अनिकेत = पु० नास्ति निकेतः नियमेन निवासो यस्य ब०। नियतनिवासशून्ये परिव्राजके। “अनग्निरनिकेतः स्यान्मुनि र्मूलफलाशन” इति “अनग्निरनिकेतः स्याद्ग्राममन्नार्थ माश्रयेदिति” च मनुः “अनिकेतः स्थिरमतिरितिः” गीता अनिकेतनोऽप्युक्तार्थे।

अनिक्षु = न० न इक्षुः सादृश्ये, अप्राशस्त्ये वा न० त०। इक्षुसदृशे गुडहेतौ (नटा) इति ख्याते काशभेदे।

अनिगीर्ण्ण = त्रि० न निगीर्णः। अनपह्नुतभेदे, “विषयस्यानिगीर्णस्यान्यतादात्म्यप्रतीतिकृत् सारोपा स्यादिति” सा० द०। (अनिगीर्णस्य) अनपह्नुतभेदस्य (विषयस्य) आरोपविषयस्य आरोप्यमाणस्य, (अन्यस्य) आरोपाश्रयस्य तादात्म्यमभेदस्तत्प्रतीतिकृत् तद्बोधसाधनं वृत्तिः सारोपा लक्षणेति तदर्थः यथा अश्वः श्वेतो धावतीत्यादौ श्वेतगुणवानश्वोऽनपह्नुतभेदः सन् स्वसमवेतश्वेतगुणतादात्म्येन प्रतीयते इत्यतस्तत्र सारोपा लक्षणा।

अनिच्छा = स्त्री न इच्छा अभावार्थे न० त०। इच्छाभावे “स्फुटामनिच्छां विवरीतुमुत्सुकामिति नैष०। “चरेत् सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छयेति” मनुः।

अनित्य = त्रि० न नित्यः। नश्वरे, जन्ये च। “नित्याऽनित्या च च सा द्वेधा नित्या स्यादणुलक्षणा। अनित्या तु तदन्यास्यादिति” भाषा०। “यदि नित्यमनित्येन निर्मलं मलवाहिना। यशः कायेन लभ्येतेति” हितो० “रजस्वलमनित्यञ्च भूतावासमिमं त्यजेदिति” मनुः। अस्थिरे “अनित्योविजयो यस्मात् दृश्यते युध्यमानयोः। पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेदिति” मनुः। कृताकृतप्रसङ्गि नित्यं विरोधे न० त०। कृताकृतप्रसङ्गशून्येवैकल्पिके, “समासान्तविधेरनित्यत्वमिति” पा० भा०। यावदाश्रयमवस्थानायोग्ये, “वर्णे चानित्ये” इति पा०। अव्यवस्थिते, (यावदाश्रयमदनवस्थिते) “इह खलु द्रव्यं व्यवस्थितं न रसादयः, यथा आमे फले, ये रसादयस्ते पक्वे न सन्ति, नित्यत्वाच्च नित्यं द्रव्यम् अनित्या गुणा यथा कल्कादिप्रविभागः, सएव सम्प्रन्नरसगन्धो व्यापन्नरसगन्धो वा भवतीति” सुश्रुतम् अतएव “सत्वे निविशतेऽपैति पृथग्जातिषु दृश्यते। आधेयश्चाक्रियाजश्चसोऽसत्वप्रकृतिर्गुण” इति गुणलक्षणे गुणानामुत्प्यदविनाशोक्तिः। सदातनभिन्ने काले च। “अनित्यं हि स्थिति र्यस्मात्तस्मादतिथिरुच्यते” इति मनुः। अनित्यमित्यत्र व्याप्तौ, कालाधिकरणे वा द्वितीया न मान्ताव्ययत्वमस्य तथात्वे प्रमाणाभावात्। सदाकालवृत्तिपरत्वेऽपि धातूपस्थाप्यसाध्यक्रियाविशेषणत्वेन सञ्चारोरतिमन्दिरावधीत्यादिवत् द्वितीयेति बोध्यम्। नित्यम् मान्तमव्ययम् न० त०। केचित्।

अनिद्रा = स्त्री न निद्रा अभावार्थे न० त०। निद्राभावे “हृद्ग्रहलौल्यमनिद्रा स्तम्भ” इति सुश्रुतम्। निद्राराहित्ये च रोगविशेष एव कारणम्। नास्ति निद्रा यस्य। निद्रारहिते आलस्यरहिते त्रि० “अनिद्रौ षडहोरात्रं तपोवनमरक्षतामिति “प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिता” इति च रामा०। “अनिद्रेण अनलसेनेति” तदर्थः।

अनिन्दित = त्रि० न निन्दितः। निन्दारहिते प्रशस्ते “अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजेति” मनुः।

अनिन्द्र = त्रि० न इन्द्रोयाज्योयस्य। इन्द्रोपासनाशून्ये “मामनिन्द्राः कृणवन्ननुक्थाः ऋ० ५, २, ३, “अनिन्द्रा इन्द्रमयजन्त” इति भाष्यम्।

अनिबद्ध = त्रि० न निबद्धः। अनायत्ते, “अनायतो अनिबद्ध” इति ऋ० ४, १३, ५। ग्रथितभिन्ने च।

अनिबाध = त्रि० नास्ति निबाधः संबाधा यस्य। संबाधरहिते “उरौ महा~ अनिबाधे ववर्द्ध” इति ऋ० ३, १, ११, अनिबाधे असंबाधे इति भा०।

अनिभृत = त्रि० निभृतः न० त०। चञ्चले “भुवमनिभृतवेलेति” भा०। “वेलाश्चञ्चला” इति मल्लि०।

अनिभृष्ट = त्रि० नि + भ्रन्श क्त नि० न० त०। अबाधिते। अनिभृष्टतविषिर्हन्त्योजसा “ऋ० २, २५, ४, अनिभृष्टतविषिः अवाधितबल” इति भा०।

अनिमक = पु० अन–जीवने शब्दे च भावे बा० इमन् “अनिमः जीवनं तेन कायति प्रकाशते कै–क। भेके। तस्य मरणेऽपि पुनरुज्जीवनात्तथात्वम्। कोकिले, भ्रमरे च तयीः मधुरशब्देन प्रकाशमानत्वात्तथात्वम्। अनिमाय जीवनाय कं जलं यस्य। पद्मकेशरे। अनिमाय कं सुखं यस्मात्। मधूके (मौल) वृक्षे मेदिनिः।

अनिमान = त्रि० नि + मा–भावे ल्युट् न० ब०। परिच्छेदरहिते “स नो महा~ अनिमानो धूमकेतुः ऋ० १, २७, ११ “अनिमानः अपरिच्छिन्न” इति भा०।

अनिमित्त = न० न निमित्तम्। निमित्ताभावे कारणाभावे “अनातुरः स्वानि खानि न स्पृशेदनिमित्तत” इति मनुः न० व०। कारणशून्ये त्रि०।

अनिमिष् = त्रि० नि + मिष–भावे क्विप् स नास्ति यत्र। स्पन्दशून्ये दर्शने “इमे दिवो अनिमिषा” इति ऋ० ७, ६०, ७, “मित्रः कृष्णीरनिमिषा” इति ऋ० ३, ५९, १, अनिमिषा निमिषरहितेनेति भा०।

अनिमि(मे)ष = पु० नास्ति निमि(मे)षः चक्षुःस्पन्दनं यस्य मिष घञ् कुटादि० न गुणः, मिष–भ्वादि घञ्–वा,। चक्षुःस्पन्दनशून्ये देवे “सुरेषु नापश्यदवैक्षताक्ष्णोर्नृपे निमेषं निजसम्मुखे सेति” नैषधे सुराणां निमेषशून्यत्वमुक्तम् “अस्वप्नजो अनिमिषा” इति २, २७, ९ संक्रन्दनो अनिमिष एकवीर इति च ऋ० १०१०३, १। मत्स्ये च। निमिषो दृष्टिप्रतिबन्धस्तच्छून्ये विष्णौ च। “नैमिशऽनिमिषक्षेत्रे” इति भाग० “अनिमिषः विष्णुः अलुप्तदृष्टित्वात् तस्य क्षेत्रे इति श्रीधरः। न निमिषति चलतीति नि + मिष –क न० त०। महाकाले। क्रियाशून्ये वस्तुमात्रे त्रि०। स्पन्दनशून्ये त्रि०। “शतैस्तमक्ष्णामनिमेषवृत्तिभिरिति” रघुः।

अनियत = त्रि० न नियतः। नियमेनैकरूपशून्ये, अनित्ये अस्थायिनि “रत्यादयोऽप्यनियते रसे स्युर्व्यभिचारिण” इति सा० द०। नियतकारणाद्यनपेक्षे च “रिष्टं त्रिविधं मुनयीनियतमनियतं योगजञ्चेति” ज्योति०। अनियन्त्रिते च।

अनियन्त्रित = त्रि० नि + यन्त्र चु० क्त न० त०। अनियमिते उच्छृङ्खले च।

अनियम = पु० न नियमः अभावार्थे न० त०। नियमा भावे। “पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः। षष्ठे पादे गुरु ज्ञेयं शेषेष्वनियमोमत” इति छन्दो०।

अनिरा = स्त्री नास्ति इरा अन्नं यस्याः ५ ब०। अतिवृष्ट्यादौ ईतौ। “व्यस्यन् विश्वा अनिरा” इति यजु० ११, ४७, अनिराः अतिवृष्ट्याद्या इति वेददीपः। न ईरयितुं शक्यते ईर–क पृ० ह्रस्वः न० त०। प्रेरयितुमशक्ये। “अपत्या अस्थुरनिरा” इति ऋ० ८, ४८, ११, “अनिरा प्रेरयितुमशक्या” इति भा०। ७ ब०। अन्नरहिते दारिद्र्ये च “युयुतमस्मदनिराममीवामिति” ऋ० ७, ७१, २, “अनिरामन्नदारिद्र्यमिति” भा०।

अनिराकरण = न निराकरणमभावार्थे न० त०। निवारणाभावे “अनिराकरणात् कर्त्तुस्त्यागाङ्गकर्मणेप्सितमिति” हरिः।

