अध्यक्ष = त्रि० अधिगतोऽक्षं व्यवहारम् अत्या० स०। नृपस्य छत्रधारणादिव्यवहारेष्वधिकृते। अध्यक्ष्णोति व्याप्नोति अधि + अक्ष–अच्। व्यापके। अधिगतं मूलतया अक्षमिन्द्रियम् अत्या० स०। प्रत्यक्षज्ञाने। अर्श आदित्वात् अचि। तद्विषये त्रि०। “द्रव्याध्यक्षे त्वचोयोगो मनसा ज्ञानकारणमिति” भाषा०। “सेनापतिबलाध्यक्षाविति” मनुः। अधिष्ठातरि सन्निधिमात्रेण नियन्तरि च “मयाध्यक्षेण प्रकृतिः सूयते सचराचरमिति” गीता “यदध्यक्षेण जगता वयमारोपितास्त्वयेति” कुमा० क्षीरिकावृक्षे पु० शब्दार्णवः।

अध्यक्षर = अव्य० अक्षरे–विभ० अव्ययी०। अक्षरमधिकृत्येत्यर्थे।

अध्यग्नि = अव्य० अग्नौ अग्निसमीपे वा विभक्त्यर्थे सामीप्ये-ऽर्थे वा अव्ययी०। अग्नौ अग्निसमीपे वेत्यर्थे। तत्र स्थाने विवाहादौ स्त्रीभ्यो दत्ते धनादौ न०। स्मृतिशास्त्रे चास्मिन्नर्थे पारिभाषास्य कृता यथा “विवाहकाले यत् स्त्रीभ्यो दीयते ह्यग्निसन्निधौ। तदध्यग्नि कृतं सद्भिः स्त्रीधनं परिकीर्त्तितमिति” कात्या०। “अध्यग्न्यध्यावाहानिकंदत्तं च प्रीतिकर्म्मणि भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतमिति” मनुः। “पितृमातृपतिभ्रातृदत्तमध्यग्न्युपागतम्। आधिवेदनिकाद्यञ्च स्त्रीधनं परिकीर्त्तितमिति याज्ञ०। “विवाहकालेऽग्नावधिकृत्य मातुलादिदत्तमिति” मिताक्षरा। अध्यग्निकृतमित्येकं पदं दत्तमध्यग्न्युपागतमित्येकवाक्यत्वात् कृतं दत्तमित्यर्थः इत्येके।

अध्यच् = त्रि० अधि + अन्चु–क्विप्। अधिगन्तरि।

अध्यण्डा = स्त्री अधिकमण्डमिव वीजं यस्याः ६ त०। अधिक वीजवत्याम् (भुंइ आमला) इति ख्यातायाम् भूम्यामलक्याम्।

अध्यधिक्षेप = पु० अधिकोऽधिक्षेपः प्रा० स०। अत्यन्तनिन्दायामतिशयतिरस्कारे च “गुरूणामध्यधिक्षेप” इति।

अध्यधीन = त्रि० आधिक्येन अधीनः। अत्यन्ताधीने गर्भदासे तस्य जन्मावधि दासत्वात् क्रयविक्रयार्हत्वाच्च तथात्वम्।

अध्यय = पु० अधि–इङ्–इक् वा भावे अच्। अध्ययने स्मरणे च।

अध्ययन = न० अधि + इङ–ल्युट्। पठने, गुरुमुखोच्चारणानुसारिणि उच्चारणे च। अध्ययनञ्चाक्षरमात्रपाठ इति वैदिकाः सार्थाक्षरग्रहणमिति मीमांसकाः। “इज्याध्ययनदानानि तपः सत्यं क्षमा दमः। अलोभ इति मार्गोऽयं धर्म्मस्याष्टिविधः स्मृत” इति “अब्राह्मणादध्ययनमापत्काले विधीयते” इति “श्रुताध्ययनसम्पन्न” इति च स्मृतिः अध्ययनं च वेदाध्ययनं तत्र च त्रैवर्णिकानामधिकारः यथोक्तं मनुना। “अध्यापनमध्ययनं यजनं याजनं तथा, दानं प्रतिग्रहञ्चैव व्राह्मणानामकल्पयत्।। प्रजानां रक्षणं दानमिज्याध्ययनमेव च। विषयेष्वप्रसक्तिञ्च क्षत्त्रियस्य समासतः। पशूनां रक्षणं दानमिज्याध्ययनमेव च। बणिक्पथं कुसीदञ्च वैश्यस्य कृषिमेव च” इति मनुः। वेदाध्ययनञ्च ब्रह्मयज्ञत्वेनाभिधीयते तच्च ब्रह्मयज्ञशब्दे वक्ष्यते तच्च सार्थाध्ययनमेव प्रशस्तं यथोक्तं ब्राह्मणसर्वस्वे “कूर्म्मपुराणे। न वेदपाठमात्रेण सन्तोषं कारयेद्गुरुः। पाठमात्रावसनस्तु पङ्के गौरिव सीदति। योऽधीत्य विधिवद्विप्रोवेदार्थं न विचारयेत् स सान्वयः शूद्रसमः पात्रतां न प्रपद्यते”। व्यासः “वेदस्याध्ययनं कार्य्यं धर्म्मशास्त्रस्यचापि यत्। अजानतार्थं तत् सर्वं तुषाणां कण्डनं यथा” तथा “यथा पशुर्भारवाही न तस्य भजते फलम्। द्विजस्तथार्थानभिज्ञो न वेदफलमश्नुते”। तथा “पाठमात्ररतान्नित्यं द्विजातींश्चार्थवर्ज्जितान्। पशूनिव च तान् प्राज्ञोवाङ्मात्रेणापि नार्च्चयेत्। श्रुतहीनमधीतं यन्नेह नामुत्र तद्भवेत्। श्रुतन्तु केवलमपि समुद्धाराय कल्पते”। स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम्। अर्थवित् सकलं भद्रमश्रुते नाकमेति ज्ञानविधूत पाष्म्या। व्यासः। “योऽधीते नार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा। भारवाहीव भृतकः केवलं क्लेशभाग्भवेत्। तस्मादर्थपरिज्ञाने यत्नः कार्य्योविजानता”। व्यासः। “ज्ञानं कर्म्म च संयुक्तं मुक्त्यर्थं कथितं यथा। अधीतं श्रुतसंयुक्तं तथा श्रेष्ठं न केवलम्” व्यासः। “अधीत्य यत्किञ्चिदपि वेदार्थाधिगमे रतः। स्वर्गलोकमवाप्नोति धर्म्मानुष्ठानविद्द्विजः”। मनुः “वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन्। इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते”। व्यासः। “समुच्चितं स्तोकमपि श्रुताधीतं विशिष्यते। चतुर्णामपि वेदाना केवलाध्ययनात् द्विजात्”। वृहद्व्यासः “अनूचानाग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणोवराः। धारिभ्यश्चार्थतत्त्वज्ञास्तेप्योऽप्यध्यात्मचिन्तकाः” इति।। एतच्च स्याध्येयोऽध्येतव्य” इति श्रुतौ मीमांसकैः विस्तरतो व्यवस्थापितम्।

अध्यर्द्ध = त्रि० अधिकमर्द्धं यस्य ब०। स्वार्द्धेन सहिते वस्तुमात्रे। “एकाधिकं हरेज्ज्येष्ठः पुत्रोऽध्यर्द्धं ततोऽनुज” इति मनुः। एकाधिकमंशं द्वावंशाविति यावत् ज्येष्ठपुत्त्रो गृह्णीयात् अधिकर्मद्धं यत्रांशे सार्द्धमंशं इति कुल्लू०। अर्द्धशब्दः रूपकार्द्धेरूढः तेन सार्द्धरूपके च। अध्यर्द्धपूर्ब्बात् क्रीताद्यर्थे “अध्यर्द्धपूर्ब्बद्विगोर्लुगसंज्ञायामिति” पा० अध्यर्द्धपूर्ब्बात् द्विगोश्चार्हीयस्य टञो लुक्। अध्यर्द्धकंसम्। “विंशतिकात्ख” इति षा०। खविधान्न लुक्। अध्यर्द्धविंशतिकीनं “खार्य्याईकन्” पा०। अर्ध्यर्द्धखारीकम् “पणपादमाषशताद्यत्” पा०। अध्यर्द्धपण्यं अध्यर्द्धपाद्यम् अध्यर्द्धमाष्यम् अध्यर्द्धशत्यम् “शाणाद्वेति” पा० यत् ठञ् तस्य लुक्च वेति अध्यर्द्धशाण्यम् अध्यर्द्धशाणम्। इत्यादयः शब्दाः तत्क्रीतार्थे त्रि०। अध्यृध्नोति यत्र अधि + ऋध–आधारे घञ्। वायौ। “कत्येव देवा याज्ञवल्क! इति” याज्ञवल्क्यं प्रति शाकल्यप्रश्ने तत्र याज्ञवल्क्येन “अध्यर्द्ध” इत्युत्तरं (वृ० उ०) दत्तम् तस्य विशेषज्ञानाय “कतमोऽध्यर्द्ध”? इति पुनः शाकल्यप्रश्ने, “योऽयं पवत” इत्युक्तं तत्र पवत इत्यनेन वायुरुकः। “तदाहुर्यदयमेकएष पवते अथ कथमध्यर्द्ध”? इति। वायोरेकत्वेन अध्यर्द्धशब्दार्थस्य सार्द्धत्वस्यासम्भवे पुनराक्षिप्ते “यदस्मिन् इदं सर्वमध्यार्ध्नोत् तेनाध्यर्द्ध” इत्युत्तरम् तेन अधिकवृद्धिहेतुत्वात् वायोरध्यर्द्धत्वात् तथात्वम् अधि + ऋध–लङ् अध्यार्ध्नोत्।

अध्यवसाय = पु० अधि + अव–सो–घञ्। इदमेवमेवेति विषयपरिच्छेदे निश्चये। स चात्मधर्म इति नैयायिकाः बुद्धिधर्म इति सांख्यादयः। “उपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्यां बुद्धेः रजस्तमोऽभिभये सतियः सत्त्वसमुद्रेकः सोऽयमध्यवसाय इति वृत्तिरिति चाख्यायते” इति सांख्यतत्त्वकौमुदीपरिभाषितलक्षणः, “कर्त्तव्यमिति योऽयं निश्चयः चित्सान्निध्यात् प्राप्तचैतन्याया बुद्धेः परिणामः सोऽयमध्यवसाय” इत्युक्तलक्षणो वा निश्चयः। “प्रतिविषयाध्यवसायो दृष्टमिति सां० का०। उत्साहे च। उत्साहश्च कर्म्मसु सुकरत्वेन ज्ञानात् उद्यमभेदः।

अध्यवसायित = त्रि० अध्यवसायो जातोऽस्य तारा० इतच्। जाताध्यवसाये।

अध्यवसायिन् = त्रि० अधि + अव–सो–णिनि। उत्साहान्विते निश्चयवति च।

अध्यवहनन = न० अधि–उपरि अवहननम्। पूर्ब्बावघातेन वितुषीकरणेऽपि पुनरवघाते। तेन च “व्रीहीनवहन्तीति” नियमपालनम्।

अध्यशन = न० अधिकमशनम्। “साजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते” इति सुश्रुतोक्ते अजीर्णेऽपि अघिकाशने। “यथोक्तैः प्रकोपणैर्विरुद्धाध्यशनस्त्रीप्रसङ्गेत्यादि” सुश्रुतम्।

