याधर्म्मोभवतत्यफला च विद्या” सुश्रु०। “यथा षण्ड इत्यादि” मनुः।

अफलाकाङ्क्षिन् = त्रि० न फलं कर्मफलमाकाङ्क्षते आ + काङ्क्षणिनि ६ त० न० त० स्त्रियां ङीप्। कर्मफलाकाङ्क्षाशून्ये। “अफलाकाङ्क्षिभिर्यज्ञः क्रियते ब्रह्मवादिभिः” गीता।

अफलित = त्रि० फलं जातमस्य तारका० इतच् न० त०। फलितभिन्ने बन्ध्ये अफले वृक्षे।

अफल्गु = त्रि० विरोधे न० त०। फल्गुभिन्ने सारे।

अफुल्ल = त्रि० न० त०। फुल्लभिन्ने मुकुलिते।

अफेन = त्रि० नास्ति फेनं यस्य। १ फेनशून्ये दुग्धादौ। निन्दितं फेनं निर्यासोऽस्य (आफिङ्) ख्याते अहिफेने तस्य निर्य्यासस्य बहुसेवने प्राणनाशनात् निन्दितफेनत्वम्।

अब = शब्दे इदित् भ्वादि० आत्म० सक० सेट्। अम्बते आम्बिष्ट अम्बा अम्बाला अम्बिका अम्बरम् अम्बष्ठः।

अबद्ध = त्रि० बन्ध–क्त न० त०। १ असंबद्धे २ अन्वयबोधयोग्यताशून्ये परम्परविरुद्धे वाक्ये च यथा “यावज्जीवमहं मौनी ब्रह्मचारी च मे पिता माता तु मम बन्ध्यासीदपुत्रश्च पितामहः” इत्यादि वाक्यम्। ३ बद्धभिन्ने मुक्ते च।

अबद्धमुख = त्रि० न बद्धं यथेच्छवादितया अप्रतिरुद्धं मुखमास्यक्रिया यस्य स्त्रियां वा ङीप्। अप्रियवादिनि “सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियमिति” मनुनाऽप्रियवचनकथनस्य निषेधेऽपि तदुल्लङ्घनेन अप्रियवाक्यप्रयोक्तृत्वेन तस्य तथात्वम्।

अबध = पु० न बधस्ताडनं देहे आघातः प्राणवियोजनं वा अभावे न० त०। ताडनाभावे। “शिष्यशिष्टिरबधेनाशक्तौ वेणुदलेनेति” मिता० स्मृतिः। १ प्राणवियोजनाभावे च।

अबधा = स्त्री न बध्यतेऽस्यते लम्बेन। लीलावत्युक्ते त्रिकोणादि क्षेत्रे लम्बोभयपार्श्वस्थे भूमिखण्डे। न, बाध्यते आबाध्यते वा, अवाधा आवाधाऽप्यत्र। तदानयनञ्च “त्रिभुजे भुजयोर्योगस्तदन्तरगुणो भुवा हृतो लब्ध्या। द्विःस्था भूरूनयुता दलिताऽबाधे तयोः स्यातामिति” लीला०। “दशसप्तदशप्रमौ भुजौ त्रिभुजेयत्र नवप्रमा मही। अबधे वद लम्बकं तथा मणितं गाणितिकाशु तत्र मे” इति लीला० अबधोद्देशकः।

अबध्य = त्रि० बधमर्हति यत् न० त०। १ बधानर्हे प्राणवियोग फलकव्यापारो हिंसात्र बधः। “अबध्याञ्च स्त्रियं प्राहुस्तिर्य्यग्योनिगतामपि” स्मृतिः। २ बधदण्डानर्हे ब्राह्मणे च “बधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने। तदङ्कच्छेद इत्युक्तो दण्ड उत्तमसाहसः। अविशेषेण सर्वेषामेषदण्डविधिः स्मृतः। बधादृते ब्राह्मणस्य म बधं ब्राह्मणोर्हति” मिता० स्मृतिः। “उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमौ। चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणोव्रजेदिति” मनुः बन्ध–बा० क्यप्। ३ अयोग्यवाक्ये हे० मे० च।

अबन्धक = न० बध्यते स्वधनमितरत्र आधीयते बन्ध आधीयमानद्रव्यं स नास्ति यत्र कप्। १ आधिशून्ये ऋणादाने। “अशीतिभागोवृद्धिः स्यान्मासिमासि सबन्धके। वर्ण्णक्रमाच्छतं द्वित्रिचतुःपञ्चकमन्यथा” या० “अन्यथा बन्धकरहिते” मिता० “दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु” या० व्याख्यायाम् “ब्राह्मणादयोवर्ण्णा अबन्धके सबन्धके वा स्वकृतां वृद्धिं सर्वासु जातिषु दद्युः” विज्ञा०। अस्य पा० उपकादिगणपाठात् “उपकादिभ्योऽन्यतरस्यामद्वन्द्वे च” पा० सूत्रेण गोत्रप्रत्ययस्य बहुत्वे लुग्विधानात् कस्मिश्चित् २ गोत्रप्रवर्त्तके ऋषावपि अस्य रूढिः।

अबन्धुर = त्रि० न० त०। १ उन्नतानतभिन्ने २ शोभनभिन्ने ३ विधुरबन्धुरबन्धुरमैक्षतेति” माघः।

अबन्ध्य = त्रि० बन्ध्यः अफलः। १ सफले, “अबन्ध्यं दिवसं कुर्य्यात् दानाध्ययनकर्म्मभिः” स्मृतिः २ अफलभिन्ने फलकाले फलयुक्ते वृक्षे पु०।

अबल = न० न बलं सामर्थ्यमुत्कर्षोवाऽभावे न० त०। १ बलाभावे “प्रायश्चित्तं प्रदातव्यं दृष्ट्वा तस्य बलाबलम्” स्मृतिः। “गन्धानाञ्च रसानाञ्च ज्ञात्वा चार्घबलाबलम्” मनुः। बलमुत्कर्षमबलमनुत्कर्षम्” इति कुल्लू०। नास्ति बलं यस्य। २ बलहीने दुर्बले त्रि० “पञ्चवर्गीबलेनोनो न हर्षस्थानमाश्रितः अबलोऽयं लग्नदर्शीति नी० ता०। अबलस्वकुलाशिनो झसान्निजनीडद्रुमपीडिनः खगान्” नैष०। ३ नार्य्यां स्त्री “भुजलतां जडतामबलाजनः” रघुः। “हृदये वहसि गिरीन्द्रौ त्रिभुवनजयिनी कटाक्षेण। अचला त्वं यदि मन्थे के बलवन्तोन जानीम” इत्युद्वटः। ५ ब०। ४ वरुणवृक्षे पु०।

अबलिमन् = पु० बलस्य भावः इमनिच् विरोधे न० त०। रोगदिनिमित्ते देहस्य कृशीभावे।

अबाध = पु० अभावे न० त०। १ बाधाभावे २ प्रतिबन्धाभावे। नास्ति बाधो यस्य। ३ बाधशून्ये त्रि०। बाधश्च असत्त्वं स चानुमापकहेतौ दोषभेदः वह्यभाववध्रदत्वं हि बाध दोषः यत्सत्त्वेऽनुमितेः प्रतिबन्धः तस्य हेतुदूषकत्वमिति नैया०। नास्ति बाधा पीडायस्य। ४ पीडाशून्ये त्रि०।

अबाधक = त्रि० न० त०। १ बाधकभिन्ने अनुगुणे। नास्ति। बाधो यस्य वा कप्। २ बाधशून्ये त्रि०।

अबाधित = त्रि० न बाधितः। बाधितभिन्ने यथार्थे “अबाधितागृहीतनिश्चयत्वं प्रमात्वमिति” वृद्धाः। तद्वति तत्प्रकारकं ज्ञानं हि प्रमा तच्च तदभाववति तत्प्रकारकज्ञानेन प्रतिबध्यते तथा च तदभाववति तत्प्रकारकताशून्यत्वेन ज्ञानस्ययाथार्थ्यं, तादृशज्ञानविषयत्वात् विषयस्याबाधितत्वम्।

अबाध्य = त्रि० न बाध्यते अपोद्यते बाध–ण्यत् न० त०। अप्रतिरोध्ये।

अबाल = त्रि० न० त०। १ बालभिन्ने पूर्ण्णे चन्द्रादौ २ तरुणे च।

अबिन्धन = पु० आप एव इन्धनमुद्दीपनसाधनमस्य। बाडवाग्नौ “अविन्धनं वह्निमसौ बिभर्त्ति” रघुः।

अबुद्ध = त्रि० बुध–कर्त्तरि कर्म्मणि वा क्त न० त०। १ बोधानाश्रये २ बोधाविषये च।

अबुद्धि = स्त्री अभावे न० त०। १ ज्ञानाभावे यस्य यद्रूपेण ज्ञानमुचितं २ तथाज्ञानाभावे।

अबुद्धिपूर्व्वक = त्रि० अबुद्धिः पूर्ब्बा यस्य। यथार्थबुद्धिपूर्व्वकभिन्ने। “अबुद्धिपूर्ब्बहनने व्रतार्द्धमुपकल्पयेत्” स्मृतिः यदि गां गवयबुद्ध्या हन्ति, गवयं वा गोभ्रान्त्या हन्ति, सर्वथाऽबुद्धिपूर्बकत्वम्–एवसन्यार्थक्षिप्ननाराचादिना हणनेऽपि तथात्वम्। इयं गौरिमां हन्मीत्युदेशेनैव हनने बुद्धिपूर्बकत्वम्।

अबुध = पु० विरोधे अप्राशस्त्ये वा न० त०। १ बुधभिन्ने मूर्खे २ अल्पज्ञाने च।

अबु(बो)ध्य = त्रि० बुध बा० वेदे क्यप् लोके तु ण्यत्। ज्ञातुमशक्येऽर्थे “अबुध्यमबुध्यमानं सुषुपाणमिन्द्रम्” ऋ० ४, १८, ३, “अबुध्यं दुर्विज्ञेयमिति” भा०।

अबुध्न = न० नास्ति बुध्नं मूलमस्य। १ मूलशून्ये अन्तरिक्षे “अबुध्ने राजा वरुणो बलस्योर्द्ध्वम्” ऋ० १, २४, ७, “अबुध्ने मूलशून्ये अन्तरिक्षे” भा०। २ मूलशून्यमात्रे करकादौ त्रि०।

अबोध = पु० अभावे न० त०। १ बोधाभावे अज्ञाने “निसर्गदुर्बोधमबोधविक्लवाः” किरा०। न०। ब०। २ बोधरहिते त्रि०।

अबोधगम्य = त्रि० बोधेन गम्यः विषयीकार्य्यः न० त०। ज्ञानेनाविषयीकार्य्ये ज्ञातुमशक्ये।

अब्ज = न० अप्सु जायते जन–ड ७ त०। १ पद्मे २ शङ्खे पुंन०। ३ निचुलवृक्षे तस्य जलप्रायभवत्वात् तथात्वम् १ चन्द्रे ५ धन्वन्तरौ च पु० तयोः समुद्रजातत्वात् तथात्वम् “प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः” इति “धन्वन्तरिस्ततोदेव! वपुष्मानुदतिष्टत” इति च भा० आ० प०। चन्द्रनामकत्वात् ६ कर्पूरे पु०। “अर्बुदमब्जं खर्वनिखर्वमहापद्मशङ्कवस्तस्मादिति” लीलावत्युक्तदशार्वुदसंख्यायां ७ शतकोटिसंखायां ८ तत्संख्येये च न०। ९ जलजातमात्रे त्रि० “स्थलजाः पक्षिणोऽब्जाश्च” इति “अब्जेषु चैव रत्नेषु सर्व्वेष्यश्ममयेषु च” इति रामा०।

अब्जकर्ण्णिका = स्त्री अब्जस्य कर्ण्णिका कर्ण्णाभरणभेदैव तुल्याकारत्वात्। पद्ममध्यस्थसवर्त्तिकाख्ये पद्मावयवभेदे पद्मकर्ण्णिकादयोऽप्यत्र।