अनिरुक्त = त्रि० निष्क्रान्तं उक्तमवयवार्थं निर्बद्धमुक्तमवयवार्थो येन वा निरुक्तं निर्वचनम् न० त०। विशेषरूपेण निर्वचनशून्ये “एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्ते” इति ऐत०। निर्वचनञ्च निरुक्ते यास्केन दर्शितं यथा “अथ निर्वचनम् तदेषु पदेषु स्वरसंस्कारौ समर्थौ, प्रादेशिकेन गुणेनान्वितौ स्यातां, तथा तानि निर्ब्रूयादथानन्वितेऽर्थेऽप्रादेशिके विकारेऽर्थनित्यः परीक्ष्येत केनचिद्वृत्तिसामान्येनाविद्यमाने सामान्येऽप्यक्षरवर्णसामान्यान्निर्ब्रूयात् नत्वेन न निर्ब्रूयान्न संस्कारमाद्रियेत विषयवत्यो हि वृत्तयो भवन्ति। यथार्थं विभक्तीः संनमयेत्प्रत्तमवत्तमिति धात्वादी एव शिष्येते। अथाप्यस्तेर्निवृत्तिस्थानेष्वादिलोप् भवति स्तः सन्तीति, अथाप्यन्तलोपो भवति गत्वा गतमिति, अथाप्युपधालोपो भवति जग्मतुर्जग्नुरिति, अथाप्युपधाविकारो भवति राजा दण्डीति, अथापि वर्णलोपी भवति तत्त्वा यामीति अथापि द्विवर्णलोपः तृच इति, अथ प्यादिविपर्ययो भवति ज्योतिर्धनो विन्दुर्वाद्य इति अथाप्याद्यन्तविपर्ययो भवति स्तोको रज्जुः सिकतास्तर्कु इति अथाप्यन्तव्यापत्तिर्भवति” इति।। तथा प्रकृतिप्रत्ययानपेक्षयैव समुदायेन विशिष्टार्थबोधकमपि निरुक्तं यथोक्तम् ऋ० भा० माधवेन यथा “प्रकृतिप्रत्ययार्थमनपेक्ष्य विशिष्टैकार्थबोधकं पदं निरुक्तमिति”। अनिर्दिष्टे “अनिरुक्तप्रातःसवनः प्रथम” इति कात्या० २२, ५, ७, “अनिरुक्तं प्रातःसवनं यस्यासौ प्रथम” इति तद्व्याख्या।

अनिरुद्ध = पु० न केनापि युद्धेन निरुद्धः नि + रुध–क्त न० त०। कामदेवपुत्रे, उषापतौ, वासुदेवसङ्कर्षणप्रद्युभ्नानिरुद्धाख्यचतुर्व्यूहस्य परमेश्चरस्य कथमप्यनिषेध्यस्य अत्यन्तचलस्य चेतसोऽधिष्ठातरि अनिरुद्धाख्ये अंशे च अनिरुद्धः सुरानन्द” इति विष्णु० स०। “न केनापि प्रादुर्भावेषु निरुध्यते” इति भा० “अनिरुद्धोऽप्रतिरथ” इति विष्णु सह०। “चतुर्षु व्यूहेष्वनिरुद्ध” इति भा० “संकर्षणोवासुदेवः प्रद्युम्नश्चानिरुद्धकः। व्यूहश्चतुर्विधो ज्ञेयः सूक्ष्मं सम्पूर्णषड्गुणमिति” रामा० दर्श०। विवरणं रामानुजशब्दे वक्ष्यते। अप्रतिरुद्धे त्रि०।

अनिरुद्धपथ = न० न निरुद्धः पन्था यत्र ब०। आकाशे तत्र हि कस्यापि गतिरोधनाभावः। रुद्धवर्त्सभिन्ने त्रि०।

अनिरुद्धभाविनी = स्त्री ६ त०। उषायां वाणकन्यायां तस्यास्तत्पत्नीभवनकथा च उषापतिशब्दे दृश्या।

अनिर्ज्ञात = त्रि० न निर्ज्ञातः निश्चितो प्राप्तो वा। अप्राप्ते अनिश्चिते च “क्रिया हि अनिर्ज्ञातकालादिक्रियायाः परिच्छेदकत्वात् लक्षणं भवतीति” प्रौ० मनो०। अनिर्ज्ञातप्राप्त्यर्थं प्रतीक्षणं प्रतीक्षेति कठ० उ० भा०। प्राप्तं हि यथा स्वरूपं ज्ञातुं शक्यते नाप्ताप्तमित्यतोऽप्राप्तस्यानिर्ज्ञातत्वम्।

अनिर्णय = न निर्णयः अभावे न० त०। निश्चयाभावे अवधारणाभावे।

अनिर्दश = त्रि० न निर्गतानि दश दिनानि यस्य डच्समा०। अनपगतदशाहे। “उग्रान्नं सूतिकान्नञ्च पर्य्याचान्तमनिर्द्दशमिति” अनिर्दशञ्च प्रेतान्नमिति, “तावत् स्यादशुचिर्विप्रो यावत्तत् स्यादनिर्दशमिति” “विगतं तु विदेशस्थं शृणुयाद्यो ह्यनिर्दशमिति” “अनिर्दशायाः गोःक्षीरमौष्ट्रमेकशफं तथेति च” मनुः। अनिर्दशाहमप्यत्र त्रि०। “अनिर्दशाहां गां सूतामिति” मनुः।

अनिर्द्देश्य = त्रि० न निर्द्देश्यं जातिगुणक्रियासंज्ञाभिर्निर्देष्टुमशक्यम् निर् + दिश्–शक्यार्थे ण्यत् न० त०। निर्विशेषे निर्धर्म्मके परमात्मनि तस्य जातिगुणाद्यभावेन “इदं तदिति” निर्देशायोग्यत्वात्तत्त्वम्। “यत्तत् सूक्ष्ममनिर्देश्यमिति” श्रुतिः। “ब्रह्मन्! ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तय” इति भाग० १० म श्रुत्य०। अनिर्देश्यवपुः श्रीमानिति विष्णु स०। “इदं तदिति निर्देष्टुं यन्न शक्यते परस्मै, स्वयं वेद्यत्वादिति” भाष्यम्।

अनिर्द्धारित = त्रि० न निर्द्धारितः। अवघारितभिन्ने अनिश्चिते।

अनिर्माल्या = स्त्री निर्–मल–ण्यत् न० त०। पृक्कान्नामको षधौ शब्दरत्ना०।

अनिर्वचनीय = पु० निर्वचनं निरुक्तिः लक्षणादिना ज्ञापनम्। एबंरूपतया निर्वक्तुमशक्ये परमात्मनि। सत्त्वासत्त्वाभ्यामेकतररूपेण निर्वक्तुमशक्ये वेदान्तिमते जगति, अज्ञाने च न०। “अज्ञानञ्च सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मजं ज्ञानविरोधि भावरूपं यत्किञ्चिदिति” वे० सा०।

अनिर्वचनीयसर्वस्व = न० अनिर्वचनीयं सर्व्वस्वं यस्य। श्रीहर्षप्रणीते खण्डनखण्डखाद्यापरपर्य्याये ग्रन्थभेदे तत्र हि सर्व्वेषां पदार्थानामिदन्तया निर्वक्तुमशक्यता व्यवस्थिता।

अनिर्वृति = स्त्री न निर्वृतिः स्वाच्छन्द्यमभावार्थे न० त०। स्वाच्छन्द्याभावे तद्रूपोपलक्षिते दारिद्र्ये च “अनिर्वृति- निशाचरी मम गृहान्तरालं गते” त्युद्भटः। ब०। तद्वति त्रि०।

अनिर्वेद = पु० न निर्वेदः अभावार्थे न० त०। निर्वेदाभावे वैराग्याभावे अवैराग्ये, असन्तोषे च “अनिर्वेदः श्रियोमूलमनिर्वेदमयं सुखम् “अनिर्वेदो हि सततं सर्वार्थेष्वनुवर्त्तते” इति रामा०।