अध्यस्त = त्रि० अधि + अस–कर्म्मणि क्त। कृताध्यासे आरोपिते, अध्यासश्चाग्रे वक्ष्यते तद्विषये मिथ्याभूते पदार्थे। शुक्तौ रजतमध्यस्तम् ब्रह्मणि जगदध्यस्तमित्यादि।

अध्यात्म = अव्य० आत्मानं देहमिन्द्रियादिकं क्षेत्रज्ञं ब्रह्म वाऽधिकृत्य टच् समा०। देहमिन्द्रियादिकम् आत्मानं ब्रह्म वाधिकृत्येत्यर्थे। तत्र देहाधिकारे “अध्यात्ममिति” वृ० उ० अधिदेवताशब्दे दृश्यम्, तत्र प्राणाद्यधिकारेण अन्तर्या-। मित्वमुक्तम्। क्षेत्रज्ञाधिकारे “अध्यात्मयोगाधिगमेनेति”। “अध्यत्मरतिरासीनो निराकाङ्क्षो निरामिष” इति मनुः। “आत्मानं ब्रह्माधिकृत्येति” कुल्लू०। “जरामरणमोक्षाय मामाश्रित्य यतन्ति ये। ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म्म चाखिलमिति” गीता। “ते जनाः परं ब्रह्म कृत्स्नमध्यात्मञ्च विदुः। ये तत् प्राप्तव्यं देहादिव्यति- रिक्तं शुद्धमात्मानञ्च जानन्तीति” श्रीध०। “अक्षरं परमं ब्रह्म स्वभावोऽध्यात्ममुच्यते” इति गीता। “स्वस्यैव ब्रह्मण एवांशतया जीवस्वरूपेण भावोभवनं स एवात्मानं देहमधिकृत्य भोक्तृत्वेन वर्त्तमानोऽध्यात्मशब्देनोच्यते” इति श्रीधरः। तेन देहाधिकारेण भोक्तृतया ब्रह्मणोऽंशस्य जीवभवनेऽस्य पारिभाषिकत्वं सूचितम् “अध्यात्मविद्या विद्यानां वादः प्रवदतामहमिति” गीता सा च विद्या न्याय वैशेषिकमते देहभिन्नत्वेन, सांख्यादिमते प्रकृतिभिन्नत्वेन आत्मनः स्वरूपादिप्रतिपादिका। वेदान्तिमते तु ब्रह्माभिन्नत्वेनेति भेदः। सर्व्वेषां मतेऽप्यात्मतत्त्वज्ञानरूपत्वात्तस्या अध्यात्मविद्यात्वम्। तत्र नैयायिकवैशेषिकमते आत्मा द्विविधः जीवात्मा परमात्मा च। तत्र जीवात्मानमधिकृत्य उदयनाचार्य्येण आत्मतत्त्वविवेकरूपप्रकरणं, परमात्मानमधिकृत्य च कुसुमाञ्जलिनामकमपरं प्रकरणं निरमायि। सांख्ये ईश्वरानभ्युपमेन पुरुषस्य प्रकृत्यादिभ्यो विवेकज्ञानाय षडध्यायीरूपं कपिलमुनिना, तन्मूलकमीश्वरकृष्णेन च सांख्यकारिकाः सप्ततिः निरमायिषत, वाचस्पतिना च ता व्याख्याताः ततएव विस्तरोऽवसेयः। पातञ्जले तु जीवानामीश्वरस्य च भेदस्वीकारेऽपि ईश्वरप्रणिधानेन पुरुषस्य प्रकृत्यादिभ्यो भेदसाक्षात्कार इति भेदः। अधिकं तत्तच्छब्दे वक्ष्यते। “मयि कर्म्माणि सर्व्वाणि संन्यस्याध्यात्मचेतसेति” गीता। “अध्यात्मचेतसा विवेकबुद्ध्या”। अध्यात्मं जातः ठञ्। अनुशतिका० द्विपदवृद्धिः। आध्यात्मिकं दैहिके मानसिके च दुःखादौ त्रि०।

अध्यात्मदृश् = त्रि० अध्यात्मं पश्यति द्दृश–क्विन्। आत्मज्ञे विषयत्यागेनात्ममात्रदर्शके।

अध्यात्मयोग = पु० आत्मानं क्षेत्रज्ञमधिकृत्य योगः। विषयेभ्यः प्रतिसंहृत्य चेतसआत्मनि समवधाने। “अध्यात्म योगाधिगमेनेति”।

अध्यात्मरामायण = न० आत्मानमधिकृत्य कृतं रामस्यायनं यत्र। वाल्मीकिप्रणीते अध्यात्मज्ञानप्रतिपादके प्रसङ्गतो रामचरितज्ञापके स्वनामख्याते ग्रन्थभेदे।

अध्यात्मशास्त्र = न० अध्यात्म प्रतिपादकं शास्त्रम्। आत्मस्वरूपादि प्रतिपादकग्रन्थे।

अध्यापक = पु० अध्यापयति अधि + इङ् णिच्–ण्वुल्। अध्ययनकारयितरि, उपाध्याये च। “भृतकाध्यापकोयस्तु भृतकाध्यापितस्तथेति” मनुः। अस्य अकान्तत्वेऽपि याजकादिगणे पाठात् षष्ठीसमासः तेन वेदाध्यापकः न्याया- ध्यापक इति। अध्यापकश्च द्विविधः आचार्य्य उपाध्यायश्च यथोक्तं विष्णुना “यस्तूपनीय व्रतादेशं कृत्वा वेदमध्यापयेत्तमाचार्य्यं विद्यात्। यस्त्वेनं मूल्येनाध्यापयेदकदेशं वा तमुपाध्यायमिति”।

अध्यापन = न० अधि + इङ्–णिच्–भावे ल्युट्। पाठनायाम्। “याजनाध्यापनं तथेति” मनुः। “अध्यापनञ्च त्रिविधं धर्म्मार्थमृक्थकारणम् शुश्रूषाकारणञ्चेति त्रिविधं परिकीर्त्तितमिति” हारीतसंहितोक्तेस्त्रिविधमध्यापनम् अध्यापनप्रकारादि यथा “नापरीक्षितं याजयेत् नाध्यापयेत् नोपनयेत।। योऽधर्मेणाह यश्चाधर्म्मेण पृच्छति तयोरन्यतरः प्रैति, विद्वेषं वाधिगच्छति।। धर्म्मार्थो यत्र न स्यातां शुश्रूषा वापि तद्विधा। तत्र विद्या न वप्तव्या शुभं वीजमिवोषरे। विद्याह वै ब्राह्मणमाजगाम गोपाय मां शेवधिस्तेऽहमस्मि। असूयकायानृजवेऽयताय न मां ब्रूयावीर्य्यवती तथा स्याम्।। यमेव विद्याः शुचिमप्रमत्तं मेधाविनं ब्रह्मचर्य्योपपन्नम्। यस्ते न द्रुह्येत् कतमांश्च नाह तस्मै मां ब्रूया विधिपाय ब्रह्मन् इति”।। युचि तु स्त्रीत्वात् टापि, अध्यापना तस्मिन्नेवार्थे स्त्री।

अध्यापित = त्रि० अधि–इङ्–णिच् कर्म्मणि क्त। पाठिते “अध्यापितस्योशनासापि नीतिमिति” कुमा०।

अध्याप्य = त्रि० अधि इङ्–णिच्–कर्म्मणि यत्। पाठनीये अध्यापयितुमर्हे छात्रे “ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रिय” इति मनुनाध्यपनीयार्हता दर्शिता।

अध्याय = पु० अधि + इङ्–घञ्। अध्ययने, कर्म्मणि घञ। वेदादिशास्त्रस्य एकार्थकविषयसमाप्तिद्योतके विश्रामस्थाने अंशविशेषे, “सर्गोवर्गः परिच्छेदोद्घाताध्यायाङ्कसंग्रहाः। उच्छासः परिवर्त्तश्व पटलः काण्डमेव च। स्थानं प्रकरणञ्चैव पर्व्वोल्लासाह्निकानि च। पुराणादौ परिच्छेदा अनेके परिकीर्त्तिता” इत्युक्तान्यतमप्रकारे च “संकल्पिते स्तोत्रपाठे संख्यां कृत्वा पठेत् सुधीः अध्याय प्राप्य विरमेन्न तु मध्ये कदाचन। कृते विरामे मध्ये तु अध्यायादिं पुनः पठेदिति” म० सू० “स्वाध्यायोऽध्येतव्य” इति श्रुतिः।

अध्यारूढ = त्रि० अधि + आ + रुह कर्म्मणि कर्त्तरि वा क्त। आक्रान्ते, अध्यारोहणकर्त्तरि उपरिष्टात् अरोहणकर्त्तरि, समारूढे, अधिके च।

अध्यारोप = पु० अधि + आ–रुह–णिच्–पान्तादेशः घञ् अतस्मिन् तद्बुद्धिरारोपः मिथ्याज्ञानम् किञ्चिदधिष्ठानमधिकृत्य तादृशारोपः अध्यारोपः यथा असर्पभूतां रज्जुमधिकृत्य सर्पारोपः तथैव अजगद्रूपे ब्रह्मणि जगद्रूपारोपः। तादृशे मिथ्याज्ञाने। “स एष वीजाङ्कुरादिवदविद्याकृतः संसार आत्मनि क्रियाकारकफलाध्यारोपलक्षणोऽनादिरनन्त” इति वृ० उप० भाष्यम्।

अध्यारोपण = न० अधि + रुह–णिच् पान्तादेशः ल्युट्। अतिशयेनारोपणे धान्यादेर्वपने।

अध्यावाप = पु० अधि + आ + वप–षञ्। अधिवपने सस्यानामावापे। आधारे घञ्। तदाधारक्षेत्रे।

अध्यावाहनिक = न० अध्यावाहनं पितृगृहात् भर्त्तृगृहागमनं तत्काले लब्धम् अधि + आ + वह–ल्युट् ततः लब्धार्थे ठन्। “यत् पुनर्लभते नारी नीयमाना हि पैतृकात्। अध्यावाहनिकं नाम स्त्रीधनं परिकीर्त्तितमिति” स्मृत्युक्तलक्षणे पितृकुलात् भर्तृकुलगमनकाले तेभ्यः प्राप्ते स्त्रीधने। “अध्यग्न्यध्यावाहनिक स्त्रीधनं षद्ध्विधं स्मृतमिति” स्मृतिः।