अब्जज = पु० अब्जात् विष्णोर्नाभिकमलात् जायते जन–ड। चतुर्मुखे ब्रह्मणि तस्य विष्णुनाभिकमलजातत्वात्तथात्वम् “दृष्ट्वा भूतानि भगवान् लोकसृष्ठ्यर्थमव्ययः। ब्रह्मणोजन्मसहितं बहुरूपं विचिन्वति”। इत्युपक्रम्य “ततस्तस्मिन्महातोये हविषो हरिरच्युतः। स्वपन् क्रीडंश्च विविधं मोदते वैस पावकिः पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्ततः। सहस्रपर्ण्णं विरजो भास्कराभं हिरण्मयम्। अथ योगविदां श्रेष्ठं सर्वभूतमनोमयम्। स्रष्टारं सर्वभूतानां ब्रह्माणं सर्वतोमुखम्। तस्मिन् हिरण्मये पद्मे बहुयोजनविस्तृते। इति समुत्पादितवानित्याकर्षः अनतिदूरे चं “कस्त्वं पुष्करमध्यस्थः सोतोष्णीषश्चतुर्मुखः। आवां न गणयेर्गोहादास्मे त्वं विगतज्वरः। एह्यावयोर्बाहुयुद्धं प्रयच्छ कमलोद्भव!। इति तेन तस्य विष्णुनाभिकमलज त्वं तद्स्थृत्वञ्च हरि० पौ० प०। “स्वराशौ स्वांशगे सौम्ये (बुधे) लग्नस्थे वा भृगोः सुते। जीवे वाऽब्जजयोगोऽयं यातुः शत्रुविनाशकृदिति” ज्योतिषोक्ते २ यात्रायोगभेदे च।

अब्जबान्धव = पु० अब्जानां बान्धबैव प्रकाशकत्वात्। कमलप्रकाशके सूर्य्ये तस्योदये हि कमलं विकाशते इति कविसम्प्रदायप्रसिद्धिः। एवं कमलबान्धवादयोऽप्यत्र।

अब्जभोग = पु० अब्जस्य शङ्खस्य भोगः अवयवैव भोगोयस्य। शङ्खावयवतुल्यावयवे वराटके। भुज्यते भुज–कर्म्मणि घञ् भोगः भोज्यम्। अब्जस्य भोज्यांशे पद्मकन्दे शालूके तस्य लोकैर्भुज्यमानत्वात् तथात्वम् कमलभोगादयोऽप्यत्र।

अब्जयोनि = पु० अब्जं विष्णुनाभिकमलं योनिरुत्पत्तिस्थानं यस्य। चतुर्मुखे ब्रह्मणि। विस्तरोऽब्जजशब्दे दृश्यः।

अब्जवाहन = पु० अब्जस्य चन्द्रस्य वाहनं धारणं येन “अब्जं शङ्क्ष इव शुभ्रं वाहनं वृषरूपं यस्य वा। १ चन्द्रमौलौ शिवे। अब्जं कमलं वाहनमिवाधारो यस्याः। २ पद्मासनस्थायां लक्ष्म्याम् “पद्मासनस्थां ध्यायेच्च श्रियं त्रैलोक्यं मातरमिति” तद्ध्याने उक्तेः तस्या अब्जवाहनत्वम् कमलादि वाहनाप्यत्र।

अब्जस् = न० आप्यते जन्मतः आप–असुन् जुट्–ह्रस्वश्च। सूपे उ० द०। तस्य जन्मावधिप्राप्तत्वेन तथात्वम्।

अब्जस्थित = पु०। अब्जे विष्णुनाभिकभले स्थितः स्था–क। चतुर्मुखे ब्रह्मणि “स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः देवी अधिकमब्जजशब्दे दृश्यम्।

अब्जहस्त = पु० अब्जं पद्मं हस्ते यस्य। सूर्य्ये “पद्मासनं पद्महस्तम्” इति तद्ध्यानोक्तेस्तथात्वम्।

अब्जा = त्रि० अप्सु जायते जन–विट् ७ त०। जलजातमात्रे “अब्जामुक्थैरहिं गृणीषे” ऋ० ७, ३४, १६, “अब्जामप्सजातमहिम्” भा०।

अब्जिनी = स्त्री अब्जानां समूहः अब्ज + इनि–ङीप्। पद्मसमूहे। अब्जानां देशःपुष्करा० इनि। २ पद्मलतायाम् च।

अब्जिनीपति = पु० अब्जिन्याः पद्मसमूहस्य पतिःपकाशकत्वात्। कमलप्रकाशके सुर्य्ये। पद्मिनीनाथतत्पत्यादयोःप्यत्र।

अ(व्द)ब्द = पु० अवति रक्षति सीमानं दन्। १ पर्वतभेदे स च वर्षपर्वत एव तद्भेदः वर्षपर्वतशब्दे वक्ष्यते। अपोददाति दा–क ६ त०। २ मेघे ३ मुस्तायां च तस्याश्चात्यन्तशीतवीर्य्यत्वेन वैद्यकोक्तेः जलमयमूलत्वाच्च तथात्वम्। आप्यन्ते व्याप्यन्ते ऋतुमासपक्षतिथिनक्षत्रयोगकरणवारादयो येन आप–दन् ह्रस्वश्च “अ(ब्दा)ब्दादयश्च” उ० नि०। ४ वत्सरे। स च नवविधः। “ब्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यं गुरोस्तथा सौरञ्च सावनं चान्द्रमार्क्षं मानानि वै नवेति” सू० सि० उक्तेः तत्र ब्राह्माब्दमानम् “सूर्य्याब्दसंख्यया द्वित्रिसागरैरयुताहतैः सन्ध्यासन्ध्यंशसहितं विज्ञेयं तच्चतुर्युगम् इथं युगसहस्रेण भूतसंहारकारकः कल्पी ब्राह्ममहः प्रोक्तं शर्वरी तस्य तावतीति” परमायुः शतं तस्य तयाहोरात्रसंख्यया” इति च सू० सि। तथाच सौरैः (४३२००००००००) एतावद्वर्षैस्तस्याहस्तावद्भिश्च रात्रिः तेन द्विगुणितैस्तैः ३६० गुणितैर्ब्राह्माब्दमानम्। अथ दिव्यम् “मासैर्द्वादशभिर्वर्षं दिव्यं तदहरुच्यते तत्षष्टिः षड्गुणा दिव्यं वर्षमासुरमुच्यते” इति तत्रोक्तेः ३६० सौरवर्षैर्दिव्याब्दमानम् “मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम् न तत्र द्युनिशोर्भेद इति तत्रोक्तम् मन्वन्तरमानमेव प्राजापत्याब्दमानम् तच्च “युगानां ४३२०००० सप्ततिः सैका मन्वन्तरमुदाहृतम्” इत्युक्तम् तेन ७१ गुणितैः ३११०४००० सौरवर्षैः प्राजापत्यम्। पित्र्यं तु “त्रिंशता तिथिभिर्मासश्चान्द्रः पित्र्यमहः स्मृतम् निशा च मासपक्षान्तौ तयोर्मध्ये विभागतः” इत्युक्तेः चान्द्रमास एव पित्र्यमहोरात्रं तच्च ३६० गुणितं तद्वर्षमानम् तथाच १०८०० चान्द्रदिनैः पित्र्यवर्षमानमितिफलितम्। वार्हस्पत्यन्तु “वैशाखादिषु कृष्णे च योगः पञ्चदशे तिथौ। कार्त्तिकादीनि वर्षाणि गुरोरस्तोदयात् तया” सू० सि० “यया पौर्णमास्यां नक्षत्रसम्बन्धेन तत्संज्ञो मासो भवति तथेति समुच्चयार्थकम्। वृहस्पतेः सूर्य्यसान्निध्यदूरत्वाभ्यामस्तादुदयाद्वा वैशाखादिषु द्वादशसु मासेषु कृष्णपक्षे पञ्चदशे तिथौ अमायामित्यर्थः। चकारः पौर्णमासीसम्बन्धात् समुच्चयार्थकः। योगो दिननक्षत्रसम्बन्धः कार्तिकादीनि द्वादश वर्षाणि भवन्ति। वैशाखकृष्णपक्षपञ्चदश्याममारूपायां वृहस्पतेरस्ते उदये वा जाते सति तदादि वृहस्पतिवर्षं कृत्तिकादिनक्षत्रसम्बन्धात् कार्त्तिकसंज्ञम्। एवं ज्यैष्ठाषाढश्रावणभाद्रपदाश्विनकार्त्तिकमार्गशीर्षपौषमाघफाल्गुनचैत्रामासु क्रमशो मृगपुष्यमघापूर्ब-

फाल्गुनीचित्राविशाखाज्येष्ठापूर्व्वाषाढाश्रवणापूर्बभाद्राश्विनीनक्षत्रसम्बन्धान्मार्गशीर्षादीनि भवन्ति। अत्रापि नक्षत्रद्वयत्रयसम्बन्धः चान्द्रमासवत् बोध्यः। तच्च मासशब्दे दृश्यम् तेन यद्दिने वृहस्पतेरुदयोऽस्तो वा तद्दिने यच्चन्द्राधिष्ठितनक्षत्रं तत्संज्ञं वार्हस्पत्यं वर्षं भवतीति तात्पपर्य्यम्। मेषादिसंक्रान्तीरुक्त्वा “मेषादयो द्वादशैव सौरमाने तु वत्सर” इति “सौरन्तु तद्भवेन्मानं भानोर्भगणपूरणादिति” चोक्तेः ३६० सौरदिवसैः सौरवर्षमानम्। सावनन्तु “उदयादोदयं भानोः सावनं तत्प्रकीर्त्तित” मित्युक्तम्। “पञ्चाङ्गरामास्तिथयः खरामाः सार्द्धद्विदस्राः कुदिनाद्यमब्दे” इति सि० शि० उक्तेः ३६५, दिनानि १५, ३०, २२, ३०, दण्डादिसहितानि सावनदिनानि “अस्यार्कमासोऽर्कलवः प्रदिष्टस्त्रिंशद्दिनः सावनमास” इति सि० शि० उक्तदिशा तन्मासादयोज्ञेयाः। “त्रिंशता तिथिभिर्मासश्चान्द्र इति” प्रागुक्तं चान्द्रमानम् तच्च “कालेन येनैति पुनःशशीनं क्रामन् भचक्रं विवरेण गत्योः मासः स चान्द्रोऽङ्कयमाः कुरामाः शून्येषवस्तत् कुदिनप्रमाणम्” इति सि० शि० उक्तेः ३१। ५० दण्डादियुतैरेकोनत्रिंशत्कुदिनैश्चान्द्रमासः द्वादशगुणिते च तस्मिन् ३५४। १८ कुदिनैश्चान्द्रबर्षमानम् चान्द्रमासविशेषाः मासशब्देवक्ष्यन्ते। नाक्षत्रं यथा “भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यते” सू० सि० नित्यं प्रत्यहं भचक्रभ्रमणं नक्षत्रससूहस्य प्रवहवायुकृतः परिभ्रमः नाक्षत्रं नक्षत्रसंवन्धि दिनम्। एवं००२०नवसु ब्राह्मादिषु वर्षेषु दर्शितेषु चतुर्ण्णामेव व्यवहारोपयोगिता यथोक्तं “चतुर्भिव्यवहारोऽत्र सौरचान्द्रार्क्षसावनैः वार्हस्पत्येन षष्ट्यब्दं ज्ञेयं नान्यैस्तु नित्यश” इति सू० सि०। तत्र कस्य कुत्रोपयोगस्तदप्युक्तं तत्रैव। “सौरेण द्युनिशोर्वामं षडशीतिमुखानि च अयनं घिषुवच्चैव संक्रान्तेः पुण्यकालता” इति “तिथिःकरणमुद्वाहः क्षौरं सर्ब्बक्रियास्तथा व्रतोवासयात्राणां क्रिया चान्द्रेण गृह्यते” इति “सावनानि स्युरेतेन यज्ञकालविधिस्तु तैः सूतकानां परिच्छेदोदिनमासाब्दपास्तथा मध्यमग्रहभुक्तिश्च सावनेनैव गृह्यते” सू० सि०। चान्द्रेण तु मासवर्षादिगणनापि “चैत्रे मासि जगत्स्रष्टा ससर्ज प्रथमेऽहनि शुक्लपक्षे समग्रन्तु ग्रहतारोदये सति प्रवर्त्तयामास तदा कालस्य गणनामपि ग्रहान् राशीनृतून् मासान् वत्सरान् वत्सराधिपान्” इति म० त० ब्र० पु०। “यत्राब्दे पुण्यसहमं शुभं सोऽब्दः शुभप्रदः” इति नी० ता०।