अनिल = पु० अनित्यनेन अन–इलच्। वायौ, तेनैव सर्वेषां प्राणधारणात्तत्त्वम्। “तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान्” इति सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्य चेति” मनुः। “स सखा दीप इवानिलाहत” इति कुमा०। अनिलश्च मायासहकृतेन ब्रह्मणा वियदुत्पाद्य तद्रूपाविष्टेन ततोदशांशत उत्पादितः द्रव्यभेदः “तस्मादेतस्माद्वा आत्मन आकाशः संभूतः आकाशात् वायुः वायोरग्निरित्यादिश्रुतिः, स च स्वाभाविकशोषस्पर्शगतिवेगाख्यगुणवान् वियत उत्पन्नत्वात् शब्दगुणवांश्च। यथोक्तं पञ्चदश्यां “माया सत्येकदेशस्था यथा तत्रैकदेशगम्। वियत्, तत्राप्येकदेशगतो वायुः प्रकल्पितः। शोषस्पर्शोगतिर्वेगो वायुधर्म्मा इमे मताः। त्रयः स्वभावात् सन्मायाव्योभ्रां ये तेऽपि वायुगाः। वायुरस्तीति सद्भावः, सतोवायौ पृथक्कृते। निस्तत्वरूपो मायायाः स्वभावो वियतोध्वनिरिति “पुराणोक्तं तारतम्यं दशांशे भूतपञ्चके” इति च। तदाविष्टेनैव ब्रह्मणा वह्निरुत्पादित इति वेदान्तिमतम् सांख्यमते सतु स्पर्शतन्मात्रादुत्पन्नः। वैशेषिकनये तु स्पर्श, संख्या, परिमाण, पृथक्त्वसंयोगविभागपरत्वापरत्ववेगगुणकोऽनिलः ईश्वरादेव अदृष्टवशादुत्पद्यते इति भेदः स च स्थूलः सूक्ष्मश्च। तत्र स्थूलः सप्तविधः सप्तस्कन्धाश्रितः यथोक्तं सिद्धान्तशिरमणौ “भूवायुरावह इह प्रवहस्तदूर्ध्वः स्यादुद्वहस्तदनु संवहसंज्ञकश्च। अन्यस्ततोऽपि सुवहः परिपूर्वकोऽस्माद्वाह्यः परावह इमे पवनाः प्रसिद्धाः। भूमेर्वहिर्द्वादशयोजनानि भूवायुरत्राम्बुदविद्युदाद्यम्। तदूर्ध्वगो यः प्रवहः स नित्यं प्रत्यग्गतिस्तस्य तु मध्यसंस्था। नक्षत्रकक्षा खचरैः समेतो यस्मादतस्तेन समाहतोऽयम्। भपञ्जरः खेचरचक्रयुक्तो भ्रमत्यजस्र प्रवहानिलेन इति”। भूवायौ विद्युदादय उत्पद्यन्ते इत्युक्तम् तेषां स्वरूपादि तट्टीकायामुक्तं श्रीपतिवाक्येन। “निर्घातोल्काघनसुरधनुर्विद्युदन्तः कुवायोः संदृश्यन्ते खनगरपुरीवेषपूर्ब्बं तथान्यत्” इति। तत्र विद्युतः। “सुजलजलधिमध्ये वाडवोऽग्निः स्थितोऽस्मात् सलिलभरनिमग्नादुत्थिता धूममालाः। वियति पवननोताः सर्वतस्ता द्रवन्ति द्युमणिकिरणतप्ता विद्युतस्तत्स्फुलिङ्गाः”। करकाः।। “उद्धूतैः पांसुभिर्भूमेः प्रचण्डपवनोच्चयात्। मेघमण्डलमानीतैर्मालिन्यपरिवर्जितैः। मिश्रणाज्जलविन्दूनां पिण्डभावो भवेदिह। दृषद्वन्निपतन्त्येते द्रवन्ते च पुनः क्षितौ”। विद्युत्पातसंभवस्तु। “अकस्माद्वैद्युतं तेजः पार्थिवांशकमिश्रितम्। वात्यावद्भ्रमदाघाते प्रतिकूलानुकूलयोः। वाय्वोस्तत् पतति प्रायो ह्यकालं प्राप्य वर्षणे। यतः प्रावृषि नैवेते पांसवः प्रसरन्ति हि। तत् त्रेधा पार्थिवं चाप्यं तैजसं, तत्तदुत्थितः। गतो निर्झरदाहैश्च भूमिस्थैरनुभूयते”। इन्द्रधनुः। “सूर्य्यस्य विविधवर्णाः पवनेन विधट्टिताः कराः साभ्रे। वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः,। परिवेषः। “संमूर्च्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः। नानावर्णाकृतयस्तन्वभ्रे व्योभ्रि परिवेषः”। उल्का। “यासां गतिर्दिवि भवेद्गणितेन गम्यास्तास्तारकाः सकलखेचरतोऽतिदूरे। तिष्ठन्ति या अनियतोद्गतयश्च ताराश्चन्द्रादधो हि निवसन्ति तदाश्रितास्ताः। शीतांशुवज्जलमयास्तपनात् स्फुरन्ति ताश्चावहप्रवहमारुतसंधिसंस्थाः। पूर्बानिलैस्तिमितभावमुपागतेऽस्मिंस्ताराः पतन्ति कुहचिद्गुरुतावशेन”। अथ रजःसंहतिः। “वर्षान्ते निर्जला मेघा वायुना विरलीकृताः। ईषद्बाष्पावशेषास्तु पतन्ति वसुधातले। धूमावयवरूपैस्तैश्छाद्यन्ते गिरयो द्रुमाः। रामारामादयस्ते तु पुनरर्कांशुशोभिताः। भूवायुना विशीर्णास्तु विलीयन्ते नभस्तले। तद्रजःसंहतिर्धेनुमहिषीक्षीरनाशकृत्”। संध्यारागः। “भूम्युत्थितै रजीधूमैर्दिगन्तव्योम्नि संस्थितैः। सूर्य्याल्पकिरणैर्मिश्रैरारुण्यमवभासते। विरलावयवं वस्तु यद्दृष्टेर्व्यवधायकम्। तेनाभ्रमरुणीभूतं दृश्यते शक्रचापवत्। संध्यारागः स विज्ञेयो दिनादौ च दिनात्यये। राकायां तु निशावक्त्रे तथैवेन्दुकरोद्यमे” इति। तदधिष्ठातृदेहोत्पत्तिर्मन्वन्तरभेदेन वामनपुराणादौ दर्शिता यथा “पुलस्त्य उवाच। प्रविश्य जठरं शुद्धोदैत्यमातुः पुरन्दरः। ददर्शोर्द्ध्वमुहं वालं कटिन्यस्तकरं महत्।। तेनैव गर्भं दितिजं वज्जेणं शतपर्वणा। चिच्छेद सप्तधा ब्रह्मन्! स रुरोद सुविस्वरम्। शक्रोऽपि प्राह मा मूढ! रुदस्वेति सघर्घरम्। इत्येवमुक्त्वा चैकैकं भूयश्चिच्छेद सप्तधा।। ते जाता मरुतो नाम देवादित्याः शतक्रतोः। मातुरेवापचारेण बलवीर्य्यपुरस्कृताः इति।। “यदमी भवता प्रोक्ता मरुतोदिति सम्भवाः। तत् केन पूर्ब्बमासन् वै मरुन्मार्गेण कथ्यतामिति” नारद्- प्रश्ने पुलस्त्योक्तिः। “श्रूयताम् पूर्ब्बमरुतामुत्पत्तिं कथयामि ते। स्वायम्ब्मुबं समारभ्य यावन्मन्वन्तरं त्विदम्।। स्वावम्भुवस्य पुत्रोऽभून्मनोर्नाम प्रियव्रतः। तस्यासीत् सवनो नाम पुत्रस्त्रैलोक्यपूजितः।। खमुत्पपाताथ स कामचारी समं महिष्या वसुमानपुत्र्या। रराम तन्व्या सह कामचारी ततोऽम्बरात् प्राच्यवतास्य शुक्रम्।। पतिभिः समनुज्ञाताः पपुः पुस्करसंस्थितम्। तं शुक्रं पार्थिवेन्द्रस्य मन्यमानास्तदामृतम्।। पीतमात्रेण शुक्रेण पार्थिवेन्द्रोभद्भवेन च। ब्रह्मतेजोविहीनास्ता जाताः पत्न्यस्तपस्विनाम्।। सुषुवुः सप्त तनयांस्ते रुदन्तोऽथ भैरवम्। तेषां रुदितशब्देन सर्व्वमापूरितं जगत्।। अथाजगाम भगवान् ब्रह्मलोकात् पितामहः। समभ्येत्याब्रवीद्बालान् मा रुदध्वं महाबलाः!।। मरुतो नाम यूयं वै भविष्यध्वं वियच्चराः। इत्येवमुक्त्वा देवेशो ब्रह्मा लोकपितामहः।। तानादाय वियच्चारी मारुतानादिदेश ह। ते चासन् मरुतश्चाद्या मनोः स्वायम्भुवान्तरे”।। स्वारोचिषे तु मरुतो वक्ष्यामि शृणु नारद!। स्वारोचिषस्य पुत्रश्च श्रीमानासीत् क्रतुध्वजः।। तस्य पुत्राभवन् सप्त सप्तार्च्चिःप्रतिमा मुने!। तपोऽर्थं ते गताः शैलं महामेरुं नभश्चराः।। आराधयन्तो ब्राह्मणं पदमैन्द्रमथेप्सवः। ततो विपश्चिन्नामा स सहस्राक्षो भयातुरः।। पृतनामप्सरोमुख्यां प्राह नारद! वाक्यवित्। यथा हि तपसो विघ्नं तेषां भवति सुन्दरि!।। तथा कुरुष्व मा तेषु, सिद्धिर्भवतु वै यथा। इत्येवमुक्ता शक्रेण पृतना रूपशालिनी।। तत्राजगाम त्वरिता यत्र तप्यन्ति ते तपः। आश्रमस्याविदूरे तु नदीमन्दोदवाहिनी।। तस्यां स्नातुं समायाताः सर्व्वएव सहोदराः। सा तु स्नातुं सुचार्बङ्गी त्ववतीर्णा महानदीम्।। ददृशुस्ते नृपाः स्नातुं ततश्चक्षुभिरे मुने!। तेषाञ्च प्राच्यवत् शुक्रं, तत् पपौ जलचारिणी।। शङ्खिनी ग्राहमुख्यस्य महाशङ्खस्य वल्लभा। ते वै विनिष्टतपसो जग्मू राज्यन्तु पैतृकम्।। अथो बहुतिथे काले सा ग्राही शङ्खरूपिणी। समुद्धृता महाजालैर्मत्स्यबन्धेन मानिनो।। स तां दृष्ट्वा महाशङ्खि स्थलस्थां मत्स्यजीवनः। निवेदयामास तदा क्रतुध्वजसुतेषु वै।। तथाभ्येत्य महात्मानो योगिनो योगधारिणः। नीत्वा स्वमन्दिरं सर्वे पुरव्याप्यां समुत्सृजन्।। ततः क्रमाच्छङ्क्षिनीसा सुषुवे सप्त वै शिशून्। जातमात्रेषु पुत्रेषु मोक्षभावमगाच्च सा।। अमातृपितृका बाला जलमध्य विचारिणः। स्तन्यार्थिनो वै रुरुदुरथाभ्यागात् पितामहः।। मा रुदध्वमिति प्राह मरुतो नाम पुत्त्रकाः!। यूयं देवा भविष्यध्वं वायवोऽम्बरचारिणः।। इत्येवमुक्त्वाथादाय सर्व्वांस्तान् दैवतान् प्रति। नियोज्य च मरुन्मार्गे वैराजभवनं गतः।। एवमासंश्च मरुतो मनोः स्वारोचिषान्तरे। औत्तमे मरुतो ये च तान् शृणुष्व तपोधन!।। औत्तमस्यान्ववाये च राजासीन्निषधाधिपः। वपुष्मानिति विख्यातो वपुषा भास्करोपमः।। तस्य पुत्त्रो गणश्रेष्ठो ज्योतिष्मान् धार्म्मिकोऽभवत्। स पुत्त्रार्थी तपस्तेपे नदीं मन्दाकिनीमनु।। तस्य भार्य्या च सुश्रोणी देवाचार्य्यसुता शुभा। तपश्चरणयुक्तस्य बभूव परिचारिका।। तेजोयुक्ता सुचार्व्वङ्गी दृष्टा सप्तर्षिभिर्व्वने। तां तथा चारु सर्व्वाङ्गीं दृष्ट्वाथ तपसा कृशाम्। पप्रच्छुस्तपसो हेतुन्तस्यास्तद्भर्त्तुरेव च। साऽब्रवीत्तनयार्थाय आवाभ्यां वै तपः क्रिया।। ते चास्यै वरदा ब्रह्मन्! जाताः सप्त महर्षयः। व्रजध्वं तनयाः सप्त भविष्यन्ति न संशयः।। युवयो र्गुणसंयुक्ता महर्षीणां प्रसादतः। इत्येवमुक्त्वा जग्मुस्ते सर्व एव महर्षयः।। सोऽपि राजर्षिरगमत् सभार्य्यो नगरं निजम्। ततो वहुतिथे काले सा राज्ञो महिषी प्रिया।। अवाप गर्भं तन्वङ्गी तस्मात् नृपतिसत्तमात्। गुर्विण्यामथ भार्य्यायां ममारासौ नराधिपः।। सा चाप्यारोढुमिच्छन्ती भर्त्तारं वै पतिव्रता। निवारिता तदामात्यैर्न तथापि व्यतिष्ठत।। तं समालिङ्ग्य भर्त्तारं चितायामारुरोह सा। ततोऽग्निमध्यात् सलिले मांसपेश्यपतन्मुने!।। साम्भसा सुखशीतेन संसिक्ता सप्तधाऽभवत्। तेऽजायन्ताथ मरुत औत्तमस्यान्तरे मनोः।। तामसस्यान्तरे ये च मरुतोऽप्यभवन् पुरा। तानहं कीर्त्तयिष्यामि गीतनृत्यकलिप्रिय!।। तामसस्य मनोः पुत्त्र ऋतध्वज इति श्रुतः। स पुत्त्रार्थी जुहावाग्नौ स्वमांसं रुधिरं तथा।। अस्थीनि रोम केशांश्च स्नायुमज्जायकृद्व्रणम्। शुक्रं च वित्रसो राजा सुतार्थी चेति नः श्रुतम्।। सप्तार्च्चिर्मध्याच्च ततः शुक्रपातादनन्तरम्। मा मा क्षिपस्वेत्यसरत् शब्दः सोऽपि नृपो मृतः।। ततस्तस्माद्धुतवहात् सप्त तत्तेजसोपमाः। शिशवः समजायन्त ते रुदन्तश्च तन्मुने!।। तेषान्तु ध्वनिमाकर्ण्य भगवान् पद्मसम्भवः। समागम्य निवार्य्याथ स चक्रे मरुतः सुतान्।। ते त्वासन्मरुतो ब्रह्म~ स्तामसे देवतागणाः। येऽभवन्रैवते तांश्च शृणुष्व त्वं तपोधन!।। रेवतस्यान्ववाये तु राजासीदिषु- जिद्बली। रिपुजिन्नाम स ख्यातो न तस्यासीत् सुतः किल।। स समाराध्य तपसा भास्करं तेजसां निधिम्। अवाप कन्यां सुरतिं तां प्रगृह्य गृहं ययौ।। तस्यां पितृगृहे ब्रह्मन्! वसत्याञ्च पिता मृतः। सापि दुःखपरीताङ्गी स्वां तनुं त्यक्तुमुद्यता।। ततस्तां वारयामासुरृषयः सप्त मानसाः। तस्यामासक्तचित्तास्तु सर्व्व एव तपोधनाः।। अपारयन्ती तद्दुःखं प्रज्ज्वाल्याग्निं विवेश ह। ते चापश्यन्त ऋषयस्तच्चित्ता भावितास्तथा।। तां मृतां ऋषयो दृष्ट्वा कष्टं कष्टेति वादिनः। प्रजग्मुर्ज्वलनाच्चापि सप्ताजायन्त दारकाः।। ते च मात्रा विना भूता रुरुदुस्तान् पितामहः। निवारयित्वा कृतवान् लोकनाथो मरुद्गणान्।। रेवतस्यान्तरे जाता मरुतोऽमी तपोधन!। शृणुष्व कीर्त्तयिष्यामि चाक्षुषस्यान्तरे मनोः।। आसीन्माङ्कीति विख्यातो तपस्वी सत्यवाक् शुचिः। सप्तसारस्वते तीर्थे सोऽतप्यत महत्तपः।। विघ्नार्थं तस्य तपसो देवाः सम्प्रैषयन् बधूम्। सा चाभ्येत्य नदीतीरं क्षोभयामास भाविनी।। ततोऽस्य प्राच्यवच्छुक्रं सप्तसारस्वते जले। तां चैवाप्यशपन्मूढां मुनिर्म्माङ्कनिको बधूम्।। गच्छालज्जेऽतिमूढे! त्वं पापस्यास्य फलं महत्। विध्वंसयिष्यति हयो भवतीं यज्ञसंसदि।। एवं शप्त्वा ऋषिः श्रीमान् जगामाथ स्वमाश्रमम्। स्वरस्वतीभ्यः सप्तभ्यः सप्त वै मरुतोऽभवन्। एते तवोक्ता मरुतः पुरा यथा जाता वियद्व्याप्तिकरा महर्षे!। येषां श्रुते जन्मनि पापहानिर्भवेच्च धर्म्माभ्युदयो महान्वै”।। अतःपरं प्रवक्ष्यामि मरुतोऽग्नीन् पितॄन् ग्रहान्। आवहो निवहश्चैव उद्वहः संवहस्तथा।। विवहः प्रवहश्चैव परिवाहस्तथैव च। अन्तरीक्षे च वाह्ये ते पृथङ्मार्गविचारिणः।। महेन्द्रप्रविभक्ताङ्गा मरुतः सप्त कीर्त्तिताः। सूर्य्याग्निश्च शुचिर्नामा वैद्युतः पावकः स्मृतः।। निर्मथ्य पचमानोऽग्निस्त्रयः प्रोक्ता इमेऽग्नयः। अग्नीनां पुत्त्रपौत्त्राश्च चत्वारिंशन्नवैव तु। मरुतामपि सर्वेषां बिज्ञेयाः सप्त सप्तका इति”।। तेषां नामान्युक्तानि वह्निपुराणे यथा