अध्यास = पु० अधि + अस–क्षेपे घञ्। मिथ्याज्ञाने “आह कोऽयमध्यासो? नामेति प्रश्ने “स्मृतिरूपः परत्र पूर्ब्बदृष्टावभास” इति शा० भाष्यम्। स्मृतेः रूपमिव रूपमस्य संस्कारप्रभवत्वात्। परत्र अन्यस्मिन् स्वभिन्ने स्वाभाववति च पूर्ब्बदृष्टस्य पूर्ब्बानुभूतस्यावभासो ज्ञानम्। यथा शुक्तौ रजतभिन्नायां पूर्ब्बदृष्टस्य रजतस्याभेदज्ञानम्, स्वाभाववति च स्फटिके पूर्ब्बानुभूतस्य लोहितरूपस्य वा ज्ञानम्। तथाभूते मिथ्याभूतज्ञाने। तत्र चाध्यासे अधिष्ठानशुक्त्यादौ इन्द्रियसंप्रयोगे सत्यपि तस्य विशेषरूपेणाज्ञानात् सामान्याकारेण इदन्त्वादिरूपेण ज्ञानं, सादृश्यज्ञानम्, आरोप्यमाणस्य संस्कारश्चेति कारणत्रयं सति च तस्मिन् चाकचक्यादिदोषविशेषात् अधिष्ठानविशेषज्ञानं प्रतिरुध्य, रजतादिसंस्कारे चोद्बोधिते तत्रानिर्वचनीयं रजतादिकं शुक्त्याद्यज्ञानेनोत्पाद्यते तदाकारवृत्तिश्च जन्यते तत्र आविद्यिकरजताद्यनुत्पत्तौ इदं रजतं पश्यामीत्याद्यनुभवानुपपत्तिः नच स्मरणेन तस्योपपत्तिः स्मरणस्य विषयाप्रवर्त्तकत्वात् तदुत्तरं प्रवर्त्तते च तत्तद्ग्रहणाय सर्वः। नापि अलौकिकप्रत्यक्षरूपता साक्षात्करोमीत्यनुभवस्य साक्षात्कारविषयत्वात् अन्यथानुमानादीनामपि अलौकिकप्रत्यक्षत्वापत्तेः तत्पूर्ब्बं नियतं तत्तज्ज्ञानस्यावश्यम्भावेन विशिष्टालौकिकप्रत्यक्षापत्तेर्दुनैवारत्वात् अतः तत्तद्ग्रहणाय प्रवर्त्तकस्य तत्तज्ज्ञानस्य प्रत्यक्षत्वसमर्थनाय अनिर्वचनीयं रजतादिकम् अधिष्ठानाज्ञानेन तत्राधिष्ठाने उत्पद्यते इति कल्प्यं प्रत्यक्षे हि विषयसन्निकर्षः कारणेत्वेन कॢप्तः देशान्तरस्थरजतादिकं तु न इन्द्रियसन्निकृष्टमित्यगत्या तथा कलप्यते। अतएव श्रुतौ “यत्र द्वैतमिव भवति तदितर इतरत् पश्यतीति” “अथ रथान् रथयोगान् पथः सृजते” इति च जागरे द्वैतस्य इवशब्देन मिथ्यात्वं सूचितम्। स्वप्न च रथादेः स्पष्टं सृष्टिरुक्ता। तथाच ब्रह्मणि जगदादेरनिर्वचनीयस्य तदज्ञानेनोत्पत्तिः। इयांस्तु विशेषः रजतादेः स्वप्नरथादेश्च प्रतीतिसमकालत्वं, वियदादेस्तु व्यवहारिकत्वम्। “देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयादित्युक्तेः व्यवहारकाले वियदादिप्रमेयाणां सत्यत्वं, “परमार्थदृष्ट्या तु मिथ्यात्वमिति” “अन्यदार्त्तमित्यादि” श्रुत्या च ब्रह्मभिन्नानां मिथ्यात्वावगमात्। अधिकमाकरे दृश्यम्।

अध्यासन = न० अधि + आस–उपवेशे ल्युट्। निवासे। विभ० अव्ययी०। आसने इत्यर्थे अव्य०।

अध्यासित = त्रि० अधि + आस आधारस्य कर्म्मसंज्ञायां कर्मणि क्त। अधिष्ठिते। “धेन्वा तदध्यासितकातराक्ष्येति” रघुः।

अध्याहार = पु० अध्यारुह्यते ज्ञानायानुसन्धीयते अधि + आ + हृ–घञ्। आकाङ्क्षाविषयपदानुसन्धाने, ऊहे, तर्के, अपूर्ब्बोत्प्रेक्षणे च। ऊहस्वरूपमूहशब्दे तर्कस्वरूपं च तर्कशब्दे वक्ष्यते।

अध्युषित = त्रि० अधि + वस–आधारस्य कर्म्मसंज्ञया कर्म्मणि क्त। अधिष्ठिते स्थानादौ।

अध्युष्ट्र = त्रि० अधिगतमुष्ट्रं वाहनत्वेन अत्या० स०। उष्ट्रवाहनयुक्ते शकटादौ। (उठगाडि)।

अध्यूढ = त्रि० अधि उपरि ऊढः। अवलम्बनत्वेन उपरिभावेण अवलम्बिते। “तस्मादृच्यध्यूढं साम गीयते” इति छा० उप०। ऋचमवलम्ब्यैव साम्नो गीयमानतया ऋच्यध्यूढत्वम्। अधिकवृद्धियुक्ते, समृद्धे च। कृतसापत्निकायां प्रथमायां “यस्या उपरि विवाहान्तरं कृतं” तादृश्यां स्त्रियाम् स्त्री।

अध्यूध्नी = स्त्री अधिकमूधोयस्याः अन्ङ् ङीप् च। समृद्धापीनायां धेन्वाम् “अध्यूध्नीं होत्रे प्रयच्छतीति श्रुतिः ऊबधाध्यूध्नीवनिष्णुषु समुच्चय इति का० १, ८, ८१।

अध्येतव्य = त्रि० अधि–इङ कर्म्मणि क्त। पाठ्ये “स्वाध्यायोऽध्येतव इति” श्रुतिः। अर्हार्थे तव्य। अध्येतुमर्हे “श्रोतव्यमिह शूद्रेण नाध्येतव्यं कदाचनेति” स्मृतिः।

अध्येषण = न० अधि–इष–प्रेरणे ल्युट्। सत्कारपूर्ब्बकमाचार्य्यादेः प्रेरणे, प्रवर्त्तनमात्रे च। युचि टाप् तस्मिन्नेवार्थे स्त्री। अधिका एषणा प्रार्थना। अधिकप्रार्थने स्त्री।

अध्रि = त्रि० न–घृ–कि। अधृते। न + धृष–ड्रि, अधृष्ये।

अध्रिगू = त्रि० अध्रि + गम–कू–डिच्च ऊङादेशो वा। अधृतगमने। “यदध्रिगावोऽध्रिगू इदाचिदह्नो अश्विना” इति ऋ० ८, २२, ११, “अध्रिगावोऽधृतगमना अध्रिगूअधृतगमनाविति” भा०।

अध्रिज = त्रि० अध्रिमधृतमधृष्यं वा जनयति जन–अन्तर्भूतण्यर्थे, ड। अधृतजनके अधृष्यजनके च। “इति चिन्मन्युमध्रिज इति ऋ० ५, ७, १० “अध्रिजः अधृतमन्यैः अग्निव्यतिरिक्तैः अधृष्यं वा जनयिता” इति भा०।

अध्रुव = त्रि० न० त०। अनिश्चिते, चञ्चले, अस्थिरे च। “योध्रुवाणि परित्यज्य अध्रुवाणि निषेवते। ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि” इति हितो०।

अध्रुष = पु० “शोथः स्थूलस्तोददाहप्रकाशी रक्ताज्ज्ञेयः सोऽध्रुषो रुग्ज्वराढ्य इति” सुश्रुतोक्ते विकृतरक्तादिजे ज्वरकारके शोथरोगभेदे।

अध्वग = पु० अध्वत् + गम–ड। पथिके अध्वगमनप्रकारश्च विष्णुसंहितायामुक्तः। यथा “नैकोऽध्वानं प्रपद्येत नाधार्मिकैः सार्द्धम्, न वृषलैः, न द्विषद्भिः, नातिप्रत्यूषम्, नातिसायम्, न सन्ध्ययोः, न मध्याह्ने, न सन्निहितपानीयम्, नातितूर्णम्, न रात्रौ, न सन्तत व्याधितार्त्तैर्वाहनैः, न हीनाङ्गैः, न रोगिभिः, न दीनैः, न गोभिः, नादान्तैः, यवसोदकैर्वाहनानामदत्त्वात्मनः क्षुत्तृष्णापनोदने न कुर्य्यात्। न चतुष्पथमधितिष्ठेत्, न रात्रौ वृक्षमूलम्, न शून्यालयं, न तृणम्, न पशूनां बन्धनागारम्, न केशतुषकपालास्थिभस्माङ्गारान्, न कार्पासास्थि। चतुष्पथं प्रदक्षिणीकुर्य्यात् देवताञ्च। प्रज्ञातांश्च वनस्पतीन्, अग्निब्राह्मणगणिकापूर्णकुम्भादर्शच्छत्रध्वजपताकाश्री वृक्षवर्द्धमाननन्द्यावर्त्तांश्च, तालदन्तचामराग्निगजाजगोदधिक्षीरमधुसिद्धार्थकांश्च, वीणाचन्दनायुधार्द्र गोमयपुष्पशाकगोरीचनादूर्वाप्ररोहांश्च, उष्णीषालङ्कारमणिकनकरजतवस्त्रासनयानामिषांश्च, भृङ्गारोद्धृतोर्वरारज्जुबद्धपशुकुमारीमीनांश्च दृष्ट्वा प्रायादिति। मत्तोन्मत्तव्यङ्गान् दृष्ट्वा निवर्त्तेत वान्तविविक्तमुण्डमलिनवसनजटिलवामनांश्च, कषायिप्रव्रजितमलिनांश्च, तैलगुडशुष्कगोमयेन्धनतृणकुशपलाशभस्माङ्गारांश्च, लबणक्लीवासवनपुंसककार्पासरज्जुनिगडमुक्तकेशांश्च, वीणाचन्दनार्द्रकाशोष्णीषालङ्करणकुमारीः प्रस्थानकालेऽभिवन्दयेदिति। देवब्राह्मणगुरुदीक्षितानां छायां नाक्रामेत्, निष्ठ्यूतवान्तरुधिरविण्मुत्रस्नानोदकानि वा। न वत्सतन्त्रीं र्लङ्घयेत्। प्रवर्षति न धावन्, न वृथा नदीं तरेत्। न देवताभ्यः पितृभ्यश्च कामं प्रदाय, न बाहुभ्याम्, न भिन्नया नावा। न कच्छमधितिष्ठेत्। न कूपमवलोकयेत्, न लङ्घयेत्। वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रिणाम् पन्थादेयो नृपस्तेषां मान्यः स्नातश्च भूपतेरिति”। “सन्तानकतरुच्छायसुप्तविद्याधराध्वगमिति” कुमा०। सूर्य्ये, उष्ट्रे, च। पथिगामुकमात्रे त्रि०। गङ्गायां स्त्री अश्वतरे पु०।

अध्वगत् = त्रि० अध्वानं गच्छति क्विप्। पथिके।

अध्वगभोग्य = पु० अध्वगेन अतिसौलभ्यात् अयत्नलभ्यफलत्वाच्च भोग्यः ३ त०। (आमडा) इति प्रसिद्धे आम्रातकवृक्षे। अनायासेन तत्फलस्य भोग्यत्वात्तस्य तथात्वम्।