अब्दप = पु० अब्दं पाति पा–क। १ वर्षाधिपे तदानयनप्रकारश्च सि० शि० दर्शितः यथा “अधोऽधस्त्रिधा कल्पयाताब्दवृन्दात् कराभ्यां, कृतैः, पावकैः, संगुणाच्च। भुजङ्गैरवाप्तं फलं स्याद्दिनाद्यं तदब्दान्वितं भास्करादब्दपः स्यात्” अत्रोपपत्तिः। एकस्मिन् रविवर्षे सावनाहाः प्राक् प्रतिपादिताः ३६५। १५। ३०। २२। ३० एतदष्टभिः सवर्णितं कार्य्यम्। ततोऽनुपातः। यद्यष्टभिर्वर्षैरेतावद्दिनाद्यं तदा कल्पगतैः किमिति। फलं दिनाद्यम्। तदनष्टं संस्थाप्यम्। ततो गताब्दैर्युतं सदब्दपतिः स्यादिति यदुक्तं तद्युकम्। यतः पञ्चषष्ट्यधिकशतत्रये मप्तभिर्भक्ते एकोऽवशिष्यते। अत एकगुणाब्दसंख्या तस्मिन् दिनाद्ये निक्षिप्ता। तस्मिन् सप्ततष्टेऽर्काद्योऽब्दपतिः। यतो यस्मिन् वारेऽब्दादिः सोऽब्दपतिः स्यादित्युपपन्नम्। ताजिकोक्ते २ वर्षाधिपतौ च तदानयनप्रकःरश्च जन्मलग्नपतिवर्षलग्नाषिपतिमुन्यहाधिपतित्रिराशिपतीनां दिवासूर्य्याक्रान्तराशिपतेः रात्रौ चन्द्राक्रान्तराशिपतेश्चैषां पञ्चाधिकःरिणां मध्ये द्वादशवर्गीबलेन पञ्चवर्गीबलेन वीपेतः लम्नदर्शी वर्षाधिपतिः। बलसाम्ये दृष्ट्यतिरेकात्, तत्रापि साम्ये वृष्ट्यभावे च मुथहेश्वरः, वर्षाधिपः। “अब्दपबलस्य विचारणेत्थम्” नी० ता०। अब्दपत्यादयोऽप्यत्र।

अब्दसार = पु० अब्दस्य मुस्तायाः सारः मूलनिर्यासः। कर्पूरेतस्य मुस्तामृलसारजत्वात्तथात्वम् घनसारमेघसारादयोऽप्यत्र।

अब्दवाहन = पु० अब्दोमेघोवाहनमस्य। इन्द्रे।

अब्दिमान् = त्रि० अपां दानमब्दिः दा० बा० भावे कि ६ त० ततः अस्त्यर्थे मतुप्। जलदानवति “अब्दिमानुदधिमान्” ऋ० ५, ४२, १४, “अपांदानवान् मेघ” इति भा०।

अब्दुर्ग = अद्भिर्वेष्टितं दुर्गं शा० त०। सर्वतोवेष्टितेनोदकेनोपलक्षिते दुर्गे (गड) “धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव च। नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् पुरम्” मनुः।

अब्दैवत = त्रि० आपोदैवतान्यस्य। १ जलदेवताके मन्त्रभेदे “उदित्तृचा वारुणेन तृचेनाब्दैवतेन च” मनुः “स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयम” इति या०। स च मन्त्रः “आपोहि ष्ठा मयोभुव” इत्यादिस्तृचात्मकः। य० ११, ५०, ५१, ५२। २ जलदेवताके पूर्ब्बाषाढानक्षत्रे च।

अब्धि = पु० आपो धीयन्तेऽस्मिन् धा–आधारे कि उप० स०। १ सरोवरे २ समुद्रे च स च जम्बूद्वीपपूर्ब्बापरादिवर्त्तिता भेदेन चतुर्विधः यथोक्तं भागवते “तत्र चतुर्द्धा विभज्यमानाचतुर्भिर्नाभमिश्वतुर्दिशमभिष्यन्दन्ती नदनदीपतिमेवाभि- निविशति, सीतालकनन्दावङ्कुर्भद्रेति। सीता तु ब्रह्मसदनात् केशराचलादिशिखरेभ्योऽधोऽधःप्रसवन्ती गन्धमादनमूर्द्ध्वसु पतित्वान्तरेण भद्राश्वं वर्षं प्राच्यां दिशि क्षार समुद्रमभिप्रविशति। एवं माल्यवच्छिखरान्निष्पतन्ती तत उपरतवेगा केतुमालमभिवङ्क्षु प्रतीच्यां दिशि संरित्पतिं प्रविशति। भद्रा चोत्तरतोमेरुशिखरतो निपतिता गिरि शिखराद्गिरिशिखरमतिहाय शृङ्गवतः शृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित उदोच्यां दिशि लवणार्णवं प्रविशति। तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्बहूनि गिरिकूटानि अतिक्रम्य हेमकूटहिमकूटान्यतिरमसरंहसालुठन्ती भारतमभिवर्षं दक्षिणस्यां दिशि लवणजलघिमभिप्रविशति” अत एव ततसंख्यातुल्यसंख्याकचतुःसंख्याबोधकताऽस्य। “पञ्च पञ्चयुगषट्कलोचनद्व्यब्धिषड्गुणमिता ६४२२६२५५ गुरोर्मता”। “खाष्टाब्दयो (४८०)ऽष्टाक्षगजेषुदिग्द्विपद्विपाब्धयः ४८८१०५८५८, इति च सि० शि०। सप्तद्वीपान्तरालस्थ लवणादिभेदात् सप्तविधोऽपि यथोक्तं सि० शि० “भूमेरधे क्षारसिन्धोरुदक्स्थं जम्बूद्वीपं प्राहुराचार्य्यवर्य्याः। अर्द्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये क्षारक्षीराद्यम्बुघीनां निवेशः। लवणजलधिरादौ दुग्धसिन्धुश्च तस्मादमृतम मृतरश्मिः श्रीश्च यस्माद्बभूव। महितचरणपद्मः पद्मजन्मादिदेवैर्वसति सकलवासो वासुदेवश्च यत्र। दध्नो घृतस्येक्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य चान्त्यः। स्वादूदकान्तर्बडवानलोऽसौ पाताललोकाः पृथिवीपुटानि”। तेषाञ्च द्वीपद्वयान्तरालस्थितिमूलम् अब्धद्वीपाशब्दे दृश्यम् तेन तत्संख्यातुल्यसप्तसंख्यकेऽप्यस्य क्वचित् प्रवृत्तिः अतएव सप्तद्वीपेत्यर्थे अब्दिद्वीपेति प्रयुक्तम्। “चतुरः सप्त वाम्बुधीन्” वाग्भटालङ्कारः।

अब्धिकफ = पु० अब्धेः समुद्रस्य कफ इव। समुद्रफेने।

अब्धिज = ०० अब्धौ जायते जन–ड ७ त०। १ चन्द्रे २ शङ्खे ३ समुद्रजातमात्रे त्रि० ४ लक्ष्म्यां स्त्री। ५ अश्विनीकुमारयोः द्वि० व०। एतेषाञ्च समुद्रजातत्वात्तथात्वम्।

अब्धिद्वीपा = स्त्री अब्धिसंख्याता लवणादिसप्तसंख्याता द्वोपा अस्याः। जम्बूप्रभृतिसप्तद्वीपवत्याम् पृथिव्याम्। “शाकं ततः शाल्मलमत्र कौशं क्रौञ्चं च गोमेदकपुषकरे च। द्वयोर्द्वयोरन्तरमेकमेकं समुद्रयोर्द्वीपमुदाहरन्ति” सि० शि०।

अब्धिनगरी = स्त्री अब्धी तत्समीपे नगरी। द्वारकायां तस्याः समुद्रसन्निकृष्टत्यात् समुद्रोत्सृष्टभूमौ रचितत्वाच्च तथात्वम् यथा “इयं द्वारवती नाम पृथिव्यां निर्म्मिता मया भविष्यति पुरी रम्या शक्रस्येवामरावती” त्युपक्रम्य “यदीच्छेत् सागरः किञ्चिदुत्स्रष्टुमिह तोयराट्। ततः स्वायतलक्षण्या पुरी स्यात् पुरुषोत्तम। एवमुक्तस्ततः कृष्णः द्रागेव कृतनिश्चयः। सागरं सरितां नाथमुवाच वदतांवरः। समुद्र! दश च द्वे च योजनानि जलाशये। प्रतिसंह्रियतामात्मा यद्यस्ति मयि मान्यता। अवकाशे त्वया दत्ते पुरीयं मामकं बलम्। पर्य्याप्तविषयारामा समग्रं विपहिष्यति ततः कृष्णस्य वचनं श्रुत्वा नदनदीपतिः। स मारुतेन योगेन उत्ससर्ज्ज जलाशयम्”। इति हरिवंशः।

अब्धिनवनीतक = पु० अब्धेर्तवतीतमिव कायति प्रकाशते कै–क। चन्द्रे–ग० र० तस्य क्षीरसारतुल्यत्वात् तथात्वम्।

अब्धिफेन = पु० ६ त०। समुद्रफेने।

अब्धिमण्डूकी = स्त्री अब्धिं मण्डयति मण्ड–ऊक गौरा० ङीष् ६ त०। मुक्तासाधने शुक्तौ।

अब्धिशय = पु० अब्धौ शेते शी–अच् ७ त०। समुद्रस्थवटपत्रशय्यायाम् अहौ वा शय्यायां शायिनि विष्णौ। खण्डप्रलयमुपक्रम्य “ततस्तं मारुतं घोरं स्वयम्भूर्मनुजाधिप!। आदिःपद्मालयोदेवः पीत्वा स्वपिति भारत!। तस्मिन्नेवार्णवे घोरे” इत्युपक्रम्य।। “ततः कदाचित् पश्यामि तस्मिन् सलिलसञ्चये। न्यग्रोधं सुमहान्तंवै विशालं पृथिवीपते!। शाखायां तस्य वृक्षस्य विस्तोर्ण्णायां नराधिप!। पर्य्यङ्के पृयिवीपाल! विस्मयः सुमहानभूत्। कयं त्वयं शिशुःशेते लोके नाशमुपागते भा० व० मार्क० प० १८८३ देवीमाहात्म्ये तु “एकार्ण्णवेऽहिशयने योगनिद्रामुपागत” इत्यहिशयनत्वमुक्तम्।

अब्ध्यग्नि = पु० अब्धौ स्थितोऽग्निः। वडवानले तत्कथा और्वशब्दे दृश्या। अब्धिदहनादयोऽप्यत्र।

अब्भक्ष = पु० अपो भक्षयति भक्ष–अण् उप० स०। १ सर्पभेदे २ जलमात्राहारे त्रि०। “अब्भक्षो वायुभक्षश्च उपवास परस्तत” इति पुरा०।

अब्भ्र(भ्र) = न० अपोबिभर्त्तिक अभ्र गतौ-अच् वा वा द्वित्वम्। १ मेघे “अ(भ्रा)बभ्राणि विभ्राणमुमाङ्गसङ्गेति” माघः। २ मेघनामायां मुस्तायाम्, (आभ) ३ धातुभेदे च। मेघनुल्याकारत्वात्तस्य तथात्वम्। ४ मेघाधारे आकाशे न०।

अब्भ्रं(भ्रं)लिह = पु० अब्भ्रं(भ्रं) लेढि स्पृशति लिह–खश् मुम् च। उच्चशिखरे “अब्भ्रंलिहाग्रं रविमार्गभङ्गमिति” भट्टिः। “अब्भ्रंलिहानि लिलिहे नवपल्लवानीति” माघः।

अब्भ्र(भ्र)क = पु० अब्भ्र(भ्र)मिव कायति राजते कै–क। (आम) घातुभेदे। मेघतुल्याकरत्वात्तस्य तथात्वम्।

अब्भ्र(भ्र)ङ्कष = त्रि० अ(ब्भ्रं)भ्रं मेघं कषति शोषयति कष–खच् मुम् च। १ वायौ। २ अत्युच्चे त्रि०।

अब्भ्र(भ्र)पुष्प = न० अबभ्र(भ्र)स्य पुष्पमिष शुभ्रत्वात् कार्य्यत्वाच्च। १ जले। अबभ्र(भ्र)मिव पुष्पमस्य ब०। २ वेतसवृक्षे पु०।

अब्भ्र(भ्र)मातङ्ग = पु० अबभ्रा(भ्रा)धिपः मातङ्गः शा० त०। ऐरावते गजे तस्य मेघनायकत्वात्तथात्वम्।

अब्भ्र(भ्र)मु = स्त्री अब्भ्रे(भ्रे) अब्भ्रा(भ्रा)धिपे ऐरावते माति मा–डु। ऐरावतस्य योषिति पूर्ब्बदिग्धस्तिन्याम्।