“एकज्योतिश्च द्विज्योतिस्त्रिज्योतिर्ज्योतिरेव च। एकशक्रो द्विशक्रश्च त्रिशक्रश्च महाबलः।। इन्द्रश्च गत्यदृश्यश्च ततः पतिसकृत्परः। मितश्च सम्मितश्चैव सुमितश्च महाबलः।। ऋतजित् सत्यजिच्चैव सुषेणः सेनजित्तथा। अन्तिमित्रोऽनमित्रश्च पुरुमित्रोऽपराजितः।। ऋतश्च ऋतवाहश्च धर्त्ता च धरुणो ध्रुवः। विधारणो नाम तथा देवदेवो महाबलः।। ईदृक्षश्चाप्यदृक्षश्च एते दश मिताशिनः। व्रतिनः प्रसदृक्षश्च सभरश्च महायशाः।। धाता दुर्गोधितिर्भीमस्त्वभियुक्तस्त्वपात् सहः। घुतिर्घपुरनाय्योऽथ वासः कामो जयो विराट्।। इत्येकोनाश्च पञ्चाशन्मरुतः पूर्व्वमम्भवाः इति”।। एवञ्च अनिलस्य ऊनपञ्चाशद्भेदवत्त्वेन सप्तभेदवत्त्वेन च गणदेवतात्वम् अयञ्चानिलाधिष्ठाता दिक्पालभेदः तस्य च गन्धवतीनामिका पुरी मेरोः शृङ्गेवरुणकुवेरपुरयोर्मध्येऽस्ति। तस्य पूर्ब्बादिदिग्भेदेन वहनभेदेन “च शुभाशुभसूचकत्वमुक्तं “पूर्ब्बः पूर्वसमुद्रवीचिशिखरप्रस्फालनाघूर्णितश्चन्द्रार्कांशुसटाभिघातकलितो वायुर्यदाकाशतः। नैकान्तस्थितनीलमेघपटलां शारद्यसंवर्धितां वासन्तोत्कटसस्यमण्डिततलां विद्यात्तदा मेदिनीम्।। यदाग्नेयो वायुर्मलयशिखरास्फालनपटुः प्लवत्यस्मिन्योगे भगवति पतङ्गे प्रवसति। तदा नित्योद्दीप्ता ज्वलनशिखरालिङ्गिततला स्वगात्रोष्मोच्छासैर्वमति वसुधा भस्मनिकरम्।। तालीपत्रलतावितानतरुभिः शास्वामृगान्नर्तयन् योगेऽस्मिन् प्लवति ध्वनन् सुपरुषो वायुर्यदा दाक्षिणः। सर्वोद्योगसमुन्नताश्च गजवत्तालाङ्कुशैर्घट्टिताः कीनाशा इव मन्दवारिकणिकान्मुञ्चन्ति मेघास्तदा।। सूक्ष्मैलालवलीलवङ्गनिचयान् व्याघूर्णयत् सागरे भानोरस्तमये प्लवत्यविरतो वायुर्यदा नैरृतः। क्षुत्तुष्णाभृतमानुषास्थिशकलप्रस्तारभारच्छदा मत्ता प्रेतवधूरिवोग्रचपला भूमिस्तदा लक्ष्यते।। यदा रेणूत्पातैः प्रविकटसटाटोपचपलः प्रवातः पश्चार्धे दिनकरकरापातसमये। तदा सस्योपेता प्रवरनृवराबद्धसमरा धरा स्थाने स्थानेष्वविरतवसामांसरुधिरा।। आषाढीपर्वकाले यदि किरणपतेरस्तकालोपपत्तौ वायव्यो वृद्धवेगः प्लवति घनरिपुः पन्नगादानुकारी। जानींयाद्वारिधाराप्रमुदितमुदितां मुक्तमण्डूककण्ठां सस्योद्भासैकचिह्नां सुखबहुलतया भाग्यसेनामिवोर्वीम्। मेरुग्रस्तमरीचिमण्डलतले ग्रीष्मावसाने रवौ वात्यामीदिकदम्बगन्धसुरभिर्वायुर्यदा चोत्तरः। विद्युद्भ्रान्तिसमस्तकान्तिकलनामत्तास्तदा तोयदा उन्मत्ता इव नष्टचन्द्रकिरणां गां पूरयन्त्यम्बुभिः।। ऐशानो यदि शीतलोऽमरगणैः संसेव्यमानो भवेत् पुन्नागागुरुपारिजातसुरभिर्वायुः प्रचण्डध्वनिः। आपूर्णोदकयौवना वसुमती सम्पन्नसस्याकुला धर्म्मिष्ठाः प्रणतारयो नृपतयो रक्षन्ति वर्णांस्तदा” इति वृहत्संहितायाम्।। अथ वेद्यकोक्ता दिग्भववायुगुणाः। “प्राग्वातो मधुरः क्षारो वह्निमान्द्यकरो गुरुः। वेरस्य गौरवौष्णानि करोत्यप्स्वोषधीषु च।। भग्नोत्पिष्टक्षताद्येषु रागश्वयथुदाहकृत्। सन्नि- पातज्वरश्वासत्वग्दोषार्शोविषक्रमीन्।। कोपयेदामवातञ्च घनसंघातकारणम्,।। दाक्षिणो मारुतोबल्यश्चक्षुष्यः शस्यघातकः। मधुरश्चाम्लदाही च कषायानुरसो लघुः।। रक्तपित्तप्रशमनी न च मारुतकोपनः। गण्डूपदादिकीटानां जनकः प्राणकारकः,।। पाश्चिमोऽग्निवपुर्वर्णबलारोग्यविवर्द्धनः। कषायः शोषणः स्वर्य्यो रोचनो विशदो लघुः।। अपां लघुत्ववैशद्यशैत्यवैमल्यकारकः। सर्व्वद्रव्येष्वभिव्यक्तप्रभावरसवीर्य्यकृत्।। व्रणसंरोपणस्त्वच्यो दाहशोथतृषापहः,।। औत्तरो मारुतः स्निग्धो मृदुर्मधुर एव च। कषायानुरसः शीतः सर्वदोषप्रकोप(णः)नः।। क्षीणक्षत विषार्त्तानां हितोदाहतृषापहः। शीताधिकः सनीहारः स विद्युत्स्तनयित्नुमान्,।। विष्वग्वायुरनायुष्यः प्राणिनां नैकदोषकृत्। सर्वर्त्तुनिन्दको हन्ता कृत्योत्पातपुरःसरः” इति।। तालादिव्यजनवायुगुणाः। मूर्च्छादाहतृषास्वेदश्रमघ्नो व्यजनानिलः। तालवृन्तमयो वातस्त्रिदोषशमनो लघुः। वंशव्यजनजो वातो रूक्षोष्णो वातपित्तदः। बालव्यजनमौजस्यं मक्षिकादीन् व्यपोहति।। मायूरा वस्त्रजा वैत्रा वाता दोषत्रयापहा” इति।