अध्वजा = स्त्री अध्वनि जायते जन–ड ७ त०। (सोना) इति ख्याते स्वर्णपुष्पीवृक्षे।

अध्वन् = पु० अत्ति बलम् अद–क्वनिप् धादेशः। पथि, “अपि लङ्घितमध्वानं बुबुधे न बुधोपमः” इति रघुः। अध्वानमध्वान्तविकारलङ्घ्य” इति कु०। “नैकोऽध्वानं गच्छेदिति विष्णु स०। आकाशे पु० निरुक्तकारः। अधिकदुरारोहणे च। सर्वभक्षकत्वात् काले, हिंस्रेच। अद्यते खण्डशो भक्ष्यतेऽनेनेति करणे क्वनिप्। अवयवे। प्रा० स०। उपसर्गपूर्वादच्समा०। व्यध्वःदुरध्वः (कुपथः) प्रा० ब०। कदादेशः कदध्वा। अवयवश्च वेदस्य शाखाऽपि यथा “एवंविशत्यध्वयुक्तमृग्वेदमृषयो विदुः। सहस्राध्वा सामवेदो यजुरेकशताध्वकमिति।

अध्वनीन = त्रि० अध्वानमलं गच्छति अध्वन् + ख। पथिके। पथिगमनक्षमे।

अध्वन्य = त्रि० अध्वानमलं गच्छति अध्वन् + यत्। पथिके। पथि क्षिप्रगभनक्षमे शीघ्रगामिनि। “क्षिप्रं ततोऽध्वन्यतुरङ्गयायीति” भट्टिः।

अध्वपति = त्रि० ७ त०। मार्गपालके। सूर्य्ये पु० दिवैव पथिकानां गमनात् रात्रौ च “न रात्राविति” विष्णुना गमननिषेधात् सूर्य्यस्य तत्पालकत्वम् “अध्वनामध्वपते! प्रसा तिर स्वस्ति मेऽस्मिन् देवयाने पथीति यजु०। “अध्वपते! मार्गपालकरवे” इति वेददीशः।

अध्वर = पु० अध्वानं सत्पथं राति रा + क। यज्ञे। “अध्वरेष्विष्टिनां पातेति” भट्टिः। “तमध्वरे विश्वजिति क्षितीशमिति” रघुः। आकाशे निरुक्तकारः। अष्टवसुमध्ये द्विती- यवसौ च। नध्वरति कुटिला न भवति ध्वृ–अच् न० त०। अकुटिले च। दैव्या होतारा उर्द्धमध्वरं न इति २७, १८ “इमं यज्ञमवतामध्वरं न” इति यजु०। २७, १७ अध्वरं “अकुटिलं शास्त्रोक्तमिति” वेददीपः। सावधाने त्रि० नडा० फक्। आध्वरायणः।

अध्वरकर्म्मन् = न० अध्वरएव कर्म्म। यज्ञरूपकर्मणि।

अध्वरमीमांसा = स्त्री अध्वरस्य यज्ञस्य कर्त्तव्यताज्ञानाय मीमांसा विचारः। जैमिनीयप्रोक्ते “अथातो धर्मजिज्ञासेत्यादि धर्ममीमांसाख्ये शास्त्रे।

अध्वरथ = पु० अध्वैवंरथो यस्य ब०। पथिप्रज्ञे दूते। अध्वने हितः पर्य्याप्तो रथो यस्य ब०। पथिगमनोपयुक्ते रथे। चक्रविशिष्टोरथस्तावत् क्रीडार्थः, देवयानार्थः विनयार्थः पथिगमनार्थः गन्त्रीरथचेति भेदात् पञ्चविधः। इति हेमचन्द्रः।

अध्वर्य्यु = पु० अध्वरमिच्छति अध्वर + क्यच्–युच् ततोऽन्त्याकारलोपः। यजुर्वेदज्ञे होमकारिणि ऋत्विजि। “निर्मिमीते क्रियासङ्घैरध्वर्य्युर्यज्ञियं वपु” रिति सा० भा०। सोमयागे षोडशसु ध्वत्विक्षु चतुर्षु प्रधानेषु मध्ये ऋत्विद्भेदे तद्विवरणम् अच्छावाकशब्दे दृश्यम्। “होता प्रथमं शंसति तमध्वर्युः प्रोत्साहयतीति” सि० कौ०। “त्वमध्वर्य्युरुत होतासि पूर्ब्बाः प्रशास्तापोता जनुषा पुरोहित” इति ऋ० १, ९४, ६। योपधत्वात् स्त्रियां न ङीप्। अध्वर्योर्भावः कर्म उद्गा० अण् आध्वर्य्यवम् तद्भावादौ न०।

अध्वशल्य = पु० अध्वनि शल्यमिवाचरतीति क्विप् + अच्। पथिकानां पादवस्त्रादौ शल्यवद्वेधकारके (आपाङ्) इति ख्याते अपामार्गवृक्षे।

अध्वस्मन् = त्रि० ध्वन्स–मनिन् किच्च न० त०। ध्वंसरहिते “अध्वस्मभिः पथिभिः भ्राजदृष्टय” इति ऋ० २, २४, ५, अध्वस्मभिः ध्वंसरहितैरिति भा० अध्वस्मानोदिविष्विति ऋ० १३०४०।

अध्वाति = पु० अध्वानमतति अत इ ६ त०। पथिके। अद्धा निश्चयमतति अद्धेति दोपदो धान्तः। मेधाविनि निरुक्त०।

अध्वान्तशात्रव = पु० अध्वान्तस्य मार्गसीमायाः शात्रव इव। श्चोनाकवृक्षे। ६ त०। मार्गसीमारिपौ पु०।

अध्वायन = न० अध्वनि अयनं गतिः। यात्रायाम् “अध्यायनञ्च ग्रहचारकर्म्म सौरेण मानेन सदाध्यवस्ये” दिति विष्णुध० पुरा०। “अध्वायनमध्वगमनं यात्रेति यावदिति” रघु०।

अन = जीवने अदा० पर० अक० सेट्। अनिति आनीत्। घञ् आनः, अच्नः, ल्युट् अननम्। आनयति अनिनिषति। क्विप् अत् “सर्वं खल्विदं ब्रह्म तज्जलानिति विश्वे चनेदना ऋ० ४३०, ३, अना प्राणेनेति भा० छा० उप० “यद्येष आकाश आनन्दो न स्यात् कोह्येवान्यात्? कः प्राण्यात्? इति श्रुतिः “प्राणिवस्तव मानार्थमिति” भट्टिः। प्राद्युपसर्गतोविशेषगत्यर्थता। प्र + प्राग्गतौ, प्राणः अप + अधोगतौ अपानः, उद् + उर्द्ध्वगतौ उदानः, वि + आ + विष्वग्गतौ व्यानः, सम् + समन्ताद्गतौ समानः। “यद्वै प्राणिति स प्राणः यदपानिति सोऽपानः” इति श्रुतिः। जीवनं च प्राणधारणं तेन धात्वर्थगृहीतकर्मकत्वादकर्मकः यस्य संयोगात् देहनिर्म्माणमित्युक्तमधिष्ठानशब्दे। उपसर्गनिमित्तात् हलन्तत्वेऽप्यस्य णत्वं प्राण्।

अन = जीवने दिवा० आत्म० अक० सेट्। अन्यते आनिष्ट।

अन = पु० आ + नी–बा० ड पृ० आङी ह्रस्वः अन–बा० अच् वा। आनयने प्राणने च “प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण इति” वृ० उप०। “अथ प्राण उच्यते। प्राणो मुखनासिकसञ्चार्य्याहृदयवृत्तिः। प्रणयनात् प्राणः। अपनयनान्मुत्रपुरीषादेरपानोऽधोवृत्तिः आनाभिस्थानः। व्यानो व्यानयनकर्मा, व्यानः प्राणापानयोः सन्धिर्वीर्य्यवत्कर्म्महेतुश्च। उदान उत्कर्षोर्द्ध्वगमनादिहेतुरापादतलमस्तकस्थान ऊर्द्ध्ववृत्तिः। समानः समं नयनाद्भुक्तस्य पीतस्य च कोष्ठस्थानोऽन्नपक्ता। अन इत्येषां वृत्तिविशेषाणां सामान्यभूता सामान्यदेहचेष्टासग्वन्धिनी वृत्तिरेवं यथोक्तं प्रणादिवृत्तिजातमेतत् सर्वं प्राण एवेति” भा०। प्राणे च “स होवाच किं मेऽन्नं भविष्यतीति” यत्किञ्चिदिदमा श्वभ्य आ शकुनिभ्य इति होचुस्तद्धा एतदनस्यान्नमनो ह वै नाम प्रत्यक्षमिति छा० उ० “स होवाच मुख्यः प्राणः, किं मेऽन्नं भविष्यतीति” मुख्यप्राणं प्रष्टारमिव कल्पयित्वा वागादीन् प्रतिवक्तॄनिव कल्पयन्ती श्रुतिराह। यदिदं लोकेऽन्नजातं सर्वप्रसिद्धमा श्वभ्य आ श्वभिः सह, आ शकुनिभ्यः सह शकुनिभिः सर्वं प्राणिनां यदन्नं तत्तवान्नमिति होचुर्वागादय इति। प्राणस्य सर्वमन्नं प्राणोऽत्ता सर्वस्यान्नस्येत्येवंप्रतिपत्तये कल्पिताख्यायिकारूपाद्व्यावृत्य स्वेन श्रुतिरूपेणाह। तद्वै एतद्यत्किञ्चिल्लोके प्राणिभिरन्नमद्यते अनस्य प्राणस्य तदन्नम् भा०

अनंश = त्रि० नास्ति अंशोदायग्रहणाधिकारोऽस्य। अंशानधिकारिणि स्मृत्युक्ते क्लीवपतितादौ। ते च “सर्व्वे हि धर्म्मयुक्ता भागिनो द्रव्यमर्हन्ति यस्त्वधर्म्मेण द्रव्याणि प्रतिपादयति ज्येष्ठोऽपि तमभागं कुर्वीतेति” आप०। “सवर्णाजोप्यगुणवान्नार्हः स्यात् पैतृके धने। तत्पिण्डदाः श्रोत्रिया ये तेषां तदभिधीयते। उत्तमर्णाधमर्णेभ्यः पितरं त्रायते सुतः। अतस्तद्विपरीतेन नास्ति तेन प्रयोजनम्। तया गवा किं क्रियते या न धेनुर्न गर्भिणी। कोऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्म्मिकः। शास्त्रशौर्य्यार्थरहितस्तपोविज्ञानवर्ज्जितः। आचारहीनः पुत्त्रस्तु मूत्रोच्चारसमस्तु स इति वृह० “श्राद्धादेः पुत्त्रकर्त्तृकतया महाफलश्रुतेस्तत्कर्म्मवेतनं धनसम्बन्धित्वं अतस्तदकुर्व्वतः कुतो वेतन? मिति दा० भा०। अतएवाह मनुः। “सर्वएव विकर्म्मस्था नार्हन्ति भ्रातरो धनम्”। तथा “अनंशौ क्लीवपतिती जात्यन्धबधिरौ तथा। उन्मत्तजडमूकाश्च ये च केचिन्निरिन्द्रियाः इति। “पतितस्तत्सुतः क्लीवः पङ्गरुन्मत्तको जडः। अन्धोऽचिकित्स्यरोगार्त्तो भर्त्तव्यास्ते निरंशका” इति कात्या०। देवलः “मृते पितरि न क्लीवकुष्ठ्युन्मत्तजडान्धकाः। पतितः पतितापत्यं लिङ्गी दायांशभागिनः। तेषां पतितवर्ज्जेभ्यो भक्तवस्त्रं प्रदीयते। तत्सुताः पितृदायांशं लभेरन् दोषवर्ज्जिता” इति। बौधायनः। “अतीतव्यवहारान् ग्रासाच्छादनैर्बिभृयुः, अन्धजडक्लीवव्यसनिव्याधितादींश्चाकर्म्मिणः पतिततज्जातवर्जम् इति”। “पितृद्विट् पतितः पण्डो यश्च स्यादौपपातिकः। औरसा अपि नैतेऽंशं लभेरन् क्षेत्रजाः कुतः?। इति” नार० “अक्रमोढासुतश्चैव सगोत्राद्यस्तु जायते। प्रव्रज्यावसितश्चैव न रिक्थं तेषु चार्हति। अक्रमोढासुतस्त्वृक्थी सवर्णश्च यदा पितुः। असवर्णप्रसूतश्च क्रमोढायाश्च यो भवेत्। प्रतिलोमप्रसूतोयस्तस्याः पुत्त्रो न रिकथभाक्। ग्रासाच्छादनमात्रं तु देयं तद्बन्धुभिर्मतम् बन्धूनामप्यभावे तु पित्र्यं द्रव्यं तदाप्नुयात्। स्वपित्र्यं तद्धनं प्राप्तं दापनीया न बान्धवा इति कात्या०। एवं दर्शिताः। अंशः अवयवः। तच्छून्ये निरयवे आकाशादौ, परमेश्वरे च।