अब्भ्र(भ्र)मुवल्लभ = पु० अब्भ्र(भ्र)मोः वल्लभः ६ त०। ऐरावते गजे। अब्भ्र(भ्र)–मुपत्यादयोऽप्यत्र।

अब्भ्र(भ्र)रोहम् = पु० अब्भ्रा(भ्रा)त् तच्छब्दात् रोहति रुहअसुन्। वैदूर्य्यमणौ तस्य हि मेघशब्दादुद्भव इति प्रसिद्धम् “विदूरभूमिर्न्नवमेघशब्दादुद्भिन्नया रत्न शलकयेव” कु० वर्ण्णितम्

अब्भ्रो(भ्रो)त्थ = न० अ(वभ्र)भ्रात् तन्निघर्षणादुत्तिष्ठति उद् + स्था–क। १ वज्रे २ विद्युदग्नौ पु० अ(भ्र)ब्भ्रजादयोऽप्यत्र।

अब्भ्रि(भ्रि) = स्त्री अभ्र गतौ इन् वा द्वित्वम्। काष्ठवुद्दाले नौकामलापकर्षके काष्ठमये कुद्दाले।

अब्भ्रि(भ्रि)य = त्रि० अब्भ्रे(भ्रे)भवः व। मेघभवे।

अब्रह्मचर्य्य = न० विरोधे न० त०। १ ब्रह्मचर्य्यविरोघिनि स्त्रीसंभोगादौ ब्रह्मचर्य्यं च स्त्रीस्मरणादि तच्च ब्रह्मचर्य्यशब्दे वक्ष्यते। न० ब०। २ ब्रह्मचर्य्यरहिते त्रि०।

अब्रह्मण्य = न० ब्रमणि ब्राह्मणोचितकर्मणि अहिंसादौ साधु यत् विरोधे न० त०। १ ब्रह्मकर्म्मण्यसाधौ २ हिंसादौ तथात्वेन नोदनविषये ३ वचने च तथा हि “अयं न वध्य” इति कयने हिन हिंस्यते। हिंसा च ब्रह्मकर्मणि न साधुः इत्यतस्तस्य तथात्वम् एतच्च प्रायेण नाट्योक्तावेव प्रयुज्यते “भो अब्रह्मण्यमब्रह्मण्यं वर्त्तते” नाटकम्। क्वचिदन्यत्रापि “अथैत्य योगनन्दस्य व्याडिना क्रन्दितं पुरः। अब्रह्मण्यमनुत्क्रान्तजीवो योगस्थितोद्विजः” वृहत्कथासारः।

अब्राह्मण = पु० अप्राशस्त्ये न० त०। १ अप्रशस्तब्राह्मणे “सममब्राह्मणेदानं द्विगुणं ब्राह्मणब्रुवे” इति पुरा० अब्राह्मणाश्च षट् स्मृतौ दर्शिताः। “अब्राह्मणास्तु षट्प्रोक्ता ऋषिणा तत्त्ववादिना। आद्यो राजभृतस्तेषां द्वितीयः क्रयविक्रय तृतीयो बहुयाज्यःस्याच्चतुर्थो ग्रामयाजकः। पञ्चमस्तु वृतस्तेषां ग्रामस्य नगरस्य च। अनागतान्तु यः पूर्ब्बां सादित्यां चैव पश्चिमाम्। नोपासीत द्विजः सन्ध्यां स षष्ठोऽब्राह्मणः स्मृतः” आ० त० शाता०। एवमन्येऽषि स्मृत्यु- क्तावेदितव्याः। २ ब्राह्मणसदृशे क्षत्रियादौ भट्टदैवज्ञादौ च “अब्राह्मणादध्ययनमापत्काले विधीयते। अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः” मनुः। भेदे न० त० ३ ब्राह्मणभिन्ने शूदादौ च “नैतदब्राह्मणोवक्तुमर्हति समिधमाहर उप त्वा नेष्ये” इति छा० उ०।

अब्रूकृत = न० न ब्रुवे कृतम्। १ कथनाय प्रतिरोधके सनिष्ठीवे अम्बूकृते “अब्रूकृतमाह नद्धं दुष्टम् इति श्रुतिः।

अब्लिङ्ग = त्रि० अपां लिङ्गं बोधनसामर्थ्यं यत्र। जलरूपार्थ प्रकाशसामर्थ्ययुक्ते य० पठिते ११, ५० ५१, ५२ अपोहिष्ठा इत्यादिके तृचे अब्दैवते मन्त्रे “कस्य नूनमित्यादि” पञ्चदशर्च्चात्मके च तच्च ऋ० १ मण्डले चतुर्विशम् सूक्तम्।

अभक्त = त्रि० भज–सेवायां विभागे च कर्त्तरि कर्म्मणि वा क्त न० त०। १ असेवके। “भक्तमभक्तमवोव्यन्तः” इति ऋ० १, १२७, ५। २ अपृथक्कृते च।

अभक्ति = स्त्री अभावे न० त०। १ भक्त्यभावे। न० व०। २ भक्तिहीने त्रि०।

अभक्षण = न० अभावे न० त०। १ भक्षणाभावे २ भक्षणनिवृत्तौ च। “पौर्ण्णमास्यन्तमाघे च मूलकानामभक्षणमिति” म० त०।