सूक्ष्मस्तु वायुः शरीरस्थः प्राणादिभेदेन दशविधः दशविधकार्य्य करणात्। यथोक्तम् वैद्यके “प्राणोऽपानः समानश्चोदानव्यानौ च वायवः। नागः कूर्म्मश्च कृकरो देवदत्तो धनञ्जयः।। प्राणस्तु प्रथमो वायुर्नराणामधिपः प्रभुः। नित्यमावापयेत् सर्व्वान् प्राणिनामुरसि स्थितः।। निःश्वासोच्छ्वासकश्चैव प्राणो जीवं समाश्रितः। प्रसाराकुञ्चनो वायुः प्रकाशो धारणस्तथा।। प्राणस्त्वेवंविधं कुर्य्यात् प्राणिनां प्राणधारकः। प्राणनं कुरुते यस्मात् तस्मात् प्राणः प्रकीर्त्तितः। प्राणो हि भगवान् ईशः प्राणो विष्णुः पितामहः। प्राणेन धार्य्यते लोकः सर्वं प्राणमयं जगत्।। इन्द्रियाणि प्रवर्त्तन्ते यावत् प्राणानिलो हृदि। नष्टे न दृश्यते सर्वं तस्मात् प्राणन्तु रक्षयेत्,।। रज्जुबद्धो वथा श्येनो गतोऽप्याकृष्यते पुनः। गुणवद्धस्तथा जीवः प्राणापानेन कृष्यते,।। अपानयंस्तथाहारं मनुजानां यतोऽधमः। शुक्रमूत्रव्रजे वायुरपानस्तेन कीर्त्तितः,।। पीतं भक्षितमाघ्रात रक्तं पित्तकफानिलान्। समं नयति गात्रेषु समानो नाम मारुतः।। समानोऽग्निसमीपस्थः कोष्ठे च वाति सर्वतः। अन्नं गृह्णाति पचति विरेचयति मुञ्चति।। स्पन्दयत्यधरं वक्त्रं नेत्रगात्रप्रकोप(नः)णः,। उद्वेजयति मर्म्माणि उदानो नाम मारुतः।। व्यानोविनामयत्यङ्गं व्यानो व्याधिप्रकोप(नः)णः। प्रीतेर्विनाशकश्चायं वार्द्धकोत्पादकस्त्रिधा इति।।

प्राणादीनां स्थानानि। “शिरसो नासिकाग्रान्तमुदानस्थानमुच्यते। नाभेः पादतलं यावदपानस्य प्रकीर्त्तितम्।। शरीरव्यापको व्यानः प्राणः सकलनायकः। उद्गारे नाग इत्युक्तः कूर्म्मश्चोन्मीलने स्थितः।। कृकरः क्षुधिते चैव देवदत्तो विजृम्भिते। धनञ्जयस्थितो मेढ्रे मृतस्यापि न मञ्चति।। भूतावाप्तिस्ततस्तस्याजायतेन्द्रियगोचरात्।। उत्साहोच्छ्वासनिःश्वासचेष्टा धातुगतिः समा। समो मोक्षे गतिमतां वायोः कर्म्माविकारजम्” इति सुखबोधः।। प्राणादयश्च पञ्चसूक्ष्मभूतरजोगुणेभ्यः समस्तेभ्य उत्पद्यन्ते इति वेदान्तिमतम् सकलेन्द्रियाणां व्यापार एव प्राणो न पदार्थान्तरमिति सांख्यमतं विवरणं प्राणशब्दे दृश्यम्।

उदानादीनां कर्म्मविशेषा उक्ता यथा “उदानो नाम य~स्तूर्द्ध्वमुपैति पवनोत्तमः। तेन भाषितगीतादिप्रवृत्तिकुपितस्तु सः।। ऊर्द्ध्वजत्रुगतान् रीगान् विदधाति विशेषतः।। यो वायुः प्राणनामासौ सुखं गच्छति देहघृक्।। सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते। प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान्।। आमपक्काशयचरः समानो वह्निसंगतः। सोऽन्नं पचति तज्जांश्च विशेषान् विविनक्ति हि।। स दुष्टो वह्निमान्द्यातिसारगुल्मान् करोति हि। पक्वाशयालयोऽपानः काले कर्षति चाप्ययम्।। समीरणः शकृन्मूत्रशुक्रगर्भार्त्तवान्यधः। क्रुद्धस्तु कुरुते रोगान् घोरान् वस्तिगुदाश्रयान्।। शुक्रदोषप्रमेहांश्च व्यानापानप्रकोपजान्। कृत्स्नदेहचरो व्यानो रससंव्यूहनो यतः।। स्वेदासृक्स्रावणञ्चापि पञ्चधा चेष्टयत्यपि। गत्यपक्षेपणोत्क्षेपनिमेषोन्मेषणादिकाः।। प्रायः सर्व्वाः क्रियास्तस्मिन् प्रतिबद्धाः शरीरिणाम्। प्रस्यन्दनं चोद्वहनं पूरणञ्च विरेचनम्।। धारणञ्चेति पञ्चैताश्चेष्टाः प्रोक्ता नभस्वतः। क्रुद्धः स कुरुते रोगान् प्रायशः सर्वदेहगान्।। युगपत् कुपिता एते देहं भिन्द्युरसंशयम् इति च वैद्यके उक्तम्।

तत्र देहस्थस्य वायोर्विकारहेतुलक्षणादिकमुक्तं वैद्यके “व्यायामादपतर्पणात् प्रपतनाद्भङ्गात् क्षयाज्जागरात् वेगानाञ्च विधारणादतिशुचः शैत्यादतित्रासतः। रूक्षक्षा रकषायतिक्तककुकैरोभिः प्रकोपं व्रजेत् वायुर्वारिधरागमे परिणते चान्नेऽपराह्णेऽपि च”।। विकृतवायुलक्षणम्। “आध्मानस्तम्भरौक्ष्यस्फुटनविमथनक्षोभकम्पप्रतोदाः कण्ठध्वंसावसादौ श्रमकविलपनं श्रंसशूलप्रभेदाः। पारुष्यं कर्णनादो विषमपरिणतिभ्रंसदृष्टिप्रमोहा विस्पन्दोद्घट्टनादिग्लपनमनशनं ताडनं पीडनञ्च।। नामोन्नामौ विषादो भ्रमपरिषदनं जृम्भणं रोमहर्षो विक्षेपाक्षेपशोषग्रहणशुषिरता छेदनं वेष्टनञ्च। वर्णः श्यावोऽरुणो वा तृडपि च महती स्वापविश्लेषसङ्गा विद्यात् कर्म्माण्यमूनि प्रकुपितपवने स्यात् कषायो रसश्च”।। किञ्च “वदनविरसता स्याद्वर्चसः कर्कशत्वं भवति वपुषि कार्श्यं रात्रिनिद्रानिवृत्तिः। त्वचि च परुषता स्यात् स्याच्च वैषम्यमग्नेरिति पवनविकारे लक्षणं प्रोक्तमेतत्”।। तत्प्रशमनकारणम् यथा। “रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः। विपरीतगुणैर्द्रव्यैर्मारुतः संप्रशाम्यति”।। “स्निग्धोष्णस्थिरवृष्यबल्यलवणस्वाद्वम्लतैलातपस्नानाभ्यञ्जनवस्तिमांसमदिरासंवाहनोन्मर्द्दनैः। स्निग्धस्वेदनिरूहणोपशमनः स्नेहोपनाहादिकं पानाहारविहारभेषजमिदं वातं प्रशान्तं नयेत्”।। ऋतुभेदेन विहारादिना च तस्य प्रकोपप्रचयप्रशमाद्युक्तं यथा “ग्रीष्मे सञ्चीयते वायुः प्रावृट्काले प्रकुप्यति। प्रायेणोपशमं याति स्वयमेव सभीरणः।। शरत्काले वसन्ते च पित्तं प्रावृडृतौ कफः। चयकोपशमान्दोषान् विहाराहार सेवनैः।। समानैर्यान्त्यकालेऽपि विपरीतैर्विपर्य्ययः” इति।। नरपतिजयचर्य्योक्तमनिलचक्रन्तु चक्रशब्दे वक्ष्यते। अनाहतचक्रस्थवायुमण्डंलविवरणं तन्त्रोक्तं षट्चक्रशब्दे दृश्यम्। तद्देवताके स्वातिनक्षत्रे, अष्टवसुमध्ये पञ्चमे वसौ च। “यरोध्रुवः सोमनामा तथापोऽप्यनिलो नलः। प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिता” इति विष्णुधर्म्मो० पुरा०। विष्णौ, तस्य प्राणात्मना सर्वदेहधारणात् तथात्वम् “अहः संवर्त्तको वह्निरनिलो धरणीधर” इति विष्णु० स०। शरीरस्थे धातुभेदे च। तस्य विवरणमुक्तप्रायम्। “पित्तं पङ्गुः कफः पङ्गुः पङ्गवो मलधातवः। वायुना यत्र नीयन्ते तत्र वर्षन्ति मेघवत्।। वायुरायुर्बलं वायुर्वायुर्धाता शरीरिणाम्। वायुर्विश्वमिदं सर्वं प्रभुर्व्वायुः प्रकीर्त्तितः।। वाह्यमण्डलचक्रेषु यथा राजा प्रशस्यते। तथा शरीरमध्येऽपि वायुरेकः परो विभुरिति” वैद्यकम्।। दोषधातुमलादीनां नेता शीघ्रः समीरणः।। रजोगुणभयः सूक्ष्मो रूक्षशीतो लघुश्चलः।। उत्साहोच्छासनिःश्वासचेष्टावेगप्रवर्त्तनैः। सम्यग्गत्या च धातूनामिन्द्रियाणाञ्च पाटवैः।। अनुगृह्णात्यविकृतो हृदयेन्दियचित्तधृक्। स्वरो मृदुर्योगवाही संयोगादुभयार्थकृत्। दाहहृत्तेजसा युक्तः शीतकृत् सोमसंश्रयात्।। विभागकरणाद्वायुः प्रधानं दोषसंग्रहैः। पक्काशयकटीसक्थिश्रोत्रास्थिस्पर्शनेन्द्रियम्।। स्थानं वातस्य तत्रापि पक्वाधानं विशेषतः” इति।

अनिलघ्नक = पु० अनिलं वातरोगं हन्ति हन् + क ततः संज्ञायां कन्। (वयडा) इति ख्याते वृक्षे तत्फलस्य हि वातनाशकत्वम्।

अनिलसख = पु० अनिलस्य वायोः सखा टच्। वह्नौ। अनिल बग्ध्वादयोऽप्यत्र “मघा विशाखानिलबग्ध्विति” ज्योति०।

अनिलान्तक = पु० अनिलो वातरोगस्तस्यान्तकः अन्तं करोतीति अन्त + णिच्–ण्वुल्। (जीयापुति) इति ख्याते वृक्षे।

अनिलामय = पु० अनिलकृत आमयः शाक० त०। वातरोगे।

अनिवर्त्तिन् = त्रि० न निवर्त्तते नि–वृत–णिनि न० त०। कार्य्यान्तमगत्वा अनिवृत्ते। संग्रामेष्वनिवर्त्तिनामिति” रामा० न निवर्त्तते कुतश्चेत् अलुप्तशक्तिकत्वात् ईश्वरे, विष्णौ च पु० संग्रामादनिवर्त्तित्वात्तथात्वम् “अनिवर्त्ती निवृत्तात्मेति” विष्णुसहस्रनाम।

अनिविशमान = त्रि० न निविशमानः। निवेशनरूपस्थितिशून्ये सर्वदा गन्तरि, “पुनाना यत् मन्त्रानिविशमाना” इति ऋ० ७, ४९, १, अनिविशमानाः सर्वदा गच्छन्त्य इति भाष्यम्।अनिश = त्रि० निशा तद्धेतुकत्वेनोपचारात् चेष्टाविनाशः सा नास्ति यस्य ब०। अविरते, निरन्तरे, सदाभये वस्तुनि, रात्रिवर्ज्जिते च। “तदुभयोरनिशं हि विरोधिता कथमहो समता मम तापने” इत्युद्भटः।