अनंशुमत्फला = स्त्री न अंशुमत् मोचकाभ्यन्तरस्थत्वात् फलं यस्याः। कदल्याम् जटाधरः।

अनक = पु० अणकवत्। अधमे, कुत्सिते च।

अनक्ष् = त्रि० न अक्ष्णोति व्याप्नोति विषयमिन्द्रियेण अक्ष–क्विप् न० त०। अन्धे चक्षुरिन्द्रियशून्ये। “प्रतिश्रोणः स्था व्यनगचष्टेति” ऋ० २, १५, ७, “पूर्ब्बमन्धः अधुना चक्षुर्लाभात् व्यचष्टेति भा०।

अनक्ष = त्रि० नास्ति अक्षं चक्रंनेत्रादिकमिन्द्रियं वा यस्य ब०। चक्रशून्ये, चक्षुरादीन्द्रियशून्ये च। “अपानक्षासो बधिरा अहासत” इति ऋ० ९, ७३, ६, अनक्षासश्चक्षुर्वर्ज्जिताः इति भा० वेदे सौम्यास इति वत् अनक्षास इति। रूपसिद्धिः।

अनक्षर = न० अप्रशस्तान्यक्षराणि यत्र ब०। सद्गुणस्याक्षेपके दोषोद्घोषकवाक्ये, अवाच्ये निन्दावचने, (गालि) इति प्रमिद्धे दुष्टवचने च। न सन्ति अक्षराणि ज्ञेयत्वेनास्य। अक्षरज्ञानशून्ये मूर्खे त्रि०।

अनक्षि = पु० अप्रशस्तं मन्दमक्षि न० त०। मन्दनेत्रे। ब०। षच्समासान्तः। तत्र अनक्ष इत्येव। तद्वति। स्त्रियां ङीष्।

अनगार = त्रि० नास्ति अगारमस्य। गृहशून्ये। अनिकेतने। प्रव्रजिते, मुन्यादौ च पु०।

अनग्न = त्रि० न नग्नः। अदिगम्बरे आच्छदनवति च “यह्वोनवसना अनग्ना” इति ऋ० ३, १, ६,। “स होवाच किं मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदवति लम्भुको यथा वासो भवत्यनग्नो ह भवतीति छा० उ०। “तस्मात्प्राणस्य वास आपस्तस्माद्वा एतदशिष्यन्तो भोक्ष्यमाणा भुक्तवन्तश्च ब्राह्मणा विद्वांस एतत्कुर्वन्ति। किं अद्भिर्वासस्थानीयाभिः पुरस्ताद्भोजनात्पूर्ब्बमुपरिष्टाच्च भोजनादूर्द्ध्वञ्च परिदधति परिधानं कुर्व्वन्ति मुख्यस्य प्राणस्य लम्भुको लम्मनशीलो वासोभवति। वाससो लब्धैव भवतीत्यर्थः। अनग्नो भवति। वाससो लम्भुकत्वेनार्थसिद्धैवानग्नता इत्यनग्नो ह भवतीत्यु त्तरीयवान् भवतीत्येतत्” इति भाष्यम्।

अनग्नि = पु० नास्ति अग्निः श्रौतः स्मार्त्तो वाऽस्य। श्रोतेन स्मार्त्तेन वा विधिना अनाहिताग्नौ गृहस्थभेदे, सर्व्वथा अग्निशून्ये, प्रव्रजिते च। “अनग्निरनिकेतश्च मुनिर्मूलफलाशन” इनि मनुः। न० त०। अग्निभिन्ने पु०। “अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचिदिति” स्मृतिः। ७ ब०। अग्निचयनरहिते यज्ञे च। “अनग्नावुत्तरवेदिम्, कात्या० २६, ७, ११, “अनग्नौ अग्निरहिते अनग्निचित्ये यज्ञे, उत्तरवेदिं प्रतिगच्छतीति” तद्वाख्या।

अनग्नित्रा = न अग्निं त्रायते रक्षति असम० स०। अग्निरक्षणाकरे पापिष्ठे “अनग्नित्रा अभ्यमन्त कृष्टीः ऋ० १, १८९, ३, “अनग्नित्राः पापिन्यः कृष्टयः प्रजा” इति भा०।

अनग्निदग्ध = त्रि० न अग्निना दग्धः अस० स०। श्मशानकर्म्मणि अग्निसंस्कारहीने “ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिव” इति ऋ० १०, १५ २४, “अनग्निदग्धाः श्मशान- कर्म्म न प्राप्ता” इति भा०। विप्राणां पितृभेदे “अग्निदग्धानग्निदग्धान् काव्यान् वर्हिषदस्तथा अग्निष्वत्तांश्च सौम्यांश्च विप्राणामेव निर्देशेदिति” मनुः। वह्निना अदग्धे च।

अनघ = त्रि० नास्ति अघं पापं दुःखं व्यमनं कालुष्यं वा यस्य। पापशून्ये, दुःखहीने, व्यसनशून्ये, मलशून्ये, स्वच्छे च। विष्णौ पु० “अनघो विजयो जेतेति” वि० सह०। “स आत्माऽपहतपाप्मेत्यादि” श्रुतौ तस्य पापराहित्योक्तेस्तथात्वम्। तत्र दुःखशून्ये, “दयालुमनघस्पृष्टमिति” माघः। दोषरहिते “अगाधस्यानघा गुणा” इत्यमरः। व्यसनरहिते “कच्चित् मृगीनामनघा प्रसूतिः? इति” रघुः।

अनङ्ग = न० नास्ति अङ्गमाकारो यस्य। आकाशे, चित्ते च। कन्दर्पे पु०। अङ्गशून्यमात्रे त्रि०। तत्राकाशस्य निरवयवत्वात्, न्यायवैशेषिकनये चित्तस्याणुत्वेन च निरयवत्वात्तथात्वम्। कामस्य हरनेत्रेण दग्धाङ्गत्वात् अनङ्गत्वम्। तत्कथा च शिवपुराणे “कामोधनुषि संयोज्य पुष्पवाणं तदा मुने! पार्वतीसम्भुखे स्थाणौ मोक्तुकामो व्यवस्थितः। हरस्तु धैर्य्यमालम्बा किमेतदिति चिन्तयन्। ददर्श पृष्ठतः कामं पुष्पवाणधनुर्धरम्। विवृद्धमन्योस्तस्याथ तृतीयनयनान् मुने!। स्फुरन्नुदर्च्चिरग्निस्तु पपात मदनोपरि। क्रोधं संहर हे देव! इति यावत् वदन्ति खे। इन्द्रादिसकला देवास्तावद्भस्मीचकार तम्” इति।। “त्वमनङ्गः कथमक्षता रतिरिति” “तनुतां दुःखमनङ्ग! मोक्ष्यतीति” च कुमा०। अङ्गमुपकरणं न० त०। अङ्गभिन्ने। न० ब०। तच्छून्ये त्रि०।

अनङ्गक्रीडा = स्त्री अनङ्गेन क्रीडा। कामहेतुकक्रीडायाम्। “अष्टावर्द्धे गा द्व्यभ्यस्ता यस्याः सानङ्गक्रीडेत्युक्तेति” (वृत्त०) उक्ते मात्रावृत्तभेदे च।

अनङ्गलेख = पु० अनङ्गस्य तद्व्यञ्जको लेखः। कामव्यञ्जकलेखे। “अनङ्गलेखक्रिययोपयोगमिति” कुमा०।

अनङ्गशेखर = पु० क्रमेण लघुगुरुनिवेशवति दण्डकभेदे, छन्दोविशेषे। यथा “लघुर्गुरुः क्रमेण यत्र बध्यते सुधीभिरिच्छया स दण्डकस्त्वनङ्गशेखरः स्मृतः” इति छन्दो०।

अनङ्गासुहृत् = पु० ६ त०। शिवे तस्य तद्देहभस्मीकरणात्तत्त्वम्।

अनच्छ = त्रि० न अच्छः निर्मलः न० त०। कलुषे, अप्रसन्ने च।

अनञ्जन = न० न अज्यते लिप्यते अन्ज–कर्मणि ल्युट् न० त०। निःसबन्धे, आकाशे, परब्रह्मणि च। “निरञ्जनं साम्यमुपति दिव्यमिति” श्रुत्या तस्य सम्बन्धराहित्योक्तेस्तथात्वम्। अञ्जनं दोषस्तद्रहिते नारायणे पु०। तथाभूतवन्तुमात्रे त्रि०। कज्जलशून्ये त्रि०। “नेत्रे दूरमनञ्जने पुलकितेति” सा० द०।

अनडुज्जिह्वा = स्त्री अनडुहोजिह्वेव। गोजिह्वायाम् (अनन्तमूल)। तस्या गोजिह्वाकृतिपत्रत्वात्तथात्वम्।

अनडुह् = पु० अनः शकटं वहतीति नि०। (एडे) इति प्रसिद्धे गवि। स्त्रियां गवि ङीपि अनडुही, अनड्वाहीति च। ऋश्यादि० क। अनुडुत्कः अनडुदासन्नदेशादौ त्रि०। ऋषिभेदे। तद्गोत्रापत्ये गर्गा० यञ्। आनुडुह्यः तदपत्ये पु० स्त्री।

अनणु = पु० न अणुः। स्थूलधान्ये “अनणुषु दशमांशोऽणुष्वथैकादशांशः” लीला०। अणुभिन्ने स्थूले त्रि० स्त्रियां ङीप्।

अनतिक्रम = न० न० त०। अतिक्रमाभावे।

अनतिक्रमणीय = त्रि० न० त०। अतिक्रमणीयभिन्ने अनुल्लङ्घनीये।

अनतिद्भुत = त्रि० सर्व्वाणि अतिक्रम्य न भवति अति–भू–डुतच् न० त० पृ०। सर्वातिक्रमेणाभूते यथार्थभूते। “ब्रह्मा त इन्द्र! गिर्वणः क्रियन्ते अनतिद्भुता” इति ऋ० ८, ९१, ३, अनतिद्भुता सर्वानतिक्रम्य न भवन्ति इन्द्रगुणव्यापकानि यथार्थभूतानीति” भा०।