अभक्ष्य = त्रि० भक्षितुमयोग्यं स्मृतिनिषिद्धित्वात्। १ स्मृतिनिषिद्धभक्षणे लशुनादौ अभक्ष्यत्वञ्च वस्तुस्वभावकृतं, कालकृतं, देशादिनिमित्तकृतं, द्रव्यान्तरयोगकृतं, स्वामिविशेषकृतं, चण्डालाद्रिस्पर्शदर्शनादिदोषकृतम्, पात्रविशेषपाकादिकृतम्, अधिकारिविशेषकृतञ्चेति तत्तदुपाधिकृतम्, तत्र केषाञ्चित् नञादिना केषाञ्चिच्च तत्तद्भक्षणे प्रायश्चित्तोपदेशेना भक्ष्यत्वं स्मृत्यादाबुक्तम्। अभक्ष्याणि च श्रुत्यादौ दर्शितानि “न कलञ्जं भक्षयेन्न लशुनं न पलाण्डुमिति श्रुतिः “लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च” मनुः।। कवकानि छत्राकाः अमेध्यप्रभवानि विष्ठादिजातानि। पलाण्डुसदृशं यत तु गन्धवर्णरसादिभिः। अभोज्यं तद्भवेत् सर्वमिति “लशुनादिषु ये तुल्या गन्धवर्णरसादिभिः। अभक्ष्यास्ते द्विजातीनाम्” इति च देव०। “लशुनपलाण्डुगृञ्जनकरञ्जकिपाककुम्भीभक्षणे द्वादशरात्रं पयः पिबेत्” शङ्खः “लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस्तथा। शेलुं गव्यञ्च पेयूषं प्रयत्नेन विवर्ज्जयेत्” मनुः शेलुं बहुवारफलं गोसम्बन्धि पेयूषं नवप्रसूतायाः गोः अग्निसंयोगात् कठिनीभूतं क्षीरम्। “वृथाकृषरसंयावं पायसापूपमेव च अनुपाकृतमांसानि देवान्नापि हवींवि च” मनुः। वृथा देवताद्यनुद्देशेन आत्मार्थं यत् पच्यते तत्। “तिलत- ण्डुलसंपक्वः कृशरः सोऽभिधीयते” इति छा० प० उक्तः कृशरः, संयावः घृतक्षीरगुडगोधूमचूर्ण्णमयः पिष्टकभेदः। अनुपाकृतानि मन्त्रैरसंस्कृतपशुमांसानि। देवान्नानि देवार्थं कल्पितानि प्राक् होमात् नाद्यानि। “वृथामांसञ्च नाश्नीयात् पितृदेवादिवर्जितम्” स्मृतिः “न तदश्नीयाद्यद्देवपितृमनुष्यार्थन्न कुर्य्यात्” शङ्खलि०। “वृथा सांसं न भोक्तव्यं भोक्तव्यं श्राद्धकर्मणि अन्यथा भक्षयन् विप्रः प्राजापत्यं समाचरेत्” छाग०। अस्यापवादः “भक्षयन्नपि मांसानि शेषभीजी न दुष्यति औषधार्थमशक्तौ वा नियोगात् यज्ञकारणात्” देवलः, “रोगी नियुक्तोविधिना हुतं विप्रमतं तथा। मांसमद्याच्चतुर्द्धैषा परिसंख्या प्रकीर्त्तिता” वृह०। मनुरपि “क्रीत्वा स्वयं वाप्युत्पाद्य परोपकृतमेव वा अर्चयित्वा पितॄन् देवान् खादन्मांसं न दुष्यति” अन्यत्र दोषमाह स एव “अतोऽन्यथा तु योऽश्नीयात् विधिं हित्वा पिशाचवत्। यावन्ति पशुरोमाणि तावत् प्राप्नोति सान्वयम्। प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानाञ्च काम्यया यथाविघि नियुक्तन्तु प्राणानामेव चात्यये इति च मनुः। ब्रह्मणकाम्यया तु सकृदेव भक्ष्यम् “मक्षयेत् प्रोक्षितं मांसं सकृद् ब्राह्मणकाम्यया दैवे नियुक्तं श्राद्धे वा नियमे तु विवर्गयेदिति” यमोक्तेः नियमः मांसभोजननिवृत्तिसंकल्पः स च व्रतभेदः। “मांसं नाश्नीयात् तद्व्रतम् संवत्सरं वेति” छा० उप० इत्यादिकः। अतएव विहित मांसविवर्जने एव मनुना फलाधिक्यं दर्शितम् “यो बन्धन बधक्लेशान् प्राणिनां न चिकीर्षति स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते। यद्ध्यायति यत्कुरुते धृतिं वा याति यत्र च। तदवाप्नोत्ययत्नेन यो हिनस्ति न किञ्चन” इति वर्षे वर्षेऽश्चमेधेन यो यजेत शतं समाः। मांसानि० च न खादेद्यस्तयोः पुण्यफलं समम्।। फलमूलाशनै र्मेच्यैर्म्मुन्यन्नानाञ्च भोजनैः न तत् फलमवाप्नोति यन्मांस परिवर्जनात्”। अतएव मनुना न मांसभक्षणे दोषो न मद्ये न च मैथुने प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला” इत्यनिषिद्धमांसवर्ज्जनस्य महाफलतोक्ता। मांसभक्षणे न दोषैत्यादिकं तु दैवादिकर्म्मादौ अनुज्ञातमांसादिदोषाभावपरम् न तु निन्दितमांसभोजनेऽपि दोषाभावपरं तस्य स्वेनैव दुष्टत्वाभिधानात् तथा च स्वोक्तविहितमांसभक्षणे “सौत्रामण्यां सुरां पिबेदिति” श्रुत्युक्ते मद्यपाने, “न काञ्चन परिहरेत्तदव्रतमित्यादि” श्रुत्युक्ते भैथुने च न दोषः। तेषामेव त्यागे महाफलत्वम्। अत एव “कुर्य्यात् घृतपशुं सङ्गे कुर्य्यात् पिष्टपशुं तथे” त्यनेन सति सङ्गे (यज्ञादिफलकामनायाम्) पिष्टपशुनैव तं सम्पादयेदिति तेनैवोक्तम् अधिकं पिष्टपशुशब्दे वक्ष्यते। रोगिणा भक्षणेऽपि विशेषः “ब्राह्मणानुज्ञया भक्ष्यमुक्तं मांसञ्च रोगिभिः। मातापितृभ्यां संभुक्तं शेषं वा ब्रह्मचारिणः पुनः प्रशान्तरोगेण कर्त्तव्यमधिकं ब्रतम्” ब्रह्मपु०। “अगम्यागमने चैव मद्यगोमांसभक्षणे शुद्ध्यै चान्द्रायणं कुर्य्यात् पराश० “गामश्वं कुञ्जरोष्ट्रौ च सर्वान् पञ्चनखांस्तथा। क्रव्यादं कुक्कुटं ग्राम्यम् भुक्त्वा संवत्सरं व्रतम्” शङ्खः। पञ्चनखाश्च शशादिभिन्नाः। “शशकः शल्वकी गोधा खड्गी कूर्मश्च पञ्चमः। भक्ष्यान् पञ्चनखेष्वाहुरिति मनूक्तेः। “विड्वराहग्रामकुक्कुटनरगोमांसभक्षणेषु सर्वेष्वेव द्विजानां प्रायश्चित्तान्ते भूयः संस्कारं कुर्य्यात्” विष्णुः “हंसं मद्गूं च काकोलं काकं वा खञ्चरीटकम्। मत्स्यादांश्च तथा मत्स्यान् बलाकां शुकसारिके। चक्रवाकं प्लवं कौलं मण्डूकं भुजगं तथा। मासमेकं व्रतं कुर्य्यात् भूयश्च तन्न भक्षयेदिति शङ्खः। मत्स्यादः पाठीनव्यतिरिक्तः “पाठीनरोहितावाद्यौ नियुक्तौ दैवपैत्रयोः” मनुना तस्य विधानात्। “कलविङ्गहंसमद्गुचक्रवाकरज्जुबालसारसदात्यूहशुकसारिका भासचाषकाकवलाकाकोकिलखञ्जरीटाशने त्रिरात्रमुपवसेत्” विष्णुः। “चाषांश्च रक्तपादांश्च सौनं वल्लूरमेव च मत्स्यांस्तु कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत्” मनुः। सूना बध्यस्थानं तत्र भवत् सौनम् वल्लूरं शुष्कमांसम्। “क्रव्यादान् शकुनीन् सर्वान् टिट्टिभञ्च विवर्ज्जयेत् कलविङ्गं प्लवं हंसं चक्राङ्गं ग्रामकक्कुटम् सारसं रज्जुबालञ्च दात्यूहं शुकसारिके। प्रतुदान् जलापादांश्च क्रौञ्चांश्च नख विष्किरान्। निमज्जतश्च मत्स्यादान् सौनं वल्लूरमेव च वकञ्चैव वलाकाञ्च काकोलं खञ्जरीटकम् मत्स्याङ्कान् विड्वराहांश्च मत्स्यानेव च सर्वशः” इति मनुः। मत्स्यभेदे दैवादाववादमाह मनुः “पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः। राजीवसिंहतुण्डांश्च सशल्कांश्चैव सर्वशः” “अभक्ष्यं भक्ष्येष्वजामहिषीक्षीरं विवर्जयेत् पञ्चनखमत्स्यवराहमांसानि” चेति विष्णुः। “मत्स्यकर्कटशम्बूकशङ्खशुक्तिकपर्द्दकान् पीत्वा नवोदकञ्चैव पञ्चगव्येन शुध्यति” हारी० “कृमिकीटपिपीलिकाजलौकापतङ्गास्थिप्राशने गोमूत्रगोमयाहारस्त्रिरात्रेण प्रयतोभवेत्” हारी० केशमक्षिकारुधिरप्राशने आममांसकृमिभक्षणे इत्युपक्रम्य “त्रिरात्रोपवासं घृतप्राशनञ्च कुर्य्यात” शङ्खलि०। “भक्ष्याणामप्याममांसरुधिरप्राशने तु पञ्चगव्यम्” हारी०। “नखकेशरुधिरप्राशने सद्यः स्नानं घृतकुशहिरण्योदकप्राशनञ्च” बुधः “अजाविकमहिषमृगाणाम् मांसभक्षणे केशरुधिरप्राशने च बुद्धिपूर्ब्बे त्रिरात्रम्” बौधा० भक्ष्यमांसकस्यापि क्वचिदंशे निषिद्धता “पृष्ठमांसं गर्भशय्यां शुष्कमांसमथापि वा। भूमेरन्तर्गतं कृत्वा मृद्भिश्चागालितं च यत्। पक्वं मांसमृजीषन्तु प्रयत्नान्न च भक्षयेत्। प्रमादभक्षितैरेभिर्वने वासं वसेदहः ब्र० पु०। ऋजीषं पिष्टपचनभाण्डं तत्र पक्वम्। व्यक्तिविशेषे सर्वमांसानामभक्ष्यता “न भक्ष्यं यतिना मांसं कदाचित्तु मुमूर्षुणा” ब्र० पु०। स्त्रीणान्तु सर्वथा मांसनिषधमाह भागवतम् “ये त्विह षै पुरुषाः पुरुषमेधेन यजन्ते याश्च स्त्रियो नृपशूत् खादन्ति तांश्च ताश्च ते पशवः इह ये निहता यमसदने यातयन्तो रक्षोगणाः सौनिका इव स्वधितिनावदायासृक् पिबन्ति” इति। कार्त्तिकादौ तु सर्व्वथा मांसादिनिषेधः। “न मत्स्यं भक्षयेन्मांसंन कौर्मं नान्यदेव हि। चण्डालो जायते राजन्! कार्त्तिके मांसभक्षणात्” आ० त० ना० पु०। “कौमुदन्तु विशेषेण शुक्लपक्षं नराधिप!। वर्ज्जयेत् सर्वमांसानि धर्म्मस्तत्र विधीयते। एकादश्यादिषु तथा तासु पञ्चसु रात्रिषु” इत्युपक्रम्य वर्ज्जितव्या तथा हिंसा मांसभक्षणमेव च ब्रह्मपु०। “निष्पाबान् राजमाषांश्च सुप्ते देवे जनार्द्दने यो भक्षयति राजेन्द्र! चण्डालादधिकोहि सः। कार्त्तिके तु विशेषेण राजमाषांश्च वर्ज्जयेत्। निष्पावान् मुनिशार्द्दूल। यावदाहूतनारकी। कदम्बानि पटोलानि वृन्ताकसहितानि च। न त्यजन् कार्त्तिके मासे यावदाहूतनारकी। एतानि भक्षयेद्यस्तु सुप्ते देवे जनार्द्दने। शतजन्मार्जितं पुण्यं दह्यते नात्र संशयः” म० त० ब्रह्म पु०। निष्पावः श्वेत शिम्बी। कदम्बानि कदम्बफलानीति कलम्बीति वा म० त० रघु०। तिथिविशेषेषु मांसादीनामभक्ष्यता “स्त्रीतैलमांससंभोगी पर्ब्बस्वेतेषु मानवः विन्मूत्रभोजनं नाम नरकं प्रतिपद्यते” इति वि० पु०। “षष्ठ्यष्टभी पञ्चदशी उभे पक्षे चतुर्द्दशी। अत्र सन्निहितं पापं तैले मांसे भगे क्षुरे” स्मृतिः “मत्तक्रुद्धातुराणाञ्च न भुञ्जीत कदाचन। केशकीटावपन्नञ्चपदा स्पृष्टञ्च कामतः। भ्रूणघ्नावेक्षितं चैव संस्पृष्टञ्चाप्युदक्यया। पतत्त्रिणावलीढञ्चशुना संस्पृष्टमेव च। गवा