अनिशम् = न निशेतेऽत्र नि + शी–बा० डमु न० त०। सातत्ये स्वरादेराकृतिगणत्वेन तस्य तत्र पाठ इति प्रौ० म०।

अनिश्शस्त = त्रि० निर् + शन्सु–क्त न० त०। अनिन्दिते “न वोऽतीतृषामानिःशस्ता” इति ऋ० ४, ३४, ११, “अनिशस्ता अनिन्दिता” इति भा०।

अनिष्ट = त्रि० इष–क्त विरोधे न० त०। इष्टस्य सुस्वादेर्विरोधिनि प्रतिकूलवेदनीये दुःखे, तत्साधने–पापे, विषादौ, अपकारे० च। “इष्टनाशादनिष्टाप्तेः करुणाख्यो रसोभवेदिति सा० द०। “ध्यायत्यनिष्टं तत्सर्व्वं पाणिग्राहस्य चेतसेति” “एवं यद्यप्यनिष्टेषु वर्त्तन्ते” इति अनिष्टं वा प्यानिष्टेषु तं धर्म्मं न विचालयेदिति” मन- सानिष्टचिन्तनमिति” च मनुः। नागबलायां स्त्री। यज–क्त न० त०। अकृतयागे देवादौ।

अनिष्टिन् = त्रि० न इष्टमनेन यज–भावे क्त ततः इनि न० त०। कृतयागभिन्ने। “अनिष्टिनोवाजपेयेन” इति कात्या० १५१, २।

अनिष्पत्र = न० निःसृतं पत्रं पक्षोऽत्र तादृशं न भवति। अनिसृतपक्षकशरेण वेधनादौ। “विशाख्यां वा स्तीर्णमुच्छ्रितं वा विध्यन्त्यनिष्पत्रमिति” कात्या० १३, ३, १२, “अनिष्पत्रमित्यनिःसृतपत्रकं विध्यन्ति क्षत्रिया” इति तद्व्याख्या।

अनीक = पु० न० अनित्यनेन अन–ईकन् अर्द्धर्चादि। सैत्ये, तस्य हि जीवनरक्षकत्वम्। न नीयते अपसार्य्यतेऽस्मात्। नी–क्विप् ब० कप् ह्रस्वाभावः। युद्धे, ततोहि प्रायोमरणान्नपुनरावृत्तिः। “रथेषुवोऽनीकेष्वधिश्रिय” इति ऋ० ८, २०, १२ अनीकेषु सेनामुखेष्विति भा०। “दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्य्योधनस्तदेति” गीता मुखे, तस्य प्राणवायुनिःसारणद्वारत्वात् तथात्वम् “अग्नेरनीकमपआविवेशापामिति” यजु० ८, २४, “अनीकं मुखमिति” वेददीपः।

अनीकस्थ = त्रि० अनीके युद्धे तिष्ठति स्था–क। युद्धगते सैन्ये।

अनीकिनी = स्त्री अनीकानां संघः अनीकं युद्धं प्रयोजनतया अस्त्यस्याः वा अनीक + इनि। सेनासंघे हस्त्यादिसंख्याविशेषवत्यां सेनायाञ्च तत्संख्या चोक्ता भारते “एको रथो गजश्चैको नराः पञ्च पदातयः। त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते।। पत्तिन्तु त्रिगुणामेतामाहुः सेनामुखं बुधाः। त्रीणि सेनामुस्वान्येको गुल्म इत्यभिधीयते।। त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः। स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः।। चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनीति”। ततश्च हस्तिनः २१८७। रथाः २१८७। अश्वाः ६५६१। पदातयः १०९३५ समुदिताः २१८७०।

अनीश = पु० नास्ति ईशो नियन्ता यस्य ब०। सर्वनियन्तरि विष्णौ, स्वामिशून्ये त्रि०। न० त०। ईश्वरभिन्ने “भजेरन् मातृकं रिकथमनीशास्ते हि जीवतोरिति” मनुः। अस्वतन्त्रे, “एकोह्यनीशः सर्वत्रेति” व्यास स्मृतिः। ईश–भावे अङ् न० त०। दीनभावे स्त्री “निमृगोऽनीशया शोचतीति” मु० उ०। दोनभावोऽनीशेति भा०।

अनीश्वर = न० न ईश्वरः नियन्ता यत्र। नियन्तृशून्ये सवंख्यादिमते जगति “जगदाहुरनीश्वरमिति” गीता ईश्वरस्य न भवति असम० स०। ईश्वरसम्बन्धिभिन्ने “ध्यानेनानीश्वरान् गुणानिति” मनुः। नियन्तृशून्ये, स्वामिशून्ये च।

अनीह = त्रि० ईह–भावे अङ् न० ब०। स्पृहाशून्ये, निश्चेष्टे च।

अनु = अव्य० अन–उ। “अनु वेदाध्ययनानुष्ठानसामीप्यपश्चाद्भावानुबन्धसाम्याभिमुखविसर्गलक्षणेष्विति” गणरत्नोक्तेषु अर्थेषु तत्र वेदे अनुवाक इति। अध्ययने अन्वधीते, अनुष्ठाने, अनुतिष्ठति, सामीप्ये अनुमेघं वर्षति, पश्चाद्भावे तदनु, अनुबन्धने, अनुशेते अनुशयः, साम्ये, अनुकरोति, आभिमुख्ये अनुमातरं वत्सोधावति, हीने अनु हरिं सुराः विसर्गे (प्रवृत्त्यप्रतिबन्धे) अनुजानीते, लक्षणे, अनु वनमशनिर्गतः”। “अनुर्लक्षणे” इति “तृतीयार्थे” इति (सहार्थे) “हीने” इति, लक्षणेत्थम्भूताख्यानभाग वीप्सासु प्रतिपर्य्यनव इति, च (पा०) उक्तेषु अर्थेषु, तत्र लक्षणे, जपमनुप्रावर्षत्। “हेतुभूतजपोपलक्षितम् वर्षणम्” सि० कौ० सहार्थे, नदीमनु अवसिता सेना, “नद्या सह संबड्वा सेना” सि० कौ० हीने, हरिमनु सुराः हरेर्हीना इत्यर्थः, लक्षणे वृक्षमनु विद्योतते विद्युत्, तत्र च वृक्षप्रकाशेन विद्युद्विद्योतदेशज्ञापनात् वृक्षो लक्षणमिति प्रौ० मनो०। (इत्थम्भूतः) कञ्चित् प्रकारं प्राप्तः आख्यायते अनेन, इत्थम्भूताख्यानं प्रकारविशेषनिरूपकं तस्मिन्नर्थे, यथा भक्तोहरिमनु, हरेरित्थम्भूतः, भक्तिविशेषयुक्त इत्यर्थः। भागे भागोऽस्यास्ति अर्शआद्यच् भागस्वामिनि, हरिमनु लक्ष्मीः, हरिस्वामिकभागवतीत्यर्थः। वीप्सायां विषयभूतायां, वृक्षं वृक्षमनु सिञ्चति, यावद्वृक्षव्यापकः सेकः। इयांस्तु भेदः अन्यत्रानुशब्दः तत्तदर्थस्य द्योतकः अत्र तु द्विवचनेनैव व्याप्तिबोधनात् अनोस्तद्विषयत्वमात्रम्। पाणिन्युक्तेष्वेष्वेवार्थेष्वस्य कर्म्मप्रवचनीयसंज्ञा तेन तद्योगे द्वितीया एवं कर्म्मप्रवचनीयसंज्ञया गत्युपसर्गसंज्ञयोर्बाधनात् न षत्वादि न वा अनुव्यचलदित्यादौ गतिर्गतावित्यादिना निघातः। “अनुर्यत् समया इति” “यस्य चायाम इति च” (पा०) उक्ते सामीप्ये, अनुवनमशनिर्गत इति वनसमीपं गत इत्यर्थः आयामे, अनुगङ्गं वाराणसी, गङ्गादैर्घ्यसदृशदैर्घ्योपलक्षिता वाराणसीत्यर्थः नित्यसमासः योग्यत्वे च। अनुरूपम्। “रूपादियोग्यमिति” सि० कौ०, अनुक्रमम्। क्रमानतिक्रमे अत्रापि नित्यसमासः एतेषामुदारहरणानि शास्त्रान्तरेषु दृश्यानि दिग्मात्रमुदाह्रियते। तत्र पश्चादर्थे “तदनु ननु कयासौ ब्रूहि यातोऽध्ववृड्येति” लीला०। “तदनु ज्वलनं मदर्पितमिति” कुमा० असौ “कुमारस्तमजोऽनु- जात” इति रघुः। “रत्या च साशङ्कमनुप्रयात” इति कुमा० अनुष्ठाने, “शैलाधिपत्यं स्वयमन्वतिष्ठदिति” कुमा० सादृश्ये, “अनुगर्जितसन्दिग्धा” इति कुमा०। अनुगर्जितं गर्जनसदृशं प्रतिरूपगर्जितमित्यर्थः। अनुगताद्यर्थे नित्यसमासः। तथैव सोऽभूदन्वर्थो “राजा प्रकृतिरञ्चनादिति” रघुः। तत्र अन्वर्थः अनुगतोऽर्थो यस्येति प्रा० ब० वा अनित्यसमास उत्तरपदलोपो वा इति तत्र अनुगतार्थोपीति भेदः। एवमेव अनूप इत्यादावपि। उपासने च “अन्वासितमरुन्धत्येति” रघुः “पश्चादुपवेशनपूर्ब्बकसेवायां धातोर्लक्षणायामुनुर्द्योतकः। एवम् एतद्योगे वसतेः आधारस्य कर्म्मता अनुवसति ग्रामं देवदत्तः “मथुरामनूष्येति” मु० बो० क्रियासमभिव्याहृतस्यानुशब्दस्य तत्तत्क्रियासदृशतत्तत्क्रियायां लक्षणाद्योतकत्वं तत्र आद्यक्रियाश्रयस्य कर्मत्वम् यथा मातरमनुरोदितीत्यादौ मातूरोदनसदृशरोदनस्य बोधनेन प्रथमरोदनाश्रयस्य मातुः कर्मत्वमेवमन्यत्र। कर्मणि तिङाद्युक्ते तु प्रथमा।

अनुक = त्रि० अनुकामयते अनु + कामतर्य्यर्थे कन्। कामुके “अनुकाभिकाभीकाः कमयितेति” पा० “वाचमनुकामात्मनोऽकुरुतेति” कौ० ब्रा०।

अनुकम् = अव्य० अनुकामयते अनु–कम–क्विप्। वितर्के। चादेरादिकृतिगणत्वात् अस्य चादिगणे पाठः इति प्रौ० मनो०।

अनुकम्पक = त्रि० अनुकम्पते दयते अनु–कम्प–ण्वुल्। दयाकारके। “सर्व्वभूतानुकम्पक” इति मनुः।

अनुकम्पन = त्रि० अनु + कम्प–युच्। दयाशीले। “सर्वभूतानुकम्पन” इति रामा०। भावे ल्युट्। दयायां न०।