अनतिप्रश्न्य = त्रि० अतिप्रश्नमर्हति यत् न० त०। अतिप्रश्नानर्हे वस्तुनि। “सहीवाच गार्गि! मातिप्राक्षीः मा ते मूर्द्धा व्यपप्तदनतिप्रश्न्यां वै देवतामतिपृच्छसीति” वृ० उ०

अनतिरिक्त = त्रि० न०। अधिके। “न्यायोक्ते स्वानधिकरणवृत्तिभिन्ने च “अनतिरिक्तवृत्तित्वमवच्छेदकत्वमिति” गदा०।

अनतिविलम्बिता = स्त्री न अतिविलम्बिता अभावार्थे न० त०। अतिविलम्बाभावे वाग्गुणभेदे च। वाग्गुणाश्च हेमचन्द्रे दर्शिताः यथा “संस्कारवत्त्वमौदार्य्यमुपचार परीतता। मेघगाम्भीय्यनिर्घोषप्रतिनादविधायिता दक्षिणत्वमुपनीतरागत्वं च महार्थता। अव्याहतत्वं श्लिष्टत्वं संशयानामसम्भवः। निराकृतान्योत्तरत्वं हृदयङ्गमिताऽपि च। मिथः साकाङ्क्षता प्रस्तावौचित्यं तत्त्वनिष्ठता। अप्रकीर्णप्रसृतत्वमसंश्लाघ्यान्यनिन्दिता। आभिजात्यमतिस्निग्धमधुरत्वं प्रशस्यता। अमर्मवेधि तौदार्य्यं धर्म्मार्थप्रतिविद्धता। कारकाद्यविपर्य्यासोविभ्रमादिवियुक्तता चित्रकृत्त्वमद्भुतत्वं तथानतिविलम्बिता अनेकजातिवैचित्र्यमारोपितविशेषता। सत्वप्रधानता वर्णपदवाक्यविविक्तता। अव्युत्थितिरखेदित्वम्पञ्चत्रिशच्च वाग्गुणाः” इति।

अनद्धा = अव्य० न अद्धा। अनिश्चवे “अनद्धा वैतद्यदि- माल्लोकानतीति” वेदः। नह–क्त न० त०। अपरिबद्धे त्रि०।

अनद्धापुरुष = न अद्धा स्वकार्य्ये निश्चयो यस्य तादृशः पुरुषः। देवपितृकार्य्यविमुखे। “अनद्धापुरुषमीक्षते” इति का० १६, ३, १३, “अनद्वापुरुषं देवपितृकार्य्ये विमुखमध्यर्युमिति” वेददीपः।

अनद्य = पु० न अद्यं भक्ष्यम् अप्राशस्त्ये न० त०। गौरशर्षपे राजनिघ०। भक्ष्यभिन्ने त्रि०।

अनद्यतन = पु० न अद्यतनः। अद्यतनभिन्ने भूते भविष्यति च काले “अनद्यतने लङि” ति “अनद्यतने लुङिति” च पा०। अनद्यतने भूते लङ अपचत्, अनद्यतने भविष्यति लुट् पक्तेति “परोक्षानद्यतने लिडिति” पा० पपाच। तत्कालवृत्तौ त्रि०। अद्यतनश्च “अतीतायारात्रेः पश्चार्द्धेन, आगामिन्याः रात्रेः पूर्ब्बार्द्धेन सहितोदिवसोऽद्यतन” इति सि० कौ० तद्भिन्नः कालः।

अनधिकार = पु० न अधिकारः अभावार्थे न० त०। अधिकाराभावे। ब०। अधिकारशून्ये।

अनधिकारचर्चा = स्त्री अनधिकारस्य चर्च्चा चिन्ता। यत्र यस्याधिकारो नास्ति तस्य तद्विषये चिन्तायाम्।

अनधिकारिन् = त्रि० न अधिकारी। अधिकारिभिन्ने।

अनधिकृत = त्रि० न अधिकृतः। अधिकृतभिन्ने।

अनधिगत = त्रि० न० त०। गतभिन्ने, प्राप्तभिन्ने, ज्ञातभिन्ने च अनधिगताबाधितार्थज्ञानत्वेन प्रमाणतमिति वे० प०।

अनधिष्ठित = त्रि० न अधिष्ठितः। अधिष्ठितभिन्ने।

अनधीन = त्रि० न अधीनः परस्य। स्वाधीने। संज्ञायाम् कन्। औटतक्षे। स हि कुट्यां वसन् न कस्यचित् अधीनः।

अनध्यक्ष = न० अध्यक्षम् अभावे न० त०। प्रत्यक्षाभावे “मनोऽपि न तथा ज्ञानाद्यनध्यक्षं तदा भवेत्” इति भाषा० द्रव्यवत्यक्षं प्रति आश्रयमहत्त्वस्य कारणत्वेन मनसश्च “अयौगपद्याज्ज्ञानानां तस्याणुत्वमिहेष्यते इत्युक्तेः अणुत्वेन ज्ञानादिप्रकारकं अहम्जानामोत्याद्याकारं ज्ञानं प्रत्यक्षं न स्यात् ज्ञानाश्रयत्वेन अभिमतस्य मनसो महत्त्वाभावादिति तदाशयः। ब०। अध्यक्षरहिते त्रि०।