चान्नमुपाघ्रातं घुष्टान्नञ्च विशेषतः। गणान्नं गणिकान्नञ्च विदुषा च जुगुप्सितम्। स्तेनगाय- नयोश्चैव तक्ष्णोवार्द्धुषिकस्य च। दीक्षितस्य कदर्य्यस्य बद्धस्य निगडस्य च। अभिशस्तस्य षण्डस्य पुंश्चल्या दाम्भिकस्य च। चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः। उग्रान्नं सूतिकान्नञ्च पर्य्याचान्तमनिर्द्दशम्। शुक्तं पर्य्युषितं चैव शूद्रोच्छिष्टं तथैव च। अनर्चितं वृथामांसमवीरायाश्च योषितः। द्विषदन्नं नगर्य्यन्नम् पतितान्नमवक्षुतम्। पिशुनानृतिनोश्चान्नं क्रतुविक्रयिणस्तथा। शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च। कर्म्मारस्य निषादस्य रङ्गावतारकस्य च। सुवर्ण्णकर्त्तुर्वेणस्य शस्त्रविक्रयिणस्तथा श्ववतां शौण्डकिनाञ्च चेलनिर्णेजकस्य च। रजकस्य नृशंसस्य यस्य चोपपतिर्गृहे। मृष्यन्ति ये चोपपतिं स्त्रीजितानाञ्च सर्वशः। अनिर्द्दशञ्च प्रेतान्नमतुष्टिकरमेव च। राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्म वर्चसम्। आयुः सुवर्ण्णकारान्नं यशश्चर्म्मावकर्त्तिनः। कारुकान्नं प्रजा हन्ति बलं निर्णेजकस्य च। गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति। पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम्। विष्ठा वार्द्धषिकस्यान्नं शस्त्रविक्रयिणोमलम्। भुक्त्वा चान्यतमस्यान्नममत्या क्षपणं त्र्यहम्। मत्या भुक्त्वा चरेत् कृच्छंरेतोविण्मूत्रमेव च। नाद्यात् शूद्रस्य पक्वान्नं विद्वानश्राद्धिनोद्विजः। आददीताममेवास्माद वृत्तावेकरात्रिकम्” मनुः। ‘केशकीटावपन्नं केशकीटैः सह पक्वम्। घुष्टान्नं “केभोक्तारः” इत्युक्त्वा सत्रादौ यदन्नं दीयते तत्। गणान्नं बहुभिर्मिलित्वा यद्भोज्यं क्रियते तत। दीक्षितस्य दीक्षणीययागानन्तरमा यज्ञसमाप्तेः अन्नमभक्ष्यम्। बद्धस्य रज्वादिना। निगडस्य अर्श० आ० अच् निगडवतः निगडबद्ध्वस्येत्यर्थः। सूतिकान्नं सूतिकाभक्षणमुद्दिश्य यत् पक्वं तत्कुलजैरपि न भक्ष्यम्। पर्य्याचान्तम् एकपङ्क्तिस्थेषु बहुषु भुञ्जानेषु यदि कश्चिदाचमनं करोति तदा तत्पङ्क्त्युपविष्टानां तदन्नमभक्ष्यम्। अनिर्द्दशं जननाशौचिनोऽन्नं तेनानिर्द्दशाहं प्रेतान्नमित्यनेन न पौनरुक्त्यम्। “सूतके तु यदा विप्रो ब्रह्मचारी विशेषतः। पिबेत् पानीयमज्ञानात् समश्नीयात् स्पृशेत वा। पानीयपाने कुर्व्वीत पञ्चगव्यस्य भक्षणम् त्रिरात्रं भोजने प्रोक्तम्” शङ्खः। एतच्चोभयाशौचपरम् श्रुक्तं यन्मधुरं कालवशादम्लतां गतमम्ल ञ्चात्यन्ताम्लताम्। शुक्तेषुंदधि तज्जातञ्च भक्ष्यम् “दधि शुक्तेषु भोक्तव्यं सर्वञ्च दधिसम्भवमिति” मनूक्तेः। तदपि गुडादिद्रव्यमिश्रणेऽभक्ष्यमेव “गुडादिद्रव्यसंयुक्तं वर्ज्ज्यं पर्य्युषितं दधि। तथैव यावकादीनि मन्थादिचरितान्यपि” यमोक्तेः। “सगुडं मरिचाक्तं च तथा पर्य्युषितं दधि जीर्णतक्रमपेयञ्च नष्टस्वादञ्च केनचित्। प्रमादभक्षितैरेभिर्वने पक्षव्रतं चरेत्” स्मृतेश्च “यंवगोधूमवर्ज्जं गव्यविकारं स्नेहाक्तं चक्रुषाभवं वर्जयित्वा पर्य्युषितं प्राश्योपवसेत् तथा दधिवर्जं सर्वशुक्तानि” विष्णुः। “केवलानि च शुक्तानि तथा पर्य्युषितानि च। ऋजीषपक्वं भुक्त्वा तु त्रिरात्रं तुव्रती भवेत् शङ्खः। चुक्रुषा व्यञ्जनभेदः। “अपूपाश्च करम्भाश्च धाना वटकशक्तवः। शाकं मांसमपूपञ्च सूपं कृषरमेव च। यवागूं पायसञ्चैव यच्चान्यत् स्नेहसंयुतम् सर्वं पर्युषितं भक्षेत् शुक्तं तु परिवर्जयेदिति यमः। “अविकारि भवेन्मेध्यमभक्ष्यं तद्विकारकृत्” पर्य्युषितं रात्र्यन्तरितम् स्नेहाक्तं चेद्भक्ष्यं यथाह मनुः। यत्किञ्चित् स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम् तत्पर्य्युषितमप्याद्यं हविः शेषञ्च यद्भवेदिति” “चिरसंस्थितमप्याद्यं सुस्नेहाक्तमपि द्विजैः। यबगोधूमजं सर्वं पयसाञ्चैव विक्रियेति” च अनर्चितं निन्दयाधरीकृतम्। अवीराया निःसम्बन्धायाः पतिपुत्रहीनायाः सम्बन्धित्यास्तु पित्रामह्यादेर्न दोषः। नगर्य्यन्नं नगरिणो नगराधिपस्यान्नम् “नगराधिपतेः शत्रोः पिशुनानृतिनोस्तयेति” ब्र० पु० ऐकवाक्यात्। अवक्षुतं क्षवथुसहितम्। “वृत्त्यन्वेषी नटानान्तु स तु शैलूषकः स्मृत” इति आ० पु० उक्तः शैलूषः। तुन्नवायकः सूचीकर्म्मकृत्, निषादः प्रतिलोमजवर्ण्णसङ्करभेदः। रङ्गावतारकः नृत्यस्थाने गीतवाद्यादिना तदनुगुणतायां प्रसङ्गी। वेणः वंशविकारपात्रादिकर्त्ता। श्ववान् मृगयाद्यर्थं कुक्कुरपोषणकृत्। शौण्डिकादयश्च तत्तद्धृत्तिभाजो द्विजाः अन्त्यजानां गुरुप्रायश्चित्तश्रवणात् प्रा० वि०। शूद्रान्न’ शूद्रगृहे न भक्ष्यम्। “शूद्रवेश्मनि विप्रेणक्षीरं वा यदि वा दधि। निवृत्तेन न भोक्तव्यं शूद्रान्नं तदपि स्मृतम्”। “निवृत्तेन शूद्रान्नान्निवृत्तेनेति” आ० त० रघु० “यथा यतस्ततो ह्यापः पुद्धिं यान्ति नदीं गताः। शूद्राद्विप्रगृहेष्वन्नं प्रविष्टं तु सदा शुचि” अत्रिः। तेन स्वगृहागतस्यैव शुद्धत्वं तद्गृहगतस्य शूद्रान्नत्वमिति भेदः। “यः शूद्रेण समाहूतो भोजनं कुरुते द्विजः। सुरापीति स विज्ञेयः सर्वधर्मभिषकृतः। यः शूद्रेणाभ्यनुज्ञातः कुर्य्याद्वा भोजनं द्विजः। सुरापीति स विज्ञेयः सर्वधर्मबहिष्कृतः” वृह० ना०। “शूद्रान्नेन तु भुक्तेन उदरस्थेन यो मृतः। स वै खरत्वमुष्ट्रत्वं शूद्रत्वं वाऽधिगच्छति। “शूद्रान्नं ब्राह्मणोभुक्त्वा तथा रङ्गावतारिणः। चिकित्सकस्य क्रूरस्य तथा स्त्रीमृग- जीविनः। चण्डालान्नं भूमिपान्नमजजीव्यश्वजीविनाम्। शौण्डिकान्नं सूतिकान्नं भुक्त्वा मासव्रती भवेदिति,’ शङ्खः। शूद्रस्याऽपि भोज्यविशेषस्य भक्ष्यतामाह सुमन्तुः गोरसञ्चैव शक्तूंश्च तैलं पिण्याकमेव च। अपूपान् भक्षयेच्छूद्रात् यच्चान्यत् पयसा कृतम्। कन्दुपक्वं तैलपक्कं पायसं दधि शक्तवः एतान्यशूद्रान्नभुजां भोज्यानि मनुरब्रवीदिति” हारीतः। “रजके चैवशैलूषे वेणुचर्म्मोपजीविनि। एतेषां यस्तु भुञ्जीत द्विजश्चान्द्रायणं चरेत् आप०। अन्त्यजान्नं यदा भुङ्क्ते शूद्रो मोहात् कदावन एकरात्रोषितोभूत्वा दानं दत्त्वा विशुध्यति” संवर्त्तः “अभिशस्तपतितपौनर्भवभ्रूंणहपुश्चल्यशुचिशस्त्रकारतैलिकचाक्रिकध्वजिसुवर्णकारलेख्यकशण्डतुन्नवायकबन्धकगणिकान्नानि च न भोज्यानि शौकरिकव्याधनिषादरजक वरुडकैवर्त्तचर्मकारा अभोज्यान्ना अप्रतिग्राह्याश्च” सुम०। “पतितानां गृहं गत्वा भुक्त्वा च प्रतिगृह्य च मासोपवासं कुर्व्वीत” वृह० “चाण्डालपतितान्नभोजनेषु ततः पुनरुपनयनम्” वसि०। “पतितद्रव्यमादाय भुङ्क्ते च ब्राह्मणः क्वचित्। कृत्वा तस्य समुत्सर्गं यतिकृच्छ्रं चरेद्द्विजः” उश०। “चण्डालचाक्रिकलोहकारघाण्ठिकान्नभोजने त्रिरात्रसुपवसेत्” हारोतः चाक्रिको वृषादिचक्रेण तैलनिष्पादनवृत्तिः। घाण्ठिकः देवघण्टावादकः। “ध्वजिबणिक्किरीटिवार्द्धुषिकान्नभोजने पञ्चरात्रम्” हारीतः। ध्वजी शौण्डिकवृत्तिः बणिक् शिल्पोपजीवी। किरीटी बणिग्भेदः। “भगवृत्तिपुंश्चलीवेश्यान्नभोजने सप्तरात्रम् दुष्कृतिगरदतस्करान्नभोजने दशरात्रम् प्रव्रजितगणोद्दिष्टान्नभोजने दशरात्रं ताम्रकांस्यसीसककारव्याधिततक्षकान्नभोजने तप्तकृच्छ्रं ब्राह्मणवृत्तिघ्नबधबन्धोपघातवृत्त्यन्नभोजने च सङ्कीर्ण्णान्नभोजने च असस्कृतावज्ञासरोषविस्मयान्नभोजने च” हारी०। भगवृत्तिर्मेथुनशुल्केन यस्य वृत्तिः गरदो विषदाता व्याधिजनकौषधदाता च “इतरे ये त्वभोज्यान्नास्तेषामन्नं विगर्हितम् अजाविके माहिषिके कूटे च वृषलीपतौ एतेषां भोजनं कृत्वा द्वादशाहं पयःपिबेत्” मनुः। अजाविकोऽजाविभ्यां वृत्तिमान्। माहिषिकः महिषेण वृत्तिमान्। कूटः अन्यन्मनसि अन्यद्वचसीत्यादिरूपकपटव्यवहारी “बन्ध्या तु वृषलीज्ञेया वृषली च मृतप्रजा। अपरा वृषली ज्ञेया कुमारी या रजस्वला”। उश० उक्ता तस्याः शूद्रायाश्च पतिः विष्णुः “गणगणिकास्तेनगायकान्नानि भुक्त्वा सप्तरात्र पयसा वर्त्तेत तक्ष्णश्चान्नं चर्म्मकर्त्तुश्च वार्द्धुषिककदर्य्यस्य दीक्षितबद्धनिगडाभिशस्तानाञ्च पुंश्चलीदा- म्भिकचिकित्सकलुब्धकक्रूरोच्छिष्टभोजिनाञ्च अवीरास्त्रीसुवर्णकारसंसर्गपतितानाञ्च पिशुनानृतवादिनाञ्च धर्म्मसोमविक्रयिणाञ्च शैलूषतुन्नवायकृतघ्नरजकानाञ्च कर्म्मकारनिषादरङ्गावतारिवेणशस्त्रविक्रयिणाञ्च श्वजीविशौण्डिकतैलिकचेलनिर्ण्णेजकानाञ्च भ्रुणघ्नावेक्षितमुदक्या संस्पृष्टं पतत्रिणावलीढं श्रुना संस्पृष्टं गवा घ्रातञ्च कामतः पदास्पृष्टमवज्ञातञ्च मत्तक्रुद्धातुराणाञ्च अनर्चितं वृथा मांसञ्च। यत्र नाश्नन्ति देवाश्च पितरश्च यथाविधि। वृथापाकः परिज्ञेवः तस्य नाद्यात् कथञ्चन। वृथापाकस्य भुञ्जानः प्रायश्चित्तं चरेत्”। “नवं कृषरपूपादि पायसं मधुसर्पिषी चण्डालेन शुना वापि दृष्टं हविरयज्ञियम्। विडालादिभिरुच्छिष्टंदुष्टमन्नं विवर्जयेत् अन्यत्र हिरण्योदकस्पर्शादिति” शाता०। हिरण्योदकस्पर्शस्येवान्नस्य, तापनादेः घृतादीनां