अनुकम्पा = स्त्री अनु + कम्प–अङ्। दयायाम्, दयया हि दुःखहेतुकान्यकम्पं दृष्ट्वा तत्सदृशकम्पकरणात् दयायास्तथात्वम् अतएवानुकम्पधातोरनुरोदनवत् सकर्म्मकत्वम्। दया च परदुःखप्रहरणेच्छा अनुपूर्ब्बककम्पतेस्तदर्थपरत्वमित्येके धात्वर्थगृहीतकर्म्मकत्वेन तत्राकर्म्मकत्वमिति भेदः। “तेषामेवानुकम्पार्थं प्रदेयं प्रीतिपूर्व्वकमिति” स्मृतिः। “भूतानुकम्पा तव चेदियं गौरिति” रघुः। किञ्चिच्चलने च।

अनुकम्प्य = त्रि० अनुकम्पमर्हति अनुकम्प + यत्। तरस्विनि वेगवति। अनुकम्प्यते अर्हार्थे यत्। दयार्हे त्रि०। “दुहितरमनुकम्प्यामद्रिरादाय दोर्भ्यामिति” कुमा०।

अनुकरण = न० सावृश्ये अनु + कृ–ल्युट्। सदृशक्रियादिकरणे। तच्च गुणक्रियावयवादिभिः सदृशीकरणम्। अनुक्रियतेऽनेनेति करणे ल्युट्। सदृशीकरणसाधने। यथा पटत्सां- प्रभृतिशब्दाः अव्यक्तशब्दानुकरणानि। “अव्यक्तस्यानु करणस्यात इतौ” इति पा०।

अनुकर्ष(ण) = पु० अनुकृष्यते स्वसंबद्धेन चक्रेण अनु + कृष–घञ्। रथाधःस्थिते चक्रोपरि बद्धे काष्ठे। कर्त्तरि ल्यु। नान्तोऽप्युक्तार्थे। भावे ल्युट्। पूर्ववाक्योपात्तपदादेरुत्तरत्रान्वयार्थमाकर्षणे, आकर्षणमात्रे च न०।

अनुकल्प = पु० कल्प्यते विधीयते इति कृप–णिच्–अच् कल्पो विहितः हीनः कल्पो मुख्यकल्पादधमः प्रा० स०। गौणकल्पे, प्रतिनिधौ। “एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः। अनुकल्पस्त्वयं ज्ञेय” इति। “प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्त्तते” इति च मनुः “समर्थः प्रथमे कल्पे योऽनुकल्पे प्रवर्त्तते” इति स्मृतिः। “भार्य्याः कार्य्याः सजातीयाः सर्वेषां श्रेयस्यःस्युरितिमुख्यः कल्पस्ततोऽनुकल्पस्तु चतस्रोब्राह्मणस्येत्यादि” पैठीनसि स्मृतिः। अनुकल्पश्च मुख्यद्रव्यद्याभावे सुसदृशदव्यान्तरादि प्रतिनिधिरूपम्। यथा “यवाद्यभावे गोधूमाः मध्वाद्यभावे गुडादयः। एवं उपवासासामर्थ्ये नक्तं “हविष्यान्नादि स्मृतिषूक्तं वेदितव्यम्। अनुगतं कल्पं वेदाङ्गभेदम् अत्या० स०। कल्पानुगते ग्रन्थे अनुकल्पप्रतिपादकग्रन्थे च तद्वेत्तरि उक्थादि० ठक्।। आनुकल्पिकः अनुकल्पग्रन्थवेत्तरि त्रि०।

अनुकाम = पु० अनुरूपः कामः प्रा० स०। योग्याभिलाषे। सदृशं कामस्य सादृश्यार्थे काममनतिक्रम्य याथार्थ्ये वा अव्ययी०। कामसादृश्ये यथाकामे च अव्य०। अनुकामं तर्पयेथामिति ऋ० १, १७, ३, “अनुकामं परा दा इति” ऋ० ८, ४८, ८, “अनुकामं यथाकाममिति” भा०। अनुकामयते अनु + काम–अच्। अतिकामुके त्रि०।

अनुकामीन = त्रि० कामस्य अभिलाषस्य सदृशमनुकामं सादृश्येऽव्ययी० ततः गच्छतीत्यर्थे ख। यथेष्टगमनशीले। “अनुकामीनतां त्यजेति” भट्टिः।

अनुकार = पु० अनु–कृ–घञ्। गुणक्रियादिभिः सदृशीकरणे। विवरणमनुकरणशब्दे दृश्यम्

अनुकारिन् = त्रि० अनुकरोति अनु + कृ–णिनि स्त्रियां ङीप्। गुणक्रियादिभिः सदृशीकारके। “अनुकारिणि पूर्ब्बेषां युक्तरूपमिदं तव” इति रामा०।

अनुकार्य्य = अनुक्रियतेऽसौ अनु + कृ–कर्मणि अर्हार्थे बा ण्यत्। अनुकरणीये सदृशीकरणार्हे पश्चात्करणीये च। “यः पश्चात् पूर्ब्बकार्य्याणि कुर्य्यादैश्वर्य्यमोहितः पूर्ब्बं चैवानुकार्य्याणीति” रामा०।

अनुकाल = अव्य० कालस्य योम्यम् याथार्थ्ये अव्ययी०। काल- योग्यत्वे। “भोजनाच्छादनं दद्यादनुकालं विशेषत” इति।

अनुकीर्त्तन = न० अनु + कृत–णिच्–ल्युट् कीर्त्तादेशः। कथने “साङ्गं भवति तत् सर्वं हरेर्नामानुकीर्त्तनादिति” स्मृतिः।

अनुकूल = त्रि० कूलमावरणं स्नेहेनानुबन्ध इति यावत् अनुगतस्तम् अत्या० स०। सहचरे, सहाये, स्वपक्षपातिनि, “नारीणामनुकूलमाचरसि चेज्जानासीति” का० प्र०। “अनुकूलयतीन्द्रोऽपि स्वर्गद्रुमविभूषणैरिति” कुमा० अनुकूलयति अनुकूलं करोतीति नामधातुः। दन्तीवृक्षे स्त्री राजनि०। अलङ्कारशास्त्रप्रसिद्धे “अनुकूल एकरति” रित्युक्ते नायकभेदे “एकस्यामेव नायिकायामासक्तोऽनुकूलनायक” इति तदर्थः यथा “अस्माकं सखि! वाससी न रुचिरे, ग्रैवेयकं नोज्ज्वलं, नो वक्रा गतिरुद्धतं, न हसितं, नैवास्ति कश्चिन्मदः। किन्त्वथेऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो न्यान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम्” इति।। “अनुकूलं प्रातिकूल्यमानुकूल्यानुबन्धि चेत्” इति (सा० द०) इत्युक्तेऽर्थालङ्कारभेदे न०। यथा “कुपितासि यदा तन्वि! निधाय करजक्षतम्। बधान भुजपाशाभ्यां कण्ठमस्य दृढं तदा।।” “सर्वेषामात्मत्वेनानुकूले परमेश्वरे पु० “अनुकूलः शतावर्त्तैति” विष्णुस०। सर्वेषामात्मत्वादनुकूलः न हि स्वस्मिन् प्रतिकूलं स्वयमाचरतीति” भा०।

अनुकृति = स्त्री अनु + कृ–क्तिन्। “अनुकरणे। ओमित्येतदनुकृतिर्हस्म वा” इति श्रुतिः।

अनुकृष्ट = अनु + कृष–कर्म्मणि क्त। कृताकषेणे, अनुवर्त्तिते च।

अनुक्त = त्रि० न उक्तः। अनभिहिते अकथिते उक्तिश्च प्रायेण तिङ्कृत्तद्धितसमासैः “तत्र तिङा हरिः सेव्यते, कृता चैत्रेण गतः, तद्धितेन, शतेन क्रीतः यत्। शत्यः, समासेन, आरूढो वानरोयमिति वाक्ये आरूढवानरो वृक्षः सर्वत्र कर्म्मण उक्तत्वात् प्रातिपादिकार्थे प्रथमा। तैरुक्तभिन्ने तु ग्रामं गच्छति, ग्रामं गत, वेदेऽधीती, इत्यादौ “अनभिहिते” इति द्वितीयाद्येव एवमन्यकारकेऽप्युदाहार्य्यम् “अनुक्तसमुच्चयश्चकार” इति रघु० अनियोजिते च “असावनुक्तोऽपि सहाय एव इति” कुमा०।

अनुक्थ = त्रि० नास्ति उक्थं स्तोत्रं यस्य। स्तोत्रशून्ये “किं यामनिन्द्राः कृणवन्ननुक्था” इति ऋ० ५, २, ३, “अनुक्थाः अस्तुतय” इति भा०।

अनुक्रम = त्रि० अनुगतः क्रमम् अत्या० स०। अनुगतक्रमे क्रमानुल्लङ्घिते, अनुक्रमश्च यस्योत्तरं यस्य पाठः करणं वा उचितं तदनतिक्रमेण तस्यानुष्ठानरूपा परपाटी। “प्रचक्रमे वक्तुमनुक्रमज्ञा” इति रघुः। क्रमश्च स्थानं तत्स्वरूपादि क्रमशब्दे वक्ष्यते। क्रममनतिक्रम्य यथार्थे अव्ययी०। क्रमानतिक्रमे अव्य०।

अनुक्रमणिका = स्त्री अनुक्रम्यते यथोत्तरं परिपाट्या आरभ्यतेऽनया अनु + क्रम–करणे ल्युट् स्त्रीत्वात् ङीप् स्वार्थे कनि ह्रस्वः। अनुक्रमज्ञापके, ग्रन्थाद्यंशभेदे उक्तस्य वक्तव्यस्य वार्थसङ्घस्य ग्रन्थशेषे, क्वचिदादौ वा संग्राहके पुराणादेरंशविशेषे। स्वार्थे काभावेऽनुक्रमणीत्यपि, तत्रैव। तत्र आदो यथा “भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहःपर्ब्बानुक्रमणी पूर्ब्बं द्वितीयः पर्व्वसंग्रह” भार० आदि०। अन्ते यथा “अनुक्रमणिकाध्यायं तथा माहात्म्यमुत्तममिति” काशीख०। एवमन्यत्र दृश्यम्।

अनुक्री = पु० अनुक्रियते अनु–कृ–उणा० बा० ई किच्च। साद्यस्क्रक्रतुभेदे, “षट् साद्यस्क्रा इत्युपक्रम्य “हीनस्यानुक्रीः” इति कात्या० २२, २, १९, उक्तम् “अनुक्रीर्नाम साद्यस्क्रः क्रतुः स हीनस्य भवतीति” तद्व्याख्या।

अनुक्रीश = पु० अनुक्रोशत्यनेन अनु + क्रुश–आह्वाने रोदने च घञ्। दयायाम्। परदुःख प्रहरणेच्छारूपदयया हि परक्रोशं दृष्ट्वा तदनु रोदनं क्रियते इति तस्यास्तथात्वम्। अनुगतः क्रोशं गतिस०। प्राप्तक्रोशाध्वके त्रि०।

अनुक्षण = न० वीप्सायाम् अव्ययी०। प्रतिक्षणे अनवरते, अनुगतं क्षणम् अत्या० स०। अजस्रवृत्तौ त्रि०।