अनध्याय = पु० अध्यायोऽध्ययनमभावार्थे न० त०। अध्ययनाभावे। न अधीयतेऽस्मिन् काले इति अधिकरणे घञ्। अध्ययनाय निषिद्धे “चातुर्मास्यद्वितीयादौ स्मृतिषूक्तानध्यायकाले “अष्टकासु च संक्रान्तौ शयने बोधने हरेः। अनध्यायं प्रकुर्व्वी” तेत्यादुक्ते काले, “निर्घाते भूमिचलने” इत्याद्याकालिकानध्यायकाले च। अनध्यायकालाश्च स्मृतौ दर्शिताः यथा “प्रेकोचचा द्वितीयास्ताः प्रेतपक्षे गते तु या। या तु कोजागरे याते चैत्रावल्याः परेऽपि या। चातुर्मास्ये समाप्ते च द्वितीया या भवेत्तिथिः। परास्वेतास्वनध्यायः पुराणैः परिकार्त्तित” इति राजमार्त्तण्डः। “चैत्रकृष्णद्दितीयायां तिसृष्वेवाष्टकासु च मार्गे च फाल्गुने चैव आषाढे कार्त्तिके तथा। पक्षयोर्माघमासस्य द्वितीयां परिवर्ज्जयेदिति” भुजबलः। “मन्वादौ च युगादौ च शिष्यान्नाध्यापयेद्बुधः”। निर्णयामृते “रात्रौ यामद्वयादर्व्वाक् सप्तमी च त्रयोदशी। प्रदोषः स तु विज्ञेयो वेदाध्ययनगर्हितः।। रात्रौ नवसु नाडीषु चतुर्थी यदि दृश्यते। प्रदोषः स तु विज्ञेयोवेदाध्ययनगर्हित” इति।। निर्णयसिन्धौ प्रजापतिः। “षष्ठी च द्वादशी चैव अर्द्धरात्रोननाडिका। प्रदोषे त्वनधीयीत तृतीया नवनाडिका”।। वृद्धगर्गः। “स्मृतिषूक्ताननध्यायान् सप्तमीञ्च त्रयोदशीम्। पक्षयोर्माघमासस्य द्वितोयां परिवर्जयेत्” इति। अनध्यायास्तु द्विविधा नित्या नैमित्तिकाश्चेति तत्र नित्याः। “आषाढेफाल्गुने ज्येष्ठे या द्वितीषा विधुक्षये। चातुर्मास्यद्वितीयास्ताः प्रवदन्ति महर्षयः”।। गर्गोऽपि।। “कृष्णपक्षे द्वितीयायां फाल्गुनाषाढकार्त्तिके। शुक्लाश्वयुग्द्वितीयायां नैवाध्ययनमाचरेत्” इति।। “एतायुगादयः प्रोक्ताः स्वाध्यायं वर्जयेद्बुध” इति उश०। गौतमः। “चातुर्मास्यद्वितीयासु, मन्वादिषु युगादिषु। अष्टकासु च संक्रान्तौ शयने बोधने हरेः। अनध्यायं प्रकुर्वीत तथा सोपपदासु चेति”। सोपपदास्तु। “सिता ज्यैष्ठे द्वितीया च आश्विने दशमी तथा। चतुर्थी द्वादशी माधे एताः सोपपदाः स्मृता इति” गर्गोक्ताः। वृहन्मनुः “पक्षद्वये चतुर्दश्योरष्टमीद्वितीये तथा। पक्षादावपि पक्षान्ते ब्रह्म नाधीयते नरैः।। अष्टमी हन्त्युपाध्यायं शिष्यं हन्ति चतुर्द्दशी। अमावस्योभयं हन्ति प्रतिपत् पाठमात्रत” इति। मनुः नैमित्तिकानध्यायानाह स्म। “सन्ध्यागर्जितनिर्घातभूकम्पोल्कानिपातने। व्रतबन्धं न कुर्व्वीत” इति।। तथापस्तम्बः।। “उल्कायामग्न्युत्पाते च सर्वासां विद्यानामाकालिकमिति”।। स्मृत्यन्तरे।। “विद्युद्गर्जितवृष्टीनां सन्निपातोयदा भवेत्। अनध्यायं प्रकुर्व्वीतेत्यादि”। “व्रतेऽह्नि पूर्बसन्ध्यायां वारिदो यदि गर्ज्जति। तद्दिनं स्यादनध्यायं व्रतं तत्र विवर्जयेत्।। “सायं सन्ध्यास्तनिते, प्रातःसन्ध्यास्तनिते अहोरात्रौ, विद्युत्यपररात्रावधि विद्युति, नक्तञ्चापररात्रादिति गौत०। स्मृतिरत्नावल्याम् “कालवृष्टौ च तत्कालमकाले च त्रिरात्रकम्। अतिमात्राथवा वृष्टिर्नाधीयीत दिनत्रयम्। अनुराधर्क्षमारभ्य षोडशर्क्षेषु भास्करः। यावच्चरति चैतावदकालं मुनयो विदुः।। तथा च वराहः। मार्गान्मासात् प्रभृति मुनयोव्यासवाल्मीकिगर्गाश्चैत्रं यावत् प्रवर्षणविधौ नेतिकालं वदन्ति। नाडीजङ्घः सुरगुरुमुनिः प्राह वृष्टेरकालौ मासावेतावशुभफलदौ पौषमाघौ न शेषाः”। तत्राकालवृष्टौ पशुमर्त्यचरणाङ्कितायामेव दोषोनान्यथा उक्तञ्च मुहूर्त्तचिन्तामणौ “यदि मास्सु चतुर्षु पौषमासादिषु भवेदकालवृष्टिः। पशुमर्त्यचरणाङ्कितायां यावद्वसुधा नहि तावददोष” इति। तत्र दिनसंख्याप्युक्ता तत्रैव। एकैनैकमहः प्रोक्तं द्वितीयेन त्रिरात्रकम्। तृतीयेन तु सप्ताहं दशरात्रमतः परमिति, पौषे दिनत्रयं वर्ज्यं माघे चैव दिनद्वयम्। फाग्लुने दिनमेकन्तु चैत्रेतु घटिकाद्वय” मित्यावश्यककार्य्यविषयम्। “अनध्यायस्य पूर्ब्बेद्युस्तस्य चैवापरेऽहनि। व्रतबन्धं विसर्गञ्च विद्यारम्भं न कारयेत्, इति नैमित्तिकानध्यायः। मनुरपि नित्याद्यनध्यायमाह स्म। “इमान्नित्यानध्यायानधीयानो विवर्जयेत्। अध्यापनञ्च कुर्व्वाणः शिष्याणां विधिपूर्ब्बकम्।। कर्णश्रवेऽनिले रात्रौ दिवा पांशुसमूहने। एतौ वर्षास्वनध्यायावध्ययज्ञाः प्रचक्षते। विद्युत्स्तनितवर्षेषु महोल्कानाञ्च संप्लवे। आकालिकमनध्यायमेतेषु मनुरब्रवीत्। एतांस्त्वभ्युदितान् विद्यात् यदा प्रादुष्कृताग्निषु। तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने। निर्घाते भूमिचलने ज्योतिषाञ्चोपसर्जने। एतानाकालिकान् विद्यादनध्यायानृतावपि। प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिस्वने। सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा। नित्यानध्यायएव स्याद्ग्रामेषु नगरेषु च। धर्म्मनैपुण्यकामानां पूतिगन्धे च सर्व्वदा। अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ। अनध्यायो रुद्यमाने समवाये जनस्य च। उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने। उच्छिष्टः श्राद्धभुक् चैव मनसापि न चिन्तयेत्। प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम्। त्र्यहं न कीर्त्तयेद्ब्रह्म राज्ञो राहोश्च सूतके। यावदेकानुद्दिष्टस्य गन्धो लेपश्च तिष्ठति। विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्त्तयेत्। शयानः प्रौढपादश्च कृत्वा चैवावशक्थिकाम्। नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च। नीहारे वाणशब्दे च सन्ध्ययोरेव चोभयोः। अमावास्याचतुर्द्दश्योः पौर्णमास्यष्टकासु च। अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्द्दशी। ब्रह्माष्टका- पौर्णमास्यौ तस्मात्ताः परिवर्जयेत्। पांशुवर्षे दिशां दाहे गोमायुविरुते तथा। श्वखरोष्ट्रे च रुवति पङ्क्तौ च न पठेद् द्विजः। नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजेऽपि वा। वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च। प्राणि वा यदि वा प्राणि यत्किञ्चिच्छ्राद्धिकं भवेत्। तदालभ्याप्यनध्यायः पाण्यास्यो हि द्विजः स्मृतः। चौरैरुपप्लुते ग्रामे संभ्रमे चाग्निकारिते। आकालिकमनध्यायं विद्यात् सर्वाद्भुतेषु च। उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम्। अष्टकासु त्वहोरात्रमृत्वन्तासु च रात्रिषु। नाधीयीताश्वमारूढो न वृक्षं, न च हस्तिनम्। न नावं, न खरं, नोष्ट्रं, नेरिणस्थो, न यानगः। न विवादे, न कलहे, न सेनायां, न सङ्गरे। न भुक्तमात्रे, नाजीर्णे, न वमित्वा, न सूक्तके। अतिथिञ्चाननुज्ञाप्य, मारुते वात वा भृशम्। रुधिरे च स्रुते गात्राच्छस्त्रेण च परिक्षते। सामध्वनावृग्यजुषी नाधीयीत कदाचन। वेदस्याधीत्य वाप्यन्तमारण्यकमधीत्य च” इति। याज्ञवल्क्यस्तु। “त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु। उपाकर्मणि, चोत्सर्गे, स्वशाखश्रोत्रिये मृते। सन्ध्यागर्जितनिर्घात भूकम्पोल्कानिपातने। समाप्य वेदं द्युनिशमारण्यकमधीत्य च। पञ्चदश्यां चतुर्द्दश्यामष्टम्यां राहुसूतके। ऋतुसन्धिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च। पशुमण्डूकनकुलमार्जारश्वाहिमूषिकैः। कृतेऽन्तरे त्वहोरात्रं, शक्रपाते, तथोच्छ्रये। श्वक्रोष्टुगर्द्दभोलूकसामवाणार्त्तनिस्वने। अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके। देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे। भुक्त्वार्द्रपाणिरम्भोऽन्तरर्द्धरात्रेऽतिमारुते। पांशुवर्षे दिशां दाहे सन्ध्यानीहारभीतिषु। धावतः पूतिगन्धे च शिष्टे च गृहमागते। खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे। सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान् विदुः” इति। वशिष्ठः। “तस्यानध्यायाः सन्ध्यास्तमिते स्युस्तत्र शवे दिवाकोर्त्तौ नगरेषु काम गोमयपर्य्युषिते परिलिखिते वा श्मशानान्ते शयानसा श्राद्धिकस्य। मानवञ्चात्र श्लोकमुदाहरन्ति। फलाग्वापस्तिलान् भक्ष्यमथान्यच्छ्राद्धिकं भवेत्। प्रतिगृह्याप्यनध्यायः पाण्यास्या, ब्राह्मणाः स्मृता इति।। धावतः पूतिगन्धिप्रसृतेरिणवृक्षमारूढस्य, नावि, सेनायाञ्च, भुक्त्वा चार्द्धघ्राणे, वाणशब्दे, चतुर्द्दश्याममावास्यायामष्टम्यामष्टकासु प्रसारितपादोपस्थस्योपाश्रितस्य गुरुसमीपे मिथुनव्यपेतायां वाससा मिथुनव्यपेतेनानिर्मुक्ते न ग्रामान्ते- छर्दितस्य, मूत्रितस्योच्चरितस्य, यजुषाञ्च सायंशब्दे, वाजीर्णे निर्घातभूमौ च न चन्द्रसूर्य्योपरागेषु, दिङ्नादपर्वतनादकम्प्रयातेषूपलरुधिरपांशुवर्षेष्वाकालिकम्। उल्काविद्युत्सज्योतिपमपर्त्त्वाकालिकं वा। आचार्य्ये च प्रेते त्रिरात्रर्माचार्य्यपुत्रशिष्यभार्य्यास्वहोरात्रम्। ऋत्विग्योनिसम्बन्धेषु च” इति। शङ्ख्योऽप्याह। अनव्यायेष्वव्ययनं वर्जयेच्च प्रयत्नतः। चतुर्दशीं पञ्चदशीमष्टमीं राहुसूतकम्। उल्कापातं महीकम्पमशौचं ग्रामविप्लवम्। इन्द्रप्रयागं सुरतं घनसंघातनिस्वनम्। वाद्यकोलाहलं युद्धमनध्यायं विवर्जयेत्। नाधीयीताभियुक्तोऽपि प्रयत्नान्न च वेगत” इति। “यद्दिनमहः क्रियते तद्दिनमनध्याय” इत्युक्तेः देवोत्सवादिदिनेऽपि अनध्याय इति केचित् तेन सारस्वतोत्सवेश्रीपञ्चमीदिवसे रथयात्रोसवादौ चानध्यायः। “महानवम्यां द्वादश्यां भरण्यामपि पर्वसु। तथाक्षयतृतीयायां शिष्यान्नाध्यापयेद्बुधः। माघमासे तु सप्तम्यां रथाख्यायाञ्च वर्जयेदिति” हारीतः। एवं नानास्मृत्युक्तेष्वेषु च येन सर्वसंग्रहस्तथाचरणीयम्।

अनन = न० अन–भावे ल्युट्। जीवने, गतौ च “प्रागननवान् प्राण” इत्यादि वे० सा०।

अननुगत = त्रि० न अनुगतः। अनुगतभिन्ने अनुगतश्च तुल्याकारप्रतीतिप्रयोजको धर्मभेदः यथा षट इति वुद्धौ घटत्वम् एवं पटत्वम् तस्य सर्वत्र एकरूपेण प्रतीयमानत्वात्। अननुगतञ्च तत्तद्यक्तित्वादिकं तस्य सर्वत्र प्रतीत्यभावात्। अपश्चाद्गते, अनधीने च।

अननुगम = पु० न अनुगमः अभावार्थे न० त०। अनुगमाभावे अनुगमश्च तुल्यप्रतीतिप्रयोजकधर्म्मानुसरणम् एतस्य न्यायादिदर्शनेषु भूरिप्रयोगः।

अनन्त = पु० नास्ति अन्तः गुणानां यस्य ब०। “गन्धर्वाप्सरसः सिद्धाः किन्नरोरगचारणाः। नान्तं गुणानां जानन्ति तेनानन्तोऽयमुच्यते” इत्युक्तलक्षणे विष्णौ, अनन्त! “संसारमहासमुद्रे मग्नान् समभ्युद्धर वासुदेव!” इति भविष्यपुरा०। “विष्णुर्वीरोऽनन्त” इति विष्णुस०। मेघे। बहुशीर्ष कत्वादपरिच्छिन्ने शेषनागे, तदवतारे बलभद्रे च। अन्तः परिच्छेदः देशतः कालतः वस्तुतश्च नास्ति यस्य। तस्मिन् परब्रह्मणि न० “सत्यं ज्ञानमनन्तं ब्रह्मेति” श्रुतिः। “न व्यापित्वाद्देशतोऽन्तो नित्यत्वान्नापि कालतः। न वस्तुतोऽपि सर्वात्म्यादानन्त्यं ब्रह्मणि त्रिधा। देशकालान्यवस्तूनां कल्पितत्वाच्च मायया। न देशादिकृतोऽन्तीऽस्ति ब्रह्मानन्तं ततः स्फुटमिति” पञ्चदशी। आकाशे च। बहुविस्तारवति सिन्दुवारवृक्षे पु०। अवधिशून्ये, इयत्ताशून्ये वस्तुमात्रे, सकले च त्रि० “अनन्तरत्नप्रभवस्य यस्येति” कुमा०। जिनभेदे पु०।

अनन्तचतुर्द्दशी = स्त्री अनन्तस्य विष्णोराधानार्था चतुर्दशी। भाद्रपदशुक्लचतुर्दश्याम्।

अनन्तजित् = अनन्तानि भूतानि जितवान् जि–क्विप्। सर्वभूतजयिनि वासुदेवे। “सहस्रजिदनन्तजिदिति” विष्णुसह०। अनन्तान् चित्तदोषान् जयति। जिनदेवभेदे पु०।

अनन्ततीर्थक्लत् = पु० अनन्तानि अनेकानि तीर्थानि शास्त्राणि करोति कृ–क्विप्। जैनभेदे। बहुतीर्थगन्तरि त्रि०।

अनन्ततृतीया = स्त्री “नभस्ये वाथ वैशाखे मार्गशीर्षेऽथवा पुनः। शुक्लपक्षतृतीयाया” मित्युपक्रम्य पद्मपुराणे तत्तदन्यतमतिथिषुव्रतविशेषमभिधाय “उक्तानन्ततृतीयैषा सुतानन्दफलप्रदा” इत्यनेन परिभाषितायां भाद्रमार्गवैशाखान्यतममासीयशुक्लतृतीतायाम् हेमा० व्रत०।

अनन्तदृष्टि = पु० अनन्ता दृष्टयो नेत्राणि यस्य। इन्द्रे परमेश्वरे च।

अनन्तदेव = पु० अनन्तो देव इव। शेषनागे, अनन्ते शेषनागे दीव्यति दिव–अच्। शेषशायिनि नारायणे।