शुद्धिकरत्वमाह सएव “तापनं घृततैलानां प्लावनं गोरसस्य च अन्त्यानां भुक्तशेषस्तु भक्षितोयैर्द्विजातिभिः। चान्द्रं कृच्छं तदर्द्धं वा” उशनाः “कापालिकान्नभोक्तॄणां तन्नारीगामिनां तथा। ज्ञानात् कृच्छ्राब्दमुद्दिष्टम्” आप०। “अन्त्यावसायिनामन्नमश्नीयाद्यस्तु कामतः। शिशुचान्द्रायणं कुर्य्यादिति” अङ्गि०। “चण्डालपतितादीनामुच्छिष्टस्य च भक्षणे। द्विजः शुध्येत् पराकेण” अङ्गि०। “अमेध्यपतित चाण्डालपुक्कशरजस्वल्यऽवधूतकुणिकुष्ठिकुनखिस्पृष्टानि भुक्त्वा कृच्छ्रमाचरेत्” शङ्खः। अमेध्यं मद्यभाण्डविण्मूत्ररेतन्यादि। पुक्कशः क्षत्त्रियायां शूद्राज्जातः प्रतिलोमजः वर्ण्णसङ्करः। कुणिः स्वभावतः पाणिविकलः। “चाण्डालपतितामेध्यकुणपैः कुष्ठिना तथा उदक्यासूतिभिः स्पृष्टं भुक्त्वा मासं वने वसेदिति” ब्र० पु०। “अस्थ्यादिदूषितान्नञ्च भुञ्जानस्तु यदा भवेत् स्नात्वार्कमर्चयित्वा तु घृतं प्राश्य विशुध्यति” ब्र० पु० पतितादिस्पर्शे अकृतस्नानावामन्नमात्रस्याभक्ष्यता “महापातकिसंसर्गे स्नानमेव विधीयते संस्पृष्टस्तु यदा भुङ्क्ते तप्तकृच्छ्रं समाचरेत् स्नानार्हको यदा स्नानमकृत्वाश्नाति वै द्विजः। अहो रात्रोषितः स्नातः पञ्चगव्येन शुध्यति” पैठ०। “केशकीटावपन्नञ्च स्त्रीभिः स्पृष्टं तथैव च। सोदक्याशूद्रसंस्पृष्टं पञ्चगव्येन शुध्यति” जावा०। स्त्री भिन्नजातिस्त्री। केशकीटाद्युपहतस्य प्रोक्षणादिकं कृत्वा भक्ष्यमेव। “अवक्षुतं केशपतङ्गकीटैरुदक्यया वा पतितैश्च दृष्टम्। अलातमृद्भस्महिरण्यतीयैः संस्पृष्टमन्नं मनुराह भोज्यम्” यमः चण्डालपतितामेध्यैः कुणपैः कुष्टिना तथा। ब्रह्मध्नसूतिकीदक्याकौलेयककुटुस्वभिः। दृष्टं वा केशकीटाक्तं भृद्भस्मकनकाम्बुभिः शुद्धमद्यात् सहृल्लेखं प्रभूतं व्युष्टतेव च ब्रह्मपु०। कौलेयकः कुक्कुरः कुटुम्बी कुक्कुटादि प्राणिभेदः तस्यबहुकुटुम्बवत्त्वात्। व्युष्टं पर्य्युषितम्। एतच्च चुरतरमभ्युक्ष्य भक्ष्यम् अत्यन्तोपहतस्य तु त्यज्यतैव” प्रा० वि० “विशुद्धमपि चाहारं मक्षीकाकृमिजन्तुभिः। केशलोमनखैर्वापि दूषितं परिवर्ज्जयेत्” देव०। तन्मात्रमुद्धृतं शुद्ध्येत् कठिनन्तु पयोदधि। “अविलीनं तथा चैव विलीनं श्रपणेन तु” शाता० “नाश्रोत्रियतते यज्ञे ग्रामयाजिहुते तथा। स्त्रिया क्लीवेन च हुते भुञ्जीत व्राह्मणः क्कचित्। अश्लीलमेतत् साधूनां यत्र जुह्वत्यमी हविः प्रतीपमेतद्देवानां तस्मात्तत् परिवर्ज्जयेदिति” मनुः। “अश्रोयोऽनधीतवेदः तेन हुतयज्ञे अन्नमभक्ष्यम्। ग्रामयाजी ग्रामजनानां श्राद्धपूजाकारयिता ऋत्विग्भावेन होमस्वस्त्ययनकर्ता च स च होता यत्र यज्ञे तदन्नमभक्ष्यम्। श्राद्धविशेषान्नस्याभक्ष्यता “चान्द्रायणं नवश्राद्धे पराकोमासिके मतः। पक्षश्राद्धेऽतिकृच्छ्रः स्यात् षाण्मासे कृच्छ्रएव च। आब्दिके कृच्छ्रपादः स्यादेकाहः पुनराब्दिके अङ्गिः०। पक्षश्राद्धं त्रैपक्षिक श्राद्धम्। नवश्राद्धमेकादशाहादिश्राद्धम्। हस्तादिदत्त द्रव्यविशेषस्याभक्ष्यता। “हस्तदत्ताश्च ये स्नेहा लवणं व्यञ्जनानि च दातारं नोपतिष्ठेत्तु भोक्ता भुङ्क्ते च किल्विषम्। तस्माच्चान्तरितं देयं पर्ण्णेनाथ तृणेन वा। प्रदद्यान्न तु हस्तेन नायसेन कदाचन। आयसेन तु पात्रेण यंदन्नन्तु प्रदीयते। भोक्ता विष्ठासमंभुङ्क्ते दाता व नरकं ब्रजेत्” भवि० पु०। “माक्षिकं फाणितं शाकं गोरसं लवणं घृतम्। हस्तदत्तानि भुक्त्वा च भोक्ता सान्तपनञ्चरेत्” यमः। “एकेन पाणिना दत्तं शूद्रादत्तं न भक्षयेत्। घृतं तैलञ्च लवणं पानीयं पायसं तथा” स्मृतिः। “वाग्दष्टं भावदुष्टञ्च भाजने भावदूषिते भुक्त्वान्नं ब्राह्मणः पश्चात् त्रिरात्रं तु व्रती भवेत्” शङ्खः। शूद्राणां भाजने भुक्त्वा भुक्त्वा वा भिन्नभाजने। अहोरात्रोषितोभूत्वा पञ्चगव्येन शुध्यति” सब०। भिन्नभाजनं कांस्यपरं “भिन्नकांस्ये तु योऽश्रीयादन्नं स्नात्वा जपन् द्विजः। गायत्र्यष्टसहस्रं तु एकभक्तस्ततः शुचिः” बौधा० कांस्यत्वेन विशेषणात्। आपोशनाकरणेभोजनस्य निषेधात् तदकृतवता द्रव्यमात्रस्याभक्ष्यता। “आपोशानमकृत्वा तु भुङ्क्तेयोऽनापदि द्विजः। भुञ्जानश्चयदा व्रूयात् गायत्र्यष्टशतं जपेत्”। अनाचान्तस्य द्रव्यमात्रस्याभक्ष्यता। “अनाचान्तः पिबेद्यस्तु भक्षयेद्वापि किञ्चन। गायत्र्यष्टसहस्रं तु जप्यं कृत्वा विशुध्यति। आचामेच्चर्ब्बणे नित्यं मुक्त्वा ताम्बूलचर्वणम् दन्तलग्नेफलमूले भुक्तस्नेहे तथैव च। ताम्बूले चेक्षुदण्डे च नोच्छिष्टोभवति द्विजः” जावा०। “कषायकटुताम्बूले भुक्तस्नेहानुलेपने। मधुपर्के च सोमे च नोच्छिष्टं मनुरब्रवीत्” लघुबौ० अनाचान्तः कषायकटुताम्बूलेक्षुव्यतिरिक्तद्रव्यं सकृद्भक्षयित्वा दुग्धमधुनारिकेलजलादिकञ्च सकृत् पीत्वा अष्टोत्तरसहस्रावृत्तां गायत्रीं जपेत् प्रा० वि०। यज्ञोपवीतरहितानामन्नमात्रस्याभक्ष्यता। “विना यज्ञोपवीतेन भुङ्क्ते तु ब्राह्मणो यदि। स्नानं कृत्वा जपं कृत्वा उपवासेन शुध्यति” लघुहा०। अमेध्यदूषितफलानामभक्ष्यता। मृद्वारिकुसुमादींश्च फलकन्देक्षुमूलकान्। विण्मूत्रदूषितान् प्राश्य कृच्छ्र तु पादतश्चरेत् सन्निकृष्टेऽर्द्धमेव स्यात्” संव०। मृदादेरभक्ष्यता। “अङ्गुल्या दन्तकाष्ठञ्च प्रत्यक्षलवणं तथा। मृत्तिकाभक्षणञ्चैव तुल्यं गोमांसभक्षणैः भवि० पु०। अत्रापवादः। सैन्धबं लवणञ्चैव यच्च सामुद्रिकं भवेत् पवित्रे परमे ह्येते प्रत्यक्षे अपि नित्यशः” वायुपु०। “भुक्त्वा तु क्षारलवणं त्रिरात्रं तु वने वसेत्” यमः। “मृल्लोष्ट्रखादने अहोरात्रमभोजनाच्छुद्धिः श्रा० त० रघु०। “नैकोमिष्टान्नमश्नीयात् वञ्चयित्वा गृही सुतान्। दारान् भृत्यातिथींश्चैव तथासम्बन्धिबान्धवान् इत्युपक्रम्य “लालापे नरके घोरे दुर्गन्धेप्रास्यते नरः” यमः। “पयोऽनुद्धृतसारञ्च भक्षयेद्दधि नो निशि दिवसे नवनीतञ्चेति” “सर्वं तिलमयं नाद्यात् सायं शर्म्माभिलाषिभिः” इति। “नाश्नीयात् सन्ध्ययोर्द्वयोः” इति च का० ख०। “नातिसौहित्यमाचरेत् नातिप्रगे नातिसायम् नं निशीथे नचोषसि” मनुः न दध्युद्धृतसारञ्च भक्षयेद्दधि नो निशि। नाद्यादातृप्ति रात्रिषु” काशी० ख० “श्राद्धं कृत्वा परश्राद्धे योऽश्नीयात् ज्ञानवर्ज्जितः। दातुः श्राद्धफलं नास्ति भोक्ता किल्विषभुग् भवेत्” यत् वेष्टितशिराभुङ्क्ते यत् भुङ्क्ते दक्षिणामुखः सोपानात्कश्च यद्भुङ्क्ते तद्वै रक्षांसि भुञ्जते, इति का० ख०। “यो गृहीत्वा विवहाग्निं गृहस्थ इव मन्यते। अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः” का० ख०। “पक्षे वा यदि मासे यस्य गेहेऽत्ति न द्विजः। भुक्त्वा दुरात्मनस्तस्य चरेच्चान्द्रायणं व्रतम्” का० ख० “अग्राह्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम्” ति० त० पु०। “यातुधानाः पिशाचाश्च राक्षसाः क्रूररूपिणः। हरन्ति रसमन्नस्य मण्डलेन विवर्ज्जितम् का० ख०। नोत्सङ्गे भाजनं कृत्वा नो पाणौ नैव कर्पटे। नासने न च शष्यायां भुञ्जीत न मलार्दितः” का० ख० ”। “नारिकेलोदकं कांस्येताम्रपात्रे गुडस्तथा। सुरातुल्यं भवेदेतत् ताम्रे गव्यं घृतं विनेति आ० त० पुरा०। “वर्जनीयं सदा माघे मूलकं मदिरासम मिति” ब्र० पु०। सदा विप्रैरिति विधानपा० पाठः। “वढप्लक्षोदुम्बरनीपदधित्थमातुलङ्गानि न भक्षयेत्” हारी० दधित्थः कपित्थः। कालान्तरेऽपि द्रव्यान्तर निषेधः “आमिषं चुक्रशाकञ्च योभुङ्क्ते च रवेर्द्दिने सप्तजन्म भवेत् कष्ठी दरिद्रश्चोपजायते। स्त्रीतैलमांससंभोगी पर्वस्वेतेषु वै पुमान्। विण्मूत्रभोजनं नाम नरकं प्रतिपद्यते” वि० पु०। अथ तिथिविशेषे द्रव्यविशेषाभक्ष्यतामाह स्मृतौ “कुष्माण्डे चार्थहानिः स्यात् वृहत्यां न स्मरेद्धरिम्। बहुशत्रुः पटोले स्यात् धनहानिस्तु मूलके। कलङ्की जायते विल्वे तिर्य्यकग्योनिश्च निम्बके। ताले शरीरनाशःस्यान्नारिकेले च मूर्खता। तुम्बी गोमांसतुल्या स्यात् कलम्बी गोबधात्मिका। शिम्बी पापकरी प्रोक्ता पूतिका ब्रह्मघातिका। वार्त्ताकौ सुतहानिः स्याच्चिररोगी च माषके। महापापकरं मांसं प्रतिपदादिषु वर्जयेत्” षट् त्रि०। तत्र सप्तम्यामेव तालनिषेधादन्यत्र भक्षणं प्राप्तम्। अतः ‘तालं श्वेताञ्च वार्त्ताकीं न खादेद्वैष्णवो नरः’। इत्यनेन तालमपि श्वेतं निषिद्धं साहचर्य्येण श्वेतानुष्ठङ्गात्। “अलावूं वर्त्तुलाकारां वार्त्ताकीं कुन्दसन्निभाम्” ति० त० पु० यदपि ‘कुसुम्भंनालिकाशाकं वृन्ताकं पूतिकान्तथा। भक्षयत् पतितस्तु स्यादपि येदान्तगोद्विजः इत्युशनसा सामान्यतोऽभिहितम्। तदपि श्वेतवृन्ताकपरम्। तत्र नालिकाश्वेतकलम्बी। पूतिका द्वादश्यामधिकदोल्षाय शूद्रविषयिकावा इति ति० त० रघु०। कुष्माण्डं २ वृहतीफलाषु ३ लवणं वर्ज्यं ४ तिलाम्लं तथा ५ तैलं ६ चामलकं ७ दिवं प्रवसता ८ शीर्षं ९ कपालान्त्रकम् १०। ११ निष्पावाश्च १२ मसूरिकाफलमथो १३ वृन्ताक संज्ञं १४ मधु द्यूतं १५ स्त्रीगमनं