अनुग = त्रि० अनुगच्छति अनु + गम–ड। पश्चाद्गामिनि, “गोत्ररिक्थानुगः पिण्डः व्यपैति ददतः स्वधेति” छिद्रं निवारयेत् सर्वं श्वशूकरमुखानुगमिति” प्रमदाह्युत्पथं नेतुं कामक्रोधवशानुगमिति” च मनुः। सहचरे, आनुलोम्यं गते, सेवके च। “तद्भूतनाथानुग! नार्हसि त्वमिति” रघुः।

अनुगङ्ग = अव्य० गङ्गायाम् विभक्त्यर्थे अव्ययी०। गङ्गायामित्यर्थे। परिमुखा० ञ्य। आनुगङ्ग्यम् अनुगङ्गम्भवे त्रि०।

अनुगत = त्रि० अनु + गम–क्त। पश्चाद्गते, सहगते, आनुलोम्यं गते, सामान्यधर्म्मग्रहणेन संगृहीतेऽखिले विशेषे, अधीने च। “आगच्छद्यत्र काकुत्स्थः स्वर्गाय समुपस्थितः विमानवरकोटीभिर्देवैरनुगतस्तदेति” रामा०।

अनुगति = स्त्री अनु + गम–क्तिन्। अनुगमने, पश्चाद्गतौ, “बलस्य चतुरङ्गस्य नायकानुगतिर्नय” इति “गतानुगतिकन्यायः”।

अनुगम = पु० अनु + गम–घञ् वृद्ध्यभावः। पश्चाद्गमने, “वृहतेर्धातोरर्थानुगमादिति” शा० भा०। सहायीभवने, सामा- न्यधर्म्मेण सर्वेषां विशेषरूपाणां संग्रहे च। “सम्बन्धस्याननुगमो न दोषायेति” दाय० श्रीकृष्णः। आनुलोम्यकरणे, “कलौ त्वनुगमान्विते” इति स्मृतिः।

अनुगमन = न० अनु + गम–भावे ल्युट्। पश्चाद्गमने। “शवानुगमनाशौचं स्नानमात्रेण शुध्यतीति” स्मृतिः भर्त्तृशरीरानुगमनमहं करिष्यामीति शु० त० रघु०।

अनुगव = न० गोःसदृश आयामः “यस्य चायाम” इति समासे नि० अच्। गवायामतुल्यायामयुक्ते शकटादौ।

अनुगवीन = त्रि० गोः पश्चात् पर्य्याप्तं वा गच्छति अनुगु–ख। गोः पश्चाद्गामिनि गोपाले। “अनुग्वलंगामीति” (पा०) उक्तेः पर्य्याप्तगन्तरि च।

अनुगादिन् = त्रि० अनुगदति अनु + गद–णिनि। अनुवादके स्त्रियां ङीप्। अनुगाद्येव स्वार्थे, “अनुगादिनष्ठक् च” पा० ठक् आनुगादिकः तदर्थे।

अनुगामिन् = त्रि० अनुगच्छति अनु + गम–णिनि। पश्चाद्गन्तरि, सहचरे च। स्त्रियां ङीप्। “दृष्ट्वा स्त्रियमिवायान्तीं ब्राह्मणीमनुगामिनीमिति” रामा०।

अनुगुण = त्रि० अनुकूलो गुणो यस्य। अनुकूले, अनुगते, अनु रूपे च। “अद्वैतं सुखदुःखयोरनुगुणं सर्व्वास्ववस्थासु यदिति” उत्तरच०। अनुरूपः गुण उपकरणम्। योग्योपकरणे “रसानुगुणतामेतीति” सा० द०। सदृशगुणयुक्ते त्रि०। “कान्तारतापसाविक्षू वंशकानुगुणौ मताविति” सुश्रुतम्। अनुगतः गुणं तन्त्रीसूत्रं वा गुणानुरक्ते त्रि० तन्त्रीयुक्तवीणायां स्त्री “उत्कण्ठितस्य हृदयानुगुणा वयस्येति” अनुगुणा वीणेति तदर्थः। गुणे विभक्त्यर्थे, गुणमनतिक्रम्य वा अव्ययी०। गुणे इत्यर्थे, गुणानतिक्रमे च। तद्बोधकग्रन्थमधीते वसन्तादि० ठक्। आनुगुणिकस्तदध्येतरि, तद्वेत्तरि च त्रि०।

अनुगुप्त = त्रि० अनु + गुप्–क्त। आच्छादिते। “अनुगुप्ता अप आहृत्येति” गोभिलः “अनुगुप्ता आच्छादिता” इति रघु०।

अनुगृहीत = त्रि० अनुग्रह–क्त। कृतानुग्रहे।

अनुग्र = त्रि० न उग्रः। शान्तस्वभावे असमर्थे, अनुद्धते च। “भगमनुग्रो अधयाति रत्नमिति” ऋ० ७, ३८, ६, “अनुग्रः असमर्थ” इति भा० “अनुग्रासश्च वृत्रहन् ऋ० ८, १, १४, अनुग्रा अनुद्गूर्णा इति (भा०) उक्तेः अनुद्गूर्णेच।

अनुग्रह = पु० अनु + ग्रह–अप्। अभीष्टसम्पादनेच्छारूपे प्रसादे, आनुकूल्ये, अनिष्टनिवारणपूर्ब्बकेष्टसाधनेच्छारूपायामभ्युपन्तो, “विरूपोन्मत्तनिःस्वासानासकुत्सापूर्व्वकं हि यत्। पूरणं दानमानाभ्यामनुग्रह उदाहृत” इत्युक्तलक्षणे दरिद्रादिपोषणे च। “निग्रहानुग्रहे शक्तः प्रभुरित्यभिधीयते” इति तन्त्रम्। “अनुग्रहं संस्मरणप्रवृत्तमिति” कुमा०। “पादार्पणानुग्रहपूतपृष्ठमिति” रघुः। ग्रहो ग्रहणं सूर्य्यादिग्रहो वा अनुगतस्तम् गति स०। ग्रहानुगते सूर्य्यादिग्रहानुगे च त्रि०।

अनुग्राह्य = त्रि० अनु + ग्रह–ण्यत्। अनुग्रहार्हे “यदि तेऽहमनुग्राह्यो यदि स्मरसि मे गुणानिति” “सर्वथानुग्राह्यो देवतानामसंशय” इति च रामा०।

अनुचर = त्रि० अनुचरति अनु + चर–ट स्त्रियां ङीप् अच् वा स्त्रियां टाप्। सहचरे, पश्चाद्गामिनि, दासादौ, “व्रताय तेनानुचरेण धेनोरिति” “अन्येद्युरात्मानुचरस्य भावमिति च” रघुः। अनुगतश्चरं दूतं गतिस०। दूतानुगे त्रि०। सेवके च, “गन्धर्वा गुह्यकायक्षा विबुधानुचराश्च ये” इति मनुः “चत्वारि च शतान्यनुचरणामिति” कौ० ब्रा० “अप्सरसो महेन्द्रानुचरा दशेति “सौमित्रिसीतानुचरस्येति” भट्टिः। “पालागली सानुचर्य्यः शतेन शतेन” इति कात्या० २०, १, १२, एतद्व्याख्यायां बहुशः अनुचरीशब्दप्रयोगस्तत्र द्रष्टव्यः पालागली दासपुत्री।

अनुचारक = त्रि० अनुचरति अनु + चर–ण्वुल्। अनुगन्तरि, सेवके च। तस्य धर्म्यम् अण्। आनुचारिकम् सेवकधर्म्ये कार्य्ये त्रि०।

अनुचित = त्रि० न–उचितः। अपरिचिते, अयुक्ते च।

अनुचिन्तन = न० अनु + चिन्ति–ल्युट्। अनुस्मरणे सततचिन्तायाम् “द्वादशे मृत्युभावे च वैपरीत्यानुचिन्तनमिति ज्योति०।

अनुचिन्ता = स्त्री अनु + चिन्ति–अ। सततचिन्तायाम्।

अनुच्च = त्रि० न उच्चः विरोधे न० त०। उच्च ताविरोधिनिम्नत्ववति। ज्योतिषोक्ते ग्रहाणां नीचस्थाने च। तानि स्थानानि उच्चशब्दे वक्ष्यन्ते।

अनुच्छिष्ट = त्रि० उद् + शिष–क्त न० त०। उच्छिष्टभिन्ने आहार्य्यद्रव्यस्य भुक्तावशिष्टमुच्छिष्टं तद्भिन्ने।

अनुज = त्रि० अनु पश्चात् जायते अनु + जन–ड। पश्चाज्जाते सहोदरे भ्रातरि। तादृश्यां भगिन्यां स्त्री। एकाधिकं हरेज्ज्येष्ठः पुत्रोऽध्यर्द्धं ततोऽनुज इति मनुः। “चचार सानुजः शान्त” इति रघुः “परिवेत्तानुजेऽनूढे” इति मनुः।

अनुजन्मन् = पु० अनु जन्म यस्य। सहोदरे कनिष्टभ्रातरि। “जननाथ! तवानुजन्मनामिति” भारविः।

अनुजात = त्रि० अनु + जन–क्त। पश्चाज्जातमात्रे, “दन्तजातेनुजाते च कृतचूडे च संस्थिते” इति ममुः। अनुजाते दन्तजन्मानन्तरं संस्थित इति” कुल्लू० “भ्रातस्तवानुजाताऽहं भुङ्क्ष्व भक्तमिदं शुभम्” इति स्मृतिः। “असौ कुमारस्तमजोनुजात” इति रघुः। अनन्तरजातत्वात् पुत्त्रस्य तथात्वम्।

अनुजावर = त्रि० अनुजादप्यवरः। अत्यन्तनिकृष्टे। “एतामेवानुजावराय कुर्य्यादिति” ता० ब्रा०। अनु पश्चाज्जायते इत्यनुजः कनीयान् सहि निकृष्टः तस्मादप्यवरो निकृष्ट इति भा० वेदे न स्मैभावः लोके तु अनुजावरस्मै।

अनुजीविन् = त्रि० अनुजीवितुमाश्रयितुं शीलमस्य अनु + जीवणिनि। सेवके, आश्रिते च।

अनुजीव्य = त्रि० अनुजीव्यतेऽसौ अनु + जीव–ण्यत्। आश्रणीये सेव्ये।

अनुज्ञा = स्त्री अनु + ज्ञा–अङ्। स्वयंप्रवृत्तस्यान्यस्य प्रवृत्त्यविघातकरणेन प्रवर्त्तनारूपायामनुमतौ। “गुरोरनुज्ञामधिगम्य मातः”! इति रघुः। “तद्वा एतदनुज्ञाक्षरं यद्धिकिञ्चनानुजानात्योमित्येव तदाहेति” श्रुतिः।

अनुज्ञात = त्रि० अनु + ज्ञा–क्त। कृतानुज्ञे यस्मै करणायानुज्ञा कृता तस्मिन् जने।

अनुज्येष्ठ = त्रि० अनुगतो ज्येष्ठम् प्रा० स०। ज्येष्ठानुगते। ज्येष्ठमनतिक्रग्य याथार्थ्ये अव्ययी०। ज्येष्ठानुरूपे ज्येष्ठानतिक्रमे च अव्य०।

***