अनन्तमूल = पु० अनन्तानि मूलान्यस्य। स्वनामख्याते मूलप्रधाने वृक्षभेदे।

अनन्तर = त्रि० नास्ति अन्तरं व्यवधानं यत्र। अव्यवहिते, व्यवधानञ्च द्विविधं दैशिकं कालिकञ्च। तत्र दैशिके “विषयानन्तरो राजा शत्रु” रित्यमरः। “एष ब्रह्मर्षिदेशो वै आर्य्यावर्त्तादनन्तर” इति मनुः। कालिके। “तदिद क्रियतामनन्तरं भवता बन्धजनप्रयोजनमिति” कुमा०। “पितुरनन्तरमुत्तरकोशलामिति” रघुः। कालिकमपि द्विविधं पूर्ब्बापरकालकृतव्यवधानभेदात् उत्तरकालकृतमुक्तोदारणे “अनन्तरोदीरितलक्ष्मभाजावित्यत्र” पूर्ब्बकालावधिकृतम्। मध्यशून्ये, अवकाशशून्ये, अवधिशून्ये च। “तदेतद्ब्रह्मापूर्ब्बमनपरमनन्तरमवाह्यमिति” स यथा “सैन्धवघनोऽनन्तरोऽवाह्य” इति च वृ० उ०। अव्यवहितकाले। “पुराणपत्रापगमादनन्तरं–लतेव सन्नद्धमनोज्ञपल्लवा” इति रघुः। तत्र व्याप्तौ द्वितीया। तत्कालवृत्तिसंनहनक्रियाविशेषणतया क्लीवत्वादि। एवमन्यत्र एवञ्च एतस्य क्लीवोक्तिरर्वाचीनानां प्रामादिकी। एतेन अनन्तरस्याभावः अभा वार्थेऽव्ययीभाव इत्याशयेन मान्तत्वकल्पनमपि तत्तदुदाहरणेषु अनन्वयादुपेक्ष्यमेव। उक्तोदाहरणेषु “अथास्य गोदानविधेरनन्तरमिति” “अनन्तरं भर्त्तुरुपस्थितोदयेति” च रघौ “योगाच्छान्तिरनन्तरमित्यादौ” च व्यवधानाभावार्थकत्वे समभिव्याहृतपदार्थानां हि नान्वयः तस्य देशकालादिबोधकत्वाभावेन व्याप्त्यर्थे द्वितीयाया अप्यस म्भवः। अतः बहुव्रीहिबलात् कालबोधकतया उक्तोदाहरणादिषु व्याप्त्यर्थे द्वितीयेति बोध्यम्। न० त०। अन्तरभिन्ने त्रि० तस्य अपुरि सर्व्वनामता। अनन्तरे भवः गहा० छ। अनन्तरीयः अविलम्बभवे त्रि०।

अनन्तरज = पु० स्त्री अनन्तरस्याः अनन्तरवर्णायाः जायते जन–ड पुंवद्भावः। क्रमोढाजे पुत्रादौ। अनन्तरं जातः। ज्येष्ठे कनिष्ठे च भ्रातरि। तथाभूतभगिन्यां स्त्री।

अनन्तरय = पु० अन्तरयति दूरीकरोति अन्तर + कृत्यर्थे णि भावे अच् अन्तरयः दूरीकरणम् अभावार्थे न० त०। अपरित्यागे। “यदुक्थो यज्ञक्रतोरनन्तरयायेति” ऋ० ४, १, ६, “अनन्तरयाय अपरित्यागायेति” भा०।

अनन्तराय = त्रि० नास्ति अन्तरायः प्रतिबन्धको यस्य। निष्प्रतिबन्धके निर्विघ्ने “ताएतानवानन्तरायमन्वाहेति” वृ० उ०।

अनन्तराशि = पु० अनन्तस्य आकाशरूपशून्यस्य राशिः। वीजगणितोक्ते शून्यभागहाराद्यर्थं परिकल्पिते राशौ।

अनन्तरूप = पु० अनन्तानि रूपाण्यस्य। परमेश्वरे विष्णौ “अनन्तरूपोऽनन्तश्रीरिति” वि० स०। “इन्द्रोमाथाभिपुरुरूपईयत” इति श्रुत्या तस्य बहुरूप्रत्वप्रतिपादनात्तत्त्वम्।

अनन्तर्गभिन् = अन्तर्गर्भोऽस्य अस्त्यर्थे इनि न० त०। अन्तर्गर्भशून्ये पवित्रार्थे कुशे। “अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव चेति” आ० तत्त्वे छन्दो० प०। अनन्तर्गर्भिणमन्तर्गर्भशून्य” मिति रघुनन्दनः।

अनन्तविजय = पु० अनन्तान् विजयतेऽनेन ध्वनिद्वारा। युधिष्ठिरशङ्खे “अनन्तविजयं नाम कुन्तीपुत्त्रोयुधिष्ठिरः” इति गीता।

अनन्तवीर्य्य = पु०। ब०। जैनभेदे।

अनन्तव्रत = न० अनन्तस्य व्रतमुपासनार्थम् ६ त०। भाद्रशुक्लचतुर्द्दश्यां कर्त्तव्ये स्वनामख्याते व्रते। “अनन्तव्रतमेतद्धि सर्वपापहरं शुभम्” इत्युपक्रम्य “तथा शुक्लचतुर्द्दश्यां मासि भाद्रपदे भवेदिति” भवि० पुरा०।

अनन्तशक्ति = पु० अनन्ता अपरिच्छेदा शक्तिरस्य। परमेश्वरे “परास्य शक्तिर्विविधैव श्रूयते” इति श्रुतौ तस्य बहुशक्तिश्रवणात् तथात्वम्।

अनन्तशीर्षा = स्त्री अनन्तानि बहूनि शीर्षाणि यस्याः। वासुकिपत्न्याम्। वासुको परमेश्वरे च पु० “सहस्रशोर्षा पुरुष” इति श्रुत्या तस्य बहुशीर्षत्वोक्तेस्तथात्वम्।

अनन्तश्री = पु० अनन्ता अपरिमिता श्रीः परा शक्तिरस्य। परमेश्वरे “परास्य शक्तिर्विविधैव श्रूयते इति” श्रुत्या तस्य बहुशक्तिप्रतिपादनात्तथात्वम्।

अनन्ता = स्त्री नास्ति अन्तोऽस्याः ब०। विशल्यायामोषधौ (अनन्तमूल) इति ख्याते मूलभेदे, पावत्याम्, पृथिव्याम्, दुरालभायां, दूर्वायां, हरितक्यां, आमलक्याम्, गुडूच्याम्, अग्निमन्थवृक्षे, अग्निशिखावृक्षे, श्यामलतायाम्, पिपपल्यां, नीलदूर्वायाम्, श्वेतदूर्वायां, शारिवोषधौ च।

अनन्त्य = न० अनन्तस्येदम् यत्। हिरण्यगर्भपदे।

अनन्द = त्रि० न नन्दयति नन्द–णिच्–अच् न० त०। आनन्दयितृभिन्ने “अनन्दा, नाम ते लोका इति कठ० व०।

अनन्न = न० न० त०। अदनीयभिन्ने। “न किञ्चिदनन्नं भवति आ श्वभ्यः आ शकुनिभ्य” इति छा० उ०।

अनन्य = त्रि० न अन्यः सर्वना०। अन्यभिन्ने स्वम्मिन् “अनन्यरतिरासीन” इति मनुः अनन्यस्मिन् स्वस्मिन् रतिरनुरागोऽस्येति तदर्थः। नास्ति अन्यो यस्य उपास्यत्वेन विषयत्वेन वा। अन्यासेवके “अनन्याश्चिन्तयन्तोमामिति” अनन्यविषये च। “पुरुषः स परः पार्थ! भक्त्या लभ्यस्त्वनन्ययेति” च गीता। अस्य नञ उत्तरत्र पदान्तरसत्त्वे असमर्थसमासाश्रयणात् तदर्थेनैवान्वयः। यथा “अनन्यदृष्टिः सवितारमैक्षतेत्यादौ” अन्यत्र दृष्ट्यभावस्य, अनन्यचेता इत्यादौ अन्यत्र चेतोऽभावस्य, अनन्यकाम इत्यादौ अन्यत्र कामाभावस्य च बोधनमेवमन्यत्र।

अनन्यगतिक = त्रि० नास्ति अन्या गतिरस्य कप्। अन्योपायरहिते तन्मात्राश्रये च। “अतन्यगतिके जने विगतपातके चातके” इत्युद्भटः।

अनन्यज = पु० नास्ति अन्यद्यस्मात् सर्व्ववस्तुभेदानां तदात्मकत्वात् अनन्यो विष्णुः तस्मात् जायते जन–ड ५ त०। कामदेवे। तस्य कृष्णात् रुक्मिण्यां जन्मेति भाग० १० मस्क० “तस्याञ्च तादृशीमवस्थां गतायां जनस्यानन्यजेनेति” दशकु०।

अनन्यदेव = पु० न अन्यद्यस्मात् सर्व्वात्मकत्वात् तादृशोदेवः। परमेश्वरे विष्णौ “सर्व्वदेवमयोहरिरित्युक्तेस्तथात्वम्।

अनन्यपूर्व्वा = स्त्री न अन्यः पूर्ब्बो यस्याः सा अन्यपूर्ब्बा न भवति। अन्याभुक्तायां स्त्रियाम् “मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः। तथाप्यनन्यपूर्ब्बैव तस्मिन्नासीद्वसुन्धरेति” रघुः।

अनन्यभाज् = त्रि० न अन्यम् अन्यां वा भजते भज–ण्वि अस० स० पुंवद्भावः। अन्यस्यान्यस्या वा सेवनाकारिणि। “भजते मामनन्यभागिति” गीताः “अनन्यभाजं पतिमाप्नुहीति” कुमा०।

अनन्यवृत्ति = त्रि० न अन्या विभिन्ना एकरूपा वृत्तिर्मनोवृत्तिरस्य। एकतानचित्ते। न अन्या वृत्तिर्जीवनोपायोऽस्य। एकमात्रजीवने त्रि०।

अनन्यसाधारण = त्रि० न अन्यस्यान्यधर्म्मस्य साधारणः सदृशः। अन्यधर्म्मासदृशे “अनन्यसाधारणमेव कर्म्मेति” कुमा०।

अनन्वय = त्रि नास्ति अन्वयो यत्र ब०। अन्वयशून्ये। शाब्दबोधे परस्परं संसर्गशून्ये अन्वयश्चान्वयशब्दे वक्ष्यते अर्थालङ्कारभेदे पु०। तल्लक्षणं यथा “उपमानोपमेयत्वे एकस्यैव त्वनन्वय” इति सा० द०। “राजीवमिव राजीवं जलं जलमिवाजनी” त्यादौ च अनन्वयात् तदलङ्कारत्वं तथा हि उपमानोपमेयभावे सादृश्यज्ञानावाश्यकत्वेन तस्य बोधने नियते तद्भिन्नत्वे सति तद्गतभूयोधर्म्मवत्त्व रूपसादृश्यस्य भेदगर्भिततया स्वप्रतियोगिकभेदस्य स्वस्मिन्नसम्भवेनापाततोऽनन्वय एव तात्पर्य्येण तु इतरसादृश्याभावपरत्वलक्षणयान्वयस्तथा च राजीवं राजीवेतरासदृशमिति बोधात्तस्योत्कर्षो व्यज्यते। एवं “रामरावणयोर्युद्धं रामरावणयोरिवे” त्यत्रापि।

***