क्रमात् प्रतिपदादिष्वेवमाषोडश। नि० सि० मु० दीपि०। शीर्षं नारिकेलम् कपालं अलाबूः अन्त्रकं पटोलम्। “१ कुष्माण्डं २ वृहती ३ क्षारं ४ मूलकं ५ पनसं ६ फलम्। ७ धात्री ८ शिरः ९ कपालान्त्रं १० ११ नख १२ चर्म १३ तिलानि च १४ क्षुरकर्म्माङ्गनासेवां १५ प्रतिपदादिषु वर्ज्जयेत् नि० सि० भूपालः। नखं शिम्बी चर्म मसूरिका। “उच्छिष्टस्यान्नमात्रस्याभक्ष्यता “उच्छिष्टमगुरोरभोज्यं स्वोच्छिष्टमुच्छिष्टाहतञ्च” शाता०। गुरुः पित्रादिः। “पितुर्ज्येष्ठस्य च भ्रातुरुच्छिष्टं भोज्यम्’, आप० मातापितृभ्यां संभुक्तं शेषं वा ब्रह्मचारिणः” ब्र० पु०। स्वमुच्छिष्टन्तु यो भुङ्क्ते यो भुङ्क्तेत्यक्तभाजने एवं वैवस्वतः प्राह भुक्त्वा चान्द्रायणं चरेत्” चतुरृषिमतम्। “नाश्नीयात् भार्य्यया सार्द्धं नाश्नीयादुत्कटासने” मनुना स्त्रिया सह भोजननिषेधेऽपि अध्वनि ब्राह्मण्या स्त्रिया सह भोक्तुंशक्यते। “ब्राह्मण्या हितया सार्द्धं क्वचिद्भुञ्जीत चाध्वनि। अधोवर्णस्त्रिया सार्द्धं भुक्त्वा चान्द्रायणं चरेत्” ब्र० पु०। एतद्विषय एव “ब्राह्मण्या वा सहाश्नोयादुच्छिष्टं न कयञ्चन। न तत्र दोषं मन्यन्ते” अङ्गिराः। विडालाद्युच्छिष्टस्याभक्ष्यता। “विडालकाकाद्युच्छिष्टं जग्ध्वा श्वन लस्य च। केशकीटापन्नञ्च पिबेत् ब्रह्मसुबर्च्चलाम्” मनुः। “दूषितं केशकीटैश्च मार्ज्जारैर्मूषिकैस्तथा। मक्षिकामशकश्चैव त्रिरात्रे विशुध्यति। श्वकाकगोभिरुच्छिष्टभक्षणेतु दिनत्रयम्” मनुः अत्रापवादः। “देवद्रोण्यां विवाहेषु यज्ञेषु प्रकृतेषु च काकैः श्वभिश्च संस्पृष्टमन्नं तन्न विवर्ज्जयेत्। तन्मात्रमन्नमद्धत्य शेषं संस्कारमर्हति” यमः। संस्कारश्च “घनानां प्रोक्षणाच्छुद्धिः द्रवाणामपि तापनात्। संस्पर्शात्तु भवेच्छुद्धिरपां प्राहुर्घृतस्य च छागस्य मुखसंस्पृष्टं शुचि चैव हि तद्भवेत्” यमः। “पक्षिश्वापदजग्धस्य रसस्यान्नस्य भूयसः। संस्काररहितस्यापि भोजने पादकृच्छ्रकम्” विष्णुः। कुत्सितशूद्रादिपङ्क्तिभोजननिषेधात्तत्रान्नमात्रस्याभक्ष्यता “यस्तु पङ्क्तिषु भुञ्जीत कुत्सितानां विशेषतः अहोरात्रोषितः स्नात्वा पञ्चगव्येन शुध्यति” अङ्गि०। “अपाङ्क्तेयब्राह्मणोपवेशनेन कुत्सितासु। जलादिना पङ्क्तिभेदनमन्तरेणेत्याचारः प्रा० वि०। “ब्राह्मणः क्षत्रियपङ्क्त्यामुपविश्यासंस्पृशन् यदा भुङ्क्तेतदा नक्तमाचरेत्। वैश्यपङ्क्त्यामेकरात्रं शूद्रपङ्क्त्यां त्र्यह माचरेत्” विष्णुः। अनिन्दितपङ्क्तिष्वपि सहभोजने एकस्योत्थाने तदन्नस्याभक्ष्यता “एकपङ्क्त्युपविष्टानां बिप्राणां सहभोजने। यद्येकोऽपि त्यजेत् पात्र शेषमन्नं न भोजयेत्। मोहात् भुङ्क्ते तु यः पङ्क्त्यामुच्छिष्टं सहभोजने। प्रायश्चित्तंचरेद्विप्रः कृच्छं सान्तपनं तदा” शङ्खः। कालविशेषे द्रव्यमात्रस्य अभक्ष्यता। “सूर्य्यग्रहे तु नाश्नीयात् पूर्ब्बं यामचतुष्टयम्। चन्द्रग्रहे तु यामांस्त्रीन् बालबृद्धातुरैर्विना” वृद्ध० गौ०। “ग्रहणं तु भवेदिन्दोः प्रथमादधि यामतः भुञ्जी- तावर्त्तनात् पूर्ब्बं प्रथमे प्रथमादधः” मा० पु०। अधि ऊर्द्धम्। “ग्रस्तोदये सति विधोर्नाहर्भोजनमाचरेत्” वशि०। “अमुक्तयोरस्तगयोरद्यात् दृष्ट्वा परेऽहनि” व्यासः। “अहोरात्रं न भोक्तव्यं चन्द्रसूर्य्यग्रहो यदा मुक्तिं दृष्ट्वा तु भोक्तव्यं स्नानं कृत्वा ततःपरम् विष्णुघ० पु०। ‘सन्ध्याकाले यदा राहुर्ग्रसते शशिभास्करौ। तदहर्नेव भुञ्जीत रात्रावपि कदाचन” गर्गः। सायं सन्ध्यायां सूर्य्ये ग्रस्तास्ते, पूर्ब्बेऽह्नि रात्रौ च न भोक्तव्य, प्रातः सन्ध्यायां चन्द्रे पस्तास्ते पूर्ब्बरात्रावपरेऽह्नि च न भोक्तव्यमित्यर्थः नि० सि०। बालवृद्धातुरैर्विनेत्युक्तेस्तेषा विशेषः। “सायाह्ने ग्रहणं चेत् स्यादपराह्णे न भोजनम्। अपराह्णे, न मध्याह्ने, मध्याह्ने न तु सङ्गवे। भुञ्जीत संगवे चेत् स्यान्नपूर्ब्बं भोजनक्रियेति” मा० पु० उक्तः’। एतच्च बालादिविषयमिति नि० सि०। “सर्वेषामेव वर्ण्णानां सूतकं राहुदर्शने स्नात्वा कर्माणि कर्वीत शृतमन्नं विबर्ज्जयेत्” हेमा० षट्त्रि०। “नवश्राद्धेषु यच्छिष्टं ग्रहपर्य्युषितञ्चयत्। सर्ब्बं तद्दुष्टतामेति” स्मृतेः ग्रासकाले पक्वान्नादेरभक्षपता। अत्रापवादः। “आरनालं पयस्तक्रं दघि स्नेहाज्यपाचितम्। मणिकस्थोदकं चैव न दुष्ये द्राहुसूतके” मेधा०। “अन्नं पक्वमिह त्याज्यं स्नानं सवसनं ग्रहे। वारितक्रारनालादि तिलदर्भैर्न दुष्यति” स्मृतिः १ पुंसवनाद्यन्नस्याभक्ष्यता। “याजकान्नं नवश्राद्धं संग्रहे चैव भोजनम्। स्त्रीणां प्रथमगर्भे च भुक्त्वा चान्द्रायणं चरेत्। ब्रह्मौदने च सोमे च सीमन्तोन्नयने तथा। जातश्राद्धे नवश्राद्धे भुक्त्वा चान्द्रायणं चरेत्” आप०। संग्रहे स्त्रीणामेव व्यभिचारादिदीषार्थप्रायश्चित्तेन संग्रहे! ब्रह्मौदने आपोवसयज्ञाङ्गकर्म्मविशेषे प्रा० वि०। “जन्मप्रभृति संस्कारे बालस्यान्नस्य भोजने। असंपिण्डैर्न भोक्तव्यं शमशानान्ते विशेषतः” अङ्गि०। “निर्वृत्ते चूडहोमे च प्राङ्नामंकरणात् तथा। चरेत् सान्तपनं भुक्त्वा जातकर्म्मणि चैव हि” व्यासः। भोजनकाले मूत्राद्युत्सर्गेऽन्नमात्रस्याभक्ष्यता। “मूत्रोच्चारसमुत्सर्गे मोहात् भुङ्क्तेऽथ वा पिबेत्। त्रिरात्रं कुर्व्वीत” शाता०। भोजनकाले सूतकाद्यशौचे भक्ष्यमाणान्नस्याभक्ष्यता “यदा भोजनकाले तु अशुचिर्भवति द्विजः। भूमौ निःक्षिप्य तं ग्रासं स्नात्वा विप्रोविशुध्यति। भक्षयित्वा तु तं ग्रासमहोरात्रेण शुध्यति अशित्वा सर्व्वमेवान्नं त्रिरात्रेण विशुध्यति” शाता०। “अशुचिः सूतकादिनेति” प्रा० वि०। तैलाभ्यङ्गादिना स्नानार्हस्याकृतस्नानस्यान्नमात्रस्याभक्ष्यता। “समुत्पन्ने द्विजः स्नाने भुञ्जीताथ पिबे- त्तथा। गायत्त्र्यष्टसस्रं तु जपेत् स्नात्वा समाहितः” संब०। स्नाने तैलाभ्यङ्गक्षौरादिनिमित्ते स्नाने प्राप्ते प्रा० बि०। नीलीवस्त्रपारिधाने द्रव्यमात्रस्याप्यभक्ष्यता। “नीलीवस्त्रं परिघाय भुक्त्वा स्नानार्हकस्तथा। त्रिरात्रं तु व्रतं कुर्य्यात्” शङ्खः। “लोहितान् व्रश्चनांस्तथा। अनुपाकृतमांसानि विड्जानि कवकानि च वृथाकृषरसंयावपायसापूपशस्कुलीरिति” या०। विड्जानि अमेध्योद्भवानि। अमेध्य देशोद्भवानान्तु न दुष्टता “अमेध्येषु तु ये वृक्षा उप्ताः पुष्पफलीपगाः तेषान्नैव प्रदुष्यन्ति पत्रपुष्पफलानि चेति” बौधा० उक्तेः। अतिथ्यादिष्वभुक्तवत्सु गृहस्थस्यान्नमात्रस्याभक्ष्यता “देवतातिभूतेषु भृत्येष्वभ्यागतेषु च। अभुक्तवत्सु येऽश्नन्ति तथा पित्रग्निपक्षिषु। दुष्टान्नपूयनिर्यासभुजः सूचीमुखास्तु ते। जायन्ते गिरिवर्ष्माणः” इति मार्क० पु०। “असंतर्प्य पितॄन् देवान्नाद्यादन्नं नवं क्कचित्। पक्कान्नं चापि नो मांसमिति का० ख० भक्ष्येष्वपि देवायानिवेदितमभक्ष्यमेव “अनिवेद्य न भुञ्जीत मत्स्यमांसादिकं च यत्। अन्नं विष्ठा पयोमूत्रं यद्विष्णोरनिवेदितम्” आ० त० पु०। “तैर्दत्तानप्रदायेभ्यो यो भुङ्क्ते स्तेन एव सः” गीता ब्रह्मचारिणोऽभक्ष्याणि। ‘मासिकान्नन्तु योऽश्नीयादसमावर्त्तकोद्विजः। स त्रीण्यहान्युपवसेद् मनुः। “मृतान्नं मधुमांसञ्च नैवाश्नीत व्रती क्कचित्। त्रिरात्रोपोषितः सम्यग्रात्रिमेकां जले वसेत्” देवलः। “सूतिकान्नं नवश्राद्धं मासिकान्नं तथैव च। ब्रह्मचारी च योऽश्नीयात् मधुमांसं कथञ्चन प्राजापत्यं तु कृत्वादौ मौञ्जीहोमेन शुध्यति” संव०। मांसं च शिष्टभक्ष्यमांसपरम् “ब्रह्मचारी चेन्मधुमांममश्नीयात् शिष्टभोजनीयं, कृच्छ्रं द्वादशरात्रञ्चरित्वा व्रतशेषं समापयेत्” वशि० उक्तेः। अस्यापवादः “स चेत् व्यघीयत कामं गुरोरुच्छिष्टं भैषर्ज्याथं सर्वं प्राश्नीयात् येनेच्छत्तेन चिकित्सेत् स यदा अगदः स्यादादित्यमुपतिष्ठेत्” बौधा०। अस्य पात्रविशेषे द्रव्यमात्रस्याभक्ष्यता। “आमिषस्य तु यो भाण्डे पक्वमश्नीत सुव्रतः (ब्रह्मचारी)। कुशमूलविपक्केन त्र्यहं क्षीरेण वर्त्तयेत्” लघुहारीतः। सर्वापर्वापवादः। “जातमात्रः शिशुस्तावद्यावदष्टौ समाः” स्मृताः। भक्ष्याभक्ष्येषुनोदुष्येद्यावन्नैवोपनीयते” का० ख० एवमन्यान्यपि स्मृतौ निषिद्धानिद्रष्टव्यानि वैद्यकोक्तदोषादपि कानिचिदभक्ष्याणि तानि चापथ्यशब्दे २२६ पृष्ठेप्रायशोदर्शितानि विशेषतः कानिचित् प्रदर्श्यन्ते “वर्जयेत् पयसा स्विन्नं मत्स्यमांसमनूपकम्। बल्लीफलम- कुष्माण्डमब्जैर्ज्जब्धूफलाद्वते। मांसं मूलकसंसिद्धं घृतेन मधुमांसके। मत्स्यानि क्षुरिकारेण क्षौद्रमुष्णेन वारिणा पुनरुष्णीकृतञ्चान्नं घृतं कांस्ये दशाहिकम्। दध्ना तक्रेण पयसा तालस्यापि फलेन च। विरोधान्नैव भुञ्जीत मतिमान् कदलीफलम्। विरुद्धाशनजान् रोगाम् प्रतिहन्ति विरेचनम् वमनं शयनं वारि पूर्ब्बं वा हितभोजनम् शाम्येताल्पतया वापि दीप्ताग्नेस्तरुणस्य च स्निग्धव्याया मबलिनां विरुद्धं वितथं भवेत्। अदृष्टद्वारदोषास्तु जायन्ते पापिनामिह” आह्निकतत्त्वे वैद्यकम्।

***